॥ याज्ञवल्क्यगीता महाभारते शान्तिपर्वे अध्याय ३१०-३१८ ॥

३१०/२९८ युधिष्ठिर उवाच धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् । जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ १॥ यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् । शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ २॥ भीष्म उवाच अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ ३॥ याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्मया यशः । पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ ४॥ कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः । किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ ५॥ प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च । वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रह काङ्क्षिणः ॥ ६॥ अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः । तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ ७॥ याज्ञवल्क्य उवाच श्रूयतामवनी पाल यदेतदनुपृच्छसि । योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥ ८॥ न तवाविदितं किं चिन्मां तु जिज्ञासते भवान् । पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ ९॥ अस्तौ प्रकृतयः प्रोक्ता विकाराश्चापि सोदश । अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ १०॥ अव्यक्तं च महांश्चैव तथाहङ्कार एव च । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ११॥ एताः प्रकृतयस्त्वस्तौ विकारानपि मे शृणु । श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ १२॥ शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च । वाक्च हस्तौ च पादौ च पायुर्मेध्रं तथैव च ॥ १३॥ एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ १४॥ मनः सोदशकं प्राहुरध्यात्मगतिचिन्तकाः । त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ १५॥ अव्यक्ताच्च महानात्मा समुत्पद्यति पार्तिव । प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ १६॥ महतश्चाप्यहङ्कार उत्पद्यति नराधिप । द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ १७॥ अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् । तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ॥ १८॥ मनसस्तु समुद्भूता महाभूता नराधिप । चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥ १९॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ २०॥ श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् । सर्गं तु सस्थमित्याहुर्बहु चिन्तात्मकं स्मृतम् ॥ २१॥ अधः श्रोत्रेन्द्रिय ग्राम उत्पद्यति नराधिप । सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ २२॥ ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप । अस्तमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २३॥ तिर्यक्स्रोतस्त्वधः स्रोत उत्पद्यति नराधिप । नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २४॥ एतानि नव सर्गाणि तत्त्वानि च नराधिप । चतुर्विंशतिरुक्तानि यथा श्रुतिनिदर्शनात् ॥ २५॥ अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः । महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ २६॥
३११/२९९ याज्ञवल्क्य उवाच अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे । पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ १॥ रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप । सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ २॥ ततो ब्रह्माणमसृजद्धैरण्यान्द समुद्भवम् । सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ ३॥ संवत्सरमुषित्वान्दे निष्क्रम्य च महामुनिः । सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ ४॥ द्यावापृथिव्योरित्येष राजन्वेदेषु पथ्यते । तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ ५॥ एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः । दश कल्पसहस्राणि पादोनान्यहरुच्यते । रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥ ६॥ सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा । चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः । ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ ७॥ देवाः पितॄणां च सुता देवैर्लोकाः समावृताः । चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ ८॥ परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ९॥ एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः । पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ १०॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥ ११॥ अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः । अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥ १२॥ ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः । इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥ १३॥ त्रीणि कल्पसहस्राणि एतेषां अहरुच्यते । रत्रिरेतावती चैव मनसश्च नराधिप ॥ १४॥ मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः । न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ १५॥ चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा । मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति । तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ १६॥ मनस्युपरते राजन्निन्द्रियोपरमो भवेत् । न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् । एवं मनः प्रधानानि इन्द्रियाणि विभावयेत् ॥ १७॥ इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते । एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ १८॥
३१२/३०० याज्ञवल्क्य उवाच तत्त्वानां सर्ग सङ्ख्या च कालसङ्ख्या तथैव च । मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥ १॥ यथा संहरते जन्तून्ससर्ज च पुनः पुनः । अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ २॥ अहः क्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा । चोदयामास भवगानव्यक्तोऽहं कृतं नरम् ॥ ३॥ ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः । कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥ ४॥ चतुर्विधं प्रजा जालं निर्दहत्याशु तेजसा । जराय्वन्द स्वेदजातमुद्भिज्जं च नराधिप ॥ ५॥ एतदुन्मेष मात्रेण विनिष्टं स्थानु जङ्गमम् । कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ ६॥ जगद्दग्ध्वामित बलः केवलं जगतीं ततः । अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥ ७॥ ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् । विनस्तेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महा ॥ ८॥ तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् । ऊष्मानं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥ ९॥ भक्षयामास बलवान्वायुरस्तात्मको बली । विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ १०॥ तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना । आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ॥ ११॥ मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः । अहङ्कारं महानात्मा भूतभव्य भविष्यवित् ॥ १२॥ तमप्यनुपमात्मानं विश्वं शम्भः प्रजापतिः । अनिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १३॥ सर्वतः पानि पादान्तः सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ १४॥ हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठ मात्रकः । अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥ १५॥ ततः समभवत्सर्वमक्षयाव्ययमव्रणम् । भूतभव्य मनुष्याणां स्रष्टारमनघं तथा ॥ १६॥ एषोऽप्ययस्ते राजेन्द्र यथावत्परिभासितः । अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ १७॥
३१३/३०१ याज्ञवल्क्य उवाच पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः । गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ १॥ पायुरध्यात्ममित्याहुर्यथातत्त्वार्थ दर्शिनः । विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ २॥ उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् । अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥ ३॥ हस्तावध्यात्ममित्याहुर्यथा साङ्ख्यनिदर्शनम् । कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ ४॥ वागध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् । वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ ५॥ चक्षुरध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् । रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥ ६॥ श्रोत्रमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् । शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥ ७॥ जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् । रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ ८॥ घ्राणमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् । गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ ९॥ त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः । स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥ १०॥ मनोऽध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् । मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ ११॥ अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् । अभिमानोऽधिबूतं तु भवस्तत्राधिदैवतम् ॥ १२॥ बुद्धिरध्यात्ममित्याहुर्यथा वेद निदर्शनम् । बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥ १३॥ एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता । आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥ १४॥ प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्म काम्यया । क्रीदार्थं तु महाराज शतशोऽथ सहस्रशः ॥ १५॥ यथा दीपसहस्राणि दीपान्मर्थाय्प्रकुर्वते । प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ १६॥ सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च । सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ॥ १७॥ अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता । समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥ १८॥ शौचमार्जवमाचारमलौल्यं हृद्य सम्भ्रमः । इष्टानिष्ट वियोगानां कृतानामविकत्थनम् ॥ १९॥ दानेन चानुग्रहणमस्पृहार्थे परार्थता । सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥ २०॥ रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे । अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ २१॥ परापवादेषु रतिर्विवादानां च सेवनम् । अहङ्कारस्त्वसत्कारश्चैन्ता वैरोपसेवनम् ॥ २२॥ परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा । भेदः परुषता चैव कामक्रोधौ मदस्तथा । दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥ २३॥ तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् । मोहोऽप्रकाशस्तामिस्रमन्धतामिस्र सञ्ज्ञितम् ॥ २४॥ मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते । तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥ २५॥ भोजनानानपर्याप्तिस्तथा पेयेष्वतृप्तता । गन्धवासो विहारेषु शयनेष्वासनेषु च ॥ २६॥ दिवा स्वप्ने विवादे च प्रमादेषु च वै रतिः । नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता । द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ २७॥
३१४/३०२ याज्ञवल्क्य उवाच एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम । कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ १॥ शतधा सहस्रधा चैव तथा शतसहस्रधा । कोतिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ २॥ सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् । तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥ ३॥ केलवेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् । पुण्यपापेनमानुष्यमधर्मेणाप्यधो गतिम् ॥ ४॥ द्वन्द्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः । सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ॥ ५॥ सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा । तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥ ६॥ अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् । रजः सत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥ ७॥ रजस्तमो भ्यां संयुक्तस्तिर्यग्योनिषु जायते । रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥ ८॥ पुण्यपापवियुक्तानां स्थानमाहुर्मनीसिनाम् । शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥ ९॥ ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् । अतीन्द्रियमबीलं च जन्ममृत्युतमो नुदम् ॥ १०॥ अव्यक्तस्थं परं यत्तत्पृष्ठस्तेऽहं नराधिप । स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ॥ ११॥ अचेतनश्चैष मतः प्रकृतिष्ठश्च पार्थिव । एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥ १२॥ जनक उवाच अनादिनिधनावेतावुभावेव महामुने । अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रनौ ॥ १३॥ अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः । चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भासितः ॥ १४॥ त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे । साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ १५॥ अस्तित्वं केवलत्वं च विना भावं तथैव च । तथैवोत्क्रमण स्थानं देहिनोऽपि वियुज्यतः ॥ १६॥ कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज । साङ्ख्यज्ञानं च तत्त्वेन पृथ योगं तथैव च ॥ १७॥ अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम । विदितं सर्वमेतत्ते पानावामलकं यथा ॥ १८॥
३१५/३०३ याज्ञवल्क्य उवाच न शक्यो निर्गुणस्तात गुणी कर्तुं विशां पते । गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥ १॥ गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा । प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ २॥ गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते । उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ ३॥ अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः । न मत्तः परमस्तीति नित्यमेवाभिमन्यते ॥ ४॥ अनेन कारणेनैतदव्यक्तं स्यादचेतनम् । नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ॥ ५॥ यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः । यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ॥ ६॥ कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते । कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ॥ ७॥ कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता । कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ॥ ८॥ गुणानां प्रसवत्वाच्च तथा प्रसव धर्मवान् । कर्तृत्वात्प्रलयानां च तथा प्रलय धर्मिता ॥ ९॥ बीलत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च । उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ॥ १०॥ मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः । अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ॥ ११॥ अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा । सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ १२॥ अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञिकः । यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ॥ १३॥ अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा । न चोदुम्बर संयोगैर्मशकस्तत्र लिप्यते ॥ १४॥ अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् । न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ १५॥ अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः । न चोपलिप्यते सोऽग्निरुखा संस्पर्शनेन वै ॥ १६॥ पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् । न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ १७॥ एतेषां सह संवासं विवासं चैव नित्यशः । यथातथैनं पश्यन्ति न नित्यं प्राकृता जनाः ॥ १८॥ ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् । ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥ १९॥ साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् । एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ॥ २०॥ ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् । अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ॥ २१॥
३१६/३०४ याज्ञवल्क्य उवाच साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे । यथा श्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ १॥ नास्ति साङ्क्य समं ज्ञानं नास्ति योगसमं बलम् । तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥ २॥ पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः । वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ ३॥ यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते । एकं साङ्क्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४॥ रुद्र प्रधानानपरान्विद्धि योगान्परन्तप । तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ ५॥ यावद्धि प्रलयस्तात सूक्ष्मेणास्त गुणेन वै । योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥ ६॥ वेदेषु चास्त गुणितं योगमाहुर्मनीषिणः । सूक्ष्ममस्तगुणं प्राहुर्नेतरं नृपसत्तम ॥ ७॥ द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् । सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ ८॥ धारणा चैव मनसः प्राणायामश्च पार्थिव । प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥ ९॥ यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिल सत्तम । वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ॥ १०॥ निशायाः प्रथमे यामे चोदना द्वादश स्मृताः । मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥ ११॥ तदेवमुपशान्तेन दान्तेनैकान्त शीलना । आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ १२॥ पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा । शब्दं स्पर्शं तथारूपं रसं गन्धं तथैव च ॥ १३॥ प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल । इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ १४॥ मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप । अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ १५॥ एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् । विरजस्क मलं नित्यमनन्तं शुद्धमव्रणम् ॥ १६॥ तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् । शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ १७॥ युक्तस्य तु महाराज लक्षणान्युपधारयेत् । लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ १८॥ निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः । निश्चलोर्ध्व शिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ १९॥ पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः । नालं चालयितुं शक्यस्तथायुक्तस्य लक्षणम् ॥ २०॥ शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः । क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ २१॥ तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः । सोपानमारुहेद्भीतस्तर्ज्यमानोऽसि पानिभिः ॥ २२॥ संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् । तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥ २३॥ स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च । एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥ २४॥ स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् । महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ॥ २५॥ एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् । कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ २६॥ एतद्धि योगं योगानां किमन्यद्योगलक्षणम् । विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ २७॥
३१७/३०५ याज्ञवल्क्य उवाच तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप । पद्भ्यामुत्क्रममाणस्य वैष्नवं स्थानमुच्यते ॥ १॥ जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् । जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ॥ २॥ पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् । पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ॥ ३॥ पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च । बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ ४॥ ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् । विश्वे देवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ ५॥ घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च । भ्रूभ्यां चैवाश्विनौ देवौ ललातेन पितॄनथ ॥ ६॥ ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा । एतान्युत्क्रमण स्थानान्युक्तानि मिथिलेश्वर ॥ ७॥ अरिष्टानि तु वक्ष्यामि विहितानि मनीसिभिः । संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ॥ ८॥ योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन । तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च । खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ॥ ९॥ परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव । आत्मछाया कृती भूतं तेऽपि संवत्सरायुषः ॥ १०॥ अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा । प्रकृतेर्विक्रियापत्तिः सो मासान्मृत्युलक्षणम् ॥ ११॥ दैवतान्यवजानाति ब्राह्मणैश् च विरुध्यते । कृष्ण श्याव छवि छायः सो मासान्मृत्युलक्षणम् ॥ १२॥ शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति । तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाज् ॥ १३॥ शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः । देवतायतनस्थस्तु सो रात्रेण स मृत्युभाज् ॥ १४॥ कर्णनासावनमनं दन्तदृष्टिविरागिता । सञ्ज्ञा लोपो निरूस्मत्वं सद्यो मृत्युनिदर्शनम् ॥ १५॥ अकस्माच्च स्रवेद्यस्य वाममक्षिनराधिप । मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शनम् ॥ १६॥ एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् । निशि चाहनि चात्मानं योजयेत्परमात्मनि ॥ १७॥ प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् । अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ॥ १८॥ सर्वगन्धान्रसांश्चैव धारयेत समाहितः । तथा हि मृत्युं जयति तत्परेणान्तरात्मना ॥ १९॥ ससाङ्ख्य धारणं चैव विदित्वा मनुजर्षभ । जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥ २०॥ गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् । शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ २१॥
३१८/३०६ याज्ञवल्क्य उवाच अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप । परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ १॥ यथार्षेणेह विधिना चरतावमतेन ह । मयादित्यादवाप्तानि यजूंसि मिथिलाधिप ॥ २॥ महता तपसा देवस्तपिष्ठः सेवितो मया । प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥ ३॥ वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् । तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ ४॥ ततः प्रनम्य शिरसा मयोक्तस्तपतां वरः । यजूंसि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ ५॥ ततो मां भगवानाह वितरिष्यामि ते द्विज । सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ ६॥ ततो मामाह भगवानास्यं स्वं विवृतं कुरु । विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ ७॥ ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ । अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ ८॥ ततो विदह्यमानं मामुवाच भगवान्रविः । मुहूर्तं सह्यतां दाहस्ततः शीती भविष्यति ॥ ९॥ शीती भूतं च मां दृष्ट्वा भगवानाह भास्करः । प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥ १०॥ कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ । तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ ११॥ प्राप्स्यसे च यदिष्टं तत्साङ्क्य योगेप्सितं पदम् । एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२॥ ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ । गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १३॥ ततः प्रवृत्तातिशुभा स्वरव्यञ्जन भूषिता । ओङ्कारमादितः कृत्वा मम देवी सरस्वती ॥ १४॥ ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् । तपतां च वरिष्ठाय निषण्णस्तत्परायनः ॥ १५॥ ततः शतपथं कृत्स्नं सहरस्य ससङ्ग्रहम् । चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १६॥ कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् । विप्रियार्थं सशिष्यस्य मातुलल्स्य महात्मनः ॥ १७॥ ततः सशिष्येण मया सूर्येणेव गभस्तिभिः । व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १८॥ मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् । स्ववेद दक्षिणायाथ विमर्दे मातुलेन ह ॥ १९॥ सुमन्तु नाथ पैलेन तथ जैमिनिना च वै । पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ २०॥ दश पञ्च च प्राप्तानि यजूंस्यर्कान्मयानघ । तथैव लोमहर्षाच्च पुराणमवधारितम् ॥ २१॥ बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् । सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ २२॥ कर्तुं शतपथं वेदमपूर्वं कारितं च मे । यथाभिलसितं मार्थं तथा तच्चोपपादितम् ॥ २३॥ शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् । सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ २४॥ शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः । प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥ २५॥ किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् । चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥ २६॥ विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः । चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव । पञ्चविंशतिमं प्रश्नं पप्रच्छान्विक्षिकीं तथा ॥ २७॥ विश्वा विश्वं तथाश्वाश्वं मित्रं वरुणमेव च । ज्ञानं ज्ञेयं तथाज्ञोऽज्ञः कस्तपा अपता तथा । सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥ २८॥ वेद्यावेद्यं तथा राजन्नचलं चलमेव च । अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥ २९॥ अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः । पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ॥ ३०॥ मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये । बाधमित्येव कृत्वा स तूस्नीं गन्धर्व आस्थितः ॥ ३१॥ ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् । मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥ ३२॥ तत्रोपनिषदं चैव परिशेषं च पार्थिव । मघ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ ३३॥ चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी । उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥ ३४॥ अथोतस्तु मया राजन्राजा विश्वावसुस्तदा । श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ॥ ३५॥ विश्वा विश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि । विश्वाव्यक्तं परं विद्याद्भूतभव्य भयङ्करम् ॥ ३६॥ त्रिगुणं गुणकर्तृत्वादशिश्वो निष्कलस्तथा । अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥ ३७॥ अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् । तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ ३८॥ ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च । अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥ ३९॥ कस्तपा अतपाः प्रोक्ताः कोऽसौ पुरुष उच्यते । तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥ ४०॥ तथैवावेद्यमव्यक्तं वेधः पुरुष उच्यते । चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ ४१॥ चलां तु प्रकृतिं प्राहुः कारणं क्षेप सर्गयोः । अक्षेप सर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥ ४२॥ अजावुभावप्रजनुचाक्षयौ चाप्युभावपि । अजौनित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥ ४३॥ अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् । अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ ४४॥ गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः । एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ॥ ४५॥ विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि । एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ ४६॥ जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः । वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥ ४७॥ साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते । वेद वेद्यं न जानीते वेद भारवहो हि सः ॥ ४८॥ यो घृतार्थी खरी क्षीरं मथेद्गन्धर्वसत्तम । विष्ठां तत्रानुपश्येत न मन्दं नापि वा घृतम् ॥ ४९॥ तथा वेद्यमवेद्यं च वेद विद्यो न विन्दति । स केवलं मूढ मतिर्ज्ञानभार वहः स्मृतः ॥ ५०॥ द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना । यथास्य जन्म निधने न भवेतां पुनः पुनः ॥ ५१॥ अजस्रं जन्म निधनं चिन्तयित्वा त्रयीमिमाम् । परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ ५२॥ यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप । तदा स केवली भूतः सद्विंसमनुपश्यति ॥ ५३॥ अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः । तस्य द्वावनुपश्येत तमेकमिति साधवः ॥ ५४॥ तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ॥ ५५॥ विश्वावसुरुवाच पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम । तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥ ५६॥ जैगीसव्यस्यासितस्य देवलस्य च मे श्रुतम् । पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ ५७॥ भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च । गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ ५८॥ नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः । सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ ५९॥ कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् । तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ ६०॥ दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः । प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ ६१॥ तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण । भवान्प्रवर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ ६२॥ न तवाविदितं किं चिद्भवाञ्श्रुतिनिधिः स्मृतः । कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥ ६३॥ ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः । पतिश्च तपतां शश्वदादित्यस्तव भासते ॥ ६४॥ साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च । तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥ ६५॥ निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् । श्रोतुमिच्छामि तज्ज्ञानं घृतं मन्दमयं यथा ॥ ६६॥ याज्ञवल्क्य उवाच कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम । जिज्ञाससि च मां राजंस्तन्निबोध यथा श्रुतम् ॥ ६७॥ अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः । न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥ ६८॥ अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् । साङ्ख्ययोगाश्च तत्त्वज्ञा यथा श्रुतिनिदर्शनात् ॥ ६९॥ पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ । सद्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति । न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ॥ ७०॥ पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम । न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥ ७१॥ मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् । यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते । सस्नेहः सह वासाच्च साभिमानश्चनित्यशः ॥ ७२॥ स निमज्जति कालस्य यदैकत्वं न बुध्यते । उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥ ७३॥ यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः । तदा स केवली भूतः सद्विंशमनुपश्यति ॥ ७४॥ अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ ७५॥ तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप । सद्विंसमनुपश्यन्ति शुचयस्तत्परायनाः ॥ ७६॥ यदा स केवली भूतः सद्विंशमनुपश्यति । तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ ७७॥ एवमप्रतिबुद्धश्च बुध्यमानश् च तेऽनघ । बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ ७८॥ पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप । केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥ ७९॥ विश्वावसुरुवाच तथ्यं शुभं चैतदुक्तं त्वया भोः सम्यक्क्षेम्यं देवताद्यं यथावत् । स्वस्त्य क्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुधि युक्तं नमस्ते ॥ ८०॥ याज्ञवल्क्य उवाच एवमुक्त्वा सम्प्रयातो दिवं स विभ्राजन्वै श्रीमत दर्शनेन । तुष्टश्च तुष्ट्या परयाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥ ८१॥ ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र । तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ ८२॥ साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश् च तद्वद्योगा योगधर्मे रताश् च । ये चाप्यन्ये मोक्षकामा मनुष्यास् तेषामेतद्दर्शनञ्ज्ञान दृष्टम् ॥ ८३॥ ज्ञानान्मोक्षो जायते पूरुषानां नास्त्यज्ञानादेवमाहुर्नरेन्द्र । तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ ८४॥ प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् । श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ ८५॥ सर्वे वर्णा ब्राह्मणा ब्रह्मजाश् च सर्वे नित्यं व्याहरन्ते च ब्रह्म । तत्त्वं शास्त्रं ब्रह्म बुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ ८६॥ ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः । नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥ ८७॥ अज्ञानतः कर्म योनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम् । तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् ॥ ८८॥ तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थ चैतदुक्तं मया ते । तस्थौ ब्रह्मा तस्थिवांश्चापरो यस् तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥ ८९॥ यत्ते पृष्ठं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भवस्व । राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥ ९०॥ भीष्म उवाच स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता । प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ ९१॥ गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे । दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ ९२॥ गोकोतिं स्पर्शयामास हिरण्यस्य तथैव च । रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥ ९३॥ विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै । यति धर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ॥ ९४॥ साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः । धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥ ९५॥ अनन्तमिति कृत्वा स नित्यं केवलमेव च । धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ ९६॥ जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् । ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ ९७॥ पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः । इष्टानिष्ट वियुक्तं हि तस्थौ ब्रह्म परात्परम् । नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥ ९८॥ दीयते यच्च लभते दत्तं यच्चानुमन्यते । ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह । ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥ ९९॥ आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् । एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १००॥ यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः । तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥ १०१॥ न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन । लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥ १०२॥ तथैव महतः स्थानमाहङ्कारिकमेव च । अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ॥ १०३॥ ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः । जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥ १०४॥ एतन्मयाप्तं जनकात्पुरस्तात् तेनापि चाप्तं नृप याज्ञवल्क्यात् । ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः ॥ १०५॥ दुर्गं जन्म निधनं चापि राजन् न भूतिकं ज्ञानविदो वदन्ति । यज्ञैस्तपोभिर्नियमैर्व्रतैश् च दिवं समासाद्य पतन्ति भूमौ ॥ १०६॥ तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम् । क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञम् उपास्य वै तत्त्वमृषिर्भविष्यसि ॥ १०७॥ उपनिषदमुपाकरोत्तदा वै जनक नृपस्य पुरा हि याज्ञवल्क्यः । यदुपगणितशाश्वताव्ययं तच्- छुभममृतत्वमशोकमृच्छतीति ॥ १०८॥
From BORI critical edition expanded to include text from http://archive.org/details/mahabharat05ramauoft The first adhyAya number is from the book, second from Bori critical edition

% Text title            : yAjnyavalkyagItA mahAbhArate shantiparve adhyAya 310-318
% File name             : yAjnyavalkyagItAmahAbhArataShantiparva.itx
% itxtitle              : yAjnavalkyagItA (mahAbhAratAntargatA)
% engtitle              : Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Tokunaga and converted for Devanagari display
% Translated by         : http://archive.org/details/mahabharat05ramauoft
% Description-comments  : Mahabharat Shantiparva Chapter 310-318
% Indexextra            : scanned Mahabharata Mokshadharma parva  of Shanti Parva - Adhyaaya 310 to 318 (Need to proofread, volunteer?)
% Latest update         : June 10, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP