श्रीहनूमत् पञ्चचामरम्

श्रीहनूमत् पञ्चचामरम्

नमोऽस्तु ते हनूमते दयावते मनोगते सुवर्णपर्वताकृते नभस्स्वतः सुताय ते । न चाञ्जनेय ते समो जगत्त्रये महामते पराक्रमे वचःकमे समस्तसिद्धिसङ्क्रमे ॥ १॥ रविं ग्रसिष्णुरुत्पतन् फलेच्छया शिशुर्भवान् रवेर्गृहीतवानहो समस्तवेदशास्त्र्कम् । भवन्मनोज्ञभाषणं बभूव कर्णभूषणं रघूत्तमस्य मानसाम्बुजस्य पूर्णतोषणम् ॥ २॥ धरात्मजापतिं भवान् विभावयन् जगत्पतिं जगाम रामदासतां समस्तलोकविश्रुताम् । विलङ्घ्य वारिधिं जवात् विलोक्य दीनजानकीं दशाननस्य मानसं ददाह लङ्कया समम् ॥ ३॥ विलोक्य मातरं कृशां दशाननस्य तद्वने भवानभाषत प्रियं मनोहरं च संस्कृतम् । समस्तदुष्टरक्षसां विनाशकालसूचनं चकार रावणाग्रतः नयेन वा भयेन वा ॥ ४॥ महाबलो महाचलं समुह्य चौषधिप्रभं भवान् ररक्ष लक्ष्मणं भयावहे महावहे । महोपकारिणं तदा भवन्तमात्मबान्धवं समस्तलोकबान्धवोऽप्यमन्यत स्वयं विभुः ॥ ५॥ भवांश्च यत्र यत्र तत् श‍ृणोति रामकीर्तनं करोति तत्र तत्र भोः सभाष्पमस्तकाञ्जलिम् । प्रदेहि मेऽञ्जनासुत त्वदीयभक्तिवैभवं विदेहि मे निरञ्जनं च रामदासदासताम् ॥ ६॥ अगण्यपुण्यवान् भवान् अनन्यधन्यजीवनः विमुच्य मौक्तिकस्रजं ददौ धरात्मजा मुदा । भवन्तमालिलिङ्ग यद् रघूत्तमः स्वयं वदन् इदं हि मे हनूमतः प्रदेयसर्वमित्यहो ॥ ७॥ विदेहराजनन्दिनीमनोहरे वरे परे विदेहमुक्तिदायके विधेहि मे मनो हरे । क्षणं क्षणं निरीक्षणं भवेद् यथा मयि प्रभोः तथा निवेदयस्व मद्दशां दशाननान्तके ॥ ८॥ इदं च पञ्चचामरं गृहाण दासकल्पितं समीरणात्मसम्भव प्रमोदमानचेतसा । रिपून् षडान्तरान् विनाशयाशु दुर्दमान् पुनर्भवाख्यकर्दमात् विमुच्य पाहि पाहि माम् ॥ ९॥ इति श्रीहनूमत् पञ्चचामरस्तोत्रं सम्पूर्णम् । Encoded and proofread by N. Balasubramanian bbalu@satyam.net.in
% Text title            : hanumat pa.ncha chAmaraM
% File name             : hanumatpanchachamara.itx
% itxtitle              : hanUmatpanchachAmaram (namo.astu te hanUmate)
% engtitle              : hanUmat pancha chAmaram
% Category              : hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : April 20, 2005
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org