दीपदानम्
कवचमन्त्रपाठः-ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्यें फ्रें
हनुमन् प्रकटपराक्रम आक्रान्तदिङ्मण्डल
यशोधवलीकृतजगत्त्रितय वज्रदेह ज्वलत्सूर्यकोटिसमप्रभ
तनुरुद्रावतार लङ्कापुरदहन उदधिलङ्घन दशग्रीवशिरःकृन्तन
सीतात्रासनिवारक वायुसुत अञ्जनीगर्भसम्भूत
श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्रकाश सुग्रीवसख्यकारण
वालिनिबर्हण द्रोणपर्वतोत्पाटन अशोकवनविदारण
अक्षकास्यच्छेदन वनरक्षाकारसमूहभञ्जन ब्रह्मशक्तिग्रसन
लक्ष्मणशक्तिभेदननिवारण शिशुसमानपीन-
वालादित्यसानुग्रसन मेघनादहोमविध्वंसन
इन्द्रजिद्वधकारण सीतारक्षक राक्षसविदारण
कुम्भकर्णादिवधपरायण श्रीरामभक्तितत्पर
व्योमद्रुमोल्लङ्घन महासामर्थ्य महातेजःपुञ्जविराजमान
स्वामिवचनसम्पादित आर्जुनसंयुगसहाय ।
कुमारब्रह्मचारिन् गम्भीरस्वर दक्षिणमार्तण्ड
मेरुपर्वतोत्पाटकचरण सर्वदुष्टनिबर्हण व्याघ्रादिभयनिवारण
सर्वशत्रुच्छेदन मम त्रिभुवनस्त्रीपुन्नपुंसकात्मकं सर्वजीवजातं
वशय वशय । ममाज्ञाकारं सम्पादय नानानामधेयान्
राज्ञः सपरिवारान् कुरु कुरु सर्ववश्य अविषाण अविषाण
विध्वंसय विध्वंसय प्रबलानि परसैन्यानि क्षोभय क्षोभय
सर्वकार्याणि साधय साधय सर्वदुर्जनानां मुखानि स्तम्भय कीलय ।
घे घे घे हा हा हा हुं हुं हुं फट् स्वाहा ॥
(दीपदानकाले जप्यमिदम् ।)
आचम्य प्राणानायम्य देशकालौ स्मृत्वा मम इह जन्मनि जन्मान्तरे
च अभीप्सितफलावाप्त्यर्थं श्रीरामरूपिहनुमद्देवताप्रीत्यर्थं
मन्त्रसिद्ध्यर्थं
पञ्चपलैकतैलेन यथाशक्ति पञ्चपलमानताम्रपात्रेण
एकविंशतितन्तुनिर्मिताभिस्त्रिभिर्वर्त्तिभिर्नित्यं दीपदानमहं
करिष्ये इति सङ्कल्प्य ॥
सुमुखश्चैकदन्तश्चेति पठित्वा पुण्याहं वाचयित्वा गणेशं सम्पूज्य
गुरुचरणारविन्दं ध्यात्वा,
भक्त्या समागतोऽहं ते पादयोर्भक्तवत्सल ।
दीपकार्यं च भवता सम्पाद्यं वै नमो नमः ॥
इत्याज्ञां गृहीत्वा कपिलागोमयोपलिप्तभूमौ दीपयन्त्रं विलिख्य
रक्तचन्दनरक्ततण्डुलैस्तद्यन्त्रं सम्पूर्य ।
यद्वा धातुनिर्मितयन्त्रं गोमयोपलिप्तभूमौ निधाय तन्मध्ये
श्रीरामरूपिहनुमद्दीपयन्त्रराजाय नमः ।
(मूलं) दीपप्रियाय (त्रिरावृत्ति) नमः अग्नीशासुरवायव्येषु
हृदयादि सम्पूज्य दिक्ष्वस्त्रं च सम्पूज्य
यन्त्रराजमहाराज हनुमत्प्रियकारक ।
दीपं स्थापय मद्दत्तं मत्कामान्परिपूरय ॥
इति मन्त्रराजं सम्प्रार्थ्य ।
ॐ हौं रामदूताय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमान् प्रचोदयात् । इति गायत्रीमन्त्रेण
पात्रमभिमन्त्र्य तेनैव मूलपूर्वेण दीपपात्रं यन्त्रोपरि स्थापयेत् ॥
ॐ ह्रां ह्रीं ह्रूं हनुमन् एहि एहि मम सन्निधिं कुरु कुरु स्वाहा ।
अनेन शुद्धतैलेन पूरयामि जगत्पते ।
श्रीहनूमन् महावीर्य कार्यं साधय मे नमः ॥
इति मन्त्रेण दीपपात्रं तैलेनापूर्य तत्र चतुरङ्गुलां सूक्ष्माग्रां
स्थूलमूलां स्वर्णादिशलाकां दक्षिणतः क्षिप्त्वा
ॐ हों हनुमन्वर्तिनं कल्पय कल्पय स्वाहा इति कन्याकरस्पर्शिते
यथातन्तुनिर्मिते वर्तिके श्रीहनुमते इष्टान्मत्कामान्परिपूरयेति
वर्तिकं दीपान्तरे निक्षिप्य
``ॐ हौं हनुमन्सन्धुक्ष्व मम ईप्सितं सिद्ध्यतु स्वाहा ।
श्रीहनुमन्महावीर्य योगज्वलितविग्रह ।
भव सन्निहितो देव ज्वालारूपेण वर्तिषु ।
ॐ ह्रां ह्रं ह्रूं श्रीहनुमन्मम समीहितमुद्दीपयोद्दीपय हुं फट् स्वाहा
रामप्रियाय हनुमते वातात्मजाय ।
यथा दीपयते दीपं तथा कार्यं प्रदीपय ।
इति पठित्वा मूलपूर्वकं गायत्र्या प्रज्वाल्य मूलगायत्रीभ्यां
त्रिधाभिमन्त्र्य प्राणप्रतिष्ठां कुर्यात् ॥
ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हंसः सोहं
दीपस्य प्राणा इह प्राणाः (पुनस्तान्युच्चार्य)
दीपस्य जीव इह स्थितः ।
(पुनस्तान्युच्चार्य) दीपस्य सर्वेन्द्रियाणि ।
(पुनस्तान्युच्चार्य)
दीपस्य वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं
तिष्ठन्तु स्वाहा । इति त्रिः पठित्वा पुनस्तस्मिन्नेव
हनुमत्प्राणप्रतिष्ठां कृत्वा पुनश्च अकारादि क्षकारान्तं
मातृकया मूलेन गायत्र्या चाभिमन्त्र्य गन्धादि दत्वा
न्यासं कुर्यात् । मूलेन प्राणायामत्रयं कृत्वा,
ॐ अस्य श्रीद्वादशवर्णात्मकहनुमन्मन्त्रस्य रामचन्द्र ऋषिः ।
जगती छन्दः । हनुमान् देवता । ह्सौं बीजम् । हस्ख्फ्रें शक्तिः ।
हौं कीलकम् । दीपपूजने विनियोगः ॥
रामचन्द्रर्षये नमः शिरसि ।
जगतीछन्दसे नमः मुखे ।
हनुमद्देवतायै नमः हृदि ।
ह्सौम्बीजाय नमः गुह्ये ।
हस्ख्फ्रेंशक्तये नमः पादयोः ।
हांऐकीलकाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ।
हौं अङ्गुष्ठाभ्यां नमः ।
हस्फ्रें तर्जनीभ्यां नमः ।
ख्फ्रें मध्यमाभ्यां नमः
ह्स्रौं अनामिकाभ्यां नमः ।
ह्स्ख्फ्रें कनिष्ठिकाभ्यां नमः ।
ह्सौः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ।
हौं हृदयाय नमः ।
ह्स्फ्रें शिरसे स्वाहा ।
ख्फ्रें शिखायै वषट् ।
ह्स्रौं कवचाय हुं ।
ह्स्ख्फ्रें नेत्रत्रयाय वौषट् ।
ह्सौं अस्त्राय फट् । इति हृदयादि न्यासः ।
मूलेन सर्वाङ्गे ।
अथाङ्गन्यासः-
हौं नमः मूर्ध्नि ।
ह्स्फ्रें नमः भाले ।
ख्फ्रें नमः नेत्रयोः ।
ह्स्त्रौं नमः मुखे ।
ह्स्ख्फ्रें नमः कण्ठे ।
ह्सौः नमः हस्तद्वये ।
अक्षरन्यासः-
हनुमते नमः जङ्घयोः ।
नमोनमः पादयोः ।
हं नमः हृदि ।
नुं नमः उदरे ।
मं नमः नाभौ ।
तें नमः लिङ्गे ।
नं नमः जान्वोः ।
मं नमः पादयोः ।
मूलेन व्यापकं विधाय ।
ध्यानम् ।
अस्य श्रीहनुमद्दीपदानमालामन्त्रस्य रामचन्द्र ऋषिः ।
हनुमान् देवता । दीपप्रदाने प्रयोगसिद्धये जपे विनियोगः ।
रां रीं रूं रैं रौं रः
इत्यनेन करषडङ्गन्यासौ कत्वा ।
ॐ हनुमते नाथनाथाय अनन्तबाहवे सेतुबन्धनाय रामप्रियाय
भुभुक्कारेण ॐ स्वाहा । मालामन्न्त्रकार्यपरत्वेन योजयित्वा दीपदेवं
मानसैरुपचारैः सम्पूज्य अद्य शुभपुण्यतिथौ मम
निखिलोपद्रवशान्तिपूर्वकं सकलाभीष्टसिद्ध्यर्थं
श्रीरामरूपिहनुमद्देवताप्रीत्यर्थं पञ्च एकं वा यथाशक्ति तैलनिर्मितं
पञ्चपलमितताम्रपात्रस्थितं नित्यदीपं श्रीहनुमते
श्रीहनुमतः आवरणपूजा सम्प्रददे न मम इत्यादि द्वादशवर्णान्
हनुमते अनाथनाथाय अनन्तबाहवे सेतुबन्धनाय रामप्रियाय
वायुपुत्राय अञ्जनीगर्भरत्नाय हूं हौं इमं दीपं गृहाण
सम्पुटीकृत्य ॐ तं थं दं धं नं पं फं बं भं मं ॐ स्वाहा ।
सकृज्जपेत् ।
मूलमन्त्रस्य पूर्वोक्तन्यासान् कुर्यात् ॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail