॥ सिद्धगीता ॥

अस्त्यस्तमितसर्वापदुद्यत्सम्पदुदारधीः । विदेहानां महीपालो जनको नाम वीर्यवान् ॥ १॥ कल्पवृक्षोऽर्थिसार्थानां मित्रालानां दिवाकरः । माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः ॥ २॥ द्विजकैरवशीतांशुर्द्विषत्तिमिरभास्करः । सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः ॥ ३॥ प्रफुल्लबाललतिके मञ्जरीपुञ्जपिञ्जिरे । स कदाचिन्मधौ मत्ते कोकिलालापलासिनि ॥ ४॥ ययौ कुसुमिताभोगं सुविलासलताङ्गनम् । लीलयोपवनं कान्तं नन्दनं वासवो यथा ॥ ५॥ तस्मिन्वरवने हृद्ये केसरोद्दाममारुते । दूरस्थानुचरः सानुकुञ्जेषु विचचार ह ॥ ६॥ अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके । सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः ॥ ७॥ विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् । इमाः कमलपत्राक्ष गीता गीतात्मभावनाः ॥ ८॥ सिद्धा ऊचुः । द्रष्टुदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः । यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे ॥ ९॥ अन्ये ऊचुः । द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं समुपास्महे ॥ १०॥ अन्ये ऊचुः । द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः । प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे ॥ ११॥ अन्ये ऊचुः । यस्मिन्सर्वं यस्य सर्वं यतः सर्वं यस्मायिदम् । येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे ॥ १२॥ अन्ये ऊचुः । अशिरस्कं हकारान्तमशेषाकारसंस्थितम् । अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे ॥ १३॥ अन्ये ऊचुः । सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये । ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ १४॥ अन्ये ऊचुः । सर्वाशाः किल सन्त्यज्य फलमेतदवाप्यते । येनाशाविषवल्लीनां मूलमाला विलूयते ॥ १५॥ अन्ये ऊचुः । बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः । बध्नाति भावनां भूयो नरो नासौ स गर्दभः ॥ १६॥ अन्ये ऊचुः । उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः । हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ १७॥ अन्ये ऊचुः । उपशमसुखमाहरेत्पवित्रं सुशमवतः शममेति साधुचेतः । प्रशमितमनसः स्वके स्वरूपे भवति सुखे स्थितिरुत्तमा चिराय ॥ १८॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपायेषूपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः ॥ ८॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : siddhagItA
% File name             : siddhagiitaa.itx
% itxtitle              : siddhagItA
% engtitle              : Siddha Gita
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : vAsiShThamahArAmAyaNe mokShopAyeShUpashamaprakaraNe
% Indexextra            : yogavAiShTha upAsanA prakaraNa sarga 8 (scanned) (meaning)
% Latest update         : March 2, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP