वैष्णवगीता
अम्बरीष उवाच --
केनोपायेन देवर्षे भवबन्धाद्विमुच्यते ।
तद्वदस्व महाभाग यद्यस्ति मय्यनुग्रहः॥ १॥
नारद उवाच --
साधु पृष्टं महाभाग सर्वधर्मभृतां वर ।
वक्ष्यामि तव राजेन्द्र शृणुष्वावहितो मम ॥ २॥
कैवल्यदायिनी गीता श्रीवैष्णवगीताभिधा ।
शृणुष्व परया भक्त्या भवबन्धविमुक्तये ॥ ३॥
वैष्णवानां गतिर्यत्र पादस्पर्शश्च यत्र वै ।
तत्र सर्वाणि तीर्थानि तिष्ठन्ति नृपसत्तम ॥ ४॥
आलापं गात्रसंस्पर्शं पादाभिवन्दनं तथा ।
वाञ्छन्ति सर्वतीर्थानि वैष्णवानां सदैव हि ॥ ५॥
विष्णुमन्त्रोपासकानां शुद्धं पादोदकं शुभम् ।
पुनाति सर्वतीर्थानि वसुधामपि भूपते ॥ ६॥
निपीडितोऽहं श्रान्तोऽहम् दाघसंसारवर्त्मनि ।
येन भूयो न गच्छामि तत् कुरुष्व श्रीवैष्णव ॥ ७॥
दीनं च भक्तिहीनं च आधिव्याधिनिपीडितम् ।
अनाश्रयमनाथं च त्राहि मां कृपया प्रभो ॥ ८॥
गतिर्नास्ति गतिर्नास्ति सत्यं श्रीवैष्णवं विना ।
तत्पादरजसा पूतं त्रैलोक्यं सचराचरम् ॥ ९॥
कथितं तव राजेन्द्र रहस्यं परमाद्भुतम् ।
अभक्ताय न दातव्यं दत्ते तु नारका भवेत् ॥ १०॥
इति श्रीवैष्णवगीता समाप्ता ॥
Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com