॥ श्रीविष्णु नृसिंह अथवा अग्निपुराणान्तर्गत यमगीता ॥

॥ अथ प्रारभ्यते विष्णुपुराणान्तर्गता यमगीता ॥ मैत्रेय उवाच - यथावत्कथितं सर्वं यत्पृष्टोऽसि मया द्विज । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ १ ॥ सप्तद्वीपानि पातालवीथ्यश्च सुमहामुने । सप्तलोका येऽन्तरस्था ब्रह्माण्डस्यस्य सर्वतः ॥ २ ॥ स्थूलैः सूक्ष्मैस्तथा स्थूलसूक्ष्मैः सूक्ष्मस्थूलैस्तथा । स्थूलास्थूलतरैश्चैतत्सर्वं प्राणिभिरावृतम् ॥ ३ ॥ अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ४ ॥ सर्वे चैते वशं यान्ति यमस्य भगवन्किल । आयुषोऽन्तेन ते यान्ति यातनास्तत्प्रचोदिताः ॥ ५ ॥ यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ६ ॥ सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत्कर्म कथयामलम् ॥ ७ ॥ पराशर उवाच - अयमेव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छ्रुणुष्व मे ॥ ८ ॥ भीष्म उवाच - पुरा ममागतो वत्स सखा कालिंगको द्विजः । स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः ॥ ९ ॥ तेनाख्यातमिदं चेदमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ १० ॥ स पृष्टश्च मया भूयः श्रद्दधानवता द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ११ ॥ एकदा तु मया पृष्टं यदेतद्भवतोदितम् । प्राह कालिंगको विप्रः स्मृत्वा तस्य मुनेर्वचः ॥ १२ ॥ जातिस्मरेण कथितो रहस्यः परमो मम । यमकिंकरयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥ १३ ॥ कालिंग उवाच - स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनं प्रपन्नान् प्रभुरहमस्मि नृणां न वैष्णवानाम् ॥ १४ ॥ अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमनि ममापि विष्णुः ॥ १५ ॥ कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभि- र्हरिरखिलाभिरुदीयते तथैकः ॥ १६ ॥ क्षितिजलपरमाणवोऽनिलान्ते पुनरपि यान्ति यथैकतां धरित्र्या । सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ॥ १७ ॥ हरिममरगणार्चितांघ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तमथ गतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ १८ ॥ इति यमवचनं निशम्य पाशी यमपुरुषमुवाच धर्मराजम् । कथय मम विभोः समस्तधातु- र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥ १९ ॥ यम उवाच - न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् ॥ २० ॥ कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतोऽस्तमोहे । मनसि कृतजनार्दनं मनुष्यं सत्तमवेहि हरेरतीवभक्तम् ॥ २१ ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यः समवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ २२ ॥ स्फटिकगिरिशिलामलः क्व विष्णु- र्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ २३ ॥ विमलमतिविमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ २४ ॥ वसति हृदि सनातने च तस्मिन् भवतिपुमाञ्जगतोऽस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥ २५ ॥ यमनियमविधूतकल्मषाणा- मनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥ २६ ॥ हृदि यदि भगवाननादिरास्ते हरिरसिशंखगदाधरोऽव्ययात्मा । तदघमघविघातकर्तृभिन्नम् भवति कथं सति वान्धकारमर्के ॥ २७ ॥ हरति परधनं निहन्ति जन्तून् वदति तथानिशनिष्ठुराणि यश्च । अशुभजनितदुर्मदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ २८ ॥ न सहति परमं पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य ॥ २९ ॥ परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३० ॥ अशुभमतिरसत्प्रवृत्तिसक्तः सततमनार्यविशालसंगमत्तः । अनुदिनकृतपापबन्धयत्नः पुरुषपशुर्न हि वासुदेवभक्तः ॥ ३१ ॥ सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरमला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥ ३२ ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ ३३ ॥ वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथवा ममास्ति चक्र- प्रतिहतवीर्यवलस्य सोऽन्यलोक्यः ॥ ३४ ॥ कालिंग उवाच - इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ३५ ॥ भीष्म उवाच - नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिंगदेशादभ्येत्य प्रीयता सुमहात्मना ॥ ३६ ॥ मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृते नान्यत्त्राणं संसारसागरे ॥ ३७ किंकरा दण्डपाशौ वा न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा ॥ ३८ ॥ पराशर उवाच - एतन्मुने तवाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥ ॥ इति विष्णुपुराणान्तर्गता यमगीता समाप्ता ॥
॥ अथ प्रारभ्यते नृसिंहपुराणान्तर्गता यमगीता ॥ व्यास उवाच - मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः । स्वराज्ञस्तेऽनुनिर्वेशं गत्वा संचक्रुशुर्भृशम् ॥ १ ॥ मृत्युकिंकराः ऊचुः - शृणु राजन्वचोऽस्माकं तवाग्रे यद्ब्रवीमहे । त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥ २ ॥ ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तमः । तं ध्यायमानं कमपि देवमेवाग्रमानसम् ॥ ३ ॥ गन्तुं न शक्तास्तत्पार्श्वं वयं सर्वे महामते । यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ॥ ४ ॥ वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः । अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ॥ ५ ॥ एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् । अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ॥ ६ ॥ तद्ब्रवीमि महाभाग यद्ब्रह्म ब्राह्मणस्य तु । देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ॥ ७ ॥ व्यास उवाच - इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते । ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥ ८ ॥ यम उवाच - शृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः । सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ॥ ९ ॥ भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः । स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥ १० ॥ भृगुणोक्तेन मार्गेण स तेपे परमं तपः । हरिमाराध्य मेधावी जपन्वै द्वादशाक्षरम् ॥ ११ ॥ एकाग्रेणैव मनसा ध्यायते हृदि केशवम् । सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥ १२ ॥ हरिध्यानमहादक्षा बलं तस्य महामुनेः । नान्यद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥ १३ ॥ हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले । पश्यन्तं विष्णुभूतं नु को हि स्यात्केशवाश्रयम् ॥ १४ ॥ तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् । अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥ १५ ॥ न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः । भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥ १६ ॥ नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् । युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् । समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥ १७ ॥ नरसिंहं महादेवं ये नराः पर्युपासते । तेषां पार्श्वं न गन्तव्यं युष्माभिर्मम शासनात् ॥ १८ ॥ व्यास उवाच - स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् । यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥ १९ ॥ कृपया परया युक्तो विष्णुभक्त्या विशेषतः । जनस्यानुग्रहार्थाय तेनोक्ता चागिरः शृणु ॥ २० ॥ नरके पच्यमानस्य यमेन परिभाषितम् । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ २१ ॥ उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ २२ ॥ नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः । स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ २३ ॥ इत्युक्त्वा नारकान्सर्वान्पुनराह स किंकरान् । वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥ २४ ॥ नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः । अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥ २५ ॥ तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् । शिक्षार्थं किंकराः सर्वे शृणुत प्रणता हरेः ॥ २६ ॥ हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ २७ ॥ पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम । त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥ २८ ॥ त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन । इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ २९ ॥ व्यास उवाच - इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च । नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः ॥ ३० ॥ यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः । तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥ ३१ ॥ नारका ऊचुः - नमो भगवते तस्मै केशवाय महात्मने । यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ ३२ ॥ भक्तप्रियाय देवाय रक्षाय हरये नमः । लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ ३३ ॥ अनन्तायाप्रमेयाय नरसिंहाय ते नमः । नारायणाय गुरवे शंखचक्रगदाभृते ॥ ३४ ॥ वेदप्रियाय महते विक्रमाय नमो नमः । वाराहायाप्रतर्क्याय वेदांगाय महीभृते ॥ ३५ ॥ नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः । वामनाय बहुज्ञाय वेदवेदांगधारिणे ॥ ३६ ॥ बलिबन्धनदत्ताय वेदपालाय ते नमः । विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ३७ ॥ चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः । जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ ३८ ॥ रामाय रावणान्ताय नमस्तुभ्यं महात्मने । अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥ ३९ ॥ इति नृसिंहपुराणे यमगीताध्यायः ॥ ॥ इति यमगीता समाप्ता ॥
॥ अथ प्रारभ्यते अग्निपुराणान्तर्गता यमगीता ॥ अग्निरुवाच - यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे । पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनं सताम् ॥ १ ॥ यम उवाच - आसनं शयनं यानपरिधानगृहादिकम् । वांछन्त्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥ २ ॥ भोगेषु शक्तिः सततं तथैवात्मावलोकनम् । श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि ॥ ३ ॥ सर्वत्र समदर्शित्वं निर्ममत्वमसंगता । श्रेयः परं मनुष्याणां गीतं पंचशिखेन हि ॥ ४ ॥ आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् । श्रेयः परं मनुष्याणां गंगाविष्णुप्रगीतकम् ॥ ५ ॥ आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया । श्रेयः परं मनुष्याणां जनकोद्गीतमेव च ॥ ६ ॥ अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः । तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतम् ॥ ७ ॥ कर्तवयमिति यत्कर्म ऋग्यजुःसामसंज्ञितम् । कुरुते श्रेयसे संगान् जैगीषव्येण गीयते ॥ ८ ॥ हानिः सर्वविधित्सानामात्मनः सुखहैतुकी । श्रेयः परं मनुष्याणां देवलोद्गीतमीरितम् ॥ ९ ॥ कामत्यागात्तु विज्ञानं सुखं ब्रह्मपरं पदम् । कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥ १० ॥ प्रवृत्तं च निवृत्तं च कार्यं कर्मपरोऽब्रवीत् । श्रेयसा श्रेय एतद्धि नैष्कर्म्य ब्रह्म तद्दहरिः ॥ ११ ॥ पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च ॥ १२ ॥ ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् । तपसा लक्ष्यते सर्वं मनसा यद्यदिच्छति ॥ १३ ॥ नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् । नास्त्यारोग्यसमं धन्यं नास्ति गंगासमा सरित् ॥ १४ ॥ न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् । अधश्चोर्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥ १५ ॥ इत्येव संस्मरन्प्राणान्यस्त्यजेत्स हरिर्भवेत् । यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥ १६ ॥ अग्राह्यकमनिर्देश्यं सुप्रतीकं च यत्परम् । परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥ १७ ॥ यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् । केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरम् ॥ १८ ॥ इन्द्रादिनामभिः केचित्सूर्यं सोमं च कालकम् । ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णुं वदन्ति च ॥ १९ ॥ स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः । सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥ २० ॥ ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् । आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ २१ ॥ बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥ ॥ २२ ॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । यस्त्वविज्ञानवान्भवत्ययुक्येन मनसा सदा ॥ २३ ॥ न तत्पदमवाप्नोति संसारं चाधिगच्छति । यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ॥ २४ ॥ स तत्पदमवाप्नोति यस्माद्भूयो न जायते । विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ २५ । सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥ २६ ॥ मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ २७ ॥ पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः । एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥ २८ ॥ दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥ २९ ॥ ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि । ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥ ३० ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाश्च नियमाः पंचं शौचं संतोषसत्तमः ॥ ३१ ॥ स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकम् । प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥ ३२ ॥ शुभे ह्येकत्र विषये चेतसो यत्प्रधारणम् । निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥ ३३ ॥ पौनः पुन्येन तत्रैव विषयेष्वेव धारणा । ध्यानं स्मृतं समाधिस्तु अहंब्रह्मात्मसंस्थितिः ॥ ३४ ॥ घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥ ३५ ॥ आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥ ३६ ॥ अग्निरुवाच - वसिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥ ३७ ॥ ॥ इति अग्निपुराणान्तर्गता यमगीता समाप्ता ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Yama Gita-s
% File name             : yamagiitaa.itx
% itxtitle              : yamagItA (viShNu,nRisiMha,agnipurANAntargatA)
% engtitle              : Yama Gita-s from Vishnu, Nrisimha, and Agni Purana
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Vyasa Rishi (by tradition)
% Language              : Sanskrit
% Subject               : philosophy
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : From Purana-s (Vishnu, Nrisimha, and Agni)
% Latest update         : July 7, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP