॥ उद्धवगीता ॥

श्रीराधाकृष्णाभ्यां नमः । श्रीमद्भागवतपुराणम् । एकादशः स्कन्धः । उद्धव गीता । अथ प्रथमोऽध्यायः । श्रीबादरायणिः उवाच । कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः । भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम् ॥ १॥ ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः दुर्द्यूतहेलनकचग्रहण आदिभिः तान् । कृत्वा निमित्तम् इतर इतरतः समेतान् हत्वा नृपान् निरहरत् क्षितिभारम् ईशः ॥ २॥ भूभारराजपृतना यदुभिः निरस्य गुप्तैः स्वबाहुभिः अचिन्तयत् अप्रमेयः । मन्ये अवनेः ननु गतः अपि अगतं हि भारम् यत् यादवं कुलम् अहो हि अविषह्यम् आस्ते ॥ ३॥ न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित् मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम् । अन्तःकलिम् यदुकुलस्य विध्हाय वेणुः तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ ४॥ एवं व्यवसितः राजन् सत्यसङ्कल्पः ईश्वरः । शापव्याजेन विप्राणां सञ्जह्वे स्वकुलं विभुः ॥ ५॥ स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया ॥ ६॥ आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अञ्जसा नु कौ । तमः अनया तरिष्यन्ति इति अगात् स्वं पदम् ईश्वरः ॥ ७॥ राजा उवाच । ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम् । विप्रशापः कथम् अभूत् वृष्णीनां कृष्णचेतसाम् ॥ ८॥ यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम । कथम् एकात्मनां भेदः एतत् सर्वं वदस्व मे ॥ ९॥ श्रीशुकः उवाच । बिभ्रत् वपुः सकलसुन्दरसंनिवेशम् कर्माचरन् भुवि सुमङ्गलम् आप्तकामः । आस्थाय धाम रममाणः उदारकीर्तिः संहर्तुम् ऐच्छत कुलं स्थितकृत्यशेषः ॥ १०॥ कर्माणि पुण्यनिवहानि सुमङ्गलानि गायत् जगत् कलिमलापहराणि कृत्वा । काल आत्मना निवसता यदुदेवगेहे पिण्डारकं समगमन् मुनयः निसृष्टाः ॥ ११॥ विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः । कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः ॥ १२॥ क्रीडन्तः तान् उपव्रज्य कुमाराः यदुनन्दनाः । उपसङ्गृह्य पप्रच्छुः अविनीता विनीतवत् ॥ १३॥ ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् । एषा पृच्छति वः विप्राः अन्तर्वत् न्यसित ईक्षणा ॥ १४॥ प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः । प्रसोष्यन्ति पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ १५॥ एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप । जनयिष्यति वः मन्दाः मुसलं कुलनाशनम् ॥ १६॥ तत् शृत्वा ते अतिसन्त्रस्ताः विमुच्य सहसोदरम् । साम्बस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम् ॥ १७॥ किं कृतं मन्दभाग्यैः किं वदिष्यन्ति नः जनाः । इति विह्वलिताः गेहान् आदाय मुसलं ययुः ॥ १८॥ तत् च उपनीय सदसि परिम्लानमुखश्रियः । राज्ञः आवेदयान् चक्रुः सर्वयादवसंनिधौ ॥ १९॥ श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप । विस्मिताः भयसन्त्रस्ताः बभूवुः द्वारकौकसः ॥ २०॥ तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः । समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम् ॥ २१॥ कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः । उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः ॥ २२॥ मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे । तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत् ॥ २३॥ भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा । कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत ॥ २४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे विप्रशापो नाम प्रथमोऽध्यायः ॥ १॥ अथ द्वितीयोऽध्यायः । श्रीशुकः उवाच । गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ १॥ को नु राजन् इन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजेत् सर्वतः मृत्युः उपास्यम् अमरौत्तमैः ॥ २॥ तम् एकदा देवर्षिं वसुदेवः गृह आगतम् । अर्चितं सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत् ॥ ३॥ वसुदेवः उवाच । भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४॥ भूतानां देवचरितं दुःखाय च सुखाय च । सुखाय एव हि साधूनां त्वादृशाम् अच्युत आत्मनाम् ॥ ५॥ भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् । छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ ६॥ ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव । यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ ७॥ अहं किल पुरा अनन्तं प्रजार्थः भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितः देवमायया ॥ ८॥ यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् । मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सुव्रत ॥ ९॥ श्रीशुकः उवाच । राजन् एवं कृतप्रश्नः वसुदेवेन धीमता । प्रीतः तम् आह देवर्षिः हरेः संस्मारितः गुणैः ॥ १०॥ नारदः उवाच । सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥ ११॥ श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः । सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ १२॥ त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितः भगवान् अद्य देवः नारायणः मम ॥ १३॥ अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४॥ प्रियव्रतः नाम सुतः मनोः स्वायम्भुवस्य यः । तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ १५॥ तम् आहुः वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ १६॥ तेषां वै भरतः ज्येष्ठः नारायणपरायणः । विख्यातं वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम् ॥ १७॥ सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् । उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ १८॥ तेषां नव नवद्वीपपतयः अस्य समन्ततः । कर्मतन्त्रप्रणेतारः एकाशीतिः द्विजातयः ॥ १९॥ नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः । श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ २०॥ कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ २१॥ एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् । आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरत् महीम् ॥ २२॥ अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य गन्धर्वयक्षनरकिन्नरनागलोकान् । मुक्ताः चरन्ति मुनिचारणभूतनाथ विद्याधरद्विजगवां भुवनानि कामम् ॥ २३॥ तः एकदा निमेः सत्रम् उपजग्मुः यत् ऋच्छया । वितायमानम् ऋषिभिः अजनाभे महात्मनः ॥ २४॥ तान् दृष्ट्वा सूर्यसङ्काशान् महाभगवतान् नृपः । यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ २५॥ विदेहः तान् अभिप्रेत्य नारायणपरायणान् । प्रीतः सम्पूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ २६॥ तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव । पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ २७॥ विदेहः उवाच । मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः । विष्णोः भूतानि लोकानां पावनाय चरन्ति हि ॥ २८॥ दुर्लभः मानुषः देहः देहिनां क्षणभङ्गुरः । तत्र अपि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९॥ अतः आत्यन्तिकं कहेमं पृच्छामः भवतः अनघाः । संसारे अस्मिन् क्षणार्धः अपि सत्सङ्गः शेवधिः नृणाम् ॥ ३०॥ धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः ॥ ३१॥ श्रीनारदः उवाच । एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ ३२॥ कविः उवाच । मन्ये अकुतश्चित् भयम् अच्युतस्य पादाम्बुजौपासनम् अत्र नित्यम् । उद्विग्नबुद्धेः असत् आत्मभावात् विश्वआत्मना यत्र निवर्तते भीः ॥ ३३॥ ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ ३४॥ यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ ३५॥ कायेन वाचा मनसा इन्द्रियैः वा बुद्ध्या आत्मना वा अनुसृतस्वभावात् । करोति यत् यत् सकलं परस्मै नारायणाय इति समर्पयेत् तत् ॥ ३६॥ भयं द्वितीयाभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययः अस्मृतिः । तत् मायया अतः बुधः आभजेत् तं भक्त्या एक ईशं गुरुदेवतात्मा ॥ ३७। अविद्यमानः अपि अवभाति हि द्वयोः ध्यातुः धिया स्वप्नमनोरथौ यथा । तत् कर्मसङ्कल्पविकल्पकं मनः बुधः निरुन्ध्यात् अभयं ततः स्यात् ॥ ३८॥ श्रुण्वन् सुभद्राणि रथाङ्गपाणेः जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तत् अर्थकानि गायन् विलज्जः विचरेत् असङ्गः ॥ ३९॥ एवं व्रतः स्वप्रियनामकीर्त्या जातानुरागः द्रुतचित्तः उच्चैः । हसति अथः रोदिति रौति गायति उन्मादवत् नृत्यति लोकबाह्यः ॥ ४०॥ खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशः द्रुमआदीन् । सरित् समुद्रान् च हरेः शरीरं यत्किञ्च भूतं प्रणमेत् अनन्यः ॥ ४१॥ भक्तिः परेश अनुभवः विरक्तिः अन्यत्र एष त्रिकः एककालः । प्रपद्यमानस्य यथा अश्नतः स्युः तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ ४२॥ इति अच्युत अङ्घ्रिं भजतः अनुवृत्त्या भक्तिः विरक्तिः भगवत् प्रबोधः । भवन्ति वै भागवतस्य राजन् ततः परां शान्तिम् उपैति साक्षात् ॥ ४३॥ राजा उवाच । अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् । यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत् प्रियः ॥ ४४॥ हरिः उवाच । सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः । भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ ४५॥ ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ ४६॥ अर्चायाम् एव हरये पूजां यः श्रद्धया ईहते । न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥ ४७॥ गृहीत्वा अपि इन्द्रियैः अर्थान्यः न द्वेष्टि न हृष्यति । विष्णोः मायाम् इदं पश्यन् सः वै भागवत उत्तमः ॥ ४८॥ देहैन्द्रियप्राणमनःधियां यः जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः । संसारधर्मैः अविमुह्यमानः स्मृत्या हरेः भागवतप्रधानः ॥ ४९॥ न कामकर्मबीजानां यस्य चेतसि सम्भवः । वासुदेवएकनिलयः सः वै भागवत उत्तमः ॥ ५०॥ न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जते अस्मिन् अहम्भावः देहे वै सः हरेः प्रियः ॥ ५१॥ न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा । सर्वभूतसमः शान्तः सः वौ भागवत उत्तमः ॥ ५२॥ त्रिभुवनविभवहेतवे अपि अकुण्ठस्मृतिः अजितआत्मसुरआदिभिः विमृग्यात् । न चलति भगवत् पद अरविन्दात् लवनिमिष अर्धम् अपि यः सः वैष्णव अग्र्यः ॥ ५३॥ भगवतः उरुविक्रम अङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे । हृदि कथम् उपसीदतां पुनः सः प्रभवति चन्द्रः इव उदिते अर्कतापः ॥ ५४॥ विसृजति हृदयं न यस्य साक्षात् हरिः अवश अभिहितः अपि अघौघनाशः । प्रणयः अशनया धृत अङ्घ्रिपद्मः सः भवति भागवतप्रधानः उक्तः ॥ ५५॥ इति श्रीमत् भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे निमिजायन्तसंवादे द्वितीयः अध्यायः ॥ २॥ अथ तृतीयोऽध्यायः । परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम् । मायां वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ १॥ न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम् । संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम् ॥ २॥ अन्तरिक्षः उवाच । एभिः भूतानि भूतात्मा महाभूतैः महाभुज । ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये ॥ ३॥ एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । एकधा दशधा आत्मानं विभजन् जुषते गुणान् ॥ ४॥ गुणैः गुणान् सः भुञ्जानः आत्मप्रद्योदितैः प्रभुः । मन्यमानः इदं सृष्टम् आत्मानम् इह सज्जते ॥ ५॥ कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम् ॥ ६॥ इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान् । आभूतसम्प्लवात् सर्गप्रलयौ अश्नुते अवशः ॥ ७॥ धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति ॥ ८॥ शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि । तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति ॥९॥ पातालतलम् आरभ्य सङ्कर्षणमुख अनलः । दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः ॥ १०॥ सांवर्तकः मेघगणः वर्षति स्म शतं समाः । धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११॥ ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धनः इव अनलः ॥ १२॥ वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते ॥ १३॥ हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शः अवकाशेन वायुः नभसि लीयते । कालात्मना हृतगुणं नवः आत्मनि लीयते ॥ १४॥ इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप । प्रविशन्ति हि अहङ्कारं स्वगुणैः अहम् आत्मनि ॥ १५॥ एषा माया भगवतः सर्गस्थिति अन्तकारिणी । त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुम् इच्छसि ॥ १६॥ राजा उवाच । यथा एताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः । तरन्ति अञ्जः स्थूलधियः महर्षः इदम् उच्यताम् ॥ १७॥ प्रबुद्धः उवाच । कर्माणि आरभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८॥ नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना । गृह अपत्यआप्तपशुभिः का प्रीतिः साधितैः चलैः ॥ १९॥ एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् । सतुल्य अतिशय ध्वंसं यथा मण्डलवर्तिनाम् ॥ २०॥ तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मणि उपशमआश्रयम् ॥ २१॥ तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः । अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः ॥ २२॥ सर्वतः मनसः असङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम् ॥ २३॥ शौचं तपः तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्मचर्यं अहिंसां च समत्वं द्वन्द्वसञ्ज्ञयोः ॥ २४॥ सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यम् अनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५॥ श्रद्धां भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि । मनोवाक् कर्मदण्डं च सत्यं शमदमौ अपि ॥ २६॥ श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम् ॥ २७॥ इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ २८॥ एवं कृष्णआत्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां च उभयत्र महत्सु नृषु साधुषु ॥ २९॥ परस्पर अनुकथनं पावनं भगवत् यशः । मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ ३०॥ स्मरन्तः स्मारयन्तः च मिथः अघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकां तनुम् ॥ ३१॥ क्वचित् रुदन्ति अच्युतचिन्तया क्वचित् हसन्ति नन्दन्ति वदन्ति अलौकिकाः । नृत्यन्ति गायन्ति अनुशीलयन्ति अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ ३२॥ इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरः मायम् अञ्जः तरति दुस्तराम् ॥ ३३॥ राजा उवाच । नारायण अभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४॥ पिप्पलायनः उवाच । स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च । देह इन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तत् अवेहि परं नरेन्द्र ॥ ३५॥ न एतत् मनः विशति वागुत चक्षुः आत्मा प्राणेन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः । शब्दः अपि बोधकनिषेधतया आत्ममूलम् अर्थ उक्तम् आह यदृते न निषेधसिद्धिः ॥ ३६॥ सत्वम् रजः तमः इति त्रिवृदेकम् आदौ सूत्रं महान् अहम् इति प्रवदन्ति जीवम् । ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति ब्रह्म एव भाति सत् असत् च तयोः परं यत् ॥ ३७॥ न आत्मा जजान न मरिष्यति न एधते असौ न क्षीयते सवनवित् व्यभिचारिणां हि । सर्वत्र शस्वदनपायि उपलब्धिमात्रं प्राणः यथा इन्द्रियवलेन विकल्पितं सत् ॥ ३८॥ अण्डेषु पेशिषु तरुषु अविनिश्चितेषु प्राणः हि जीवम् उपधावति तत्र तत्र । सन्ने यत् इन्द्रियगणे अहमि च प्रसुप्ते कूटस्थः आशयमृते तत् अनुस्मृतिः नः ॥ ३९॥ यः हि अब्ज नाभ चरण एषणयोः उभक्त्या चेतोमलानि विधमेत् गुणकर्मजानि । तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम् साक्षात् यथा अमलदृशः सवितृप्रकाशः ॥ ४०॥ कर्मयोगं वदत नः पुरुषः येन संस्कृतः । विधूय इह आशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१॥ एवं प्रश्नम् ऋषिन् पूर्वम् अपृच्छं पितुः अन्तिके । न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ ४२॥ आविर्होत्रः उवाच । कर्म अकर्मविकर्म इति वेदवादः न लौकिकः । वेदस्य च ईश्वरआत्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३॥ परोक्षवादः वेदः अयं बालानाम् अनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा ॥ ४४॥ न आचरेत् यः तु वेद उक्तं स्वयम् अज्ञः अजितेन्द्रियः । विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ ४५॥ वेद उक्तम् एव कुर्वाणः निःसङ्गः अर्पितम् ईश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६॥ यः आशु हृदयग्रन्थिं निर्जिहीषुः परात्मनः । विधिना उपचरेत् देवं तन्त्र उक्तेन च केशवम् ॥ ४७॥ लब्ध अनुग्रहः आचार्यात् तेन सन्दर्शितआगमः । महापुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ ४८॥ शुचिः संमुखम् आसीनः प्राणसंयमनआदिभिः । पिण्डं विशोध्य संन्यासकृतरक्षः अर्चयेत् हरिम् ॥ ४९॥ अर्चआदौ हृदये च अपि यथालब्ध उपचारकैः । द्रव्यक्षितिआत्मलिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ ५०॥ पाद्यआदीन् उपकल्प्या अथ संनिधाप्य समाहितः । हृत् आदिभिः कृतन्यासः मूलमन्त्रेण च अर्चयेत् ॥ ५१॥ साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । पाद्य अर्घ्यआचमनीयआद्यैः स्नानवासःविभूषणैः ॥ ५२॥ गन्धमाल्याक्षतस्रग्भिः धूपदीपहारकैः । साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३॥ आत्मां तन्मयं ध्यायन् मूर्तिं सम्पूजयेत् हरेः । शेषाम् आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम् ॥ ५४॥ एवम् अग्नि अर्कतोयआदौ अतिथौ हृदये च यः । यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ ५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे निमिजायन्तसंवादे मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः ॥ ३॥ अथ चतुर्थोऽध्यायः । राजा उवाच । यानि यानि इह कर्माणि यैः यैः स्वच्छन्दजन्मभिः । चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ १॥ द्रुमिलः उवाच । यः वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् सः तु बालबुद्धिः । रजांसि भूमेः गणयेत् कथञ्चित् कालेन न एव अखिलशक्तिधाम्नः ॥ २॥ भूतैः यदा पञ्चभिः आत्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधान मवाप नारायणः आदिदेवः ॥ ३॥ यत् कायः एषः भुवनत्रयसंनिवेशः यस्य इन्द्रियैः तनुभृताम् उभयैन्द्रियाणि । ज्ञानं स्वतः श्वसनतः बलम् ओजः ईहा सत्त्वआदिभिः स्थितिलयौद्भवः आदिकर्ता ॥ ४॥ आदौ अभूत् शतधृती रजस अस्य सर्गे विष्णु स्थितौ क्रतुपतिः द्विजधर्मसेतुः । रुद्रः अपि अयाय तमसा पुरुषः सः आद्यः इति उद्भवस्थितिलयाः सततं प्रजासु ॥ ५॥ धर्मस्य दक्षदुहितर्यजनिष्टः मूर्त्या नारायणः नरः ऋषिप्रवरः प्रशान्तः । नैष्कर्म्यलक्षणम् उवाच चचार कर्म यः अद्य अपि च आस्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६॥ इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामं न्ययुङ्क्त सगणं सः बदरिउपाख्यम् । गत्वा अप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षण इषुभिः अविध्यतत् महिज्ञः ॥ ७॥ विज्ञाय शक्रकृतम् अक्रमम् आदिदेवः प्राह प्रहस्य गतविस्मयः एजमानान् । मा भैष्ट भो मदन मारुत देववध्वः गृह्णीत नः बलिम् अशून्यम् इमं कुरुध्वम् ॥ ८॥ इत्थं ब्रुवति अभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणम् तम् ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्वारामधीः अनिकरानतपादपद्मे ॥ ९॥ त्वां सेवतां सुरकृता बहवः अन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते । न अन्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वम् अविता यदि विघ्नमूर्ध्नि ॥ १०॥ क्षुत् तृट्त्रिकालगुणमारुतजैव्ह्यशैश्न्यान् अस्मान् अपारजलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वश पदे गोः मज्जन्ति दुश्चरतपः च वृथा उत्सृजन्ति ॥ ११॥ इति प्रगृणतां तेषां स्त्रियः अति अद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीः विभुः ॥ १२॥ ते देव अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः । गन्धेन मुमुहुः तासां रूप औदार्यहतश्रियः ॥ १३॥ तान् आह देवदेव ईशः प्रणतान् प्रहसन् इव । आसाम् एकतमां वृङ्ग्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४॥ ओम् इति आदेशम् आदाय नत्वा तं सुरवन्दिनः । उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५॥ इन्द्राय आनम्य सदसि श्रुण्वतां त्रिदिवौकसाम् । ऊचुः नारायणबलं शक्रः तत्र आस विस्मितः ॥ १६॥ हंसस्वरूपी अवददत् अच्युतः आत्मयोगम् दत्तः कुमार ऋषभः भगवान् पिता नः । विष्णुः शिवाय जगतां कलया अवतीर्णः तेन आहृताः मधुभिदा श्रुतयः हयास्ये ॥ १७॥ गुप्तः अपि अये मनुः इला ओषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरता अम्भसः क्ष्माम् । कौर्मे धृतः अद्रिः अमृत उन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजम् अमुञ्चत् आर्तम् ॥ १८॥ संस्तुन्वतः अब्धिपतितान् श्रमणान् ऋषीं च शक्रं च वृत्रवधतः तमसि प्रविष्टम् । देवस्त्रियः असुरगृहे पिहिताः अनाथाः जघ्ने असुरेन्द्रम् अभयाय सतां नृसिंहे ॥ १९॥ देव असुरे युधि च दैत्यपतीन् सुरार्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः । भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याञ्चाच्छलेन समदात् अदितेः सुतेभ्यः ॥ २०॥ निःक्षत्रियाम् अकृत गां च त्रिःसप्तकृत्वः रामः तु हैहयकुल अपि अयभार्गव अग्निः । सः अब्धिं बबन्ध दशवक्त्रम् अहन् सलङ्कम् सीतापतिः जयति लोकम् अलघ्नकीर्तिः ॥ २१॥ भूमेः भर अवतरणाय यदुषि अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि । वादैः विमोहयति यज्ञकृतः अतदर्हान् शूद्रां कलौ क्षितिभुजः न्यहनिष्यदन्ते ॥ २२॥ एवंविधानि कर्माणि जन्मानि च जगत् पतेः । भूरीणि भूरियशसः वर्णितानि महाभुज ॥ २३॥ इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे निमिजायन्तसंवादे चतुर्थोऽध्यायः ॥ ४॥ अथ पञ्चमोऽध्यायः । राजा उवाच । भगवन्तं हरिं प्रायः न भजन्ति आत्मवित्तमाः । तेषाम् अशान्तकामानां का निष्ठा अविजितात्मनाम् ॥ १॥ चमसः उवाच । मुखबाहूरूपआदेभ्यः पुरुषस्य आश्रमैः सह । चत्वारः जज्ञिरे वर्णाः गुणैः विप्रआदयः पृथक् ॥ २॥ यः एषां पुरुषं साक्षात् आत्मप्रभवम् ईश्वरम् । न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ ३॥ दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः । स्त्रियः शूद्रआदयः च एव ते अनुकम्प्या भवादृशाम् ॥ ४॥ विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नायवादिनः ॥ ५॥ कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डितमानिनः । वदन्ति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः ॥ ६॥ रजसा घोरसङ्कल्पाः कामुकाः अहिमन्यवः । दाम्भिकाः मानिनः पापाः विहसन्ति अच्युतप्रियान् ॥ ७॥ वदन्ति ते अन्योन्यम् उपासितस्त्रियः गृहेषु मैथुन्यसुखेषु च आशिषः । यजन्ति असृष्टान् अविधान् अदक्षिणम् वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८॥ श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा सतः अवमन्यन्ति हरिप्रियान् खलाः ॥ ९॥ सर्वेषु शश्वत् तनुभृत् स्ववस्थितम् यथा स्वम् आत्मानम् अभीष्टम् ईश्वरम् । वेदोपगीतं च न श्रुण्वते अबुधाः मनोरथानां प्रवदन्ति वार्तया ॥ १०॥ लोके व्यवाय आमिषम् अद्यसेवा नित्याः तु जन्तोः न हि तत्र चोदना । व्यवस्थितिः तेषु विवाहयज्ञ सुराग्रहैः आसु निवृत्तिः इष्टा ॥ ११॥ धनं च धर्मएकफलं यतः वै ज्ञानं सविज्ञानम् अनुप्रशान्ति । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२॥ यत् घ्राणभक्षः विहितः सुरायाः तथा पशोः आलभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इअमं विशुद्धं न विदुः स्वधर्मम् ॥ १३॥ ये तु अनेवंविदः असन्तः स्तब्धाः सत् अभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४॥ द्विषन्तः परकायेषु स्वात्मानं हरिम् ईश्वरम् । मृतके सानुबन्धे अस्मिन् बद्धस्नेहाः पतन्ति अधः ॥ १५॥ ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् । त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयन्ति ते ॥ १६॥ एतः आत्महनः अशान्ताः अज्ञाने ज्ञानमानिनः । सीदन्ति अकृतकृत्याः वै कालध्वस्तमनोरथाः ॥ १७॥ हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः । तमः विशन्ति अनिच्छन्तः वासुदेवपराङ्मुखाः ॥ १८॥ राजा उवाच । कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः । नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ १९॥ करभाजनः उवाच । कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः । नानावर्ण अभिधआकारः नाना एव विधिना इज्यते ॥ २०॥ कृते शुक्लः चतुर्बाहुः जटिलः वल्कलाम्बरः । कृष्णाजिनौपवीताक्षान् बिभ्रत् दण्डकमण्डलून् ॥ २१॥ मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ २२॥ हंसः सुपर्णः वैकुण्ठः धर्मः योगेश्वरः अमलः । ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ २३॥ त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः । हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवआदि उपलक्षणः ॥ २४॥ तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः ॥ २५॥ विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः । वृषाकपिः जयन्तः च उरुगाय इति ईर्यते ॥ २६॥ द्वापरे भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सआदिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ २७॥ तं तदा पुरुषं मर्त्या महाराजौपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवः नृप ॥ २८॥ नमः ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः ॥ २९॥ नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतआत्मने नमः ॥ ३०॥ इति द्वापरः उर्वीश स्तुवन्ति जगदीश्वरम् । नानातन्त्रविधानेन कलौ अपि यथा श्रुणु ॥ ३१॥ कृष्णवर्णं त्विषाकृष्णं साङ्गौपाङ्गास्त्र पार्षदम् । यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२॥ ध्येयं सदा परिभवघ्नम् अभीष्टदोहम् तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम् वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३॥ त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम् धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम् । मायामृगं दयितया इप्सितम् अन्वधावत् वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४॥ एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ ३५॥ कलिं सभाजयन्ति आर्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते ॥ ३६॥ न हि अतः परमः लाभः देहिनां भ्राम्यताम् इह । यतः विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७॥ कृतआदिषु प्रजा राजन् कलौ इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८॥ क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९॥ कावेरी च महापुण्या प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः ॥ ४०॥ देवर्षिभूतआप्तनृणा पितॄणां न किङ्करः न अयं ऋणी च राजन् । सर्वआत्मना यः शरणं शरण्यम् गतः मुकुन्दं परिहृत्य कर्तुम् ॥ ४१॥ स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यत् च उत्पतितं कथञ्चित् धुनोति सर्वं हृदि संनिविष्टः ॥ ४२॥ नारदः उवाच । धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः । जायन्त इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत् ॥ ४३॥ ततः अन्तः दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम् ॥ ४४॥ त्वम् अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम् ॥ ४५॥ युवयोः खलु दम्पत्योः यशसा पूरितं जगत् । पुत्रताम् अगमत् यत् वां भगवान् ईश्वरः हरिः ॥ ४६॥ दर्शनआलिङ्गनआलापैः शयनआसनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः ॥ ४७॥ वैरेण यं नृपतयः शिशुपालपौण्ड्र शाल्वआदयः गतिविलासविलोकनआदयैः । ध्यायन्तः आकृतधियः शयनआसनआदौ तत् साम्यम् आपुः अनुरक्तधियां पुनः किम् ॥ ४८॥ मा अपत्यबुद्धिम् अकृथाः कृष्णे सर्वआत्मनईश्वरे । मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये ॥ ४९॥ भूभारराजन्यहन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ ५०॥ श्रीशुकः उवाच । एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः । देवकी च महाभागाः जहतुः मोहम् आत्मनः ॥ ५१॥ इतिहासम् इमं पुण्यं धारयेत् यः समाहितः । सः विधूय इह शमलं ब्रह्मभूयाय कल्पते ॥ ५२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे वसुदेवनारदसंवादे पञ्चमोऽध्यायः ॥ ५॥ अथ षष्ठोऽध्यायः । श्रीशुकः उवाच । अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात् । भवः च भूतभव्यईशः ययौ भूतगणैः वृतः ॥ १॥ इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ । ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ॥ २॥ गन्धर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः । ऋषयः पितरः च एव सविद्याधरकिन्नराः ॥ ३॥ द्वारकाम् उपसञ्जग्मुः सर्वे कृष्णआदिदृक्षवः । वपुषा येन भगवान् नरलोकमनोरमः । यशः वितेने लोकेषु सर्वलोकमलापहम् ॥ ४॥ तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः । व्यचक्षत अवितृप्ताक्षाः कृष्णम् अद्भुतदर्शनम् ॥ ५॥ स्वर्गौद्यानौअपगैः माल्यैः छादयन्तः यदु उत्तमम् । गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम् ॥६॥ देवाः ऊचुः । नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यत् चिन्त्यते अन्तर्हृदि भावयुक्तैः मुमुक्षुभिः कर्ममय ऊरुपाशात् ॥ ७॥ त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं व्यक्तं सृजसि अवसि लुम्पसि तत् गुणस्थः । न एतैः भवान् अजित कर्मभिः अज्यते वै यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ ८॥ शुद्धिः नृणां न तु तथा ईड्य दुराशयानां विद्याश्रुताध्ययनदानतपक्रियाभिः । सत्त्वआत्मनाम् ऋषभ ते यशसि प्रवृद्ध सत् श्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९॥ स्यात् नः तव अङ्घ्रिः अशुभाशयधूमकेतुः क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः । यः सात्वतैः समविभूतयः आत्मवद्भिः व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय ॥ १०॥ यः चिन्त्यते प्रयतपाणिभिः अध्वराग्नौ त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा । अध्यात्मयोगः उत योगिभिः आत्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११॥ पर्युष्टया तव विभो वनमालया इयं संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः । यः सुप्रणीतम् अमुयार्हणम् आदत् अन्नः भूयात् सदा अङ्घ्रिः अशुभआशयधूमकेतुः ॥ १२॥ केतुः त्रिविक्रमयुतः त्रिपत् पताकः यः ते भयाभयकरः असुरदेवचम्वोः । स्वर्गाय साधुषु खलु एषु इतराय भूमन् पादः पुनातु भगवन् भजताम् अधं नः ॥ १३॥ नस्योतगावः इव यस्य वशे भवन्ति ब्रह्मआदयः अनुभृतः मिथुरर्द्यमानाः । कालस्य ते प्रकृतिपूरुषयओः परस्य शं नः तनोतु चरणः पुरुषोत्तमस्य ॥ १४॥ अस्य असि हेतुः उदयस्थितिसंयमानां अव्यक्तजीवमहताम् अपि कालम् आहुः । सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः कालः गभीररयः उत्तमपूरुषः त्वम् ॥ १५॥ त्वत्तः पुमान् समधिगम्य यया स्ववीर्य धत्ते महान्तम् इव गर्भम् अमोघवीर्यः । सः अयं तया अनुगतः आत्मनः आण्डकोशं हैमं ससर्ज बहिः आवरणैः उपेतम् ॥ १६॥ तत्तस्थुषः च जगतः च भवान् अधीशः यत् मायया उत्थगुणविक्रियया उपनीतान् । अर्थान् जुषन् अपि हृषीकपते न लिप्तः ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ १७॥ स्माया अवलोकलवदर्शितभावहारि भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यः तु षोडशसहस्रम् अनङ्गबाणैः यस्य इन्द्रियं विमथितुं करणैः विभ्व्यः ॥ १८॥ विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः पादौ अनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिः अङ्घ्रिजम् अङ्गसङ्गैः तीर्थद्वयं शुचिषदस्तः उपस्पृशन्ति ॥ १९॥ बादरायणिः उवाच । इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम् । अभ्यभाषत गोविन्दं प्रणम्य अम्बरम् आश्रितः ॥ २०॥ ब्रह्म उवाच । भूमेः भार अवताराय पुरा विज्ञापितः प्रभो । त्वम् अस्माभिः अशेषआत्मन् तत् तथा एव उपपादितम् ॥ २१॥ धर्मः च स्थापितः सत्सु सत्यसन्धेषु वै त्वया । कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलआपहा ॥ २२॥ अवतीर्य यदोः वंशे बिभ्रत् रूपम् अनुत्तमम् । कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः ॥ २३॥ यानि ते चरितानि ईश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ॥ २४॥ यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम । शरत् शतं व्यतीयाय पञ्चविंश अधिकं प्रभोः ॥ २५॥ न अधुना ते अखिल आधार देवकार्य अवशेषितम् । कुलं च विप्रशापेन नष्टप्रायम् अभूत् इदम् ॥ २६॥ ततः स्वधाम परमं विशस्व यदि मन्यसे । सलोकान् लोकपालान् नः पाहि वैकुण्ठकिङ्करान् ॥ २७॥ श्री भगवान् उवाच । अवधारितम् एतत् मे यदात्थ विबुधेश्वर । कृतं वः कार्यम् अखिलं भूमेः भारः अवतारितः ॥ २८॥ तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः ॥ २९॥ यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम् । गन्तास्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति ॥ ३०॥ इदानीं नाशः आरब्धः कुलस्य द्विजशापतः । यास्यामि भवनं ब्रह्मन् न एतत् अन्ते तव आनघ ॥ ३१॥ श्री शुकः उवाच । इति उक्तः लोकनाथेन स्वयम्भूः प्रणिपत्य तम् । सह देवगणैः देवः स्वधाम समपद्यत ॥ ३२॥ अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् । विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ ३३॥ श्री भगवान् उवाच । एते वै सुमहोत्पाताः व्युत्तिष्ठन्ति इह सर्वतः । शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ ३४॥ न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः । प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम् ॥ ३५॥ यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट् । विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम् ॥ ३६॥ वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान् । भोजयित्वा उशिजः विप्रान् नानागुणवता अन्धसा ॥ ३७॥ तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै । वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ ३८॥ श्री शुकः उवाच । एवं भगवता आदिष्टाः यादवाः कुलनन्दन । गन्तुं कृतधियः तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९॥ तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् । दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥ ४०॥ विविक्तः उपसङ्गम्य जगताम् ईश्वरेश्वरम् । प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत ॥ ४१॥ उद्धवः उवाच । देवदेवेश योगेश पुण्यश्रवणकीर्तन । संहृत्य एतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः ॥ ४२॥ न अहं तव अङ्घ्रिकमलं क्षणार्धम् अपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय माम् अपि ॥ ४३॥ तव विक्रीडितं कृष्ण नृणां परममङ्गलम् । कर्णपीयूषम् आस्वाद्य त्यजति अन्यस्पृहां जनः ॥ ४४॥ शय्यआसनाटनस्थानस्नानक्रीडाशनआदिषु । कथं त्वां प्रियम् आत्मानं वयं भक्ताः त्यजेमहि ॥ ४५॥ त्वया उपभुक्तस्रक्गन्धवासः अलङ्कारचर्चिताः । उच्छिष्टभोजिनः दासाः तव मायां जयेमहि ॥ ४६॥ वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमन्थिनः । ब्रह्मआख्यं धाम ते यान्ति शान्ताः संन्यासिनः अमलाः ॥ ४७॥ वयं तु इह महायोगिन् भ्रमन्तः कर्मवर्त्मसु । त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः ॥ ४८॥ स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च । गतिउत्स्मितईक्षणक्ष्वेलि यत् नृलोकविडम्बनम् ॥ ४९॥ श्री शुकः उवाच । एवं विज्ञापितः राजन् भगवान् देवकीसुतः । एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत ॥ ५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे देवस्तुत्युद्ध्वविज्ञापनं नाम षष्ठोऽध्यायः ॥ ६॥ अथ सप्तमोऽध्यायः । श्री भगवान् उवाच । यत् आत्थ मां महाभाग तत् चिकीर्षितम् एव मे । ब्रह्मा भवः लोकपालाः स्वर्वासं मे अभिकाङ्क्षिणः ॥ १॥ मया निष्पादितं हि अत्र देवकार्यम् अशेषतः । यदर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणार्थितः ॥ २॥ कुलं वै शापनिर्दग्धं नङ्क्ष्यति अन्योन्यविग्रहात् । समुद्रः सप्तमे अह्न्ह्येतां पुरीं च प्लावयिष्यति ॥ ३॥ यः हि एव अयं मया त्यक्तः लोकः अयं नष्टमङ्गलः । भविष्यति अचिरात् साधो कलिनाऽपि निराकृतः ॥ ४॥ न वस्तव्यं त्वया एव इह मया त्यक्ते महीतले । जनः अधर्मरुचिः भद्रः भविष्यति कलौ युगे ॥ ५॥ त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मयि आवेश्य मनः सम्यक् समदृक् विचरस्व गाम् ॥ ६॥ यत् इदं मनसा वाचा चक्षुर्भ्यां श्रवणआदिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७॥ पुंसः अयुक्तस्य नानार्थः भ्रमः सः गुणदोषभाक् । कर्माकर्मविकर्म इति गुणदोषधियः भिदा ॥ ८॥ तस्मात् युक्तैन्द्रियग्रामः युक्तचित्तः इदं जगत् । आत्मनि ईक्षस्व विततम् आत्मानं मयि अधीश्वरे ॥ ९॥ ज्ञानविज्ञानसंयुक्तः आत्मभूतः शरीरिणाम् । आत्मानुभवतुष्टआत्मा न अन्तरायैः विहन्यसे ॥ १०॥ दोषबुद्ध्या उभयातीतः निषेधात् न निवर्तते । गुणबुद्ध्या च विहितं न करोति यथा अर्भकः ॥ ११॥ सर्वभूतसुहृत् शान्तः ज्ञानविज्ञाननिश्चयः । पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२॥ श्री शुकः उवाच । इति आदिष्टः भगवता महाभागवतः नृप । उद्धवः प्रणिपत्य आह तत्त्वजिज्ञासुः अच्युतम् ॥ १३॥ उद्धवः उवाच । योगेश योगविन्न्यास योगात्म योगसम्भव । निःश्रेयसाय मे प्रोक्तः त्यागः संन्यासलक्षणः ॥ १४॥ त्यागः अयं दुष्करः भूमन् कामानां विषयआत्मभिः । सुतरां त्वयि सर्वआत्मन् न अभक्तैः इति मे मतिः ॥ १५॥ सः अहं मम अहम् इति मूढमतिः विगाढः त्वत् मायया विरचित आत्मनि सानुबन्धे । तत् तु अञ्जसा निगदितं भवता यथा अहम् संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ १६॥ सत्यस्य ते स्वदृशः आत्मनः आत्मनः अन्यम् वक्तारम् ईश विबुधेषु अपि न अनुचक्षे । सर्वे विमोहितधियः तव मायया इमे ब्रह्मआदयः तनुभृतः बहिः अर्थभावः ॥ १७॥ तस्मात् भवन्तम् अनवद्यम् अनन्तपारम् सर्वज्ञम् ईश्वरम् अकुण्ठविकुण्ठधिष्णि अयम् । निर्विण्णधीः अहम् उ ह वृजनाभितप्तः नारायणं नरसखं शरणं प्रपद्ये ॥ १८॥ श्री भगवान् उवाच । प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः । समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभआशयात् ॥ १९॥ आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः । यत् प्रत्यक्ष अनुमानाभ्यां श्रेयः असौ अनुविन्दते ॥ २०॥ पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्ति उपबृंहितम् ॥ २१॥ एकद्वित्रिचतुष्पादः बहुपादः तथा अपदः । बह्व्यः सन्ति पुरः सृष्टाः तासां मे पौरुषी प्रिया ॥ २२॥ अत्र मां मार्गयन्त्यद्धाः युक्ताः हेतुभिः ईश्वरम् । गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ २३॥ अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् । अवधूतस्य संवादं यदोः अमिततेजसः ॥ २४॥ अवधूतं द्विजं कञ्चित् चरन्तम् अकुतोभयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५॥ यदुः उवाच । कुतः बुद्धिः इयं ब्रह्मन् अकर्तुः सुविशारदा । याम् आसाद्य भवान् लोकं विद्वान् चरति बालवत् ॥ २६॥ प्रायः धर्मार्थकामेषु विवित्सायां च मानवाः । हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ २७॥ त्वं तु कल्पः कविः दक्षः सुभगः अमृतभाषणः । न कर्ता नेहसे किञ्चित् जडौन्मत्तपिशाचवत् ॥ २८॥ जनेषु दह्यमानेषु कामलोभदवाग्निना । न तप्यसे अग्निना मुक्तः गङ्गाम्भस्थः इव द्विपः ॥ २९॥ त्वं हि नः पृच्छतां ब्रह्मन् आत्मनि आनन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवल आत्मनः ॥ ३०॥ श्री भगवान् उवाच । यदुना एवं महाभागः ब्रह्मण्येन सुमेधसा । पृष्टः सभाजितः प्राह प्रश्रय अवनतं द्विजः ॥ ३१॥ ब्राह्मणः उवाच । सन्ति मे गुरवः राजन् बहवः बुद्ध्या उपाश्रिताः । यतः बुद्धिम् उपादाय मुक्तः अटामि इह तान् श्रुणु ॥ ३२॥ पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमा रविः । कपोतः अजगरः सिन्धुः पतङ्गः मधुकृद् गजः ॥ ३३॥ मधुहा हरिणः मीनः पिङ्गला कुररः अर्भकः । कुमारी शरकृत् सर्पः ऊर्णनाभिः सुपेशकृत् ॥ ३४॥ एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः । शिक्षा वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ ३५॥ यतः यत् अनुशिक्षामि यथा वा नाहुषआत्मज । तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६॥ भूतैः आक्रमाणः अपि धीरः दैववशानुगैः । तत् विद्वान् न चलेत् मार्गात् अन्वशिक्षं क्षितेः व्रतम् ॥ ३७॥ शश्वत् परार्थसर्वेहः परार्थ एकान्तसम्भवः । साधुः शिक्षेत भूभृत्तः नगशिष्यः परात्मताम् ॥ ३८॥ प्राणवृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रियप्रियैः । ज्ञानं यथा न नश्येत न अवकीर्येत वाङ्मनः ॥ ३९॥ विषयेषु आविशन् योगी नानाधर्मेषु सर्वतः । गुणदोषव्यपेत आत्मा न विषज्जेत वायुवत् ॥ ४०॥ पार्थिवेषु इह देहेषु प्रविष्टः तत् गुणआश्रयः । गुणैः न युज्यते योगी गन्धैः वायुः इव आत्मदृक् ॥ ४१॥ अन्तः हितः च स्थिरजङ्गमेषु ब्रह्म आत्मभावेन समन्वयेन । व्याप्त्य अवच्छेदम् असङ्गम् आत्मनः मुनिः नभः त्वं विततस्य भावयेत् ॥ ४२॥ तेजः अबन्नमयैः भावैः मेघ आद्यैः वायुना ईरितैः । न स्पृश्यते नभः तद्वत् कालसृष्टैः गुणैः पुमान् ॥ ४३॥ स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थभूः नृणाम् । मुनिः पुनाति अपां मित्रम् ईक्ष उपस्पर्शकीर्तनैः ॥ ४४॥ तेजस्वी तपसा दीप्तः दुर्धर्षौदरभाजनः । सर्वभक्षः अपि युक्त आत्मा न आदत्ते मलम् अग्निवत् ॥ ४५॥ क्वचित् शन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् । भुङ्क्ते सर्वत्र दातॄणां दहन् प्राक् उत्तर अशुभम् ॥ ४६॥ स्वमायया सृष्टम् इदं सत् असत् लक्षणं विभुः । प्रविष्टः ईयते तत् तत् स्वरूपः अग्निः इव एधसि ॥ ४७॥ विसर्गाद्याः श्मशानान्ताः भावाः देहस्य न आत्मनः । कलानाम् इव चन्द्रस्य कालेन अव्यक्तवर्त्मना ॥ ४८॥ कालेन हि ओघवेगेन भूतानां प्रभव अपि अयौ । नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ ४९॥ गुणैः गुणान् उपादत्ते यथाकालं विमुञ्चति । न तेषु युज्यते योगी गोभिः गाः इव गोपतिः ॥ ५०॥ बुध्यते स्वेन भेदेन व्यक्तिस्थः इव तत् गतः । लक्ष्यते स्थूलमतिभिः आत्मा च अवस्थितः अर्कवत् ॥ ५१॥ न अतिस्नेहः प्रसङ्गः वा कर्तव्यः क्व अपि केनचित् । कुर्वन् विन्देत सन्तापं कपोतः इव दीनधीः ॥ ५२॥ कपोतः कश्चन अरण्ये कृतनीडः वनस्पतौ । कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ ५३॥ कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ । दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ ५४॥ शय्यासनाटनस्थानवार्ताक्रीडाशनआदिकम् । मिथुनीभूय विस्रब्धौ चेरतुः वनराजिषु ॥ ५५॥ यं यं वाञ्छति सा राजन् तर्पयन्ति अनुकम्पिता । तं तं समनयत् कामं कृच्छ्रेण अपि अजितैन्द्रियः ॥ ५६॥ कपोती प्रथमं गर्भं गृह्णति कालः आगते । अण्डानि सुषुवे नीडे स्वपत्युः संनिधौ सती ॥ ५७॥ तेषू काले व्यजायन्त रचितावयवा हरेः । शक्तिभिः दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८॥ प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९॥ तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः । प्रत्युद्गमैः अदीनानां पितरौ मुदम् आपतुः ॥ ६०॥ स्नेहानुबद्धहृदयौ अन्योन्यं विष्णुमायया । विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१॥ एकदा जग्मतुः तासाम् अन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ ६२॥ दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छ अतः वनेचरः । जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ ६३॥ कपोतः च कपोती च प्रजापोषे सदा उत्सुकौ । गतौ पोषणम् आदाय स्वनीडम् उपजग्मतुः ॥ ६४॥ कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् । तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृशदुःखिता ॥ ६५॥ सा असकृत् स्नेहगुणिता दीनचित्ता अजमायया । स्वयं च अबध्यत शिचा बद्धान् पश्यन्ति अपस्मृतिः ॥ ६६॥ कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् । भार्यां च आत्मसमां दीनः विललाप अतिदुःखितः ॥ ६७॥ अहो मे पश्यत अपायम् अल्पपुण्यस्य दुर्मतेः । अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः ॥ ६८॥ अनुरूपा अनुकूला च यस्य मे पतिदेवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९॥ सः अहं शून्ये गृहे दीनः मृतदारः मृतप्रजः । जिजीविषे किमर्थं वा विधुरः दुःखजीवितः ॥ ७०॥ तान् तथा एव आवृतान् शिग्भिः मृत्युग्रस्तान् विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ ७१॥ तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् । कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२॥ एवं कुटुम्बी अशान्त आत्मा द्वन्द्व आरामः पतत् त्रिवत् । पुष्णन् कुटुम्बं कृपणः सानुबन्धः अवसीदति ॥ ७३॥ यः प्राप्य मानुषं लोकं मुक्तिद्वारम् अपावृतम् । गृहेषु खगवत् सक्तः तम् आरूढच्युतं विदुः ॥ ७४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे यद्वधूतेतिहासे सप्तमोऽध्यायः ॥ ७॥ अथास्श्टमोऽध्यायः । सुखम् ऐन्द्रियकं राजन् स्वर्गे नरकः एव च । देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ १॥ ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा । यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ २॥ शयीत अहानि भूरीणि निराहारः अनुपक्रमः । यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ ३॥ ओजः सहोबलयुतं बिभ्रत् देहम् अकर्मकम् । शयानः वीतनिद्रः च नेहेत इन्द्रियवान् अपि ॥ ४॥ मुनिः प्रसन्नगम्भीरः दुर्विगाह्यः दुरत्ययः । अनन्तपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ ५॥ समृद्धकामः हीनः वा नारायणपरः मुनिः । न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ ६॥ दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेन्द्रियः । प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्गवत् ॥ ७॥ योषित् हिरण्य आभरण अम्बरादि द्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा हि उपभोगबुद्ध्या पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८॥ स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता । गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ ९॥ अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः । सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ १०॥ सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणिपात्र उदरामत्रः मक्षिका इव न सङ्ग्रही ॥ ११॥ सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिकाः इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२॥ पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीम् अपि । स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३॥ न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युम् आत्मनः । बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ १४॥ न देयं न उपभोग्यं च लुब्धैः यत् दुःख सञ्चितम् । भुङ्क्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ १५॥ सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः । मधुहेव अग्रतः भुङ्क्ते यतिः वै गृहमेधिनाम् ॥ १६॥ ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् । शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ १७॥ नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनकः वश्यः ऋष्यशृङ्गः मृगीसुतः ॥ १८॥ जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः । मृत्युम् ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ १९॥ इन्द्रियाणि जयन्ति आशुः निराहाराः मनीषिणः । वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ २०॥ तावत् जितेन्द्रियः न स्यात् विजितानि इन्द्रियः पुमान् । न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ २१॥ पिङ्गला नाम वेश्या आसीत् विदेहनगरे पुरा । तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२॥ सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती । अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३॥ मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ । तान् शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुका ॥ २४॥ आगतेष्वपयातेषु सा सङ्केतोपजीवनी । अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ २५॥ एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६॥ तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः । निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७॥ तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८॥ न हि अङ्गाजातनिर्वेदः देहबन्धं जिहासति । यथा विज्ञानरहितः मनुजः ममतां नृप ॥ २९॥ पिङ्गला उवाच । अहो मे मोहविततिं पश्यत अविजित आत्मनः । या कान्तात् असतः कामं कामये येन बालिशा ॥ ३०॥ सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यम् इमं विहाय । अकामदं दुःखभय आदि शोक मोहप्रदं तुच्छम् अहं भजे अज्ञा ॥ ३१॥ अहो मयात्मा परितापितो वृथा साङ्केत्यवृत्त्याऽतिविगर्ह्यवार्तया । स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२॥ यदस्थिभिर्निर्मितवंशवंश्य स्थूणं त्वचा रोमनखैः पिनद्धम् । क्षरन्नवद्वारमगारमेतद् विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३॥ विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः । याऽन्यस्मिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ ३४॥ सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५॥ कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः । आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६॥ नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा । निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ ३७॥ मैवं स्युर्मन्दभग्यायाः क्लेशा निर्वेदहेतवः । येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ ३८॥ तेन उपकृतम् आदाय शिरसा ग्राम्यसङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ ३९॥ सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती । विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४०॥ संसारकूपे पतितं विषयैर्मुषितेक्षणम् । ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१॥ आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ ४२॥ ब्राह्मण उवाच । एअवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् । छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३॥ आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पिङ्गलोपाख्याऽनेष्टमोऽध्यायः ॥ ८॥ अथ नवमोऽध्यायः । ब्राह्मणः उवाच । परिग्रहः हि दुःखाय यत् यत् प्रियतमं नृणाम् । अनन्तं सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः ॥ १॥ सामिषं कुररं जघ्नुः बलिनः ये निरामिषाः । तत् आमिषं परित्यज्य सः सुखं समविन्दत ॥ २॥ न मे मानावमानौ स्तः न चिन्ता गेहपुत्रिणाम् । आत्मक्रीडः आत्मरतिः विचरामि इह बालवत् ॥ ३॥ द्वौ एव चिन्तया मुक्तौ परम आनन्दः आप्लुतौ । यः विमुग्धः जडः बालः यः गुणेभ्यः परं गतः ॥ ४॥ क्वचित् कुमारी तु आत्मानं वृणानान् गृहम् आगतान् । स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५॥ तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६॥ सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्ज एकैकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥ ७॥ उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः । तत्र अपि एकं निरभिदत् एकस्मान् न अभवत् ध्वनिः ॥ ८॥ अन्वशिक्षम् इमं तस्याः उपदेशम् अरिन्दम । लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९॥ वासे बहूनां कलहः भवेत् वार्ता द्वयोः अपि । एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ १०॥ मनः एकत्र संयुज्यात् जितश्वासः जित आसनः । वैराग्याभ्यासयोगेन ध्रियमाणम् अतन्द्रितः ॥ ११॥ यस्मिन् मनः लब्धपदं यत् एतत् शनैः शनैः मुञ्चति कर्मरेणून् । सत्त्वेन वृद्धेन रजः तमः च विधूय निर्वाणम् उपैति अनिन्धनम् ॥ १२॥ तत् एवम् आत्मनि अवरुद्धचित्तः न वेद किञ्चित् बहिः अन्तरं वा । यथा इषुकारः नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे ॥ १३॥ एकचार्यनिकेतः स्यात् अप्रमत्तः गुहाशयः । अलक्ष्यमाणः आचारैः मुनिः एकः अल्पभाषणः ॥ १४॥ गृहारम्भः अतिदुःखाय विफलः च अध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते ॥ १५॥ एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६॥ एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्वादिपुएरुषः प्रधानपुरुषेश्वरः ॥ १७॥ परावराणां परम आस्ते कैवल्यसञ्ज्ञितः । केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ १८॥ केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । संक्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम ॥ १९॥ तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २०॥ यथा ऊर्णनाभिः हृदयात् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस्तां ग्रसति एवं महेश्वरः ॥ २१॥ यत्र यत्र मनः देही धारयेत् सकलं धिया । स्नेहात् द्वेषात् भयात् वा अपि याति तत् तत् सरूपताम् ॥ २२॥ कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत् स्सत्मतां राजन् पूर्वरूपम् असन्त्यजन् ॥ २३॥ एवं गुरुभ्यः एतेभ्यः एष मे शिक्षिता मतिः । स्वात्मा उपशिक्षितां बुद्धिं श्रुणु मे वदतः प्रभो ॥ २४॥ देहः गुरुः मम विरक्तिविवेकहेतुः बिभ्रत् स्म सत्त्वनिधनं सतत अर्त्युत् अर्कम् । तत्त्वानि अनेन विमृशामि यथा तथा अपि पारक्यम् इति अवसितः विचरामि असङ्गः ॥ २५॥ जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत् प्रियचिकीर्षया वितन्वन् ॥ स्वान्ते सकृच्छ्रम् अवरुद्धधनः सः देहः सृष्ट्वा अस्य बीजम् अवसीदति वृक्षधर्मा ॥ २६॥ जिह्वा एकतः अमुम् अवकर्षति कर्हि तर्षा शिश्नः अन्यतः त्वक् उदरं श्रवणं कुतश्चित् । ग्राणः अन्यतः चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्यः इव गेहपतिं लुनन्ति ॥ २७॥ सृष्ट्वा पुराणि विविधानि अजया आत्मशक्त्या वृक्षान् सरीसृपपशून्खगदंशमत्स्यान् । तैः तैः अतुष्टहृदयः पुरुषं विधाय ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८॥ लब्ध्वा सुदुर्लभम् इदं बहुसम्भवान्ते मानुष्यमर्थदमनित्यमपीह धीरः । तूर्णं यतेत न पतेत् अनुमृत्युः यावत् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९॥ एवं सञ्जातवैराग्यः विज्ञानलोक आत्मनि । विचरामि महीम् एतां मुक्तसङ्गः अनहङ्कृतिः ॥ ३०॥ न हि एकस्मात् गुरोः ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । ब्रह्म एतत् अद्वितीयं वै गीयते बहुधा ऋषिभिः ॥ ३१॥ श्रीभगवानुवाच । इत्युक्त्वा स यदुं विप्रस्तमामन्त्रय गभीरधीः । वन्दितो।आभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२॥ अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः । सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे नवमोऽध्यायः ॥ ९॥ अथ दशमोऽध्यायः । श्रीभगवान् उवाच । मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः । वर्णाश्रमकुल आचारम् अकामात्मा समाचरेत् ॥ १॥ अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २॥ सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः । नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः ॥ ३॥ निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत् । जिज्ञासायां सम्प्रवृत्तः न अद्रियेत् कर्म चोदनाम् ॥ ४॥ यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । मदभिज्ञं गुर्ं शान्तम् उपासीत मदात्मकम् ॥ ५॥ अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः । असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक् ॥ ६॥ जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु । उदासीनः समं पश्यन् सर्वेषु अर्थम् इव आत्मनः ॥ ७॥ विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक् । यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ ८॥ निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान् । अन्तः प्रविष्टः आधत्तः एवं देहगुणान् परः ॥ ९॥ यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि । संसारः तत् निबन्धः अयं पुंसः विद्यात् छिदात्मनः ॥ १०॥ तस्मात् जिज्ञासया आत्मानम् आत्मस्थं परम् । सङ्गम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम् ॥ ११॥ आचार्यः अरणिः आद्यः स्यात् अन्तेवासि उत्तर अरणिः । तत् सन्धानं प्रवचनं विद्या सन्धिः सुखावहः ॥ १२॥ वैशारदी सा अतिविशुद्धबुद्धिः धुनोति मायां गुणसम्प्रसूताम् । गुणान् च सन्दह्य यत् आत्मम् एतत् स्वयं च शाम्यति असमिद् यथा अग्निः ॥ १३॥ अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । नानात्वम् अथ नित्यत्वं लोककालागम आत्मनाम् ॥ १४॥ मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा । तत् तत् आकृतिभेदेन जायते भिद्यते च धीः ॥ १५॥ एवम् अपि अङ्ग सर्वेषां देहिनां देहयोगतः । काल अवयवतः सन्ति भावा जन्मादयोः असकृत् ॥ १६॥ अत्र अपि कर्मणां कर्तुः अस्वातन्त्र्यं च लक्ष्यते । भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत् ॥ १७॥ न देहिनां सुखं किञ्चित् विद्यते विदुषाम् अपि । तथा च दुःखं मूढानां वृथा अहङ्करणं परम् ॥ १८॥ यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा ॥ १९॥ कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अन्तिके । आघातं नीयमानस्य वध्यसि एव न तुष्टिदः ॥ २०॥ श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः । बहु अन्तराय कामत्वात् कृषिवत् च अपि निष्फलम् ॥ २१॥ अन्तरायैः अविहतः यदि धर्मः स्वनुष्ठितः । तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु ॥ २२॥ इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः । भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान् ॥ २३॥ स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते । गन्धर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक् ॥ २४॥ स्त्रीभिः कामगयानेन किङ्किणीजालमालिना । क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः ॥ २५॥ तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः ॥ २६॥ यदि अधर्मरतः सङ्गात् असतां वा अजितेन्द्रियः । कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः ॥ २७॥ पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन् । नरकान् अवशः जन्तुः गत्वा याति उल्बणं तमः ॥ २८॥ कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः । देहम् आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ २९॥ लोकानां लोक पालानां मद्भयं कल्पजीविनाम् । ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः ॥ ३०॥ गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् । जीवः तु गुणसंयुक्तः भुङ्क्ते कर्मफलानि असौ ॥ ३१॥ यावत् स्यात् गुणवैषम्यं तावत् नानात्वम् आत्मनः । नानात्वम् आत्मनः यावत् पारतन्त्र्यं तदा एव हि ॥ ३२॥ यावत् अस्य अस्वतन्त्रत्वं तावत् ईश्वरतः भयम् । यः एतत् समुपासीरन् ते मुह्यन्ति शुचार्पिताः ॥ ३३॥ कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च । इति मां बहुधा प्राहुः गुणव्यतिकरे सति ॥ ३४॥ उद्धवः उवाच । गुणेषु वर्तमानः अपि देहजेषु अनपावृताः । गुणैः न बध्यते देही बध्यते वा कथं विभो ॥ ३५॥ कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः । किं भुञ्जीत उत विसृजेत् शयीत आसीत याति वा ॥ ३६॥ एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर । नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः ॥ ३७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे दशमोऽध्यायः ॥ १०॥ अथ एकादशोऽध्यायः । श्रीभगवान् उवाच । बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः । गुणस्य मायामूलत्वात् न मे मोक्षः न बन्धनम् ॥ १॥ शोकमोहौ सुखं दुःखं देहापत्तिः च मायया । स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ २॥ विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३॥ एकस्य एव मम अंशस्य जीवस्य एव महामते । बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ ४॥ अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ ५॥ सुपर्णौ एतौ सदृशौ सखायौ यदृच्छया एतौ कृतनीडौ च वृक्षे । एकः तयोः खादति पिप्पलान्नम् अन्यः निरन्नः अपि बलेन भूयान् ॥ ६॥ आत्मानम् अन्यं च सः वेद विद्वान् अपिप्पलादः न तु पिप्पलादः । यः अविद्यया युक् स तु नित्यबद्धः विद्यामयः यः स तु नित्यमुक्तः ॥ ७॥ देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः । अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ ८॥ इन्द्रियैः इन्द्रियार्थेषु गुणैः अपि गुणेषु च । गृह्यमाणेषु अहङ्कुर्यात् न विद्वान् यः तु अविक्रियः ॥ ९॥ दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा । वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ १०॥ एवं विरक्तः शयनः आसनाटनमज्जने । दर्शनस्पर्शनघ्राणभोजनश्रवणआदिषु ॥ ११॥ न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् । प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ १२॥ वैशारद्येक्षया असङ्गशितया छिन्नसंशयः । प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ १३॥ यस्य स्युः वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् । वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ १४॥ यस्य आत्मा हिंस्यते हिंस्र्यैः येन किञ्चित् यदृच्छया । अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ १५॥ न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा । वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ १६॥ न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा । आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ १७॥ शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि । श्रमः तस्य श्रमफलः हि अधेनुम् इव रक्षतः ॥ १८॥ गां दुग्धदोहाम् असतीं च भार्याम् देहं पराधीनम् असत्प्रजां च । वित्तं तु अतीर्थीकृतम् अङ्ग वाचम् हीनां मया रक्षति दुःखदुःखी ॥ १९॥ यस्यां न मे पावनम् अङ्ग कर्म स्थितिउद्भवप्राण निरोधनम् अस्य । लीलावतारईप्सितजन्म वा स्यात् बन्ध्यां गिरं तां बिभृयात् न धीरः ॥ २०॥ एवं जिज्ञासया अपोह्य नानात्वभ्रमम् आत्मनि । उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ २१॥ यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२॥ श्रद्धालुः मे कथाः शृण्वन् सुभद्रा लोकपावनीः । गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ २३॥ मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः । लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ २४॥ सत्सङ्गलब्धया भक्त्या मयि मां सः उपासिता । सः वै मे दर्शितं सद्भिः अञ्जसा विन्दते पदम् ॥ २५॥ उद्धव उवाच । साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो । भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ २६॥ एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो । प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७॥ त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ २८॥ श्रीभगवान् उवाच । कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् । सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ २९॥ कामैः अहतधीः दान्तः मृदुः शुचिः अकिञ्चनः । अनीहः मितभुक् शान्तः स्थिरः मत् शरणः मुनिः ॥ ३०॥ अप्रमत्तः गभीरात्मा धृतिमाञ्जितषड्गुणः । अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ ३१॥ आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ ३२॥ ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि यादृशः । भजन्ति अनन्यभावेन ते मे भक्ततमाः मताः ॥ ३३॥ मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ ३४॥ मत्कथाश्रवणे श्रद्धा मत् अनुध्यानम् उद्धव । सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ ३५॥ मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ ३६॥ यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७॥ मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः । उद्यान उपवनाक्रीडपुरमन्दिरकर्मणि । ३८॥ संमार्जन उपलेपाभ्यां सेकमण्डलवर्तनैः । गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ ३९॥ अमानित्वम् अदम्भित्वं कृतस्य अपरिकीर्तनम् । अपि दीपावलोकं मे न उपयुञ्ज्यात् निवेदितम् ॥ ४०॥ यत् यत् इष्टतमं लोके यत् च अतिप्रियम् आत्मनः । तत् तत् निवेदयेत् मह्यं तत् आनन्त्याय कल्पते ॥ ४१॥ सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् । भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ४२॥ सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्यः गोष्वङ्ग यवसादिना ॥ ४३॥ वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ ४४॥ स्थण्डिले मन्त्रहृदयैः भोगैः आत्मानम् आत्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५॥ धिष्ण्येषु एषु इति मद्रूपं शङ्खचक्रगदाम्बुजैः । युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः ॥ ४६॥ इष्टापूर्तेन माम् एवं यः यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ ४७॥ प्रायेण भक्तियोगेन सत्सङ्गेन विना उद्धव । न उपायः विद्यते सध्र्यङ् प्रायणं हि सताम् अहम् ॥ ४८॥ अथ एतत् परमं गुह्यं श्रुण्वतः यदुनन्दन । सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ ४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ ११॥ अथ द्वादशोऽध्यायः । श्रीभगवान् उवाच । न रोधयति मां योगः न स्साङ्ख्यं धर्मः एव च । न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ १॥ व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः । यथा अवरुन्धे सत्सङ्गः सर्वसङ्ग अपहः हि माम् ॥ २॥ सत्सङ्गेन हि दैतेया यातुधानः मृगाः खगाः । गन्धर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ ३॥ विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः । रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ ४॥ बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ ५॥ सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ ६॥ ते न अधितश्रुतिगणाः न उपासितमहत्तमाः । अव्रतातप्ततपसः मत्सङ्गात् माम् उपागताः ॥ ७॥ केवलेन हि भावेन गोप्यः गावः नगाः मृगाः । ये अन्ये मूढधियः नागाः सिद्धाः माम् ईयुः अञ्जसा ॥ ८॥ यं न योगेन साङ्ख्येन दानव्रततपः अध्वरैः । व्याख्याः स्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवान् अपि ॥ ९॥ रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मयि अनुरक्तचित्ताः । विगाढभावेन न मे वियोग तीव्राधयः अन्यं ददृशुः सुखाय ॥ १०॥ ताः ताः क्षपाः प्रेष्ठतमेन नीताः मया एव वृन्दावनगोचरेण । क्षणार्धवत् ताः पुनरङ्ग तासां हीना माया कल्पसमा बभूवुः ॥ ११॥ ताः न अविदन् मयि अनुषङ्गबद्ध धियः स्वमात्मानम् अदः तथा इदम् । यथा समाधौ मुनयः अब्धितोये नद्यः प्रविष्टाः इव नामरूपे ॥ १२॥ मत्कामा रमणं जारम् अस्वरूपविदः अबलाः । ब्रह्म मां परमं प्रापुः सङ्गात् शतसहस्रशः ॥ १३॥ तस्मात् त्वम् उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतम् एव च ॥ १४॥ माम् एकम् एव शरणम् आत्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ १५॥ उद्धवः उवाच । संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर । न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ १६॥ श्रीभगवान् उवाच । सः एष जीवः विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ १७॥ यथा अनलः खे अनिलबन्धुः ऊष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातः हविषा समिध्यते तथा एव मे व्यक्तिः इयं हि वाणी ॥ १८॥ एवं गदिः कर्मगतिः विसर्गः घ्राणः रसः दृक् स्पर्शः श्रुतिः च । सङ्कल्पविज्ञानम् अथ अभिमानः सूत्रं रजः सत्त्वतमोविकारः ॥ १९॥ अयं हि जीवः त्रिवृत् अब्जयोनिः अव्यक्तः एकः वयसा सः आद्यः । विश्लिष्टशक्तिः बहुधा एव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २०॥ यस्मिन् इदं प्रोतम् अशेषम् ओतं पटः यथा तन्तुवितानसंस्थः । यः एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१॥ द्वे अस्य बीजे शतमूलः त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दश एकशाखः द्विसुपर्णनीडः त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ २२॥ अदन्ति च एकं फलम् अस्य गृध्रा ग्रामेचराः एकम् अरण्यवासाः । हंसाः यः एकं बहुरूपम् इज्यैः मायामयं वेद सः वेद वेदम् ॥ २३॥ एवं गुरु उपासनया एकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य च आत्मानम् अथ त्यज अस्त्रम् ॥ २४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे द्वादशोऽध्यायः ॥ १२॥ अथ त्रयोदशोऽध्यायः । श्रीभगवान् उवाच । सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः । सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ १॥ सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः । सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ २॥ धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः । आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ ३॥ आगमः अपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रः अथ संस्कारः दश एते गुणहेतवः ॥ ४॥ तत् तत् सात्विकम् एव एषां यत् यत् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ ५॥ सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये । ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ ६॥ वेणुसङ्घर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् । एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ ७॥ उद्धवः उवाच । विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् । तथा अपि भुञ्जते कृष्ण तत् कथं श्व खर अजावत् ॥ ८॥ श्रीभगवान् उवाच । अहम् इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ ९॥ रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः । ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ १०॥ करोति कामवशगः कर्माणि अविजितेन्द्रियः । दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ ११। रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः । अतन्द्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते ॥ १२॥ अप्रमत्तः अनुयुञ्जीतः मनः मयि अर्पयन् शनैः । अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ १३॥ एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः । सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ १४॥ उद्धवः उवाच । यदा त्वं सनक आदिभ्यः येन रूपेण केशव । योगम् आदिष्टवान् एतत् रूपम् इच्छामि वेदितुम् ॥ १५॥ श्रीभगवान् उवाच । पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः । पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकान्तिकीं गतिम् ॥ १६॥ सनक आदयः ऊचुः । गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो । कथम् अन्योन्यसन्त्यागः मुमुक्षोः अतितितीर्षोः ॥ १७॥ श्रीभगवान् उवाच । एवं पृष्टः महादेवः स्वयम्भूः भूतभावनः । ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ १८॥ सः माम् अचिन्तयत् देवः प्रश्नपारतितीर्षया । तस्य अहं हंसरूपेण सकाशम् अगमं तदा ॥ १९॥ दृष्ट्वा माम् त उपव्रज्य कृत्वा पाद अभिवन्दनम् । ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ २०॥ इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा । यत् अवोचम् अहं तेभ्यः तत् उद्धव निबोध मे ॥ २१॥ वस्तुनः यदि अनानात्वम् आत्मनः प्रश्नः ईदृशः । कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ २२॥ पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । कः भवान् इति वः प्रश्नः वाचारम्भः हि अनर्थकः ॥ २३॥ मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः । अहम् एव न मत्तः अन्यत् इति बुध्यध्वम् अञ्जसा ॥ २४॥ गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः । जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ २५॥ गुणेषु च आविशत् चित्तम् अभीक्ष्णं गुणसेवया । गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ २६॥ जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः । तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ २७॥ यः हि संसृतिबन्धः अयम् आत्मनः गुणवृत्तिदः । मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ २८॥ अहङ्कारकृतं बन्धम् आत्मनः अर्थविपर्ययम् । विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ २९॥ यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः । जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ ३०॥ असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा । गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ ३१॥ यो जागरे बहिः अनुक्षणधर्मिणः अर्थान् भुङ्क्ते समस्तकरणैः हृदि तत् सदृक्षान् । स्वप्ने सुषुप्तः उपसंहरते सः एकः स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इन्द्रिय ईशः ॥ ३२॥ एवं विमृश्य गुणतः मनसः त्र्यवस्था मत् मायया मयि कृता इति निश्चितार्थाः । संछिद्य हार्दम् अनुमानस्त् उक्तितीक्ष्ण ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ ३३॥ ईक्षेत विभ्रमम् इदं मनसः विलासम् दृष्टं विनष्टम् अतिलोलम् अलातचक्रम् । विज्ञानम् एकम् उरुधा इव विभाति माया स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ ३४॥ दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः तूष्णीं भवेत् निजसुख अनुभवः निरीहः । सन्दृश्यते क्व च यदि इदम् अवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ ३५॥ देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् । दैवात् अपेतम् उत दैवशात् उपेतम् वासः यथा परिकृतं मदिरामदान्धः ॥ ३६॥ देहः अपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षतः एव सासुः । तं अप्रपञ्चम् अधिरूढसमाधियोगः स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ ३७॥ मया एतत् उक्तं वः विप्राः गुह्यं यत् साङ्ख्ययोगयोः । जानीतम् आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ ३८॥ अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९॥ मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियम् आत्मानं साम्य असङ्ग आदयः गुणाः ॥ ४०॥ इति मे छिन्नसन्देहाः मुनयः सनक आदयः । सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ ४१॥ तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३॥ अथ चतुर्दशोऽध्यायः । उद्धवः उवाच । वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यम् उत अहो एकमुख्यता ॥ १॥ भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वयि आविशेत् मनः ॥ २॥ श्रीभगवान् उवाच । कालेन नष्टा प्रलये वाणीयं वेदसञ्ज्ञिता । मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ ३॥ तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा । ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ ४॥ तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः । मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५॥ किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष आदयः । बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ ६॥ याभिः भूतानि भिद्यन्ते भूतानां मतयः तथा । यथाप्रकृति सर्वेषां चित्राः वाचः स्रवन्ति हि ॥ ७॥ एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयः नृणाम् । पारम्पर्येण केषाञ्चित् पाखण्डमतयः अपरे ॥ ८॥ मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयः वदन्ति अनेकान्तं यथाकर्म यथारुचि ॥ ९॥ धर्मम् एके यशः च अन्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् । केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ १०॥ आदि अन्तवन्तः एव एषां लोकाः कर्मविनिर्मिताः । दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनन्दाः शुच अर्पिताः ॥ ११॥ मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः । मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥ १२॥ अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः । मया सन्तुष्टमनसः सर्वाः सुखमयाः दिशः ॥ १३॥ न पारमेष्ठ्यं न महेन्द्रधिष्ण्यम् न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीः अपुनर्भवं वा मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ १४॥ न तथा मे प्रियतमः आत्मयोनिः न शङ्करः । न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ १५॥ निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् । अनुव्रजामि अहं नित्यं पूयेयेति अङ्घ्रिरेणुभिः ॥ १६॥ निष्किञ्चना मयि अनुरक्तचेतसः शान्ताः महान्तः अखिलजीववत्सलाः । कामैः अनालब्धधियः जुषन्ति यत् तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ १७॥ बाध्यमानः अपि मद्भक्तः विषयैः अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ १८॥ यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् । तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ १९॥ न साधयति मां योगः न साङ्ख्यं धर्मः उद्धव । न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ २०॥ भक्त्या अहम् एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१॥ धर्मः सत्यदया उपेतः विद्या वा तपसान्विता । मद्भ्क्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ २२॥ कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्द अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ २३॥ वाक् गद्गदा द्रवते यस्य चित्तम् रुदति अभीक्ष्णं हसति क्वचित् च । विलज्जः उद्गायति नृत्यते च मद्भक्तियुक्तः भुवनं पुनाति ॥ २४॥ यथा अग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजति अथः माम् ॥ २५॥ यथा यथा आत्मा परिमृज्यते असौ मत्पुण्यगाथाश्रवण अभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मम् चक्षुः यथा एव अञ्जनसम्प्रयुक्तम् ॥ २६॥ विषयान् ध्यायतः चित्तं विषयेषु विषज्जते । माम् अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ २७॥ तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ २८॥ स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतः आत्मवान् । क्षेमे विविक्तः आसीनः चिन्तयेत् माम् अतन्द्रितः ॥ २९॥ न तथा अस्य भवेत् क्लेशः बन्धः च अन्यप्रसङ्गतः । योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गिसङ्गतः ॥ ३०॥ उद्धवः उवाच । यथा त्वाम् अरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुम् अर्हसि ॥ ३१॥ श्रीभगवान् उवाच । समः आसनः आसीनः समकायः यथासुखम् । हस्तौ उत्सङ्गः आधाय स्वनासाग्रकृत ईक्षणः । ३२॥ प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः । विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३॥ हृदि अविच्छिन्नम् ओङ्कारं घण्टानादं बिसोर्णवत् । प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ ३४॥ एवं प्रणवसंयुक्तं प्राणम् एव समभ्यसेत् । दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥३५॥ हृत्पुण्डरीकम् अन्तस्थम् ऊर्ध्वनालम् अधोमुखम् । ध्यात्वा ऊर्ध्वमुखम् उन्निद्रम् अष्टपत्रं सकर्णिकम् ॥ ३६॥ कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् । वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमङ्गलम् ॥ ३७॥ समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् । सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८॥ समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम् । हेम अम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९॥ शङ्ख चक्र गदा पद्म वनमाला विभूषितम् । नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ ४०॥ द्युमत् किरीट कटक कटिसूत्र अङ्गद अयुतम् । सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ ४१॥ सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनः दधत् । इन्द्रियाणि इन्द्रियेभ्यः मनसा आकृष्य तत् मनः । बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ ४२॥ तत् सर्व व्यापकं चित्तम् आकृष्य एकत्र धारयेत् । न अन्यानि चिन्तयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३॥ तत्र लब्धपदं चित्तम् आकृष्य व्योम्नि धारयेत् । तत् च त्यक्त्वा मदारोहः न किञ्चित् अपि चिन्तयेत् ॥ ४४॥ एवं समाहितमतिः माम् एव आत्मानम् आत्मनि । विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ ४५॥ ध्यानेन इत्थं सुतीव्रेण युञ्जतः योगिनः मनः । संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ ४६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥ अथ पञ्चदशोऽध्यायः । श्रीभगवान् उवाच । जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः ॥ १॥ उद्धवः उवाच । कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत । कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ २॥ श्रीभगवान् उवाच । सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः । तासाम् अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ ३॥ अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणम् ईशिता ॥ ४॥ गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति । एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ ५॥ अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६॥ स्वच्छन्दमृत्युः देवानां सहक्रीडानुदर्शनम् । यथासङ्कल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ ७॥ त्रिकालज्ञत्वम् अद्वन्द्वं परचित्तादि अभिज्ञता । अग्नि अर्क अम्बु विष आदीनां प्रतिष्टम्भः अपराजयः ॥ ८॥ एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः । यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ ९॥ भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः । अणिमानम् अवाप्नोति तन्मात्र उपासकः मम ॥ १०॥ महति आत्मन् मयि परे यथासंस्थं मनः दधत् । महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥ ११॥ परमाणुमये चित्तं भूतानां मयि रञ्जयन् । कालसूक्ष्मात्मतां योगी लघिमानम् अवाप्नुयात् ॥ १२॥ धारयन् मयि अहंतत्त्वे मनः वैकारिके अखिलम् । सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३॥ महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दते अव्यक्तजन्मनः ॥ १४॥ विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे । सः ईशित्वम् अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ १५॥ नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते । मनः मयि आदधत् योगी मत् धर्माः वहिताम् इयात् ॥ १६॥ निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दम् आप्नोति यत्र कामः अवसीयते ॥ १७॥ श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ १८॥ मयि आकाश आत्मनि प्राणे मनसा घोषम् उद्वहन् । तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ १९॥ चक्षुः त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि । मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ २०॥ मनः मयि सुसंयोज्य देहं तदनु वायुना । मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ २१॥ यदा मनः उपादाय यत् यत् रूपं बुभूषति । तत् तत् भवेत् मनोरूपं मद्योगबलम् आश्रयः ॥ २२॥ परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत् प्राणः वायुभूतः षडङ्घ्रिवत् ॥ २३॥ पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कण्ठ मूर्धसु । आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ २४॥ विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् । विमानेन उपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ २५॥ यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् । मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते ॥ २६॥ यः वै मद्भावम् आपन्नः ईशितुः वशितुः पुमान् । कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ २७॥ मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः । तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ २८॥ अग्नि आदिभिः न हन्येत मुनेः योगम् अयं वपुः । मद्योगश्रान्तचित्तस्य यादसाम् उदकं यथा ॥ २९॥ मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः । ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ ३०॥ उपासकस्य माम् एवं योगधारणया मुनेः । सिद्धयः पूर्वकथिताः उपतिष्ठन्ति अशेषतः ॥ ३१॥ जितेन्द्रियस्य दान्तस्य जितश्वास आत्मनः मुनेः । मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ ३२॥ अन्तरायान् वदन्ति एताः युञ्जतः योगम् उत्तमम् । मया सम्पद्यमानस्य कालक्षेपणहेतवः ॥ ३३॥ जन्म ओषधि तपो मन्त्रैः यावतीः इह सिद्धयः । योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ ३४॥ सर्वासाम् अपि सिद्धीनां हेतुः पतिः अहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५॥ अहम् आत्मा अन्तरः बाह्यः अनावृतः सर्वदेहिनाम् । यथा भूतानि भूतेषु बहिः अन्तः स्वयं तथा ॥ ३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे सिद्धनिरूपणयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥ अथ षोडशोऽध्यायः । उद्धवः उवाच । त्वं ब्रह्म परमं साक्षात् अनादि अनन्तम् अपावृतम् । सर्वेषाम् अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ १॥ उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृत आत्मभिः । उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥ येषु येषु च भावेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तत् वदस्व मे ॥ ३॥ गूढः चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४॥ याः काः च भूमौ दिवि वै रसायाम् विभूतयः दिक्षु महाविभूते । ताः मह्यम् आख्याहि अनुभाविताः ते नमामि ते तीर्थ पद अङ्घ्रिपद्मम् ॥ ५॥ श्रीभगवान् उवाच । एवम् एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ ६॥ ज्ञात्वा ज्ञातिवधं गर्ह्यम् अधर्मं राज्यहेतुकम् । ततः निवृत्तः हन्ता अहं हतः अयम् इति लौकिकः ॥ ७॥ सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः । अभ्यभाषत माम् एवं यथा त्वं रणमूर्धनि ॥ ८॥ अहम् आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः । अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ ९॥ अहं गतिः गतिमतां कालः कलयताम् अहम् । गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ १०॥ गुणिनाम् अपि अहं सूत्रं महतां च महान् अहम् । सूक्ष्माणाम् अपि अहं जीवः दुर्जयानाम् अहं मनः ॥ ११॥ हिरण्यगर्भः वेदानां मन्त्राणां प्रणवः त्रिवृत् । अक्षराणाम् अकारः अस्मि पदानि छन्दसाम् अहम् ॥ १२॥ इन्द्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानाम् अहं विष्णू रुद्राणां नीललोहितः ॥ १३॥ ब्रह्मर्षीणां भृगुः अहं राजर्षीणाम् अहं मनुः । देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ १४॥ सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् । प्रजापतीनां दक्षः अहं पितॄणाम् अहम् अर्यमा ॥ १५॥ मां विद्धि उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् । सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ १६॥ ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७॥ उच्चैःश्रवाः तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् । यमः संयमतां च अहं सर्पाणाम् अस्मि वासुकिः ॥ १८॥ नागेन्द्राणां अनन्तः अहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । आश्रमाणाम् अहं तुर्यः वर्णानां प्रथमः अनघ ॥ १९॥ तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् । आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ २०॥ धिष्ण्यानाम् अस्मि अहं मेरुः गहनानां हिमालयः । वनस्पतीनाम् अश्वत्थः ओषधीनाम् अहं यवः ॥ २१॥ पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दः अहं सर्वसेनान्याम् अग्रण्यां भगवान् अजः ॥ २२॥ यज्ञानां ब्रह्मयज्ञः अहं व्रतानाम् अविहिंसनम् । वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनाम् अपि अहं शुचिः ॥ २३॥ योगानाम् आत्मसंरोधः मन्त्रः अस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४॥ स्त्रीणां तु शतरूपा अहं पुंसां स्वायंभुवः मनुः । नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ २५॥ धर्माणाम् अस्मि संन्यासः क्षेमाणाम् अबहिः मतिः । गुह्यानां सूनृतं मौनं मिथुनानाम् अजः तु अहम् ॥ २६॥ संवत्सरः अस्मि अनिमिषाम् ऋतूनां मधुमाधवौ । मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित् ॥ २७॥ अहं युगानां च कृतं धीराणां देवलः असितः । द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ २८॥ वासुदेवः भगवतां त्वं भागवतेषु अहम् । किम्पुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ २९॥ रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् । कुशः अस्मि दर्भजातीनां गव्यम् आज्यं हविष्षु अहम् ॥ ३०॥ व्यवसायिनाम् अहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववताम् अहम् ॥ ३१॥ ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् । सात्त्वतां नवमूर्तीनाम् आदिमूर्तिः अहं परा ॥ ३२॥ विश्वावसुः पूर्वचित्तिः गन्धर्व अप्सरसाम् अहम् । भूधराणाम् अहं स्थैर्यं गन्धमात्रम् अहं भुवः ॥ ३३॥ अपां रसः च परमः तेजिष्ठानां विभावसुः । प्रभा सूर्य इन्दु ताराणां शब्दः अहं नभसः परः ॥ ३४॥ ब्रह्मण्यानां बलिः अहं विराणाम् अहम् अर्जुनः । भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसङ्क्रमः ॥ ३५॥ गति उक्ति उत्सर्ग उपादानम् आनन्द स्पर्श लक्षणम् । आस्वाद श्रुति अवघ्राणम् अहं सर्वेन्द्रिय इन्द्रियम् ॥ ३६॥ पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् । विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् । अहम् एतत् प्रसङ्ख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ ३७॥ मया ईश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ ३८॥ सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतः अण्डानि कोटिशः ॥ ३९॥ तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ ४०॥ एताः ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः । मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ ४१॥ वाचं यच्छ मनः यच्छ प्राणानि यच्छ इन्द्रियाणि च । आत्मानम् आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ ४२॥ यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः । तस्य व्रतं तपः दानं स्रवत्यामघटाम्बुवत् ॥ ४३॥ तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः । मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे विभूतियोगो नाम षोडशोऽध्यायः ॥ १६॥ अथ सप्तदशोऽध्यायः । उद्धवः उवाच । यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः । वर्णाश्रम आचारवतां सर्वेषां द्विपदाम् अपि ॥ १॥ यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् । स्वधर्मेण अरविन्दाक्ष तत् समाख्यातुम् अर्हसि ॥ २॥ पुरा किल महाबाहो धर्मं परमकं प्रभो । यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ ३॥ सः इदानीं सुमहता कालेन अमित्रकर्शन । न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ ४॥ वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि । सभायाम् अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५॥ कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६॥ तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७॥ श्रीशुकः उवाच । इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८॥ श्रीभगवान् उवाच । धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् । वर्णाश्रम आचारवतां तम् उद्धव निबोध मे ॥ ९॥ आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः । कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ १०॥ वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् । उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ ११॥ त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी । विद्या प्रादुः अभूत् तस्याः अहम् आसं त्रिवृन्मखः ॥ १२॥ विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः । वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ १३॥ गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम । वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ १४॥ वर्णानाम् आश्रमाणां च जन्मभूमि अनुसारिणीः । आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ १५॥ शमः दमः तपः शौचं सन्तोषः क्षान्तिः आर्जवम् । मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ १६॥ तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यम् उद्यमः । स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥ १७॥ आस्तिक्यं दाननिष्ठा च अदम्भः ब्रह्मसेवनम् । अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ १८॥ शुश्रूषणं द्विजगवां देवानां च अपि अमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयः तु इमाः ॥ १९॥ अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधः च तर्षः च स्वभावः अन्तेवसायिनाम् ॥ २०॥ अहिंसा सत्यम् अस्तेयम् अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ २१॥ द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः । वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहुतः ॥ २२॥ मेखला अजिन दण्ड अक्ष ब्रह्मसूत्र कमण्डलून् । जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३॥ स्नान भोजन होमेषु जप उच्चारे च वाग्यतः । न च्छिन्द्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ २४॥ रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५॥ अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः । समाहितः उपासीत सन्ध्ये च यतवाक् जपन् ॥ २६॥ आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् । न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ २७॥ सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् । यत् च अन्यत् अपि अनुज्ञातम् उपयुञ्जीत संयतः ॥ २८॥ शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् । यान शय्या आसन स्थानैः न अतिदूरे कृताञ्जलिः ॥ २९॥ एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः । विद्या समाप्यते यावत् बिभ्रत् व्रतम् अखण्डितम् ॥ ३०॥ यदि असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ ३१॥ अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् । अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२॥ स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् । प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ ३३॥ शौचम् आचमनं स्नानं सन्ध्या उपासनम् आर्जवम् । तीर्थसेवा जपः अस्पृश्य अभक्ष्य असंभाष्य वर्जनम् ॥ ३४॥ सर्व आश्रम प्रयुक्तः अयं नियमः कुलनन्दन। मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ ३५॥ एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् । मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ ३६॥ अथ अनन्तरम् आवेक्ष्यन् यथा जिज्ञासित आगमः । गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ ३७॥ गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः । आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ ३८॥ गृहार्थी सदृशीं भार्याम् उद्वहेत् अजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णाम् अनुक्रमात् ॥ ३९॥ इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ ४०॥ प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् । अन्याभ्याम् एव जीवेत शिलैः वा दोषदृक् तयोः ॥ ४१॥ ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते । कृच्छ्राय तपसे च इह प्रेत्य अनन्तसुखाय च ॥ ४२॥ शिलोञ्छवृत्त्या परितुष्टचित्तः धर्मं महान्तं विरजं जुषाणः । मयि अर्पितात्मा गृहः एव तिष्ठन् न अतिप्रसक्तः समुपैति शान्तिम् ॥ ४३॥ समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् । तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ ४४॥ सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः । आत्मानम् आत्मना धीरः यथा गजपतिः गजान् ॥ ४५॥ एवंविधः नरपतिः विमानेन अर्कवचसा । विधूय इह अशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ ४६॥ सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् । खड्गेन वा आपदाक्रान्तः न श्ववृत्त्या कथञ्चन ॥ ४७॥ वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि । चरेत् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८॥ शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् । कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९॥ वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् । देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ ५०॥ यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१॥ कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबि अपि । विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत् ॥ ५२॥ पुत्र दारा आप्त बन्धूनां सङ्गमः पान्थसङ्गमः । अनुदेहं वियन्ति एते स्वप्नः निद्रानुगः यथा ॥ ५३॥ इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् । न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः ॥ ५४॥ कर्मभिः गृहम् एधीयैः इष्ट्वा माम् एव भक्तिमान् । तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५॥ यः तु आसक्तम् अतिः गेहे पुत्र वित्तैषण आतुरः । स्त्रैणः कृपणधीः मूढः मम अहम् इति बध्यते ॥ ५६॥ अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः । अनाथाः माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७॥ एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् । अतृप्तः तान् अनुध्यायन् मृतः अन्धं विशते तमः ॥ ५८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥ १७॥ अथ अष्टादशोऽध्यायः । श्रीभगवान् उवाच । वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा । वनः एव वसेत् शान्तः तृतीयं भागम् आयुषः ॥ १॥ कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ २॥ केशरोमनखश्मश्रुमलानि बिभृयात् अतः । न धावेत् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३॥ ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले । आकण्ठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ ४॥ अग्निपक्वं समश्नीयात् कालपक्वम् अथ अपि वा । उलूखल अश्मकुट्टः वा दन्त उलूखलः एव वा ॥ ५॥ स्वयं सञ्चिनुयात् सर्वम् आत्मनः वृत्तिकारणम् । देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ ६॥ वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७॥ अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् । चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८॥ एवं चीर्णेन तपसा मुनिः धमनिसन्ततः । मां तपोमयम् आराध्य ऋषिलोकात् उपैति माम् ॥ ९॥ यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् । कामाय अल्पीयसे युञ्ज्यात् वालिशः कः अपरः ततः ॥ १०॥ यदा असौ नियमे अकल्पः जरया जातवेपथुः । आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ ११॥ यदा कर्मविपाकेषु लोकेषु निरय आत्मसु । विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ १२॥ इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वम् ऋत्विजे । अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ १३॥ विप्रस्य वै संन्यसतः देवाः दारादिरूपिणः । विघ्नान् कुर्वन्ति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ १४॥ बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् । त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चित् अनापदि ॥ १५॥ दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् । सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ १६॥ मौन अनीहा अनिल आयामाः दण्डाः वाक् देह चेतसाम् । नहि एते यस्य सन्ति अङ्गः वेणुभिः न भवेत् यतिः ॥ १७॥ भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् । सप्तागारान् असंक्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८॥ बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः । विभज्य पावितं शेषं भुञ्जीत अशेषम् आहृतम् ॥ १९॥ एकः चरेत् महीम् एतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ २०॥ विविक्तक्षेमशरणः मद्भावविमलाशयः । आत्मानं चिन्तयेत् एकम् अभेदेन मया मुनिः ॥ २१॥ अन्वीक्षेत आत्मनः बन्धं मोक्षं च ज्ञाननिष्ठया । बन्धः इन्द्रियविक्षेपः मोक्षः एषां च संयमः ॥ २२॥ तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः । विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ २३॥ पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् । पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ २४॥ वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यम् आचरेत् । संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा ॥ २५॥ न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति । असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ २६॥ यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् । सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ २७॥ ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः । सलिङ्गान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ २८॥ बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् । वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ २९॥ वेदवादरतः न स्यात् न पाखण्डी न हैतुकः । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३०॥ न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु । अतिवादान् तितिक्षेत न अवमन्येत कञ्चन । देहम् उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ ३१॥ एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः । यथा इन्दुः उदपात्रेषु भूतानि एकात्मकानि च ॥ ३२॥ अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् । लब्ध्वा न हृष्येत् धृतिम् आनुभयं दैवतन्त्रितम् ॥ ३३॥ आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ ३४॥ यत् ऋच्छया उपपन्नात् अन्नम् अद्यात् श्रेष्ठम् उत अपरम् । तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ ३५॥ शौचम् आचमनं स्नानं न तु चोदनया चरेत् । अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ ३६॥ नहि तस्य विकल्पाख्या या च मद्वीक्षया हता । आदेहान्तात् क्वचित् ख्यातिः ततः सम्पद्यते मया ॥ ३७॥ दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् । अजिज्ञासित मद्धर्मः गुरुं मुनिम् उपाव्रजेत् ॥ ३८॥ तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः । यावत् ब्रह्म विजानीयात् माम् एव गुरुम् आदृतः ॥ ३९॥ यः तु असंयत षड्वर्गः प्रचण्ड इन्द्रिय सारथिः । ज्ञान वैराग्य रहितः त्रिदण्डम् उपजीवति ॥ ४०॥ सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्महा । अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ ४१॥ भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः । गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ ४२॥ ब्रह्मचर्यं तपः शौचं सन्तोषः भूतसौहृदम् । गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३॥ इति मां यः स्वधर्मेण भजन् नित्यम् अनन्यभाक् । सर्वभूतेषु मद्भावः मद्भक्तिं विन्दते अचिरात् ॥ ४४॥ भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् । सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ ४५॥ इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः । ज्ञान विज्ञान सम्पन्नः न चिरात् समुपैति माम् ॥ ४६॥ वर्णाश्रमवतां धर्मः एषः आचारलक्षणः । सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ ४७॥ एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् । यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ ४८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे वानप्रस्थसंन्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः ॥ १८॥ अथ एकोनविंशः अध्यायः । श्रीभगवान् उवाच । यः विद्याश्रुतसम्पन्नः आत्मवान् न अनुमानिकः । मायामात्रम् इदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥ १॥ ज्ञानिनः तु अहम् एव इष्टः स्वार्थः हेतुः च संमतः । स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ २॥ ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम । ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ ३॥ तपः तीर्थं जपः दानं पवित्राणि इतराणि च । न अलं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४॥ तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव । ज्ञानविज्ञानसम्पन्नः भज मां भक्तिभावतः ॥ ५॥ ज्ञानविज्ञानयज्ञेन माम् इष्ट्वा आत्मानम् आत्मनि । सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ ६॥ त्वयि उद्धव आश्रयति यः त्रिविधः विकारः मायान्तरा आपतति न आदि अपवर्गयोः यत् । जन्मादयः अस्य यत् अमी तव तस्य किं स्युः आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये ॥ ७॥ उद्धवः उवाच । ज्ञानं विशुद्धं विपुलं यथा एतत् वैराग्यविज्ञानयुतं पुराणम् । आख्याहि विश्वेश्वर विश्वमूर्ते त्वत् भक्तियोगं च महत् विमृग्यम् ॥ ८॥ तापत्रयेण अभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि न अन्यत् शरणं तवाङ्घ्रि द्वन्द्व आतपत्रात् अमृत अभिवर्षात् ॥ ९॥ दष्टं जनं सम्पतितं बिले अस्मिन् कालाहिना क्षुद्रसुखोः उतर्षम् । समुद्धर एनं कृपया अपवर्ग्यैः वचोभिः आसिञ्च महानुभाव ॥ १०॥ श्रीभगवान् उवाच । इत्थम् एतत् पुरा राजा भीष्मं धर्मभृतां वरम् । अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ ११॥ निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः । श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥ १२॥ तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् । ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ १३॥ नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेत अथ एकम् अपि एषु तत् ज्ञानं मम निश्चितम् ॥ १४॥ एतत् एव हि विज्ञानं न तथा एकेन येन यत् । स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥ १५॥ आदौ अन्ते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् । पुनः तत् प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत् ॥ १६॥ श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ १७॥ कर्मणां परिणामित्वात् आविरिञ्चात् अमङ्गलम् । विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत् ॥ १८॥ भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ । पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९॥ श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २०॥ आदरः परिचर्यायां सर्वाङ्गैः अभिवन्दनम् । मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१॥ मदर्थेषु अङ्गचेष्टा च वचसा मद्गुणेरणम् । मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२॥ मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ २३॥ एवं धर्मैः मनुष्याणाम् उद्धव आत्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ २४॥ यदा आत्मनि अर्पितं चित्तं शान्तं सत्त्व उपबृंहितम् । धर्मं ज्ञानं सवैराग्यम् ऐश्वर्यं च अभिपद्यते ॥ २५॥ यत् अर्पितं तत् विकल्पे इन्द्रियैः परिधावति । रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६॥ धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् । गुणेषु असङ्गः वैराग्यम् ऐश्वर्यं च अणिम् आदयः ॥ २७॥ उद्धवः उवाच । यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन । कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८॥ किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते । कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥ २९॥ पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव । का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च ॥ ३०॥ कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः । कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किं गृहम् ॥ ३१॥ कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः । एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ ३२॥ श्रीभगवान् उवाच । अहिंसा सत्यम् अस्तेयम् असङ्गः ह्रीः असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥ ३३। शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् । तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ ३४॥ एते यमाः सनियमाः उभयोः द्वादश स्मृताः । पुंसाम् उपासिताः तात यथाकामं दुहन्ति हि ॥ ३५॥ शमः मत् निष्ठता बुद्धेः दमः इन्द्रियसंयमः । तितिक्षा दुःखसंमर्षः जिह्वा उपस्थजयः धृतिः ॥ ३६॥ दण्डन्यासः परं दानं कामत्यागः तपः स्मृतम् । स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ ३७॥ ऋतं च सूनृता वाणी कविभिः परिकीर्तिता । कर्मस्वसङ्गमः शौचं त्यागः संन्यासः उच्यते ॥ ३८॥ धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः । दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ ३९॥ भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः । विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ ४०॥ श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः । दुःखं कामसुख अपेक्षा पण्डितः बन्धमोक्षवित् ॥ ४१॥ मूर्खः देह आदि अहं बुद्धिः पन्थाः मत् निगमः स्मृतः । उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ ४२॥ नरकः तमः उन्नहः बन्धुः गुरुः अहं सखे । गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ ४३॥ दरिद्रः यः तु असन्तुष्टः कृपणः यः अजितेन्द्रियः । गुणेषु असक्तधीः ईशः गुणसङ्गः विपर्ययः ॥ ४४॥ एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः । किं वर्णितेन बहुना लक्षणं गुणदोषयोः । गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ ४५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुधवसंवादे एकोनविंशोऽध्यायः ॥ १९॥ अथ विंशः अध्यायः । उद्धवः उवाच । विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते । अवेक्षते अरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १॥ वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् । द्रव्य देश वयः कालान् स्वर्गं नरकम् एव च ॥ २॥ गुण दोष भिदा दृष्टिम् अन्तरेण वचः तव । निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ ३॥ पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर । श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ ४॥ गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः । निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ ५॥ श्रीभगवान् उवाच । योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥ ६॥ निर्विण्णानां ज्ञानयोगः न्यासिनाम् इह कर्मसु । तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ ७॥ यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् । न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ ८॥ तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ ९॥ स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव । न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ १०॥ अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्भक्तिं वा यदृच्छया ॥ ११॥ स्वर्गिणः अपि एतम् इच्छन्ति लोकं निरयिणः तथा । साधकं ज्ञानभक्तिभ्याम् उभयं तत् असाधकम् ॥ १२॥ न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः । न इमं लोकं च काङ्क्षेत देह आवेशात् प्रमाद्यति ॥ १३॥ एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः । अप्रमत्तः इदं ज्ञात्वा मर्त्यम् अपि अर्थसिद्धिदम् ॥ १४॥ छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् । खगः स्वकेतम् उत्सृज्य क्षेमं याति हि अलम्पटः ॥ १५॥ अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६॥ नृदेहम् आद्यं सुलभं सुदुर्लभम् प्लवं सुकल्पं गुरुकर्णधारम् । मया अनुकूलेन नभस्वतेरितम् पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ १७॥ यदा आरम्भेषु निर्विण्णः विरक्तः संयतेन्द्रियः । अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ १८॥ धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् । अतन्द्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ १९॥ मनोगतिं न विसृजेत् जितप्राणः जितेन्द्रियः । सत्त्वसम्पन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ २०॥ एषः वै परमः योगः मनसः सङ्ग्रहः स्मृतः । हृदयज्ञत्वम् अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ २१॥ साङ्ख्येन सर्वभावानां प्रतिलोम अनुलोमतः । भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ २२॥ निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः । मनः त्यजति दौरात्म्यं चिन्तितस्य अनुचिन्तया ॥ २३॥ यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया । मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ २४॥ यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ २५॥ स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः । कर्मणां जाति अशुद्धानाम् अनेन नियमः कृतः । गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६॥ जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु । वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ २७॥ ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः । जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ २८॥ प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः । कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९॥ भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ ३०॥ तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ ३१॥ यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् । योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ ३२॥ सर्वं मद्भक्तियोगेन मद्भक्तः लभते अञ्जसा । स्वर्ग अपवर्गं मत् धाम कथञ्चित् यदि वाञ्छति ॥ ३३॥ न किञ्चित् साधवः धीराः भक्ताः हि एकान्तिनः मम । वाञ्छति अपि मया दत्तं कैवल्यम् अपुनर्भवम् ॥ ३४॥ नैरपेक्ष्यं परं प्राहुः निःश्रेयसम् अनल्पकम् । तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५॥ न मयि एकान्तभक्तानां गुणदोष उद्भवाः गुणाः । साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम् ॥ ३६॥ एवम् एतत् मया आदिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ ३७॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ २०॥ अथ एकविंशः अध्यायः । श्रीभगवान् उवाच । यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते ॥ १॥ स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः । विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ २॥ शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ ३॥ धर्मार्थं व्यवहारार्थं यात्रार्थम् इति च अनघ । दर्शितः अयं मया आचारः धर्मम् उद्वहतां धुरम् ॥ ४॥ भूमि अम्बु अग्नि अनिल आकाशाः भूतानां पञ्च धातवः । आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ ५॥ वेदेन नामरूपाणि विषमाणि समेषु अपि । धातुषु उद्धव कल्प्यन्तः एतेषां स्वार्थसिद्धये ॥ ६॥ देश काल आदि भावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७॥ अकृष्णसारः देशानाम् अब्रह्मण्यः अशुचिः भवेत् । कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ ८॥ कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा । यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ ९॥ द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च । संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ १०॥ शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने । अघं कुर्वन्ति हि यथा देश अवस्था अनुसारतः ॥ ११॥ धान्य दारु अस्थि तन्तूनां रस तैजस चर्मणाम् । काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ १२॥ अमेध्यलिप्तं यत् येन गन्धं लेपं व्यपोहति । भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ १३॥ स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः । मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः ॥ १४॥ मन्त्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् । धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः ॥ १५॥ क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः । गुणदोषार्थनियमः तत् भिदाम् एव बाधते ॥ १६॥ समानकर्म आचरणं पतितानां न पातकम् । औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः ॥ १७॥ यतः यतः निवर्तेत विमुच्येत ततः ततः । एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ १८॥ विषयेषु गुणाध्यासात् पुंसः सङ्गः ततः भवेत् । सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ १९॥ कलेः दुर्विषहः क्रोधः तमः तम् अनुवर्तते । तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ २०॥ तया विरहितः साधो जन्तुः शून्याय कल्पते । ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ २१॥ विषयाभिनिवेशेन न आत्मानं वेद न अपरम् । वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ २२॥ फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३॥ उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ २४॥ न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि । कथं युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ २५॥ एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञाः वदन्ति हि ॥ २६॥ कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धुमतान्ताः स्वं लोकं न विन्दन्ति ते ॥ २७॥ न ते माम् अङ्गः जानन्ति हृदिस्थं यः इदं यतः । उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ २८॥ ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ २९॥ हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखएच्छया । यजन्ते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ ३०॥ स्वप्न् उपमम् अमुं लोकम् असन्तं श्रवणप्रियम् । आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक् ॥ ३१॥ रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः । उपासतः इन्द्रमुख्यान् देवादीन् न तथा एव माम् ॥ ३२॥ इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि । तस्य अन्तः इह भूयास्मः महाशाला महाकुलाः ॥ ३३॥ एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् । मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ ३४॥ वेदाः ब्रह्मात्मविषयाः त्रिकाण्डविषयाः इमे । परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ ३५॥ शब्दब्रह्म सुदुर्बोधं प्राण इन्द्रिय मनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६॥ मया उपबृंहितं भूम्ना ब्रह्मणा अनन्तशक्तिना । भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ ३७॥ यथा ऊर्णनाभिः हृदयात् ऊर्णाम् उद्वमते मुखात् । आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ ३८॥ छन्दोमयः अमृतमयः सहस्रपदवीं प्रभुः । ओङ्कारात् व्यञ्जित स्पर्श स्वर उष्म अन्तस्थ भूषिताम् ॥ ३९॥ विचित्रभाषाविततां छन्दोभिः चतुर उत्तरैः । अनन्तपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ ४०॥ गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च । त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि अतिजगत् विराट् ॥ ४१॥ किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् । इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥४२॥ मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् । एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् । मायामात्रम् अनूद्य अन्ते प्रतिषिध्य प्रसीदति ॥ ४३॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवद्द्धवसंवादे वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ २१॥ अथ द्वाविंशः अध्यायः । उद्धवः उवाच । कति तत्त्वानि विश्वेश सङ्ख्यातानि ऋषिभिः प्रभो । नव एकादश पञ्च त्रीणि आत्थ त्वम् इह शुश्रुम ॥ १॥ केचित् षड्विंशतिं प्राहुः अपरे पञ्चविंशतिम् । सप्त एके नव षट् केचित् चत्वारि एकादश अपरे । केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ २॥ एतावत् त्वम् हि सङ्ख्यानाम् ऋषयः यत् विवक्षया । गायन्ति पृथक् आयुष्मन् इदं नः वक्तुम् अर्हसि ॥ ३॥ श्रीभगवान् उवाच । युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा । मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥ ४॥ न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ ५॥ यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् । प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ ६॥ परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्व अपर्य प्रसङ्ख्यानं यथा वक्तुः विवक्षितम् ॥ ७॥ एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ ८॥ पौर्व अपर्यम् अतः अमीषां प्रसङ्ख्यानम् अभीप्सताम् । यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसंभवात् ॥ ९॥ अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् । स्वतः न संभवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ १०॥ पुरुष ईश्वरयोः अत्र न वैलक्षण्यम् अणु अपि । तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ ११॥ प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः । सत्त्वं रजः तमः इति स्थिति उत्पत्ति अन्तहेतवः ॥ १२॥ सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानम् इह उच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रम् एव च ॥ १३॥ पुरुषः प्रकृतिः व्यक्तम् अहङ्कारः नभः अनिलः । ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ १४॥ श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः । वाक् पाणि उपस्थ पायु अङ्घ्रिः कर्माण्यङ्ग उभयं मनः ॥ १५॥ शब्दः स्पर्शः रसः गन्धः रूपं च इति अर्थजातयः । गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ १६॥ सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी । सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ १७॥ व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया । लब्धवीर्याः सृजन्ति अण्डं संहताः प्रकृतेः बलात् ॥ १८॥ सप्त एव धातवः इति तत्र अर्थाः पञ्च खादयः । ज्ञानम् आत्मा उभय आधारः ततः देह इन्द्रिय आसवः ॥ १९॥ षड् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् । तैः युक्तः आत्मसंभूतैः सृष्ट्वा इदं समुपाविशत् ॥ २०॥ चत्वारि एव इति तत्र अपि तेजः आपः अन्नम् आत्मनः । जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ २१॥ सङ्ख्याने सप्तदशके भूतमात्र इन्द्रियाणि च । पञ्चपञ्च एक मनसा आत्मा सप्तदशः स्मृतः ॥ २२॥ तद्वत् षोडशसङ्ख्याने आत्मा एव मनः उच्यते । भूतेन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदशः ॥ २३॥ एकादशत्वः आत्मा असौ महाभूतेन्द्रियाणि च । अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ २४॥ इति नाना प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्वात् विदुषां किम् अशोभनम् ॥ २५॥ उद्धवः उवाच । प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ । अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ २६॥ एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुम् अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ २७॥ त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः । त्वम् एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ २८॥ श्रीभगवान् उवाच । प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ । एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ २९॥ मम अङ्ग माया गुणमयी अनेकधा विकल्पबुद्धीः च गुणैः विधत्ते । वैकारिकः त्रिविधः अध्यात्मम् एकम् अथ अधिदैवम् अधिभूतम् अन्यत् ॥ ३०॥ दृक् रूपम् आर्कं वपुः अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यत् एषम् अपरः यः आद्यः स्वया अनुभूत्य अखिलसिद्धसिद्धिः । एवं त्वक् आदि श्रवणादि चक्षुः जिह्व आदि नास आदि च चित्तयुक्तम् ॥ ३१॥ यः असौ गुणक्षोभकृतौ विकारः प्रधानमूलात् महतः प्रसूतः । अहं त्रिवृत् मोहविकल्पहेतुः वैकारिकः तामसः ऐन्द्रियः च ॥ ३२॥ आत्मापरिज्ञानमयः विवादः हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः । व्यर्थः अपि न एव उपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ ३३॥ उद्धवः उवाच । त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो । उच्च अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३४॥ तत् मम आख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः । न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः ॥ ३५॥ श्रीभगवान् उवाच । मनः कर्ममयं नृणाम् इन्द्रियैः पञ्चभिः युतम् । लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ ३६॥ ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ । उद्यत् सीदत् कर्मतन्त्रं स्मृतिः तत् अनुशाम्यति ॥ ३७॥ विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः । जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्तविस्मृतिः ॥ ३८॥ जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद । विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ ३९॥ स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ । तत्र पूर्वम् इव आत्मानम् अपूर्वं च अनुपश्यति ॥ ४०॥ इन्द्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि । बहिः अन्तः भिदाहेतुः जनः असत् जनकृत् यथा ॥ ४१॥ नित्यदा हि अङ्गः भूतानि भवन्ति न भवन्ति च । कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ ४२॥ यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ ४३॥ सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् । सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा आयुषाम् ॥ ४४॥ मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् । म्रियते वामरः भ्रान्त्या यथा अग्निः दारु संयुतः ॥ ४५॥ निषेकगर्भजन्मानि बाल्यकौमारयौवनम् । वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ ४६॥ एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः । गुणसङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ ४७॥ आत्मनः पितृपुत्राभ्याम् अनुमेयौ भवाप्ययौ । न भवाप्ययवस्तूनाम् अभिज्ञः द्वयलक्षणः ॥ ४८॥ तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ । तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ ४९॥ प्रकृतेः एवम् आत्मानम् अविविच्य अबुधः पुमान् । तत्त्वेन स्पर्शसंमूढः संसारं प्रतिपद्यते ॥ ५०॥ सत्त्वसङ्गात् ऋषीन् देवान् रजसा असुरमानुषान् । तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ ५१॥ नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् । एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ ५२॥ यथा अम्भसा प्रचलता तरवः अपि चलाः इव । चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ ५३॥ यथा मनोरथधियः विषयानुभवः मृषा । स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ ५४॥ अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ ५५॥ तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः । आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५६॥ क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा । ताडितः संनिबद्धः वा वृत्त्या वा परिहापितः ॥ ५७॥ निष्ठितः मूत्रितः बहुधा एवं प्रकम्पितः । श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानम् उद्धरेत् ॥ ५८॥ उद्धवः उवाच । यथा एवम् अनुबुद्ध्येयं वद नः वदतां वर । सुदुःसहम् इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ ५९॥ विदुषम् अपि विश्वात्मन् प्रकृतिः हि बलीयसी । ऋते त्वत् धर्मनिरतान् शान्ताः ते चरणालयान् ॥ ६०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे द्वाविंशोऽध्यायः ॥ २२॥ अथ त्रयोविंशः अध्यायः । बादरायणिः उवाच । सः एवम् आशंसितः उद्धवेन भागवतमुख्येन दाशार्हमुख्यः । सभाजयन् बृत्यवचः मुकुन्दः तम् आबभाषे श्रवणीयवीर्यः ॥ १॥ श्रीभगवान् उवाच । बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः । दुरुक्तैः भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥ २॥ न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः । यथा तुदन्ति मर्मस्थाः हि असतां परुषेषवः ॥ ३॥ कथयन्ति महत्पुण्यम् इतिहासम् इह उद्धव । तम् अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ ४॥ केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५॥ अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया । वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ ६॥ ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः । शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ ७॥ दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः । दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ ८॥ तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः । धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ ९॥ तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरिद । अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ १०॥ ज्ञातयः जगृहुः किञ्चित् किञ्चित् अस्यवः उद्धव । दैवतः कालतः किञ्चित् ब्रह्मबन्धोः नृपार्थिवात् ॥ ११॥ सः एवं द्रविणे नष्टे धर्मकामविवर्जितः । उपेक्षितः च स्वजनैः चिन्ताम् आप दुरत्ययाम् ॥ १२॥ तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः । खिद्यतः बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत् ॥ १३॥ सः च आह इदम् अहो कष्टं वृथा आत्मा मे अनुतापितः । न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ १४॥ प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन । इह च आत्मोपतापाय मृतस्य नरकाय च ॥ १५॥ यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः । लोभः स्वल्पः अपि तान् हन्ति श्वित्रः रूपम् इव इप्सितम् ॥ १६॥ अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये । नाश उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम् ॥ १७॥ स्तेयं हिंसा अनृतं दम्भः कामः क्रोधः स्मयः मदः । भेदः वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥ १८॥ एते पञ्चदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् । तस्मात् अनर्थम् अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ १९॥ भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा । एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ २०॥ अर्थेन अल्पीयसा हि एते संरब्धा दीप्तम् अन्यवः । त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम् ॥ २१॥ लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् । तत् अनादृत्य ये स्वार्थं घ्नन्ति यान्ति अशुभां गतिम् ॥ २२॥ स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकम् इमं पुमान् । द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ २३॥ देवर्षि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः । असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ २४॥ व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् । कुशलाः येन सिध्यन्ति जरठः किं नु साधये ॥ २५॥ कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् । कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ २६॥ किं धनैः धनदैः वा किं कामैः वा कामदैः उत । मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ २७॥ नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः । येन नीतः दशाम् एतां निर्वेदः च आत्मनः प्लवः ॥ २८॥ सः अहं कलौ अशेषेण शोषयिह्ह्ये अङ्गम् आत्मनः । अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ २९॥ तत्र माम् अनुमोदेरन् देवाः त्रिभुवनेश्वराः । मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ ३०॥ श्रीभगवान् उवाच । इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः । उन्मुच्य हृदयग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः ॥ ३१॥ सः चचार महीम् एतां संयत आत्मेन्द्रिय अनिलः । भिक्षार्थं नगर ग्रामान् असङ्गः अलक्षितः अविशत् ॥ ३२॥ तं वै प्रवयसं भिक्षुम् अवधूतम् असज्जनाः । दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ ३३॥ केचित् त्रिवेणुं जगृहुः एके पात्रं कमण्डलुम् । पीठं च एके अक्षसूत्रं च कन्थां चीराणि केचन ॥ ३४॥ प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः । अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित् तटे ॥ ३५॥ मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि । यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ ३६॥ तर्जयन्ति अपरे वाग्भिः स्तेनः अयम् इति वादिनः । बध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यताम् इति ॥ ३७॥ क्षिपन्ति एके अवजानन्तः एषः धर्मध्वजः शठः । क्षीणवित्तः इमां वृत्तिम् अग्रहीत् स्वजन उज्झितः ॥ ३८॥ अहो एषः महासारः धृतिमान् गिरिः आडिव । मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ ३९॥ इति एके विहसन्ति एनम् एके दुर्वातयन्ति च । तं बबन्धुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ ४०॥ एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यम् आत्मनः दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥ ४१॥ परिभूतः इमां गाथाम् अगायत नराधमैः । पातयद्भिः स्वधर्मस्थः धृतिम् आस्थाय सात्विकीम् ॥ ४२॥ द्विजः उवाच । न अयं जनः मे सुखदुःखहेतुः न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणम् आमनन्ति संसारचक्रं परिवर्तयेत् यत् ॥ ४३॥ मनः गुणान् वै सृजते बलीयः ततः च कर्माणि विलक्षणानि । शुक्लानि कृष्णानि अथ लोहितानि तेभ्यः सवर्णाः सृतयः भवन्ति ॥ ४४॥ अनीहः आत्मा मनसा समीहता हिरण्मयः मत्सखः उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धः गुणसङ्गतः असौ ॥ ४५॥ दानं स्वधर्मः नियमः यमः च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षणान्ताः परः हि योगः मनसः समाधि ॥ ४६॥ समाहितं यस्य मनः प्रशान्तम् दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनः विनश्यत् दानादिभिः चेत् अपरं किमेभिः ॥ ४७॥ मनोवशे अन्ये हि अभवन् स्म देवाः मनः च न अन्यस्य वशं समेति । भीष्मः हि देवः सहसः सहीयान् युञ्ज्यात् वशे तं सः हि देवदेवः ॥ ४८॥ तं दुर्जयं शत्रुम् असह्यवेगं मरुन्तुदं तत् न विजित्य केचित् । कुर्वन्ति असत् विग्रहम् अत्र मर्त्यैः मित्राणि उदासीन रिपून् विमूढाः ॥ ४९॥ देहं मनोमात्रम् इमं गृहीत्वा मम अहम् इति अन्ध धियः मनुष्याः । एषः अहम् अन्यः अयम् इति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ ५०॥ जनः तु हेतुः सुखदुःखयोः चेत् किम् आत्मनः च अत्र ह भौमयोः तत् । जिह्वां क्वचित् सन्दशति स्वदद्भिः तत् वेदनायां कतमाय कुप्येत् ॥ ५१॥ दुःखस्य हेतुः यदि देवताः तु किम् आत्मनः तत्र विकारयोः तत् । यत् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२॥ आत्मा यदि स्यात् सुखदुःखहेतुः किम् अन्यतः तत्र निजस्वभावः । न हि आत्मनः अन्यत् यदि तत् मृषा स्यात् क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ ५३॥ ग्रहाः निमित्तं सुखदुःखयोः चेत् किम् आत्मनः अजस्य जनस्य ते वै । ग्रहैः ग्रहस्य एव वदन्ति पीडाम् क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ ५४॥ कर्माः तु हेतुः सुखदुःखयोः चेत् किम् आत्मनः तत् हि जडाजडत्वे । देहः तु अचित्पुरुषः अयं सुपर्णः क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५५॥ कालः तु हेतुः सुखदुःखयोः चेत् किम् आत्मनः तत्र तत् आत्मकः असौ । न अग्नेः हि तापः न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५६॥ न केनचित् क्व अपि कथञ्चन अस्य द्वन्द्व उपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्यात् एवं प्रबुद्धः न बिभेति भूतैः ॥ ५७॥ एतां सः आस्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैः महर्षिभिः । अहं तरिष्यामि दुरन्तपारम् तमः मुकुन्द अङ्घ्रिनिषेवया एव ॥ ५८॥ श्रीभगवान् उवाच । निर्विद्य नष्टद्रविणः गतक्लमः प्रव्रज्य गां पर्यटमानः इत्थम् । निराकृतः असद्भिः अपि स्वधर्मात् अकम्पितः अमुं मुनिः आह गाथाम् ॥ ५९॥ सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः । मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ ६०॥ तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मयि आवेशितया युक्तः एतावान् योगसङ्ग्रहः ॥ ६१॥ यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः । धारयन् श्रावयन् श्रुण्वन् द्वन्द्वैः न एव अभिभूयते ॥ ६२॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ २३॥ अथ चतुर्विंशोऽध्याः । श्रीभगवान् उवाच । अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैः विनिश्चितम् । यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ १॥ आसीत् ज्ञानम् अथः हि अर्थः एकम् एव अविकल्पितम् । यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ २॥ तत् मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ ३॥ तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका । ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ ४॥ तमः रजः सत्त्वम् इति प्रकृतेः अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ ५॥ तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततः विकुर्वतः जातः यः अहङ्कारः विमोहनः ॥ ६॥ वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् । तन्मात्र इन्द्रिय मनसां कारणं चित् अचित् मयः ॥ ७॥ अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च । तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ ८॥ मया सञ्चोदिताः भावाः सर्वे संहति अकारिणः । अण्डम् उत्पादयामासुः मम आयतनम् उत्तमम् ॥ ९॥ तस्मिन् अहं समभवम् अण्डे सलिलसंस्थितौ । मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥ १०॥ सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् । लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ ११॥ देवानाम् ओकः आसीत् स्वः भूतानां च भुवः पदम् । मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥ १२॥ अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ १३॥ योगस्य तपसः च एव न्यासस्य गतयः अमलाः । महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४॥ मया कालात्मना धात्रा कर्मयुक्तम् इदं जगत् । गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ १५॥ अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति । सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६॥ यः तु यस्य आदिः अन्तः च सः वै मध्यं च तस्य सन् । विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ १७॥ यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् । आदिः अन्तः यदा यस्य तत् सत्यम् अभिधीयते ॥ १८॥ प्रकृतिः हि अस्य उपादानम् आधारः पुरुषः परः । सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ १९॥ सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः । महान् गुणविसर्ग अर्थः स्थिति अन्तः यावत् ईक्षणम् ॥ २०॥ विराट् मया आसाद्यमानः लोककल्पविकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१॥ अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते । धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते ॥ २२॥ अप्सु प्रलीयन्ते गन्धः आपः च स्वगुणे रसे । लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ २३॥ रूपं वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे । अम्बरं शब्दतन्मात्रः इन्द्रियाणि स्वयोनिषु ॥ २४॥ योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे । शब्दः भूतादिम् अपि एति भूतादिः महति प्रभुः ॥ २५॥ सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः । ते अव्यक्ते सम्प्रलीयन्ते तत्कले लीयते अव्यये ॥ २६॥ कालः मायामये जीवे जीवः आत्मनि मयि अजे । आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ २७॥ एवम् अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः । मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ २८॥ एषः साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ २९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे प्रकृतिपुरुषसाङ्ख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ २४॥ अथ पञ्चविंशोऽध्यायः । श्रीभगवानुवाच । गुणानाम् असमिश्राणां पुमान्येन यथा भवेत् । तन्मे पुरुषवर्य इअदम् उपधारय शंसतः ॥ १॥ समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः । तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः ॥ २॥ कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् । मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ ३॥ क्रोधः लोभः अनृतं हिंसा याञ्चा दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ ४॥ सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः । वृत्तयः वर्णितप्रायाः संनिपातम् अथः श्रुणु ॥ ५॥ संनिपातः तु अहम् इति मम इति उद्धव या मतिः । व्यवहारः संनिपातः मनोमात्र इन्द्रियासुभिः ॥ ६॥ धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः । गुणानां संनिकर्षः अयं श्रद्धाः अतिधनावहः ॥ ७॥ प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे । स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ ८॥ पुरुषं सत्त्वसंयुक्तम् अनुमीयात् शम आदिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ ९॥ यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥ १०॥ यदा आशिषः आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् ॥ ११॥ सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे । चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ १२॥ यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ १३॥ यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ १४॥ यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ १५॥ यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहे अभयं मनोसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ १६॥ विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् । गात्रास्वास्थ्यं मनः भ्रान्तं रजः एतैः निशामय ॥ १७॥ सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् । मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ १८॥ एधमाने गुणे सत्त्वे देवानां बलम् एधते । असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ १९॥ सत्त्वात् जगरणं विद्यात् रजसा स्वप्नम् आदिशेत् । प्रस्वापं तमसा जन्तोः तुरीयं त्रिषु सन्ततम् ॥ २०॥ उपर्युपरि गच्छन्ति सत्त्वेन आब्रह्मणः जनाः । तमसा अधः अधः आमुख्यात् रजसा अन्तरचारिणः ॥ २१॥ सत्त्वे प्रलीनाः स्वः यान्ति नरलोकं रजोलयाः । तमोलयाः तु निरयं यान्ति माम् एव निर्गुणाः ॥ २२॥ मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३॥ कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४॥ वनं तु सात्विकः वासः ग्रामः राजसः उच्यते । तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ २५॥ सात्विकः कारकः असङ्गी रागान्धः राजसः स्मृतः । तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ २६॥ सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७॥ पथ्यं पूतम् अनायः तम् आहार्यं सात्त्विकं स्मृतम् । राजसं च इन्द्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ २८॥ सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ २९॥ द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः । श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥ ३०॥ सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ ३१॥ एताः संसृतयः पुंसः गुणकर्मनिबन्धनाः । येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः । भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ ३२॥ तस्मात् अहम् इमं लब्ध्वा ज्ञानविज्ञानसंभवम् । गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ ३३॥ निःसङ्गः मां भजेत् विद्वान् अप्रमत्तः जितेन्द्रियः । रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ ३४॥ सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शान्तधीः । सम्पद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ ३५॥ जीवः जीवविनिर्मुक्तः गुणैः च आशयसंभवैः । मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत् ॥ ३६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे गुणनिर्गुणनिरूपणं नाम पञ्चविंशोऽध्यायः ॥ २५॥ अथ षड्विंशोऽध्यायः । श्रीभगवान् उवाच । मत् लक्षणम् इमं कायं लब्ध्वा मद्धर्मः आस्थितः । आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥१॥ गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः । वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ २॥ सङ्गं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् । तस्य अनुगतः तमसि अन्धे पतति अन्ध अनुगान्धवत् ॥ ३॥ ऐलः सम्राट् इमां गाथाम् अगायत बृहच्छ्रवाः । उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४॥ त्यक्त्वा आत्मानं व्रजन्तीं तां नग्नः उन्मत्तवत् नृपः । विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ ५॥ कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः । न वेद यान्तीः न अयान्तीः उर्वशी आकृष्टचेअतनः ॥ ६॥ ऐलः उवाच । अहो मे मोहविस्तारः कामकष्मलचेतसः । देव्याः गृहीतकण्ठस्य न आयुःखण्डाः इमे स्मृताः ॥ ७॥ न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया । मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ ८॥ अहो मे आत्मसंमोहः येन आत्मा योषितां कृतः । क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ ९॥ सपरिच्छदम् आत्मानं हित्वा तृणम् इव ईश्वरम् । यान्तीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ १०॥ कुतः तस्य अनुभावः स्यात् तेजः ईशत्वम् एव वा । यः अन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११॥ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ १२॥ स्वार्थस्य अकोविदं धिङ् मां मूर्खं पण्डित मानिनम् । यः अहम् ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ १३॥ सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् । न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ १४॥ पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः । आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ १५॥ बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः । मनोगतः महामोहः न अपयाति अजितात्मनः ॥ १६॥ किम् एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः । रज्जुस्वरूप अविदुषः यः अहं यत् अजितेन्द्रियः ॥ १७॥ क्व अयं मलोमसः कायः दौर्गन्धि आदि आत्मकः अशुचिः । क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ १८॥ पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः । किम् आत्मनः किं सुहृदाम् इति यः न अवसीयते ॥ १९॥ तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २०॥ त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ । विण्मूत्रपूये रमतां कृमीणां कियत् अन्तरम् ॥ २१॥ अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् । विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ २२॥ अदृष्टात् अश्रुतात् भावात् न भावः उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३॥ तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः । विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४॥ श्रीभगवान् उवाच । एवं प्रगायन् नृपदेवदेवः सः उर्वशीलोकम् अथः विहाय । आत्मानम् आत्मनि अवगम्य मां वै उपारमत् ज्ञानविधूतमोहः ॥ २५॥ ततः दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्तः एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६॥ सन्तः अनपेक्षाः मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः ॥ २७॥ तेषु नित्यं महाभागः महाभागेषु मत्कथाः । संभवन्ति हिता नॄणां जुषतां प्रपुनन्ति अघम् ॥ २८॥ ताः ये श्रुण्वन्ति गायन्ति हि अनुमोदन्ति च अदृताः । मत्पराः श्रद्दधानाः च भक्तिं विन्दन्ति ते मयि ॥ २९॥ भक्तिं लब्धवतः साधोः किम् अन्यत् अवशिष्यते । मयि अनन्तगुणे ब्रह्मणि आनन्द अनुभव आत्मनि ॥ ३०॥ यथा उपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ ३१॥ निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् । सन्तः ब्रह्मविदः शान्ताः नौः दृढ इव अप्सु मज्जताम् ॥ ३२॥ अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् । धर्मः वित्तं नृणां प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम् ॥ ३३॥ सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः । देवताः बान्धवाः सन्तः सन्तः आत्मा अहम् एव च ॥ ३४॥ वैतसेनः ततः अपि एवम् उर्वश्या लोकनिःस्पृहः । मुक्तसङ्गः महीम् एताम् आत्मारामः चचार ह ॥ ३५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे ऐलगीतं नाम षड्विंशोऽध्यायः ॥ २६॥ अथ सप्तविंशोऽध्यायः । उद्धवः उवाच । क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो । यस्मात् त्वां ये यथा अर्चन्ति सात्वताः सात्वतर्षभ ॥ १॥ एतत् वदन्ति मुनयः मुहुः निःश्रेयसं नृणाम् । नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः ॥ २॥ निःसृतं ते मुखाम्भोजाद्यत् आह भगवान् अजः । पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ ३॥ एतत् वै सर्ववर्णानाम् आश्रमाणां च संमतम् । श्रेयसाम् उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४॥ एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् । भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ ५॥ श्रीभगवान् उवाच । नहि अन्तः अनन्तपारस्य कर्मकाण्डस्य च उद्धव । संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ ६॥ वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः । त्रयाणाम् ईप्सितेन एव विधिना मां समर्चयेत् ॥ ७॥ यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ ८॥ अर्चायां स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः । द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं माम् अमायया ॥ ९॥ पूर्वं स्नानं प्रकुर्वीत धौतदन्तः अङ्गशुद्धये । उभयैः अपि च स्नानं मन्त्रैः मृद्ग्रहणादिना ॥ १०॥ सन्ध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे । पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११॥ शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ १२॥ चल अचल इति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वास आवाहने न स्तः स्थिरायाम् उद्धव अर्चने ॥ १३॥ अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् । स्नपनं तु अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ १४॥ द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः । भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ १५॥ स्नान अलङ्करणं प्रेष्ठम् अर्चायाम् एव तु उद्धव । स्थण्डिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ १६॥ सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः । श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ १७॥ भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते । गन्धः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ १८॥ शुचिः संभृतसंभारः प्राक् दर्भैः कल्पित आसनः । आसीनः प्राक् उदक् वा अर्चेत् अर्चायाम् अथ संमुखः ॥ १९॥ कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् । कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ २०॥ तत् अद्भिः देवयजनं द्रव्याणि आत्मानम् एव च । प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ २१॥ पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः । हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत् ॥ २२॥ पिण्डे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेत् नाद अन्ते सिद्धभाविताम् ॥ २३॥ तया आत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः । आवाह्य अर्च आदिषु स्थाप्य न्यस्त अङ्गं मां प्रपूजयेत् ॥ २४॥ पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् । धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ २५॥ पद्मम् अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् । उभाभ्यां वेदतन्त्राभ्यां मह्यं तु उभयसिद्धये ॥ २६॥ सुदर्शनं पाञ्चजन्यं गदासीषुधनुः हलान् । मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ २७॥ नन्दं सुनन्दं गरुडं प्रचण्डं चण्डम् एव च । महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ २८॥ दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ २९॥ चन्दन उशीर कर्पूर कुङ्कुम अगरु वासितैः । सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति ॥ ३०॥ स्वर्णघर्म अनुवाकेन महापुरुषविद्यया । पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ ३१॥ वस्त्र उपवीत आभरण पत्र स्रक् गन्ध लेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ ३२॥ पाद्यम् आचमनीयं च गन्धं सुमनसः अक्षतान् । धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ ३३॥ गुडपायससर्पींषि शष्कुलि आपूप मोदकान् । संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ ३४॥ अभ्यङ्ग उन्मर्दन आदर्श दन्तधौ अभिषेचनम् । अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ ३५॥ विधिना विहिते कुण्डे मेखलागर्तवेदिभिः । अग्निम् आधाय परितः समूहेत् पाणिना उदितम् ॥ ३६॥ परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि । प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७॥ तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसत् चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८॥ स्फुरत् किरीट कटक कटिसूत्रवर अङ्गदम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९॥ ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च । प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ ४०॥ जुहुयात् मूलमन्त्रेण षोडशर्च अवदानतः । धर्मादिभ्यः यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१॥ अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् । मूलमन्त्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ ४२॥ दत्त्वा आचमनम् उच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यम् अथ अर्हयेत् ॥ ४२॥ उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ ४४। स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि । स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५॥ शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्युग्रह अर्णवात् ॥ ४६॥ इति शेषां मया दत्तां शिरसि आधाय सादरम् । उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ ४७॥ अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् । सर्वभूतेषु आत्मनि च सर्व आत्मा अहम् अवस्थितः ॥ ४८॥ एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन् उभयतः सिद्धिं मत्तः विन्दति अभीप्सिताम् ॥ ४९॥ मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेत् दृढम् । पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ ५०॥ पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टिताम् इयात् ॥ ५१॥ प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यताम् इयात् ॥ ५२॥ माम् एव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ ५३॥ यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः । वृत्तिं सः जायते विड्भुक् वर्षाणाम् अयुतायुतम् ॥ ५४॥ कर्तुः च सारथेः हेतोः अनुमोदितुः एव च । कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ ५५॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे सप्तविंशोऽध्यायः ॥ २७॥ अथ अष्टविंशः अध्यायः । श्रीभगवान् उवाच । परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् । विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १॥ परस्वभावकर्माणि यः प्रशंसति निन्दति । सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ २॥ तैजसे निद्रया आपन्ने पिण्डस्थः नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३॥ किं भद्रं किम् अभद्रं वा द्वैतस्य अवस्तुनः कियत् । वाचा उदितं तत् अनृतं मनसा ध्यातम् एव च ॥ ४॥ छायाप्रत्याह्वयाभासा हि असन्तः अपि अर्थकारिणः । एवं देहादयः भावाः यच्छन्ति आमृत्युतः भयम् ॥ ५॥ आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ ६॥ तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः । निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७॥ एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८॥ प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा । आदि अन्तवत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह ॥ ९॥ उद्धवः उवाच । न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः । अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ १०॥ आत्मा अव्ययः अगुणः शुद्धः स्वयञ्ज्योतिः अनावृतः । अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ ११॥ श्रीभगवान् उवाच । यावत् देह इन्द्रिय प्राणैः आत्मनः संनिकर्षणम् । संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ १२॥ अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ १३॥ यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् । सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४॥ शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः ॥ १५॥ देह इन्द्रिय प्राण मनः अभिमानः जीवः अन्तरात्मा गुणकर्म मूर्तिः । सूत्रं महान् इति उरुधा इव गीतः संसारः आधावति कालतन्त्रः ॥ १६॥ अमूलम् एतत् बहुरूप रूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिना उपासनया शितेन छित्त्वा मुनिः गां विचरति अतृष्णः ॥ १७॥ ज्ञानं विवेकः निगमः तपः च प्रत्यक्षम् ऐतिह्यम् अथ अनुमानम् । आदि अन्तयोः अस्य यत् एव केवलम् कालः च हेतुः च तत् एव मध्ये ॥ १८॥ यथा हिरण्यं स्वकृतं पुरस्तात् पश्चात् च सर्वस्य हिरण्मयस्य । तत् एव मध्ये व्यवहार्यमाणम् नानापदेशैः अहम् अस्य तद्वत् ॥ १९॥ विज्ञानम् एतत् त्रियवस्तम् अङ्ग गुणत्रयं कारण कार्य कर्तृ । समन्वयेन व्यतिरेकतः च येन एव तुर्येण तत् एव सत्यम् ॥ २०॥ न यत् पुरस्तात् उत यत् न पश्चात् मध्ये च तत् न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तत् एव तत् स्यात् इति मे मनीषा ॥ २१॥ अविद्यमानः अपि अवभासते यः वैकारिकः राजससर्गः एषः । ब्रह्म स्वयञ्ज्योतिः अतः विभाति ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम् ॥ २२॥ एवं स्फुटं ब्रह्मविवेकहेतुभिः परापवादेन विशारदेन । छित्त्वा आत्मसन्देहम् उपारमेत स्वानन्दतुष्टः अखिल कामुकेभ्यः ॥ २३॥ न आत्मा वपुः पार्थिवम् इन्द्रियाणि देवाः हि असुः वायुजलं हुताशः । मनः अन्नमात्रं धिषणा च सत्त्वम् अहंकृतिः खं क्षितिः अर्थसाम्यम् ॥ २४॥ समाहितैः कः करणैः गुणात्मभिः गुणः भवेत् मत्सुविविक्तधाम्नः । विक्षिप्यमाणैः उत किं न दूषणम् घनैः उपेतैः विगतैः रवेः किम् ॥ २५॥ यथा नभः वायु अनल अम्बु भू गुणैः गतागतैः वर्तुगुणैः न सज्जते । तथा अक्षरं सत्त्व रजः तमः मलैः अहंमतेः संसृतिहेतुभिः परम् ॥ २६॥ तथापि सङ्गः परिवर्जनीयः गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावत् रजः निरस्येत मनःकषायः ॥ २७॥ यथा आमयः असाधु चिकित्सितः नृणाम् पुनः पुनः सन्तुदति प्ररोहन् । एवं मनः अपक्व कषय कर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८॥ कुयोगिनः ये विहित अन्तरायैः मनुष्यभूतैः त्रिदश उपसृष्टैः । ते प्राक्तन अभ्यासबलेन भूयः युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९॥ करोति कर्म क्रियते च जन्तुः केनापि असौ चोदितः आनिपातात् । न तत्र विद्वान्प्रकृतौ स्थितः अपि निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ ३०॥ तिष्ठन्तम् आसीनम् उत व्रजन्तम् शयानम् उक्षन्तम् अदन्तम् अन्नम् । स्वभावम् अन्यत् किम् अपि इहमानम् आत्मानम् आत्मस्थमतिः न वेद ॥ ३१॥ यदि स्म पश्यति असत् इन्द्रिय अथ नाना अनुमानेन विरुद्धम् अन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ ३२॥ पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानम् आत्मनि अविविक्तम् अङ्ग । निवर्तते तत् पुनः ईक्षया एव न गृह्यते न अपि विसृज्य आत्मा ॥ ३३॥ यथा हि भानोः उदयः नृचक्षुषाम् तमः निहन्यात् न तु सद्विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ ३४॥ एषः स्वयञ्ज्योतिः अजः अप्रमेयः महानुभूतिः सकलानुभूतिः । एकः अद्वितीयः वचसां विरामे येन ईशिता वाक् असवः चरन्ति ॥ ३५॥ एतावान् आत्मसंमोहः यत् विकल्पः तु केवले । आत्मन् नृते स्वमात्मानम् अवलम्बः न यस्य हि ॥३६॥ यत् नाम आकृतिभिः ग्राह्यं पञ्चवर्णम् अबाधितम् । व्यर्थेन अपि अर्थवादः अयं द्वयं पण्डितमानिनाम् ॥ ३७॥ योगिनः अपक्वयोगस्य युञ्जतः कायः उत्थितैः । उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ ३८॥ योगधारणया कांश्चित् आसनैः धारण अन्वितैः । तपोमन्त्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ ३९॥ कांश्चित् मम अनुध्यानेन नामसङ्कीर्तन आदिभिः । योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ ४०॥ केचित् देहम् इमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये ॥ ४१॥ न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः । अन्तवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ ४२॥ योगं निषेवतः नित्यं कायः चेत् कल्पताम् इयात् । तत् श्रद्दध्यात् न मतिमान् योगम् उत्सृज्य मत्परः ॥ ४३॥ योगचर्याम् इमां योगी विचरन् मत् व्यपाश्रयः । न अन्तरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ २८॥ अथ एकोनत्रिंशः अध्यायः । सुदुस्तराम् इमां मन्ये योगचर्याम् अनात्मनः । यथा अञ्जसा पुमान् सिह्येत् तत् मे ब्रूहि अञ्जसा अच्युत ॥ १॥ प्रायशः पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः । विषीदन्ति असमाधानात् मनोनिग्रहकर्शिताः ॥ २॥ अथ अतः आनन्ददुघं पदाम्बुजम् हंसाः श्रयेरन् अरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभिः त्वत् मायया अमी विहताः न मानिनः ॥ ३॥ किं चित्रम् अच्युत तव एतत् अशेषबन्धः दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् । यः अरोचयत्सह मृगैः स्वयम् ईश्वराणाम् श्रीमत् किरीट तट पीडित पाद पीठः ॥ ४॥ तं त्वा अखिल आत्मदयित ईश्वरम् आश्रितानाम् सर्व अर्थदं स्वकृतवित् विसृजेत कः नु । कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै किं वा भवेत् न तव पादरजोजुषां नः ॥ ५॥ न एव उपयन्ति अपचितिं कवयः तव ईश ब्रह्मायुषा अपि कृतम् ऋधमुदः स्मरन्तः । यः अन्तर्बहिः तनुभृताम् अशुभं विधुन्वन् आचार्यचैत्यवपुषा स्वगत्ं व्यनक्ति ॥ ६॥ श्रीशुकः उवाच । इति उद्धवेन अति अनुरक्त चेतसा पृष्टः जगत्क्रीडनकः स्वशक्तिभिः । गृहीत मूर्तित्रयः ईश्वर ईश्वरः जगाद सप्रेम मनोहरस्मितः ॥ ७॥ श्रीभगवान् उवाच । हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलाम् । यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ ८॥ कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् । मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ ९॥ देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् । देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ १०॥ पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् । कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ ११॥ माम् एव सर्वभूतेषु बहिः अन्तः अपावृतम् । ईक्षेत आत्मनि च आत्मानं यथा खम् अमल आशयः ॥ १२॥ इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन् मन्यमानः ज्ञानं केवलम् आश्रितः ॥ १३॥ ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके । अक्रूरे क्रूरके च एव समदृक् पण्डितः मतः ॥ १४॥ नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् । स्पर्धा असूया तिरस्काराः साहङ्काराः वियन्ति हि ॥ १५॥ विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेत् दण्डवत् भूमौ आश्व चाण्डाल गो खरम् ॥ १६॥ यावत् सर्वेषु भूतेषु मद्भावः न उपजायते । तावत् एवम् उपासीत वाङ् मन काय वृत्तिभिः ॥ १७॥ सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया । परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ १८॥ अयं हि सर्वकल्पानां सध्रीचीनः मतः मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९॥ न हि अङ्ग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि । मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ २०॥ यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ २१॥ एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् । यत् सत्यम् अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ २२॥ एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य सङ्ग्रहः । समासव्यासविधिना देवानाम् अपि दुर्गमः ॥ २३॥ अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ २४॥ सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ २५॥ यः एतत् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् । तस्य अहं ब्रह्मदायस्य ददामि आत्मानम् आत्मना ॥ २६॥ यः एतत् समधीयीत पवित्रं परमं शुचि । सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ २७॥ यः एतत् श्रद्धया नित्यम् अव्यग्रः श्रुणुयात् नरः । मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ २८॥ अपि उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ २९॥ न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ ३०॥ एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ ३१॥ न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यम् अवशिष्यते । पीत्वा पीयूषम् अमृतं पातव्यं न अवशिष्यते ॥ ३२॥ ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ ३३॥ मर्त्यः यदा त्यक्त समस्तकर्मा निवेदितात्मा विचिकीर्षितः मे । तदा अमृतत्वं प्रतिपद्यमानः मया आत्मभूयाय च कल्पते वै ॥ ३४॥ श्रीशुकः उवाच । सः एवम् आदर्शित योगमार्गः तदा उत्तम श्लोकवचः निशम्य । बद्ध अञ्जलिः प्रीति उपरुद्ध कण्ठः न किञ्चित् ऊचेः अश्रु परिप्लुत अक्षः ॥ ३५॥ विष्टभ्य चित्तं प्रणय अवघूर्णम् धैर्येण राजन् बहु मन्यमानः । कृताञ्जलिः प्राह यदुप्रवीरम् शीर्ष्णा स्पृशन् तत् चरण अरविन्दम् ॥ ३६॥ उद्धवः उवाच । विद्रावितः मोह महा अन्धकारः यः आश्रितः मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमः भीः प्रभवन्ति अज अद्य ॥ ३७॥ प्रत्यर्पितः मे भवता अनुकम्पिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञः तव पादमूलम् कः अन्यत् समीयात् शरणं त्वदीयम् ॥ ३८॥ वृक्णः च मे सुदृढः स्नेहपाशः दाशार्ह वृष्णि अन्धक सात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया हि आत्म सुबोध हेतिना ॥ ३९॥ नमः अस्तु ते महायोगिन् प्रपन्नम् अनुशाधि माम् । यथा त्वत् चरण अम्भोजे रतिः स्यात् अनपायिनी ॥ ४०॥ श्रीभगवान् उवाच । गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् । तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ ४१॥ ईक्षया अलकनन्दाया विधूत अशेष कल्मषः । वसानः वल्कलानि अङ्ग वन्यभुक् सुख निःस्पृहः ॥ ४२॥ तितिक्षौः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३॥ मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् । मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव । अतिव्रज्य गतीः तिस्रः माम् एष्यसि ततः परम् ॥ ४४॥ श्रीशुकः उवाच । सः एवम् उक्तः हरिमेधसा उद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरः निधाय अश्रुकलाभिः आर्द्रधीः न्यषिञ्चत् अद्वन्द्वपरः अपि उपक्रमे ॥ ४५॥ सुदुस्त्यज स्नेह वियोग कातरः न शक्नुवन् तं परिहातुम् आतुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६॥ ततः तम् अन्तर्हृदि संनिवेश्य गतः महाभागवतः विशालाम् । यथा उपदिष्टां जगत् एकबन्धुना ततः समास्थाय हरेः अगात् गतिम् ॥ ४७॥ यः एअतत् आनन्द समुद्र संभृतम् ज्ञानामृतं भागवताय भाषितम् । कृष्णेण योगेश्वर सेविताङ्घ्रिणा सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ ४८॥ भवभय अपहन्तुं ज्ञानविज्ञानसारम् निगमकृत् उपजहे भृङ्गवत् वेदसारम् । अमृतम् उदधितः च अपाययत् भृत्यवर्गान् पुरुषम् ऋषभम् आद्यं कृष्णसञ्ज्ञं नतः अस्मि ॥ ४९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो नाम एकोनत्रिंशोऽध्यायः ॥ २९॥ अथ त्रिंशः अध्यायः । राजा उवाच । ततः महाभागवते उद्धवे निर्गते वनम् । द्वारवत्यां किम् अकरोत् भगवान् भूतभावनः ॥ १॥ ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं सः कथम् अत्यजत् ॥ २॥ प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततः यत् सताम् आत्मलग्नम् । यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम् दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम् ईयुः ॥ ३॥ ऋषिः उवाच । दिवि भुवि अन्तरिक्षे च महोत्पातान् समुत्थितान् । दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ ४॥ श्रीभगवान् उवाच । एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः । मुहूर्तम् अपि न स्थेयम् अत्र नः यदुपुङ्गवाः ॥ ५॥ स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारं व्रजन्त्वितः । वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ ६॥ तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः । देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥७॥ ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् । गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ ८॥ विधिः एषः हि अरिष्टघ्नः मङ्गल आयनम् उत्तमम् । देव द्विज गवां पूजा भूतेषु परमः भवः ॥ ९॥ इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः । तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ १०॥ तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा । चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ ११॥ ततः तस्मिन् महापानं पपुः मैरेयकं मधु । दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ १२॥ महापान अभिमत्तानां वीराणां दृप्तचेतसाम् । कृष्णमाया विमूढानां सङ्घर्षः सुमहान् अभूत् ॥ १३॥ युयुधुः क्रोधसंरब्धा वेलायाम् आततायिनः । धनुभिः असिभिः मल्लैः गदाभिः ताम् अरर्ष्टिभिः ॥ १४॥ पतत्पताकै रथकुञ्जरादिभिः खर उष्ट्र गोभिः महिषैः नरैः अपि । मिथः समेत्य अश्वतरैः सुदुर्मदा न्यहन् शरर्दद्भिः इव द्विपा वने ॥ १५॥ प्रद्युम्न साम्बौ युधि रूढमत्सरौ अक्रूर भोजौ अनिरुद्ध सात्यकी । सुभद्र सङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रा सुरथौ समीयतुः ॥ १६॥ अन्ये च ये वै निशठ उल्मुक आदयः सहस्रजित् शतजित् भानु मुख्याः । अन्योन्यम् आसाद्य मदान्धकारिता जघ्नुः मुकुन्देन विमोहिता भृशम् ॥ १७॥ दाशार्ह वृष्णि अन्धक भोज सात्वता मधु अर्बुदा माथुरशूरसेनाः । विसर्जनाः कुकुराः कुन्तयः च मिथः ततः ते अथ विसृज्य सौहृदम् ॥ १८॥ पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च स्वस्त्रीय दौहित्र पितृव्यमातुलैः । मित्राणि मित्रैः सुहृदः सुहृद्भिः ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ १९॥ शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु । शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ २०॥ ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः । जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ २१॥ प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः । हन्तुं कृतधियः राजन् आपन्नाः आततायिनः ॥ २२॥ अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरुनन्दन । एरका मुष्टि परिघौ जरन्तौ जघ्नतुः युधि ॥ २३॥ ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् । स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ २४॥ एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितः भुवः भारः इति मेने अवशेषितः ॥ २५॥ रामः समुद्रवेलायां योगम् आस्थाय पौरुषम् । तत् त्याज लोकं मानुष्यं संयोज्य आत्मानम् आत्मनि ॥ २६॥ रामनिर्याणम् आलोक्य भगवान् देवकीसुतः । निषसाद धरोपस्थे तूष्णीम् आसाद्य पिप्पलम् ॥ २७॥ बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया । दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ २८॥ श्रीवत्साङ्कं घनश्यामं तप्त हाटक वर्चसम् । कौशेय अम्बर युग्मेन परिवीतं सुमङ्गलम् ॥ २९॥ सुन्दर स्मित वक्त्र अब्जं नील कुन्तल मण्डितम् । पुण्डरीक अभिरामाक्षं स्फुरन् मकर कुण्डलम् ॥ ३०॥ कटिसूत्र ब्रह्मसूत्र किरीट कटक अङ्गदैः । हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ ३१॥ वनमाला परीताङ्गं मूर्तिमद्भिः निज आयुधैः । कृत्वा उरौ दक्षिणे पादम् आसीनं पङ्कज अरुणम् ॥ ३२॥ मुसलौ अशेषायः खण्डकृतेषुः लुब्धकः जराः । मृगास्य आकारं तत् चरणं विव्याध मृगशङ्कया ॥ ३३॥ चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः । भीतः पपात शिरसा पादयोः असुरद्विषः ॥ ३४॥ अजानता कृतम् इदं पापेन मधुसूदन । क्षन्तुम् अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ ३५॥ यस्य अनुस्मरणं नॄणाम् अज्ञान ध्वान्त नाशनम् । वदन्ति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ ३६॥ तत् मा आशु जहि वैकुण्ठ पाप्मानं मृग लुब्धकम् । यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ ३७॥ यस्य आत्म योग रचितं न विदुः विरिञ्चः रुद्र आदयः अस्य तनयाः पतयः गिरां ये । त्वत् मायया पिहित दृष्टयः एतत् अञ्जः किं तस्य ते वयम् असत् गतयः गृणीमः ॥ ३८॥ श्रीभगवान् उवाच । मा भैः जरे त्वम् उत्तिष्ठ कामः एषः कृतः हि मे । याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ ३९॥ इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४०॥ दारुकः कृष्णपदवीम् अन्विच्छन् अधिगम्यताम् । वायुं तुलसिकामोदम् आघ्राय अभिमुखं ययौ ॥ ४१॥ तं तत्र तिग्मद्युभिः आयुधैः वृतम् हि अश्वत्थमूले कृतकेतनं पतिम् । स्नेहप्लुतात्मा निपपात पादयो रथात् अवप्लुत्य सबाष्पलोचनः ॥ ४२॥ अपश्यतः त्वत् चरण अम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशः न जाने न लभे च शान्तिम् यथा निशायम् उडुपे प्रणष्टे ॥ ४३॥ इति ब्रुवते सूते वै रथः गरुडलाञ्छनः । खम् उत्पपात राजेन्द्र साश्वध्वजः उदीक्षतः ॥ ४४॥ तम् अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च । तेन अति विस्मित आत्मानं सूतम् आह जनार्दनः ॥ ४५॥ गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यः ब्रूहि मत् दशाम् ॥ ४६॥ द्वारकायां च न स्थेयं भवद्भिः च स्वबन्धुभिः । मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ ४७॥ स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेन आविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८॥ त्वं तु मत् धर्मम् आस्थाय ज्ञाननिष्ठः उपेक्षकः । मन्माया रचनाम् एतां विज्ञाय उपशमं व्रज ॥ ४९॥ इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ ५०॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे यदुकुलसङ्क्षयो नाम त्रिंशोऽध्यायः ॥ ३०॥ अथ एकत्रिंशः अध्यायः । श्रीशुकः उवाच । अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः । महेन्द्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ १॥ पितरः सिद्धगन्धर्वाः विद्याधर महोरगाः । चारणाः यक्षरक्षांसि किंनर अप्सरसः द्विजाः ॥ २॥ द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः । गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च ॥ ३॥ ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः । कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४॥ भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः । संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ ५॥ लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् । योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ ६॥ दिवि दुन्दुभयः नेदुः पेतुः सुमनः च खात् । सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः ॥ ७॥ देव आदयः ब्रह्ममुख्याः न विशन्तं स्वधामनि । अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ ८॥ सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्रमण्डलम् । गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९॥ ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः । विस्मिताः तां प्रशंसन्तः स्वं स्वं लोकं ययुः तदा ॥ १०॥ राजन् परस्य तनुभृत् जननाप्ययेहा मायाविडम्बनम् अवेहि यथा नटस्य । सृष्ट्वा आत्मना इदम् अनुविश्य विहृत्य च अन्ते संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ ११॥ मर्त्येन यः गुरुसुतं यमलोकनीतम् त्वां च आनयत् शरणदः परम अस्त्र दग्धम् । जिग्ये अन्तक अन्तकम् अपि ईशम् असौ अवनीशः किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ १२॥ तथा अपि अशेशा स्थिति सम्भव अपि अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् । न इच्छत् प्रणेतुं वपुः अत्र शेषितम् मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३॥ यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेत् भक्त्या ताम् एव आप्नोति अनुत्तमाम् ॥ १४॥ दारुकः द्वारकाम् एत्य वसुदेव उग्रसेनयोः । पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५॥ कथयामास निधनं वृष्णीनां कृत्स्नशः नृप । तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ १६॥ तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः । व्यसवाः शेरते यत्र ज्ञातयः घ्नन्तः आननम् ॥ १७॥ देवकी रोहिणी च एव वसुदेवः तथा सुतौ । कृष्ण राम अवपश्यन्तः शोक आर्ताः विजहुः स्मृतिम् ॥ १८॥ प्राणान् च विजहुः तत्र भगवत् विरह आतुराः । उपगुह्य पतीन् तात चिताम् आरुरुहुः स्त्रियः ॥ १९॥ रामपत्न्यः च तत् देहम् उपगुह्य अग्निम् आविशन् । वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः । कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ २०॥ अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः । आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१॥ बन्धूनां नष्टगोत्राणाम् अर्जुनः साम्परायिकम् । हतानां कारयामास यथावत् अनुपूर्वशः ॥ २२॥ द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ २३॥ नित्यं संनिहितः तत्र भगवान् मधुसूदनः । स्मृत्या अशेषा अशुभहरं सर्व मङ्गलम् अमङ्गलम् ॥ २४॥ स्त्री बाल वृद्धान् आदाय हतशेषान् धनञ्जयः । इन्द्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ २५॥ श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः । त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६॥ यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७॥ इत्थं हरेः भगवतः रुचिर अवतार वीर्याणि बालचरितानि च शन्तमानि । अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः भक्तिं परां परमहंसगतौ लभेत ॥ २८॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे मौसलोपाख्यानं नाम एकत्रिंशोऽध्यायः ॥ ३१॥ ॥ इति उद्धवगीता नाम एकादशस्कन्धः समाप्तः ॥
Encoded by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Uddhava Gita from Shrimad Bhagavata
% File name             : uddhavagiitaa.itx
% itxtitle              : uddhavagItA
% engtitle              : Uddhava Gita
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Vyasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Indexextra            : tIkA-ShridharaSwamin
% Latest update         : September 13, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP