॥ विद्यागीता ॥

त्रिपुरा रहस्ये ज्ञानखण्डे अथ विंशोध्यायः । अत्र ते वर्तयिष्यामि पुरा वृत्तं श्रुणुष्व तत् । पुरा ब्रह्मसभामध्ये सत्यलोकेऽतिपावने ॥ १॥ ज्ञानप्रसङ्गः समभूत् सूक्ष्मात्सूक्ष्मविमर्शनः । सनकाद्या वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ २॥ भृगुरत्रिरङ्गिराश्च प्रचेता नारदस्तथा । च्यवनो वामदेवश्च विश्वामित्रोऽथ गौतमः ॥ ३॥ शुक्रः पराशरो व्यासः कण्वः काश्यप एव च । दक्षः सुमन्तुः शङ्खश्च लिखितो देवलोऽपि च ॥ ४॥ एवमन्ये ऋषिगणा राजर्षिप्रवरा अपि । सर्वे समुदितास्तत्र ब्रह्मसत्रे महत्तरे ॥ ५॥ मीमांसां चक्रुरत्युच्चैः सूक्ष्मात्सूक्ष्मनिरूपिणैः । ब्रह्माणं तत्र पप्रच्छुरृषयः सर्व एव ते ॥ ६॥ भगवन् ज्ञानिनो लोके वयं ज्ञातपरावराः । तेषां नो विविधा भाति स्थितिः प्रकृतिभेदतः ॥ ७॥ केचित् सदा समाधिस्थाः केचिन्मीमांसने रताः । अपरे भक्तिनिर्मग्नाश्चान्ये कर्मसमाश्रयाः ॥ ८॥ व्यवहारपरास्त्वेके बहिर्मुखनरा इव । तेषु श्रेयान् हि कतम एतन्नो वक्तुमर्हसि ॥ ९॥ स्वस्वपक्षं वयं विद्मः श्रेयांसमिति वै विधे । इति पृष्टोऽवदद् ब्रह्मा मत्वाऽनाश्वस्तमानसान् ॥ १०॥ मुनीन्द्रा नाहमप्येतद्वेद्मि सर्वात्मना ततः । जानीयादिममर्थं तु सर्वज्ञः परमेश्वरः ॥ ११॥ तत्र यामोऽथ सम्प्रष्टुमित्युक्त्वा तत्र तैरयौ । सङ्गम्य देवदेवेशं विष्णुनाभिसमागतम् ॥ १२॥ पप्रच्छ ऋषिमुख्यानां प्रश्नं तं लोकसृड्विधिः । प्रश्नं निशम्य च शिवो ज्ञात्वा विधिमनोगतम् ॥ १३॥ मत्वाऽनाश्वस्तमनस ऋषीन् देवो व्यचिन्तयत् । किञ्चिदुक्तं मयाऽत्रापि व्यर्थमेव भवेन्ननु ॥ १४॥ स्वपक्षत्वेन जानीयुरृषयोऽश्रद्धया युताः । इति मत्वा प्रत्युवाच देवदेवो महेश्वरः ॥ १५॥ श्रुणुध्वं मुनयो नाहमप्येतद्वेद्मि सुस्फुटम् । अतो विद्यां भगवतीं ध्यायामः परमेश्वरीम् ॥१६॥ तत्प्रसादान्निगूढार्थमपि विद्मस्ततः परम् । इत्युक्ता मुनयः सर्वे विधिविष्णुशिवैः सह ॥ १७॥ दध्युर्विद्यां महेशानीं त्रिपुरां चिच्छरीरिणीम् । एवं सर्वैरभिध्याता त्रिपुआरा चिच्छरीरिणी ॥ १८॥ आविरासीच्चिदाकाशमयी शब्दमयी परा । अभवद् मेघगम्भीरनिःस्वनो गगनाङ्गणे ॥ १९॥ वदन्त्वृषिगणाः किं वो ध्याता तद्द्रुतमीहितम् । मत्पराणां हि केषाञ्चिन्न हीयेताभिवाञ्छितम् ॥ २०॥ इति श्रुत्वा परां वाणीं प्रणेमुर्मुनिपुङ्गवाः । ब्रह्मादयोऽपि तदनु तुष्टुवुर्विविधैः स्तवैः ॥ २१॥ अथ प्रोचुरृषिगणा विद्यां तां त्रिपुरेश्वरीम् । नमस्तुभ्यं महेशानि श्रीविद्ये त्रिपुरेश्वरि ॥ २२॥ अशेषोत्पादयित्री त्वं स्थापयित्री निजात्मनि । विलापयित्री सर्वस्य परमेश्वरि ते नमः ॥ २३॥ अनूतना सर्वदाऽसि यतो नास्ति जनिस्तव । नवात्मिका सदा त्वं वै यतो नास्ति जरा तव ॥ २४॥ सर्वाऽसि सर्वसाराऽसि सर्वज्ञा सर्वहर्षिणी । असर्वाऽसर्वगाऽसाराऽसर्वज्ञाऽसर्वहर्षिणी ॥ २५॥ देवि भूयो नमस्तुभ्यं पुरस्तात् पृष्ठतोऽपि च । अधस्तादूर्ध्वतः पार्श्वे सर्वतस्ते नमो नमः ॥ २६॥ ब्रूहि यत्तेऽपरं रूपमैश्वर्यं ज्ञानमेव च । फलं तत्साधनं मुख्यं साधकं सिद्धमेव च ॥ २७॥ सिद्धेस्तु परमां काष्ठां सिद्धेषूत्तममेव च । देव्येतत् क्रमतो ब्रूहि भूयस्तुभ्यं नमो नमः ॥ २८॥ इत्यापृष्टा महाविद्या प्रवक्तुमुपचक्रमे । दयमाना ऋषिगणे स्पष्टार्थं परमं वचः ॥ २९॥ श्रुणुध्वमृषयः सर्वं प्रवक्ष्यामि क्रमेण तत् । अमृतं ह्यागमाम्भोधे समुद्धृत्य ददामि वः ॥ ३०॥ यत्र सर्वं जगदिदं दर्पणप्रतिबिम्बवत् । उत्पन्नं च स्थितं लीनं सर्वेषां भासते सदा ॥ ३१॥ यदेव जगदाकारं भासतेऽविदितात्मनाम् । यद्योगिनां निर्विकल्पं विभात्यात्मनि केवलम् ॥ ३२॥ गम्भीरस्तिमिताम्भोधिरिव निश्चलभासनम् । यत् सुभक्तिऐरतिशयप्रीत्या कैतववर्जनात् ॥ ३३॥ स्वभावस्य स्वरसतो ज्ञात्वापि स्वाद्वयं पदम् । विभेदभावमाहृत्य सेव्यतेऽत्यन्ततत्परैः ॥ ३४॥ अक्षान्तःकरणादीनां प्राणसूत्रं यदान्तरम् । यदभाने न किञ्चित् स्याद्यच्छास्त्रैरभिलक्षितम् ॥ ३५॥ परा सा प्रतिभा देव्याः परं रूपं ममेरितम् । ब्रह्माण्डानामनेकानां बहिरूर्ध्वे सुधाम्बुधौ ॥ ३६॥ मणिद्वीपे नीपवने चिन्तामणिसुमन्दिरे । पञ्चब्रह्ममये मञ्चे रूपं त्रैपुरसुन्दरम् ॥ ३७॥ अनादिमिथुनं यत्तदपराख्यमृषीश्वराः । तथा सदाशिवेशानौ विधिविष्णुत्रिलोचनाः ॥ ३८॥ गणेशस्कन्ददिक्पालाः शक्तयो गणदेवताः । यातुधानाः सुरा नागा यक्षकिम्पुरुषादयः ॥ ३९॥ पूज्याः सर्वा मम तनूरपराः परिकीर्तिताः । मम मायाविमूढास्तु मां न जानन्ति सर्वतः ॥ ४०॥ पूजिताऽहमेव सर्वैर्ददामि फलमीहितम् । न मत्तोऽन्या काचिदस्ति पूज्या वा फलदायिनी ॥ ४१॥ यथा यो मां भावयति फलं मत् प्राप्नुयात्तथा । ममैश्वर्यमृषिगणा अपरिच्छिन्नमीरितम् ॥ ४२॥ अनपेक्ष्यैव यत्किञ्चिद् अहमद्वयीचिन्मयी । स्फुराम्यनन्तजगदाकारेण ऋषिपुङ्गवाः ॥ ४३॥ तथा स्फुरन्त्यपि सदा नात्येम्यद्वैतचिद्वपुः । एतन्मे मुख्यमैश्वर्यं दुर्घटार्थविभावनम् ॥ ४४॥ ममैश्वर्यं तु ऋषयः पश्यध्वं सूक्ष्मया दृशा । सर्वाश्रया सर्वगता चाप्यहं केवला स्थिता ॥ ४५॥ स्वमायया स्वमज्ञात्वा संसरन्ती चिरादहम् । भूयो विदित्वा स्वात्मानं गुरोः शिष्यपदं गता ॥ ४६॥ नित्यमुक्ता पुनर्मुक्ता भूयो भूयो भवाम्यहम् । निरुपादानसम्भारं सृजामि जगदीदृशम् ॥ ४७॥ इत्यादि सन्ति बहुधा ममैश्वर्यपरम्पराः । न तद् गणयितुं शक्यं सहस्रवदनेन वा ॥ ४८॥ श्रुण्वन्तु सङ्ग्रहाद् वक्ष्ये मदैश्वर्यस्य लेशतः । जगद्यात्रा विचित्रेयं सर्वतः सम्प्रसारिता ॥ ४९॥ मम ज्ञानं बहुविधं द्वैताद्वैतादिभेदतः । परापरविभेदाच्च बहुधा चापि तत्फलम् ॥ ५०॥ द्वैतज्ञानं तु विविधं द्वितीयालम्बनं यतः । ध्यानमेव तु तत्प्रोक्तं स्वप्नराज्यादिसम्मितम् ॥ ५१॥ तच्चापि सफलं ज्ञेयं नियत्या नियतं यतः । अपरं चापि विविधं तत्र मुख्यं तदेव हि ॥ ५२॥ प्रोक्तमुख्यापरमयं ध्यानं मुख्य फलक्रमम् । अद्वैतविज्ञानमेव परविज्ञानमीरितम् ॥ ५३॥ मामनाराध्य परमां चिरं विद्यां तु श्रीमतीम् । कथं प्राप्येत परमां विद्यामद्वैतसंज्ञिकाम् ॥ ५४॥ तदेवाद्वैतविज्ञानं केवला या परा चितिः । तस्याः शुद्धदशामर्शो द्वैतामर्शाभिभावकः ॥ ५५॥ चित्तं यदा स्वमात्मानं केवलं ह्यभिसम्पतेत् । तदेवानुविभातं स्याद् विज्ञानमृषिसत्तमाः ॥ ५६॥ श्रुतितो युक्तितो वापि केवलात्मविभासनम् । देहाद्यात्मावभासस्य नाशनं ज्ञानमुच्यते ॥ ५७॥ तदेव भवति ज्ञानं यज्ज्ञानेन तु किञ्चन । भासमानमपि क्वापि न विभायात् कथञ्चन ॥ ५८॥ तदेवाद्वैतविज्ञानं यद्विज्ञानेन किञ्चन । अविज्ञातं नैव भवेत् कदाचिल्लेशतोऽपि च ॥ ५९॥ सर्वविज्ञानात्मरूपं यद्विज्ञानं भवेत् खलु । तदेवाद्वैतविज्ञानं परमं तापसोत्तमाः ॥ ६०॥ जाते यादृशविज्ञाने संशयाश्चिरसम्भृताः । वायुनेवाभ्रजालानि विलीयन्ते परं हि तत् ॥ ६१॥ कामादिवासनाः सर्वा यस्मिन् सन्ति न किञ्चन । स्युर्भग्नदंष्ट्राहिरिव तद्विज्ञानं परं स्मृतम् ॥ ६२॥ विज्ञानस्य फलं सर्वदुःखानां विलयो भवेत् । अत्यन्ताभयसम्प्राप्तिर्मोक्ष इत्युच्यते फलम् ॥ ६३॥ भयं द्वितीयसङ्काल्पादद्वैते विदिते दृढम् । कुतः स्याद् द्वैतसङ्कल्पस्तमः सूर्योदये यथा ॥ ६४॥ ऋषयो न भयं क्वापि द्वैतसङ्कल्पवर्जने । अतो यत्फलान्यत् स्यात्तद्भयं सर्वथा भवेत् ॥ ६५॥ संयोगो विप्रयोगान्तः सर्वथैव विभावितः । फलयोगोऽपि तस्माद्धि विनश्येदिति निश्चयः ॥ ६७॥ यावदन्यत् फलं प्रोक्तं भयं तावत्प्रकीर्तितम् । तदेवाभयरूपं तु फलं सर्वे प्रचक्षते ॥ ६८॥ यदात्मनोऽनन्यदेव फलं मोक्षः प्रकीर्तितः । ज्ञाता ज्ञानं ज्ञेयमपि फलं चैकं यदा भवेत् ॥ ६९॥ तदा हि परमो मोक्षः सर्वभीतिविवर्जितः । ज्ञानं विकल्पसङ्कल्पहानं मौढ्यविवर्जितम् ॥ ७०॥ ज्ञातुः स्वच्छात्मरूपं तदादावनुपलक्षितम् । उपलक्षक एवातो गुरुः शास्त्रं च नेतरत् ॥ ७१॥ एतदेव हि विज्ञेयस्वरूपमभिधीयते । ज्ञातृज्ञानज्ञेयगतो यावद् भेदोऽवभासते ॥ ७२॥ तावज्ज्ञाता ज्ञानमपि ज्ञेयं वा न भवेत् क्वचित् । यदा भेदो विगलितो ज्ञात्रादीनां मिथः स्थितः ॥ ७३॥ तदा ज्ञात्रादिसम्पत्तिरेतदेव फलं स्मृतम् । ज्ञात्रादिफलपर्यन्तं न भेदो वस्तुतो भवेत् ॥ ७४॥ व्यवहारप्रसिद्ध्यर्थं भेदस्तत्र प्रकल्पितः । अतोऽपूर्वं लभ्यमत्र फलं नास्त्येव किञ्चन ॥ ७५॥ आत्मैव मायया ज्ञातृज्ञानज्ञेयफलात्मना । यावद्भाति भवेत्तावत् संसारो ह्यचलोपमः ॥ ७६॥ यदा कथञ्चिदेतत्तु भायाद् भेदविवर्जितम् । संसारो विलयं यायाच्छिन्नाभ्रमिव वायुना ॥ ७७॥ एवंविधमहामोक्षे तत्परत्वं हि साधनम् । तत्परत्वे तु सम्पूर्णे नान्यत् साधनमिष्यते ॥ ७८॥ अपूर्णे तत्परत्वे तु किं सहस्रसुसाधनैः । तस्मात्तात्पर्यमेव स्यान्मुख्यं मोक्षस्य साधनम् ॥ ७९॥ तात्पर्यं सर्वथैतत्तु साधयामीति संस्थितिः । यस्तात्पर्येण संयुक्तः सर्वथा मुक्त एव सः ॥ ८०॥ दिनैर्मासैर्वत्सरैर्वा मुक्तः स्याद्वाऽन्यजन्मनि । बुद्धिनैर्मल्यभेदेन चिरशीघ्रव्यवस्थितिः ॥ ८१॥ बुद्धौ तु बहवो दोषाः सन्ति सर्वार्थनाशनाः । यैर्जनाः सततं त्वेवं पच्यन्ते घोरसंसृतौ ॥ ८२॥ तत्राद्यः स्यादनाश्वासो द्वितीयः कामवासना । तृतीयो जाड्यता प्रोक्ता त्रिधैवं दोषसङ्ग्रहः ॥ ८३॥ द्विविधः स्यादनाश्वासः संशयश्च विपर्ययः । मोक्षोऽस्ति नास्ति वेत्याद्यः संशयः समुदाहृतः ॥ ८४॥ नास्त्येव मोक्ष इत्याद्यो भवेदत्र विपर्ययः । एतद्द्वयं तु तात्पर्ये मुख्यं स्यात् प्रतिबन्धकम् ॥ ८५॥ विपरीत निश्चयेन नश्येदेतद् द्वयं क्रमात् । अत्रोपायो मुख्यतमो मूलच्छेदो न चापरः ॥ ८६॥ अनाश्वासस्य मूलं तु विरुद्धतर्कचिन्तनम् । तत्परित्यज्य सत्तर्कावर्तनस्य प्रसाधने ॥ ८७॥ विपरीतो निश्चयः स्याद् मूलच्छेदनपूर्वकः । ततः श्रद्धासमुदयादनाश्वासः प्रणश्यति ॥ ८८॥ कामादिवासना बुद्धेः श्रवणे प्रतिबन्धिका । कामादिवासनाविष्टा बुद्धिर्नैव प्रवर्तते ॥ ८९॥ लोकेऽपि कामी काम्यस्य सदा ध्यानैकतत्परः । पुरःस्थितं न पश्येच्च श्रोत्रोक्तं श्रुणुयान्न च ॥ ९०॥ कामादिवासितस्यैवं श्रुतं चाश्रुतसम्मितम् । कामादिवासनां तस्माज्जयेद् वैराग्यसम्पदा ॥ ९१॥ सन्ति कामक्रोधमुखा वासनास्तु सहस्रशः । तत्र कामो मूलभूतस्तन्नाशे नहि किञ्चन ॥ ९२॥ ततो वैराग्यसंयोगाद् नाशयेत् कामवासनाम् । आशा हि कामः सम्प्रोक्त एतन्मे स्यादिति स्थिता ॥ ९३॥ शक्येषु स्थूलभूता सा सूक्ष्माऽशक्येषु संस्थिता । दृढवैराग्ययोगेन सर्वां तां,प्रविनाशयेत् ॥ ९४॥ तत्र मूलं काम्यदोषपरामर्शः प्रतिक्षणम् । वैमुख्यं विषयेभ्यश्च वासना नाशयेदिति ॥ ९५॥ यस्तृतीयो बुद्धिदोषो जाड्यरूपो व्यवस्थितः । असाध्यः सोऽभ्यासमुखैः सर्वथा ऋषिसत्तमाः ॥ ९६॥ येन तात्पर्यतश्चापि श्रुतं बुद्धिमनारुहेत् । तज्जाड्यं हि महान् दोषः पुरुषार्थविनाशनः ॥ ९७॥ तत्रात्मदेवतासेवामृते नान्यद्धि कारणम् । सेवायास्तारतम्येन जाड्यं तस्य हराम्यहम् ॥ ९८॥ जाड्याल्पानल्पभावेन सद्यो वा परजन्मनि । भवेत्तस्य फलप्राप्तिर्जाड्यसंयुक्तचेतसः ॥ ९९॥ सर्वसाधनसम्पत्तिर्ममैव प्रणिधानतः । उपयाति च यो भक्त्या सर्वदा मामकैतवात् ॥ १००॥ स साधनप्रत्यनीकं विधूयाशु कृती भवेत् । यस्तु मामीश्वरीं सर्वबुद्धिप्रसरकारिणीम् ॥ १०१॥ अनादृत्य साधनैकपरः स्याद् मूढभावतः । पदे पदे विहन्येत फलं प्राप्येत वा न वा ॥ १०२॥ तस्मात्तु ऋषयो मुख्यं तात्पर्यं साधनं भवेत् । एवं तात्पर्यवानेव साधकः परमः स्मृतः ॥ १०३॥ तत्र मद्भक्तियुक्तस्तु साधकः सर्वपूजितः । सिद्धिरात्मव्यवसितिर्देहानात्मत्वभावना ॥ १०४॥ आत्मत्वभावनं नूनं शरीरादिषु संस्थितम् । तदभावनमात्रं तु सिद्धिर्मौढ्यविवर्जितम् ॥ १०५॥ आत्मा व्यवसितः सर्वैरपि नो केवलात्मना । अत एव तु सम्प्राप्ता महानर्थपरम्परा ॥ १०६॥ तस्मात् केवलचिन्मात्रं यद् देहाद्यवभासकम् । तन्मात्रात्मव्यवसितिः सर्वसंशयनाशिनी ॥ १०७॥ सिद्धिरित्युच्यते प्राज्ञैर्नातः सिद्धिरनन्तरा । सिद्धयः खेचरत्वाद्या अणिमाद्यास्तथैव च ॥ १०८॥ आत्मविज्ञानसिद्धेस्तु कलां नार्हन्ति षोडशीम् । ताः सर्वास्तु परिच्छिन्नाः सिद्धयो देशकालतः ॥ १०९॥ इयं स्यादपरिच्छिन्नाः स्वात्मविद्या शिवात्मिका । स्वात्मविद्यासाधनेषु ताः सर्वाः सुप्रतिष्ठिताः ॥ ११०॥ आत्मविद्याविधावेतास्त्वन्तरायप्रयोजकाः । किं ताभिरिन्द्रजालात्मसिद्धितुल्याभिरीहितम् ॥ १११॥ यस्य साक्षाद् ब्रह्मपदमपि स्यात्तृणसम्मितम् । कियन्त्येताः सिद्धयो वै कालक्षपणहेतवः ॥ ११२॥ तस्मात् सिद्धिर्नेतरा स्यादात्मविज्ञानसिद्धितः । ययाऽत्यन्तशोकनाशो भवेदानन्दसान्द्रता ॥ ११३॥ सैव सिद्धिर्नेतरा तु मृत्युग्रासविमोचिनी । इयमात्मज्ञानसिद्धिर्विविधाभ्यासभेदतः ॥ ११४॥ बुद्धिनैर्मल्यभेदाच्च परिपाकविभेदतः । संक्षेपतस्तु त्रिविधा चोत्तमा मध्यमाऽधमा ॥ ११५॥ लोके द्विजानामृषयः पठितश्रुतिसम्मिता । मेधया च महाभ्यासाद् व्यापारशतसङ्कुला ॥ ११६॥ अप्यस्खलितवर्णा या पठिता श्रुतिरुत्तमा । समाहितस्य व्यापारेऽसमाहितस्य चान्यदा ॥ ११७॥ पूर्ववद्याऽप्यस्खलिता पठिता मध्यमा श्रुतिः । या सदा ह्यनुसन्धानयोगादेव भवेत्तथा ॥ ११८॥ पठिता श्रुतिरत्यन्तास्खलिता त्वधमा हि सा । एवमेवात्मविज्ञानसिद्धिरुक्ता त्रिधर्षयः ॥ ११९॥ या महाव्यवहारेषु प्रतिसन्धानवर्जने । अन्यदा तद्वर्जने वा सर्वदा प्रतिसन्धितः ॥ १२०॥ अन्यूनाधिकभावा स्यात्सोत्तमा मध्यमाऽधमा । अत्रोत्तमैव संसिद्धेः परा काष्ठा निरूपिता ॥ १२१॥ स्वप्नादिष्वप्यवस्थासु यदा स्यात्परमा स्थितिः । विचारक्षणतुल्येव सिद्धिः सा परमोत्तमा ॥ १२२॥ सर्वत्र व्यवहारेषु यत्नात् संस्कारबोधतः । यदा प्रवृत्तिः सिद्धेः सा परा काष्ठा समीरिता ॥ १२३॥ अयत्नेनैव परमे स्थितिः संवेदनात्मनि । अव्याहता यदा सिद्धिस्तदा काष्ठां समागता ॥ १२४॥ व्यवहारपरो भावान् पश्यन्नपि न पश्यति । द्वैतं तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ १२५॥ जागरादौ व्यवहरन्नपि निद्रितवद् यदा । स्थितिस्तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ १२६॥ एवं सिद्धिमनुप्राप्तः सिद्धेषूत्तम उच्यते । व्यवहारपरो नित्यं न समाधिं विमुञ्चति ॥ १२७॥ कदाचिदपि मेधावी स सिद्धेषूत्तमो मतः । ज्ञानिनां विविधानां च स्थितिं जानाति सर्वदा ॥ १२८॥ स्वानुभूत्या स्वान्तरेव स सिद्धेषूत्तमो मतः । संशयो वापि कामो वा यस्य नास्त्येव लेशतः ॥ १२९॥ निर्भयो व्यवहारेषु स सिद्धेषूत्तमो मतः । सर्व सुखञ्च दुःखञ्च व्यवहारञ्च जागतम् ॥ १३०॥ स्वात्मन्येवाभिजनाति स सिद्धेषूत्तमो मतः । अत्यन्तं बद्धमात्मानं मुक्तं चापि प्रपश्यति ॥ १३१॥ यः स्वात्मनि तु सर्वात्मा स सिद्धेषूत्तमो मतः । यः पश्यन् बन्धजालानि सर्वदा स्वात्मनि स्फुटम् ॥ १३२॥ मोक्षं नापेक्षते क्वापि स सिद्धेषूत्तमो मतः । सिद्धोत्तमोऽहमेवेह न भेदस्त्वावयोः क्वचित् ॥ १३३॥ एतद्वा ऋषयः प्रोक्तं सुस्पष्टमनुयुक्तया । एतन्मयोक्तं विज्ञाय न क्वचित् परिमुह्यति ॥ १३४॥ इत्युक्त्वा सा परा विद्या विरराम भृगुद्वह । श्रुत्वैतदृषयः सर्व सन्देहमपहाय च ॥ १३५॥ नत्वा शिवादीन् लोकेशान् जग्मुः स्वं स्वं निवेशनम् । विद्यागीता मयैषा ते प्रोक्ता पापौघनाशिनी ॥ १३६॥ श्रुता विचारिता सम्यक् स्वात्मसाम्राज्यदायिनी । विद्यागीताऽत्युत्तमेयं साक्षाद्विद्यानिरूपिता ॥ १३७॥ पठतां प्रत्यहं प्रीता ज्ञानं दिशति सा स्वयम् । संसारतिमिराम्भोधौ मज्जतां तरणिर्भवेत् ॥ १३८॥ इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे विद्यागीतानाम विंशतितमोऽध्यायः ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Vidya Gita
% File name             : vidyaagiitaa.itx
% itxtitle              : vidyAgItA
% engtitle              : vidyAgItA
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sunder hattangadi
% Proofread by          : sunder hattangadi
% Description-comments  : Tripura Rahasya, Jnana Khanda, Ch. 20
% Indexextra            : (vidyAgItA tripurArahasya, jnAnakhaNDa adhyAya 20 scanned, Hindi)
% Latest update         : March 31, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP