उतथ्यगीता
महाभारते शान्तिपर्वान्तर्गता ।
अध्यायः ९०
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः ।
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १॥
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः ।
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २॥
धर्माय राजा भवति न कामकरणाय तु ।
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३॥
राजा चरति वै धर्मं देवत्वायैव गच्छति ।
न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति ।
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५॥
राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते ।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६॥
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् ।
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ८॥
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः ।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९॥
वध्यानामिव सर्वेषां मनो भवति विह्वलम् ।
मनुष्याणां महाराज यदा पापो न वार्यते ॥ १०॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् ।
असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ ११॥
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।
यस्मिन्विलीयते धर्मं तं देवा वृषलं विदुः ॥ १२॥
वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम् ।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा ।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ १४॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः ।
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥ १५॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा ।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥ १६॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः ।
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ॥ १७॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ १८॥
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा ।
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी ॥ १९॥
तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् ।
मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि ॥ २०॥
ब्राह्मणान्वै सदासूयन्बाल्याद्वैरोचनो बलिः ।
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ २१॥
ततस्तस्मादपाक्रम्य सागच्छत्पाकशासनम् ।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ २२॥
एतत्फलमसूयाया अभिमानस्य चाभि भोः ।
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी ॥ २३॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।
तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४॥
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव ।
राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५॥
स यथा दर्पसहितमधर्मं नानुसेवते ।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६॥
मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः ।
तदभ्यासादुपावर्तेदहितानां च सेवनात् ॥ २७॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८॥
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् ।
अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत् ॥ २९॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३०॥
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् ।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२॥
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् ।
अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः ॥ ३३॥
अशीते विद्यते शीतं शीते शीतं न विद्यते ।
अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे ।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनुविनश्यति ॥ ३६॥
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे ।
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ॥ ३७॥
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते ।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८॥
इति श्रीमहाभरते शान्तिपर्वणि राजधर्मानुशासनपर्वणि
उतथ्यगीतासु नवतितमोऽध्यायः । ९०
अध्यायः ९१
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
सम्पद्यदेषा भवति सा बिभर्ति सुखं प्रजाः ॥ १॥
यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम् ।
रत्नानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २॥
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि ।
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थिताः ॥ ३॥
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४॥
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् ।
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः ॥ ५॥
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६॥
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७॥
राजैव कर्ता भूतानां राजैव च विनाशकः ।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८॥
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९॥
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः ।
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १०॥
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११॥
यच्च भूतं स भजते भूता ये च तदन्वयाः ।
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२॥
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च ।
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥ १३॥
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् ।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥ १४॥
न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति ।
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५॥
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् ।
बलस्याबलदग्धस्य न किञ्चिदवशिष्यते ॥ १६॥
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति ।
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७॥
मा स्म तात बलस्थस्त्वं बाधिष्ठा मापि दुर्बलम् ।
मा त्वां दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ १८॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसताम् ॥ १९॥
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु ।
न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २०॥
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१॥
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२॥
राज्ञो यदा जनपदे बहवो राजपूरुषाः ।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३॥
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा ।
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४॥
महावृक्षो जायते वर्धते च
तं चैव भूतानि समाश्रयन्ति ।
यदा वृक्षश्छिद्यते दह्यते वा
तदाश्रया अनिकेता भवन्ति ॥ २५॥
यदा राष्ट्रे धर्ममग्र्यं चरन्ति
संस्कारं वा राजगुणं ब्रुवाणाः ।
तैरेवाधर्मश्चरितो धर्ममोहात्
तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६॥
यत्र पापा ज्यायमानाश्चरन्ति
सतां कलिर्विन्दति तत्र राज्ञः ।
यदा राजा शास्ति नरान्न शक्त्या
न तद्राज्यं वर्धते भूमिपाल ॥ २७॥
यश्चामात्यं मानयित्वा यथार्हं
मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् ।
प्रवर्धते तस्य राष्ट्रं नृपस्य
भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८॥
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९॥
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते ।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३०॥
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१॥
यदा शारणिकान्राजा पुत्रवत्परिरक्षति ।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२॥
यदाऽऽप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः ।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३॥
कृपणानामथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै ।
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४॥
विवर्धयति मित्राणि तथारींश्चापकर्षति ।
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ ३५॥
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति ।
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६॥
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ ।
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ ३७॥
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।
संयच्छन्भवति प्राणान्न संयच्छंस्तु पावकः ॥ ३८॥
ऋत्विक्पुरोहिताचार्यान्सत्कृत्याननवमत्य च ।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९॥
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।
तथा राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४०॥
सहस्राक्षेण राजा हि सर्वथैवोपमीयते ।
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१॥
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।
भूतानां सत्त्वजिज्ञासा साध्वसाधु च सर्वदा ॥ ४२॥
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३॥
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४॥
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५॥
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ॥ ४६॥
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।
स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७॥
धर्मे चार्थे च कामे च धर्म एवोत्तरो भवेत् ।
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८॥
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः ।
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९॥
अप्रमादश्च शौचं च तात भूतिकरं महत् ।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५०॥
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१॥
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च ।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२॥
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् ।
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ ५३॥
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत ।
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ ५४॥
स एवमुक्तो मान्धाता तेनोतथ्येन भारत ।
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५॥
भवानपि तथा सम्यङ्मान्धातेव महीपते ।
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६॥
इति श्रीमहाभरते शान्तिपर्वणि राजधर्मानुशासनपर्वणि
वामदेवगीतासु एकनवतितमोऽध्यायः । ९१
॥ इति उतथ्यगीता समाप्ता ॥
Adhyaya numbers 91-92 in shAntiparva,
Mahabharata critical edition
(Bhandarkar Oriental Research Institute BORI).
In Kinjavadekar's edition they are 90-91.
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi, PSA Easwaran