॥ श्रीहनुमत्कवचम् ॥

सनत्कुमार उवाच ॥ कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर । मोहविध्वंसनं जैत्रं मारुतेः कवचं श्रृणु ॥ १॥ यस्य सन्धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः । भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥ २॥ एकदाहं गतो द्रष्टुं रामं रमयतां वरम् । आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ ३॥ तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः । नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ ४॥ तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् । पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥ ५॥ ततः कथान्ते भगवान्मारुतेः कवचं ददौ । मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥ ६॥ भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद । श्रीरामेणाञ्जनासूनोसूनोर्भुक्तिमुक्तिप्रदायकम् ॥ ७॥ हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥ ८॥ ऊर्ध्वं पातु कपिश्रेष्ठः केसरिप्रियनन्दनः । अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ ९॥ लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ १०॥ भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ११॥ कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ १२॥ पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् । भुजौ पातु महातेजाः करौ च चरणायुधः ॥ १३॥ नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः । वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ १४॥ लङ्कानिभर्जनः पातु पृष्टदेशे निरन्तरम् । नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥ १५॥ गुह्यं पातु महाप्राज्ञः सक्थिनी अतिथिप्रियः । ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥ १६॥ जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ १७॥ अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा । मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥ १८॥ दिवारात्रौ त्रिलोकेषु सदागतिसुतोऽवतु । स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥ १९॥ लोकोत्तरगुणः श्रीमान् पातु त्र्यम्बकसम्भवः । प्रमत्तमप्रमत्तं वा शयानं गहनेऽम्बुनि ॥ २०॥ स्थलेऽन्तरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे । सङ्ग्रामे सङ्कटे घोरे विराड्रूपधरोऽवतु ॥ २१॥ डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः । शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ २२॥ दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः । साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥ २३॥ यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः । स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥ २४॥ स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः । सूर्यमण्डलगः श्रीदः पातु कालत्रयेऽपि माम् ॥ २५॥ यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः । देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥ २६॥ सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः । यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ २७॥ सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः । वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यतेऽत्यलम् ॥ २८॥ विद्ध्वि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् । यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ॥ २९॥ ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः । तस्मैस्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥ ३०॥ अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे । समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥ ३१॥ नमो हनुमते तस्मै नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ ३२॥ नमो वानरवीराय सुग्रीवसख्यकारिणे । लङ्काविदहनायाथ महासागरतारिणे ॥ ३३॥ सीताशोकविनाशाय राममुद्राधराय च । रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ ३४॥ मेघनादमखध्वंसकारणाय नमो नमः । अशोकवनविध्वंसकारिणे जयदायिने ॥ ३५॥ वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥ ३६॥ ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ ३७॥ अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे । लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ ३८॥ रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमो नमः । ऋक्षवानरवीरौघप्रासादाय नमो नमः ॥ ३९॥ परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः । विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः ॥ ४०॥ महीरिपुभयघ्नाय भक्तत्राणैककारिण । परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥ ४१॥ पयः पाषाणतरणकारणाय नमो नमः । बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥ ४२॥ नखायुधाय भीमाय दन्तायुधधराय च । विहङ्गमाय शवाय वज्रदेहाय ते नमः ॥ ४३॥ प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने । करस्थशैलशस्त्राय रामशस्त्राय ते नमः ॥ ४४॥ कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ ४५॥ कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञापार्थसङ्ग्रामसख्यसञ्जयकारिणे ॥ ४६॥ भक्तानां दिव्यवादेषु सङ्ग्रामे जयकारिणे । किल्किलाबुबुकाराय घोरशब्दकराय च ॥ ४७॥ सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे । सदा वनफलाहारसन्तृप्ताय विशेषतः ॥ ४८॥ महार्णवशिलाबद्धसेतुबन्धाय ते नमः । इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ ४९॥ यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः । अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ ५०॥ कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे । किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥ ५१॥ प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ ५२॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ॥ ७८॥ NA Naradapurana Purvabhag Adhyaya 78

% Text title            : hanumatkavacham from nAradapurANa
% File name             : hanumatkavachamnAradapurANa.itx
% itxtitle              : hanumatkavacham (nAradapurANAntargatam)
% engtitle              : hanumatkavacham from nAradapurANa
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Source                : Naradapurana Purvabhag Adhyaya 78
% Indexextra            : Purana
% Latest update         : June 5, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP