हनूमद्भुजङ्गस्तोत्रम्
उदरान्तरङ्गं सदारामभक्तं
समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् ।
अमोघानुभावं तमोघातदक्षं
तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥
करोद्भासिटङ्कं किरीटिध्वजाङ्कं
हृताशेषपङ्कं रणेनिर्विशङ्कम् ।
त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं
भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥
प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं (प्रपन्नानुरागं)
जगत्क्षेमशौर्यं तुषारादिदैत्यम् । (जगद्भीतशौर्यं तुषाराद्रिधैर्यम्)
तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥
रणे भीषणे मेघनादे सनाथे
सरोषं समारोप्य सौमित्रिमान्ये ।
घनानां घनानां सुराणाञ्चमार्गे
नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥
समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां
विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः ।
निरातङ्कमानी च लङ्कां विशङ्को
भवानेव सीतारिहा पापहारी ॥ ५॥
नमस्ते महासत्त्ववाहाय तुभ्यं
नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते कृता रामकार्याय तुभ्यं
नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥
हनूमद्भुजङ्गप्रयातं प्रभाते
प्रदोषे दिवा चार्धरात्रे च मर्त्यः ।
पठन् देशिकोऽपीह मुक्तान्तराय-
स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥
इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran