॥ वामदेवगीता ॥

अध्यायः ९३ कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः । पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पिता मह ॥ १॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ २॥ राजा वसु मना नाम कौसल्यो बलवाञ्शुचिः । महर्षिं परिपप्रच्छ वामदेवं यशो विनम् ॥ ३॥ धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् । येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ ४॥ तमब्रवीद्वामदेवस्तपस्वी जपतां वरः । हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥ ५॥ धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् । धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥ ६॥ अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः । ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥ ७॥ अधर्मदर्शी यो राजा बलादेव प्रवर्तते । क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ ८॥ असत्पापिष्ठ सचिवो वध्यो लोकस्य धर्महा । सहैव परिवारेण क्षिप्रमेवावसीदति ॥ ९॥ अर्थानामननुष्ठाता कामचारी विकत्थनः । अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ १०॥ अथाददानः कल्याणमनसूयुर्जितेन्द्रियः । वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥ ११॥ न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः । बुद्धितो मित्र तश्चापि सततं वसुधाधिपः ॥ १२॥ एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता । एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ॥ १३॥ एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः । अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥ १४॥ अदाता ह्यनति स्नेहो दण्डेनावर्तयन्प्रजाः । साहस प्रकृतीराजा क्षिप्रमेव विनश्यति ॥ १५॥ अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धि मान् । अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥ १६॥ अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः । व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥ १७॥ यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति । सुखतन्त्रोऽर्थलाभेषु नचिरं महदश्नुते ॥ १८॥ गुरु प्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता । धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥ १९॥
अध्यायः ९४ यत्राधर्मं प्रणयते दुर्बले बलवत्तरः । तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ १॥ राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् । अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥ २॥ यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः । तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ ३॥ साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम् । अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥ ४॥ योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते । जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ५॥ द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे । यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥ ६॥ शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि । प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥ ७॥ अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् । नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥ ८॥ मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः । न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ ९॥ नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् । न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ॥ १०॥ प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् । न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ ११॥ यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः । तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ॥ १२॥ निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये । भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह ॥ १३॥ अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् । शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ १४॥ एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् । भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥ १५॥ मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम् । अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥ १६॥ त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम् । कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ॥ १७॥ रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति । प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ॥ १८॥ ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् । सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥ १९॥ अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् । श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥ २०॥ दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः । अबलानभियुञ्जीत न तु ये बलवत्तराः ॥ २१॥ विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् । आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ २२॥ मरणान्तमिदं सर्वं नेह किं चिदनामयम् । तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ॥ २३॥ रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् । मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥ २४॥ एतानि यस्य गुप्तानि स राजा राजसत्तम । सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥ २५॥ नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् । एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥ २६॥ दातारं संविभक्तारं मार्दवोपगतं शुचिम् । असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम् ॥ २७॥ यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते । आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ २८॥ योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते । शृणोति प्रतिकूलानि वि मना नचिरादिव ॥ २९॥ अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते । जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ३०॥ मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् । स वै व्यसनमासाद्य गाध मार्तो न विन्दति ॥ ३१॥ यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते । अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥ ३२॥ अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि । प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ३३॥ नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् । प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि ॥ ३४॥ के मानुरक्ता राजानः के भयात्समुपाश्रिताः । मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ ३५॥ न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित् । भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ ३६॥ अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् । अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥ ३७॥ एतां राजोपनिषदं ययातिः स्माह नाहुषः । मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥ ३८॥
अध्यायः ९५ अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः । जघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥ १॥ न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति । न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥ २॥ यस्य स्फीतो जनपदः सम्पन्नः प्रिय राजकः । सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ॥ ३॥ यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः । अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥ ४॥ पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः । सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥ ५॥ प्रभावकालावधिकौ यदा मन्येत चात्मनः । तदा लिप्सेत मेधा वी परभूमिं धनान्युत ॥ ६॥ भोगेष्वदयमानस्य भूतेषु च दया वतः । वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥ ७॥ तक्षत्यात्मानमेवैष वनं परशुना यथा । यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥ ८॥ न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः । क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥ ९॥ यदार्य जनविद्विष्टं कर्म तन्नाचरेद्बुधः । यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ १०॥ नैनमन्येऽवजानन्ति नात्मना परितप्यते । कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥ ११॥ इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः । उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ॥ १२॥ इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः । तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥ १३॥ ॥ इति वामदेवगीता समाप्ता ॥ Adhyaya numbers 93-95 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 92-94. Sunder Hattangadi sunderh at hotmail.com

% Text title            : vAamadevagItA
% File name             : vaamadevagiitaa.itx
% itxtitle              : vAmadevagItA
% engtitle              : vAmadevagItA
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Indexextra            : mahAbhArata shAntiparva Rajadharma chapters 92-94
% Latest update         : June 2, 1998
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP