हनुमदष्टकम्
वीर! त्वमादिथ रविं तमसा त्रिलोकी
व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः ।
देवैः स्तुतस्तमवमुच्य निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ १॥
भ्रातुर्भयादवसदद्रिवरे कपीशः
शापान्मुने रधुवरं प्रतिवीक्षमाणः ।
आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं
जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ २॥
विज्ञापयञ्जनकजा -स्थितिमीशवर्यं
सीताविमार्गणपरस्य कपेर्गणस्य ।
प्राणान् ररक्षिथ समुद्रतटस्थितस्य
जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ३॥
शोकान्वितां जनकजां कृतवानशोकां
मुद्रां समर्प्य रघुनन्दननामयुक्ताम ।
हत्वा रिपूनरिपुरं हुतवान् कृशानौ
जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ४॥
श्रीलक्ष्मण निहतवान् युधि मेघनादो
द्रोणाचलं त्वमुदपाटय औषधार्थम् ।
आनीय तं विहितवानसुमन्तमाशु
जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ५॥
युद्धे दशास्यविहिते किल नागपाशै-
र्बद्धां विलोक्य पृतनां मुमुहे खरारिः ।
आनीय नागभुजमाशु निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ६॥
भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य
देव्यै प्रदातुमनसं त्वहिरावणं त्वाम् ।
सैन्यान्वितं निहतवाननिलात्मजं द्राक्
जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ७॥
वीर! त्वया हि विहितं सुरसर्वकार्यं
मत्सङ्कटं किमिह यत्त्वयका न हार्यम् ।
एतद् विचार्य हर सङ्कटमाशु मे त्वं
जानाति को न भुवि सङ्कटमोचनं त्वाम् ॥ ८॥
रक्तवर्णो महाकायो रक्तलाङ्गुलवाञ्छुचिः ।
हनूमान् दुष्टदलनः सदा विजयतेतराम् ॥ ९॥
हनुमदष्टकमेतदनुत्तमं सुकवि-भक्त-सुधी-तुलसीकृतम् ।
कपिलदेवबुधाऽनुकृतं तथा सुरगिराऽभयदं सकलार्थदम् ॥ १०॥
इति वाराणसेय-संस्कृत-विश्वविद्यालय-व्याख्याता-
पण्डितश्रीकपिलदेवत्रिपाठिना विरचितं हनुमदष्टकं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com