आञ्जनेय मङ्गलश्लोकाः
वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे । (वैशाखमास)
पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ १॥ (पूर्वभाद्रासुजाताय)
करुणारसपूर्णाय फलापूपप्रियाय च । (गुरुगौरवपूर्णय)
नानामाणिक्यहाराय मङ्गलं श्रीहनूमते ॥ २॥ (नानामाणिक्यहस्ताय)
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ ५॥
पम्पातीरविहाराय सौमित्रिप्राणदायिने ।
सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ६॥ (सर्वलोकैक कण्ठाय)
रम्भावनविहाराय गन्धमादनवासिने । (सुखद्मातटवासिने)
सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ७॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ८॥
इति स्तुत्वा हनूमन्तं नीलमेघो गतव्यथः ।
प्रदक्षिणनमस्कारान् पञ्चवारं चकार सः ॥
इति आञ्जनेय मङ्गलश्लोकाः सम्पूर्णाः ।
The variations (पाठबेह्द) are given to the right.
Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com
Proofread by Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com