हनुमद्ध्यानम् २

हनुमद्ध्यानम् २

नमस्ते देवदेवेश नमस्ते राक्षसान्तक । नमस्ते वानराधीश नमस्ते वायुनन्दन ॥ १॥ नमस्त्रिमूर्तिवपुषे वेदवेद्याय ते नमः । रेवानदी विहाराय सहस्रभुजधारिणे ॥ २॥ सहस्रवनितालोल कपिरूपाय ते नमः । दशाननवधार्थाय पञ्चाननधराय च ॥ ३॥ सुवर्चलाकलत्राय तस्मै हनुमते नमः । कर्कटीवधवेलायां षडाननधराय च ॥ ४॥ सर्वलोकहितार्थाय वायुपुत्राय ते नमः । रामाङ्कमुद्राधराय ब्रह्मलोकनिवासिने ॥ ५॥ विंशद्भुजसमेताय तस्मै रुद्रात्मने नमः । सर्वस्वतन्त्रदेवाय नानायुधधराय च ॥ ६॥ दिव्यमङ्गलरूपाय हनूमद्ब्रह्मणे नमः । दुर्दण्डिबन्धमोक्षाय कालनेमिहराय च ॥ ७॥ मैरावणविनाशाय वज्रदेहाय ते नमः । सर्वलोकप्रपूर्णाय भक्तानां हृन्निवासिने ॥ ८॥ आर्तानां रक्षणार्थाय वेदवेद्याय ते नमः । सर्वमन्त्रस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ९॥ नानावर्णधरायास्तु पापनाशय ते नमः । गङ्गातीरे विप्रमुख कपिलानुग्रहेच्छया ॥ १०॥ चतुर्भुजावताराय भविष्यद्ब्रह्मणे नमः । कौपीनकटिसूत्राय दिव्ययज्ञोपवीतिने ॥ ११॥ पीताम्बरधरायास्तु कालरूपाय ते नमः । यज्ञकर्त्रे यज्ञभोक्त्रे नानाविद्याविहारिणे ॥ १२॥ त्रिमूर्तितेजोवपुषे दिव्यरूपाय ते नमः । कदलीफलहस्ताय हेमरम्भाविहारिणे ॥ १३॥ भक्तध्यानावसन्ताय सर्वभूतात्मने नमः । वल्लरीधार्ययुक्ताय सहस्राश्वरथाय च ॥ १४॥ गुण्डक्रियागीतगानचतुराय नमो नमः । पञ्चाशद्वर्णरूपाय सूक्ष्मरूपाय विष्णवे ॥ १५॥ नरवानरवेषाय बहुरूपाय ते नमः । लङ्किणीवशवेलायामष्टादशभुजात्मने ॥ १६॥ ध्वजदत्तप्रपन्नाय अग्निगर्भाय ते नमः । उष्ट्रारोहविराराय पार्वतीनन्दनाय च ॥ १७॥ वज्रप्रहारचिह्नाय तस्मै सर्वात्मने नमः । पम्पातीरविहाराय केसरीनन्दनाय च । तप्तकाञ्चनवर्णाय वीररूपाय ते नमः ॥ १८॥ शक्तिं पाशं च कुन्तं परशुमपि हलं तोमरं खेटकं च शङ्खं चक्रं त्रिशूलं मुसलमपि गदां पट्टसं मुद्गरं च । गाण्डीवं चारुपद्मं द्विनवभुजवरे खड्गमप्याददानं वन्देऽहं वायुसूनुं सुररिपुमथनं भक्तरक्षाधुरीणम् ॥ १९॥ इति श्रीहनुमद्ध्यानं समाप्तम् । Proofread by PSA Easwaran
% Text title            : hanumaddhyAnam 2
% File name             : hanumaddhyAnam2.itx
% itxtitle              : hanumaddhyAnam 2 (namaste devadevesha)
% engtitle              : hanumaddhyAnam 2
% Category              : hanumaana, stotra, hanuman, dhyAnam
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Latest update         : January 18, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org