॥ हनुमन्मन्त्रप्रयोगविधिः ॥

(मन्त्रमहोदधितः) अथोच्यन्ते हनुमतो मन्त्राःसर्वेष्टसिद्धये । इन्द्रस्वरेन्दुसंयुक्तो वराहोहसफाग्नयः ॥ १॥ हौं, ह् स् फ् र् एं = ह्स्फ्रें झिण्टीशबिन्दुसंयुक्ताद्वितीयं बीजमीरितम् । गदी (ख) पान्ताग्निरुद्रेन्दुसंयुतः स्यात्तृतीयकम् ॥ २॥ (ख्, फ्, र्, एं = ख्फ्रें) हसरासमुचन्द्रेढ्याश्चतुर्थं हसखाःफराः । (ह् स् र् ॐ = ह्स्रौं) (ह् स् ख् फ् र् एं = हस्ख्फ्रें) शिवेन्द्वाढ्याःपञ्चमः स्याद्धसौमबिन्दुगौपरम् ॥ ३॥ (ह् स् = ह्सौं) ङेयुतो हनुमान्हार्दं (नमः) मन्त्रोऽयं द्वादशाक्षरः १. हौं हृदयाय नमः । २. ह्स्फ्रें शिरसे स्वाहा । ३. ख्फ्रें शिखायै वषट् । ४. ह्स्त्रौं कवचाय हुं । ५. ह्स्ख्फ्रें नेत्रत्रयाय वौषट् । ह्सैं अस्त्राय फट् । हनुमते नमः ॥ रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥ हनुमान्देवता बीजं षष्ठं शक्तिद्वितीयकम् । षड्बीजैरङ्गषट्कं स्यान्मूर्ध्नि भाले दृशोर्मुखे ॥ ५॥ कण्ठे च बाहुद्वितये हृदि कुक्षौ च नाभितः । लिङ्गे जानुद्वये चैव मन्त्रवर्णान्क्रमान्न्यसेत् ॥ ६॥ षड्बीजानि पदद्वन्द्वे भाले चैव मुखे हृदि । नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ ७॥ बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैः संसेव्यपादाम्बुजम् । नादेनैव समस्तराक्षसगणान्सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ ८॥ एवं ध्यात्वा जपेदर्कसहस्रं जितमानसः । दशांशं जुहुयाद् व्रीहीन्पयोदध्याज्यसंयुतान् ॥ ९॥ केसरेष्वङ्गपूजा स्याद्दलेष्वन्यांस्तदाह्वयन् ॥ १०॥ रामभक्तो महातेजा कपिराजो महाबलः । द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ॥ ११॥ दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः । एवं नामानि सम्पूज्य दलाग्रेषु च वानरान् ॥ १२॥ सुग्रीवमङ्गदं नीलं जाम्बवन्तं नलं तथा । सुषेणं द्विविदं मैन्दं पूजयेद्दिक्पतीनपि ॥ १३॥ एवं सिद्धे मनौ मन्त्री स्वपरेष्टं प्रसाधयेत् । कदलीबीजपूराम्रफलैर्हुत्वा सहस्रकम् ॥ १४॥ द्वाविंशतिब्रह्मचारिविप्रान्सम्भोजयेदथ । एवं कृते महाभूतविषचौराद्युपद्रवाः ॥ १५॥ नश्यन्ति क्षणमात्रेण विद्वेषिग्रहदानवाः । अष्टोत्तरशतं वारि मन्त्रितं विषनाशनम् ॥ १६॥ रात्रौ नवशतं मन्त्रं जपेद्दशदिनावधि । यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ १७॥ अभिचारोत्थभूतोत्थज्वरे तन्मन्त्रितैर्जलैः । भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणः क्रुधा ॥ १८॥ दिनत्रयाज्ज्वरान्मुक्तः स सुखं लभते नरः । तन्मन्त्रितौषधं जग्ध्वा नीरोगो जायते ध्रुवम् ॥ १९॥ तन्मन्त्रितं पयः पीत्वा योद्धुं गच्छेन्मनुं जपन् । तज्जप्तभस्मलिप्ताङ्गः शस्त्रसङ्घैर्न बाध्यते ॥ २०॥ शस्त्रक्षतं व्रणः शोफो लतास्फोटोऽपि भस्मना । त्रिर्मन्त्रितेन संस्पृष्टाः शुष्यन्त्यचिरतो नृणाम् ॥ २१॥ वश्यादिप्रयोगाः - सूर्यास्तमयमारभ्य जपेत्सूर्योदयावधि । कीलकं भस्म चादाय सप्ताहावधि संयतः ॥ २२॥ निखनेद्भस्मकीलौ तौ विद्विषां द्वार्यलक्षितम् । विद्वेषं मिथ आपन्नाः पलायन्तेऽरयोऽचिरात् ॥ २३॥ अभिमन्त्रितभस्माम्बुदेहचन्दनसंयुतम् । खाद्यादियोजितं यस्मै दीयते स च दासवत् ॥ क्रूराश्च जन्तवोऽनेन भवन्ति विधिना वशाः । ईशानदिक्स्थमूलेन भूताङ्कुशतरोः शुभाम् ॥ २५॥ अङ्गुष्ठमात्रां प्रतिमां प्रविधाय हनूमतः । प्राणसंस्थापनं कृत्वा सिन्दूरैः परिपूज्य च ॥ २६॥ गृहस्याभिमुखे द्वारे निखनेन्मन्त्रमुच्चरन् । भूताभिचारचौराग्निविषरोगनृपोद्भवाः ॥ २७॥ सञ्जायन्ते गृहे तस्मिन्न कदाचिदुपद्रवाः । प्रत्यहं धनपुत्राद्यैरेधते तद्गृहं चिरम् ॥ २८॥ निशि श्मशानभूमिस्थो भस्मना मृत्स्नयापि वा । शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ २९॥ कृतप्राणप्रतिष्ठां तां भिन्द्याच्छस्त्रैर्मनुं जपन् । मन्त्रान्ते प्रोच्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ ३०॥ मारयेति च तस्यान्ते दन्तैरोष्ठं निपीड्य च । पाण्योस्तले प्रपीड्यात्र त्यक्त्वा तां सदनं व्रजेत् ॥ ३१॥ एवं सप्तदिनं कुर्वन्हन्याच्छत्रुं शिवावितम् । अर्धचन्द्राकृते कुण्डे स्थण्डिले वा हुतं चरेत् ॥ ३२॥ मुक्तकेशः श्मशानस्थे लवणराजिकायुतैः । उन्मत्तफलपुष्पैश्च नखरोमविषैरपि ॥ ३३॥ काककौशिकगृध्राणां पक्षैः श्लेष्मातकाक्षजैः । समिद्वरैश्च त्रिशतं दक्षिणाशामुखो निशि ॥ ३४॥ सप्तघस्रानिदं कुर्वन्मारयेद्रिपुमुद्धतम् । शतषट्कं जपेद्रात्रौ श्मशाने दिवसत्रयम् ॥ ३५॥ ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् । उदितं कुरुते सर्वं किङ्करीभूय मन्त्रिणः ॥ ३६॥ हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनून् । साध्यनाम द्वितीयान्तं विमोचय विमोचय ॥ ३७॥ तत्सर्वं मार्जयेद्वामहस्तेनाथ पुनलिर्खेत् । एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ ३८॥ एवं कृते पराधीनो मुच्यते निगडात्क्षणात् । एवं विद्वेषणादीनि कुर्यात्तत्पल्लवं लिखन् ॥ ३९॥ वश्यार्थे सर्षपैर्होमो विद्वेषे करवीरजैः । कुसुमैरिध्मकाष्ठैर्वा जीरकैर्मरिचैरपि ॥ ४०॥ ज्वरे दूर्वागुडूचीभिर्दध्न क्षीरेण वा घृतैः । शूले होमः कुबेराक्षैरेरण्डसमिधा तथा ॥ ४१॥ तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः । सौभाग्ये चन्दनैश्चन्द्रैः रोचनैलालवङ्गकैः ॥ ४२॥ सुगन्धिपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैः तदाप्तये । तत्पादरजसा राजीलवणाक्तेन मृत्यवे ॥ ४३॥ किम्बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे । विवादे स्तम्भने द्यूतभूतभीतौ च सङ्कटे ॥ ४४॥ वश्ये युद्धे नृपद्वारे समरे चौरसङ्कटे । मन्त्रोऽयं साधितो दद्यादिष्टसिद्धिं ध्रुवं नृणाम् ॥ हनुमद्यन्त्रम् -धारणाय वक्ष्ये हनुमतो यन्त्रं सर्वसिद्धिप्रदायकम् । वलयत्रितयं लेख्यं पुच्छाकारसमन्वितम् ॥ ४६॥ साध्यनाम लिखेन्मध्ये पाशबीजप्रवेष्टितम् । उपर्यष्टदलं कृत्वा वर्मपत्रेषु संलिखेत् ॥ ४७॥ वलयं बहिरालिख्य तद्वहिश्चतुरस्रकम् । चतुरस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ॥ ४८॥ भूपुरस्याष्टवज्रेषु ह्सौबीजं तु लिखेत्ततः । कोणेष्वङ्कुशमालिख्य मालामन्त्रेण वेष्टयेत् ॥ ४९॥ तत्सर्वं वेष्टयेद्यन्त्रं वलयत्रितयेन च । वस्त्रे शिलायां फलके ताम्रपात्रेऽथ कुड्यके ॥ ५०॥ भूर्जे वो ताडपत्रे वा रोचनानाभिकुङ्कुमैः । यन्त्रमेतत्समालिख्य त्यक्ताशो ब्रह्मचर्यवान् ॥ ५१॥ कपेः प्राणान्प्रतिष्ठाप्य पूजयेत्तं यथाविधि । सर्वदुःखनिवृत्त्यै तद्यन्त्रमात्मनि धारयेत् ॥ ५२॥ ज्वरमार्यभिचारघ्नं सर्वोपद्रवशान्तिकृत् । योषितामपि बालानां धृतं जनमनोहरम् ॥ ५३॥ मालामन्त्रः मालामन्त्रमथो वक्ष्ये प्रणवो वाग्घरिप्रिया । दीर्घत्रयान्विता माया पूर्वोक्तं कूटपञ्चकम् ॥ ५४॥ तारो नमो हनुमते प्रकटान्ते पराक्रम । आक्रान्तदिङ्मण्डलतोयशोवीति च तान च ॥ ५५॥ धवलीकृतवर्णान्ते जगत्त्रितयवज्र च । देहज्वलदग्निसूर्यकोट्यन्ते तु समप्रभ ॥ ५६॥ तनूरुहपदं रुद्रावतारपदमीरयेत् । लङ्कापुरीदहान्तेनोदधिलङ्घनवर्णकाः ॥ ५७॥ दशग्रीवशिरः पश्चात्कृतान्तकपदं ततः । सीताश्वासनवाय्वन्ते सुतशब्दमुदीरयेत् ॥ ५८॥ अञ्जनागर्भसम्भूत श्रीरामान्ते तु लक्ष्मण । नन्दकान्ते रकपिचसैन्यप्राकारवर्णकाः ॥ ५९॥ सुग्रीवसख्यकावर्णा रणवालिनिबर्हण । कारणद्रोणपर्वान्ते तोत्पाटनपदं वदेत् ॥ ६०॥ अशोकवनवीत्यन्तदारणाक्षकुमारक । च्छेदनान्ते वनपदं रक्षाकरसमूह च ॥ ६१॥ विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्तिग्रसेति च । लक्ष्मणान्ते शक्तिभेदनिवारणपदं पुनः ॥ ६२॥ विशल्यौषधिवर्णान्ते समानयनवर्णकाः । बालोदितान्ते भान्वन्ते मण्डलग्रसनेति च ॥ ६३॥ राक्षसीसङ्घवर्णान्ते विदारण च कुम्भ च ॥ ६४॥ कर्णादिवधशब्दान्ते परायणपदं वदेत् । श्रीरामभक्तिशब्दान्ते तत्परेति समुद्र च । व्योमद्रुमलङ्घनेति महासामर्थ्यमिति च ॥ ६६॥ महातेजःपुञ्ज वीत्यन्ते राजमानपदं पुनः । स्वामिवचनसम्पादितार्जुनान्ते च संयुगे ॥ ६७॥ सहायान्ते कुमारेति ब्रह्मचारिन्पदं वदेत् । गम्भीरशब्दोऽत्रिर्वायुर्दक्षिणाशापदं पुनः ॥ ६८॥ मार्तण्डमेरुशब्दान्ते सकलेति पदं वदेत् । पीठिकार्चनशब्दान्ते सकलेति पदं पुनः ॥ ६९॥ मन्त्रागमाचार्य्य मम सर्वग्रहविनाशन । सर्वज्वरोच्चाटनेति सर्वविषविनाशन ॥ ७०॥ सर्वापत्तिनिवारण सर्वदुष्टेति सम्पठेत् । निबर्हणपदं सर्वव्याघ्रादिभयतत्परम् ॥ ७१॥ निवारण सर्वशत्रुच्छेदनेति पदं मम । परस्य च त्रिभुवनपुंस्त्रीनपुंसकात्मकम् ॥ ७२॥ सर्वं जीवपदं पश्चाज्जातं वशययुग्मकम् । ममाज्ञाकारकं पश्चात्सम्पादय पदद्वयम् ॥ ७३॥ नानानामपदं धेयान्सर्वान्राज्ञः स सम्पठेत् । परिवारान्ममेत्यन्ते सेवकान्कुरु युग्मकम् ॥ ७४॥ सर्वशस्त्रास्त्रवीत्यन्ते षाणिविध्वंसयद्वयम् । मायादीर्घत्रयोपेताहात्रयं चैहियुग्मकम् ॥ ७५॥ विलोमपञ्चकूटानि सर्वशत्रून्हनद्वयम् । परदान्तेलानि परसैन्यानि क्षोभयद्वयम् ॥ ७६॥ मम सर्वकार्यजातं साधय द्वितयं ततः । सर्वदुष्टदुर्जनान्ते मुखानि कीलय द्वयम् ॥ ७७॥ घेत्रयं हात्रयं वर्मत्रितयं फट्त्रयं ततः । वह्निप्रियान्तो मन्त्रोयं मालासञ्ज्ञोऽखिलेष्टदः ॥ ७८॥ महोपद्रवसम्पाते स्मृतोऽयं दुःखनाशनः ॥ ७९॥ पञ्चकूटमन्त्रः । द्वादशार्णान्तिमान्वर्णान्षट्त्यक्त्वैकं तथादिमम् । पञ्चकूटात्मको मन्त्रो निखिलाभीष्टसाधकः ॥ ८०॥ मुनी रामोऽथ गायत्रीछन्दो देवः कपीश्वरः । पञ्चबीजैःसमस्तेन षडङ्गं मुनिभिः स्मृतम् ॥ ८१॥ रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनासुतः । सीताशोकविनाशोऽथ लङ्काप्रासादभञ्जनः ॥ ८२॥ हनूमदाद्याः पञ्चैते बीजाद्या ङेसमन्विताः । षडङ्गमन्त्राः सन्दिष्टा ध्यानपूजादिपूर्वकम् ॥ ८३॥ (ॐ) (ऐं) (श्रीं) एकादशाक्षरो मन्त्रः तारो वाक्कमलामायादीर्घत्रयसमन्विताः (ह्रां ह्रीं ह्रूं) पञ्चकूटानि मन्त्रोऽयं रुद्रार्णोऽभीष्टसिद्धिदः ॥ (ह्स्फ्रें ख्फ्रें ह्सौं ह्स्ख्फ्रें ह्सौः) अष्टादशाक्षरो मन्त्रः अर्चना पूर्ववच्चास्य परो मन्त्रोऽभिधीयते । हृदयं (नमः) भगवन्ङेन्तं (भगवते) आञ्जनेयमहाबलौ (आञ्जनेयाय महाबलाय) ॥ ८५॥ तद्वद्वह्निप्रियान्तोऽयं मनुरष्टादशाक्षरः । मुनिरीश्वर एवास्यानुष्टुप्छन्दः समीरितम् ॥ ८६॥ हनुमान्देवता बीजं हुं शक्तिर्वह्निवल्लभा । आञ्जनेयो रुद्रमूर्तिर्वायुपुत्रस्तथैव च ॥ ८७॥ अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारणः । एतैर्ङेन्तैः षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ ८८॥ दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् । श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ ८९॥ अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः । वैष्णवे पूजयेत्पीठे पूर्ववत्कपिनायकम् ॥ ९०॥ जितेन्द्रियो नक्तभोजी प्रत्यहं साष्टकं शतम् । जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ॥ ९१॥ भूतप्रेतपिशाचादिनाशायैवं समाचरेत् । महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ॥ ९२॥ यताशनोऽयुतं नित्यं जपन्ध्यायन्कपीश्वरम् । राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषम् ॥ ९३॥ सुग्रीवेण समं रामं सन्दधानं स्मरन्कपिम् । प्रजप्यायुतमेतस्य सन्धिं कुर्याद्विरुद्धयोः ॥ ९४॥ लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् । शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ ९५॥ प्रयाणसमये ध्यायन्हनूमन्तं मनुं जपन् । यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ ९६॥ यः कपीशं सदा गेहे पूजयेज्जपतत्परः । आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ ९७॥ शादूर्लतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः । प्रस्वापकाले चौरेभ्यो दुष्टस्वप्नादपि ध्रुवम् ॥ ९८॥ पवनद्वितयं सद्योजातयुक्तं हनुपदम् । महाकालः शशाङ्काढ्यः कामिकाफलकः क्रिया ॥ ९९॥ सनेत्राणां तमीनोगसातोगित आयुरा । ??? प्लीहनिवारको मन्त्रः प्लीहरोगहरश्चास्य मुन्याद्यं पूर्ववन्मतम् । प्लीहयुक्तोदरे स्थाप्यं नागवल्लीदलं शुभम् ॥ १०१॥ तदुपर्यष्टगुणितं वस्त्रमाच्छादयेत्ततः । वंशजं शकलं तस्योपरि मुञ्चेत्कपिं स्मरन् ॥ १०२॥ आरण्यप्रस्तरोत्पन्ने वह्नौ यष्टिं प्रतापयेत् । बदरीतरुसम्भूतां मन्त्रेणानेन सप्तशः ॥ १०३॥ तया सन्ताडयेद्वंशं शकलं जठरस्थितम् । सप्तकृत्वःप्लीहरोगो नश्यत्येव नृणां क्षणात् ॥ १०४॥ (ॐ यो यो हनुमन्त फलफलित धगधगित आयुराषपरुडाह ॥ ) पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया । अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ १०५॥ तन्मध्ये द्वादशार्णं तु शत्रुनामयुतं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबद्धेन भूमिपः ॥ १०६॥ जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् । विजयध्वजः युद्धे जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ॥ १०७॥ ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि । मातृकां जापयेत्पश्चाद्दशांशेन च हावयेत् ॥ १०८॥ सर्षपैस्तिलसम्मिश्रैः संस्पर्शान्मोक्षणावधि । गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयोऽचिरात् ॥ १०९॥ रक्षायन्त्रः अथो हनुमतो यन्त्रं वक्ष्ये रक्षाविधायकम् । लिखेदष्टदलं पद्मं साध्याख्यायुतकर्णिकम् ॥ ११०॥ दलेष्वष्टार्णमालिख्य मालामन्त्रेण वेष्टयेत् । तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् ॥ १११॥ लिखितं स्वर्णलेखिन्या दले भूर्जतरोः शुभे । रोचनाकुङ्कुमाभ्यां तु वेष्टितं कनकादिभिः ॥ ११२॥ सम्पातसाधितं यन्त्रं भुजं वा मूर्ध्नि धारयेत् । रणे जयमवाप्नोति व्यवहारे दुरोदरे ॥ ११३॥ ग्रहैर्विघ्नैर्विषैःशस्त्रैश्चौरैर्नैवाभिभूयते । रोगान्सर्वानपाकृत्य चिरं जीवति भाग्यवान् ॥ ११४॥ अष्टाक्षरो मन्त्रः वियदग्नियुतं दीर्घषट्काद्यं तारसम्पुटम् । अष्टार्णो मन्त्र आख्यातो मूलमन्त्रोऽथ कथ्यते ॥ ११५॥ (ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ) मालामन्त्रोद्धारः वज्रकाय वज्रतुण्ड कपिलेत्यथ पिङ्गल । ऊर्ध्वकेश महावर्ण बल रक्तमुखेति च ॥ ११६॥ तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक हद्वयम् । करालिने महादृढप्रहारिन्नितिवर्णकाः ॥ ११७॥ लङ्केश्वरवधायान्ते महासेतुपदं ततः । बन्धान्ते च महाशैलप्रवाह गगनेचर ॥ ११८॥ एह्येहि भगवन्नन्ते महाबलपराक्रम । भैरवाज्ञापयैह्येहि महारौद्रपदं पुनः ॥ ११९॥ दीर्घपुच्छेन वर्णान्ते वेष्टयान्ते तु वैरिणम् । भञ्जय द्वितयं फट्प्रणवादिसमीरितः ॥ १२०॥ युद्धे जप्तो जयं दद्याद्व्याधौ व्याधिविनाशनः ॥ १२१॥ (ॐ वज्रकाय वज्रतुण्ड कपिल पिङ्गल ऊर्ध्वकेश महाबल रक्तमुख तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक ह ह करालिने महादृढप्रहारिन् लङ्केश्वरवधाय महासेतुबन्ध महाशैलप्रवाह गगनेचर एह्येहि भगवन् महाबलपराक्रम भैरवाज्ञापय एह्येहि महारौद्र दीर्घपुच्छेन वैरिणं भञ्जय भञ्जय हुं फट् ॥ ) अष्टार्णमालामन्वोस्तु मुन्याद्यर्च्य तु पूर्ववत् । भूरिणा किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ १२२॥
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail

% Text title            : hanumanmantraprayogavidhiH or hanumatpaTalaH
% File name             : hanumanmantraprayogavidhiH.itx
% itxtitle              : hanumanmantraprayogavidhiH athavA hanumatpaTalaH
% engtitle              : hanumanmantraprayogavidhiH or hanumatpaTalaH
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 28, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP