॥ श्रीहनुमच्चतुर्विंशतिः ॥

यो बाल्येऽपि दिनेशं प्रोद्यन्तं पक्वदिव्यफलबुद्ध्या । व्युदपतदाशु हि पुष्करमादातुं नौमि तं समीरसुतम् ॥ १॥ यस्मै भगवान्ब्रह्मा प्रायच्छद्वायुतृप्तये पूर्वम् । विविधान्वरांस्तं वन्दे दुर्ज्ञेयदिव्यमहिमानम् ॥ २॥ सुरसावदनं विपुलं तरसा गत्वा विनिर्गतं दृष्ट्वा । यं सुरनिकरा विस्मयमाजग्मुर्नौमि तं महाप्राज्ञम् ॥ ३॥ लङ्कापुराधिदैवतगर्वं वेगाच्चपेटिकादानात् । निर्मूलं यश्चक्रे वन्दे तं वायुसूनुममितबलम् ॥ ४॥ गोष्पदवत्सरितांनिधिमुल्लङ्घ्याशोकविपिनगां सीताम् । अद्राक्षीद्भयरहितो यस्तं प्रणमामि शिंशुपामूले ॥ ५॥ रामादेशश्रवणानन्दादुद्धूतशोकगन्धां यः । सीतां चक्रे मतिमांस्तमहं प्रणमामि शोकविच्छित्त्यै ॥ ६॥ योऽक्षकुमारप्रमुखान्प्रवरान्दनुजाञ्जघान कुतुकेन । एकः सहायरहितस्तमहं प्रणमामि गन्धवहसूनुम् ॥ ७॥ प्राप्य मणिं सीतायाः काननमसुरस्य सत्वरं भङ्क्त्वा । दग्ध्वा लङ्कां योऽगाद्रघुवरनिकटं स मामवतु ॥ ८॥ सीताप्रोदितवचनान्यशेषतो यो निवेद्य रघुवीरम् । चक्रे चिन्तारहितं वन्दे तं चिन्तितार्थदं नमताम् ॥ ९॥ समरे वक्षसि येन प्रहतः संमूर्छितः ससंज्ञोऽथ । प्रशशंस रावणो यं तमतिबलानन्दवर्धनं नौमि ॥ १०॥ ओषधिगिरिमतिवेगान्नत्वाऽऽनीय प्रवृद्धदिव्यतनुः । यो लक्ष्मणासुदानं चक्रे तं नौमि गरुडनिभवेगम् ॥ ११॥ रघुपतिमुखारविन्दस्रवदागमशीर्षतत्त्वमकरन्दम् । आपीयागलमनिशं नन्दन्तं नौमि पवनमूलधनम् ॥ १२॥ कनकाद्रिसदृशकायं कनकप्रदमाशु नम्रजनपङ्क्तेः । रक्ताम्बुजास्यमीडे सक्तान्तःकरणमिनकुलोत्तंसे ॥ १३॥ कारुण्यजन्मभूमिं काकुत्स्थाङ्घ्र्यब्जपूजनासक्तम् । कालाहितभयरहितं कामविदूरं नमामि कपिमुख्यम् ॥ १४॥ कुण्डलभासिकपोलं मण्डलमङ्घ्रिप्रणम्रजन्तूनाम् । कुर्वन्तमीप्सितार्थैः सर्वैर्युक्तं भजेऽञ्जनासूनुम् ॥ १५॥ नयनजितहेमगर्वं नवनयपारीणमञ्जनातनयम् । गतिविजितजनककीर्तिं मतिमतिनिशितां ददानमहमीडे ॥ १६॥ पुरतो भव करुणाब्धे भरताग्रजरणलग्नचित्ताब्ज । हर मम निखिलां चिन्तां करजितपाथोज कलितवटुरूप ॥ १७॥ रविसुतमन्त्रिवरेण्यं पविताडनसहनदक्षदिव्यहनुम् । कविशिष्यहरणचतुरं सवितृविनेयं नमामि वातसुतम् ॥ १८॥ वक्षस्ताडितशैलं रक्षःपतिसैन्यमर्दनप्रवणम् । रक्षाकरं नमस्याम्यक्षाधिपदूतमनिलपुण्यचयम् ॥ १९॥ सुरदेशिकसदृशगिरं करजैर्हीरस्य कठिनतागर्वम् । नरशृङ्गतां नयन्तं नरमनिशं नौमि वाद्यमनिलसुतम् ॥ २०॥ श्रीपारिजातपादपमूले वासं करोषि किं हनुमन् । अध्येतुमवनताखिलवाञ्छितदातृत्वमवनिजेड्दूत ॥ २१॥ पुरदग्धारं मनसिजजेतारं भक्तमन्तुसहनचणम् । त्वामीशानं के वा न ब्रुवते ब्रूहि वायुसूनो मे ॥ २२॥ पुरदग्धारं मनसिजजेतारं रामनामरुचिविज्ञम् । हनुमन्भवन्तमीशं वदति न कः प्रणतसर्वदोषसहम् ॥ २३॥ सहमानापरमूर्ते सहस्व मानाथदूत मम मन्तून् । पवमानपुण्यराशे प्लवमानाब्धौ नमामि तव चरणौ ॥ २४॥ इति पूज्य श्रीसच्चिदानन्द शिवाभिनवनृसिंह भारती रचिता श्रीहनुमच्चतुर्विंशतिः समाप्ता । From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail

% Text title            : hanumachchaturviMshatiH
% File name             : hanumachchaturviMshatiH.itx
% itxtitle              : hanumachchaturviMshatiH (shivAbhinavanRisiMha bhAratI virachitA)
% engtitle              : hanumachchaturviMshatiH
% Category              : viMshati
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Author                : shrIsachchidAnanda shivAbhinavanRisiMha bhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Description/comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : December 8, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP