ब्रह्मपुराण
१.१/१यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते ।
१.१/२यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
१.१/३यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् ।
१.१/४तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥
१.२/१यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् ।
१.२/२नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् ।
१.२/३व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् ।
१.२/४तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२॥
१.३/१सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे ।
१.३/२नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३॥
१.४/१सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः ।
१.४/२आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४॥
१.५/१अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः ।
१.५/२बकुलैः सप्तपर्णैश्च पुंनागैर्नागकेसरैः ॥ १.५॥
१.६/१शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः ।
१.६/२अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६॥
१.७/१नानापक्षिगणाकीर्णे नानामृगगणैर्युते ।
१.७/२नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलंकृते ॥ १.७॥
१.८/१ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।
१.८/२वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८॥
१.९/१सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलंकृते ।
१.९/२यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९॥
१.१०/१चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते ।
१.१०/२तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०॥
१.११/१यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके ।
१.११/२आजग्मुस्तत्र मुनयस्तथान्येऽपि द्विजातयः ॥ १.११॥
१.१२/१तान् आगतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् ।
१.१२/२तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२॥
१.१३/१तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः ।
१.१३/२तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३॥
१.१४/१सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने ।
१.१४/२कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४॥
१.१५/१कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ।
१.१५/२ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५॥
१.१६/१मुनय ऊचुः । पुराणागमशास्त्राणि सेतिहासानि सत्तम ।
१.१६/२जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६॥
१.१७/१न तेऽस्त्यविदितं किंचिद् वेदे शास्त्रे च भारते ।
१.१७/२पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते ॥ १.१७॥
१.१८/१यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् ।
१.१८/२ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८॥
१.१९/१श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् ।
१.१९/२बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९॥
१.२०/१यतश्चैव जगत् सूत यतश्चैव चराचरम् ।
१.२०/२लीनमासीत् तथा यत्र लयमेष्यति यत्र च ॥ १.२०॥
१.२१/१लोमहर्षण उवाच । अविकाराय शुद्धाय नित्याय परमात्मने ।
१.२१/२सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१॥
१.२२/१नमो हिरण्यगर्भाय हरये शङ्कराय च ।
१.२२/२वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२॥
१.२३/१एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
१.२३/२अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३॥
१.२४/१सर्गस्थितिविनाशाय जगतो योऽजरामरः ।
१.२४/२मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४॥
१.२५/१आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
१.२५/२प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५॥
१.२६/१ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।
१.२६/२तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६॥
१.२७/१विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
१.२७/२सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७॥
१.२८/१आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।
१.२८/२इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८॥
१.२९/१सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् ।
१.२९/२गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९॥
१.३०/१कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः ।
१.३०/२पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १.३०॥
१.३१/१शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
१.३१/२कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१॥
१.३२/१यस्त्विमां धारयेन् नित्यं शृणुयाद् वाप्यभीक्ष्णशः ।
१.३२/२स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२॥
१.३३/१अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् ।
१.३३/२प्रधानं पुरुषस्तस्मान् निर्ममे विश्वमीश्वरः ॥ १.३३॥
१.३४/१तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् ।
१.३४/२स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४॥
१.३५/१अहंकारस्तु महतस्तस्माद् भूतानि जज्ञिरे ।
१.३५/२भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५॥
१.३६/१विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।
१.३६/२कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६॥
१.३७/१कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् ।
१.३७/२ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ १.३७॥
१.३८/१अप एव ससर्जादौ तासु वीर्यमथासृजत् ।
१.३८/२आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८॥
१.३९/१अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
१.३९/२हिरण्यवर्णमभवत् तद् अण्डमुदकेशयम् ॥ १.३९॥
१.४०/१तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
१.४०/२हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम् ॥ १.४०॥
१.४१/१तद् अण्डमकरोद् द्वैधं दिवं भुवमथापि च ।
१.४१/२तयोः शकलयोर्मध्य आकाशमकरोत् प्रभुः ॥ १.४१॥
१.४२/१अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे ।
१.४२/२तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२॥
१.४३/१ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् ।
१.४३/२मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३॥
१.४४/१वसिष्ठं च महातेजाः सोऽसृजत् सप्त मानसान् ।
१.४४/२सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४॥
१.४५/१नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् ।
१.४५/२ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५॥
१.४६/१सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ।
१.४६/२सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६॥
१.४७/१स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः ।
१.४७/२तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७॥
१.४८/१क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ।
१.४८/२विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८॥
१.४९/१वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।
१.४९/२ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९॥
१.५०/१साध्यान् अजनयद् देवान् इत्येवमनुसंजगुः ।
१.५०/२उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०॥
१.५१/१आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ।
१.५१/२सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१॥
१.५२/१द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
१.५२/२अर्धेन नारी तस्यां तु सोऽसृजद् द्विविधाः प्रजाः ॥ १.५२॥
१.५३/१दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति ।
१.५३/२विराजमसृजद् विष्णुः सोऽसृजत् पुरुषं विराट् ॥ १.५३॥
१.५४/१पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् ।
१.५४/२द्वितीयं मानसस्यैतन् मनोरन्तरमुच्यते ॥ १.५४॥
१.५५/१स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः ।
१.५५/२नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ १.५५॥
१.५६/१आयुष्मान् कीर्तिमान् पुण्य+ ।प्रजावांश्च भवेन् नरः ।
१.५६/२आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम् ॥ १.५६॥
२.१/१लोमहर्षण उवाच । स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः ।
२.१/२लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१॥
२.२/१आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
२.२/२धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २.२॥
२.३/१सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
२.३/२भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ २.३॥
२.४/१स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते ।
२.४/२तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ २.४॥
२.५/१वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत ।
२.५/२प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ २.५॥
२.६/१काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः ।
२.६/२काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट् प्रभुः ॥ २.६॥
२.७/१उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
२.७/२उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ २.७॥
२.८/१धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
२.८/२उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ २.८॥
२.९/१ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा ।
२.९/२उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ॥ २.९॥
२.१०/१ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।
२.१०/२तपस्तेपे महाभागः प्रार्थयन् सुमहद् यशः ॥ २.१०॥
२.११/१तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
२.११/२अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ २.११॥
२.१२/१तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च ।
२.१२/२देवासुराणामाचार्यः श्लोकं प्राग् उशना जगौ ॥ २.१२॥
२.१३/१अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम् ।
२.१३/२यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ २.१३॥
२.१४/१तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत ।
२.१४/२श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥ २.१४॥
२.१५/१रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम् ।
२.१५/२रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ २.१५॥
२.१६/१अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।
२.१६/२प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ २.१६॥
२.१७/१मनोरजायन्त दश नड्वलायां महौजसः ।
२.१७/२कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ २.१७॥
२.१८/१कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः ।
२.१८/२अग्निष्टुद् अतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ २.१८॥
२.१९/१अभिमन्युश्च दशमो नड्वलायां महौजसः ।
२.१९/२पुरोरजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ॥ २.१९॥
२.२०/१अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् ।
२.२०/२अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ॥ २.२०॥
२.२१/१अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् ।
२.२१/२प्रजार्थम् ऋषयो यस्य ममन्थुर्दक्षिणं करम् ॥ २.२१॥
२.२२/१वेणस्य मथिते पाणौ सम्बभूव महान् नृपः ।
२.२२/२तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ २.२२॥
२.२३/१करिष्यति महातेजा यशश्च प्राप्स्यते महत् ।
२.२३/२स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः ॥ २.२३॥
२.२४/१पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः ।
२.२४/२राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २.२४॥
२.२५/१तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
२.२५/२तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २.२५॥
२.२६/१प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।
२.२६/२पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ २.२६॥
२.२७/१सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ।
२.२७/२तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा ॥ २.२७॥
२.२८/१प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् ।
२.२८/२पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ ॥ २.२८॥
२.२९/१शिखण्डिनी हविर्धानमन्तर्धानाद् व्यजायत ।
२.२९/२हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् ॥ २.२९॥
२.३०/१प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।
२.३०/२प्राचीनबर्हिर्भगवान् महान् आसीत् प्रजापतिः ॥ २.३०॥
२.३१/१हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः ।
२.३१/२प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणीः ॥ २.३१॥
२.३२/१समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः ।
२.३२/२महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ २.३२॥
२.३३/१सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
२.३३/२सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ २.३३॥
२.३४/१अपृथग्धर्मचरणास्तेऽतप्यन्त महत् तपः ।
२.३४/२दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.३४॥
२.३५/१तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
२.३५/२अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ २.३५॥
२.३६/१नाशकन् मारुतो वातुं वृतं खमभवद् द्रुमैः ।
२.३६/२दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २.३६॥
२.३७/१तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः ।
२.३७/२मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २.३७॥
२.३८/१उन्मूलान् अथ वृक्षांस्तु कृत्वा वायुरशोषयत् ।
२.३८/२तान् अग्निरदहद् घोर एवमासीद् द्रुमक्षयः ॥ २.३८॥
२.३९/१द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु ।
२.३९/२उपगम्याब्रवीद् एतांस्तदा सोमः प्रजापतीन् ॥ २.३९॥
२.४०/१कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
२.४०/२वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ २.४०॥
२.४१/१रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
२.४१/२भविष्यं जानता तात धृता गर्भेण वै मया ॥ २.४१॥
२.४२/१मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
२.४२/२भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ २.४२॥
२.४३/१युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः ।
२.४३/२अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ २.४३॥
२.४४/१स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
२.४४/२अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ २.४४॥
२.४५/१ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
२.४५/२संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ २.४५॥
२.४६/१दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
२.४६/२दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ २.४६॥
२.४७/१अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
२.४७/२स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः ॥ २.४७॥
२.४८/१ददौ दश स धर्माय कश्यपाय त्रयोदश ।
२.४८/२शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ २.४८॥
२.४९/१तासु देवाः खगा गावो नागा दितिजदानवाः ।
२.४९/२गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥ २.४९॥
२.५०/१ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः ।
२.५०/२संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा ॥ २.५०॥
२.५१/१मुनय ऊचुः । देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
२.५१/२सम्भवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ॥ २.५१॥
२.५२/१अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः ।
२.५२/२वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत ॥ २.५२॥
२.५३/१कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।
२.५३/२एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ।
२.५३/३दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ २.५३॥
२.५४/१लोमहर्षण उवाच । उत्पत्तिश्च निरोधश्च नित्यं
भूतेषु भो द्विजाः ।
२.५४/२ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥ २.५४॥
२.५५/१युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः ।
२.५५/२पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ २.५५॥
२.५६/१ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद् द्विजोत्तमाः ।
२.५६/२तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ॥ २.५६॥
२.५७/१इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् ।
२.५७/२प्रजावान् आयुरुत्तीर्णः स्वर्गलोके महीयते ॥ २.५७॥
३.१/१मुनय ऊचुः । देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
३.१/२उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१॥
३.२/१लोमहर्षण उवाच । प्रजाः सृजेति व्यादिष्टः पूर्वं
दक्षः स्वयम्भुवा ।
३.२/२यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥ ३.२॥
३.३/१मानसान्येव भूतानि पूर्वमेवासृजत् प्रभुः ।
३.३/२ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान् ॥ ३.३॥
३.४/१यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा ।
३.४/२तदा संचिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ३.४॥
३.५/१स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
३.५/२असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ॥ ३.५॥
३.६/१सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ।
३.६/२अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ३.६॥
३.७/१असिक्न्यां जनयामास दक्ष एव प्रजापतिः ।
३.७/२तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ॥ ३.७॥
३.८/१देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् ।
३.८/२नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ३.८॥
३.९/१यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
३.९/२दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥ ३.९॥
३.१०/१पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः ।
३.१०/२असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ ३.१०॥
३.११/१तं भूयो जनयामास पितेव मुनिपुंगवम् ।
३.११/२तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ३.११॥
३.१२/१निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ।
३.१२/२तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ ३.१२॥
३.१३/१ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ।
३.१३/२ततोऽभिसंधिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ ३.१३॥
३.१४/१कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति ।
३.१४/२ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने ।
३.१४/३स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥ ३.१४॥
३.१५/१मुनय ऊचुः । कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा ।
३.१५/२प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ ३.१५॥
३.१६/१लोमहर्षण उवाच । दक्षस्य पुत्रा हर्यश्वा
विवर्धयिषवः प्रजाः ।
३.१६/२समागता महावीर्या नारदस्तान् उवाच ह ॥ ३.१६॥
३.१७/१नारद उवाच । बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
३.१७/२प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ ३.१७॥
३.१८/१अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः ।
३.१८/२ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ ३.१८॥
३.१९/१अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
३.१९/२हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ ३.१९॥
३.२०/१वैरण्यामथ पुत्राणां सहस्रमसृजत् प्रभुः ।
३.२०/२विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ ३.२०॥
३.२१/१पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः ।
३.२१/२अन्योन्यमूचुस्ते सर्वे सम्यग् आह महान् ऋषिः ॥ ३.२१॥
३.२२/१भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ।
३.२२/२ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ ३.२२॥
३.२३/१तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् ।
३.२३/२अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ३.२३॥
३.२४/१तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः ।
३.२४/२प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥ ३.२४॥
३.२५/१तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
३.२५/२षष्टिं ततोऽसृजत् कन्या वैरण्यामिति नः श्रुतम् ॥ ३.२५॥
३.२६/१तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः ।
३.२६/२सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ ३.२६॥
३.२७/१ददौ स दश धर्माय कश्यपाय त्रयोदश ।
३.२७/२सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ ३.२७॥
३.२८/१द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
३.२८/२द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ ३.२८॥
३.२९/१अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।
३.२९/२संकल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ ३.२९॥
३.३०/१धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत ।
३.३०/२विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत ॥ ३.३०॥
३.३१/१मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः ।
३.३१/२भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ॥ ३.३१॥
३.३२/१लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
३.३२/२पृथिवी विषयं सर्वमरुन्धत्यां व्यजायत ॥ ३.३२॥
३.३३/१संकल्पायास्तु विश्वात्मा जज्ञे संकल्प एव हि ।
३.३३/२नागवीथ्यां च यामिन्यां वृषलश्च व्यजायत ॥ ३.३३॥
३.३४/१परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ ।
३.३४/२सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥ ३.३४॥
३.३५/१ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः ।
३.३५/२वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ३.३५॥
३.३६/१आपो ध्रुवश्च सोमश्च धवश्चैवानिलोऽनलः ।
३.३६/२प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ३.३६॥
३.३७/१आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा ।
३.३७/२ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ ३.३७॥
३.३८/१सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ।
३.३८/२धवस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
३.३८/३मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ ३.३८॥
३.३९/१अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
३.३९/२अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ ३.३९॥
३.४०/१अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः ।
३.४०/२तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ ३.४०॥
३.४१/१अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ।
३.४१/२प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् ॥ ३.४१॥
३.४२/१द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।
३.४२/२बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ ३.४२॥
३.४३/१योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह ।
३.४३/२प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ३.४३॥
३.४४/१विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः ।
३.४४/२कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ३.४४॥
३.४५/१भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
३.४५/२यः सर्वेषां विमानानि दैवतानां चकार ह ॥ ३.४५॥
३.४६/१मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
३.४६/२सुरभी कश्यपाद् रुद्रान् एकादश विनिर्ममे ॥ ३.४६॥
३.४७/१महादेवप्रसादेन तपसा भाविता सती ।
३.४७/२अजैकपाद् अहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥ ३.४७॥
३.४८/१हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
३.४८/२वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ ३.४८॥
३.४९/१मृगव्याधश्च शर्वश्च कपाली च द्विजोत्तमाः ।
३.४९/२एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥ ३.४९॥
३.५०/१शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
३.५०/२पुराणे मुनिशार्दूला यैर्व्याप्तं सचराचरम् ॥ ३.५०॥
३.५१/१दाराञ् शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः ।
३.५१/२अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥ ३.५१॥
३.५२/१सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
३.५२/२कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥ ३.५२॥
३.५३/१पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।
३.५३/२तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ ३.५३॥
३.५४/१उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
३.५४/२हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ ३.५४॥
३.५५/१आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
३.५५/२मन्वन्तरे प्रसूयामस्तन् नः श्रेयो भविष्यति ॥ ३.५५॥
३.५६/१लोमहर्षण उवाच । एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
३.५६/२मारीचात् कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥ ३.५६॥
३.५७/१तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
३.५७/२अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ३.५७॥
३.५८/१विवस्वान् सविता चैव मित्रो वरुण एव च ।
३.५८/२अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ३.५८॥
३.५९/१सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः ।
३.५९/२तासामपत्यान्यभवन् दीप्तान्यमिततेजसः ॥ ३.५९॥
३.६०/१अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
३.६०/२बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ३.६०॥
३.६१/१चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः ।
३.६१/२कृशाश्वस्य च देवर्षेर्देवप्रहरणाः स्मृताः ॥ ३.६१॥
३.६२/१एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
३.६२/२सर्वे देवगणाश्चात्र त्रयस्त्रिंशत् तु कामजाः ॥ ३.६२॥
३.६३/१तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते ।
३.६३/२यथा सूर्यस्य गगन उदयास्तमयाविह ॥ ३.६३॥
३.६४/१एवं देवनिकायास्ते सम्भवन्ति युगे युगे ।
३.६४/२दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् ॥ ३.६४॥
३.६५/१हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ।
३.६५/२सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥ ३.६५॥
३.६६/१सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः ।
३.६६/२हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ ३.६६॥
३.६७/१ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वीर्यवान् ।
३.६७/२संह्रादश्च चतुर्थोऽभूद् ध्रादपुत्रो ह्रदस्तथा ॥ ३.६७॥
३.६८/१ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च ।
३.६८/२विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ ३.६८॥
३.६९/१बलेः पुत्रशतमासीद् बाणज्येष्ठं तपोधनाः ।
३.६९/२धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥ ३.६९॥
३.७०/१कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः ।
३.७०/२बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ३.७०॥
३.७१/१पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् ।
३.७१/२पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ ३.७१॥
३.७२/१हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः ।
३.७२/२भर्भरः शकुनिश्चैव भूतसंतापनस्तथा ॥ ३.७२॥
३.७३/१महानाभश्च विक्रान्तः कालनाभस्तथैव च ।
३.७३/२अभवन् दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ ३.७३॥
३.७४/१तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् ।
३.७४/२द्विमूर्धा शङ्कुकर्णश्च तथा हयशिरा विभुः ॥ ३.७४॥
३.७५/१अयोमुखः शम्बरश्च कपिलो वामनस्तथा ।
३.७५/२मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा ॥ ३.७५॥
३.७६/१विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ ।
३.७६/२इन्द्रजित् सर्वजिच्चैव वज्रनाभस्तथैव च ॥ ३.७६॥
३.७७/१एकचक्रो महाबाहुस्तारकश्च महाबलः ।
३.७७/२वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ ३.७७॥
३.७८/१स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ।
३.७८/२सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे ॥ ३.७८॥
३.७९/१विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ।
३.७९/२एतेषां पुत्रपौत्रं तु न तच्छक्यं द्विजोत्तमाः ॥ ३.७९॥
३.८०/१प्रसंख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् ।
३.८०/२स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ ३.८०॥
३.८१/१उपदीप्तिर्हयशिराः शर्मिष्ठा वार्षपर्वणी ।
३.८१/२पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ३.८१॥
३.८२/१बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः ।
३.८२/२तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ ३.८२॥
३.८३/१चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः ।
३.८३/२मरीचिर्जनयामास महता तपसान्वितः ॥ ३.८३॥
३.८४/१पौलोमाः कालकेयाश्च दानवास्ते महाबलाः ।
३.८४/२अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ ३.८४॥
३.८५/१पितामहप्रसादेन ये हताः सव्यसाचिना ।
३.८५/२ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ॥ ३.८५॥
३.८६/१सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा ।
३.८६/२दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ ३.८६॥
३.८७/१सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ।
३.८७/२वंश्यः शल्यश्च बलिनौ नलश्चैव तथा बलः ॥ ३.८७॥
३.८८/१वातापिर्नमुचिश्चैव इल्वलः स्वसृमस्तथा ।
३.८८/२अञ्जिको नरकश्चैव कालनाभस्तथैव च ॥ ३.८८॥
३.८९/१सरमानस्तथा चैव स्वरकल्पश्च वीर्यवान् ।
३.८९/२एते वै दानवाः श्रेष्ठा दनोर्वंशविवर्धनाः ॥ ३.८९॥
३.९०/१तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
३.९०/२संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ३.९०॥
३.९१/१समुत्पन्नाः सुमहता तपसा भावितात्मनः ।
३.९१/२तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥ ३.९१॥
३.९२/१अवध्यास्तेऽपि देवानामर्जुनेन निपातिताः ।
३.९२/२षट् सुताः सुमहाभागास्ताम्रायाः परिकीर्तिताः ॥ ३.९२॥
३.९३/१क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका ।
३.९३/२क्रौञ्ची तु जनयामास उलूकप्रत्युलूककान् ॥ ३.९३॥
३.९४/१श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ।
३.९४/२शुचिरौदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः ॥ ३.९४॥
३.९५/१अश्वान् उष्ट्रान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ।
३.९५/२विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ ३.९५॥
३.९६/१गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ।
३.९६/२सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ ३.९६॥
३.९७/१अनेकशिरसां विप्राः खचराणां महात्मनाम् ।
३.९७/२काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥ ३.९७॥
३.९८/१सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः ।
३.९८/२येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ ३.९८॥
३.९९/१ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।
३.९९/२एलापत्त्रश्च शङ्खश्च कर्कोटकधनंजयौ ॥ ३.९९॥
३.१००/१महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ।
३.१००/२कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ॥ ३.१००॥
३.१०१/१शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा ।
३.१०१/२नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥ ३.१०१॥
३.१०२/१तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
३.१०२/२चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥ ३.१०२॥
३.१०३/१गणं क्रोधवंशं विप्रास्तस्य सर्वे च दंष्ट्रिणः ।
३.१०३/२स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ॥ ३.१०३॥
३.१०४/१गास्तु वै जनयामास सुरभिर्महिषीस्तथा ।
३.१०४/२इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ॥ ३.१०४॥
३.१०५/१खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।
३.१०५/२अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः ॥ ३.१०५॥
३.१०६/१एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ।
३.१०६/२येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ३.१०६॥
३.१०७/१एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः ।
३.१०७/२वैवस्वतेऽतिमहति वारुणे वितते क्रतौ ॥ ३.१०७॥
३.१०८/१जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।
३.१०८/२पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान् ॥ ३.१०८॥
३.१०९/१पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।
३.१०९/२ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ ३.१०९॥
३.११०/१दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ।
३.११०/२कश्यपस्तु प्रसन्नात्मा सम्यग् आराधितस्तया ॥ ३.११०॥
३.१११/१वरेण च्छन्दयामास सा च वव्रे वरं तदा ।
३.१११/२पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३.१११॥
३.११२/१स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः ।
३.११२/२दत्त्वा च वरमत्युग्रो मारीचः समभाषत ॥ ३.११२॥
३.११३/१इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् ।
३.११३/२यदि धारयसे शौच+ ।तत्परा व्रतमास्थिता ॥ ३.११३॥
३.११४/१तथेत्यभिहितो भर्ता तया देव्या महातपाः ।
३.११४/२धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥ ३.११४॥
३.११५/१ततोऽभ्युपागमद् दित्यां गर्भमाधाय कश्यपः ।
३.११५/२रोधयन् वै गणं श्रेष्ठं देवानाममितौजसम् ॥ ३.११५॥
३.११६/१तेजः संहृत्य दुर्धर्षमवध्यममरैरपि ।
३.११६/२जगाम पर्वतायैव तपसे संशितव्रता ॥ ३.११६॥
३.११७/१तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः ।
३.११७/२जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥ ३.११७॥
३.११८/१अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
३.११८/२निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥ ३.११८॥
३.११९/१वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् ।
३.११९/२स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ॥ ३.११९॥
३.१२०/१मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् ।
३.१२०/२सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ ३.१२०॥
३.१२१/१एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः ।
३.१२१/२मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥ ३.१२१॥
३.१२२/१यथोक्तं वै मघवता तथैव मरुतोऽभवन् ।
३.१२२/२देवाश्चैकोनपञ्चाशत् सहाया वज्रपाणिनः ॥ ३.१२२॥
३.१२३/१तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः ।
३.१२३/२रोचयन् वै गणश्रेष्ठान् देवानाममितौजसाम् ॥ ३.१२३॥
३.१२४/१निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् ।
३.१२४/२क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ ३.१२४॥
३.१२५/१स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
३.१२५/२पर्जन्यस्तपनोऽनन्तस्तस्य सर्वमिदं जगत् ॥ ३.१२५॥
३.१२६/१भूतसर्गमिमं सम्यग् जानतो द्विजसत्तमाः ।
३.१२६/२नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ ३.१२६॥
४.१/१लोमहर्षण उवाच । अभिषिच्याधिराजेन्द्रं पृथुं
वैण्यं पितामहः ।
४.१/२ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१॥
४.२/१द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
४.२/२यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ४.२॥
४.३/१अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् ।
४.३/२आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४.३॥
४.४/१प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
४.४/२दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ ४.४॥
४.५/१वैवस्वतं पितृणां च यमं राज्येऽभ्यषेचयत् ।
४.५/२यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ४.५॥
४.६/१सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् ।
४.६/२शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ ४.६॥
४.७/१गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
४.७/२नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ ४.७॥
४.८/१वारणानां तु राजानमैरावतमथादिशत् ।
४.८/२उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ४.८॥
४.९/१मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् ।
४.९/२वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ ४.९॥
४.१०/१एवं विभज्य राज्यानि क्रमेणैव पितामहः ।
४.१०/२दिशां पालान् अथ ततः स्थापयामास स प्रभुः ॥ ४.१०॥
४.११/१पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।
४.११/२दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत् ॥ ४.११॥
४.१२/१दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
४.१२/२पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ ४.१२॥
४.१३/१पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।
४.१३/२केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ ४.१३॥
४.१४/१तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
४.१४/२उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ॥ ४.१४॥
४.१५/१तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
४.१५/२यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४.१५॥
४.१६/१राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः ।
४.१६/२वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ ४.१६॥
४.१७/१ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
४.१७/२वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ ४.१७॥
४.१८/१तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ।
४.१८/२भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ ।
४.१८/३महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम् ॥ ४.१८॥
४.१९/१मुनय ऊचुः । विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय ।
४.१९/२यथा महात्मना तेन दुग्धा वेयं वसुंधरा ॥ ४.१९॥
४.२०/१यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः ।
४.२०/२यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ ४.२०॥
४.२१/१यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
४.२१/२राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥ ४.२१॥
४.२२/१तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत ।
४.२२/२वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ ४.२२॥
४.२३/१यस्माच्च कारणात् पाणिर्वेणस्य मथितः पुरा ।
४.२३/२क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ४.२३॥
४.२४/१लोमहर्षण उवाच । शृणुध्वं कीर्तयिष्यामि
पृथोर्वैण्यस्य विस्तरम् ।
४.२४/२एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ ४.२४॥
४.२५/१नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च ।
४.२५/२कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ ४.२५॥
४.२६/१स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् ।
४.२६/२रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥ ४.२६॥
४.२७/१यश्चेमं कीर्तयेन् नित्यं पृथोर्वैण्यस्य विस्तरम् ।
४.२७/२ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥ ४.२७॥
४.२८/१आसीद् धर्मस्य संगोप्ता पूर्वमत्रिसमः प्रभुः ।
४.२८/२अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ ४.२८॥
४.२९/१तस्य पुत्रोऽभवद् वेणो नात्यर्थं धर्मकोविदः ।
४.२९/२जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ४.२९॥
४.३०/१स मातामहदोषेण तेन कालात्मजात्मजः ।
४.३०/२स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ ४.३०॥
४.३१/१मर्यादां भेदयामास धर्मोपेतां स पार्थिवः ।
४.३१/२वेदधर्मान् अतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥ ४.३१॥
४.३२/१निःस्वाध्यायवषट्काराः प्रजास्तस्मिन् प्रजापतौ ।
४.३२/२प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ४.३२॥
४.३३/१न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
४.३३/२आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ४.३३॥
४.३४/१अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह ।
४.३४/२मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ४.३४॥
४.३५/१तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
४.३५/२ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ४.३५॥
४.३६/१वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् ।
४.३६/२अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ ४.३६॥
४.३७/१निधनेऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् ।
४.३७/२प्रजाश्च पालयिष्येऽहमितीह समयः कृतः ॥ ४.३७॥
४.३८/१तांस्तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा ।
४.३८/२वेणः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ ४.३८॥
४.३९/१वेण उवाच । स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ।
४.३९/२श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ ४.३९॥
४.४०/१प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
४.४०/२सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ४.४०॥
४.४१/१इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस्तथा ।
४.४१/२द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ ४.४१॥
४.४२/१यदा न शक्यते मोहाद् अवलेपाच्च पार्थिवः ।
४.४२/२अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः ॥ ४.४२॥
४.४३/१तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् ।
४.४३/२ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ ४.४३॥
४.४४/१तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् ।
४.४४/२ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥ ४.४४॥
४.४५/१स भीतः प्राञ्जलिर्भूत्वा तस्थिवान् द्विजसत्तमाः ।
४.४५/२तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत् तदा ॥ ४.४५॥
४.४६/१निषादवंशकर्तासौ बभूव वदतां वराः ।
४.४६/२धीवरान् असृजच्चापि वेणकल्मषसम्भवान् ॥ ४.४६॥
४.४७/१ये चान्ये विन्ध्यनिलयास्तथा पर्वतसंश्रयाः ।
४.४७/२अधर्मरुचयो विप्रास्ते तु वै वेणकल्मषाः ॥ ४.४७॥
४.४८/१ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् ।
४.४८/२अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ ४.४८॥
४.४९/१पृथुस्तस्मात् समुत्पन्नः कराज्ज्वलनसंनिभः ।
४.४९/२दीप्यमानः स्ववपुषा साक्षाद् अग्निरिव ज्वलन् ॥ ४.४९॥
४.५०/१अथ सोऽजगवं नाम धनुर्गृह्य महारवम् ।
४.५०/२शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥ ४.५०॥
४.५१/१तस्मिञ् जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।
४.५१/२समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥ ४.५१॥
४.५२/१समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना ।
४.५२/२त्रातः स पुरुषव्याघ्रः पुंनाम्नो नरकात् तदा ॥ ४.५२॥
४.५३/१तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
४.५३/२तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ ४.५३॥
४.५४/१पितामहश्च भगवान् देवैराङ्गिरसैः सह ।
४.५४/२स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ ४.५४॥
४.५५/१समागम्य तदा वैण्यमभ्यषिञ्चन् नराधिपम् ।
४.५५/२महता राजराजेन प्रजास्तेनानुरञ्जिताः ॥ ४.५५॥
४.५६/१सोऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः ।
४.५६/२आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥ ४.५६॥
४.५७/१पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
४.५७/२अनुरागात् ततस्तस्य नाम राजाभ्यजायत ॥ ४.५७॥
४.५८/१आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः ।
४.५८/२पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४.५८॥
४.५९/१अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् ।
४.५९/२सर्वकामदुघा गावः पुटके पुटके मधु ॥ ४.५९॥
४.६०/१एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे ।
४.६०/२सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ४.६०॥
४.६१/१तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
४.६१/२पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ४.६१॥
४.६२/१तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः ।
४.६२/२कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः ॥ ४.६२॥
४.६३/१तावूचतुस्तदा सर्वांस्तान् ऋषीन् सूतमागधौ ।
४.६३/२आवां देवान् ऋषींश्चैव प्रीणयावः स्वकर्मभिः ॥ ४.६३॥
४.६४/१न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः ।
४.६४/२स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ ४.६४॥
४.६५/१ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ।
४.६५/२यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः ॥ ४.६५॥
४.६६/१ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः ।
४.६६/२आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ४.६६॥
४.६७/१तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः ।
४.६७/२अनूपदेशं सूताय मगधं मागधाय च ॥ ४.६७॥
४.६८/१तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः ।
४.६८/२वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥ ४.६८॥
४.६९/१ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः ।
४.६९/२त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा ॥ ४.६९॥
४.७०/१सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।
४.७०/२धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद् बली ॥ ४.७०॥
४.७१/१ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन् मही ।
४.७१/२तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ ४.७१॥
४.७२/१सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा ।
४.७२/२प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ ४.७२॥
४.७३/१ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः ।
४.७३/२महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ४.७३॥
४.७४/१अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत ।
४.७४/२कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥ ४.७४॥
४.७५/१उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि ।
४.७५/२कथं धारयिता चासि प्रजा राजन् विना मया ॥ ४.७५॥
४.७६/१मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् ।
४.७६/२मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ४.७६॥
४.७७/१न मामर्हसि हन्तुं वै श्रेयश्चेत् त्वं चिकीर्षसि ।
४.७७/२प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ ४.७७॥
४.७८/१उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।
४.७८/२उपायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥ ४.७८॥
४.७९/१हत्वापि मां न शक्तस्त्वं प्रजानां पोषणे नृप ।
४.७९/२अनुकूला भविष्यामि यच्छ कोपं महामते ॥ ४.७९॥
४.८०/१अवध्यां च स्त्रियं प्राहुस्तिर्यग्योनिगतेष्वपि ।
४.८०/२यद्येवं पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥ ४.८०॥
४.८१/१एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
४.८१/२कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ ४.८१॥
४.८२/१पृथुरुवाच । एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा ।
४.८२/२बहून् वा प्राणिनोऽनन्तं भवेत् तस्येह पातकम् ॥ ४.८२॥
४.८३/१सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे ।
४.८३/२तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम् ॥ ४.८३॥
४.८४/१सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे ।
४.८४/२यदि मे वचनान् नाद्य करिष्यसि जगद्धितम् ॥ ४.८४॥
४.८५/१त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
४.८५/२आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ ४.८५॥
४.८६/१सा त्वं शासनमास्थाय मम धर्मभृतां वरे ।
४.८६/२संजीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ ४.८६॥
४.८७/१दुहितृत्वं च मे गच्छ तत एनमहं शरम् ।
४.८७/२नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ ४.८७॥
४.८८/१वसुधोवाच । सर्वमेतद् अहं वीर विधास्यामि न संशयः ।
४.८८/२वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ४.८८॥
४.८९/१समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
४.८९/२यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ४.८९॥
४.९०/१लोमहर्षण उवाच । तत उत्सारयामास शैलाञ् शतसहस्रशः ।
४.९०/२धनुष्कोट्या तदा वैण्यस्तेन शैला विवर्धिताः ॥ ४.९०॥
४.९१/१नहि पूर्वविसर्गे वै विषमे पृथिवीतले ।
४.९१/२संविभागः पुराणां वा ग्रामाणां वाभवत् तदा ॥ ४.९१॥
४.९२/१न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
४.९२/२नैव सत्यानृतं चासीन् न लोभो न च मत्सरः ॥ ४.९२॥
४.९३/१वैवस्वतेऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते ।
४.९३/२वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ ४.९३॥
४.९४/१यत्र यत्र समं त्वस्या भूमेरासीत् तदा द्विजाः ।
४.९४/२तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ ४.९४॥
४.९५/१आहारः फलमूलानि प्रजानामभवत् तदा ।
४.९५/२कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ ४.९५॥
४.९६/१स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
४.९६/२स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ ४.९६॥
४.९७/१सस्यजातानि सर्वाणि पृथुर्वैण्यः प्रतापवान् ।
४.९७/२तेनान्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि सर्वशः ॥ ४.९७॥
४.९८/१ऋषयश्च तदा देवाः पितरोऽथ सरीसृपाः ।
४.९८/२दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ ४.९८॥
४.९९/१एते पुरा द्विजश्रेष्ठा दुदुहुर्धरणीं किल ।
४.९९/२क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक्
पृथक् ॥ ४.९९॥
४.१००/१ऋषीणामभवत् सोमो वत्सो दोग्धा बृहस्पतिः ।
४.१००/२क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ ४.१००॥
४.१०१/१देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः ।
४.१०१/२क्षीरमोजस्करं चैव दोग्धा च भगवान् रविः ॥ ४.१०१॥
४.१०२/१पितृणां राजतं पात्रं यमो वत्सः प्रतापवान् ।
४.१०२/२अन्तकश्चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता ॥ ४.१०२॥
४.१०३/१नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम् ।
४.१०३/२दोग्धा त्वैरावतो नागस्तेषां क्षीरं विषं स्मृतम् ॥ ४.१०३॥
४.१०४/१असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् ।
४.१०४/२विरोचनस्तु वत्सोऽभूद् आयसं पात्रमेव च ॥ ४.१०४॥
४.१०५/१यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः ।
४.१०५/२दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥ ४.१०५॥
४.१०६/१सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् ।
४.१०६/२दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥ ४.१०६॥
४.१०७/१गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् ।
४.१०७/२दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः
॥ ४.१०७॥
४.१०८/१शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस्तथा ।
४.१०८/२वत्सस्तु हिमवान् आसीद् दोग्धा मेरुर्महागिरिः ॥ ४.१०८॥
४.१०९/१प्लक्षो वत्सस्तु वृक्षाणां दोग्धा शालस्तु पुष्पितः ।
४.१०९/२पालाशपात्रं क्षीरं च *च्छिन्नदग्धप्ररोहणम् ॥ ४.१०९॥
४.११०/१सेयं धात्री विधात्री च पावनी च वसुंधरा ।
४.११०/२चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ ४.११०॥
४.१११/१सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी ।
४.१११/२आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता ॥ ४.१११॥
४.११२/१मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता ।
४.११२/२तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ ४.११२॥
४.११३/१ततोऽभ्युपगमाद् राज्ञः पृथोर्वैण्यस्य भो द्विजाः ।
४.११३/२दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ४.११३॥
४.११४/१पृथुना प्रविभक्ता च शोधिता च वसुंधरा ।
४.११४/२सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ ४.११४॥
४.११५/१एवम्प्रभावो वैण्यः स राजासीद् राजसत्तमः ।
४.११५/२नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥ ४.११५॥
४.११६/१ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
४.११६/२पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ४.११६॥
४.११७/१पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः ।
४.११७/२आदिराजो नमस्कार्यः पृथुर्वैण्यः प्रतापवान् ॥ ४.११७॥
४.११८/१योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि ।
४.११८/२आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ ४.११८॥
४.११९/१यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् ।
४.११९/२स घोररूपात् संग्रामात् क्षेमी भवति कीर्तिमान् ॥ ४.११९॥
४.१२०/१वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः ।
४.१२०/२पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ ४.१२०॥
४.१२१/१तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः ।
४.१२१/२पृथुरेव नमस्कार्यः श्रेयः परमिहेप्सुभिः ॥ ४.१२१॥
४.१२२/१एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
४.१२२/२पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ ४.१२२॥
५.१/१ऋषय ऊचुः । मन्वन्तराणि सर्वाणि विस्तरेण महामते ।
५.१/२तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१॥
५.२/१यावन्तो मनवश्चैव यावन्तं कालमेव च ।
५.२/२मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ ५.२॥
५.३/१लोमहर्षण उवाच । न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि ।
५.३/२मन्वन्तराणां सर्वेषां संक्षेपाच्छृणुत द्विजाः ॥ ५.३॥
५.४/१स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
५.४/२उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५.४॥
५.५/१वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते ।
५.५/२सावर्णिश्च मनुस्तद्वद् रैभ्यो रौच्यस्तथैव च ॥ ५.५॥
५.६/१तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः ।
५.६/२अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ ५.६॥
५.७/१कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः ।
५.७/२ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ॥ ५.७॥
५.८/१मरीचिरत्रिर्भगवान् अङ्गिराः पुलहः क्रतुः ।
५.८/२पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ५.८॥
५.९/१उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा ।
५.९/२आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ ५.९॥
५.१०/१ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसंज्ञकः ।
५.१०/२मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ५.१०॥
५.११/१एतद् वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् ।
५.११/२और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ ५.११॥
५.१२/१प्राणो बृहस्पतिश्चैव दत्तोऽत्रिच्च्यवनस्तथा ।
५.१२/२एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ ५.१२॥
५.१३/१देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ।
५.१३/२हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ ५.१३॥
५.१४/१प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च ।
५.१४/२स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ ५.१४॥
५.१५/१कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः ।
५.१५/२द्वितीयमेतत् कथितं विप्रा मन्वन्तरं मया ॥ ५.१५॥
५.१६/१इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः ।
५.१६/२वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥ ५.१६॥
५.१७/१हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः ।
५.१७/२ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत ॥ ५.१७॥
५.१८/१औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोरिमान् ।
५.१८/२इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ ५.१८॥
५.१९/१शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ।
५.१९/२भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ ५.१९॥
५.२०/१मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् ।
५.२०/२काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ ५.२०॥
५.२१/१कपीवान् अकपीवांश्च तत्र सप्तर्षयो द्विजाः ।
५.२१/२पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ ५.२१॥
५.२२/१तथा देवगणाश्चैव तामसस्यान्तरे मनोः ।
५.२२/२द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ ५.२२॥
५.२३/१तपोरतिरकल्माषस्तन्वी धन्वी परंतपः ।
५.२३/२तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ ५.२३॥
५.२४/१वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतद् अन्तरम् ।
५.२४/२देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ ५.२४॥
५.२५/१हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः ।
५.२५/२सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥ ५.२५॥
५.२६/१देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः ।
५.२६/२वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ ५.२६॥
५.२७/१अथ पुत्रान् इमांस्तस्य बुध्यध्वं गदतो मम ।
५.२७/२धृतिमान् अव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५.२७॥
५.२८/१आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक् कृती ।
५.२८/२रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥ ५.२८॥
५.२९/१षष्ठं तु सम्प्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः ।
५.२९/२भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ५.२९॥
५.३०/१अतिनामा सहिष्णुश्च सप्तैते च महर्षयः ।
५.३०/२चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ ५.३०॥
५.३१/१आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः ।
५.३१/२लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ ५.३१॥
५.३२/१ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः ।
५.३२/२नाड्वलेया मुनिश्रेष्ठा दश पुत्रास्तु विश्रुताः ॥ ५.३२॥
५.३३/१रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः ।
५.३३/२षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ ५.३३॥
५.३४/१अत्रिर्वसिष्ठो भगवान् कश्यपश्च महान् ऋषिः ।
५.३४/२गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ५.३४॥
५.३५/१तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः ।
५.३५/२सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ ५.३५॥
५.३६/१साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा ।
५.३६/२आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ ५.३६॥
५.३७/१मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे ।
५.३७/२इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ५.३७॥
५.३८/१एतेषां कीर्तितानां तु महर्षीणां महौजसाम् ।
५.३८/२तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥ ५.३८॥
५.३९/१मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः ।
५.३९/२लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ ५.३९॥
५.४०/१मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
५.४०/२कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ ५.४०॥
५.४१/१ततोऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्युत ।
५.४१/२अतीता वर्तमानाश्च क्रमेणैतेन भो द्विजाः ॥ ५.४१॥
५.४२/१अनागताश्च सप्तैते स्मृता दिवि महर्षयः ।
५.४२/२मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥ ५.४२॥
५.४३/१रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः ।
५.४३/२भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ५.४३॥
५.४४/१गौतमश्चाजरश्चैव शरद्वान् नाम गौतमः ।
५.४४/२कौशिको गालवश्चैव और्वः काश्यप एव च ॥ ५.४४॥
५.४५/१एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
५.४५/२वैरी चैवाध्वरीवांश्च शमनो धृतिमान् वसुः ॥ ५.४५॥
५.४६/१अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च ।
५.४६/२सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ ५.४६॥
५.४७/१एतेषां कल्यमुत्थाय कीर्तनात् सुखमेधते ।
५.४७/२यशश्चाप्नोति सुमहद् आयुष्मांश्च भवेन् नरः ॥ ५.४७॥
५.४८/१एतान्युक्तानि भो विप्राः सप्त सप्त च तत्त्वतः ।
५.४८/२मन्वन्तराणि संक्षेपाच्छृणुतानागतान्यपि ॥ ५.४८॥
५.४९/१सावर्णा मनवो विप्राः पञ्च तांश्च निबोधत ।
५.४९/२एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ५.४९॥
५.५०/१परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः ।
५.५०/२दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥ ५.५०॥
५.५१/१महता तपसा युक्ता मेरुपृष्ठे महौजसः ।
५.५१/२रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ ५.५१॥
५.५२/१भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ।
५.५२/२अनागताश्च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः ॥ ५.५२॥
५.५३/१तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
५.५३/२पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ ५.५३॥
५.५४/१प्रजापतिश्च तपसा संहारं तेषु नित्यशः ।
५.५४/२युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥ ५.५४॥
५.५५/१कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते ।
५.५५/२चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ ५.५५॥
५.५६/१वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।
५.५६/२प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्तनम् ॥ ५.५६॥
५.५७/१मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।
५.५७/२न शक्यतेऽन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ ५.५७॥
५.५८/१विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः ।
५.५८/२मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ ५.५८॥
५.५९/१सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।
५.५९/२तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ५.५९॥
५.६०/१पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।
५.६०/२तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः ॥ ५.६०॥
५.६१/१ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः ।
५.६१/२प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ ५.६१॥
५.६२/१स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
५.६२/२अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ५.६२॥
५.६३/१अत्र वः कीर्तयिष्यामि मनोर्वैवस्वतस्य वै ।
५.६३/२विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ ५.६३॥
५.६४/१अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् ।
५.६४/२यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥ ५.६४॥
६.१/१लोमहर्षण उवाच । विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः ।
६.१/२तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१॥
६.२/१सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी ।
६.२/२सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ ६.२॥
६.३/१भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी ।
६.३/२संज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ६.३॥
६.४/१आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा ।
६.४/२गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ६.४॥
६.५/१न खल्वयं मृतोऽण्डस्य इति स्नेहाद् अभाषत ।
६.५/२अजानन् काश्यपस्तस्मान् मार्तण्ड इति चोच्यते ॥ ६.५॥
६.६/१तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः ।
६.६/२येनातितापयामास त्रींल्लोकान् कश्यपात्मजः ॥ ६.६॥
६.७/१त्रीण्यपत्यानि भो विप्राः संज्ञायां तपतां वरः ।
६.७/२आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ६.७॥
६.८/१मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।
६.८/२यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ६.८॥
६.९/१श्यामवर्णं तु तद् रूपं संज्ञा दृष्ट्वा विवस्वतः ।
६.९/२असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ६.९॥
६.१०/१मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम् ।
६.१०/२प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः ॥ ६.१०॥
६.११/१उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।
६.११/२स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ६.११॥
६.१२/१संज्ञोवाच । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
६.१२/२त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ ६.१२॥
६.१३/१इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
६.१३/२सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ ६.१३॥
६.१४/१सवर्णोवाच । आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् ।
६.१४/२आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ ६.१४॥
६.१५/१लोमहर्षण उवाच । समादिश्य सवर्णां तु तथेत्युक्ता तया च सा ।
६.१५/२त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ॥ ६.१५॥
६.१६/१पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा ।
६.१६/२भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ ६.१६॥
६.१७/१आगच्छद् वडवा भूत्वा *आच्छाद्य रूपमनिन्दिता ।
६.१७/२कुरून् अथोत्तरान् गत्वा तृणान्यथ चचार ह ॥ ६.१७॥
६.१८/१द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
६.१८/२आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ ६.१८॥
६.१९/१पूर्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः ।
६.१९/२मनुरेवाभवन् नाम्ना सावर्ण इति चोच्यते ॥ ६.१९॥
६.२०/१द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः ।
६.२०/२संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ ६.२०॥
६.२१/१चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ।
६.२१/२मनुस्तस्याः क्षमत् तत् तु यमस्तस्या न चक्षमे ॥ ६.२१॥
६.२२/१स वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वानघ ।
६.२२/२पदा संतर्जयामास संज्ञां वैवस्वतो यमः ॥ ६.२२॥
६.२३/१तं शशाप ततः क्रोधात् सावर्णजननी तदा ।
६.२३/२चरणः पततामेष तवेति भृशदुःखिता ॥ ६.२३॥
६.२४/१यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।
६.२४/२भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः ॥ ६.२४॥
६.२५/१शापोऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः ।
६.२५/२मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ ६.२५॥
६.२६/१सेयमस्मान् अपास्येह विवस्वन् सम्बुभूषति ।
६.२६/२तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ ६.२६॥
६.२७/१बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुमर्हसि ।
६.२७/२शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
६.२७/३तव प्रसादाच्चरणो न पतेन् मम गोपते ॥ ६.२७॥
६.२८/१विवस्वान् उवाच । असंशयं पुत्र महद् भविष्यत्यत्र कारणम् ।
६.२८/२येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥ ६.२८॥
६.२९/१न शक्यमेतन् मिथ्या तु कर्तुं मातृवचस्तव ।
६.२९/२कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ ६.२९॥
६.३०/१कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति ।
६.३०/२शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६.३०॥
६.३१/१आदित्यश्चाब्रवीत् संज्ञां किमर्थं तनयेषु वै ।
६.३१/२तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया ॥ ६.३१॥
६.३२/१सा तत् परिहरन्ती तु नाचचक्षे विवस्वते ।
६.३२/२स चात्मानं समाधाय योगात् तथ्यमपश्यत ॥ ६.३२॥
६.३३/१तां शप्तुकामो भगवान् नाशपन् मुनिसत्तमाः ।
६.३३/२मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ ६.३३॥
६.३४/१ततः सर्वं यथावृत्तमाचचक्षे विवस्वते ।
६.३४/२विवस्वान् अथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥ ६.३४॥
६.३५/१दृष्ट्वा तु तं यथान्यायमर्चयित्वा विभावसुम् ।
६.३५/२निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ ६.३५॥
६.३६/१त्वष्टोवाच । तवातितेजसाविष्टमिदं रूपं न शोभते ।
६.३६/२असहन्ती च संज्ञा सा वने चरति शाड्वले ॥ ६.३६॥
६.३७/१द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम् ।
६.३७/२श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ ६.३७॥
६.३८/१अनुकूलं तु ते देव यदि स्यान् मम सम्मतम् ।
६.३८/२रूपं निर्वर्तयाम्यद्य तव कान्तमरिंदम ॥ ६.३८॥
६.३९/१ततोऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः ।
६.३९/२भ्रमिमारोप्य तत् तेजः शातयामास भो द्विजाः ॥ ६.३९॥
६.४०/१ततो निर्भासितं रूपं तेजसा संहतेन वै ।
६.४०/२कान्तात् कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ ६.४०॥
६.४१/१ददर्श योगमास्थाय स्वां भार्यां वडवां ततः ।
६.४१/२अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ६.४१॥
६.४२/१वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् ।
६.४२/२सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ ६.४२॥
६.४३/१मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया ।
६.४३/२सा तन् निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ६.४३॥
६.४४/१देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।
६.४४/२नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ६.४४॥
६.४५/१मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ।
६.४५/२तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ६.४५॥
६.४६/१सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः ।
६.४६/२यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ ६.४६॥
६.४७/१धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः ।
६.४७/२स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ ६.४७॥
६.४८/१पितृणामाधिपत्यं च लोकपालत्वमेव च ।
६.४८/२मनुः प्रजापतिस्त्वासीत् सावर्णिः स तपोधनाः ॥ ६.४८॥
६.४९/१भाव्यः समागते तस्मिन् मनुः सावर्णिकेऽन्तरे ।
६.४९/२मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥ ६.४९॥
६.५०/१भ्राता शनैश्चरस्तस्य ग्रहत्वं स तु लब्धवान् ।
६.५०/२त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ ६.५०॥
६.५१/१तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया ।
६.५१/२यवीयसी तु साप्यासीद् यमी कन्या यशस्विनी ॥ ६.५१॥
६.५२/१अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी ।
६.५२/२मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ ६.५२॥
६.५३/१द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः ।
६.५३/२ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ ६.५३॥
६.५४/१य इदं जन्म देवानां शृणुयान् नरसत्तमः ।
६.५४/२आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद् यशः ॥ ६.५४॥
७.१/१लोमहर्षण उवाच । मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
७.१/२इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१॥
७.२/१नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः ।
७.२/२करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ ७.२॥
७.३/१अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ।
७.३/२मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ ७.३॥
७.४/१अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः ।
७.४/२तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ ७.४॥
७.५/१मित्रावरुणयोरंशे मनुराहुतिमावहत् ।
७.५/२तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ७.५॥
७.६/१दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ।
७.६/२तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ ७.६॥
७.७/१अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह ।
७.७/२धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७.७॥
७.८/१इलोवाच । मित्रावरुणयोरंशे जातास्मि वदतां वर ।
७.८/२तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ७.८॥
७.९/१सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला ।
७.९/२गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ७.९॥
७.१०/१इलोवाच । अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् ।
७.१०/२मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ ७.१०॥
७.११/१तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् ।
७.११/२मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ ७.११॥
७.१२/१मित्रावरुणावूचतुः । अनेन तव धर्मेण प्रश्रयेण दमेन च ।
७.१२/२सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ ७.१२॥
७.१३/१आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ ७.१३॥
७.१४/१मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि ।
७.१४/२सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ ७.१४॥
७.१५/१जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः ।
७.१५/२निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ ७.१५॥
७.१६/१बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ।
७.१६/२सोमपुत्राद् बुधाद् विप्रास्तस्यां जज्ञे पुरूरवाः ॥ ७.१६॥
७.१७/१जनयित्वा ततः सा तमिला सुद्युम्नतां गता ।
७.१७/२सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ ७.१७॥
७.१८/१उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः ।
७.१८/२उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ ७.१८॥
७.१९/१दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता ।
७.१९/२प्रविष्टे तु मनौ विप्रा दिवाकरमरिंदमम् ॥ ७.१९॥
७.२०/१दशधा तत् पुनः क्षत्रमकरोत् पृथिवीमिमाम् ।
७.२०/२इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ ७.२०॥
७.२१/१कन्याभावात् तु सुद्युम्नो नैतद् राज्यमवाप्तवान् ।
७.२१/२वसिष्ठवचनात् त्वासीत् प्रतिष्ठाने महात्मनः ॥ ७.२१॥
७.२२/१प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः ।
७.२२/२तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ ७.२२॥
७.२३/१मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः ।
७.२३/२धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ ७.२३॥
७.२४/१नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः ।
७.२४/२अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥ ७.२४॥
७.२५/१धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह ।
७.२५/२करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.२५॥
७.२६/१नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः ।
७.२६/२प्रांशोरेकोऽभवत् पुत्रः प्रजापतिरिति स्मृतः ॥ ७.२६॥
७.२७/१नरिष्यन्तस्य दायादो राजा दण्डधरो यमः ।
७.२७/२शर्यातेर्मिथुनं त्वासीद् आनर्तो नाम विश्रुतः ॥ ७.२७॥
७.२८/१पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह ।
७.२८/२आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ ७.२८॥
७.२९/१आनर्तविषयश्चैव पुरी चास्य कुशस्थली ।
७.२९/२रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ७.२९॥
७.३०/१ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् ।
७.३०/२स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥ ७.३०॥
७.३१/१मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः ।
७.३१/२आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ॥ ७.३१॥
७.३२/१कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
७.३२/२भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ ७.३२॥
७.३३/१तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः ।
७.३३/२कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ ७.३३॥
७.३४/१दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।
७.३४/२रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ७.३४॥
७.३५/१मुनय ऊचुः । कथं बहुयुगे काले समतीते महामते ।
७.३५/२न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ ७.३५॥
७.३६/१मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् ।
७.३६/२स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः ॥ ७.३६॥
७.३७/१लोमहर्षण उवाच । न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः ।
७.३७/२ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः ।
७.३७/३ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ ७.३७॥
७.३८/१हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली ।
७.३८/२तस्य भ्रातृशतं त्वासीद् धार्मिकस्य महात्मनः ॥ ७.३८॥
७.३९/१तद् वध्यमानं रक्षोभिर्दिशः प्राक्रामद् अच्युताः ।
७.३९/२विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥ ७.३९॥
७.४०/१अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः ।
७.४०/२तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ ७.४०॥
७.४१/१क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः ।
७.४१/२शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः ॥ ७.४१॥
७.४२/१नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।
७.४२/२करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.४२॥
७.४३/१पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः ।
७.४३/२शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ॥ ७.४३॥
७.४४/१वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः ।
७.४४/२क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत् सुतः ॥ ७.४४॥
७.४५/१तस्य पुत्रशतं त्वासीद् इक्ष्वाकोर्भूरिदक्षिणम् ।
७.४५/२तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वाद् अयोधताम् ॥ ७.४५॥
७.४६/१प्राप्तः परमधर्मज्ञ सोऽयोध्याधिपतिः प्रभुः ।
७.४६/२शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥ ७.४६॥
७.४७/१उत्तरापथदेशस्य रक्षितारो महाबलाः ।
७.४७/२चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ ७.४७॥
७.४८/१वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः ।
७.४८/२इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ॥ ७.४८॥
७.४९/१मांसमानय श्राद्धार्थं मृगान् हत्वा महाबल ।
७.४९/२श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ ७.४९॥
७.५०/१भक्षयित्वा शशं विप्राः शशादो मृगयां गतः ।
७.५०/२इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः ॥ ७.५०॥
७.५१/१इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपोऽभवत् ।
७.५१/२शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ७.५१॥
७.५२/१अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः ।
७.५२/२विष्टराश्वः पृथोः पुत्रस्तस्माद् आर्द्रस्त्वजायत ॥ ७.५२॥
७.५३/१आर्द्रस्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः ।
७.५३/२जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ ७.५३॥
७.५४/१श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः ।
७.५४/२कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ॥ ७.५४॥
७.५५/१यः स धुन्धुवधाद् राजा धुन्धुमारत्वमागतः ॥ ७.५५॥
७.५६/१मुनय ऊचुः । धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः ।
७.५६/२यद्वधात् कुवलाश्वोऽसौ धुन्धुमारत्वमागतः ॥ ७.५६॥
७.५७/१लोमहर्षण उवाच । कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।
७.५७/२सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ७.५७॥
७.५८/१बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
७.५८/२कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ ७.५८॥
७.५९/१पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ।
७.५९/२तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ ७.५९॥
७.६०/१उत्तङ्क उवाच । भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि ।
७.६०/२निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव ॥ ७.६०॥
७.६१/१ममाश्रमसमीपे वै समेषु मरुधन्वसु ।
७.६१/२समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ ७.६१॥
७.६२/१देवतानामवध्यश्च महाकायो महाबलः ।
७.६२/२अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ७.६२॥
७.६३/१राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः ।
७.६३/२शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ७.६३॥
७.६४/१संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ।
७.६४/२यदा तदा मही तत्र चलति स्म नराधिप ॥ ७.६४॥
७.६५/१तस्य निःश्वासवातेन रज उद्धूयते महत् ।
७.६५/२आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ७.६५॥
७.६६/१सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ।
७.६६/२तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥ ७.६६॥
७.६७/१तं मारय महाकायं लोकानां हितकाम्यया ।
७.६७/२लोकाः स्वस्था भवन्त्यद्य तस्मिन् विनिहते त्वया ॥ ७.६७॥
७.६८/१त्वं हि तस्य वधायैकः समर्थः पृथिवीपते ।
७.६८/२विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ ७.६८॥
७.६९/१यस्तं महासुरं रौद्रं हनिष्यति महाबलम् ।
७.६९/२तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि ॥ ७.६९॥
७.७०/१नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते ।
७.७०/२निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि ॥ ७.७०॥
७.७१/१वीर्यं च सुमहत् तस्य देवैरपि दुरासदम् ।
७.७१/२स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना ।
७.७१/३कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे ॥ ७.७१॥
७.७२/१बृहदश्व उवाच । भगवन् न्यस्तशस्त्रोऽहमयं तु तनयो मम ।
७.७२/२भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ७.७२॥
७.७३/१स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।
७.७३/२जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ ७.७३॥
७.७४/१लोमहर्षण उवाच । कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः ।
७.७४/२प्रायाद् उत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥ ७.७४॥
७.७५/१तमाविशत् तदा विष्णुस्तेजसा भगवान् प्रभुः ।
७.७५/२उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया ॥ ७.७५॥
७.७६/१तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् ।
७.७६/२एष श्रीमान् अवध्योऽद्य धुन्धुमारो भविष्यति ॥ ७.७६॥
७.७७/१दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् ।
७.७७/२देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः ॥ ७.७७॥
७.७८/१स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् ।
७.७८/२समुद्रं खानयामास वालुकान्तरमव्ययम् ॥ ७.७८॥
७.७९/१तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ।
७.७९/२धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥ ७.७९॥
७.८०/१मुखजेनाग्निना क्रोधाल्लोकान् उद्वर्तयन्न् इव ।
७.८०/२वारि सुस्राव वेगेन महोदधिरिवोदये ॥ ७.८०॥
७.८१/१सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् ।
७.८१/२तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ ७.८१॥
७.८२/१ततः स राजा द्युतिमान् राक्षसं तं महाबलम् ।
७.८२/२आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ ७.८२॥
७.८३/१तस्य वारिमयं वेगमापीय स नराधिपः ।
७.८३/२योगी योगेन वह्निं च शमयामास वारिणा ॥ ७.८३॥
७.८४/१निहत्य तं महाकायं बलेनोदकराक्षसम् ।
७.८४/२उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ ७.८४॥
७.८५/१उत्तङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने ।
७.८५/२ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥ ७.८५॥
७.८६/१धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् ।
७.८६/२पुत्राणां चाक्षयांल्लोकान् स्वर्गे ये रक्षसा हताः ॥ ७.८६॥
७.८७/१तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
७.८७/२चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ ७.८७॥
७.८८/१धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः ।
७.८८/२हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥ ७.८८॥
७.८९/१संहताश्वो निकुम्भस्य सुतो रणविशारदः ।
७.८९/२अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ ७.८९॥
७.९०/१तस्य हैमवती कन्या सतां मता दृषद्वती ।
७.९०/२विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ ७.९०॥
७.९१/१लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् ।
७.९१/२अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ७.९१॥
७.९२/१तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः ।
७.९२/२मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ७.९२॥
७.९३/१तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ।
७.९३/२साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ७.९३॥
७.९४/१पतिव्रता च ज्येष्ठा च भ्रातृणामयुतस्य वै ।
७.९४/२तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥ ७.९४॥
७.९५/१पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् ।
७.९५/२पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः ॥ ७.९५॥
७.९६/१नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः ।
७.९६/२सम्भूतस्य तु दायादस्- ।
७.९६/३त्रिधन्वा रिपुमर्दनः ॥ ७.९६॥
७.९७/१राज्ञस्त्रिधन्वनस्त्वासीद् विद्वांस्त्रय्यारुणः प्रभुः ।
७.९७/२तस्य सत्यव्रतो नाम कुमारोऽभून् महाबलः ॥ ७.९७॥
७.९८/१परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः ।
७.९८/२येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ ७.९८॥
७.९९/१बाल्यात् कामाच्च मोहाच्च साहसाच्चापलेन च ।
७.९९/२जहार कन्यां कामार्तः कस्यचित् पुरवासिनः ॥ ७.९९॥
७.१००/१अधर्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत् ।
७.१००/२अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥ ७.१००॥
७.१०१/१सोऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः ।
७.१०१/२पिता च तमथोवाच श्वपाकैः सह वर्तय ॥ ७.१०१॥
७.१०२/१नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ।
७.१०२/२इत्युक्तः स निराक्रामन् नगराद् वचनात् पितुः ॥ ७.१०२॥
७.१०३/१न च तं वारयामास वसिष्ठो भगवान् ऋषिः ।
७.१०३/२स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ ७.१०३॥
७.१०४/१पित्रा त्यक्तोऽवसद् वीरः पिताप्यस्य वनं ययौ ।
७.१०४/२ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः ॥ ७.१०४॥
७.१०५/१समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा ।
७.१०५/२दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥ ७.१०५॥
७.१०६/१संन्यस्य सागरान्ते तु चकार विपुलं तपः ।
७.१०६/२तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥ ७.१०६॥
७.१०७/१शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै ।
७.१०७/२तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ ७.१०७॥
७.१०८/१महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः ।
७.१०८/२सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ ७.१०८॥
७.१०९/१विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ।
७.१०९/२सोऽभवद् गालवो नाम गले बन्धान् महातपाः ।
७.१०९/३महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥ ७.१०९॥
८.१/१लोमहर्षण उवाच । सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
८.१/२विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१॥
८.२/१हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।
८.२/२विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ ८.२॥
८.३/१उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
८.३/२पितुर्नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥ ८.३॥
८.४/१अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः ।
८.४/२याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥ ८.४॥
८.५/१सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
८.५/२वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ८.५॥
८.६/१पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् ।
८.६/२निवारयामास मुनिर्बहुना कारणेन न ॥ ८.६॥
८.७/१पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
८.७/२न च सत्यव्रतस्तस्माद् धतवान् सप्तमे पदे ॥ ८.७॥
८.८/१जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः ।
८.८/२सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८.८॥
८.९/१गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा ।
८.९/२न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ८.९॥
८.१०/१तस्मिन्न् अपरितोषश्च पितुरासीन् महात्मनः ।
८.१०/२तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥ ८.१०॥
८.११/१तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि ।
८.११/२कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेद् इति ॥ ८.११॥
८.१२/१न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् ।
८.१२/२अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ ८.१२॥
८.१३/१स तु द्वादश वर्षाणि तां दीक्षामवहद् बली ।
८.१३/२अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ ८.१३॥
८.१४/१सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः ।
८.१४/२तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ ८.१४॥
८.१५/१देशधर्मगतो राजा जघान मुनिसत्तमाः ।
८.१५/२तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ ८.१५॥
८.१६/१भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ॥ ८.१६॥
८.१७/१वसिष्ठ उवाच । पातयेयमहं क्रूर तव शङ्कुमसंशयम् ।
८.१७/२यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ ८.१७॥
८.१८/१पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च ।
८.१८/२अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ ८.१८॥
८.१९/१एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
८.१९/२त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ ८.१९॥
८.२०/१विश्वामित्रस्य दाराणामनेन भरणं कृतम् ।
८.२०/२तेन तस्मै वरं प्रादान् मुनिः प्रीतस्त्रिशङ्कवे ॥ ८.२०॥
८.२१/१छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
८.२१/२सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ ८.२१॥
८.२२/१अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
८.२२/२पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम् ॥ ८.२२॥
८.२३/१मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
८.२३/२दिवमारोपयामास सशरीरं महातपाः ॥ ८.२३॥
८.२४/१तस्य सत्यरथा नाम पत्नी कैकेयवंशजा ।
८.२४/२कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ८.२४॥
८.२५/१स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ।
८.२५/२आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः ॥ ८.२५॥
८.२६/१हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम पार्थिवः ।
८.२६/२हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ ८.२६॥
८.२७/१विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह ।
८.२७/२जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ ८.२७॥
८.२८/१रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः ।
८.२८/२रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ॥ ८.२८॥
८.२९/१हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।
८.२९/२तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ ८.२९॥
८.३०/१नासत्यो धार्मिकश्चैव स ह धर्मयुगेऽभवत् ।
८.३०/२सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ ८.३०॥
८.३१/१और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ।
८.३१/२आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ॥ ८.३१॥
८.३२/१जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् ।
८.३२/२शकानां पह्नवानां च धर्मं निरसद् अच्युतः ।
८.३२/३क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ ८.३२॥
८.३३/१मुनय ऊचुः । कथं स सगरो जातो गरेणैव सहाच्युतः ।
८.३३/२किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ ८.३३॥
८.३४/१धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः ।
८.३४/२एतन् नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ८.३४॥
८.३५/१लोमहर्षण उवाच । बाहोर्व्यसनिनः पूर्वं हृतं राज्यमभूत् किल ।
८.३५/२हैहयैस्तालजङ्घैश्च शकैः सार्धं द्विजोत्तमाः ॥ ८.३५॥
८.३६/१यवनाः पारदाश्चैव काम्बोजाः पह्नवास्तथा ।
८.३६/२एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ८.३६॥
८.३७/१हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ ।
८.३७/२पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत् ॥ ८.३७॥
८.३८/१पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् ।
८.३८/२सपत्न्या च गरस्तस्यै दत्तः पूर्वं किलानघाः ॥ ८.३८॥
८.३९/१सा तु भर्तुश्चितां कृत्वा वने तामभ्यरोहत ।
८.३९/२और्वस्तां भार्गवो विप्राः कारुण्यात् समवारयत् ॥ ८.३९॥
८.४०/१तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः ।
८.४०/२व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ८.४०॥
८.४१/१और्वस्तु जातकर्मादींस्तस्य कृत्वा महात्मनः ।
८.४१/२अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ८.४१॥
८.४२/१आग्नेयं तु महाभागा अमरैरपि दुःसहम् ।
८.४२/२स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ ८.४२॥
८.४३/१हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव ।
८.४३/२आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ८.४३॥
८.४४/१ततः शकांश्च यवनान् काम्बोजान् पारदांस्तथा ।
८.४४/२पह्नवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥ ८.४४॥
८.४५/१ते वध्यमाना वीरेण सगरेण महात्मना ।
८.४५/२वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ ८.४५॥
८.४६/१वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः ।
८.४६/२सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ ८.४६॥
८.४७/१सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च ।
८.४७/२धर्मं जघान तेषां वै वेषान् अन्यांश्चकार ह ॥ ८.४७॥
८.४८/१अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
८.४८/२यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ८.४८॥
८.४९/१पारदा मुक्तकेशाश्च पह्नवाञ् श्मश्रुधारिणः ।
८.४९/२निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ८.४९॥
८.५०/१शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः ।
८.५०/२कोणिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः ॥ ८.५०॥
८.५१/१सर्वे ते क्षत्रिया विप्रा धर्मस्तेषां निराकृतः ।
८.५१/२वसिष्ठवचनाद् राज्ञा सगरेण महात्मना ॥ ८.५१॥
८.५२/१स धर्मविजयी राजा विजित्येमां वसुंधराम् ।
८.५२/२अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥ ८.५२॥
८.५३/१तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
८.५३/२वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ८.५३॥
८.५४/१स तं देशं तदा पुत्रैः खानयामास पार्थिवः ।
८.५४/२आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ॥ ८.५४॥
८.५५/१तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
८.५५/२विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ ८.५५॥
८.५६/१तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः ।
८.५६/२दग्धाः सर्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥ ८.५६॥
८.५७/१बर्हिकेतुः सुकेतुश्च तथा धर्मरथो नृपः ।
८.५७/२शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥ ८.५७॥
८.५८/१प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम् ।
८.५८/२अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् ॥ ८.५८॥
८.५९/१पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् ।
८.५९/२समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ॥ ८.५९॥
८.६०/१सागरत्वं च लेभे स कर्मणा तेन तस्य ह ।
८.६०/२तं चाश्वमेधिकं सोऽश्वं समुद्राद् उपलब्धवान् ॥ ८.६०॥
८.६१/१आजहाराश्वमेधानां शतं स सुमहातपाः ।
८.६१/२पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ ८.६१॥
८.६२/१मुनय ऊचुः । सगरस्यात्मजा वीराः कथं जाता महाबलाः ।
८.६२/२विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ ८.६२॥
८.६३/१लोमहर्षण उवाच । द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
८.६३/२ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ ८.६३॥
८.६४/१कनीयसी तु महती पत्नी परमधर्मिणी ।
८.६४/२अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ८.६४॥
८.६५/१और्वस्ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः ।
८.६५/२षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥ ८.६५॥
८.६६/१एकं वंशधरं त्वेका यथेष्टं वरयत्विति ।
८.६६/२तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान् ॥ ८.६६॥
८.६७/१एकं वंशधरं त्वेका तथेत्याह ततो मुनिः ।
८.६७/२राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ ८.६७॥
८.६८/१इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ।
८.६८/२तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥ ८.६८॥
८.६९/१सम्बभूवुर्यथाकालं ववृधुश्च यथासुखम् ।
८.६९/२घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः ॥ ८.६९॥
८.७०/१धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः ।
८.७०/२ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥ ८.७०॥
८.७१/१कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ।
८.७१/२षष्टिपुत्रसहस्राणि तस्यैवमभवन् द्विजाः ॥ ८.७१॥
८.७२/१गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः ।
८.७२/२तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ ८.७२॥
८.७३/१एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ।
८.७३/२शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान् ॥ ८.७३॥
८.७४/१दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः ।
८.७४/२येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ८.७४॥
८.७५/१त्रयोऽभिसंधिता लोका बुद्ध्या सत्येन चानघाः ।
८.७५/२दिलीपस्य तु दायादो महाराजो भगीरथः ॥ ८.७५॥
८.७६/१यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ।
८.७६/२समुद्रमानयच्चैनां दुहितृत्वेऽप्यकल्पयत् ॥ ८.७६॥
८.७७/१तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ।
८.७७/२भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ॥ ८.७७॥
८.७८/१नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः ।
८.७८/२अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ ८.७८॥
८.७९/१अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् ।
८.७९/२अयुताजित्सुतस्त्वासीद् ऋतुपर्णो महायशाः ॥ ८.७९॥
८.८०/१दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ।
८.८०/२ऋतुपर्णसुतस्त्वासीद् आर्तपर्णिर्महायशाः ॥ ८.८०॥
८.८१/१सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् ।
८.८१/२सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ ८.८१॥
८.८२/१ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत् ।
८.८२/२कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ ८.८२॥
८.८३/१अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः ।
८.८३/२अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ ८.८३॥
८.८४/१अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ ।
८.८४/२अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत् ॥ ८.८४॥
८.८५/१दिलीपस्तनयस्तस्य रामस्य प्रपितामहः ।
८.८५/२दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतोऽभवत् ॥ ८.८५॥
८.८६/१अयोध्यायां महाराजो यः पुरासीन् महाबलः ।
८.८६/२अजस्तु राघवो जज्ञे तथा दशरथोऽप्यजात् ॥ ८.८६॥
८.८७/१रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः ।
८.८७/२रामस्य तनयो जज्ञे कुश इत्यभिसंज्ञितः ॥ ८.८७॥
८.८८/१अतिथिस्तु कुशाज्जज्ञे धर्मात्मा सुमहायशाः ।
८.८८/२अतिथेस्त्वभवत् पुत्रो निषधो नाम वीर्यवान् ॥ ८.८८॥
८.८९/१निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च ।
८.८९/२नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ ८.८९॥
८.९०/१क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् ।
८.९०/२आसीद् अहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ ८.९०॥
८.९१/१अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
८.९१/२सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥ ८.९१॥
८.९२/१उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह ।
८.९२/२वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥ ८.९२॥
८.९३/१नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः ।
८.९३/२वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ८.९३॥
८.९४/१इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ।
८.९४/२एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ८.९४॥
८.९५/१पठन् सम्यग् इमां सृष्टिमादित्यस्य विवस्वतः ।
८.९५/२श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।
८.९५/३प्रजावान् एति सायुज्यमादित्यस्य विवस्वतः ॥ ८.९५॥
९.१/१लोमहर्षण उवाच । पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवान् ऋषिः ।
९.१/२ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१॥
९.२/१अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा ।
९.२/२त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ ९.२॥
९.३/१ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् ।
९.३/२नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥ ९.३॥
९.४/१तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः ।
९.४/२समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ९.४॥
९.५/१यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
९.५/२ततस्ताभिः स त्यक्तस्तु निपपात वसुंधराम् ॥ ९.५॥
९.६/१पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
९.६/२रथमारोपयामास लोकानां हितकाम्यया ॥ ९.६॥
९.७/१तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
९.७/२तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ ९.७॥
९.८/१तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
९.८/२आप्यायनाय लोकानां भावयामास सर्वतः ॥ ९.८॥
९.९/१स तेन रथमुख्येन सागरान्तां वसुंधराम् ।
९.९/२त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम् ॥ ९.९॥
९.१०/१तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत ।
९.१०/२ओषध्यस्ताः समुद्भूता याभिः संधार्यते जगत् ॥ ९.१०॥
९.११/१स लब्धतेजा भगवान् संस्तवैश्च स्वकर्मभिः ।
९.११/२तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ ९.११॥
९.१२/१ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
९.१२/२बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ ९.१२॥
९.१३/१स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः ।
९.१३/२समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ ९.१३॥
९.१४/१दक्षिणामददात् सोमस्त्रींल्लोकान् इति नः श्रुतम् ।
९.१४/२तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ ९.१४॥
९.१५/१हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत् ।
९.१५/२सदस्योऽभूद् धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ ९.१५॥
९.१६/१तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।
९.१६/२कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ ९.१६॥
९.१७/१प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः ।
९.१७/२विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥ ९.१७॥
९.१८/१तस्य तत् प्राप्य दुष्प्राप्यमैश्वर्यम् ऋषिसत्कृतम् ।
९.१८/२विबभ्राम मतिस्ताता+ ।विनयाद् अनयाहृता ॥ ९.१८॥
९.१९/१बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः ।
९.१९/२जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ ९.१९॥
९.२०/१स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः ।
९.२०/२नैव व्यसर्जयत् तारां तस्मै अङ्गिरसे तदा ॥ ९.२०॥
९.२१/१उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा ।
९.२१/२रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ९.२१॥
९.२२/१तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
९.२२/२उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥ ९.२२॥
९.२३/१तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् ।
९.२३/२देवानां दानवानां च लोकक्षयकरं महत् ॥ ९.२३॥
९.२४/१तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः ।
९.२४/२ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ९.२४॥
९.२५/१तदा निवार्योशनसं तं वै रुद्रं च शंकरम् ।
९.२५/२ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ९.२५॥
९.२६/१तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः ।
९.२६/२मदीयायां न ते योनौ गर्भो धार्यः कथंचन ॥ ९.२६॥
९.२७/१इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह ।
९.२७/२जातमात्रः स भगवान् देवानामाक्षिपद् वपुः ॥ ९.२७॥
९.२८/१ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।
९.२८/२सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ९.२८॥
९.२९/१पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल ।
९.२९/२तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ९.२९॥
९.३०/१तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ।
९.३०/२यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ९.३०॥
९.३१/१उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् ।
९.३१/२तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ ९.३१॥
९.३२/१बुध इत्यकरोन् नाम तस्य बालस्य धीमतः ।
९.३२/२प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ९.३२॥
९.३३/१उत्पादयामास तदा पुत्रं वैराजपुत्रिकम् ।
९.३३/२तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ ९.३३॥
९.३४/१उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
९.३४/२एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ ९.३४॥
९.३५/१वंशमस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत ।
९.३५/२धन्यमायुष्यमारोग्यं पुण्यं संकल्पसाधनम् ॥ ९.३५॥
९.३६/१सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ९.३६॥
१०.१/१लोमहर्षण उवाच । बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः ।
१०.१/२तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१॥
१०.२/१ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः ।
१०.२/२आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ १०.२॥
१०.३/१सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः ।
१०.३/२अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ १०.३॥
१०.४/१तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् ।
१०.४/२उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ १०.४॥
१०.५/१तया सहावसद् राजा दश वर्षाणि पञ्च च ।
१०.५/२षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ १०.५॥
१०.६/१वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
१०.६/२अलकायां विशालायां नन्दने च वनोत्तमे ॥ १०.६॥
१०.७/१उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् ।
१०.७/२गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥ १०.७॥
१०.८/१एतेषु वनमुख्येषु सुरैराचरितेषु च ।
१०.८/२उर्वश्या सहितो राजा रेमे परमया मुदा ॥ १०.८॥
१०.९/१देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
१०.९/२राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ १०.९॥
१०.१०/१एवम्प्रभावो राजासीद् ऐलस्तु नरसत्तमः ।
१०.१०/२उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १०.१०॥
१०.११/१लोमहर्षण उवाच । ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।
१०.११/२गन्धर्वलोके विदिता आयुर्धीमान् अमावसुः ॥ १०.११॥
१०.१२/१विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
१०.१२/२दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ १०.१२॥
१०.१३/१अमावसोस्तु दायादो भीमो राजाथ राजराट् ।
१०.१३/२श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ॥ १०.१३॥
१०.१४/१विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून् महाबलः ।
१०.१४/२सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ १०.१४॥
१०.१५/१आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् ।
१०.१५/२पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५॥
१०.१६/१नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः ।
१०.१६/२स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १०.१६॥
१०.१७/१सौहोत्रिरशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः ।
१०.१७/२एष ते विफलं यत्नं पिबन्न् अम्भः करोम्यहम् ॥ १०.१७॥
१०.१८/१अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।
१०.१८/२जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १०.१८॥
१०.१९/१उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् ।
१०.१९/२युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ १०.१९॥
१०.२०/१युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता ।
१०.२०/२कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ १०.२०॥
१०.२१/१जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् ।
१०.२१/२कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १०.२१॥
१०.२२/१अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
१०.२२/२बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ १०.२२॥
१०.२३/१कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।
१०.२३/२कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १०.२३॥
१०.२४/१बल्लवैः सह संवृद्धो राजा वनचरः सदा ।
१०.२४/२कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ १०.२४॥
१०.२५/१लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् ।
१०.२५/२पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५॥
१०.२६/१अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।
१०.२६/२समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ १०.२६॥
१०.२७/१पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः ।
१०.२७/२स गाधिरभवद् राजा मघवान् कौशिकः स्वयम् ॥ १०.२७॥
१०.२८/१पौरा यस्याभवद् भार्या गाधिस्तस्यामजायत ।
१०.२८/२गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ १०.२८॥
१०.२९/१तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः ।
१०.२९/२तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ १०.२९॥
१०.३०/१पुत्रार्थं साधयामास चरुं गाधेस्तथैव च ।
१०.३०/२उवाचाहूय तां भार्याम् ऋचीको भार्गवस्तदा ॥ १०.३०॥
१०.३१/१उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे ।
१०.३१/२तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ॥ १०.३१॥
१०.३२/१अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ।
१०.३२/२तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ १०.३२॥
१०.३३/१शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।
१०.३३/२एवमुक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः ॥ १०.३३॥
१०.३४/१तपस्यभिरतो नित्यमरण्यं प्रविवेश ह ।
१०.३४/२गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ १०.३४॥
१०.३५/१तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।
१०.३५/२चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ १०.३५॥
१०.३६/१चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ।
१०.३६/२माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ १०.३६॥
१०.३७/१तस्याश्चरुमथाज्ञानाद् आत्मसंस्थं चकार ह ।
१०.३७/२अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ १०.३७॥
१०.३८/१धारयामास दीप्तेन वपुषा घोरदर्शना ।
१०.३८/२ताम् ऋचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ १०.३८॥
१०.३९/१ततोऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ।
१०.३९/२मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ १०.३९॥
१०.४०/१जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ।
१०.४०/२भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥ १०.४०॥
१०.४१/१विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् ।
१०.४१/२एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ १०.४१॥
१०.४२/१प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् ।
१०.४२/२ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥ १०.४२॥
१०.४३/१ऋचीक उवाच । नैष संकल्पितः कामो मया भद्रे तथास्त्विति ।
१०.४३/२उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ॥ १०.४३॥
१०.४४/१पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीद् इदम् ।
१०.४४/२इच्छंल्लोकान् अपि मुने सृजेथाः किं पुनः सुतम् ॥ १०.४४॥
१०.४५/१शमात्मकम् ऋजुं त्वं मे पुत्रं दातुमिहार्हसि ।
१०.४५/२काममेवंविधः पौत्रो मम स्यात् तव च प्रभो ॥ १०.४५॥
१०.४६/१यद्यन्यथा न शक्यं वै कर्तुमेतद् द्विजोत्तम ।
१०.४६/२ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ॥ १०.४६॥
१०.४७/१पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।
१०.४७/२त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ १०.४७॥
१०.४८/१ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
१०.४८/२तपस्यभिरतं दान्तं जमदग्निं समात्मकम् ॥ १०.४८॥
१०.४९/१भृगोर्जगत्यां वंशेऽस्मिञ् ।
१०.४९/२जमदग्निरजायत ।
१०.४९/३सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ १०.४९॥
१०.५०/१कौशिकीति समाख्याता प्रवृत्तेयं महानदी ।
१०.५०/२इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ॥ १०.५०॥
१०.५१/१तस्य कन्या महाभागा कामली नाम रेणुका ।
१०.५१/२रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ १०.५१॥
१०.५२/१आर्चीको जनयामास जामदग्न्यं सुदारुणम् ।
१०.५२/२सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ १०.५२॥
१०.५३/१रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ।
१०.५३/२और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः ॥ १०.५३॥
१०.५४/१जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ।
१०.५४/२मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ १०.५४॥
१०.५५/१विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
१०.५५/२जनयामास पुत्रं तु तपोविद्याशमात्मकम् ॥ १०.५५॥
१०.५६/१प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः ।
१०.५६/२विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ १०.५६॥
१०.५७/१जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः ।
१०.५७/२विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ १०.५७॥
१०.५८/१प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम् ।
१०.५८/२देवरातः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ॥ १०.५८॥
१०.५९/१शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः ।
१०.५९/२सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥ १०.५९॥
१०.६०/१मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः ।
१०.६०/२कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥ १०.६०॥
१०.६१/१तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ।
१०.६१/२पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥ १०.६१॥
१०.६२/१पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः ।
१०.६२/२लोहिता यमदूताश्च तथा कारूषकाः स्मृताः ॥ १०.६२॥
१०.६३/१पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च ।
१०.६३/२सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥ १०.६३॥
१०.६४/१विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः ।
१०.६४/२भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ १०.६४॥
१०.६५/१विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवत् किल ।
१०.६५/२हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ १०.६५॥
१०.६६/१देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः ।
१०.६६/२देवैर्दत्तः स वै यस्माद् देवरातस्ततोऽभवत् ॥ १०.६६॥
१०.६७/१देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
१०.६७/२दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः ॥ १०.६७॥
१०.६८/१अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
१०.६८/२अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ १०.६८॥
११.१/१लोमहर्षण उवाच । आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः ।
११.१/२स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ ११.१॥
११.२/१नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।
११.२/२रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ ११.२॥
११.३/१रजिः पुत्रशतानीह जनयामास पञ्च वै ।
११.३/२राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ११.३॥
११.४/१यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे ।
११.४/२देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ११.४॥
११.५/१देवासुरा ऊचुः । आवयोर्भगवन् युद्धे को विजेता भविष्यति ।
११.५/२ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ ११.५॥
११.६/१ब्रह्मोवाच । येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
११.६/२योत्स्यते ते विजेष्यन्ति त्रींल्लोकान् नात्र संशयः ॥ ११.६॥
११.७/१यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।
११.७/२यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ११.७॥
११.८/१ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा ।
११.८/२अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ ११.८॥
११.९/१स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
११.९/२राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ११.९॥
११.१०/१ते हृष्टमनसः सर्वे रजिं वै देवदानवाः ।
११.१०/२ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ११.१०॥
११.११/१अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।
११.११/२अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११.११॥
११.१२/१रजिरुवाच । यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः ।
११.१२/२इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ ११.१२॥
११.१३/१देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः ।
११.१३/२एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ ११.१३॥
११.१४/१श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा ।
११.१४/२पप्रच्छासुरमुख्यांस्तु यथा देवान् अपृच्छत ॥ ११.१४॥
११.१५/१दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह ।
११.१५/२प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ ११.१५॥
११.१६/१दानवा ऊचुः । अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे ।
११.१६/२अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ ११.१६॥
११.१७/१स तथेति ब्रुवन्न् एव देवैरप्यतिचोदितः ।
११.१७/२भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ ११.१७॥
११.१८/१जघान दानवान् सर्वान् येऽवध्या वज्रपाणिनः ।
११.१८/२स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ११.१८॥
११.१९/१निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः ।
११.१९/२ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ ११.१९॥
११.२०/१रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद् वचः ।
११.२०/२इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ॥ ११.२०॥
११.२१/१यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ।
११.२१/२स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ ११.२१॥
११.२२/१तथैवेत्यब्रवीद् राजा प्रीयमाणः शतक्रतुम् ।
११.२२/२तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ ११.२२॥
११.२३/१दायाद्यमिन्द्राद् आजह्रू राज्यं तत्तनया रजेः ।
११.२३/२पञ्च पुत्रशतान्यस्य तद् वै स्थानं शतक्रतोः ॥ ११.२३॥
११.२४/१समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।
११.२४/२ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ ११.२४॥
११.२५/१ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ।
११.२५/२ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ ११.२५॥
११.२६/१हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ।
११.२६/२य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः ।
११.२६/३शृणुयाद् धारयेद् वापि न स दौर्गत्यमाप्नुयात् ॥ ११.२६॥
११.२७/१लोमहर्षण उवाच । रम्भोऽनपत्यस्त्वासीच्च वंशं
वक्ष्याम्यनेनसः ।
११.२७/२अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ ११.२७॥
११.२८/१प्रतिक्षत्रसुतश्चासीत् संजयो नाम विश्रुतः ।
११.२८/२संजयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ ११.२८॥
११.२९/१विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः ।
११.२९/२हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ ११.२९॥
११.३०/१सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
११.३०/२नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥ ११.३०॥
११.३१/१संकृतेरपि धर्मात्मा क्षत्रवृद्धो महायशाः ।
११.३१/२अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ ११.३१॥
११.३२/१क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः ।
११.३२/२सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ११.३२॥
११.३३/१काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
११.३३/२पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ ११.३३॥
११.३४/१ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।
११.३४/२शलात्मज आर्ष्टिसेणस्तनयस्तस्य काश्यपः ॥ ११.३४॥
११.३५/१काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा ।
११.३५/२धनुस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ॥ ११.३५॥
११.३६/१तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
११.३६/२पुनर्धन्वन्तरिर्देवो मानुषेष्विह जन्मनि ॥ ११.३६॥
११.३७/१तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
११.३७/२काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ११.३७॥
११.३८/१आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः ।
११.३८/२तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ११.३८॥
११.३९/१धन्वन्तरेस्तु तनयः केतुमान् इति विश्रुतः ।
११.३९/२अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ ११.३९॥
११.४०/१पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
११.४०/२दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ ११.४०॥
११.४१/१एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः ।
११.४१/२शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ ११.४१॥
११.४२/१शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
११.४२/२शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ ११.४२॥
११.४३/१तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
११.४३/२विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ ११.४३॥
११.४४/१भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् ।
११.४४/२भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ११.४४॥
११.४५/१हत्वा निवेशयामास दिवोदासो नराधिपः ।
११.४५/२भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा ॥ ११.४५॥
११.४६/१भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः ।
११.४६/२दिवोदासेन बालेति घृणया स विसर्जितः ॥ ११.४६॥
११.४७/१हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः ।
११.४७/२आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ११.४७॥
११.४८/१भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
११.४८/२वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥ ११.४८॥
११.४९/१दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
११.४९/२तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥ ११.४९॥
११.५०/१प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ ।
११.५०/२वत्सपुत्रो ह्यलर्कस्तु संनतिस्तस्य चात्मजः ॥ ११.५०॥
११.५१/१अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसंगरः ।
११.५१/२अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ ११.५१॥
११.५२/१षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च ।
११.५२/२युवा रूपेण सम्पन्नः प्राग् आसीच्च कुलोद्वहः ॥ ११.५२॥
११.५३/१लोपामुद्राप्रसादेन परमायुरवाप्तवान् ।
११.५३/२तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः ॥ ११.५३॥
११.५४/१शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
११.५४/२रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ ११.५४॥
११.५५/१संनतेरपि दायादः सुनीथो नाम धार्मिकः ।
११.५५/२सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ ११.५५॥
११.५६/१क्षेमस्य केतुमान् पुत्रः सुकेतुस्तस्य चात्मजः ।
११.५६/२सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ ११.५६॥
११.५७/१धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।
११.५७/२सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ ११.५७॥
११.५८/१आनर्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः ।
११.५८/२सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ ११.५८॥
११.५९/१धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।
११.५९/२वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥ ११.५९॥
११.६०/१वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः ।
११.६०/२एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गव ॥ ११.६०॥
११.६१/१ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः ।
११.६१/२इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ ११.६१॥
१२.१/१लोमहर्षण उवाच । उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
१२.१/२नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥ १२.१॥
१२.२/१यतिर्ययातिः संयातिर्।
१२.२/२आयातिः पार्श्वकोऽभवत् ।
१२.२/३यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ १२.२॥
१२.३/१ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
१२.३/२यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन् मुनिः ॥ १२.३॥
१२.४/१तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
१२.४/२देवयानीमुशनसः सुतां भार्यामवाप सः ॥ १२.४॥
१२.५/१शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ।
१२.५/२यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १२.५॥
१२.६/१द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी ।
१२.६/२तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ १२.६॥
१२.७/१अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ।
१२.७/२युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ १२.७॥
१२.८/१स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् ।
१२.८/२ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥ १२.८॥
१२.९/१सरथः कौरवाणां तु सर्वेषामभवत् तदा ।
१२.९/२संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ १२.९॥
१२.१०/१कुरोः पुत्रस्य राजेन्द्र+ ।राज्ञः पारीक्षितस्य ह ।
१२.१०/२जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥ १२.१०॥
१२.११/१गर्गस्य हि सुतं बालं स राजा जनमेजयः ।
१२.११/२कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ १२.११॥
१२.१२/१स लोहगन्धी राजर्षिः परिधावन्न् इतस्ततः ।
१२.१२/२पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२.१२॥
१२.१३/१ततः स दुःखसंतप्तो नालभत् संविदं क्वचित् ।
१२.१३/२विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १२.१३॥
१२.१४/१याजयामास च ज्ञानी शौनको जनमेजयम् ।
१२.१४/२अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १२.१४॥
१२.१५/१स लोहगन्धो व्यनशत् तस्यावभृथमेत्य च ।
१२.१५/२स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ १२.१५॥
१२.१६/१दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ।
१२.१६/२बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १२.१६॥
१२.१७/१ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।
१२.१७/२प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १२.१७॥
१२.१८/१सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
१२.१८/२विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ १२.१८॥
१२.१९/१ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् ।
१२.१९/२मध्ये पुरुं च राजानमभ्यषिञ्चत् स नाहुषः ॥ १२.१९॥
१२.२०/१दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ।
१२.२०/२तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १२.२०॥
१२.२१/१यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
१२.२१/२प्रजास्तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः ॥ १२.२१॥
१२.२२/१धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
१२.२२/२जरावान् अभवद् राजा भारमावेश्य बन्धुषु ॥ १२.२२॥
१२.२३/१निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः ।
१२.२३/२प्रीतिमान् अभवद् राजा ययातिरपराजितः ॥ १२.२३॥
१२.२४/१एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ।
१२.२४/२जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ १२.२४॥
१२.२५/१तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
१२.२५/२जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ १२.२५॥
१२.२६/१यदुरुवाच । अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
१२.२६/२अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥ १२.२६॥
१२.२७/१जरायां बहवो दोषाः पानभोजनकारिताः ।
१२.२७/२तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥ १२.२७॥
१२.२८/१सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
१२.२८/२प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ १२.२८॥
१२.२९/१स एवमुक्तो यदुना राजा कोपसमन्वितः ।
१२.२९/२उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥ १२.२९॥
१२.३०/१ययातिरुवाच । क आश्रमस्तवान्योऽस्ति को वा धर्मो विधीयते ।
१२.३०/२मामनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥ १२.३०॥
१२.३१/१एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान् ।
१२.३१/२अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ १२.३१॥
१२.३२/१द्रुह्यं च तुर्वसुं चैवाप्यनुं च द्विजसत्तमाः ।
१२.३२/२एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ॥ १२.३२॥
१२.३३/१शशाप तान् अतिक्रुद्धो ययातिरपराजितः ।
१२.३३/२यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः ॥ १२.३३॥
१२.३४/१एवं शप्त्वा सुतान् सर्वांश्चतुरः पुरुपूर्वजान् ।
१२.३४/२तद् एव वचनं राजा पुरुमप्याह भो द्विजाः ॥ १२.३४॥
१२.३५/१तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
१२.३५/२जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ १२.३५॥
१२.३६/१स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् ।
१२.३६/२ययातिरपि रूपेण पुरोः पर्यचरन् महीम् ॥ १२.३६॥
१२.३७/१स मार्गमाणः कामानामन्तं नृपतिसत्तमः ।
१२.३७/२विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ १२.३७॥
१२.३८/१यदा च तृप्तः कामेषु भोगेषु च नराधिपः ।
१२.३८/२तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत ॥ १२.३८॥
१२.३९/१यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना ।
१२.३९/२याभिः प्रत्याहरेत् कामान् सर्वशोऽङ्गानि कूर्मवत् ॥ १२.३९॥
१२.४०/१न जातु कामः कामानामुपभोगेन शाम्यति ।
१२.४०/२हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १२.४०॥
१२.४१/१यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
१२.४१/२नालमेकस्य तत् सर्वमिति कृत्वा न मुह्यति ॥ १२.४१॥
१२.४२/१यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
१२.४२/२कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ १२.४२॥
१२.४३/१यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति ।
१२.४३/२यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ १२.४३॥
१२.४४/१या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
१२.४४/२योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १२.४४॥
१२.४५/१जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
१२.४५/२धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति ॥ १२.४५॥
१२.४६/१यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् ।
१२.४६/२तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ १२.४६॥
१२.४७/१एवमुक्त्वा स राजर्षिः सदारः प्राविशद् वनम् ।
१२.४७/२कालेन महता चायं चचार विपुलं तपः ॥ १२.४७॥
१२.४८/१भृगुतुङ्गे गतिं प्राप तपसोऽन्ते महायशाः ।
१२.४८/२अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ १२.४८॥
१२.४९/१तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः ।
१२.४९/२यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १२.४९॥
१२.५०/१यदोस्तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् ।
१२.५०/२यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ १२.५०॥
१२.५१/१सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश्च भवेन् नरः ।
१२.५१/२ययातिचरितं नित्यमिदं शृण्वन् द्विजोत्तमाः ॥ १२.५१॥
१३.१/१ब्राह्मणा ऊचुः । पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः ।
१३.१/२द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ॥ १३.१॥
१३.२/१लोमहर्षण उवाच । शृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः ।
१३.२/२विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ १३.२॥
१३.३/१पुरोः पुत्रः सुवीरोऽभून् मनस्युस्तस्य चात्मजः ।
१३.३/२राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ १३.३॥
१३.४/१तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः ।
१३.४/२सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ १३.४॥
१३.५/१रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च ।
१३.५/२कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ १३.५॥
१३.६/१ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः ।
१३.६/२धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ १३.६॥
१३.७/१भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।
१३.७/२खलदा च ततो विप्रा नलदा सुरसापि च ॥ १३.७॥
१३.८/१तथा गोचपला च स्त्री+ ।रत्नकूटा च ता दश ।
१३.८/२ऋषिर्जातोऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ १३.८॥
१३.९/१भद्रायां जनयामास सुतं सोमं यशस्विनम् ।
१३.९/२स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ १३.९॥
१३.१०/१तमोभिभूते लोके च प्रभा येन प्रवर्तिता ।
१३.१०/२स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ १३.१०॥
१३.११/१वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् ।
१३.११/२अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ १३.११॥
१३.१२/१यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् ।
१३.१२/२स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ १३.१२॥
१३.१३/१दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा ।
१३.१३/२ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३.१३॥
१३.१४/१स्वस्त्यात्रेया इति ख्याताः किंच त्रिधनवर्जिताः ।
१३.१४/२कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ १३.१४॥
१३.१५/१सभानरश्चाक्षुषश्च परमन्युस्तथैव च ।
१३.१५/२सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ॥ १३.१५॥
१३.१६/१कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ।
१३.१६/२सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः ॥ १३.१६॥
१३.१७/१जनमेजयो मुनिश्रेष्ठाः पुरंजयसुतोऽभवत् ।
१३.१७/२जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ॥ १३.१७॥
१३.१८/१देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ।
१३.१८/२महामना नाम सुतो महाशालस्य विश्रुतः ॥ १३.१८॥
१३.१९/१जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः ।
१३.१९/२महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ १३.१९॥
१३.२०/१उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ।
१३.२०/२उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १३.२०॥
१३.२१/१नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती ।
१३.२१/२उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ १३.२१॥
१३.२२/१तपसा चैव महता जाता वृद्धस्य चात्मजाः ।
१३.२२/२नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ १३.२२॥
१३.२३/१नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ।
१३.२३/२दृषद्वत्यास्तु संजज्ञे शिबिरौशीनरो नृपः ॥ १३.२३॥
१३.२४/१शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह ।
१३.२४/२नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ १३.२४॥
१३.२५/१सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत ।
१३.२५/२शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ १३.२५॥
१३.२६/१वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा ।
१३.२६/२तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ १३.२६॥
१३.२७/१वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः ।
१३.२७/२तितिक्षुरभवद् राजा पूर्वस्यां दिशि भो द्विजाः ॥ १३.२७॥
१३.२८/१उषद्रथो महावीर्यः फेनस्तस्य सुतोऽभवत् ।
१३.२८/२फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ १३.२८॥
१३.२९/१जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ।
१३.२९/२महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ १३.२९॥
१३.३०/१पुत्रान् उत्पादयामास पञ्च वंशकरान् भुवि ।
१३.३०/२अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ १३.३०॥
१३.३१/१पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ।
१३.३१/२बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ॥ १३.३१॥
१३.३२/१बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः ।
१३.३२/२महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥ १३.३२॥
१३.३३/१बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ।
१३.३३/२संग्रामे चाप्यजेयत्वं धर्मे चैव प्रधानताम् ॥ १३.३३॥
१३.३४/१त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा ।
१३.३४/२चतुरो नियतान् वर्णांस्त्वं च स्थापयितेति च ॥ १३.३४॥
१३.३५/१इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ।
१३.३५/२कालेन महता विप्राः स्वं च स्थानमुपागमत् ॥ १३.३५॥
१३.३६/१तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः ।
१३.३६/२कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥ १३.३६॥
१३.३७/१अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः ।
१३.३७/२दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ १३.३७॥
१३.३८/१पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः ।
१३.३८/२विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥ १३.३८॥
१३.३९/१तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ ।
१३.३९/२यजता सह शक्रेण सोमः पीतो महात्मना ॥ १३.३९॥
१३.४०/१अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
१३.४०/२लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ १३.४०॥
१३.४१/१तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
१३.४१/२ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ १३.४१॥
१३.४२/१चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ।
१३.४२/२पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ १३.४२॥
१३.४३/१चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा ।
१३.४३/२पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ १३.४३॥
१३.४४/१ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
१३.४४/२अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ १३.४४॥
१३.४५/१हर्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः ।
१३.४५/२पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ॥ १३.४५॥
१३.४६/१बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः ।
१३.४६/२बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ १३.४६॥
१३.४७/१नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः ।
१३.४७/२आसीद् दृढरथस्यापि विश्वजिज्जनमेजयी ॥ १३.४७॥
१३.४८/१दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः ।
१३.४८/२तस्य पुत्रशतं त्वासीद् अङ्गानां कुलवर्धनम् ॥ १३.४८॥
१३.४९/१एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया ।
१३.४९/२सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ १३.४९॥
१३.५०/१ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै ।
१३.५०/२शृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस्तु भो द्विजाः ॥ १३.५०॥
१३.५१/१ऋचेयोस्तनयो राजा मतिनारो महीपतिः ।
१३.५१/२मतिनारसुतास्त्वासंस्त्रयः परमधार्मिकाः ॥ १३.५१॥
१३.५२/१वसुरोधः प्रतिरथः सुबाहुश्चैव धार्मिकः ।
१३.५२/२सर्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥ १३.५२॥
१३.५३/१इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः ।
१३.५३/२ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥ १३.५३॥
१३.५४/१तंसोः सुतोऽथ राजर्षिर्धर्मनेत्रः प्रतापवान् ।
१३.५४/२ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ १३.५४॥
१३.५५/१उपदानवी ततः पुत्रांश्चतुरोऽजनयच्छुबान् ।
१३.५५/२दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ १३.५५॥
१३.५६/१दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् ।
१३.५६/२स सर्वदमनो नाम नागायुतबलो महान् ॥ १३.५६॥
१३.५७/१चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
१३.५७/२शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ १३.५७॥
१३.५८/१भरतस्य विनष्टेषु तनयेषु महीपतेः ।
१३.५८/२मातृणां तु प्रकोपेण मया तत् कथितं पुरा ॥ १३.५८॥
१३.५९/१बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः ।
१३.५९/२अयाजयद् भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥ १३.५९॥
१३.६०/१पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ।
१३.६०/२ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत् ॥ १३.६०॥
१३.६१/१ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ।
१३.६१/२वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ १३.६१॥
१३.६२/१स चापि वितथः पुत्राञ् जनयामास पञ्च वै ।
१३.६२/२सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ १३.६२॥
१३.६३/१कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ।
१३.६३/२काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ १३.६३॥
१३.६४/१तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ।
१३.६४/२काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥ १३.६४॥
१३.६५/१बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः ।
१३.६५/२धन्वन्तरेस्तु तनयः केतुमान् इति विश्रुतः ॥ १३.६५॥
१३.६६/१तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः ।
१३.६६/२पुत्रो भीमरथस्यापि वाराणस्यधिपोऽभवत् ॥ १३.६६॥
१३.६७/१दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः ।
१३.६७/२दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥ १३.६७॥
१३.६८/१प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च ।
१३.६८/२अलर्को राजपुत्रस्तु राजा सन्मतिमान् भुवि ॥ १३.६८॥
१३.६९/१हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः ।
१३.६९/२आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ १३.६९॥
१३.७०/१भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
१३.७०/२दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ १३.७०॥
१३.७१/१अष्टारथो नाम नृपः सुतो भीमरथस्य वै ।
१३.७१/२तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ १३.७१॥
१३.७२/१वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता ।
१३.७२/२अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसंगरः ॥ १३.७२॥
१३.७३/१षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
१३.७३/२युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः ॥ १३.७३॥
१३.७४/१लोपामुद्राप्रसादेन परमायुरवाप सः ।
१३.७४/२वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ १३.७४॥
१३.७५/१रम्यां निवेशयामास पुरीं वाराणसीं नृपः ।
१३.७५/२अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ १३.७५॥
१३.७६/१क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततोऽभवत् ।
१३.७६/२वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥ १३.७६॥
१३.७७/१आनर्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् ।
१३.७७/२सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥ १३.७७॥
१३.७८/१सुतोऽभवन् महातेजा राजा परमधार्मिकः ।
१३.७८/२वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥ १३.७८॥
१३.७९/१एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
१३.७९/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ॥ १३.७९॥
१३.८०/१आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः ।
१३.८०/२सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः ॥ १३.८०॥
१३.८१/१अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ।
१३.८१/२अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ॥ १३.८१॥
१३.८२/१नीली च केशिनी चैव धूमिनी च वराङ्गनाः ।
१३.८२/२अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ १३.८२॥
१३.८३/१आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् ।
१३.८३/२पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ १३.८३॥
१३.८४/१नेच्छतः प्लावयामास तस्य गङ्गा च तत् सदः ।
१३.८४/२तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १३.८४॥
१३.८५/१जह्नुरप्यब्रवीद् गङ्गां क्रुद्धो विप्रास्तदा नृपः ।
१३.८५/२एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् ।
१३.८५/३अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ १३.८५॥
१३.८६/१ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः ।
१३.८६/२उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ॥ १३.८६॥
१३.८७/१युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।
१३.८७/२गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम् ॥ १३.८७॥
१३.८८/१जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान् ।
१३.८८/२अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ १३.८८॥
१३.८९/१बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः ।
१३.८९/२पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ १३.८९॥
१३.९०/१कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् ।
१३.९०/२लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् ॥ १३.९०॥
१३.९१/१स गाधिरभवद् राजा मघवा कौशिकः स्वयम् ।
१३.९१/२विश्वामित्रस्तु गाधेयो विश्वामित्रात् तथाष्टकः ॥ १३.९१॥
१३.९२/१अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
१३.९२/२आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ १३.९२॥
१३.९३/१अजमीढात् तु नील्यां वै सुशान्तिरुदपद्यत ।
१३.९३/२पुरुजातिः सुशान्तेश्च बाह्याश्वः पुरुजातितः ॥ १३.९३॥
१३.९४/१बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः ।
१३.९४/२मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तदा ॥ १३.९४॥
१३.९५/१यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ।
१३.९५/२पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥ १३.९५॥
१३.९६/१पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः ।
१३.९६/२अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ १३.९६॥
१३.९७/१मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ।
१३.९७/२इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ १३.९७॥
१३.९८/१आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः ।
१३.९८/२सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ १३.९८॥
१३.९९/१सोमदत्तस्य दायादः सहदेवो महायशाः ।
१३.९९/२सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥ १३.९९॥
१३.१००/१अजमीढसुतो जातः क्षीणे वंशे तु सोमकः ।
१३.१००/२सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ १३.१००॥
१३.१०१/१तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः ।
१३.१०१/२आजमीढाः स्मृताश्चैते महात्मानस्तु सोमकाः ॥ १३.१०१॥
१३.१०२/१महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी ।
१३.१०२/२पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ १३.१०२॥
१३.१०३/१सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता ।
१३.१०३/२ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ १३.१०३॥
१३.१०४/१हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना ।
१३.१०४/२अग्निहोत्रकुशेष्वेव सुष्वाप मुनिसत्तमाः ॥ १३.१०४॥
१३.१०५/१धूमिन्या स तया देव्या त्वजमीढः समीयिवान् ।
१३.१०५/२ऋक्षं संजनयामास धूम्रवर्णं सुदर्शनम् ॥ १३.१०५॥
१३.१०६/१ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा ।
१३.१०६/२यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह ॥ १३.१०६॥
१३.१०७/१पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ।
१३.१०७/२तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः ॥ १३.१०७॥
१३.१०८/१कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा ।
१३.१०८/२परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ १३.१०८॥
१३.१०९/१परीक्षितस्तु दायादो धार्मिको जनमेजयः ।
१३.१०९/२श्रुतसेनोऽग्रसेनश्च भीमसेनश्च नामतः ॥ १३.१०९॥
१३.११०/१एते सर्वे महाभागा विक्रान्ता बलशालिनः ।
१३.११०/२जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥ १३.११०॥
१३.१११/१सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ।
१३.१११/२विदूरथस्य दायाद ऋक्ष एव महारथः ॥ १३.१११॥
१३.११२/१द्वितीयस्तु भरद्वाजान् नाम्ना तेनैव विश्रुतः ।
१३.११२/२द्वावृक्षौ सोमवंशेऽस्मिन् द्वावेव च परीक्षितौ ॥ १३.११२॥
१३.११३/१भीमसेनास्त्रयो विप्रा द्वौ चापि जनमेजयौ ।
१३.११३/२ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत् सुतः ॥ १३.११३॥
१३.११४/१प्रतीपो भीमसेनात् तु प्रतीपस्य तु शांतनुः ।
१३.११४/२देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ १३.११४॥
१३.११५/१शांतनोस्त्वभवद् भीष्मस्तस्मिन् वंशे द्विजोत्तमाः ।
१३.११५/२बाह्लिकस्य तु राजर्षेर्वंशं शृणुत भो द्विजाः ॥ १३.११५॥
१३.११६/१बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः ।
१३.११६/२जज्ञिरे सोमदत्तात् तु भूरिर्भूरिश्रवाः शलः ॥ १३.११६॥
१३.११७/१उपाध्यायस्तु देवानां देवापिरभवन् मुनिः ।
१३.११७/२च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः ॥ १३.११७॥
१३.११८/१शांतनुस्त्वभवद् राजा कौरवाणां धुरंधरः ।
१३.११८/२शांतनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ १३.११८॥
१३.११९/१गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः ।
१३.११९/२स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ १३.११९॥
१३.१२०/१काली विचित्रवीर्यं तु जनयामास भो द्विजाः ।
१३.१२०/२शांतनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ १३.१२०॥
१३.१२१/१कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्यके ।
१३.१२१/२धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ १३.१२१॥
१३.१२२/१धृतराष्ट्रस्तु गान्धार्यां पुत्रान् उत्पादयच्छतम् ।
१३.१२२/२तेषां दुर्योधनः श्रेष्ठः सर्वेषामपि स प्रभुः ॥ १३.१२२॥
१३.१२३/१पाण्डोर्धनंजयः पुत्रः सौभद्रस्तस्य चात्मजः ।
१३.१२३/२अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह ॥ १३.१२३॥
१३.१२४/१पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
१३.१२४/२चन्द्रापीडस्तु नृपतिः सूर्यापीडश्च मोक्षवित् ॥ १३.१२४॥
१३.१२५/१चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् ।
१३.१२५/२जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ १३.१२५॥
१३.१२६/१तेषां ज्येष्ठस्तु तत्रासीत् पुरे वारणसाह्वये ।
१३.१२६/२सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ १३.१२६॥
१३.१२७/१सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् ।
१३.१२७/२अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ १३.१२७॥
१३.१२८/१तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत ।
१३.१२८/२सुचारोर्दुहिता सुभ्रूर्मालिनी ग्राहमालिनी ॥ १३.१२८॥
१३.१२९/१सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः ।
१३.१२९/२अन्वगच्छत् कृतं पूर्वं महाप्रस्थानमच्युतम् ॥ १३.१२९॥
१३.१३०/१सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतोऽन्वगात् ।
१३.१३०/२सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥ १३.१३०॥
१३.१३१/१पथि सा सुषुवे बाला सुकुमारं कुमारकम् ।
१३.१३१/२तमपास्याथ तत्रैव राजानं सान्वगच्छत ॥ १३.१३१॥
१३.१३२/१पतिव्रता महाभागा द्रौपदीव पुरा सती ।
१३.१३२/२कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह ॥ १३.१३२॥
१३.१३३/१दयार्थं तस्य मेघास्तु प्रादुरासन् महात्मनः ।
१३.१३३/२श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥ १३.१३३॥
१३.१३४/१दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले ।
१३.१३४/२निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ १३.१३४॥
१३.१३५/१अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः ।
१३.१३५/२अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ १३.१३५॥
१३.१३६/१अथाजपार्श्व इति वै चक्राते नाम तस्य तौ ।
१३.१३६/२स तु रेमकशालायां द्विजाभ्यामभिवर्धितः ॥ १३.१३६॥
१३.१३७/१रेमकस्य तु भार्या तमुद्वहत् पुत्रकारणात् ।
१३.१३७/२रेमत्याः स तु पुत्रोऽभूद् ब्राह्मणौ सचिवौ तु तौ ॥ १३.१३७॥
१३.१३८/१तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः ।
१३.१३८/२स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ १३.१३८॥
१३.१३९/१श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना ।
१३.१३९/२जरासंक्रमणे पूर्वं तदा प्रीतेन धीमता ॥ १३.१३९॥
१३.१४०/१अचन्द्रार्कग्रहा भूमिर्भवेद् इयमसंशयम् ।
१३.१४०/२अपौरवा मही नैव भविष्यति कदाचन ॥ १३.१४०॥
१३.१४१/१एष वः पौरवो वंशो विख्यातः कथितो मया ।
१३.१४१/२तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ १३.१४१॥
१३.१४२/१तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः ।
१३.१४२/२गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥ १३.१४२॥
१३.१४३/१करंधमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः ।
१३.१४३/२अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥ १३.१४३॥
१३.१४४/१अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः ।
१३.१४४/२दुहिता संयता नाम तस्यासीत् पृथिवीपतेः ॥ १३.१४४॥
१३.१४५/१दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने ।
१३.१४५/२दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ १३.१४५॥
१३.१४६/१एवं ययातिशापेन जरासंक्रमणे तदा ।
१३.१४६/२पौरवं तुर्वसोर्वंशं प्रविवेश द्विजोत्तमाः ॥ १३.१४६॥
१३.१४७/१दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः ।
१३.१४७/२करूरोमाद् अथाह्रीदश्चत्वारस्तस्य चात्मजाः ॥ १३.१४७॥
१३.१४८/१पाण्ड्यश्च केरलश्चैव कालश्चोलश्च पार्थिवः ।
१३.१४८/२द्रुह्योश्च तनयो राजन् बभ्रुसेतुश्च पार्थिवः ॥ १३.१४८॥
१३.१४९/१अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ।
१३.१४९/२यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ १३.१४९॥
१३.१५०/१युद्धं सुमहद् अप्यासीन् मासान् परिचरद् दश ।
१३.१५०/२अङ्गारसेतोर्दायादो गान्धारो नाम पार्थिवः ॥ १३.१५०॥
१३.१५१/१ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् ।
१३.१५१/२गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥ १३.१५१॥
१३.१५२/१अनोस्तु पुत्रो धर्मोऽभूद् द्यूतस्तस्यात्मजोऽभवत् ।
१३.१५२/२द्यूताद् वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥ १३.१५२॥
१३.१५३/१प्रचेतसः सुचेतास्तु कीर्तितास्त्वनवो मया ।
१३.१५३/२बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ १३.१५३॥
१३.१५४/१सहस्रादः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ।
१३.१५४/२सहस्रादस्य दायादास्त्रयः परमधार्मिकाः ॥ १३.१५४॥
१३.१५५/१हैहयश्च हयश्चैव राजा वेणुहयस्तथा ।
१३.१५५/२हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः ॥ १३.१५५॥
१३.१५६/१धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः ।
१३.१५६/२साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ १३.१५६॥
१३.१५७/१आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ।
१३.१५७/२भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ १३.१५७॥
१३.१५८/१दुर्दमस्य सुतो धीमान् कनको नाम नामतः ।
१३.१५८/२कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ १३.१५८॥
१३.१५९/१कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च ।
१३.१५९/२कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्याद् अथार्जुनः ॥ १३.१५९॥
१३.१६०/१योऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् ।
१३.१६०/२जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ १३.१६०॥
१३.१६१/१स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
१३.१६१/२दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् ॥ १३.१६१॥
१३.१६२/१तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः ।
१३.१६२/२पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम् ॥ १३.१६२॥
१३.१६३/१अधर्मेऽधीयमानस्य सद्भिस्तत्र निवारणम् ।
१३.१६३/२उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ १३.१६३॥
१३.१६४/१संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः ।
१३.१६४/२संग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे ॥ १३.१६४॥
१३.१६५/१तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः ।
१३.१६५/२योगाद् योगीश्वरस्येव प्रादुर्भवति मायया ॥ १३.१६५॥
१३.१६६/१तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
१३.१६६/२ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १३.१६६॥
१३.१६७/१तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च ।
१३.१६७/२प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ १३.१६७॥
१३.१६८/१सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः ।
१३.१६८/२सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ १३.१६८॥
१३.१६९/१सर्वे देवैर्मुनिश्रेष्ठा विमानस्थैरलंकृतैः ।
१३.१६९/२गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १३.१६९॥
१३.१७०/१यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा ।
१३.१७०/२वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥ १३.१७०॥
१३.१७१/१नारद उवाच । न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
१३.१७१/२यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ १३.१७१॥
१३.१७२/१स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी ।
१३.१७२/२रथी द्वीपान् अनुचरन् योगी संदृश्यते नृभिः ॥ १३.१७२॥
१३.१७३/१अनष्टद्रव्यता चैव न शोको न च विभ्रमः ।
१३.१७३/२प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ १३.१७३॥
१३.१७४/१स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह ।
१३.१७४/२स एव पशुपालोऽभूत् क्षेत्रपालः स एव च ॥ १३.१७४॥
१३.१७५/१सैव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनोऽभवत् ।
१३.१७५/२स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १३.१७५॥
१३.१७६/१भाति रश्मिसहस्रेण शरदीव च भास्करः ।
१३.१७६/२स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ १३.१७६॥
१३.१७७/१कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत् ।
१३.१७७/२स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ॥ १३.१७७॥
१३.१७८/१क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह ।
१३.१७८/२लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ १३.१७८॥
१३.१७९/१चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा ।
१३.१७९/२तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ १३.१७९॥
१३.१८०/१भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः ।
१३.१८०/२चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ १३.१८०॥
१३.१८१/१मारुताविद्धफेनौघमावर्तक्षोभसंकुलम् ।
१३.१८१/२प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ॥ १३.१८१॥
१३.१८२/१देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः ।
१३.१८२/२मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ १३.१८२॥
१३.१८३/१सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।
१३.१८३/२नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ॥ १३.१८३॥
१३.१८४/१सायाह्ने कदलीखण्डाः कम्पिता इव वायुना ।
१३.१८४/२स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥ १३.१८४॥
१३.१८५/१लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
१३.१८५/२निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ॥ १३.१८५॥
१३.१८६/१श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन च ।
१३.१८६/२ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ॥ १३.१८६॥
१३.१८७/१मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः ।
१३.१८७/२यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ १३.१८७॥
१३.१८८/१युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव ।
१३.१८८/२अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत् ॥ १३.१८८॥
१३.१८९/१राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा ।
१३.१८९/२तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ॥ १३.१८९॥
१३.१९०/१स भिक्षामददाद् वीरः सप्त द्वीपान् विभावसोः ।
१३.१९०/२पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ॥ १३.१९०॥
१३.१९१/१जज्वाल तस्य सर्वाणि चित्रभानुर्दिधृक्षया ।
१३.१९१/२स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ १३.१९१॥
१३.१९२/१ददाह कार्तवीर्यस्य शैलांश्चैष वनानि च ।
१३.१९२/२स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ १३.१९२॥
१३.१९३/१ददाह बलवद्भीतश्चित्रभानुः स हैहयः ।
१३.१९३/२यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ १३.१९३॥
१३.१९४/१वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत ।
१३.१९४/२यत्रापवस्तु तं क्रोधाच्छप्तवान् अर्जुनं विभुः ॥ १३.१९४॥
१३.१९५/१यस्मान् न वर्जितमिदं वनं ते मम हैहय ।
१३.१९५/२तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ १३.१९५॥
१३.१९६/१रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् ।
१३.१९६/२छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ १३.१९६॥
१३.१९७/१तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः ।
१३.१९७/२अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ १३.१९७॥
१३.१९८/१प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः ।
१३.१९८/२प्राप्तस्ततोऽस्य मृत्युर्वै तस्य शापान् महामुनेः ॥ १३.१९८॥
१३.१९९/१वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा ।
१३.१९९/२तस्य पुत्रशतं त्वासीत् पञ्च शेषा महात्मनः ॥ १३.१९९॥
१३.२००/१कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ।
१३.२००/२शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥ १३.२००॥
१३.२०१/१जयध्वजश्च नाम्नासीद् आवन्त्यो नृपतिर्महान् ।
१३.२०१/२कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ १३.२०१॥
१३.२०२/१जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः ।
१३.२०२/२तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥ १३.२०२॥
१३.२०३/१तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् ।
१३.२०३/२वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥ १३.२०३॥
१३.२०४/१तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च ।
१३.२०४/२भरताश्च सुजाताश्च बहुत्वान् नानुकीर्तिताः ॥ १३.२०४॥
१३.२०५/१वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः ।
१३.२०५/२वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन् मधुः ॥ १३.२०५॥
१३.२०६/१मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशकृत् ।
१३.२०६/२वृषणाद् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ १३.२०६॥
१३.२०७/१यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः ।
१३.२०७/२न तस्य वित्तनाशः स्यान् नष्टं प्रति लभेच्च सः ॥ १३.२०७॥
१३.२०८/१कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः ।
१३.२०८/२एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ १३.२०८॥
१३.२०९/१कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै ।
१३.२०९/२भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ १३.२०९॥
१३.२१०/१श्रुत्वा पञ्च विसर्गांस्तु राजा धर्मार्थकोविदः ।
१३.२१०/२वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ १३.२१०॥
१३.२११/१लभेत् पञ्च वरांश्चैव दुर्लभान् इह लौकिकान् ।
१३.२११/२आयुः कीर्तिं तथा पुत्रान् ऐश्वर्यं भूतिमेव च ॥ १३.२११॥
१३.२१२/१धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः ।
१३.२१२/२क्रोष्टोर्वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम ॥ १३.२१२॥
१३.२१३/१यदोर्वंशधरस्याथ यज्विनः पुण्यकर्मिणः ।
१३.२१३/२क्रोष्टोर्वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते ।
१३.२१३/३यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ १३.२१३॥
१४.१/१लोमहर्षण उवाच । गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।
१४.१/२गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१॥
१४.२/१माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
१४.२/२तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ १४.२॥
१४.३/१माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ ।
१४.३/२जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ १४.३॥
१४.४/१श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते ।
१४.४/२नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४॥
१४.५/१कदाचित् काशिराजस्य विषये मुनिसत्तमाः ।
१४.५/२त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥ १४.५॥
१४.६/१स तत्र चानयामास श्वफल्कं परमार्चितम् ।
१४.६/२श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ १४.६॥
१४.७/१श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
१४.७/२गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ १४.७॥
१४.८/१दाता यज्वा च वीरश्च श्रुतवान् अतिथिप्रियः ।
१४.८/२अक्रूरः सुषुवे तस्माच्छ्वफल्काद् भूरिदक्षिणः ॥ १४.८॥
१४.९/१उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः ।
१४.९/२अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ १४.९॥
१४.१०/१धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस्तथा ।
१४.१०/२आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १४.१०॥
१४.११/१अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः ।
१४.११/२प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४.११॥
१४.१२/१चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।
१४.१२/२अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ १४.१२॥
१४.१३/१अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत् तथा ।
१४.१३/२सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १४.१३॥
१४.१४/१असिक्न्यां जनयामास शूरं वै देवमीढुषम् ।
१४.१४/२महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४.१४॥
१४.१५/१वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
१४.१५/२जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १४.१५॥
१४.१६/१आनकानां च संह्रादः सुमहान् अभवद् दिवि ।
१४.१६/२पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ १४.१६॥
१४.१७/१मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
१४.१७/२यस्यासीत् पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १४.१७॥
१४.१८/१देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।
१४.१८/२अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥ १४.१८॥
१४.१९/१श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।
१४.१९/२पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १४.१९॥
१४.२०/१राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
१४.२०/२श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन् नृपः ॥ १४.२०॥
१४.२१/१हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत् पुरा ।
१४.२१/२पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः ॥ १४.२१॥
१४.२२/१करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।
१४.२२/२पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ १४.२२॥
१४.२३/१यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः ।
१४.२३/२भीमसेनस्तथा वाताद् इन्द्राच्चैव धनंजयः ॥ १४.२३॥
१४.२४/१लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः ।
१४.२४/२अनमित्राच्छनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ १४.२४॥
१४.२५/१शैनेयः सत्यकस्तस्माद् युयुधानश्च सात्यकिः ।
१४.२५/२उद्धवो देवभागस्य महाभागः सुतोऽभवत् ॥ १४.२५॥
१४.२६/१पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् ।
१४.२६/२अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ॥ १४.२६॥
१४.२७/१निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत ।
१४.२७/२श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ १४.२७॥
१४.२८/१एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः ।
१४.२८/२वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् ।
१४.२८/३अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ १४.२८॥
१४.२९/१गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् ।
१४.२९/२चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ १४.२९॥
१४.३०/१असंग्रामेण यो वीरो नावर्तत कदाचन ।
१४.३०/२रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥ १४.३०॥
१४.३१/१वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।
१४.३१/२चारून् अद्योपभोक्ष्यामश्चारुदेष्णहतान् इति ॥ १४.३१॥
१४.३२/१तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ ।
१४.३२/२वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥ १४.३२॥
१४.३३/१श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् ।
१४.३३/२जुगुप्समानो भोजत्वाद् राजसूयमवाप सः ॥ १४.३३॥
१४.३४/१अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ।
१४.३४/२वसुदेवसुतान् वीरान् कीर्तयिष्याम्यतः परम् ॥ १४.३४॥
१४.३५/१वृष्णेस्त्रिविधमेवं तु बहुशाखं महौजसम् ।
१४.३५/२धारयन् विपुलं वंशं नानर्थैरिह युज्यते ॥ १४.३५॥
१४.३६/१याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः ।
१४.३६/२पौरवी रोहिणी नाम मदिरादितथावरा ॥ १४.३६॥
१४.३७/१वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी ।
१४.३७/२सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ १४.३७॥
१४.३८/१वृकदेव्युपदेवी च देवकी चैव सप्तमी ।
१४.३८/२सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ १४.३८॥
१४.३९/१पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ।
१४.३९/२ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ १४.३९॥
१४.४०/१लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च ।
१४.४०/२दुर्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥ १४.४०॥
१४.४१/१चित्रा नाम कुमारी च रोहिणीतनया नव ।
१४.४१/२चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥ १४.४१॥
१४.४२/१वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः ।
१४.४२/२रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ १४.४२॥
१४.४३/१सुभद्रायां रथी पार्थाद् अभिमन्युरजायत ।
१४.४३/२अक्रूरात् काशिकन्यायां सत्यकेतुरजायत ॥ १४.४३॥
१४.४४/१वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
१४.४४/२ये पुत्रा जज्ञिरे शूराः समस्तांस्तान् निबोधत ॥ १४.४४॥
१४.४५/१भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ ।
१४.४५/२वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ १४.४५॥
१४.४६/१अगावहं महात्मानं वृकदेवी व्यजायत ।
१४.४६/२कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ १४.४६॥
१४.४७/१जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् ।
१४.४७/२कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ १४.४७॥
१४.४८/१मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः ।
१४.४८/२घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥ १४.४८॥
१४.४९/१गोपाली चाप्सरास्तस्य गोपस्त्रीवेषधारिणी ।
१४.४९/२धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ १४.४९॥
१४.५०/१मानुष्यां गर्गभार्यायां नियोगाच्छूलपाणिनः ।
१४.५०/२स कालयवनो नाम जज्ञे राजा महाबलः ॥ १४.५०॥
१४.५१/१वृत्तपूर्वार्धकायस्तु सिंहसंहननो युवा ।
१४.५१/२अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ॥ १४.५१॥
१४.५२/१यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत् ।
१४.५२/२आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम् ॥ १४.५२॥
१४.५३/१वृष्ण्यन्धककुलं तस्य नारदोऽकथयद् विभुः ।
१४.५३/२अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात् तदा ॥ १४.५३॥
१४.५४/१दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् ।
१४.५४/२ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ १४.५४॥
१४.५५/१समेता मन्त्रयामासुर्यवनस्य भयात् तदा ।
१४.५५/२कृत्वा विनिश्चयं सर्वे पलायनमरोचयन् ॥ १४.५५॥
१४.५६/१विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ।
१४.५६/२कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ॥ १४.५६॥
१४.५९/१इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः ।
१४.५९/२पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत् ॥ १४.५९॥
१५.१/१लोमहर्षण उवाच । क्रोष्टोरथाभवत् पुत्रो वृजिनीवान् महायशाः ।
१५.१/२वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१॥
१५.२/१स्वाहिपुत्रोऽभवद् राजा उषद्गुर्वदतां वरः ।
१५.२/२महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ १५.२॥
१५.३/१ततः प्रसूतिमिच्छन् वै उषद्गुः सोऽग्र्यमात्मजम् ।
१५.३/२जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ १५.३॥
१५.४/१आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।
१५.४/२शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ १५.४॥
१५.५/१पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः ।
१५.५/२शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ १५.५॥
१५.६/१अन्तरस्य सुयज्ञस्तु सुयज्ञतनयोऽभवत् ।
१५.६/२उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ १५.६॥
१५.७/१शिनेयुरभवत् पुत्र उषतः शत्रुतापनः ।
१५.७/२मरुतस्तस्य तनयो राजर्षिरभवन् नृपः ॥ १५.७॥
१५.८/१मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
१५.८/२चचार विपुलं धर्मममर्षात् प्रत्यभाग् अपि ॥ १५.८॥
१५.९/१स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः ।
१५.९/२बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ १५.९॥
१५.१०/१निहत्य रुक्मकवचः शतं कवचिनां रणे ।
१५.१०/२धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १५.१०॥
१५.११/१जज्ञे च रुक्मकवचात् परजित् परवीरहा ।
१५.११/२जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ १५.११॥
१५.१२/१रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
१५.१२/२पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १५.१२॥
१५.१३/१रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रयात् ।
१५.१३/२ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसद् आश्रमे ॥ १५.१३॥
१५.१४/१प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः ।
१५.१४/२जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ १५.१४॥
१५.१५/१नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् ।
१५.१५/२ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५.१५॥
१५.१६/१ज्यामघस्याभवद् भार्या शैब्या बलवती सती ।
१५.१६/२अपुत्रोऽपि स राजा वै नान्यां भार्यामविन्दत ॥ १५.१६॥
१५.१७/१तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः ।
१५.१७/२भार्यामुवाच संत्रस्तः स्नुषेति स जनेश्वरः ॥ १५.१७॥
१५.१८/१एतच्छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै ।
१५.१८/२अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः ॥ १५.१८॥
१५.१९/१राजोवाच । यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ १५.१९॥
१५.२०/१लोमहर्षण उवाच । उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।
१५.२०/२पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ १५.२०॥
१५.२१/१राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ ।
१५.२१/२पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ १५.२१॥
१५.२२/१भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् ।
१५.२२/२कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ १५.२२॥
१५.२३/१धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ।
१५.२३/२आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ १५.२३॥
१५.२४/१दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ।
१५.२४/२जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ १५.२४॥
१५.२५/१अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा ।
१५.२५/२तस्य चासीद् दशरथः शकुनिस्तस्य चात्मजः ॥ १५.२५॥
१५.२६/१तस्मात् करम्भः कारम्भिर्देवरातोऽभवन् नृपः ।
१५.२६/२देवक्षत्रोऽभवत् तस्य वृद्धक्षत्रो महायशाः ॥ १५.२६॥
१५.२७/१देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ।
१५.२७/२मधूनां वंशकृद् राजा मधुर्मधुरवाग् अपि ॥ १५.२७॥
१५.२८/१मधोर्जज्ञेऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः ।
१५.२८/२ऐक्ष्वाकी चाभवद् भार्या मधोस्तस्यां व्यजायत ॥ १५.२८॥
१५.२९/१सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः ।
१५.२९/२इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
१५.२९/३युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा ॥ १५.२९॥
१५.३०/१लोमहर्षण उवाच । सत्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् ।
१५.३०/२भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १५.३०॥
१५.३१/१अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् ।
१५.३१/२तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्तिताः ॥ १५.३१॥
१५.३२/१भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका ।
१५.३२/२आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ १५.३२॥
१५.३३/१क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरंजयः ।
१५.३३/२एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ १५.३३॥
१५.३४/१आयुताजित् सहस्राजिच्छताजित् त्वथ दासकः ।
१५.३४/२उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ १५.३४॥
१५.३५/१यज्वा देवावृधो राजा चचार विपुलं तपः ।
१५.३५/२पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः ॥ १५.३५॥
१५.३६/१संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् ।
१५.३६/२सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ १५.३६॥
१५.३७/१चिन्तयाभिपरीता सा न जगामैव निश्चयम् ।
१५.३७/२कल्याणत्वान् नरपतेस्तस्य सा निम्नगोत्तमा ॥ १५.३७॥
१५.३८/१नाध्यगच्छत् तु तां नारीं यस्यामेवंविधः सुतः ।
१५.३८/२भवेत् तस्मात् स्वयं गत्वा भवाम्यस्य सहानुगा ॥ १५.३८॥
१५.३९/१अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
१५.३९/२वरयामास नृपतिं तामियेष च स प्रभुः ॥ १५.३९॥
१५.४०/१तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः ।
१५.४०/२अथ सा दशमे मासि सुषुवे सरितां वरा ॥ १५.४०॥
१५.४१/१पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः ।
१५.४१/२अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १५.४१॥
१५.४२/१गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः ।
१५.४२/२यथैवाग्रे तथा दूरात् पश्यामस्तावद् अन्तिकात् ॥ १५.४२॥
१५.४३/१बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
१५.४३/२षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३॥
१५.४४/१एतेऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधाद् अपि ।
१५.४४/२यज्वा दानपतिर्धीमान् ब्रह्मण्यः सुदृढायुधः ॥ १५.४४॥
१५.४५/१तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः ।
१५.४५/२अन्धकात् काश्यदुहिता चतुरोऽलभतात्मजान् ॥ १५.४५॥
१५.४६/१कुकुरं भजमानं च ससकं बलबर्हिषम् ।
१५.४६/२कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥ १५.४६॥
१५.४७/१कपोतरोमा तस्याथ तिलिरिस्तनयोऽभवत् ।
१५.४७/२जज्ञे पुनर्वसुस्तस्माद् अभिजिच्च पुनर्वसोः ॥ १५.४७॥
१५.४८/१तथा वै पुत्रमिथुनं बभूवाभिजितः किल ।
१५.४८/२आहुकः श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥ १५.४८॥
१५.४९/१इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् ।
१५.४९/२श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ १५.४९॥
१५.५०/१अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् ।
१५.५०/२नापुत्रवान् नाशतदो नासहस्रशतायुषः ॥ १५.५०॥
१५.५१/१नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् ।
१५.५१/२पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ १५.५१॥
१५.५२/१सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ।
१५.५२/२रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ १५.५२॥
१५.५३/१रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ।
१५.५३/२तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥ १५.५३॥
१५.५४/१आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः ।
१५.५४/२आहुः किं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ॥ १५.५४॥
१५.५५/१आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
१५.५५/२देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ १५.५५॥
१५.५६/१देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः ।
१५.५६/२देववान् उपदेवश्च संदेवो देवरक्षितः ॥ १५.५६॥
१५.५७/१कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ ।
१५.५७/२देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ १५.५७॥
१५.५८/१वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी ।
१५.५८/२नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥ १५.५८॥
१५.५९/१न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः ।
१५.५९/२राष्ट्रपालोऽथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥ १५.५९॥
१५.६०/१तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ।
१५.६०/२सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ १५.६०॥
१५.६१/१उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ।
१५.६१/२कुकुराणामिमं वंशं धारयन्न् अमितौजसाम् ॥ १५.६१॥
१५.६२/१आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः ॥ १५.६२॥
१६.१/१लोमहर्षण उवाच । भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
१६.१/२राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १६.१॥
१६.२/१राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।
१६.२/२दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ १६.२॥
१६.३/१शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् ।
१६.३/२श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ १६.३॥
१६.४/१शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
१६.४/२स्वयम्भोजः स्वयम्भोजाद् भदिकः सम्बभूव ह ॥ १६.४॥
१६.५/१तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।
१६.५/२कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ १६.५॥
१६.६/१देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः ।
१६.६/२सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ १६.६॥
१६.७/१देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।
१६.७/२असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ १६.७॥
१६.८/१अजातपुत्राय सुतान् प्रददावसमौजसे ।
१६.८/२सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ १६.८॥
१६.९/१गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः ।
१६.९/२गान्धारी जनयामास अनमित्रं महाबलम् ॥ १६.९॥
१६.१०/१माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् ।
१६.१०/२अनमित्रममित्राणां जेतारमपराजितम् ॥ १६.१०॥
१६.११/१अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ।
१६.११/२प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ १६.११॥
१६.१२/१प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् ।
१६.१२/२दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान् ॥ १६.१२॥
१६.१३/१तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ।
१६.१३/२स कदाचिन् निशापाये रथेन रथिनां वरः ॥ १६.१३॥
१६.१४/१तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् ।
१६.१४/२तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः ॥ १६.१४॥
१६.१५/१विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् विभुः ।
१६.१५/२अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ १६.१५॥
१६.१६/१यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते ।
१६.१६/२तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६.१६॥
१६.१७/१को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ।
१६.१७/२एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ॥ १६.१७॥
१६.१८/१स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः ।
१६.१८/२ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ १६.१८॥
१६.१९/१प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ।
१६.१९/२तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १६.१९॥
१६.२०/१लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो ।
१६.२०/२तद् एतन् मणिरत्नं मे भगवन् दातुमर्हसि ॥ १६.२०॥
१६.२१/१ततः स्यमन्तकमणिं दत्तवान् भास्करस्तदा ।
१६.२१/२स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ १६.२१॥
१६.२२/१तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।
१६.२२/२स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ १६.२२॥
१६.२३/१तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।
१६.२३/२ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम् ॥ १६.२३॥
१६.२४/१स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
१६.२४/२कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ १६.२४॥
१६.२५/१लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके ।
१६.२५/२गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः ॥ १६.२५॥
१६.२६/१कदाचिन् मृगयां यातः प्रसेनस्तेन भूषितः ।
१६.२६/२स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥ १६.२६॥
१६.२७/१अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः ।
१६.२७/२निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम् ॥ १६.२७॥
१६.२८/१ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।
१६.२८/२प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ १६.२८॥
१६.२९/१स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः ।
१६.२९/२आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १६.२९॥
१६.३०/१यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्यथ ।
१६.३०/२प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ १६.३०॥
१६.३१/१ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् ।
१६.३१/२अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥ १६.३१॥
१६.३२/१साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् ।
१६.३२/२अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ १६.३२॥
१६.३३/१ऋक्षेण निहतो दृष्टः पदैरृक्षस्तु सूचितः ।
१६.३३/२पदैस्तैरन्वियायाथ गुहाम् ऋक्षस्य माधवः ॥ १६.३३॥
१६.३४/१स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् ।
१६.३४/२धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ १६.३४॥
१६.३५/१क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥ १६.३५॥
१६.३६/१धात्र्युवाच । सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
१६.३६/२सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १६.३६॥
१६.३७/१व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ ।
१६.३७/२प्रविश्य तत्र भगवांस्तद् ऋक्षबिलमञ्जसा ॥ १६.३७॥
१६.३८/१स्थापयित्वा बिलद्वारे यदूंल्लाङ्गलिना सह ।
१६.३८/२शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ १६.३८॥
१६.३९/१युयुधे वासुदेवस्तु बिले जाम्बवता सह ।
१६.३९/२बाहुभ्यामेव गोविन्दो दिवसान् एकविंशतिम् ॥ १६.३९॥
१६.४०/१प्रविष्टेऽथ बिले कृष्णे बलदेवपुरःसराः ।
१६.४०/२पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ १६.४०॥
१६.४१/१वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम् ।
१६.४१/२लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य सम्मताम् ॥ १६.४१॥
१६.४२/१मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये ।
१६.४२/२अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ १६.४२॥
१६.४३/१उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः ।
१६.४३/२एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ॥ १६.४३॥
१६.४४/१ददौ सत्राजिते तं वै सर्वसात्वतसंसदि ।
१६.४४/२एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ १६.४४॥
१६.४५/१आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् ।
१६.४५/२सत्राजितो दश त्वासन् भार्यास्तासां शतं सुताः ॥ १६.४५॥
१६.४६/१ख्यातिमन्तस्त्रयस्तेषां भगंकारस्तु पूर्वजः ।
१६.४६/२वीरो वातपतिश्चैव वसुमेधस्तथैव च ॥ १६.४६॥
१६.४७/१कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः ।
१६.४७/२सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ १६.४७॥
१६.४८/१तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ ।
१६.४८/२सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥ १६.४८॥
१६.४९/१जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा ।
१६.४९/२माद्र्याः पुत्रोऽथ जज्ञेऽथ वृष्णिपुत्रो युधाजितः ॥ १६.४९॥
१६.५०/१जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ।
१६.५०/२श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ॥ १६.५०॥
१६.५१/१गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता ।
१६.५१/२तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः ॥ १६.५१॥
१६.५२/१अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः ।
१६.५२/२उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः ॥ १६.५२॥
१६.५३/१आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः ।
१६.५३/२धर्मभृच्चापि धर्मा च गृध्रभोजान्धकस्तथा ॥ १६.५३॥
१६.५४/१आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ।
१६.५४/२विश्रुताश्वस्य महिषी कन्या चास्य वसुंधरा ॥ १६.५४॥
१६.५५/१रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा ।
१६.५५/२अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ १६.५५॥
१६.५६/१वसुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ ।
१६.५६/२चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ॥ १६.५६॥
१६.५७/१अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ।
१६.५७/२अरिष्टनेमिश्च सुता धर्मो धर्मभृद् एव च ॥ १६.५७॥
१६.५८/१सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ।
१६.५८/२इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ १६.५८॥
१६.५९/१वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ १६.५९॥
१७.१/१लोमहर्षण उवाच । यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
१७.१/२ददावहारयद् बभ्रुर्भोजेन शतधन्वना ॥ १७.१॥
१७.२/१सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
१७.२/२अक्रूरोऽन्तरमन्विष्यन् मणिं चैव स्यमन्तकम् ॥ १७.२॥
१७.३/१सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
१७.३/२रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ १७.३॥
१७.४/१अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् ।
१७.४/२समयं कारयां चक्रे नावेद्योऽहं त्वयेत्युत ॥ १७.४॥
१७.५/१वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
१७.५/२ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ १७.५॥
१७.६/१हते पितरि दुःखार्ता सत्यभामा मनस्विनी ।
१७.६/२प्रययौ रथमारुह्य नगरं वारणावतम् ॥ १७.६॥
१७.७/१सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः ।
१७.७/२भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ १७.७॥
१७.८/१पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् ।
१७.८/२कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ १७.८॥
१७.९/१ततस्त्वरितमागम्य द्वारकां मधुसूदनः ।
१७.९/२पूर्वजं हलिनं श्रीमान् इदं वचनमब्रवीत् ॥ १७.९॥
१७.१०/१श्रीकृष्ण उवाच । हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
१७.१०/२स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ १७.१०॥
१७.११/१तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् ।
१७.११/२स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ १७.११॥
१७.१२/१लोमहर्षण उवाच । ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
१७.१२/२शतधन्वा ततोऽक्रूरं सर्वतोदिशमैक्षत ॥ १७.१२॥
१७.१३/१संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ ।
१७.१३/२शक्तोऽपि शापाद् धार्दिक्यमक्रूरो नान्वपद्यत ॥ १७.१३॥
१७.१४/१अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
१७.१४/२योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १७.१४॥
१७.१५/१विख्याता हृदया नाम शतयोजनगामिनी ।
१७.१५/२भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ १७.१५॥
१७.१६/१क्षीणां जवेन हृदयामध्वनः शतयोजने ।
१७.१६/२दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ १७.१६॥
१७.१७/१ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः ।
१७.१७/२खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७.१७॥
१७.१८/१श्रीकृष्ण उवाच । तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया ।
१७.१८/२पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १७.१८॥
१७.१९/१पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
१७.१९/२मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ १७.१९॥
१७.२०/१स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् ।
१७.२०/२निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली ॥ १७.२०॥
१७.२१/१नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
१७.२१/२धिक्षब्दपूर्वमसकृत् प्रत्युवाच जनार्दनम् ॥ १७.२१॥
१७.२२/१बलराम उवाच । भ्रातृत्वान् मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
१७.२२/२कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ १७.२२॥
१७.२३/१प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
१७.२३/२सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ १७.२३॥
१७.२४/१एतस्मिन्न् एव काले तु बभ्रुर्मतिमतां वरः ।
१७.२४/२नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥ १७.२४॥
१७.२५/१दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
१७.२५/२स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ १७.२५॥
१७.२६/१अथ रत्नानि चान्यानि धनानि विविधानि च ।
१७.२६/२षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ १७.२६॥
१७.२७/१अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
१७.२७/२बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ १७.२७॥
१७.२८/१अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः ।
१७.२८/२गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान् ॥ १७.२८॥
१७.२९/१सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः ।
१७.२९/२आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ १७.२९॥
१७.३०/१अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः ।
१७.३०/२हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ १७.३०॥
१७.३१/१ज्ञातिभेदभयात् कृष्णस्तमुपेक्षितवांस्तदा ।
१७.३१/२अपयाते तदाक्रूरे नावर्षत् पाकशासनः ॥ १७.३१॥
१७.३२/१अनावृष्ट्या तदा राष्ट्रमभवद् बहुधा कृशम् ।
१७.३२/२ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ १७.३२॥
१७.३३/१पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
१७.३३/२प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥ १७.३३॥
१७.३४/१कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् ।
१७.३४/२अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः ॥ १७.३४॥
१७.३५/१अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
१७.३५/२सभामध्यगतः प्राह तमक्रूरं जनार्दनः ॥ १७.३५॥
१७.३६/१श्रीकृष्ण उवाच । यत् तद् रत्नं मणिवरं तव हस्तगतं विभो ।
१७.३६/२तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ १७.३६॥
१७.३७/१षष्टिवर्षगते काले यो रोषोऽभून् ममानघ ।
१७.३७/२स संरूढोऽसकृत् प्राप्तस्ततः कालात्ययो महान् ॥ १७.३७॥
१७.३८/१स ततः कृष्णवचनात् सर्वसात्वतसंसदि ।
१७.३८/२प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ १७.३८॥
१७.३९/१ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्ताद् अरिंदमः ।
१७.३९/२ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ १७.३९॥
१७.४०/१स कृष्णहस्तात् सम्प्राप्तं मणिरत्नं स्यमन्तकम् ।
१७.४०/२आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव ॥ १७.४०॥
१८.१/१मुनय ऊचुः । अहो सुमहद् आख्यानं भवता परिकीर्तितम् ।
१८.१/२भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१॥
१८.२/१देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
१८.२/२दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १८.२॥
१८.३/१अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।
१८.३/२विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ १८.३॥
१८.४/१सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते ।
१८.४/२प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ १८.४॥
१८.५/१स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् ।
१८.५/२त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम् ॥ १८.५॥
१८.६/१कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा ।
१८.६/२मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम् ॥ १८.६॥
१८.७/१इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः ।
१८.७/२वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ १८.७॥
१८.८/१यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः ।
१८.८/२वनानि सरितः पुण्य+ ।देवादीनां महामते ॥ १८.८॥
१८.९/१यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् ।
१८.९/२संस्थानमस्य जगतो यथावद् वक्तुमर्हसि ॥ १८.९॥
१८.१०/१लोमहर्षण उवाच । मुनयः श्रूयतामेतत् संक्षेपाद् वदतो मम ।
१८.१०/२नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः ॥ १८.१०॥
१८.११/१जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः ।
१८.११/२कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १८.११॥
१८.१२/१एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
१८.१२/२लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १८.१२॥
१८.१३/१जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः ।
१८.१३/२तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १८.१३॥
१८.१४/१चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः ।
१८.१४/२प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥ १८.१४॥
१८.१५/१मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः ।
१८.१५/२भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ १८.१५॥
१८.१६/१हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे ।
१८.१६/२नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ १८.१६॥
१८.१७/१लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।
१८.१७/२सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १८.१७॥
१८.१८/१भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ।
१८.१८/२हरिवर्षं तथैवान्यन् मेरोर्दक्षिणतो द्विजाः ॥ १८.१८॥
१८.१९/१रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् ।
१८.१९/२उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १८.१९॥
१८.२०/१नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।
१८.२०/२इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १८.२०॥
१८.२१/१मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् ।
१८.२१/२इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ १८.२१॥
१८.२२/१विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः ।
१८.२२/२पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ १८.२२॥
१८.२३/१विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ।
१८.२३/२कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ १८.२३॥
१८.२४/१एकादशशतायामाः पादपा गिरिकेतवः ।
१८.२४/२जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ १८.२४॥
१८.२५/१महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै ।
१८.२५/२पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १८.२५॥
१८.२६/१रसेन तेषां विख्याता तत्र जम्बूनदीति वै ।
१८.२६/२सरित् प्रवर्तते सा च पीयते तन्निवासिभिः ॥ १८.२६॥
१८.२७/१न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
१८.२७/२तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ १८.२७॥
१८.२८/१तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता ।
१८.२८/२जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १८.२८॥
१८.२९/१भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
१८.२९/२वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ १८.२९॥
१८.३०/१वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
१८.३०/२वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम् ॥ १८.३०॥
१८.३१/१अरुणोदं महाभद्रमसितोदं समानसम् ।
१८.३१/२सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ १८.३१॥
१८.३२/१शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा ।
१८.३२/२वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ १८.३२॥
१८.३३/१त्रिकूटः शिशिरश्चैव पतंगो रुचकस्तथा ।
१८.३३/२निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ १८.३३॥
१८.३४/१शिखिवासः सवैदूर्यः कपिलो गन्धमादनः ।
१८.३४/२जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः ॥ १८.३४॥
१८.३५/१मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः ।
१८.३५/२शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः ॥ १८.३५॥
१८.३६/१कालञ्जराद्याश्च तथा उत्तरे केसराचलाः ।
१८.३६/२चतुर्दश सहस्राणि योजनानां महापुरी ॥ १८.३६॥
१८.३७/१मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि ।
१८.३७/२तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ १८.३७॥
१८.३८/१इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ।
१८.३८/२विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ १८.३८॥
१८.३९/१समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि ।
१८.३९/२सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ १८.३९॥
१८.४०/१सीता चालकनन्दा च चक्षुर्बध्रा च वै क्रमात् ।
१८.४०/२पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ १८.४०॥
१८.४१/१ततश्च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् ।
१८.४१/२तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ १८.४१॥
१८.४२/१प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः ।
१८.४२/२चक्षुश्च पश्चिमगिरीन् अतीत्य सकलांस्ततः ॥ १८.४२॥
१८.४३/१पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् ।
१८.४३/२भद्रा तथोत्तरगिरीन् उत्तरांश्च तथा कुरून् ॥ १८.४३॥
१८.४४/१अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः ।
१८.४४/२आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ १८.४४॥
१८.४५/१तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।
१८.४५/२भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ १८.४५॥
१८.४६/१पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः ।
१८.४६/२जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ १८.४६॥
१८.४७/१तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।
१८.४७/२गन्धमादनकैलासौ पूर्वपश्चात् तु तावुभौ ॥ १८.४७॥
१८.४८/१अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।
१८.४८/२निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ १८.४८॥
१८.४९/१तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।
१८.४९/२मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ १८.४९॥
१८.५०/१त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ ।
१८.५०/२पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ १८.५०॥
१८.५१/१इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः ।
१८.५१/२जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ १८.५१॥
१८.५२/१मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः ।
१८.५२/२शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ १८.५२॥
१८.५३/१शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः ।
१८.५३/२सुरम्याणि तथा तासु काननानि पुराणि च ॥ १८.५३॥
१८.५४/१लक्ष्मीविष्ण्वग्निसूर्येन्द्र+ ।देवानां मुनिसत्तमाः ।
१८.५४/२तास्वायतनवर्याणि जुष्टानि नरकिंनरैः ॥ १८.५४॥
१८.५५/१गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः ।
१८.५५/२क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ १८.५५॥
१८.५६/१भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः ।
१८.५६/२नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ १८.५६॥
१८.५७/१भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः ।
१८.५७/२वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ १८.५७॥
१८.५८/१मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः ।
१८.५८/२विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ १८.५८॥
१८.५९/१सर्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः ।
१८.५९/२यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ १८.५९॥
१८.६०/१न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ।
१८.६०/२सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ १८.६०॥
१८.६१/१दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ।
१८.६१/२नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ १८.६१॥
१८.६२/१कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।
१८.६२/२सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ।
१८.६२/३नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥ १८.६२॥
१९.१/१लोमहर्षण उवाच । उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे ।
१९.१/२वर्षं तद् भारतं नाम भारती यत्र संततिः ॥ १९.१॥
१९.२/१नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः ।
१९.२/२कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ १९.२॥
१९.३/१महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।
१९.३/२विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १९.३॥
१९.४/१अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयाति वै ।
१९.४/२तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ १९.४॥
१९.५/१इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति ।
१९.५/२न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ १९.५॥
१९.६/१भारतस्यास्य वर्षस्य नव भेदान् निशामय ।
१९.६/२इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ १९.६॥
१९.७/१नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।
१९.७/२अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ १९.७॥
१९.८/१योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् ।
१९.८/२पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ १९.८॥
१९.९/१ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
१९.९/२इज्यायुद्धवणिज्याद्य+ ।वृत्तिमन्तो व्यवस्थिताः ॥ १९.९॥
१९.१०/१शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः ।
१९.१०/२वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १९.१०॥
१९.११/१नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः ।
१९.११/२तापीपयोष्णीनिर्विन्ध्या+ ।कावेरीप्रमुखा नदीः ॥ १९.११॥
१९.१२/१ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः ।
१९.१२/२गोदावरीभीमरथी+ ।कृष्णवेण्यादिकास्तथा ॥ १९.१२॥
१९.१३/१सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
१९.१३/२कृतमालाताम्रपर्णी+ ।प्रमुखा मलयोद्भवाः ॥ १९.१३॥
१९.१४/१त्रिसांध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
१९.१४/२ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १९.१४॥
१९.१५/१आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।
१९.१५/२तास्विमे कुरुपञ्चाल+ ंअध्यदेशादयो जनाः ॥ १९.१५॥
१९.१६/१पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ।
१९.१६/२पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १९.१६॥
१९.१७/१तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः ।
१९.१७/२मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १९.१७॥
१९.१८/१सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः ।
१९.१८/२मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १९.१८॥
१९.१९/१आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
१९.१९/२समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९.१९॥
१९.२०/१वसन्ति भारते वर्षे युगान्यत्र महामुने ।
१९.२०/२कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १९.२०॥
१९.२१/१तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ।
१९.२१/२दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १९.२१॥
१९.२२/१पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
१९.२२/२यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ १९.२२॥
१९.२३/१अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ।
१९.२३/२यतो हि कर्मभूरेषा यतोऽन्या भोगभूमयः ॥ १९.२३॥
१९.२४/१अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
१९.२४/२कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयन् ॥ १९.२४॥
१९.२५/१गायन्ति देवाः किल गीतकानि ।
१९.२५/२धन्यास्तु ये भारतभूमिभागे ।
१९.२५/३स्वर्गापवर्गास्पदहेतुभूते ।
१९.२५/४भवन्ति भूयः पुरुषा मनुष्याः ॥ १९.२५॥
१९.२६/१कर्माण्यसंकल्पिततत्फलानि ।
१९.२६/२संन्यस्य विष्णौ परमात्मरूपे ।
१९.२६/३अवाप्य तां कर्ममहीमनन्ते ।
१९.२६/४तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ १९.२६॥
१९.२७/१जानीम नो तत्कूवयं विलीने ।
१९.२७/२स्वर्गप्रदे कर्मणि देहबन्धम् ।
१९.२७/३प्राप्स्यन्ति धन्याः खलु ते मनुष्या ।
१९.२७/४ये भारतेनेन्द्रियविप्रहीनाः ॥ १९.२७॥
१९.२८/१नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया ।
१९.२८/२लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः ॥ १९.२८॥
१९.२९/१जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
१९.२९/२भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ १९.२९॥
२०.१/१लोमहर्षण उवाच । क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।
२०.१/२संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१॥
२०.२/१जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः ।
२०.२/२स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः ॥ २०.२॥
२०.३/१सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
२०.३/२श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ २०.३॥
२०.४/१सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
२०.४/२ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २०.४॥
२०.५/१पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा ।
२०.५/२आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २०.५॥
२०.६/१मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।
२०.६/२सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः ॥ २०.६॥
२०.७/१गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा ।
२०.७/२सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ २०.७॥
२०.८/१वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।
२०.८/२वसन्ति देवगन्धर्व+ ।सहिताः सहितं प्रजाः ॥ २०.८॥
२०.९/१तेषु पुण्या जनपदा वीरा न म्रियते जनः ।
२०.९/२नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २०.९॥
२०.१०/१तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।
२०.१०/२नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २०.१०॥
२०.११/१अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः ।
२०.११/२अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २०.११॥
२०.१२/१एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः ।
२०.१२/२क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ २०.१२॥
२०.१३/१ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
२०.१३/२अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ २०.१३॥
२०.१४/१न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु ।
२०.१४/२त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ २०.१४॥
२०.१५/१प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै ।
२०.१५/२पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ २०.१५॥
२०.१६/१धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः ।
२०.१६/२वर्णाश्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः ॥ २०.१६॥
२०.१७/१आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये ।
२०.१७/२विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ २०.१७॥
२०.१८/१जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः ।
२०.१८/२प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ २०.१८॥
२०.१९/१इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः ।
२०.१९/२सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २०.१९॥
२०.२०/१प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
२०.२०/२तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २०.२०॥
२०.२१/१इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः ।
२०.२१/२संक्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २०.२१॥
२०.२२/१शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः ।
२०.२२/२तेषां तु नाम संज्ञानि सप्तवर्षाणि तानि वै ॥ २०.२२॥
२०.२३/१श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ।
२०.२३/२वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ २०.२३॥
२०.२४/१शाल्मनश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः ।
२०.२४/२विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २०.२४॥
२०.२५/१तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।
२०.२५/२वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ २०.२५॥
२०.२६/१कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः ।
२०.२६/२द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २०.२६॥
२०.२७/१कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
२०.२७/२ककुद्मान् पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ २०.२७॥
२०.२८/१श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी ।
२०.२८/२निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २०.२८॥
२०.२९/१श्वेतं च लोहितं चैव जीमूतं हरितं तथा ।
२०.२९/२वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २०.२९॥
२०.३०/१सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च ।
२०.३०/२वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ २०.३०॥
२०.३१/१कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् ।
२०.३१/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥ २०.३१॥
२०.३२/१भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
२०.३२/२वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥ २०.३२॥
२०.३३/१देवानामत्र सांनिध्यमतीव सुमनोहरे ।
२०.३३/२शाल्मलिश्च महावृक्षो नामनिर्वृत्तिकारकः ॥ २०.३३॥
२०.३४/१एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
२०.३४/२विस्ताराच्छाल्मलेश्चैव समेन तु समन्ततः ॥ २०.३४॥
२०.३५/१सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।
२०.३५/२शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ २०.३५॥
२०.३६/१ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् ।
२०.३६/२उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥ २०.३६॥
२०.३७/१प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः ।
२०.३७/२तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ २०.३७॥
२०.३८/१तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः ।
२०.३८/२वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ २०.३८॥
२०.३९/१दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः ।
२०.३९/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २०.३९॥
२०.४०/१यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते ।
२०.४०/२तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ २०.४०॥
२०.४१/१यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ।
२०.४१/२विद्रुमो हेमशैलश्च द्युतिमान् पुष्टिमांस्तथा ॥ २०.४१॥
२०.४२/१कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ।
२०.४२/२वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ २०.४२॥
२०.४३/१नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् ।
२०.४३/२धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ २०.४३॥
२०.४४/१विद्युद् अम्भो मही चान्या सर्वपापहरास्त्विमाः ।
२०.४४/२अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ २०.४४॥
२०.४५/१कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् ।
२०.४५/२तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ २०.४५॥
२०.४६/१घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ।
२०.४६/२क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ २०.४६॥
२०.४७/१कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः ।
२०.४७/२क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ २०.४७॥
२०.४८/१तन्नामानि च वर्षाणि तेषां चक्रे महामनाः ।
२०.४८/२कुशगो मन्दगश्चोष्णः पीवरोऽथान्धकारकः ॥ २०.४८॥
२०.४९/१मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः ।
२०.४९/२तत्रापि देवगन्धर्व+ ।सेविताः सुमनोरमाः ॥ २०.४९॥
२०.५०/१वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः ।
२०.५०/२क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥ २०.५०॥
२०.५१/१देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् ।
२०.५१/२दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ॥ २०.५१॥
२०.५२/१द्वीपाद् द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा ।
२०.५२/२वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥ २०.५२॥
२०.५३/१निवसन्ति निरातङ्काः सह देवगणैः प्रजाः ।
२०.५३/२पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥ २०.५३॥
२०.५४/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ।
२०.५४/२तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ २०.५४॥
२०.५५/१सप्त प्रधानाः शतशस्तथान्याः क्षुद्रनिम्नगाः ।
२०.५५/२गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ॥ २०.५५॥
२०.५६/१ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ।
२०.५६/२तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्जनार्दनः ॥ २०.५६॥
२०.५७/१ध्यानयोगै रुद्ररूप ईज्यते यज्ञसंनिधौ ।
२०.५७/२क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ २०.५७॥
२०.५८/१आवृतः सर्वतः क्रौञ्च+ ।द्वीपतुल्येन मानतः ।
२०.५८/२दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ २०.५८॥
२०.५९/१क्रौञ्चद्वीपस्य विस्तार+ ।द्विगुणेन द्विजोत्तमाः ।
२०.५९/२शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ २०.५९॥
२०.६०/१सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः ।
२०.६०/२जलदश्च कुमारश्च सुकुमारो मनीरकः ॥ २०.६०॥
२०.६१/१कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः ।
२०.६१/२तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥ २०.६१॥
२०.६२/१तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः ।
२०.६२/२पूर्वस्तत्रोदयगिरिर्जलधारस्तथापरः ॥ २०.६२॥
२०.६३/१तथा रैवतकः श्यामस्तथैवाम्भोगिरिर्द्विजाः ।
२०.६३/२आस्तिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २०.६३॥
२०.६४/१शाकश्चात्र महावृक्षः सिद्धगन्धर्वसेवितः ।
२०.६४/२यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः ॥ २०.६४॥
२०.६५/१तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
२०.६५/२निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ २०.६५॥
२०.६६/१नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ।
२०.६६/२सुकुमारी कुमारी च नलिनी रेणुका च या ॥ २०.६६॥
२०.६७/१इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा ।
२०.६७/२अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ २०.६७॥
२०.६८/१महीधरास्तथा सन्ति शतशोऽथ सहस्रशः ।
२०.६८/२ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ २०.६८॥
२०.६९/१वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः ।
२०.६९/२नद्यश्चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम् ॥ २०.६९॥
२०.७०/१धर्महानिर्न तेष्वस्ति न संहर्षो न शुक् तथा ।
२०.७०/२मर्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥ २०.७०॥
२०.७१/१मगाश्च मागधाश्चैव मानसा मन्दगास्तथा ।
२०.७१/२मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥ २०.७१॥
२०.७२/१वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः ।
२०.७२/२शाकद्वीपे स्थितैर्विष्णुः सूर्यरूपधरो हरिः ॥ २०.७२॥
२०.७३/१यथोक्तैरिज्यते सम्यक् कर्मभिर्नियतात्मभिः ।
२०.७३/२शाकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥ २०.७३॥
२०.७४/१शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ।
२०.७४/२क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ २०.७४॥
२०.७५/१द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः ।
२०.७५/२पुष्करे सवनस्यापि महावीतोऽभवत् सुतः ॥ २०.७५॥
२०.७६/१धातकिश्च तयोस्तद्वद् द्वे वर्षे नामसंज्ञिते ।
२०.७६/२महावीतं तथैवान्यद् धातकीखण्डसंज्ञितम् ॥ २०.७६॥
२०.७७/१एकश्चात्र महाभागाः प्रख्यातो वर्षपर्वतः ।
२०.७७/२मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ २०.७७॥
२०.७८/१योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः ।
२०.७८/२तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २०.७८॥
२०.७९/१पुष्करद्वीपवलयं मध्येन विभजन्न् इव ।
२०.७९/२स्थितोऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ २०.७९॥
२०.८०/१वलयाकारमेकैकं तयोर्मध्ये महागिरिः ।
२०.८०/२दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २०.८०॥
२०.८१/१निरामया विशोकाश्च रागद्वेषविवर्जिताः ।
२०.८१/२अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विजाः ॥ २०.८१॥
२०.८२/१नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च ।
२०.८२/२महावीतं बहिर्वर्षं धातकीखण्डमन्ततः ॥ २०.८२॥
२०.८३/१मानसोत्तरशैलस्य देवदैत्यादिसेवितम् ।
२०.८३/२सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते ॥ २०.८३॥
२०.८४/१न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ।
२०.८४/२तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ २०.८४॥
२०.८५/१वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् ।
२०.८५/२त्रयीवार्त्तादण्डनीति+ ।शुश्रूषारहितं च तत् ॥ २०.८५॥
२०.८६/१वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयमुत्तमः ।
२०.८६/२सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ २०.८६॥
२०.८७/१पुष्करे धातकीखण्डे महावीते च वै द्विजाः ।
२०.८७/२न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ २०.८७॥
२०.८८/१तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः ।
२०.८८/२स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ २०.८८॥
२०.८९/१समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा ।
२०.८९/२एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥ २०.८९॥
२०.९०/१द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ ।
२०.९०/२पयांसि सर्वदा सर्व+ ।समुद्रेषु समानि वै ॥ २०.९०॥
२०.९१/१न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते ।
२०.९१/२स्थालीस्थमग्निसंयोगाद् उद्रेकि सलिलं यथा ॥ २०.९१॥
२०.९२/१तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः ।
२०.९२/२अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ॥ २०.९२॥
२०.९३/१उदयास्तमने त्विन्दोः पक्षयोः शुक्लकृष्णयोः ।
२०.९३/२दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ २०.९३॥
२०.९४/१अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः ।
२०.९४/२भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥ २०.९४॥
२०.९५/१भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि ।
२०.९५/२स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ २०.९५॥
२०.९६/१द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ।
२०.९६/२लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ २०.९६॥
२०.९७/१उच्छ्रयेणापि तावन्ति सहस्राण्यावलोहि सः ।
२०.९७/२ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ २०.९७॥
२०.९८/१तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् ।
२०.९८/२पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ॥ २०.९८॥
२०.९९/१सहैवाण्डकटाहेन सद्वीपा समहीधरा ।
२०.९९/२सेयं धात्री विधात्री च सर्वभूतगुणाधिका ।
२०.९९/३आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ २०.९९॥
२१.१/१लोमहर्षण उवाच । विस्तार एष कथितः पृथिव्या मुनिसत्तमाः ।
२१.१/२सप्ततिस्तु सहस्राणि तदुच्छ्रायोऽपि कथ्यते ॥ २१.१॥
२१.२/१दशसाहस्रमेकैकं पातालं मुनिसत्तमाः ।
२१.२/२अतलं वितलं चैव नितलं सुतलं तथा ॥ २१.२॥
२१.३/१तलातलं रसातलं पातालं चापि सप्तमम् ।
२१.३/२कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ २१.३॥
२१.४/१भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः ।
२१.४/२तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ २१.४॥
२१.५/१नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः ।
२१.५/२स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः ॥ २१.५॥
२१.६/१प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् ।
२१.६/२आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ २१.६॥
२१.७/१नागाभरणभूषाश्च पातालं केन तत्समम् ।
२१.७/२दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ २१.७॥
२१.८/१पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ।
२१.८/२दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ २१.८॥
२१.९/१शशिनश्च न शीताय निशि द्योताय केवलम् ।
२१.९/२भक्ष्यभोज्यमहापान+ ंअदमत्तैश्च भोगिभिः ॥ २१.९॥
२१.१०/१यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः ।
२१.१०/२वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ २१.१०॥
२१.११/१पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च ।
२१.११/२भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ २१.११॥
२१.१२/१वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः ।
२१.१२/२एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ २१.१२॥
२१.१३/१दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ।
२१.१३/२पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ २१.१३॥
२१.१४/१शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ।
२१.१४/२योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ २१.१४॥
२१.१५/१सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः ।
२१.१५/२फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥ २१.१५॥
२१.१६/१सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान् ।
२१.१६/२मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः ॥ २१.१६॥
२१.१७/१किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः ।
२१.१७/२नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ २१.१७॥
२१.१८/१साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः ।
२१.१८/२लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलमुत्तमम् ॥ २१.१८॥
२१.१९/१उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ।
२१.१९/२कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ २१.१९॥
२१.२०/१संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ।
२१.२०/२स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ २१.२०॥
२१.२१/१आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ।
२१.२१/२तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ २१.२१॥
२१.२२/१नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ।
२१.२२/२यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २१.२२॥
२१.२३/१आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ।
२१.२३/२यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ॥ २१.२३॥
२१.२४/१तदा चलति भूरेषा साद्रितोयाधिकानना ।
२१.२४/२गन्धर्वाप्सरसः सिद्धाः किंनरोरगवारणाः ॥ २१.२४॥
२१.२५/१नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः ।
२१.२५/२यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ २१.२५॥
२१.२६/१मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् ।
२१.२६/२यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ २१.२६॥
२१.२७/१ज्ञातवान् सकलं चैव निमित्तपठितं फलम् ।
२१.२७/२तेनेयं नागवर्येण शिरसा विधृता मही ।
२१.२७/३बिभर्ति सकलांल्लोकान् सदेवासुरमानुषान् ॥ २१.२७॥
२२.१/१लोमहर्षण उवाच । ततश्चानन्तरं विप्रा नरका रौरवादयः ।
२२.१/२पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः ॥ २२.१॥
२२.२/१रौरवः शौकरो रोधस्तानो विशसनस्तथा ।
२२.२/२महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ २२.२॥
२२.३/१रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः ।
२२.३/२असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २२.३॥
२२.४/१तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः ।
२२.४/२सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ २२.४॥
२२.५/१श्वभोजनोऽथाप्रतिष्ठोम+ ।आवीचिश्च तथापरः ।
२२.५/२इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २२.५॥
२२.६/१यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः ।
२२.६/२पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ २२.६॥
२२.७/१कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् ।
२२.७/२यश्चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥ २२.७॥
२२.८/१भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः ।
२२.८/२यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ २२.८॥
२२.९/१सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे ।
२२.९/२प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ २२.९॥
२२.१०/१राजन्यवैश्यहा चैव तथैव गुरुतल्पगः ।
२२.१०/२तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ २२.१०॥
२२.११/१माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी ।
२२.११/२तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ २२.११॥
२२.१२/१सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते ।
२२.१२/२अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २२.१२॥
२२.१३/१वेददूषयिता यश्च वेदविक्रयकश्च यः ।
२२.१३/२अगम्यगामी यश्च स्यात् ते यान्ति शबलं द्विजाः ॥ २२.१३॥
२२.१४/१चौरो विमोहे पतति मर्यादादूषकस्तथा ।
२२.१४/२देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ २२.१४॥
२२.१५/१स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् ।
२२.१५/२पितृदेवातिथीन् यस्तु पर्यश्नाति नराधमः ॥ २२.१५॥
२२.१६/१लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके ।
२२.१६/२करोति कर्णिनो यश्च यश्च खड्गादिकृन् नरः ॥ २२.१६॥
२२.१७/१प्रयान्त्येते विशसने नरके भृशदारुणे ।
२२.१७/२असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ २२.१७॥
२२.१८/१अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः ।
२२.१८/२कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा ॥ २२.१८॥
२२.१९/१लाक्षामांसरसानां च तिलानां लवणस्य च ।
२२.१९/२विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ २२.१९॥
२२.२०/१मार्जारकुक्कुटच्छाग+ ।श्ववराहविहंगमान् ।
२२.२०/२पोषयन् नरकं याति तमेव द्विजसत्तमाः ॥ २२.२०॥
२२.२१/१रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा ।
२२.२१/२सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ २२.२१॥
२२.२२/१अगारदाही मित्रघ्नः शकुनिग्रामयाजकः ।
२२.२२/२रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २२.२२॥
२२.२३/१मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
२२.२३/२रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ २२.२३॥
२२.२४/१ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये ।
२२.२४/२असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २२.२४॥
२२.२५/१औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै ।
२२.२५/२यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ २२.२५॥
२२.२६/१व्रतोपलोपको यश्च स्वाश्रमाद् विच्युतश्च यः ।
२२.२६/२संदंशयातनामध्ये पततस्तावुभावपि ॥ २२.२६॥
२२.२७/१दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः ।
२२.२७/२पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २२.२७॥
२२.२८/१एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
२२.२८/२येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२.२८॥
२२.२९/१तथैव पापान्येतानि तथान्यानि सहस्रशः ।
२२.२९/२भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ २२.२९॥
२२.३०/१वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
२२.३०/२कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २२.३०॥
२२.३१/१अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः ।
२२.३१/२देवाश्चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान् ॥ २२.३१॥
२२.३२/१स्थावराः कृमयोऽज्वाश्च पक्षिणः पशवो नराः ।
२२.३२/२धार्मिकास्त्रिदशास्तद्वन् मोक्षिणश्च यथाक्रमम् ॥ २२.३२॥
२२.३३/१सहस्रभागः प्रथमाद् द्वितीयोऽनुक्रमात् तथा ।
२२.३३/२सर्वे ह्येते महाभागा यावन् मुक्तिसमाश्रयाः ॥ २२.३३॥
२२.३४/१यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
२२.३४/२पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २२.३४॥
२२.३५/१पापानामनुरूपाणि प्रायश्चित्तानि यद् यथा ।
२२.३५/२तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २२.३५॥
२२.३६/१पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
२२.३६/२प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ २२.३६॥
२२.३७/१प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
२२.३७/२यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ २२.३७॥
२२.३८/१कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
२२.३८/२प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २२.३८॥
२२.३९/१प्रातर्निशि तथा संध्या+ ंअध्याह्नादिषु संस्मरन् ।
२२.३९/२नारायणमवाप्नोति सद्यः पापक्षयान् नरः ॥ २२.३९॥
२२.४०/१विष्णुसंस्मरणात् क्षीण+ ।समस्तक्लेशसंचयः ।
२२.४०/२मुक्तिं प्रयाति भो विप्रा विष्णोस्तस्यानुकीर्तनात् ॥ २२.४०॥
२२.४१/१वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
२२.४१/२तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ २२.४१॥
२२.४२/१क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
२२.४२/२क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २२.४२॥
२२.४३/१तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः ।
२२.४३/२न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥ २२.४३॥
२२.४४/१मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः ।
२२.४४/२नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ २२.४४॥
२२.४५/१वस्त्वेकमेव दुःखाय सुखायेर्ष्योदयाय च ।
२२.४५/२कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ॥ २२.४५॥
२२.४६/१तद् एव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
२२.४६/२तद् एव कोपालयतः प्रसादाय च जायते ॥ २२.४६॥
२२.४७/१तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् ।
२२.४७/२मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥ २२.४७॥
२२.४८/१ज्ञानमेव परं ब्रह्मा+ ।ज्ञानं बन्धाय चेष्यते ।
२२.४८/२ज्ञानात्मकमिदं विश्वं न ज्ञानाद् विद्यते परम् ॥ २२.४८॥
२२.४९/१विद्याविद्ये हि भो विप्रा ज्ञानमेवावधार्यताम् ।
२२.४९/२एवमेतद् मयाख्यातं भवतां मण्डलं भुवः ॥ २२.४९॥
२२.५०/१पातालानि च सर्वाणि तथैव नरका द्विजाः ।
२२.५०/२समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः ।
२२.५०/३संक्षेपात् सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २२.५०॥
२३.१/१मुनय ऊचुः । कथितं भवता सर्वमस्माकं सकलं तथा ।
२३.१/२भुवर्लोकादिकांल्लोकाञ् श्रोतुमिच्छामहे वयम् ॥ २३.१॥
२३.२/१तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा ।
२३.२/२समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ २३.२॥
२३.३/१लोमहर्षण उवाच । रविचन्द्रमसोर्यावन् मयूखैरवभास्यते ।
२३.३/२ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २३.३॥
२३.४/१यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला ।
२३.४/२नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २३.४॥
२३.५/१भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् ।
२३.५/२लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ २३.५॥
२३.६/१पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
२३.६/२नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते ॥ २३.६॥
२३.७/१द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।
२३.७/२तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ २३.७॥
२३.८/१अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
२३.८/२लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ २३.८॥
२३.९/१सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः ।
२३.९/२सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ २३.९॥
२३.१०/१ऋषिभ्यस्तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः ।
२३.१०/२मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २३.१०॥
२३.११/१त्रैलोक्यमेतत् कथितं संक्षेपेण द्विजोत्तमाः ।
२३.११/२इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २३.११॥
२३.१२/१ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
२३.१२/२एकयोजनकोटी तु महर्लोको विधीयते ॥ २३.१२॥
२३.१३/१द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
२३.१३/२सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ २३.१३॥
२३.१४/१चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् ।
२३.१४/२वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ २३.१४॥
२३.१५/१षड्गुणेन तपोलोकात् सत्यलोको विराजते ।
२३.१५/२अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ २३.१५॥
२३.१६/१पादगम्यं तु यत् किंचिद् वस्त्वस्ति पृथिवीमयम् ।
२३.१६/२स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥ २३.१६॥
२३.१७/१भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् ।
२३.१७/२भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥ २३.१७॥
२३.१८/१ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश ।
२३.१८/२स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः ॥ २३.१८॥
२३.१९/१त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते ।
२३.१९/२जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २३.१९॥
२३.२०/१कृतकाकृतको मध्ये महर्लोक इति स्मृतः ।
२३.२०/२शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति ॥ २३.२०॥
२३.२१/१एते सप्त महालोका मया वः कथिता द्विजाः ।
२३.२१/२पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २३.२१॥
२३.२२/१एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वमधस्तथा ।
२३.२२/२कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २३.२२॥
२३.२३/१दशोत्तरेण पयसा द्विजाश्चाण्डं च तद् वृतम् ।
२३.२३/२स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः ॥ २३.२३॥
२३.२४/१वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः ।
२३.२४/२आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २३.२४॥
२३.२५/१दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै ।
२३.२५/२महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २३.२५॥
२३.२६/१अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ।
२३.२६/२तद् अनन्तमसंख्यातं प्रमाणेनापि वै यतः ॥ २३.२६॥
२३.२७/१हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः ।
२३.२७/२अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २३.२७॥
२३.२८/१ईदृशानां तथा तत्र कोटिकोटिशतानि च ।
२३.२८/२दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमान् इह ॥ २३.२८॥
२३.२९/१प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः ।
२३.२९/२प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ २३.२९॥
२३.३०/१विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ ।
२३.३०/२तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३०॥
२३.३१/१क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः ।
२३.३१/२यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ २३.३१॥
२३.३२/१जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् ।
२३.३२/२यथा च पादपो मूल+ ।स्कन्धशाखादिसंयुतः ॥ २३.३२॥
२३.३३/१आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः ।
२३.३३/२प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥ २३.३३॥
२३.३४/१तेऽपि तल्लक्षणद्रव्य+ ।कारणानुगता द्विजाः ।
२३.३४/२एवमव्याकृतात् पूर्वं जायन्ते महदादयः ॥ २३.३४॥
२३.३५/१विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः ।
२३.३५/२तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥ २३.३५॥
२३.३६/१बीजाद् वृक्षप्ररोहेण यथा नापचयस्तरोः ।
२३.३६/२भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ २३.३६॥
२३.३७/१संनिधानाद् यथाकाश+ ।कालाद्याः कारणं तरोः ।
२३.३७/२तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ २३.३७॥
२३.३८/१व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा ।
२३.३८/२काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः ॥ २३.३८॥
२३.३९/१तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः ।
२३.३९/२प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥ २३.३९॥
२३.४०/१तथा कर्मस्वनेकेषु देवाद्यास्तनवः स्थिताः ।
२३.४०/२विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ २३.४०॥
२३.४१/१स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् ।
२३.४१/२जगच्च यो यत्र चेदं यस्मिन् विलयमेष्यति ॥ २३.४१॥
२३.४२/१तद् ब्रह्म परमं धाम सदसत् परमं पदम् ।
२३.४२/२यस्य सर्वमभेदेन जगद् एतच्चराचरम् ॥ २३.४२॥
२३.४३/१स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः ।
२३.४३/२तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति ॥ २३.४३॥
२३.४४/१कर्ता क्रियाणां स च इज्यते क्रतुः ।
२३.४४/२स एव तत्कर्मफलं च तस्य यत् ।
२३.४४/३युगादि यस्माच्च भवेद् अशेषतो ।
२३.४४/४हरेर्न किंचिद् व्यतिरिक्तमस्ति तत् ॥ २३.४४॥
२४.१/१लोमहर्षण उवाच । तारामयं भगवतः शिशुमाराकृति प्रभोः ।
२४.१/२दिवि रूपं हरेर्यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१॥
२४.२/१सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।
२४.२/२भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २४.२॥
२४.३/१सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
२४.३/२वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २४.३॥
२४.४/१शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि ।
२४.४/२नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ २४.४॥
२४.५/१उत्तानपादतनयस्तमाराध्य प्रजापतिम् ।
२४.५/२स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २४.५॥
२४.६/१आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
२४.६/२ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ २४.६॥
२४.७/१तद् आधारं जगच्चेदं सदेवासुरमानुषम् ।
२४.७/२येन विप्रा विधानेन तन् मे शृणुत साम्प्रतम् ॥ २४.७॥
२४.८/१विवस्वान् अष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः ।
२४.८/२वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ २४.८॥
२४.९/१विवस्वान् अंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।
२४.९/२सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ २४.९॥
२४.१०/१जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ।
२४.१०/२न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ २४.१०॥
२४.११/१अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
२४.११/२संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ २४.११॥
२४.१२/१सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः ।
२४.१२/२चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः ॥ २४.१२॥
२४.१३/१आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् ।
२४.१३/२अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २४.१३॥
२४.१४/१तस्य संस्पर्शनिर्धूत+ ।पापपङ्को द्विजोत्तमाः ।
२४.१४/२न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥ २४.१४॥
२४.१५/१दृष्टसूर्यं हि तद् वारि पतत्यभ्रैर्विना दिवः ।
२४.१५/२आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥ २४.१५॥
२४.१६/१कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद् दिवः ।
२४.१६/२दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम् ॥ २४.१६॥
२४.१७/१युग्मर्क्षेषु तु यत् तोयं पतत्यर्कोद्गितं दिवः ।
२४.१७/२तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ २४.१७॥
२४.१८/१उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः ।
२४.१८/२आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ २४.१८॥
२४.१९/१यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः ।
२४.१९/२पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ २४.१९॥
२४.२०/१तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
२४.२०/२साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २४.२०॥
२४.२१/१तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः ।
२४.२१/२कुर्वतेऽहरहश्चैव देवान् आप्याययन्ति ते ॥ २४.२१॥
२४.२२/१एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः ।
२४.२२/२सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ २४.२२॥
२४.२३/१वृष्ट्या धृतमिदं सर्वं जगत् स्थावरजङ्गमम् ।
२४.२३/२सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २४.२३॥
२४.२४/१आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः ।
२४.२४/२ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः ॥ २४.२४॥
२४.२५/१हृदि नारायणस्तस्य शिशुमारस्य संस्थितः ।
२४.२५/२विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४.२५॥
२४.२६/१एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् ।
२४.२६/२भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ २४.२६॥
२५.१/१मुनय ऊचुः । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
२५.१/२वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ २५.१॥
२५.२/१लोमहर्षण उवाच । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
२५.२/२विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २५.२॥
२५.३/१मनो विशुद्धं पुरुषस्य तीर्थम् ।
२५.३/२वाचां तथा चेन्द्रियनिग्रहश्च ।
२५.३/३एतानि तीर्थानि शरीरजानि ।
२५.३/४स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ २५.३॥
२५.४/१चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ।
२५.४/२शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ २५.४॥
२५.५/१न तीर्थानि न दानानि न व्रतानि न चाश्रमाः ।
२५.५/२दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ २५.५॥
२५.६/१इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः ।
२५.६/२तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ २५.६॥
२५.७/१तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च ।
२५.७/२संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ २५.७॥
२५.८/१विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि ।
२५.८/२प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ २५.८॥
२५.९/१प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः ।
२५.९/२धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ २५.९॥
२५.१०/१पुण्यं च मगधारण्यं दण्डकारण्यमेव च ।
२५.१०/२गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ २५.१०॥
२५.११/१भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् ।
२५.११/२लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ २५.११॥
२५.१२/१महाबलं कोटितीर्थं सर्वपापहरं तथा ।
२५.१२/२रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ २५.१२॥
२५.१३/१योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा ।
२५.१३/२तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ २५.१३॥
२५.१४/१सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा ।
२५.१४/२कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ २५.१४॥
२५.१५/१धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् ।
२५.१५/२गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ २५.१५॥
२५.१६/१चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् ।
२५.१६/२दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ २५.१६॥
२५.१७/१तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा ।
२५.१७/२ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ २५.१७॥
२५.१८/१चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशधारकम् ।
२५.१८/२मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी ॥ २५.१८॥
२५.१९/१लोकपालं मनुवरं सोमाह्वशैलमेव च ।
२५.१९/२सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ २५.१९॥
२५.२०/१महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् ।
२५.२०/२सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २५.२०॥
२५.२१/१शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् ।
२५.२१/२बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २५.२१॥
२५.२२/१शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा ।
२५.२२/२अग्निप्रभं च पुंनागं देवप्रभमनुत्तमम् ॥ २५.२२॥
२५.२३/१विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् ।
२५.२३/२सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २५.२३॥
२५.२४/१तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा ।
२५.२४/२मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २५.२४॥
२५.२५/१स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा ।
२५.२५/२कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५.२५॥
२५.२६/१गभस्तितीर्थं च तथा ययातिपतनं शुचि ।
२५.२६/२कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २५.२६॥
२५.२७/१नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् ।
२५.२७/२पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम् ॥ २५.२७॥
२५.२८/१तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् ।
२५.२८/२ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २५.२८॥
२५.२९/१शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च ।
२५.२९/२पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २५.२९॥
२५.३०/१मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् ।
२५.३०/२यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ २५.३०॥
२५.३१/१पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् ।
२५.३१/२दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ २५.३१॥
२५.३२/१गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च ।
२५.३२/२वस्त्रापदं दारुवलं छायारोहणमेव च ॥ २५.३२॥
२५.३३/१सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च ।
२५.३३/२वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ २५.३३॥
२५.३४/१द्वीपं सारस्वतं चैव विजयं कामदं तथा ।
२५.३४/२रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ २५.३४॥
२५.३५/१स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् ।
२५.३५/२सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ २५.३५॥
२५.३६/१दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् ।
२५.३६/२कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ २५.३६॥
२५.३७/१पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् ।
२५.३७/२बदरीवनमासीनं रत्नमूलकमेव च ॥ २५.३७॥
२५.३८/१लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च ।
२५.३८/२सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥ २५.३८॥
२५.३९/१तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् ।
२५.३९/२कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ २५.३९॥
२५.४०/१स्नानलोमापहं चैव माससंसरकं तथा ।
२५.४०/२दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ॥ २५.४०॥
२५.४१/१सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् ।
२५.४१/२ईटास्पदं कोटिकूटं किंदानं किंजपं तथा ॥ २५.४१॥
२५.४२/१कारण्डवं चावेध्यं च त्रिविष्टपमथापरम् ।
२५.४२/२पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ २५.४२॥
२५.४३/१कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् ।
२५.४३/२दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ २५.४३॥
२५.४४/१अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् ।
२५.४४/२श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ २५.४४॥
२५.४५/१ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च ।
२५.४५/२ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ २५.४५॥
२५.४६/१सौगन्धिकवनं चैव मणितीर्थं सरस्वती ।
२५.४६/२ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ २५.४६॥
२५.४७/१त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् ।
२५.४७/२शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ २५.४७॥
२५.४८/१क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् ।
२५.४८/२ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ॥ २५.४८॥
२५.४९/१कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च ।
२५.४९/२स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥ २५.४९॥
२५.५०/१रुद्रावर्तं सुगन्धाश्वं कपिलावनमेव च ।
२५.५०/२भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ २५.५०॥
२५.५१/१सप्तसारस्वतं चैव तीर्थमौशनसं तथा ।
२५.५१/२कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ २५.५१॥
२५.५२/१चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् ।
२५.५२/२रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥ २५.५२॥
२५.५३/१स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् ।
२५.५३/२विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ २५.५३॥
२५.५४/१गङ्गाह्रदं वटं चैव बदरीपाटनं तथा ।
२५.५४/२इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥ २५.५४॥
२५.५५/१सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः ।
२५.५५/२कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ २५.५५॥
२५.५६/१अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् ।
२५.५६/२अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ २५.५६॥
२५.५७/१वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् ।
२५.५७/२उर्वीसंक्रमणं चैव मायाविद्योद्भवं तथा ॥ २५.५७॥
२५.५८/१महाश्रमो वैतसिका+ ।रूपं सुन्दरिकाश्रमम् ।
२५.५८/२बाहुतीर्थं चारुनदीं विमलाशोकमेव च ॥ २५.५८॥
२५.५९/१तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः ।
२५.५९/२सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ २५.५९॥
२५.६०/१सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च ।
२५.६०/२अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ २५.६०॥
२५.६१/१पिशाचमोचनं चैव सुभद्राह्रदमेव च ।
२५.६१/२कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ २५.६१॥
२५.६२/१ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा ।
२५.६२/२जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ २५.६२॥
२५.६३/१अजामुखसरं चैव घण्टाकर्णह्रदं तथा ।
२५.६३/२पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ २५.६३॥
२५.६४/१सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा ।
२५.६४/२कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रिका ॥ २५.६४॥
२५.६५/१श्मशानस्तम्भकूपं च विनायकह्रदं तथा ।
२५.६५/२कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ २५.६५॥
२५.६६/१रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् ।
२५.६६/२भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ २५.६६॥
२५.६७/१ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् ।
२५.६७/२शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ २५.६७॥
२५.६८/१दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् ।
२५.६८/२दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ २५.६८॥
२५.६९/१कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च ।
२५.६९/२प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ २५.६९॥
२५.७०/१धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च ।
२५.७०/२पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ २५.७०॥
२५.७१/१ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा ।
२५.७१/२कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ २५.७१॥
२५.७२/१विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च ।
२५.७२/२निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ॥ २५.७२॥
२५.७३/१देवकूटं च कूपं च वसिष्ठाश्रममेव च ।
२५.७३/२वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ २५.७३॥
२५.७४/१कुमारधारा श्रीधारा गौरीशिखरमेव च ।
२५.७४/२शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च ॥ २५.७४॥
२५.७५/१कुमारवासं श्रीवासमौर्वीशीतार्थमेव च ।
२५.७५/२कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ॥ २५.७५॥
२५.७६/१धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा ।
२५.७६/२संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ २५.७६॥
२५.७७/१शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् ।
२५.७७/२पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ २५.७७॥
२५.७८/१रामतीर्थं पितृवनं विरजातीर्थमेव च ।
२५.७८/२मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ २५.७८॥
२५.७९/१रोहिणीकूपप्रवरमिन्द्रद्युम्नसरं च यत् ।
२५.७९/२सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ २५.७९॥
२५.८०/१इषुतीर्थं वार्षभं च कावेरीह्रदमेव च ।
२५.८०/२कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ॥ २५.८०॥
२५.८१/१बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् ।
२५.८१/२जातीह्रदं देवकूपं कुशप्रवणमेव च ॥ २५.८१॥
२५.८२/१सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा ।
२५.८२/२तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम् ॥ २५.८२॥
२५.८३/१तथान्यच्च महर्षीणामखण्डितह्रदं तथा ।
२५.८३/२तीर्थेष्वेतेषु विधिवत् सम्यक् श्रद्धासमन्वितः ॥ २५.८३॥
२५.८४/१स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः ।
२५.८४/२देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य च क्रमात् ॥ २५.८४॥
२५.८५/१अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम् ।
२५.८५/२पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ २५.८५॥
२५.८६/१प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः ।
२५.८६/२यस्त्विदं शृणुयान् नित्यं तीर्थमाहात्म्यमुत्तमम् ।
२५.८६/३पठेच्च श्रावयेद् वापि सर्वपापैः प्रमुच्यते ॥ २५.८६॥
२६.१/१मुनय ऊचुः । पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् ।
२६.१/२तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१॥
२६.२/१लोमहर्षण उवाच । इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा ।
२६.२/२तमहं सम्प्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः ॥ २६.२॥
२६.३/१स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते ।
२६.३/२नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ २६.३॥
२६.४/१पुंनागैः कर्णिकारैश्च सरलैर्देवदारुभिः ।
२६.४/२शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ २६.४॥
२६.५/१पाटलाशोकबकुलैः करवीरैः सचम्पकैः ।
२६.५/२अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ २६.५॥
२६.६/१कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् ।
२६.६/२महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ २६.६॥
२६.७/१अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् ।
२६.७/२पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ २६.७॥
२६.८/१पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् ।
२६.८/२द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ २६.८॥
२६.९/१कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतमः ।
२६.९/२वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः ॥ २६.९॥
२६.१०/१विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः ।
२६.१०/२सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ २६.१०॥
२६.११/१माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा ।
२६.११/२मौद्गल्यस्तृणयज्ञश्च पिप्पलादोऽकृतव्रणः ॥ २६.११॥
२६.१२/१संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा ।
२६.१२/२शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ २६.१२॥
२६.१३/१नारदः पर्वतश्चैव वैशम्पायनगालवौ ।
२६.१३/२भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ २६.१३॥
२६.१४/१उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः ।
२६.१४/२सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ २६.१४॥
२६.१५/१एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः ।
२६.१५/२रराज स मुनिः श्रीमान् नक्षत्रैरिव चन्द्रमाः ॥ २६.१५॥
२६.१६/१तान् आगतान् मुनीन् सर्वान् पूजयामास वेदवित् ।
२६.१६/२तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ २६.१६॥
२६.१७/१कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् ।
२६.१७/२पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ २६.१७॥
२६.१८/१मुनय ऊचुः । मुने वेदांश्च शास्त्राणि पुराणागमभारतम् ।
२६.१८/२भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ २६.१८॥
२६.१९/१कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे ।
२६.१९/२रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ २६.१९॥
२६.२०/१इन्द्रियावर्तकलिले दृष्टोर्मिशतसंकुले ।
२६.२०/२मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २६.२०॥
२६.२१/१निमज्जज्जगद् आलोक्य निरालम्बमचेतनम् ।
२६.२१/२पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २६.२१॥
२६.२२/१श्रेयः किमत्र संसारे भैरवे लोमहर्षणे ।
२६.२२/२उपदेशप्रदानेन लोकान् उद्धर्तुमर्हसि ॥ २६.२२॥
२६.२३/१दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् ।
२६.२३/२पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ २६.२३॥
२६.२४/१कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् ।
२६.२४/२प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २६.२४॥
२६.२५/१मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः ।
२६.२५/२तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टोऽसि द्विजोत्तम ॥ २६.२५॥
२६.२६/१श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् ।
२६.२६/२व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित् ॥ २६.२६॥
२६.२७/१व्यास उवाच । शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ ।
२६.२७/२यः संवादोऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह ॥ २६.२७॥
२६.२८/१मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते ।
२६.२८/२नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २६.२८॥
२६.२९/१नानापक्षिरुते रम्ये नानाप्रसवनाकुले ।
२६.२९/२नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २६.२९॥
२६.३०/१नानावर्णशिलाकीर्णे नानाधातुविभूषिते ।
२६.३०/२नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ २६.३०॥
२६.३१/१तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् ।
२६.३१/२जगत्पतिं जगद्वन्द्यं जगदाधारमीश्वरम् ॥ २६.३१॥
२६.३२/१देवदानवगन्धर्वैर्यक्षविद्याधरोरगैः ।
२६.३२/२मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥ २६.३२॥
२६.३३/१केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः ।
२६.३३/२केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे ॥ २६.३३॥
२६.३४/१एवं प्रमुदिते काले सर्वभूतसमागमे ।
२६.३४/२नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ २६.३४॥
२६.३५/१भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् ।
२६.३५/२इममर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः ॥ २६.३५॥
२६.३६/१ऋषय ऊचुः । भगवञ् श्रोतुमिच्छामः कर्मभूमिं महीतले ।
२६.३६/२वक्तुमर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ २६.३६॥
२६.३७/१व्यास उवाच । तेषां वचनमाकर्ण्य प्राह ब्रह्मा सुरेश्वरः ।
२६.३७/२पप्रच्छुस्ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः ॥ २६.३७॥
२७.१/१ब्रह्मोवाच । शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् ।
२७.१/२पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१॥
२७.२/१पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता ।
२७.२/२कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २७.२॥
२७.३/१तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः ।
२७.३/२अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ २७.३॥
२७.४/१ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः ।
२७.४/२प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः ॥ २७.४॥
२७.५/१धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः ।
२७.५/२प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः ॥ २७.५॥
२७.६/१इन्द्राद्याश्च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः ।
२७.६/२कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ २७.६॥
२७.७/१अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः ।
२७.७/२तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ २७.७॥
२७.८/१ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ।
२७.८/२तेऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः ॥ २७.८॥
२७.९/१निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः ।
२७.९/२स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम् ॥ २७.९॥
२७.१०/१मुनय ऊचुः । यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ।
२७.१०/२पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ २७.१०॥
२७.११/१ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते ।
२७.११/२न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ २७.११॥
२७.१२/१तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद ।
२७.१२/२यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च ॥ २७.१२॥
२७.१३/१तस्माद् वर्षमिदं नाथ ये वास्मिन् वर्षपर्वताः ।
२७.१३/२भेदाश्च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः ॥ २७.१३॥
२७.१४/१ब्रह्मोवाच । शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः ।
२७.१४/२समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ २७.१४॥
२७.१५/१इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ।
२७.१५/२नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ २७.१५॥
२७.१६/१अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।
२७.१६/२योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः ॥ २७.१६॥
२७.१७/१पूर्वे किराता यस्यासन् पश्चिमे यवनास्तथा ।
२७.१७/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ २७.१७॥
२७.१८/१इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ।
२७.१८/२तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ २७.१८॥
२७.१९/१स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा ।
२७.१९/२महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ॥ २७.१९॥
२७.२०/१विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः ।
२७.२०/२तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २७.२०॥
२७.२१/१विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः ।
२७.२१/२कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २७.२१॥
२७.२२/१वातंधयो वैद्युतश्च मैनाकः सुरसस्तथा ।
२७.२२/२तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ २७.२२॥
२७.२३/१पुष्पगिरिर्वैजयन्तो रैवतोऽर्बुद एव च ।
२७.२३/२ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २७.२३॥
२७.२४/१श्रीपार्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ।
२७.२४/२तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २७.२४॥
२७.२५/१तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः ।
२७.२५/२गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ २७.२५॥
२७.२६/१यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः ।
२७.२६/२गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २७.२६॥
२७.२७/१विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा ।
२७.२७/२कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७.२७॥
२७.२८/१देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च ।
२७.२८/२वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २७.२८॥
२७.२९/१चर्मण्वती वृषी चैव विदिशा वेदवत्यपि ।
२७.२९/२सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २७.२९॥
२७.३०/१शोणा महानदी चैव नर्मदा सुरथा क्रिया ।
२७.३०/२मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ २७.३०॥
२७.३१/१चित्रोत्पला वेत्रवती करमोदा पिशाचिका ।
२७.३१/२तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ २७.३१॥
२७.३२/१सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः ।
२७.३२/२ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ २७.३२॥
२७.३३/१सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा ।
२७.३३/२वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ २७.३३॥
२७.३४/१तोया चैव महागौरी दुर्गा चान्तःशिला तथा ।
२७.३४/२विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ २७.३४॥
२७.३५/१गोदावरी भीमरथी कृष्णवेणा तथापगा ।
२७.३५/२तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ २७.३५॥
२७.३६/१सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः ।
२७.३६/२कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ २७.३६॥
२७.३७/१मलयाद्रिसमुद्भूताः पुण्याः शीतजलास्त्विमाः ।
२७.३७/२पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ २७.३७॥
२७.३८/१लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ।
२७.३८/२सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ २७.३८॥
२७.३९/१क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।
२७.३९/२सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ २७.३९॥
२७.४०/१विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः ।
२७.४०/२अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ २७.४०॥
२७.४१/१प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः ।
२७.४१/२मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥ २७.४१॥
२७.४२/१अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह ।
२७.४२/२मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ २७.४२॥
२७.४३/१सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी ।
२७.४३/२पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ २७.४३॥
२७.४४/१गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः ।
२७.४४/२वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ २७.४४॥
२७.४५/१अपरान्ताश्च शूद्राश्च वाह्लिकाश्च सकेरलाः ।
२७.४५/२गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ २७.४५॥
२७.४६/१शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः ।
२७.४६/२माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ २७.४६॥
२७.४७/१क्षत्रियोपमदेशाश्च वैश्यशूद्रकुलानि च ।
२७.४७/२काम्बोजाश्चैव विप्रेन्द्रा बर्बराश्च सलौकिकाः ॥ २७.४७॥
२७.४८/१वीराश्चैव तुषाराश्च पह्लवाधायता नराः ।
२७.४८/२आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ २७.४८॥
२७.४९/१लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह ।
२७.४९/२औषध्यश्चलचन्द्रा च किरातानां च जातयः ॥ २७.४९॥
२७.५०/१तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा ।
२७.५०/२शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ २७.५०॥
२७.५१/१एते देशा उदीच्यास्तु प्राच्यान् देशान् निबोधत ।
२७.५१/२अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ २७.५१॥
२७.५२/१तथापरेऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः ।
२७.५२/२भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ २७.५२॥
२७.५३/१प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।
२७.५३/२मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ २७.५३॥
२७.५४/१अथापरे जनपदा दक्षिणापथवासिनः ।
२७.५४/२पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ २७.५४॥
२७.५५/१ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः ।
२७.५५/२महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ २७.५५॥
२७.५६/१आभीराः सह वैशिक्या अटव्याः सरवाश्च ये ।
२७.५६/२पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ २७.५६॥
२७.५७/१पौलिका मौलिकाश्चैव अश्मका भोजवर्धनाः ।
२७.५७/२कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ २७.५७॥
२७.५८/१दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोधत ।
२७.५८/२शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ २७.५८॥
२७.५९/१इत्येते ह्यपरान्ताश्च शृणुध्वं विन्ध्यवासिनः ।
२७.५९/२मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥ २७.५९॥
२७.६०/१उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ।
२७.६०/२तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ २७.६०॥
२७.६१/१तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह ।
२७.६१/२अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ २७.६१॥
२७.६२/१एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः ।
२७.६२/२अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ २७.६२॥
२७.६३/१नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः ।
२७.६३/२कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥ २७.६३॥
२७.६४/१चित्रमार्गा मालवाश्च किरातास्तोमरैः सह ।
२७.६४/२कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ २७.६४॥
२७.६५/१एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् ।
२७.६५/२दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ २७.६५॥
२७.६६/१हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः ।
२७.६६/२तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ २७.६६॥
२७.६७/१ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा ।
२७.६७/२मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥ २७.६७॥
२७.६८/१स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः ।
२७.६८/२प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ २७.६८॥
२७.६९/१देवानामपि भो विप्राः सदैवैष मनोरथः ।
२७.६९/२अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ॥ २७.६९॥
२७.७०/१मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः ।
२७.७०/२तत्कर्मनिगडग्रस्तैस्तत्कर्मक्षपणोन्मुखैः ॥ २७.७०॥
२७.७१/१न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः ।
२७.७१/२यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥ २७.७१॥
२७.७२/१धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः ।
२७.७२/२धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ २७.७२॥
२७.७३/१प्राप्यते यत्र तपसः फलं परमदुर्लभम् ।
२७.७३/२सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ २७.७३॥
२७.७४/१तीर्थयात्राफलं चैव गुरुसेवाफलं तथा ।
२७.७४/२देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ २७.७४॥
२७.७५/१यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् ।
२७.७५/२नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ २७.७५॥
२७.७६/१अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम् ।
२७.७६/२ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम् ॥ २७.७६॥
२७.७७/१यत् फलं वनवासेन संन्यासेन च यत् फलम् ।
२७.७७/२इष्टापूर्तफलं चैव तथान्यच्छुभकर्मणाम् ॥ २७.७७॥
२७.७८/१प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः ।
२७.७८/२कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः ॥ २७.७८॥
२७.७९/१एवं सम्यङ् मया प्रोक्तं भारतं वर्षमुत्तमम् ।
२७.७९/२सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ २७.७९॥
२७.८०/१य इदं शृणुयान् नित्यं पठेद् वा नियतेन्द्रियः ।
२७.८०/२सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २७.८०॥
२८.१/१ब्रह्मोवाच । तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः ।
२८.१/२ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१॥
२८.२/१समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् ।
२८.२/२देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलंकृतः ॥ २८.२॥
२८.३/१तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः ।
२८.३/२तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ २८.३॥
२८.४/१श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि ।
२८.४/२प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ २८.४॥
२८.५/१षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः ।
२८.५/२इतिहासविदश्चैव पुराणार्थविशारदाः ॥ २८.५॥
२८.६/१सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः ।
२८.६/२अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः ॥ २८.६॥
२८.७/१पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः ।
२८.७/२निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ २८.७॥
२८.८/१इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः ।
२८.८/२स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ २८.८॥
२८.९/१कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः ।
२८.९/२यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ २८.९॥
२८.१०/१मुनय ऊचुः । श्रोतुमिच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् ।
२८.१०/२तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ २८.१०॥
२८.११/१ब्रह्मोवाच । लवणस्योदधेस्तीरे पवित्रे सुमनोहरे ।
२८.११/२सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ २८.११॥
२८.१२/१चम्पकाशोकबकुलैः करवीरैः सपाटलैः ।
२८.१२/२पुंनागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ २८.१२॥
२८.१३/१तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः ।
२८.१३/२मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ २८.१३॥
२८.१४/१केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः ।
२८.१४/२कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ २८.१४॥
२८.१५/१सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः ।
२८.१५/२अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ २८.१५॥
२८.१६/१तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः ।
२८.१६/२अन्यैश्च विविधैर्वृक्षैः सर्वतः समलंकृतम् ॥ २८.१६॥
२८.१७/१क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् ।
२८.१७/२समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ २८.१७॥
२८.१८/१आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः ।
२८.१८/२कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ २८.१८॥
२८.१९/१माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः ।
२८.१९/२कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ २८.१९॥
२८.२०/१कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् ।
२८.२०/२सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः ॥ २८.२०॥
२८.२१/१देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य च द्विजाः ।
२८.२१/२उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २८.२१॥
२८.२२/१आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः ।
२८.२२/२उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ २८.२२॥
२८.२३/१विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा ।
२८.२३/२अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २८.२३॥
२८.२४/१तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् ।
२८.२४/२रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने ॥ २८.२४॥
२८.२५/१ताम्राभावेऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् ।
२८.२५/२पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २८.२५॥
२८.२६/१करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः ।
२८.२६/२आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः ॥ २८.२६॥
२८.२७/१मध्ये चाग्निदले धीमान् नैरृते श्वसने दले ।
२८.२७/२कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ २८.२७॥
२८.२८/१प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।
२८.२८/२सम्पूज्य पद्ममावाह्य गगनात् तत्र भास्करम् ॥ २८.२८॥
२८.२९/१कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् ।
२८.२९/२कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २८.२९॥
२८.३०/१सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् ।
२८.३०/२पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ २८.३०॥
२८.३१/१सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
२८.३१/२सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ २८.३१॥
२८.३२/१उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसंनिभम् ।
२८.३२/२ततस्तत् पात्रमादाय जानुभ्यां धरणीं गतः ॥ २८.३२॥
२८.३३/१कृत्वा शिरसि तत् पात्रमेकचित्तस्तु वाग्यतः ।
२८.३३/२त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ २८.३३॥
२८.३४/१अदीक्षितस्तु तस्यैव नाम्नैवार्घं प्रयच्छति ।
२८.३४/२श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥ २८.३४॥
२८.३५/१अग्निनिरृतिवाय्वीश+ ंअध्यपूर्वादिदिक्षु च ।
२८.३५/२हृच्छिरश्च शिखावर्म+ ंएत्राण्यस्त्रं च पूजयेत् ॥ २८.३५॥
२८.३६/१दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यमेव च ।
२८.३६/२जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ २८.३६॥
२८.३७/१ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः ।
२८.३७/२ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥ २८.३७॥
२८.३८/१भक्तिभावेन सततं विशुद्धेनान्तरात्मना ।
२८.३८/२ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम् ॥ २८.३८॥
२८.३९/१त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् ।
२८.३९/२ये संश्रयन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥ २८.३९॥
२८.४०/१यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् ।
२८.४०/२तावन् न पूजयेद् विष्णुं शंकरं वा सुरेश्वरम् ॥ २८.४०॥
२८.४१/१तस्मात् प्रयत्नमास्थाय दद्याद् अर्घ्यं दिने दिने ।
२८.४१/२आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥ २८.४१॥
२८.४२/१एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः ।
२८.४२/२आदित्याय शुचिः स्नातः स लभेद् ईप्सितं फलम् ॥ २८.४२॥
२८.४३/१रोगाद् विमुच्यते रोगी वित्तार्थी लभते धनम् ।
२८.४३/२विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत् ॥ २८.४३॥
२८.४४/१यं यं काममभिध्यायन् सूर्यायार्घ्यं प्रयच्छति ।
२८.४४/२तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः ॥ २८.४४॥
२८.४५/१स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च ।
२८.४५/२नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ २८.४५॥
२८.४६/१ततः सूर्यालयं गच्छेत् पुष्पमादाय वाग्यतः ।
२८.४६/२प्रविश्य पूजयेद् भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ २८.४६॥
२८.४७/१पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः ।
२८.४७/२गन्धैः पुष्पैस्तथा दीपैर्धूपैर्नैवेद्यकैरपि ॥ २८.४७॥
२८.४८/१दण्डवत् प्रणिपातैश्च जयशब्दैस्तथा स्तवैः ।
२८.४८/२एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ २८.४८॥
२८.४९/१दशानामश्वमेधानां फलं प्राप्नोति मानवः ।
२८.४९/२सर्वपापविनिर्मुक्तो युवा दिव्यवपुर्नरः ॥ २८.४९॥
२८.५०/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य भो द्विजाः ।
२८.५०/२विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ २८.५०॥
२८.५१/१उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति ।
२८.५१/२भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ २८.५१॥
२८.५२/१पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले ।
२८.५२/२चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः ॥ २८.५२॥
२८.५३/१योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् ।
२८.५३/२चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ २८.५३॥
२८.५४/१यः करोति नरस्तत्र पूर्वोक्तं स फलं लभेत् ।
२८.५४/२शयनोत्थापने भानोः संक्रान्त्यां विषुवायने ॥ २८.५४॥
२८.५५/१वारे रवेस्तिथौ चैव पर्वकालेऽथवा द्विजाः ।
२८.५५/२ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ २८.५५॥
२८.५६/१विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते ।
२८.५६/२आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥ २८.५६॥
२८.५७/१रामेश्वर इति ख्यातः सर्वकामफलप्रदः ।
२८.५७/२ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ ॥ २८.५७॥
२८.५८/१गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः ।
२८.५८/२प्रणिपातैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ २८.५८॥
२८.५९/१राजसूयफलं सम्यग् वाजिमेधफलं तथा ।
२८.५९/२प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ २८.५९॥
२८.६०/१कामगेन विमानेन किङ्किणीजालमालिना ।
२८.६०/२उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ २८.६०॥
२८.६१/१आहूतसम्प्लवं यावद् भुक्त्वा भोगान् मनोरमान् ।
२८.६१/२पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते ॥ २८.६१॥
२८.६२/१शांकरं योगमास्थाय ततो मोक्षं व्रजन्ति ते ।
२८.६२/२यस्तत्र सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥ २८.६२॥
२८.६३/१स सूर्यलोकमास्थाय देववन् मोदते दिवि ।
२८.६३/२पुनर्मानुषतां प्राप्य राजा भवति धार्मिकः ॥ २८.६३॥
२८.६४/१योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् ।
२८.६४/२एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ २८.६४॥
२८.६५/१कोणार्कस्योदधेस्तीरे भुक्तिमुक्तिफलप्रदः ॥ २८.६५॥
२९.१/१मुनय ऊचुः । श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् ।
२९.१/२भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१॥
२९.२/१न तृप्तिमधिगच्छामः शृण्वन्तः सुखदां कथाम् ।
२९.२/२तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ २९.२॥
२९.३/१अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर ।
२९.३/२देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ २९.३॥
२९.४/१प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे ।
२९.४/२दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ २९.४॥
२९.५/१उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने ।
२९.५/२अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ २९.५॥
२९.६/१कथं च क्रियते भक्तिः कथं देवः प्रसीदति ।
२९.६/२एतत् सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २९.६॥
२९.७/१ब्रह्मोवाच । अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः ।
२९.७/२भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ २९.७॥
२९.८/१मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते ।
२९.८/२ध्यानं समाधिरित्युक्तं शृणुध्वं सुसमाहिताः ॥ २९.८॥
२९.९/१तत्कथां श्रावयेद् यस्तु तद्भक्तान् पूजयीत वा ।
२९.९/२अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ २९.९॥
२९.१०/१तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा ।
२९.१०/२तत्कर्मकृद् भवेद् यस्तु स वै भक्तः सनातनः ॥ २९.१०॥
२९.११/१देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते ।
२९.११/२कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः ॥ २९.११॥
२९.१२/१नाभ्यसूयेत तद्भक्तान् न निन्द्याच्चान्यदेवताम् ।
२९.१२/२आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ २९.१२॥
२९.१३/१गच्छंस्तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि ।
२९.१३/२यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः ॥ २९.१३॥
२९.१४/१एवंविधा त्वियं भक्तिः सदा कार्या विजानता ।
२९.१४/२भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ २९.१४॥
२९.१५/१क्रियते नियमो यस्तु दानं विप्राय दीयते ।
२९.१५/२प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ २९.१५॥
२९.१६/१पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् ।
२९.१६/२प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च ॥ २९.१६॥
२९.१७/१भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता ।
२९.१७/२भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत् ॥ २९.१७॥
२९.१८/१स्तुतिजप्योपहारेण पूजयापि विवस्वतः ।
२९.१८/२उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ २९.१८॥
२९.१९/१प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः ।
२९.१९/२तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २९.१९॥
२९.२०/१भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम् ।
२९.२०/२प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ २९.२०॥
२९.२१/१सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् ।
२९.२१/२प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ २९.२१॥
२९.२२/१एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् ।
२९.२२/२नियमव्रतचारी च भवेद् भक्तिसमन्वितः ॥ २९.२२॥
२९.२३/१सप्तम्यां वा महाभागाः सोऽश्वमेधफलं लभेत् ।
२९.२३/२अहोरात्रोपवासेन पूजयेद् यस्तु भास्करम् ॥ २९.२३॥
२९.२४/१सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् ।
२९.२४/२कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २९.२४॥
२९.२५/१सर्वरत्नोपहारेण पूजयेद् यस्तु भास्करम् ।
२९.२५/२पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २९.२५॥
२९.२६/१शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः ।
२९.२६/२सर्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम् ॥ २९.२६॥
२९.२७/१सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति ।
२९.२७/२अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ २९.२७॥
२९.२८/१क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत् पुनः ।
२९.२८/२द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २९.२८॥
२९.२९/१सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी ।
२९.२९/२शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९.२९॥
२९.३०/१सप्तमी विजया नाम तत्र दत्तं महत् फलम् ।
२९.३०/२स्नानं दानं तपो होम उपवासस्तथैव च ॥ २९.३०॥
२९.३१/१सर्वं विजयसप्तम्यां महापातकनाशनम् ।
२९.३१/२ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ २९.३१॥
२९.३२/१यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् ।
२९.३२/२येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ २९.३२॥
२९.३३/१न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा ।
२९.३३/२श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ २९.३३॥
२९.३४/१उपलेपनकर्ता तु चिन्तितं लभते फलम् ।
२९.३४/२चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥ २९.३४॥
२९.३५/१पूजयेत् सोपवासो यः स कामान् ईप्सितांल्लभेत् ।
२९.३५/२घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ २९.३५॥
२९.३६/१आदित्यं पूजयेद् यस्तु चक्षुषा न स हीयते ।
२९.३६/२दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ २९.३६॥
२९.३७/१तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् ।
२९.३७/२अग्निकार्ये च दीपे च महापातकनाशनम् ॥ २९.३७॥
२९.३८/१दीपं ददाति यो नित्यं देवतायतनेषु च ।
२९.३८/२चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत् ॥ २९.३८॥
२९.३९/१हविर्भिः प्रथमः कल्पो द्वितीयश्चौषधीरसैः ।
२९.३९/२वसामेदोस्थिनिर्यासैर्न तु देयः कथंचन ॥ २९.३९॥
२९.४०/१भवेद् ऊर्ध्वगतिर्दीपो न कदाचिद् अधोगतिः ।
२९.४०/२दाता दीप्यति चाप्येवं न तिर्यग्गतिमाप्नुयात् ॥ २९.४०॥
२९.४१/१ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत् ।
२९.४१/२दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ २९.४१॥
२९.४२/१दीपदाता स्वर्गलोके दीपमालेव राजते ।
२९.४२/२यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ २९.४२॥
२९.४३/१सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया ।
२९.४३/२रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर्नरः ॥ २९.४३॥
२९.४४/१उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् ।
२९.४४/२उदयात् परिवर्तेत यावद् अस्तमने स्थितः ॥ २९.४४॥
२९.४५/१जपन्न् अभिमुखः किंचिन् मन्त्रं स्तोत्रमथापि वा ।
२९.४५/२आदित्यव्रतमेतत् तु महापातकनाशनम् ॥ २९.४५॥
२९.४६/१अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् ।
२९.४६/२उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ २९.४६॥
२९.४७/१सुवर्णधेनुअनड्वाह+ ।वसुधावस्त्रसंयुतम् ।
२९.४७/२अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ २९.४७॥
२९.४८/१अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैव च ।
२९.४८/२प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥ २९.४८॥
२९.४९/१नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा ।
२९.४९/२सघृतं गुग्गुलं वापि रवेर्भक्तिसमन्वितः ॥ २९.४९॥
२९.५०/१तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ।
२९.५०/२श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ २९.५०॥
२९.५१/१कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः ।
२९.५१/२अयने तूत्तरे सूर्यमथवा दक्षिणायने ॥ २९.५१॥
२९.५२/१पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते ।
२९.५२/२विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ २९.५२॥
२९.५३/१पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते ।
२९.५३/२एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ २९.५३॥
२९.५४/१भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते ।
२९.५४/२कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ २९.५४॥
२९.५५/१बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात् ।
२९.५५/२घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः ॥ २९.५५॥
२९.५६/१क्षीरेण तर्पणं कृत्वा मनस्तापैर्न युज्यते ।
२९.५६/२दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः ॥ २९.५६॥
२९.५७/१स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः ।
२९.५७/२तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ २९.५७॥
२९.५८/१छत्त्रं ध्वजं वितानं वा पताकां चामराणि च ।
२९.५८/२श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥ २९.५८॥
२९.५९/१यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति ।
२९.५९/२तत् तस्य शतसाहस्रमुत्पादयति भास्करः ॥ २९.५९॥
२९.६०/१मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् ।
२९.६०/२सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति ॥ २९.६०॥
२९.६१/१एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम् ।
२९.६१/२यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशतैरपि ॥ २९.६१॥
३०.१/१मुनय ऊचुः । अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते ।
३०.१/२भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ ३०.१॥
३०.२/१भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते ।
३०.२/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ३०.२॥
३०.३/१गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
३०.३/२य इच्छेन् मोक्षमास्थातुं देवतां कां यजेत सः ॥ ३०.३॥
३०.४/१कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् ।
३०.४/२स्वर्गतश्चैव किं कुर्याद् येन न च्यवते पुनः ॥ ३०.४॥
३०.५/१देवानां चात्र को देवः पितृणां चैव कः पिता ।
३०.५/२यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर ॥ ३०.५॥
३०.६/१कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् ।
३०.६/२प्रलये च कमभ्येति तद् भवान् वक्तुमर्हति ॥ ३०.६॥
३०.७/१ब्रह्मोवाच । उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः ।
३०.७/२नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः ॥ ३०.७॥
३०.८/१अनादिनिधनो ह्येष पुरुषः शाश्वतोऽव्ययः ।
३०.८/२तापयत्येष त्रींल्लोकान् भवन् रश्मिभिरुल्बणः ॥ ३०.८॥
३०.९/१सर्वदेवमयो ह्येष तपतां तपनो वरः ।
३०.९/२सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ३०.९॥
३०.१०/१संक्षिपत्येष भूतानि तथा विसृजते पुनः ।
३०.१०/२एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ ३०.१०॥
३०.११/१एष धाता विधाता च भूतादिर्भूतभावनः ।
३०.११/२न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ ३०.११॥
३०.१२/१पितृणां च पिता ह्येष देवतानां हि देवता ।
३०.१२/२ध्रुवं स्थानं स्मृतं ह्येतद् यस्मान् न च्यवते पुनः ॥ ३०.१२॥
३०.१३/१सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते ।
३०.१३/२प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ ३०.१३॥
३०.१४/१योगिनश्चाप्यसंख्यातास्त्यक्त्वा गृहकलेवरम् ।
३०.१४/२वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ ३०.१४॥
३०.१५/१अस्य रश्मिसहस्राणि शाखा इव विहंगमाः ।
३०.१५/२वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ ३०.१५॥
३०.१६/१गृहस्था जनकाद्याश्च राजानो योगधर्मिणः ।
३०.१६/२वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ ३०.१६॥
३०.१७/१वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा ।
३०.१७/२योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ ३०.१७॥
३०.१८/१शुको व्याससुतः श्रीमान् योगधर्ममवाप्य सः ।
३०.१८/२आदित्यकिरणान् गत्वा ह्यपुनर्भावमास्थितः ॥ ३०.१८॥
३०.१९/१शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः ।
३०.१९/२प्रत्यक्षोऽयं परो देवः सूर्यस्तिमिरनाशनः ॥ ३०.१९॥
३०.२०/१तस्माद् अन्यत्र भक्तिर्हि न कार्या शुभमिच्छता ।
३०.२०/२यस्माद् दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ ३०.२०॥
३०.२१/१अतो भवद्भिः सततमभ्यर्च्यो भगवान् रविः ।
३०.२१/२स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ३०.२१॥
३०.२२/१अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः ।
३०.२२/२मित्रत्वे च स्थितो यस्मात् तपस्तेपे द्विजोत्तमाः ॥ ३०.२२॥
३०.२३/१अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च ।
३०.२३/२सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश ॥ ३०.२३॥
३०.२४/१लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे ।
३०.२४/२सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः ॥ ३०.२४॥
३०.२५/१ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् ।
३०.२५/२कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ ३०.२५॥
३०.२६/१इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः ।
३०.२६/२विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च ॥ ३०.२६॥
३०.२७/१आभिर्द्वादशभिस्तेन सूर्येण परमात्मना ।
३०.२७/२कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.२७॥
३०.२८/१तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता ।
३०.२८/२स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ ३०.२८॥
३०.२९/१द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता ।
३०.२९/२स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ ३०.२९॥
३०.३०/१तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता ।
३०.३०/२मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३०.३०॥
३०.३१/१चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता ।
३०.३१/२स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ ३०.३१॥
३०.३२/१पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता ।
३०.३२/२अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३२॥
३०.३३/१मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता ।
३०.३३/२वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥ ३०.३३॥
३०.३४/१भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता ।
३०.३४/२भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ ३०.३४॥
३०.३५/१मूर्तिर्या त्वष्टमी तस्य विवस्वान् इति विश्रुता ।
३०.३५/२अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥ ३०.३५॥
३०.३६/१नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः ।
३०.३६/२प्रादुर्भवति सा नित्यं देवानामरिसूदनी ॥ ३०.३६॥
३०.३७/१दशमी तस्य या मूर्तिरंशुमान् इति विश्रुता ।
३०.३७/२वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ ३०.३७॥
३०.३८/१मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता ।
३०.३८/२जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३८॥
३०.३९/१मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति संज्ञिता ।
३०.३९/२लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ ३०.३९॥
३०.४०/१वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा ।
३०.४०/२अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः ॥ ३०.४०॥
३०.४१/१एवं सा जगतां मूर्तिर्हिता विहिता पुरा ।
३०.४१/२तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम् ॥ ३०.४१॥
३०.४२/१आभिर्द्वादशभिस्तेन सवित्रा परमात्मना ।
३०.४२/२कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.४२॥
३०.४३/१तस्माद् ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु ।
३०.४३/२भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना ॥ ३०.४३॥
३०.४४/१इत्येवं द्वादशादित्यान् नमस्कृत्वा तु मानवः ।
३०.४४/२नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ ३०.४४॥
३०.४५/१मुनय ऊचुः । यदि तावद् अयं सूर्यश्चादिदेवः सनातनः ।
३०.४५/२ततः कस्मात् तपस्तेपे वरेप्सुः प्राकृतो यथा ॥ ३०.४५॥
३०.४६/१ब्रह्मोवाच । एतद् वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः ।
३०.४६/२पृष्टं मित्रेण यत् पूर्वं नारदाय महात्मने ॥ ३०.४६॥
३०.४७/१प्राङ् मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः ।
३०.४७/२मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥ ३०.४७॥
३०.४८/१अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे ।
३०.४८/२मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत् तदा ॥ ३०.४८॥
३०.४९/१अथ मेरुगिरेः शृङ्गात् प्रच्युतो गन्धमादनात् ।
३०.४९/२नारदस्तु महायोगी सर्वांल्लोकांश्चरन् वशी ॥ ३०.४९॥
३०.५०/१आजगामाथ तत्रैव यत्र मित्रोऽचरत् तपः ।
३०.५०/२तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५०॥
३०.५१/१योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः ।
३०.५१/२धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ ३०.५१॥
३०.५२/१यः पिता सर्वदेवानां पराणामपि यः परः ।
३०.५२/२अयजद् देवताः कास्तु पितृन् वा कान् असौ यजेत् ।
३०.५२/३इति संचिन्त्य मनसा तं देवं नारदोऽब्रवीत् ॥ ३०.५२॥
३०.५३/१नारद उवाच । वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
३०.५३/२त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥ ३०.५३॥
३०.५४/१भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम् ।
३०.५४/२चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥ ३०.५४॥
३०.५५/१यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम् ।
३०.५५/२पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ ३०.५५॥
३०.५६/१यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ ३०.५६॥
३०.५७/१मित्र उवाच । अवाच्यमेतद् वक्तव्यं परं गुह्यं सनातनम् ।
३०.५७/२त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम् ॥ ३०.५७॥
३०.५८/१यत् तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।
३०.५८/२इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ ३०.५८॥
३०.५९/१स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते ।
३०.५९/२त्रिगुणाद् व्यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः ॥ ३०.५९॥
३०.६०/१हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः ।
३०.६०/२महान् इति च योगेषु प्रधानमिति कथ्यते ॥ ३०.६०॥
३०.६१/१सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः ।
३०.६१/२स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः ॥ ३०.६१॥
३०.६२/१धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना ।
३०.६२/२अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ॥ ३०.६२॥
३०.६३/१वसन्न् अपि शरीरेषु न स लिप्येत कर्मभिः ।
३०.६३/२ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ ३०.६३॥
३०.६४/१सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् ।
३०.६४/२सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥ ३०.६४॥
३०.६५/१सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
३०.६५/२सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३०.६५॥
३०.६६/१विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
३०.६६/२एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ ३०.६६॥
३०.६७/१क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् ।
३०.६७/२तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ३०.६७॥
३०.६८/१अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते ।
३०.६८/२विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ ३०.६८॥
३०.६९/१तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः ।
३०.६९/२तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ ३०.६९॥
३०.७०/१महापुरुषशब्दं हि बिभर्त्येकः सनातनः ।
३०.७०/२स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥ ३०.७०॥
३०.७१/१शतधा सहस्रधा चैव तथा शतसहस्रधा ।
३०.७१/२कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ ३०.७१॥
३०.७२/१आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा ।
३०.७२/२भूमे रसविशेषेण तथा गुणरसात् तु सः ॥ ३०.७२॥
३०.७३/१एक एव यथा वायुर्देहेष्वेव हि पञ्चधा ।
३०.७३/२एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ ३०.७३॥
३०.७४/१स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम् ।
३०.७४/२संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात् ॥ ३०.७४॥
३०.७५/१यथा दीपसहस्राणि दीप एकः प्रसूयते ।
३०.७५/२तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ ३०.७५॥
३०.७६/१यदा स बुध्यत्यात्मानं तदा भवति केवलः ।
३०.७६/२एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ ३०.७६॥
३०.७७/१नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
३०.७७/२अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते ॥ ३०.७७॥
३०.७८/१तस्माद् अव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः ।
३०.७८/२अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥ ३०.७८॥
३०.७९/१तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः ।
३०.७९/२लोके च पूज्यते योऽसौ दैवे पित्र्ये च कर्मणि ॥ ३०.७९॥
३०.८०/१नास्ति तस्मात् परो ह्यन्यः पिता देवोऽपि वा द्विजाः ।
३०.८०/२आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥ ३०.८०॥
३०.८१/१स्वर्गेष्वपि हि ये केचित् तं नमस्यन्ति देहिनः ।
३०.८१/२तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ ३०.८१॥
३०.८२/१तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः ।
३०.८२/२भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥ ३०.८२॥
३०.८३/१स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ।
३०.८३/२एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ ३०.८३॥
३०.८४/१ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः ।
३०.८४/२एतद् अप्यधिकं तेषां यद् एकं प्रविशन्त्युत ॥ ३०.८४॥
३०.८५/१इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।
३०.८५/२अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ ३०.८५॥
३०.८६/१सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम् ।
३०.८६/२सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ ३०.८६॥
३०.८७/१ब्रह्मोवाच । एवमेतत् पुराख्यातं नारदाय तु भानुना ।
३०.८७/२मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥ ३०.८७॥
३०.८८/१इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः ।
३०.८८/२न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥ ३०.८८॥
३०.८९/१यश्चैतच्छ्रावयेन् नित्यं यश्चैव शृणुयान् नरः ।
३०.८९/२स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः ॥ ३०.८९॥
३०.९०/१मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।
३०.९०/२जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥ ३०.९०॥
३०.९१/१क्षणेन लभतेऽध्वानमिदं यः पठते मुने ।
३०.९१/२यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥ ३०.९१॥
३०.९२/१तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः ।
३०.९२/२स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ ३०.९२॥
३१.१/१ब्रह्मोवाच । आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः ।
३१.१/२भवत्यस्माज्जगत् सर्वं सदेवासुरमानुषम् ॥ ३१.१॥
३१.२/१रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् ।
३१.२/२महाद्युतिमतां चैव तेजोऽयं सार्वलौकिकम् ॥ ३१.२॥
३१.३/१सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ।
३१.३/२सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३१.३॥
३१.४/१अग्नौ प्रास्ताहुतिः सम्यग् आदित्यमुपतिष्ठते ।
३१.४/२आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३१.४॥
३१.५/१सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते ।
३१.५/२भावाभावौ हि लोकानामादित्यान् निःसृतौ पुरा ॥ ३१.५॥
३१.६/१एतत् तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् ।
३१.६/२तत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात् पुनः पुनः ॥ ३१.६॥
३१.७/१क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः ।
३१.७/२मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ ३१.७॥
३१.८/१अथादित्याद् ऋते ह्येषां कालसंख्या न विद्यते ।
३१.८/२कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया ॥ ३१.८॥
३१.९/१ऋतूनामविभागश् ततः पुष्पफलं कुतः ।
३१.९/२कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ ३१.९॥
३१.१०/१अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
३१.१०/२जगत्प्रभावाद् विशते भास्कराद् वारितस्करात् ॥ ३१.१०॥
३१.११/१नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति ।
३१.११/२नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ३१.११॥
३१.१२/१वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसंनिभः ।
३१.१२/२श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३१.१२॥
३१.१३/१हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः ।
३१.१३/२इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ ३१.१३॥
३१.१४/१ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् ।
३१.१४/२अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ ३१.१४॥
३१.१५/१द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः ।
३१.१५/२आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रभाकरः ॥ ३१.१५॥
३१.१६/१मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः ।
३१.१६/२रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ ३१.१६॥
३१.१७/१विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्यमा ।
३१.१७/२विवस्वान् अंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ ३१.१७॥
३१.१८/१इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः ।
३१.१८/२उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ ३१.१८॥
३१.१९/१विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा ।
३१.१९/२विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः ॥ ३१.१९॥
३१.२०/१पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके ।
३१.२०/२इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ ३१.२०॥
३१.२१/१मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ।
३१.२१/२माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ ३१.२१॥
३१.२२/१शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा ।
३१.२२/२दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ ३१.२२॥
३१.२३/१द्विःसप्तकैर्विवस्वांस्तु अंशुमान् पञ्चभिस्त्रिभिः ।
३१.२३/२विवस्वान् इव पर्जन्यो वरुणश्चार्यमा तथा ॥ ३१.२३॥
३१.२४/१मित्रवद् भगवांस्त्वष्टा सहस्रेण शतेन च ।
३१.२४/२इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ ३१.२४॥
३१.२५/१सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः ।
३१.२५/२उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयस्तथा ॥ ३१.२५॥
३१.२६/१दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः ।
३१.२६/२एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम् ॥ ३१.२६॥
३१.२७/१एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः ।
३१.२७/२विस्तरेण सहस्रं तु पुनरन्यत् प्रकीर्तितम् ॥ ३१.२७॥
३१.२८/१मुनय ऊचुः । ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते ।
३१.२८/२तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ ३१.२८॥
३१.२९/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् ।
३१.२९/२अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम् ॥ ३१.२९॥
३१.३०/१यानि नामानि गुह्यानि पवित्राणि शुभानि च ।
३१.३०/२तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै ॥ ३१.३०॥
३१.३१/१विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
३१.३१/२लोकप्रकाशकः श्रीमांल्लोकचक्षुर्महेश्वरः ॥ ३१.३१॥
३१.३२/१लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ।
३१.३२/२तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ ३१.३२॥
३१.३३/१गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
३१.३३/२एकविंशति इत्येष स्तव इष्टः सदा रवेः ॥ ३१.३३॥
३१.३४/१शरीरारोग्यदश्चैव धनवृद्धियशस्करः ।
३१.३४/२स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ३१.३४॥
३१.३५/१य एतेन द्विजश्रेष्ठा द्विसंध्येऽस्तमनोदये ।
३१.३५/२स्तौति सूर्यं शुचिर्भूत्वा सर्वपापैः प्रमुच्यते ॥ ३१.३५॥
३१.३६/१मानसं वाचिकं वापि देहजं कर्मजं तथा ।
३१.३६/२एकजप्येन तत् सर्वं नश्यत्यर्कस्य संनिधौ ॥ ३१.३६॥
३१.३७/१एकजप्यश्च होमश्च संध्योपासनमेव च ।
३१.३७/२धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ ३१.३७॥
३१.३८/१अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे ।
३१.३८/२पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः ॥ ३१.३८॥
३१.३९/१तस्माद् यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः ।
३१.३९/२स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ ३१.३९॥
३२.१/१मुनय ऊचुः । निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः ।
३२.१/२पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः ॥ ३२.१॥
३२.२/१स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः ।
३२.२/२सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ ३२.२॥
३२.३/१ब्रह्मोवाच । दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः ।
३२.३/२अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ ३२.३॥
३२.४/१दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश ।
३२.४/२अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ ३२.४॥
३२.५/१दैत्यान् दितिर्दनुश्चोग्रान् दानवान् बलदर्पितान् ।
३२.५/२विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ३२.५॥
३२.६/१तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः ।
३२.६/२व्याप्तमेतज्जगत् सर्वं तेषां तासां च वै मुने ॥ ३२.६॥
३२.७/१तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
३२.७/२सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ ३२.७॥
३२.८/१देवान् यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् ।
३२.८/२स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ३२.८॥
३२.९/१तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः ।
३२.९/२ततो निराकृतान् पुत्रान् दैतेयैर्दानवैस्तथा ॥ ३२.९॥
३२.१०/१हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः ।
३२.१०/२आच्छिनद् यज्ञभागांश्च क्षुधा सम्पीडितान् भृशम् ॥ ३२.१०॥
३२.११/१आराधनाय सवितुः परं यत्नं प्रचक्रमे ।
३२.११/२एकाग्रा नियताहारा परं नियममास्थिता ।
३२.११/३तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ३२.११॥
३२.१२/१अदितिरुवाच । नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् ।
३२.१२/२धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ ३२.१२॥
३२.१३/१जगतामुपकाराय त्वामहं स्तौमि गोपते ।
३२.१३/२आददानस्य यद् रूपं तीव्रं तस्मै नमाम्यहम् ॥ ३२.१३॥
३२.१४/१ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् ।
३२.१४/२बिभ्रतस्तव यद् रूपमतितीव्रं नतास्मि तत् ॥ ३२.१४॥
३२.१५/१समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने ।
३२.१५/२यद् रूपम् ऋग्यजुःसाम्नामैक्येन तपते तव ॥ ३२.१५॥
३२.१६/१विश्वमेतत् त्रयीसंज्ञं नमस्तस्मै विभावसो ।
३२.१६/२यत् तु तस्मात् परं रूपमोमित्युक्त्वाभिसंहितम् ।
३२.१६/३अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ ३२.१६॥
३२.१७/१ब्रह्मोवाच । एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् ।
३२.१७/२निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ ३२.१७॥
३२.१८/१ततः कालेन महता भगवांस्तपनो द्विजाः ।
३२.१८/२प्रत्यक्षतामगात् तस्या दाक्षायण्या द्विजोत्तमाः ॥ ३२.१८॥
३२.१९/१सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम् ।
३२.१९/२भूमौ च संस्थितं भास्वज्+ ।ज्वालाभिरतिदुर्दृशम् ।
३२.१९/३तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ ३२.१९॥
३२.२१/१अदितिरुवाच । जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते ।
३२.२१/२प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर ।
३२.२१/३भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥ ३२.२१॥
३२.२२/१ब्रह्मोवाच । ततः स तेजसस्तस्माद् आविर्भूतो विभावसुः ।
३२.२२/२अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ ३२.२२॥
३२.२३/१ततस्तां प्रणतां देवीं तस्यासंदर्शने द्विजाः ।
३२.२३/२प्राह भास्वान् वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ ३२.२३॥
३२.२४/१प्रणता शिरसा सा तु जानुपीडितमेदिनी ।
३२.२४/२प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ ३२.२४॥
३२.२५/१अदितिरुवाच । देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
३२.२५/२यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ ३२.२५॥
३२.२६/१तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
३२.२६/२अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून् ॥ ३२.२६॥
३२.२७/१यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
३२.२७/२भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ ३२.२७॥
३२.२८/१तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम ।
३२.२८/२कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ ३२.२८॥
३२.२९/१ब्रह्मोवाच । ततस्तामाह भगवान् भास्करो वारितस्करः ।
३२.२९/२प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ ३२.२९॥
३२.३०/१सूर्य उवाच । सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः ।
३२.३०/२त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्याशु निर्वृतः ॥ ३२.३०॥
३२.३१/१ब्रह्मोवाच । इत्युक्त्वा भगवान् भास्वान् अन्तर्धानमुपागतः ।
३२.३१/२निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३२.३१॥
३२.३२/१ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः ।
३२.३२/२ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ ३२.३२॥
३२.३३/१निवासं सविता चक्रे देवमातुस्तदोदरे ।
३२.३३/२कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥ ३२.३३॥
३२.३४/१शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः ।
३२.३४/२ततस्तां कश्यपः प्राह किंचित्कोपप्लुताक्षरम् ॥ ३२.३४॥
३२.३५/१कश्यप उवाच । किं मारयसि गर्भाण्डमिति नित्योपवासिनी ।
३२.३५/२ब्रह्मोवाच । सा च तं प्राह गर्भाण्डमेतत् पश्येति कोपना ।
३२.३५/३न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥ ३२.३५॥
३२.३६/१इत्युक्त्वा तं तदा गर्भमुत्ससर्ज सुरारणिः ।
३२.३६/२जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥ ३२.३६॥
३२.३७/१तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चसम् ।
३२.३७/२तुष्टाव प्रणतो भूत्वा वाग्भिराद्याभिरादरात् ॥ ३२.३७॥
३२.३८/१संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् ।
३२.३८/२पद्मपत्त्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ ३२.३८॥
३२.३९/१अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम् ।
३२.३९/२सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी ॥ ३२.३९॥
३२.४०/१वाग् उवाच । मारितंतेपतः प्रोक्तमेतद् अण्डं त्वयादितेः ।
३२.४०/२तस्मान् मुने सुतस्तेऽयं मार्तण्डाख्यो भविष्यति ॥ ३२.४०॥
३२.४१/१हनिष्यत्यसुरांश्चायं यज्ञभागहरान् अरीन् ।
३२.४१/२देवा निशम्येति वचो गगनात् समुपागतम् ॥ ३२.४१॥
३२.४२/१प्रहर्षमतुलं याता दानवाश्च हतौजसः ।
३२.४२/२ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः ॥ ३२.४२॥
३२.४३/१सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः ।
३२.४३/२तेषां युद्धमभूद् घोरं देवानामसुरैः सह ॥ ३२.४३॥
३२.४४/१शस्त्रास्त्रवृष्टिसंदीप्त+ ।समस्तभुवनान्तरम् ।
३२.४४/२तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ ३२.४४॥
३२.४५/१तेजसा दह्यमानास्ते भस्मीभूता महासुराः ।
३२.४५/२ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ॥ ३२.४५॥
३२.४६/१तुष्टुवुस्तेजसां योनिं मार्तण्डमदितिं तथा ।
३२.४६/२स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्ववत् ॥ ३२.४६॥
३२.४७/१भगवान् अपि मार्तण्डः स्वाधिकारमथाकरोत् ।
३२.४७/२कदम्बपुष्पवद् भास्वान् अधश्चोर्ध्वं च रश्मिभिः ।
३२.४७/३वृतोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ ३२.४७॥
३२.४८/१मुनय ऊचुः । कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः ।
३२.४८/२कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते ॥ ३२.४८॥
३२.४९/१ब्रह्मोवाच । त्वष्टा तस्मै ददौ कन्यां संज्ञां नाम विवस्वते ।
३२.४९/२प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ ३२.४९॥
३२.५०/१त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः ।
३२.५०/२द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ ३२.५०॥
३२.५१/१यत् तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः ।
३२.५१/२तेनातितापयामास त्रींल्लोकान् सचराचरान् ॥ ३२.५१॥
३२.५२/१तद् रूपं गोलकाकारं दृष्ट्वा संज्ञा विवस्वतः ।
३२.५२/२असहन्ती महत् तेजः स्वां छायां वाक्यमब्रवीत् ॥ ३२.५२॥
३२.५३/१संज्ञोवाच । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
३२.५३/२निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥ ३२.५३॥
३२.५४/१इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।
३२.५४/२सम्भाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ३२.५४॥
३२.५५/१छायोवाच । आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् ।
३२.५५/२आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ ३२.५५॥
३२.५६/१इत्युक्ता व्रीडिता संज्ञा जगाम पितृमन्दिरम् ।
३२.५६/२वत्सराणां सहस्रं तु वसमाना पितुर्गृहे ॥ ३२.५६॥
३२.५७/१भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।
३२.५७/२आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस्ततः ॥ ३२.५७॥
३२.५८/१तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः ।
३२.५८/२पितुः समीपं यातायां संज्ञायां वाक्यतत्परा ॥ ३२.५८॥
३२.५९/१तद्रूपधारिणी छाया भास्करं समुपस्थिता ।
३२.५९/२तस्यां च भगवान् सूर्यः संज्ञेयमिति चिन्तयन् ॥ ३२.५९॥
३२.६०/१तथैव जनयामास द्वौ पुत्रौ कन्यकां तथा ।
३२.६०/२संज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥ ३२.६०॥
३२.६१/१स्नेहं न पूर्वजातानां तथा कृतवती तु सा ।
३२.६१/२मनुस्तत् क्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥ ३२.६१॥
३२.६२/१बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः ।
३२.६२/२स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
३२.६२/३पदा संतर्जयामास न तु देहे न्यपातयत् ॥ ३२.६२॥
३२.६३/१छायोवाच । पदा तर्जयसे यस्मात् पितुर्भार्यां गरीयसीम् ।
३२.६३/२तस्मात् तवैष चरणः पतिष्यति न संशयः ॥ ३२.६३॥
३२.६४/१ब्रह्मोवाच । यमस्तु तेन शापेन भृशं पीडितमानसः ।
३२.६४/२मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ ३२.६४॥
३२.६५/१यम उवाच । स्नेहेन तुल्यमस्मासु माता देव न वर्तते ।
३२.६५/२विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ ३२.६५॥
३२.६६/१तस्यां मयोद्यतः पादो न तु देहे निपातितः ।
३२.६६/२बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुमर्हसि ॥ ३२.६६॥
३२.६७/१शप्तोऽहं तात कोपेन जनन्या तनयो यतः ।
३२.६७/२ततो मन्ये न जननीमिमां वै तपतां वर ॥ ३२.६७॥
३२.६८/१तव प्रसादाच्चरणो भगवन् न पतेद् यथा ।
३२.६८/२मातृशापाद् अयं मेऽद्य तथा चिन्तय गोपते ॥ ३२.६८॥
३२.६९/१रविरुवाच । असंशयं महत् पुत्र भविष्यत्यत्र कारणम् ।
३२.६९/२येन त्वामाविशत् क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ ३२.६९॥
३२.७०/१सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
३२.७०/२न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥ ३२.७०॥
३२.७१/१न शक्यमेतन् मिथ्या तु कर्तुं मातुर्वचस्तव ।
३२.७१/२किंचित् तेऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम् ॥ ३२.७१॥
३२.७२/१कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।
३२.७२/२कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ ३२.७२॥
३२.७३/१ब्रह्मोवाच । आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।
३२.७३/२तुल्येष्वप्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥ ३२.७३॥
३२.७४/१नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता ।
३२.७४/२निर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥ ३२.७४॥
३२.७५/१सा तत्परिहरन्ती च शापाद् भीता तदा रवेः ।
३२.७५/२कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ ३२.७५॥
३२.७६/१स चापि तं यथान्यायमर्चयित्वा तदा रविम् ।
३२.७६/२निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥ ३२.७६॥
३२.७७/१विश्वकर्मोवाच । तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।
३२.७७/२असहन्ती तु तत् संज्ञा वने चरति वै तपः ॥ ३२.७७॥
३२.७८/१द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् ।
३२.७८/२रूपार्थं भवतोऽरण्ये चरन्तीं सुमहत् तपः ॥ ३२.७८॥
३२.७९/१श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने ।
३२.७९/२रूपं निर्वर्तयाम्यद्य तव कान्तं दिवस्पते ॥ ३२.७९॥
३२.८०/१ब्रह्मोवाच । ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः ।
३२.८०/२ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम् ॥ ३२.८०॥
३२.८१/१विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता ।
३२.८१/२भ्रमिमारोप्य तत्तेजः+ ।शातनायोपचक्रमे ॥ ३२.८१॥
३२.८२/१भ्रमताशेषजगतां नाभिभूतेन भास्वता ।
३२.८२/२समुद्राद्रिवनोपेता त्वारुरोह मही नभः ॥ ३२.८२॥
३२.८३/१गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् ।
३२.८३/२अधोगतं महाभागा बभूवाक्षिप्तमाकुलम् ॥ ३२.८३॥
३२.८४/१विक्षिप्तसलिलाः सर्वे बभूवुश्च तथार्णवाः ।
३२.८४/२व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ ३२.८४॥
३२.८५/१ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः ।
३२.८५/२त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ ३२.८५॥
३२.८६/१वेगभ्रमणसम्पात+ ।वायुक्षिप्ताः सहस्रशः ।
३२.८६/२व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ ३२.८६॥
३२.८७/१भास्वद्भ्रमणविभ्रान्त+ ।भूम्याकाशरसातलम् ।
३२.८७/२जगद् आकुलमत्यर्थं तदासीन् मुनिसत्तमाः ॥ ३२.८७॥
३२.८८/१त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः ।
३२.८८/२देवाश्च ब्रह्मणा सार्धं भास्वन्तमभितुष्टुवुः ॥ ३२.८८॥
३२.८९/१आदिदेवोऽसि देवानां जातस्त्वं भूतये भुवः ।
३२.८९/२सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ३२.८९॥
३२.९०/१स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षदिवाकर ।
३२.९०/२इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ ३२.९०॥
३२.९१/१जय देव जगत्स्वामिञ् जयाशेषजगत्पते ।
३२.९१/२ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ३२.९१॥
३२.९२/१तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः ।
३२.९२/२वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ ३२.९२॥
३२.९३/१अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः ।
३२.९३/२त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ ३२.९३॥
३२.९४/१त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् ।
३२.९४/२सम्पूज्यस्त्वं तु देवेश शं नोऽस्तु जगतां पते ॥ ३२.९४॥
३२.९५/१शं नोऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे ।
३२.९५/२ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ३२.९५॥
३२.९६/१कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ।
३२.९६/२ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ३२.९६॥
३२.९७/१सह्यं भवतु तेजस्ते भूतानां भूतभावन ।
३२.९७/२ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥ ३२.९७॥
३२.९८/१उपगायितुमारब्धा गान्धर्वकुशला रविम् ।
३२.९८/२षड्जमध्यमगान्धार+ ।गानत्रयविशारदाः ॥ ३२.९८॥
३२.९९/१मूर्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् ।
३२.९९/२विश्वाची च घृताची च उर्वश्यथ तिलोत्तमाः ॥ ३२.९९॥
३२.१००/१मेनका सहजन्या च रम्भा चाप्सरसां वरा ।
३२.१००/२ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ ३२.१००॥
३२.१०१/१भावहावविलासाद्यान् कुर्वत्योऽभिनयान् बहून् ।
३२.१०१/२प्रावाद्यन्त ततस्तत्र वीणा वेण्वादिझर्झराः ॥ ३२.१०१॥
३२.१०२/१पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः ।
३२.१०२/२देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः ॥ ३२.१०२॥
३२.१०३/१गायद्भिश्चैव नृत्यद्भिर्गन्धर्वैरप्सरोगणैः ।
३२.१०३/२तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥ ३२.१०३॥
३२.१०४/१ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः ।
३२.१०४/२लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ ३२.१०४॥
३२.१०५/१ततः कोलाहले तस्मिन् सर्वदेवसमागमे ।
३२.१०५/२तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ ३२.१०५॥
३२.१०६/१आजानुलिखितश्चासौ निपुणं विश्वकर्मणा ।
३२.१०६/२नाभ्यनन्दत् तु लिखनं ततस्तेनावतारितः ॥ ३२.१०६॥
३२.१०७/१न तु निर्भर्त्सितं रूपं तेजसो हननेन तु ।
३२.१०७/२कान्तात् कान्ततरं रूपमधिकं शुशुभे ततः ॥ ३२.१०७॥
३२.१०८/१इति हिमजलघर्मकालहेतोर्।
३२.१०८/२हरकमलासनविष्णुसंस्तुतस्य ।
३२.१०८/३तदुपरि लिखनं निशम्य भानोर्।
३२.१०८/४व्रजति दिवाकरलोकमायुषोऽन्ते ॥ ३२.१०८॥
३२.१०९/१एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः ।
३२.१०९/२रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ ३२.१०९॥
३३.१/१मुनय ऊचुः । भूयोऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् ।
३३.१/२न तृप्तिमधिगच्छामः शृण्वन्तस्तां कथां शुभाम् ॥ ३३.१॥
३३.२/१योऽयं दीप्तो महातेजा वह्निराशिसमप्रभः ।
३३.२/२एतद् वेदितुमिच्छामः प्रभावोऽस्य कुतः प्रभो ॥ ३३.२॥
३३.३/१ब्रह्मोवाच । तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे ।
३३.३/२प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ ३३.३॥
३३.४/१अहंकारस्ततो जातो महाभूतप्रवर्तकः ।
३३.४/२वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ ३३.४॥
३३.५/१तस्मिन्न् अण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः ।
३३.५/२पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ ३३.५॥
३३.६/१तत्रैवावस्थितो ह्यासीद् अहं विष्णुर्महेश्वरः ।
३३.६/२विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ ३३.६॥
३३.७/१ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः ।
३३.७/२ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ ३३.७॥
३३.८/१ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् ।
३३.८/२दिव्याभिः स्तुतिभिर्देवः स्तुतोऽस्माभिस्तदेश्वरः ॥ ३३.८॥
३३.९/१आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः ।
३३.९/२आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ३३.९॥
३३.१०/१जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् ।
३३.१०/२मुनिकिंनरसिद्धानां तथैवोरगपक्षिणाम् ॥ ३३.१०॥
३३.११/१त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
३३.११/२वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३३.११॥
३३.१२/१त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः ।
३३.१२/२सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ३३.१२॥
३३.१३/१प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः ।
३३.१३/२ईश्वरात् परतो विद्या विद्यायाः परतः शिवः ॥ ३३.१३॥
३३.१४/१शिवात् परतरो देवस्त्वमेव परमेश्वरः ।
३३.१४/२सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ३३.१४॥
३३.१५/१सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः ।
३३.१५/२भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ३३.१५॥
३३.१६/१प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् ।
३३.१६/२दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः ॥ ३३.१६॥
३३.१७/१सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
३३.१७/२स्तुतं परममव्यक्तं यद् रूपं तस्य ते नमः ॥ ३३.१७॥
३३.१८/१वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् ।
३३.१८/२सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः ॥ ३३.१८॥
३३.१९/१विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् ।
३३.१९/२विश्वस्थितमचिन्त्यं च यद् रूपं तस्य ते नमः ॥ ३३.१९॥
३३.२०/१परं यज्ञात् परं वेदात् परं लोकात् परं दिवः ।
३३.२०/२परमात्मेत्यभिख्यातं यद् रूपं तस्य ते नमः ॥ ३३.२०॥
३३.२१/१अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् ।
३३.२१/२अनादिनिधनं चैव यद् रूपं तस्य ते नमः ॥ ३३.२१॥
३३.२२/१नमो नमः कारणकारणाय ।
३३.२२/२नमो नमः पापविमोचनाय ।
३३.२२/३नमो नमस्ते दितिजार्दनाय ।
३३.२२/४नमो नमो रोगविमोचनाय ॥ ३३.२२॥
३३.२३/१नमो नमः सर्ववरप्रदाय ।
३३.२३/२नमो नमः सर्वसुखप्रदाय ।
३३.२३/३नमो नमः सर्वधनप्रदाय ।
३३.२३/४नमो नमः सर्वमतिप्रदाय ॥ ३३.२३॥
३३.२४/१स्तुतः स भगवान् एवं तैजसं रूपमास्थितः ।
३३.२४/२उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ ३३.२४॥
३३.२५/१देवा ऊचुः । तवातितैजसं रूपं न कश्चित् सोढुमुत्सहेत् ।
३३.२५/२सहनीयं तद् भवतु हिताय जगतः प्रभो ॥ ३३.२५॥
३३.२६/१एवमस्त्विति सोऽप्युक्त्वा भगवान् आदिकृत् प्रभुः ।
३३.२६/२लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ ३३.२६॥
३३.२७/१ततः सांख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः ।
३३.२७/२ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ ३३.२७॥
३३.२८/१सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः ।
३३.२८/२सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ ३३.२८॥
३३.२९/१अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
३३.२९/२भानोर्भक्तिनमस्कार+ ।कलां नार्हन्ति षोडशीम् ॥ ३३.२९॥
३३.३०/१तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ।
३३.३०/२पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३३.३०॥
३३.३१/१शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् ।
३३.३१/२सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ ३३.३१॥
३३.३२/१मुनय ऊचुः । चिरात् प्रभृति नो ब्रह्मञ् श्रोतुमिच्छा प्रवर्तते ।
३३.३२/२नाम्नामष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः ॥ ३३.३२॥
३३.३३/१ब्रह्मोवाच । अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम ।
३३.३३/२भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ ३३.३३॥
३३.३४/१ओं सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।
३३.३४/२गभस्तिमान् अजः कालो मृत्युर्धाता प्रभाकरः ॥ ३३.३४॥
३३.३५/१पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
३३.३५/२सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ३३.३५॥
३३.३६/१इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
३३.३६/२ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३३.३६॥
३३.३७/१वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
३३.३७/२धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ३३.३७॥
३३.३८/१कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
३३.३८/२कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ॥ ३३.३८॥
३३.३९/१संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
३३.३९/२पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३३.३९॥
३३.४०/१कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।
३३.४०/२वरुणः सागरोऽंशश्च जीमूतो जिवनोऽरिहा ॥ ३३.४०॥
३३.४१/१भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
३३.४१/२स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३३.४१॥
३३.४२/१अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
३३.४२/२जयो विशालो वरदः सर्वभूतनिषेवितः ॥ ३३.४२॥
३३.४३/१मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ।
३३.४३/२धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ ३३.४३॥
३३.४४/१द्वादशात्मा रविर्दक्षः पिता माता पितामहः ।
३३.४४/२स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ३३.४४॥
३३.४५/१देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
३३.४५/२चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ ३३.४५॥
३३.४६/१एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
३३.४६/२नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ ३३.४६॥
३३.४७/१सुरगणपितृयक्षसेवितं ह्य्।
३३.४७/२असुरनिशाकरसिद्धवन्दितम् ।
३३.४७/३वरकनकहुताशनप्रभम् ।
३३.४७/४प्रणिपतितोऽस्मि हिताय भास्करम् ॥ ३३.४७॥
३३.४८/१सूर्योदये यः सुसमाहितः पठेत् ।
३३.४८/२स पुत्रदारान् धनरत्नसंचयान् ।
३३.४८/३लभेत जातिस्मरतां नरः स तु ।
३३.४८/४स्मृतिं च मेधां च स विन्दते पराम् ॥ ३३.४८॥
३३.४९/१इमं स्तवं देववरस्य यो नरः ।
३३.४९/२प्रकीर्तयेच्छुद्धमनाः समाहितः ।
३३.४९/३विमुच्यते शोकदवाग्निसागराल् ।
३३.४९/४लभेत कामान् मनसा यथेप्सितान् ॥ ३३.४९॥
३४.१/१ब्रह्मोवाच । योऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः ।
३४.१/२उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१॥
३४.२/१विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् ।
३४.२/२गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ ३४.२॥
३४.३/१जघान पूर्वं दक्षस्य यजतो धरणीतले ।
३४.३/२यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३४.३॥
३४.४/१यस्य प्रतापसंत्रस्ताः शक्राद्यास्त्रिदिवौकसः ।
३४.४/२शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ३४.४॥
३४.५/१स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः ।
३४.५/२पिनाकपाणिर्भगवान् दक्षयज्ञविनाशनः ॥ ३४.५॥
३४.६/१महादेवोऽकले देशे कृत्तिवासा वृषध्वजः ।
३४.६/२एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ३४.६॥
३४.७/१मुनय ऊचुः । किमर्थं स भवो देवः सर्वभूतहिते रतः ।
३४.७/२जघान यज्ञं दक्षस्य देवैः सर्वैरलंकृतम् ॥ ३४.७॥
३४.८/१न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् ।
३४.८/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ३४.८॥
३४.९/१ब्रह्मोवाच । दक्षस्यासन्न् अष्ट कन्या याश्चैवं पतिसंगताः ।
३४.९/२स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद् गृहे ॥ ३४.९॥
३४.१०/१ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे ।
३४.१०/२तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ ३४.१०॥
३४.११/१नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।
३४.११/२अकरोत् संनतिं दक्षे न च कांचिन् महेश्वरः ॥ ३४.११॥
३४.१२/१जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ।
३४.१२/२ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ ३४.१२॥
३४.१३/१जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् ।
३४.१३/२ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् ।
३४.१३/३ततोऽब्रवीत् सा पितरं देवी क्रोधसमाकुला ॥ ३४.१३॥
३४.१४/१सत्युवाच । यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो ।
३४.१४/२असत्कृतामवस्थां यः कृतवान् असि गर्हिताम् ।
३४.१४/३अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ ३४.१४॥
३४.१५/१ब्रह्मोवाच । एवमुक्तोऽब्रवीद् एनां दक्षः संरक्तलोचनः ॥ ३४.१५॥
३४.१६/१दक्ष उवाच । त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम ।
३४.१६/२तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ ३४.१६॥
३४.१७/१ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः ।
३४.१७/२गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति ॥ ३४.१७॥
३४.१८/१वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः ।
३४.१८/२भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३४.१८॥
३४.१९/१तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति ।
३४.१९/२तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३४.१९॥
३४.२०/१इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा ।
३४.२०/२शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः ।
३४.२०/३तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ ३४.२०॥
३४.२१/१सत्युवाच । वाङ्मनःकर्मभिर्यस्माद् अदुष्टां मां विगर्हसि ।
३४.२१/२तस्मात् त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ ३४.२१॥
३४.२२/१ब्रह्मोवाच । ततस्तेनापमानेन सती दुःखाद् अमर्षिता ।
३४.२२/२अब्रवीद् वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ ३४.२२॥
३४.२३/१सत्युवाच । येनाहमपदेहा वै पुनर्देहेन भास्वता ।
३४.२३/२तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः ।
३४.२३/३गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ३४.२३॥
३४.२४/१ब्रह्मोवाच । तत्रैवाथ समासीना रुष्टात्मानं समादधे ।
३४.२४/२धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ ३४.२४॥
३४.२५/१ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः ।
३४.२५/२सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ३४.२५॥
३४.२६/१तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् ।
३४.२६/२संवादं च तयोर्बुद्ध्वा याथातथ्येन शंकरः ।
३४.२६/३दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥ ३४.२६॥
३४.२७/१श्रीशंकर उवाच । यस्माद् अवमता दक्ष सहसैवागता सती ।
३४.२७/२प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ ३४.२७॥
३४.२८/१तस्माद् वैवस्वते प्राप्ते पुनरेते महर्षयः ।
३४.२८/२उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ ३४.२८॥
३४.२९/१हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः ।
३४.२९/२अभिव्याहृत्य सप्तर्षीन् दक्षं सोऽभ्यशपत् पुनः ॥ ३४.२९॥
३४.३०/१भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः ।
३४.३०/२प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ३४.३०॥
३४.३१/१दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।
३४.३१/२कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ ३४.३१॥
३४.३२/१अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ।
३४.३२/२धर्मकामार्थयुक्तेषु कर्मस्विह पुनः पुनः ॥ ३४.३२॥
३४.३३/१ततो वै व्याहृतो दक्षो रुद्रं सोऽभ्यशपत् पुनः ॥ ३४.३३॥
३४.३४/१दक्ष उवाच । यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि ।
३४.३४/२तस्मात् सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३४.३४॥
३४.३५/१कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु ।
३४.३५/२इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् ।
३४.३५/३ततो देवैस्तु ते सार्धं न तु पूजा भविष्यति ॥ ३४.३५॥
३४.३६/१रुद्र उवाच । चातुर्वर्ण्यं तु देवानां ते चाप्येकत्र भुञ्जते ।
३४.३६/२न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥ ३४.३६॥
३४.३७/१सर्वेषां चैव लोकानामादिर्भूर्लोक उच्यते ।
३४.३७/२तमहं धारयाम्येकः स्वेच्छया न तवाज्ञया ॥ ३४.३७॥
३४.३८/१तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः ।
३४.३८/२तस्माद् अहं वसामीह सततं न तवाज्ञया ॥ ३४.३८॥
३४.३९/१ब्रह्मोवाच । ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ।
३४.३९/२स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ३४.३९॥
३४.४०/१यदा गृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः ।
३४.४०/२समस्तेनेह यज्ञेन सोऽयजद् दैवतैः सह ॥ ३४.४०॥
३४.४१/१अथ देवी सती यत् ते प्राप्ते वैवस्वतेऽन्तरे ।
३४.४१/२मेनायां तामुमां देवीं जनयामास शैलराट् ॥ ३४.४१॥
३४.४२/१सा तु देवी सती पूर्वमासीत् पश्चाद् उमाभवत् ।
३४.४२/२सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ ३४.४२॥
३४.४३/१यावद् इच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह ।
३४.४३/२मारीचं कश्यपं देवी यथादितिरनुव्रता ॥ ३४.४३॥
३४.४४/१सार्धं नारायणं श्रीस्तु मघवन्तं शची यथा ।
३४.४४/२विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥ ३४.४४॥
३४.४५/१नैतांस्तु विजहत्येता भर्तृन् देव्यः कथंचन ।
३४.४५/२एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे ॥ ३४.४५॥
३४.४६/१प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् ।
३४.४६/२दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृप ॥ ३४.४६॥
३४.४७/१जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् ।
३४.४७/२भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः ॥ ३४.४७॥
३४.४८/१आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह ।
३४.४८/२देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ३४.४८॥
३४.४९/१इत्येषोऽनुशयो ह्यासीत् तयोर्जात्यन्तरे गतः ।
३४.४९/२प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ३४.४९॥
३४.५०/१तस्मान् नानुशयः कार्यो वरेष्विह कदाचन ।
३४.५०/२जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः ।
३४.५०/३जन्तोर्न भूतये ख्यातिस्तन् न कार्यं विजानता ॥ ३४.५०॥
३४.५१/१मुनय ऊचुः । कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती ।
३४.५१/२त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥ ३४.५१॥
३४.५२/१देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह ।
३४.५२/२भवेन सह संयोगः संवादश्च तयोः कथम् ॥ ३४.५२॥
३४.५३/१स्वयंवरः कथं वृत्तस्तस्मिन् महति जन्मनि ।
३४.५३/२विवाहश्च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ ३४.५३॥
३४.५४/१तत् सर्वं विस्तराद् ब्रह्मन् वक्तुमर्हसि साम्प्रतम् ।
३४.५४/२श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥ ३४.५४॥
३४.५५/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् ।
३४.५५/२उमाशंकरयोः पुण्यां सर्वकामफलप्रदाम् ॥ ३४.५५॥
३४.५६/१कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् ।
३४.५६/२अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥ ३४.५६॥
३४.५७/१केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने ।
३४.५७/२तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे ॥ ३४.५७॥
३४.५८/१कश्यप उवाच । अपत्येन महाबाहो सर्वमेतद् अवाप्यते ।
३४.५८/२ममाख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥ ३४.५८॥
३४.५९/१किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
३४.५९/२वर्तयिष्यामि यच्चापि यथादृष्टं पुराचल ॥ ३४.५९॥
३४.६०/१वाराणसीमहं गच्छन्न् अपश्यं संस्थितं दिवि ।
३४.६०/२विमानं सुनवं दिव्यमनौपम्यं महर्धिमत् ॥ ३४.६०॥
३४.६१/१तस्याधस्ताद् आर्तनादं गर्तस्थाने शृणोम्यहम् ।
३४.६१/२तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ३४.६१॥
३४.६२/१अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः ।
३४.६२/२तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ३४.६२॥
३४.६३/१अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।
३४.६३/२विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ ३४.६३॥
३४.६४/१गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
३४.६४/२अपश्यद् आर्तो दुःखार्तांस्तान् अपृच्छच्च स द्विजः ॥ ३४.६४॥
३४.६५/१द्विज उवाच । के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
३४.६५/२दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ३४.६५॥
३४.६६/१पितर ऊचुः । वयं ते कृतपुण्यस्य पितरः सपितामहाः ।
३४.६६/२प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ३४.६६॥
३४.६७/१नरकोऽयं महाभाग गर्तरूपेण संस्थितः ।
३४.६७/२त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ३४.६७॥
३४.६८/१यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः ।
३४.६८/२मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ३४.६८॥
३४.६९/१यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
३४.६९/२उत्पादयसि तेनास्मान् मुच्येम वयमेनसः ॥ ३४.६९॥
३४.७०/१नान्येन तपसा पुत्र तीर्थानां च फलेन च ।
३४.७०/२एतत् कुरु महाबुद्धे तारयस्व पितृन् भयात् ॥ ३४.७०॥
३४.७१/१कश्यप उवाच । स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् ।
३४.७१/२पितृन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह ॥ ३४.७१॥
३४.७२/१स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः ।
३४.७२/२सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ ३४.७२॥
३४.७३/१तस्मात् कृत्वा तपो घोरमपत्यं गुणवद् भृशम् ।
३४.७३/२उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ ३४.७३॥
३४.७४/१ब्रह्मोवाच । स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः ।
३४.७४/२तपश्चकाराप्यतुलं येन तुष्टिरभून् मम ॥ ३४.७४॥
३४.७५/१तदा तमुत्पपाताहं वरदोऽस्मीति चाब्रवम् ।
३४.७५/२ब्रूहि तुष्टोऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥ ३४.७५॥
३४.७६/१हिमवान् उवाच । भगवन् पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् ।
३४.७६/२एवं वरं प्रयच्छस्व यदि तुष्टोऽसि मे प्रभो ॥ ३४.७६॥
३४.७७/१ब्रह्मोवाच । तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः ।
३४.७७/२तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम् ॥ ३४.७७॥
३४.७८/१कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत ।
३४.७८/२यस्याः प्रभावात् सर्वत्र कीर्तिमाप्स्यसि शोभनाम् ॥ ३४.७८॥
३४.७९/१अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः ।
३४.७९/२पावनश्चैव पुण्येन देवानामपि सर्वतः ॥ ३४.७९॥
३४.८०/१ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ ३४.८०॥
३४.८१/१सोऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् ।
३४.८१/२अपर्णामेकपर्णां च तथा चैवैकपाटलाम् ॥ ३४.८१॥
३४.८२/१न्यग्रोधमेकपर्णं तु पाटलं चैकपाटलाम् ।
३४.८२/२अशित्वा त्वेकपर्णां तु अनिकेतस्तपोऽचरत् ॥ ३४.८२॥
३४.८३/१शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।
३४.८३/२आहारमेकपर्णं तु एकपर्णा समाचरत् ॥ ३४.८३॥
३४.८४/१पाटलेन तथैकेन विदधे चैकपाटला ।
३४.८४/२पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ ३४.८४॥
३४.८५/१अपर्णा तु निराहारा तां माता प्रत्यभाषत ।
३४.८५/२निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ ३४.८५॥
३४.८६/१सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
३४.८६/२तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ३४.८६॥
३४.८७/१एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम् ।
३४.८७/२एतासां तपसां वृत्तं यावद् भूमिर्धरिष्यति ॥ ३४.८७॥
३४.८८/१तपःशरीरास्ताः सर्वास्तिस्रो योगं समाश्रिताः ।
३४.८८/२सर्वाश्चैव महाभागास्तथा च स्थिरयौवनाः ॥ ३४.८८॥
३४.८९/१ता लोकमातरश्चैव ब्रह्मचारिण्य एव च ।
३४.८९/२अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ३४.८९॥
३४.९०/१उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
३४.९०/२महायोगबलोपेता महादेवमुपस्थिता ॥ ३४.९०॥
३४.९१/१दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः ।
३४.९१/२आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ३४.९१॥
३४.९२/१या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
३४.९२/२पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥ ३४.९२॥
३४.९३/१तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ।
३४.९३/२उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ ३४.९३॥
३४.९४/१अथ तस्यास्तपोयोगात् त्रैलोक्यमखिलं तदा ।
३४.९४/२प्रधूपितमिहालक्ष्य वचस्तामहमब्रवम् ॥ ३४.९४॥
३४.९५/१देवि किं तपसा लोकांस्तापयिष्यसि शोभने ।
३४.९५/२त्वया सृष्टमिदं सर्वं मा कृत्वा तद् विनाशय ॥ ३४.९५॥
३४.९६/१त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा ।
३४.९६/२ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ ३४.९६॥
३४.९७/१देव्युवाच । यदर्थं तपसो ह्यस्य चरणं मे पितामह ।
३४.९७/२त्वमेव तद् विजानीषे ततः पृच्छसि किं पुनः ॥ ३४.९७॥
३४.९८/१ब्रह्मोवाच । ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे ।
३४.९८/२स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥ ३४.९८॥
३४.९९/१शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
३४.९९/२वयं सदैव यस्येमे वश्या वै किंकराः शुभे ॥ ३४.९९॥
३४.१००/१स देवदेवः परमेश्वरः स्वयम् ।
३४.१००/२स्वयम्भुरायास्यति देवि तेऽन्तिकम् ।
३४.१००/३उदाररूपो विकृतादिरूपः ।
३४.१००/४समानरूपोऽपि न यस्य कस्यचित् ॥ ३४.१००॥
३४.१०१/१महेश्वरः पर्वतलोकवासी ।
३४.१०१/२चराचरेशः प्रथमोऽप्रमेयः ।
३४.१०१/३विनेन्दुना हीन्द्रसमानवर्चसा ।
३४.१०१/४विभीषणं रूपमिवास्थितो यः ॥ ३४.१०१॥
३५.१/१ब्रह्मोवाच । ततस्तामब्रुवन् देवास्तदा गत्वा तु सुन्दरीम् ।
३५.१/२देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१॥
३५.२/१स भर्ता तव देवेशो भविता मा तपः कृथाः ।
३५.२/२ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ ३५.२॥
३५.३/१जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह ।
३५.३/२सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ ३५.३॥
३५.४/१द्वारि जातमशोकं च समुपाश्रित्य चास्थिता ।
३५.४/२अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ ३५.४॥
३५.५/१विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ।
३५.५/२विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ३५.५॥
३५.६/१उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ।
३५.६/२अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् ॥ ३५.६॥
३५.७/१अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया ।
३५.७/२तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ३५.७॥
३५.८/१सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ ३५.८॥
३५.९/१देव्युवाच । भगवन् न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे ।
३५.९/२स प्रभुर्मम दाने वै कन्याहं द्विजपुंगव ॥ ३५.९॥
३५.१०/१गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।
३५.१०/२स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम ॥ ३५.१०॥
३५.११/१ब्रह्मोवाच । ततः स भगवान् देवस्तथैव विकृतः प्रभुः ।
३५.११/२उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ३५.११॥
३५.१२/१स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।
३५.१२/२भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ३५.१२॥
३५.१३/१शैलेन्द्र उवाच । भगवन् नावमन्येऽहं ब्राह्मणान् भुवि देवताः ।
३५.१३/२मनीषितं तु यत् पूर्वं तच्छृणुष्व महामते ॥ ३५.१३॥
३५.१४/१स्वयंवरो मे दुहितुर्भविता विप्रपूजितः ।
३५.१४/२वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति ॥ ३५.१४॥
३५.१५/१तच्छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः ।
३५.१५/२देव्याः समीपमागत्य इदमाह महामनाः ॥ ३५.१५॥
३५.१६/१शिव उवाच । देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः ।
३५.१६/२तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति ॥ ३५.१६॥
३५.१७/१तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने ।
३५.१७/२रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ ३५.१७॥
३५.१८/१ब्रह्मोवाच । तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् ।
३५.१८/२भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ३५.१८॥
३५.१९/१सम्प्राप्योवाच देवेशं मा तेऽभूद् बुद्धिरन्यथा ।
३५.१९/२अहं त्वां वरयिष्यामि नाद्भुतं तु कथंचन ॥ ३५.१९॥
३५.२०/१अथवा तेऽस्ति संदेहो मयि विप्र कथंचन ।
३५.२०/२इहैव त्वां महाभाग वरयामि मनोगतम् ॥ ३५.२०॥
३५.२१/१ब्रह्मोवाच । गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता ।
३५.२१/२स्कन्धे शम्भोः समाधाय देवी प्राह वृतोऽसि मे ॥ ३५.२१॥
३५.२२/१ततः स भगवान् देवस्तया देव्या वृतस्तदा ।
३५.२२/२उवाच तमशोकं वै वाचा संजीवयन्न् इव ॥ ३५.२२॥
३५.२३/१शिव उवाच । यस्मात् तव सुपुण्येन स्तबकेन वृतोऽस्म्यहम् ।
३५.२३/२तस्मात् त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ ३५.२३॥
३५.२४/१कामरूपी कामपुष्पः कामदो दयितो मम ।
३५.२४/२सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ ३५.२४॥
३५.२५/१सर्वान्नभक्षकश्चैव अमृतस्वाद एव च ।
३५.२५/२सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ ३५.२५॥
३५.२६/१निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः ।
३५.२६/२आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ ३५.२६॥
३५.२७/१यो हि यास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति ।
३५.२७/२यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ ३५.२७॥
३५.२८/१यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् ।
३५.२८/२स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ३५.२८॥
३५.२९/१ब्रह्मोवाच । एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् ।
३५.२९/२अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ३५.२९॥
३५.३०/१सापि देवी गते तस्मिन् भगवत्यमितात्मनि ।
३५.३०/२तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३५.३०॥
३५.३१/१उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ ।
३५.३१/२निशेव चन्द्ररहिता न बभौ विमनास्तदा ॥ ३५.३१॥
३५.३२/१अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा ।
३५.३२/२सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च ॥ ३५.३२॥
३५.३३/१स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।
३५.३३/२क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत् तदा ॥ ३५.३३॥
३५.३४/१योगमायां समास्थाय प्रपञ्चोद्भवकारणम् ।
३५.३४/२तद् रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ ३५.३४॥
३५.३५/१बाल उवाच । त्रातु मां कश्चिद् इत्याह ग्राहेण हृतचेतसम् ।
३५.३५/२धिक् कष्टं बाल एवाहमप्राप्तार्थमनोरथः ॥ ३५.३५॥
३५.३६/१प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ।
३५.३६/२शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ ३५.३६॥
३५.३७/१यथा शोचामि पितरं मातरं च तपस्विनीम् ।
३५.३७/२ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ ॥ ३५.३७॥
३५.३८/१प्रियपुत्रावेकपुत्रौ प्राणान् नूनं त्यजिष्यतः ।
३५.३८/२अहो बत सुकष्टं वै योऽहं बालोऽकृताश्रमः ।
३५.३८/३अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल ॥ ३५.३८॥
३५.३९/१ब्रह्मोवाच । श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना ।
३५.३९/२उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ ३५.३९॥
३५.४०/१सापश्यद् इन्दुवदना बालकं चारुरूपिणम् ।
३५.४०/२ग्राहस्य मुखमापन्नं वेपमानमवस्थितम् ॥ ३५.४०॥
३५.४१/१सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् ।
३५.४१/२तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ ३५.४१॥
३५.४२/१स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् ।
३५.४२/२अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ ३५.४२॥
३५.४३/१पार्वत्युवाच । ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् ।
३५.४३/२विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ३५.४३॥
३५.४४/१ग्राह उवाच । यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् ।
३५.४४/२स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ३५.४४॥
३५.४५/१सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे ।
३५.४५/२ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथंचन ॥ ३५.४५॥
३५.४६/१देव्युवाच । यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।
३५.४६/२तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ॥ ३५.४६॥
३५.४७/१ग्राह उवाच । मा व्ययस्तपसो देवि भृशं बाले शुभानने ।
३५.४७/२यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षमवाप्स्यति ॥ ३५.४७॥
३५.४८/१देव्युवाच । ग्राहाधिप वदस्वाशु यत् सतामविगर्हितम् ।
३५.४८/२तत् कृतं नात्र संदेहो यतो मे ब्राह्मणाः प्रियाः ॥ ३५.४८॥
३५.४९/१ग्राह उवाच । यत् कृतं वै तपः किंचिद् भवत्या स्वल्पमुत्तमम् ।
३५.४९/२तत् सर्वं मे प्रयच्छाशु ततो मोक्षमवाप्स्यति ॥ ३५.४९॥
३५.५०/१देव्युवाच । जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया ।
३५.५०/२तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ ३५.५०॥
३५.५१/१ब्रह्मोवाच । प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः ।
३५.५१/२आदित्य इव मध्याह्ने दुर्निरीक्षस्तदाभवत् ।
३५.५१/३उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ ३५.५१॥
३५.५२/१ग्राह उवाच । देवि किं कृत्यमेतत् ते सुनिश्चित्य महाव्रते ।
३५.५२/२तपसोऽप्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ३५.५२॥
३५.५३/१गृहाण तप एव त्वं बालं चेमं सुमध्यमे ।
३५.५३/२तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते ।
३५.५३/३सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥ ३५.५३॥
३५.५४/१देव्युवाच । देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः ।
३५.५४/२तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ ३५.५४॥
३५.५५/१सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् ।
३५.५५/२न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ३५.५५॥
३५.५६/१दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते ।
३५.५६/२नहि कश्चिन् नरो ग्राह प्रदत्तं पुनराहरेत् ॥ ३५.५६॥
३५.५७/१दत्तमेतन् मया तुभ्यं नाददानि हि तत् पुनः ।
३५.५७/२त्वय्येव रमतामेतद् बालश्चायं विमुच्यताम् ॥ ३५.५७॥
३५.५८/१ब्रह्मोवाच । तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च ।
३५.५८/२देवीमादित्यावभासस्तत्रैवान्तरधीयत ॥ ३५.५८॥
३५.५९/१बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा ।
३५.५९/२स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ ३५.५९॥
३५.६०/१तपसोऽपचयं मत्वा देवी हिमगिरीन्द्रजा ।
३५.६०/२भूय एव तपः कर्तुमारेभे नियमस्थिता ॥ ३५.६०॥
३५.६१/१कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् ।
३५.६१/२प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत ॥ ३५.६१॥
३५.६२/१मह्यमेतत् तपो देवि त्वया दत्तं महाव्रते ।
३५.६२/२तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ३५.६२॥
३५.६३/१इति लब्ध्वा वरं देवी तपसोऽक्षयमुत्तमम् ।
३५.६३/२स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ ३५.६३॥
३५.६४/१इदं पठेद् यो हि नरः सदैव ।
३५.६४/२बालानुभावाचरणं हि शम्भोः ।
३५.६४/३स देहभेदं समवाप्य पूतो ।
३५.६४/४भवेद् गणेशस्तु कुमारतुल्यः ॥ ३५.६४॥
३६.१/१ब्रह्मोवाच । विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।
३६.१/२अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१॥
३६.२/१अथ पर्वतराजोऽसौ हिमवान् ध्यानकोविदः ।
३६.२/२दुहितुर्देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम् ॥ ३६.२॥
३६.३/१जानन्न् अपि महाशैलः समयारक्षणेप्सया ।
३६.३/२स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ३६.३॥
३६.४/१देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
३६.४/२वृणुयात् परमेशानं समक्षं यदि मे सुता ॥ ३६.४॥
३६.५/१तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
३६.५/२इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ३६.५॥
३६.६/१आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः ।
३६.६/२कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ३६.६॥
३६.७/१अथैवमाघोषितमात्र एव ।
३६.७/२स्वयंवरे तत्र नगेन्द्रपुत्र्याः ।
३६.७/३देवादयः सर्वजगन्निवासाः ।
३६.७/४समाययुस्तत्र गृहीतवेशाः ॥ ३६.७॥
३६.८/१प्रफुल्लपद्मासनसंनिविष्टः ।
३६.८/२सिद्धैर्वृतो योगिभिरप्रमेयैः ।
३६.८/३विज्ञापितस्तेन महीध्रराज्ञा ।
३६.८/४आगतस्तदाहं त्रिदिवैरुपेतः ॥ ३६.८॥
३६.९/१अक्ष्णां सहस्रं सुरराट् स बिभ्रद् ।
३६.९/२दिव्याङ्गहारस्रगुदाररूपः ।
३६.९/३ऐरावतं सर्वगजेन्द्रमुख्यम् ।
३६.९/४स्रवन्मदासारकृतप्रवाहम् ॥ ३६.९॥
३६.१०/१आरुह्य सर्वामरराट् स वज्रम् ।
३६.१०/२बिभ्रत् समागात् पुरतः सुराणाम् ।
३६.१०/३तेजःप्रभावाधिकतुल्यरूपी ।
३६.१०/४प्रोद्भासयन् सर्वदिशो विवस्वान् ॥ ३६.१०॥
३६.११/१हैमं विमानं सवलत्पताकम् ।
३६.११/२आरूढ आगात् त्वरितं जवेन ।
३६.११/३मणिप्रदीप्तोज्ज्वलकुण्डलश्च ।
३६.११/४वह्न्यर्कतेजःप्रतिमे विमाने ॥ ३६.११॥
३६.१२/१समभ्यगात् कश्यपसूनुरेक ।
३६.१२/२आदित्यमध्याद् भगनामधारी ।
३६.१२/३पीनाङ्गयष्टिः सुकृताङ्गहार+ ।
३६.१२/४तेजोबलाज्ञासदृशप्रभावः ॥ ३६.१२॥
३६.१३/१दण्डं समागृह्य कृतान्त आगाद् ।
३६.१३/२आरुह्य भीमं महिषं जवेन ।
३६.१३/३महामहीध्रोच्छ्रयपीनगात्रः ।
३६.१३/४स्वर्णादिरत्नाञ्चितचारुवेशः ॥ ३६.१३॥
३६.१४/१समीरणः सर्वजगद्विभर्ता ।
३६.१४/२विमानमारुह्य समभ्यगाद् धि ।
३६.१४/३संतापयन् सर्वसुरासुरेशांस्- ।
३६.१४/४तेजोधिकस्तेजसि संनिविष्टः ॥ ३६.१४॥
३६.१५/१वह्निः समभ्येत्य सुरेन्द्रमध्ये ।
३६.१५/२ज्वलन् प्रतस्थौ वरवेशधारी ।
३६.१५/३नानामणिप्रज्वलिताङ्गयष्टिर्।
३६.१५/४जगद्वरं दिव्यविमानमग्र्यम् ॥ ३६.१५॥
३६.१६/१आरुह्य सर्वद्रविणाधिपेशः ।
३६.१६/२स राजराजस्त्वरितोऽभ्यगाच्च ।
३६.१६/३आप्याययन् सर्वसुरासुरेशान् ।
३६.१६/४कान्त्या च वेशेन च चारुरूपः ॥ ३६.१६॥
३६.१७/१ज्वलन् महारत्नविचित्ररूपम् ।
३६.१७/२विमानमारुह्य शशी समायात् ।
३६.१७/३श्यामाङ्गयष्टिः सुविचित्रवेशः ।
३६.१७/४सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ ३६.१७॥
३६.१८/१तार्क्ष्यं समारुह्य महीध्रकल्पम् ।
३६.१८/२गदाधरोऽसौ त्वरितः समेतः ।
३६.१८/३अथाश्विनौ चापि भिषग्वरौ द्वाव्।
३६.१८/४एकं विमानं त्वरयाधिरुह्य ॥ ३६.१८॥
३६.१९/१मनोहरौ प्रज्वलचारुवेशौ ।
३६.१९/२आजग्मतुर्देववरौ सुवीरौ ।
३६.१९/३सहस्रनागः स्फुरदग्निवर्णम् ।
३६.१९/४बिभ्रत् तदानीं ज्वलनार्कतेजाः ॥ ३६.१९॥
३६.२०/१सार्धं स नागैरपरैर्महात्मा ।
३६.२०/२विमानमारुह्य समभ्यगाच्च ।
३६.२०/३दितेः सुतानां च महासुराणाम् ।
३६.२०/४वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ ३६.२०॥
३६.२१/१वरानुरूपं प्रविधाय वेशम् ।
३६.२१/२वृन्दं समागात् पुरतः सुराणाम् ।
३६.२१/३गन्धर्वराजः स च चारुरूपी ।
३६.२१/४दिव्याङ्गदो दिव्यविमानचारी ॥ ३६.२१॥
३६.२२/१गन्धर्वसंघैः सहितोऽप्सरोभिः ।
३६.२२/२शक्राज्ञया तत्र समाजगाम ।
३६.२२/३अन्ये च देवास्त्रिदिवात् तदानीम् ।
३६.२२/४पृथक् पृथक् चारुगृहीतवेशाः ॥ ३६.२२॥
३६.२३/१आजग्मुरारुह्य विमानपृष्ठम् ।
३६.२३/२गन्धर्वयक्षोरगकिंनराश्च ।
३६.२३/३शचीपतिस्तत्र सुरेन्द्रमध्ये ।
३६.२३/४रराज राजाधिकलक्ष्यमूर्तिः ॥ ३६.२३॥
३६.२४/१आज्ञाबलैश्वर्यकृतप्रमोदः ।
३६.२४/२स्वयंवरं तं समलंचकार ।
३६.२४/३हेतुस्त्रिलोकस्य जगत्प्रसूतेर्।
३६.२४/४माता च तेषां ससुरासुराणाम् ॥ ३६.२४॥
३६.२५/१पत्नी च शम्भोः पुरुषस्य धीमतो ।
३६.२५/२गीता पुराणे प्रकृतिः परा या ।
३६.२५/३दक्षस्य कोपाद् धिमवद्गृहं सा ।
३६.२५/४कार्यार्थमायात् त्रिदिवौकसां हि ॥ ३६.२५॥
३६.२६/१विमानपृष्ठे मणिहेमजुष्टे ।
३६.२६/२स्थिता वलच्चामरवीजिताङ्गी ।
३६.२६/३सर्वर्तुपुष्पां सुसुगन्धमालाम् ।
३६.२६/४प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ३६.२६॥
३६.२७/१ब्रह्मोवाच । मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि ।
३६.२७/२शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ ३६.२७॥
३६.२८/१देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
३६.२८/२उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ ३६.२८॥
३६.२९/१ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् ।
३६.२९/२ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ ३६.२९॥
३६.३०/१अथ सा शुद्धसंकल्पा काङ्क्षितं प्राप्य सत्पतिम् ।
३६.३०/२निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३६.३०॥
३६.३१/१ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् ।
३६.३१/२कोऽयमत्रेति सम्मन्त्र्य चुक्रुशुर्भृशमोहिताः ॥ ३६.३१॥
३६.३२/१वज्रमाहारयत् तस्य बाहुमुत्क्षिप्य वृत्रहा ।
३६.३२/२स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ ३६.३२॥
३६.३३/१स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
३६.३३/२वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३६.३३॥
३६.३४/१भगो नाम ततो देव आदित्यः काश्यपो बली ।
३६.३४/२उत्क्षिप्य आयुधं दीप्तं छेत्तुमिच्छन् विमोहितः ॥ ३६.३४॥
३६.३५/१तस्यापि भगवान् बाहुं तथैवास्तम्भयत् तदा ।
३६.३५/२बलं तेजश्च योगश्च तथैवास्तम्भयद् विभुः ॥ ३६.३५॥
३६.३६/१शिरः प्रकम्पयन् विष्णुः शंकरं समवैक्षत ।
३६.३६/२अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु च ॥ ३६.३६॥
३६.३७/१अहं परमसंविग्नो ध्यानमास्थाय सादरम् ।
३६.३७/२बुद्धवान् देवदेवेशमुमोत्सङ्गे समास्थितम् ॥ ३६.३७॥
३६.३८/१ज्ञात्वाहं परमेशानं शीघ्रमुत्थाय सादरम् ।
३६.३८/२ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥ ३६.३८॥
३६.३९/१पुराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ।
३६.३९/२अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ ३६.३९॥
३६.४०/१प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तद् अक्षरम् ।
३६.४०/२अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ३६.४०॥
३६.४१/१ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत् प्रकृतेः परः ।
३६.४१/२इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ ३६.४१॥
३६.४२/१पत्नीरूपं समास्थाय जगत्कारणमागता ।
३६.४२/२नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ ३६.४२॥
३६.४३/१प्रसादात् तव देवेश नियोगाच्च मया प्रजाः ।
३६.४३/२देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ ३६.४३॥
३६.४४/१कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ।
३६.४४/२तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ३६.४४॥
३६.४५/१स्तम्भितान् सर्वदेवांस्तान् इदं चाहं तदोक्तवान् ।
३६.४५/२मूढाश्च देवताः सर्वा नैनं बुध्यत शंकरम् ॥ ३६.४५॥
३६.४६/१गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् ।
३६.४६/२सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ३६.४६॥
३६.४७/१ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
३६.४७/२प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ ३६.४७॥
३६.४८/१अथ तेषां प्रसन्नोऽभूद् देवदेवो महेश्वरः ।
३६.४८/२यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ ३६.४८॥
३६.४९/१तत एवं प्रवृत्ते तु सर्वदेवनिवारणे ।
३६.४९/२वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥ ३६.४९॥
३६.५०/१तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्वे न्यमीलयन् ।
३६.५०/२तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ ३६.५०॥
३६.५१/१प्रादात् परमदेवेशमपश्यंस्ते तदा विभुम् ।
३६.५१/२ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ ३६.५१॥
३६.५२/१शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः ।
३६.५२/२तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ३६.५२॥
३६.५३/१पादयोः स्थापयामास स्रङ्मालाममितद्युतिः ।
३६.५३/२साधु साध्विति ते होचुः सर्वे देवाः पुनर्विभुम् ॥ ३६.५३॥
३६.५४/१सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ।
३६.५४/२अथास्मिन्न् अन्तरे विप्रास्तमहं दैवतैः सह ॥ ३६.५४॥
३६.५५/१हिमवन्तं महाशैलमुक्तवांश्च महाद्युतिम् ।
३६.५५/२श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां त्वं महान् असि ॥ ३६.५५॥
३६.५६/१शर्वेण सह सम्बन्धो यस्य तेऽभ्युदयो महान् ।
३६.५६/२क्रियतां चारुरुद्वाहः किमर्थं स्थीयते परम् ।
३६.५६/३ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥ ३६.५६॥
३६.५७/१हिमवान् उवाच । त्वमेव कारणं देव यस्य सर्वोदये मम ।
३६.५७/२प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।
३६.५७/३उद्वाहस्तु यदा यादृक् तद् विधत्स्व पितामह ॥ ३६.५७॥
३६.५८/१ब्रह्मोवाच । तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः ।
३६.५८/२उद्वाहः क्रियतां देव इत्यहं चोक्तवान् विभुम् ॥ ३६.५८॥
३६.५९/१मामाह शंकरो देवो यथेष्टमिति लोकपः ।
३६.५९/२तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्मितं पुरम् ॥ ३६.५९॥
३६.६०/१उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ।
३६.६०/२रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥ ३६.६०॥
३६.६१/१मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् ।
३६.६१/२चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ ३६.६१॥
३६.६२/१भास्वत्स्फटिकभित्तिश्च मुक्ताहारप्रलम्बिता ।
३६.६२/२तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ ३६.६२॥
३६.६३/१शुशुभे देवदेवस्य महेशस्य महात्मनः ।
३६.६३/२सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ ३६.६३॥
३६.६४/१सौरभेयं मनोरम्यं गन्धमादाय मारुतः ।
३६.६४/२प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ ३६.६४॥
३६.६५/१समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।
३६.६५/२देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ३६.६५॥
३६.६६/१गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।
३६.६६/२औदकाः खेचराश्चान्ये किंनरा देवचारणाः ॥ ३६.६६॥
३६.६७/१तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः ।
३६.६७/२रम्याण्यादाय वाद्यानि तत्राजग्मुस्तदा पुरम् ॥ ३६.६७॥
३६.६८/१ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः ।
३६.६८/२पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः ॥ ३६.६८॥
३६.६९/१जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः ।
३६.६९/२गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ३६.६९॥
३६.७०/१ऋतवः षट् समं तत्र नानागन्धसुखावहाः ।
३६.७०/२उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः ॥ ३६.७०॥
३६.७१/१नीलजीमूतसंकाशैर्मन्त्रध्वनिप्रहर्षिभिः ।
३६.७१/२केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ ३६.७१॥
३६.७२/१विलोलपिङ्गलस्पष्ट+ ।विद्युल्लेखाविहासिता ।
३६.७२/२कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥ ३६.७२॥
३६.७३/१प्रत्यग्रसंजातशिलीन्ध्रकन्दली+ ।
३६.७३/२लताद्रुमाद्युद्गतपल्लवा शुभा ।
३६.७३/३शुभाम्बुधाराप्रणयप्रबोधितैर्।
३६.७३/४महालसैर्भेकगणैश्च नादिता ॥ ३६.७३॥
३६.७४/१प्रियेषु मानोद्धतमानसानाम् ।
३६.७४/२मनस्विनीनामपि कामिनीनाम् ।
३६.७४/३मयूरकेकाभिरुतैः क्षणेन ।
३६.७४/४मनोहरैर्मानविभङ्गहेतुभिः ॥ ३६.७४॥
३६.७५/१तथा विवर्णोज्ज्वलचारुमूर्तिना ।
३६.७५/२शशाङ्कलेखाकुटिलेन सर्वतः ।
३६.७५/३पयोदसंघातसमीपवर्तिना ।
३६.७५/४महेन्द्रचापेन भृशं विराजिता ॥ ३६.७५॥
३६.७६/१विचित्रपुष्पाम्बुभवैः सुगन्धिभिर्।
३६.७६/२घनाम्बुसम्पर्कतया सुशीतलैः ।
३६.७६/३विकम्पयन्ती पवनैर्मनोहरैः ।
३६.७६/४सुराङ्गनानामलकावलीः शुभाः ॥ ३६.७६॥
३६.७७/१गर्जत्पयोदस्थगितेन्दुबिम्बा ।
३६.७७/२नवाम्बुसिक्तोदकचारुदूर्वा ।
३६.७७/३निरीक्षिता सादरमुत्सुकाभिर्।
३६.७७/४निश्वासधूम्रं पथिकाङ्गनाभिः ॥ ३६.७७॥
३६.७८/१हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
३६.७८/२चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ ३६.७८॥
३६.७९/१असितजलदधीरध्वानवित्रस्तहंसा ।
३६.७९/२विमलसलिलधारोत्पातनम्रोत्पलाग्रा ।
३६.७९/३सुरभिकुसुमरेणुक्।ल्प्तसर्वाङ्गशोभा ।
३६.७९/४गिरिदुहितृविवाहे प्रावृड् आविर्बभूव ॥ ३६.७९॥
३६.८०/१मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी ।
३६.८०/२हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ ३६.८०॥
३६.८१/१विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
३६.८१/२प्रफुल्लेन्दीवरश्याम+ ।विलोचनमनोहरा ॥ ३६.८१॥
३६.८२/१पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
३६.८२/२नवश्यामलताश्याम+ ।रोमराजिपुरस्कृता ॥ ३६.८२॥
३६.८३/१चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना ।
३६.८३/२प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ३६.८३॥
३६.८४/१समदालिकुलोद्गीत+ ंअधुरस्वरभाषिणी ।
३६.८४/२चलत्कुमुदसंघात+ ॅहारुकुण्डलशोभिनी ॥ ३६.८४॥
३६.८५/१रक्ताशोकप्रशाखोत्थ+ ।पल्लवाङ्गुलिधारिणी ।
३६.८५/२तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ॥ ३६.८५॥
३६.८६/१रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
३६.८६/२कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ ३६.८६॥
३६.८७/१सर्वलक्षणसम्पन्ना सर्वालंकारभूषिता ।
३६.८७/२प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ ३६.८७॥
३६.८८/१निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना ।
३६.८८/२नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी ।
३६.८८/३नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसाम् ।
३६.८८/४तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ३६.८८॥
३६.८९/१अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा ।
३६.८९/२ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥ ३६.८९॥
३६.९०/१ताभ्याम् ऋतुभ्यां सम्प्राप्तो हिमवान् स नगोत्तमः ।
३६.९०/२प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ ३६.९०॥
३६.९१/१तेन प्रालेयवर्षेण घनेनैव हिमालयः ।
३६.९१/२अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ३६.९१॥
३६.९२/१ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः ।
३६.९२/२साधूपचारात् सहसा कृतार्थ इव दुर्जनः ॥ ३६.९२॥
३६.९३/१प्रालेयपटलच्छन्नैः शृङ्गैस्तु शुशुभे नगः ।
३६.९३/२छत्त्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥ ३६.९३॥
३६.९४/१मनोभवोद्रेककराः सुराणाम् ।
३६.९४/२सुराङ्गनानां च मुहुः समीराः ।
३६.९४/३स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः ।
३६.९४/४पद्मोत्पलानां कुसुमैरुपेताः ॥ ३६.९४॥
३६.९५/१विवाहे गुरुकन्याया वसन्तः समगाद् ऋतुः ॥ ३६.९५॥
३६.९६/१ईषत्समुद्भिन्नपयोधराग्रा ।
३६.९६/२नार्यो यथा रम्यतरा बभूवुः ।
३६.९६/३नात्युष्णशीतानि पयःसरांसि ।
३६.९६/४किञ्जल्कचूर्णैः कपिलीकृतानि ।
३६.९६/५चक्राह्वयुग्मैरुपनादितानि ।
३६.९६/६ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ३६.९६॥
३६.९७/१प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः ।
३६.९७/२तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ ३६.९७॥
३६.९८/१हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः ।
३६.९८/२शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ३६.९८॥
३६.९९/१फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः ।
३६.९९/२कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ ३६.९९॥
३६.१००/१तस्मिन्न् ऋतौ शुभ्रकदम्बनीपास्- ।
३६.१००/२तालाः स्तमालाः सरलाः कपित्थाः ॥ ३६.१००॥
३६.१०१/१अशोकसर्जार्जुनकोविदाराः ।
३६.१०१/२पुंनागनागेश्वरकर्णिकाराः ।
३६.१०१/३लवङ्गतालागुरुसप्तपर्णा ।
३६.१०१/४न्यग्रोधशोभाञ्जननारिकेलाः ॥ ३६.१०१॥
३६.१०२/१वृक्षास्तथान्ये फलपुष्पवन्तो ।
३६.१०२/२दृश्या बभूवुः सुमनोहराङ्गाः ।
३६.१०२/३जलाशयाश्चैव सुवर्णतोयाश् ।
३६.१०२/४चक्राङ्गकारण्डवहंसजुष्टाः ॥ ३६.१०२॥
३६.१०३/१कोयष्टिदात्यूहबलाकयुक्ता ।
३६.१०३/२दृश्यास्तु पद्मोत्पलमीनपूर्णाः ।
३६.१०३/३खगाश्च नानाविधभूषिताङ्गा ।
३६.१०३/४दृश्यास्तु वृक्षेषु सुचित्रपक्षाः ॥ ३६.१०३॥
३६.१०४/१क्रीडासु युक्तान् अथ तर्जयन्तः ।
३६.१०४/२कुर्वन्ति शब्दं मदनेरिताङ्गाः ।
३६.१०४/३तस्मिन् गिरावद्रिसुताविवाहे ।
३६.१०४/४ववुश्च वाताः सुखशीतलाङ्गाः ॥ ३६.१०४॥
३६.१०५/१पुष्पाणि शुभ्राण्यपि पातयन्तः ।
३६.१०५/२शनैर्नगेभ्यो मलयाद्रिजाताः ।
३६.१०५/३तथैव सर्वे ऋतवश्च पुण्याश् ।
३६.१०५/४चकाशिरेऽन्योन्यविमिश्रिताङ्गाः ॥ ३६.१०५॥
३६.१०६/१येषां सुलिङ्गानि च कीर्तितानि ।
३६.१०६/२ते तत्र आसन् सुमनोज्ञरूपाः ॥ ३६.१०६॥
३६.१०७/१समदालिकुलोद्गीत+ ।शिलाकुसुमसंचयैः ।
३६.१०७/२परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ ३६.१०७॥
३६.१०८/१नीलानि नीलाम्बुरुहैः पयांसि ।
३६.१०८/२गौराणि गौरैश्च मृणालदण्डैः ।
३६.१०८/३रक्तैश्च रक्तानि भृशं कृतानि ।
३६.१०८/४मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ ३६.१०८॥
३६.१०९/१हैमानि विस्तीर्णजलेषु केषुचिन् ।
३६.१०९/२निरन्तरं चारुतराणि केषुचित् ।
३६.१०९/३वैदूर्यनालानि सरःसु केषुचित् ।
३६.१०९/४प्रजज्ञिरे पद्मवनानि सर्वतः ॥ ३६.१०९॥
३६.११०/१वाप्यस्तत्राभवन् रम्याः कमलोत्पलपुष्पिताः ।
३६.११०/२नानाविहंगसंजुष्टा हैमसोपानपङ्क्तयः ॥ ३६.११०॥
३६.१११/१शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
३६.१११/२समुच्छ्रितान्यविरलैर्हेमानीव बभुर्द्विजाः ॥ ३६.१११॥
३६.११२/१ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः ।
३६.११२/२सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ३६.११२॥
३६.११३/१कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः ।
३६.११३/२गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ ३६.११३॥
३६.११४/१चारुरावविजुष्टानि किंशुकानां वनानि च ।
३६.११४/२पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ ३६.११४॥
३६.११५/१तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा ।
३६.११५/२नीलजीमूतसंघातैर्निलीनैरिव संधिषु ॥ ३६.११५॥
३६.११६/१निकामपुष्पैः सुविशालशाखैः ।
३६.११६/२समुच्छ्रितैश्चन्दनचम्पकैश्च ।
३६.११६/३प्रमत्तपुंस्कोकिलसम्प्रलापैर्।
३६.११६/४हिमाचलोऽतीव तदा रराज ॥ ३६.११६॥
३६.११७/१श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानाम् ।
३६.११७/२चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः ।
३६.११७/३तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः ।
३६.११७/४सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ ३६.११७॥
३६.११८/१पटुः सूर्यातपश्चापि प्रायशोऽल्पजलाशयः ।
३६.११८/२देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम् ॥ ३६.११८॥
३६.११९/१स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः ।
३६.११९/२शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ ३६.११९॥
३६.१२०/१तथापि च गिरौ तत्र वायवः सुमनोहराः ।
३६.१२०/२ववुः पाटलविस्तीर्ण+ ।कदम्बार्जुनगन्धिनः ॥ ३६.१२०॥
३६.१२१/१वाप्यः प्रफुल्लपद्मौघ+ ।केसरारुणमूर्तयः ।
३६.१२१/२अभवंस्तटसंघुष्ट+ ।फलहंसकदम्बकाः ॥ ३६.१२१॥
३६.१२२/१तथा कुरबकाश्चापि कुसुमापाण्डुमूर्तयः ।
३६.१२२/२सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः ॥ ३६.१२२॥
३६.१२३/१बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।
३६.१२३/२उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ ३६.१२३॥
३६.१२४/१इति कुसुमविचित्रसर्ववृक्षा ।
३६.१२४/२विविधविहंगमनादरम्यदेशाः ।
३६.१२४/३हिमगिरितनयाविवाहभूत्यै ।
३६.१२४/४षड् उपययुरृतवो मुनिप्रवीराः ॥ ३६.१२४॥
३६.१२५/१तत एवं प्रवृत्ते तु सर्वभूतसमागमे ।
३६.१२५/२नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ ३६.१२५॥
३६.१२६/१शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा ।
३६.१२६/२पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥ ३६.१२६॥
३६.१२७/१ततस्तु पुनरेवेशमहं चैवोक्तवान् विभुम् ।
३६.१२७/२हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ ३६.१२७॥
३६.१२८/१ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः ।
३६.१२८/२मामाह शंकरश्चैवं देवदेवो जगत्पतिः ॥ ३६.१२८॥
३६.१२९/१शिव उवाच । यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् ।
३६.१२९/२कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ ३६.१२९॥
३६.१३०/१ब्रह्मोवाच । ततश्चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् ।
३६.१३०/२हस्तं देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥ ३६.१३०॥
३६.१३१/१ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः ।
३६.१३१/२श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ ३६.१३१॥
३६.१३२/१यथोक्तविधिना हुत्वा सर्पिस्तद् अमृतं हविः ।
३६.१३२/२ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ ३६.१३२॥
३६.१३३/१मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः ।
३६.१३३/२पुत्रैश्च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ ३६.१३३॥
३६.१३४/१वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् ।
३६.१३४/२योगेनैव तयोर्विप्रास्तद् उमापरमेशयोः ॥ ३६.१३४॥
३६.१३५/१उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ।
३६.१३५/२इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् ।
३६.१३५/३उद्वाहश्चैव देवस्य शृणुध्वं परमाद्भुतम् ॥ ३६.१३५॥
३७.१/१ब्रह्मोवाच । अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
३७.१/२प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः ।
३७.१/३तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१॥
३७.२/१देवा ऊचुः । नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
३७.२/२नमः पवनवेगाय विरूपायाजिताय च ।
३७.२/३नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३७.२॥
३७.३/१नमो नीलशिखण्डाय अम्बिकापतये नमः ।
३७.३/२नमः पवनरूपाय शतरूपाय वै नमः ॥ ३७.३॥
३७.४/१नमो भैरवरूपाय विरूपनयनाय च ।
३७.४/२नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ३७.४॥
३७.५/१नमो देववयस्याय वेदाङ्गाय नमो नमः ।
३७.५/२विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ ३७.५॥
३७.६/१चराचराधिपतये शमनाय नमो नमः ।
३७.६/२सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ३७.६॥
३७.७/१नमः कपालमालाय कपालसूत्रधारिणे ।
३७.७/२नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ३७.७॥
३७.८/१नमस्त्रैलोक्यनाथाय पशुलोकरताय च ।
३७.८/२नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ३७.८॥
३७.९/१नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे ।
३७.९/२भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ३७.९॥
३७.१०/१नमः पिनाकशूलासि+ ।खड्गमुद्गरधारिणे ।
३७.१०/२नमोऽस्तु कालकालाय तृतीयनयनाय च ॥ ३७.१०॥
३७.११/१अन्तकान्तकृते चैव नमः पर्वतवासिने ।
३७.११/२सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ३७.११॥
३७.१२/१दैत्यानां योगनाशाय योगिनां गुरवे नमः ।
३७.१२/२शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ ३७.१२॥
३७.१३/१नमः श्मशानरतये श्मशानवरदाय च ।
३७.१३/२नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ ३७.१३॥
३७.१४/१गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे ।
३७.१४/२नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ३७.१४॥
३७.१५/१सलिले तप्यमानाय योगैश्वर्यप्रदाय च ।
३७.१५/२नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ३७.१५॥
३७.१६/१नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
३७.१६/२नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ ३७.१६॥
३७.१७/१नमः पित्रेऽथ सांख्याय विश्वेदेवाय वै नमः ।
३७.१७/२नमः शर्वाय उग्राय शिवाय वरदाय च ॥ ३७.१७॥
३७.१८/१नमो भीमाय सेनान्ये पशूनां पतये नमः ।
३७.१८/२शुचये वैरिहानाय सद्योजाताय वै नमः ॥ ३७.१८॥
३७.१९/१महादेवाय चित्राय विचित्राय च वै नमः ।
३७.१९/२प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ ३७.१९॥
३७.२०/१पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च ।
३७.२०/२नमः पुरुषसंयोग+ ।प्रधानगुणकारिणे ॥ ३७.२०॥
३७.२१/१प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
३७.२१/२कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ ३७.२१॥
३७.२२/१कालज्ञाय च सर्वेषां नमो नियमकारिणे ।
३७.२२/२नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ३७.२२॥
३७.२३/१नमस्ते देवदेवेश नमस्ते भूतभावन ।
३७.२३/२शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ ३७.२३॥
३७.२४/१ब्रह्मोवाच । एवं स भगवान् देवो जगत्पतिरुमापतिः ।
३७.२४/२स्तूयमानः सुरैः सर्वैरमरान् इदमब्रवीत् ॥ ३७.२४॥
३७.२५/१श्रीशंकर उवाच । द्रष्टुं सुखश्च सौम्यश्च
देवानामस्मि भोः सुराः ।
३७.२५/२वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ ३७.२५॥
३७.२६/१ब्रह्मोवाच । ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ ३७.२६॥
३७.२७/१देवा ऊचुः । तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् ।
३७.२७/२यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ३७.२७॥
३७.२८/१ब्रह्मोवाच । एवमस्त्विति तान् उक्त्वा विसृज्य च सुरान् हरः ।
३७.२८/२लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ ३७.२८॥
३७.२९/१यस्तु हरोत्सवमद्भुतमेनम् ।
३७.२९/२गायति दैवतविप्रसमक्षम् ।
३७.२९/३सोऽप्रतिरूपगणेशसमानो ।
३७.२९/४देहविपर्ययमेत्य सुखी स्यात् ॥ ३७.२९॥
३७.३०/१ब्रह्मोवाच । विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच्च यः ।
३७.३०/२स सर्वलोकगो देवैः पूज्यतेऽमरराड् इव ॥ ३७.३०॥
३८.१/१ब्रह्मोवाच । प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
३८.१/२स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१॥
३८.२/१तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
३८.२/२लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ ३८.२॥
३८.३/१ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह ।
३८.३/२चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३८.३॥
३८.४/१अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः ।
३८.४/२नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ३८.४॥
३८.५/१ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
३८.५/२सहसा रतिभर्तारमदहत् सपरिच्छदम् ॥ ३८.५॥
३८.६/१स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् ।
३८.६/२प्रसादयंश्च तं देवं पपात धरणीतले ॥ ३८.६॥
३८.७/१अथ सोऽग्निपरीताङ्गो मन्मथो लोकतापनः ।
३८.७/२पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ३८.७॥
३८.८/१पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
३८.८/२देवीं देवं च दुःखार्ता अयाचत् करुणावती ॥ ३८.८॥
३८.९/१तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ ।
३८.९/२ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ३८.९॥
३८.१०/१उमामहेश्वरावूचतुः । दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते ।
३८.१०/२अशरीरोऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ ३८.१०॥
३८.११/१यदा तु विष्णुर्भगवान् वसुदेवसुतः शुभे ।
३८.११/२तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ ३८.११॥
३८.१२/१ब्रह्मोवाच । ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना ।
३८.१२/२जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ३८.१२॥
३८.१३/१दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः ।
३८.१३/२रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ ३८.१३॥
३८.१४/१कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च ।
३८.१४/२निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ ३८.१४॥
३८.१५/१नदीतीरेषु कान्तेषु किंनराचरितेषु च ।
३८.१५/२शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ ३८.१५॥
३८.१६/१वनराजिषु रम्यासु नानापक्षिरुतेषु च ।
३८.१६/२तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ ३८.१६॥
३८.१७/१एतेषु पुण्येषु मनोहरेषु ।
३८.१७/२देशेषु विद्याधरभूषितेषु ।
३८.१७/३गन्धर्वयक्षामरसेवितेषु ।
३८.१७/४रेमे स देव्या सहितस्त्रिनेत्रः ॥ ३८.१७॥
३८.१८/१देवैः सहेन्द्रैर्मुनियक्षसिद्धैर्।
३८.१८/२गन्धर्वविद्याधरदैत्यमुख्यैः ।
३८.१८/३अन्यैश्च सर्वैर्विविधैर्वृतोऽसौ ।
३८.१८/४तस्मिन् नगे हर्षमवाप शम्भुः ॥ ३८.१८॥
३८.१९/१नृत्यन्ति तत्राप्सरसः सुरेशा ।
३८.१९/२गायन्ति गन्धर्वगणाः प्रहृष्टाः ।
३८.१९/३दिव्यानि वाद्यान्यथ वादयन्ति ।
३८.१९/४केचिद् द्रुतं देववरं स्तुवन्ति ॥ ३८.१९॥
३८.२०/१एवं स देवः स्वगणैरुपेतो ।
३८.२०/२महाबलैः शक्रयमाग्नितुल्यैः ।
३८.२०/३देव्याः प्रियार्थं भगनेत्रहन्ता ।
३८.२०/४गिरिं न तत्याज तदा महात्मा ॥ ३८.२०॥
३८.२१/१ऋषय ऊचुः । देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा ।
३८.२१/२अकरोत् किं महादेव एतद् इच्छाम वेदितुम् ॥ ३८.२१॥
३८.२२/१ब्रह्मोवाच । भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया ।
३८.२२/२गणेशैर्विविधाकारैर्हासं संजनयन् मुहुः ॥ ३८.२२॥
३८.२३/१देवीं बालेन्दुतिलको रमयंश्च रराम च ।
३८.२३/२महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ ३८.२३॥
३८.२४/१अथ देव्याससादैका मातरं परमेश्वरी ।
३८.२४/२आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ ३८.२४॥
३८.२५/१अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् ।
३८.२५/२आसनेन महार्हेणऽसम्पादयद् अनिन्दिताम् ।
३८.२५/३आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ ३८.२५॥
३८.२६/१मेनोवाच । चिरस्यागमनं तेऽद्य वद पुत्रि शुभेक्षणे ।
३८.२६/२दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता ॥ ३८.२६॥
३८.२७/१ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
३८.२७/२उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ ३८.२७॥
३८.२८/१ब्रह्मोवाच । सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् ।
३८.२८/२महत्या क्षमया युक्ता न किंचित् तामुवाच ह ।
३८.२८/३विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ ३८.२८॥
३८.२९/१पार्वत्युवाच । भगवन् देवदेवेश नेह वत्स्यामि भूधरे ।
३८.२९/२अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ ३८.२९॥
३८.३०/१देव उवाच । सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि ।
३८.३०/२अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३८.३०॥
३८.३१/१इदानीं स्वयमेव त्वं वासमन्यत्र शोभने ।
३८.३१/२कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते ॥ ३८.३१॥
३८.३२/१देव्युवाच । गृहं गतास्मि देवेश पितुरद्य महात्मनः ।
३८.३२/२दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ ३८.३२॥
३८.३३/१आसनादिभिरभ्यर्च्य सा मामेवमभाषत ।
३८.३३/२उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ ३८.३३॥
३८.३४/१क्रीडते नहि देवानां क्रीडा भवति तादृशी ।
३८.३४/२यत् किल त्वं महादेव गणैश्च विविधैस्तथा ।
३८.३४/३रमसे तद् अनिष्टं हि मम मातुर्वृषध्वज ॥ ३८.३४॥
३८.३५/१ब्रह्मोवाच । ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ ३८.३५॥
३८.३६/१देव उवाच । एवमेव न संदेहः कस्मान् मन्युरभूत् तव ।
३८.३६/२कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥ ३८.३६॥
३८.३७/१अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च ।
३८.३७/२विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने ॥ ३८.३७॥
३८.३८/१मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव ।
३८.३८/२नहि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥ ३८.३८॥
३८.३९/१देव्युवाच । न मेऽस्ति बन्धुभिः किंचित् कृत्यं सुरवरेश्वर ।
३८.३९/२तथा कुरु महादेव यथाहं सुखमाप्नुयाम् ॥ ३८.३९॥
३८.४०/१ब्रह्मोवाच । श्रुत्वा स देव्या वचनं सुरेशस्- ।
३८.४०/२तस्याः प्रियार्थे स्वगिरिं विहाय ।
३८.४०/३जगाम मेरुं सुरसिद्धसेवितम् ।
३८.४०/४भार्यासहायः स्वगणैश्च युक्तः ॥ ३८.४०॥
३९.१/१ऋषय ऊचुः । प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे ।
३९.१/२विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥ ३९.१॥
३९.२/१देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः ।
३९.२/२कथं विनाशितो यज्ञो दक्षस्यामिततेजसः ।
३९.२/३महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात् ॥ ३९.२॥
३९.३/१ब्रह्मोवाच । वर्णयिष्यामि वो विप्रा महादेवेन वै यथा ।
३९.३/२क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३९.३॥
३९.४/१पुरा मेरोर्द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् ।
३९.४/२ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ३९.४॥
३९.५/१अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् ।
३९.५/२तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ३९.५॥
३९.६/१पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह ।
३९.६/२शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ३९.६॥
३९.७/१आदित्याश्च महात्मानो वसवश्च महौजसः ।
३९.७/२तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ ३९.७॥
३९.८/१तथा वैश्रवणो राजा गुह्यकैः परिवारितः ।
३९.८/२यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥ ३९.८॥
३९.९/१उपासते महात्मानमुशना च महामुनिः ।
३९.९/२सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ३९.९॥
३९.१०/१अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च ।
३९.१०/२विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३९.१०॥
३९.११/१अप्सरोगणसंघाश्च समाजग्मुरनेकशः ।
३९.११/२ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ ३९.११॥
३९.१२/१सर्वर्तुकुसुमोपेतः पुष्पवन्तोऽभवन् द्रुमाः ।
३९.१२/२तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ ३९.१२॥
३९.१३/१महादेवं पशुपतिं पर्युपासत तत्र वै ।
३९.१३/२भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३९.१३॥
३९.१४/१राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ।
३९.१४/२बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ ३९.१४॥
३९.१५/१देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः ।
३९.१५/२नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः ॥ ३९.१५॥
३९.१६/१प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ।
३९.१६/२गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ ३९.१६॥
३९.१७/१पर्युपासत तं देवं रूपिणी द्विजसत्तमाः ।
३९.१७/२एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ ३९.१७॥
३९.१८/१देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत ।
३९.१८/२कस्यचित् त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ ३९.१८॥
३९.१९/१पूर्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत ।
३९.१९/२ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ ३९.१९॥
३९.२०/१स्वर्गस्थानाद् अथागम्य दक्षमापेदिरे तथा ।
३९.२०/२ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ ३९.२०॥
३९.२१/१देवस्यानुमतेऽगच्छन् गङ्गाद्वारमिति श्रुतिः ।
३९.२१/२गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ ३९.२१॥
३९.२२/१ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् ।
३९.२२/२पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ ३९.२२॥
३९.२३/१सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ।
३९.२३/२आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ ३९.२३॥
३९.२४/१विष्णुना सहिताः सर्व आगता यज्ञभागिनः ।
३९.२४/२ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ ३९.२४॥
३९.२५/१अश्विनौ मरुतश्चैव नानादेवगणैः सह ।
३९.२५/२एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ ३९.२५॥
३९.२६/१जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः ।
३९.२६/२आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ ३९.२६॥
३९.२७/१विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ।
३९.२७/२तान् दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ ३९.२७॥
३९.२८/१दधीचिरुवाच । अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ।
३९.२८/२नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ ३९.२८॥
३९.२९/१ब्रह्मोवाच । एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ३९.२९॥
३९.३०/१दधीचिरुवाच । पूज्यं च पशुभर्तारं कस्मान्
नार्चयसे प्रभुम् ॥ ३९.३०॥
३९.३१/१दक्ष उवाच । सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ।
३९.३१/२एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ ३९.३१॥
३९.३२/१दधीचिरुवाच । सर्वेषामेकमन्त्रोऽयं ममेशो न
निमन्त्रितः ।
३९.३२/२यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् ।
३९.३२/३तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥ ३९.३२॥
३९.३३/१दक्ष उवाच । दक्ष उवाच । विष्णोश्च भागा विविधाः प्रदत्तास्- ।
३९.३३/२तथा च रुद्रेभ्य उत प्रदत्ताः ।
३९.३३/३अन्येऽपि देवा निजभागयुक्ता ।
३९.३३/४ददामि भागं न तु शंकराय ॥ ३९.३३॥
३९.३४/१ब्रह्मोवाच । गतास्तु देवता ज्ञात्वा शैलराजसुता तदा ।
३९.३४/२उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ ३९.३४॥
३९.३५/१उमोवाच । भगवन् कुत्र यान्त्येते देवाः शक्रपुरोगमाः ।
३९.३५/२ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् ॥ ३९.३५॥
३९.३६/१महेश्वर उवाच । दक्षो नाम महाभागे प्रजानां पतिरुत्तमः ।
३९.३६/२हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३९.३६॥
३९.३७/१देव्युवाच । यज्ञमेतं महाभाग किमर्थं नानुगच्छसि ।
३९.३७/२केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ ३९.३७॥
३९.३८/१महेश्वर उवाच । सुरैरेव महाभागे सर्वमेतद् अनुष्ठितम् ।
३९.३८/२यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३९.३८॥
३९.३९/१पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि ।
३९.३९/२न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ ३९.३९॥
३९.४०/१उमोवाच । भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः ।
३९.४०/२अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ३९.४०॥
३९.४१/१अनेन तु महाभाग प्रतिषेधेन भागतः ।
३९.४१/२अतीव दुःखमापन्ना वेपथुश्च महान् अयम् ॥ ३९.४१॥
३९.४२/१किं नाम दानं नियमं तपो वा ।
३९.४२/२कुर्यामहं येन पतिर्ममाद्य ।
३९.४२/३लभेत भागं भगवान् अचिन्त्यो ।
३९.४२/४यज्ञस्य चेन्द्राद्यमरैर्विचित्रम् ॥ ३९.४२॥
३९.४३/१ब्रह्मोवाच । एवं ब्रुवाणां भगवान् विचिन्त्य ।
३९.४३/२पत्नीं प्रहृष्टः क्षुभितामुवाच ।
३९.४३/३महेश्वर उवाच । न वेत्सि मां देवि कृशोदराङ्गि ।
३९.४३/४किं नाम युक्तं वचनं तवेदम् ॥ ३९.४३॥
३९.४४/१अहं विजानामि विशालनेत्रे ।
३९.४४/२ध्यानेन सर्वे च विदन्ति सन्तः ।
३९.४४/३तवाद्य मोहेन सहेन्द्रदेवा ।
३९.४४/४लोकत्रयं सर्वमथो विनष्टम् ॥ ३९.४४॥
३९.४५/१मामध्वरेशं नितरां स्तुवन्ति ।
३९.४५/२रथंतरं साम गायन्ति मह्यम् ।
३९.४५/३मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति ।
३९.४५/४ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ३९.४५॥
३९.४६/१देव्युवाच । विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि ।
३९.४६/२स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥ ३९.४६॥
३९.४७/१भगवान् उवाच । नात्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि ।
३९.४७/२संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ ३९.४७॥
३९.४८/१ब्रह्मोवाच । इत्युक्त्वा भगवान् पत्नीमुमां प्राणैरपि प्रियाम् ।
३९.४८/२सोऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसम्भवम् ॥ ३९.४८॥
३९.४९/१तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वरः ।
३९.४९/२नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ ३९.४९॥
३९.५०/१ब्रह्मोवाच । ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया ।
३९.५०/२देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ३९.५०॥
३९.५१/१मन्युना च महाभीमा भद्रकाली महेश्वरी ।
३९.५१/२आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ ३९.५१॥
३९.५२/१स एष भगवान् क्रोधः प्रेतावासकृतालयः ।
३९.५२/२वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ ३९.५२॥
३९.५३/१सोऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् ।
३९.५३/२रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान् ॥ ३९.५३॥
३९.५४/१रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः ।
३९.५४/२ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ॥ ३९.५४॥
३९.५५/१ततः किलकिलाशब्द आकाशं पूरयन्न् इव ।
३९.५५/२समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः ॥ ३९.५५॥
३९.५६/१तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः ।
३९.५६/२पर्वताश्च व्यशीर्यन्त चकम्पे च वसुंधरा ॥ ३९.५६॥
३९.५७/१मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः ।
३९.५७/२अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ ३९.५७॥
३९.५८/१ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ।
३९.५८/२ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ ३९.५८॥
३९.५९/१एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः ।
३९.५९/२प्रभञ्जन्त्यपरे यूपान् घोरान् उत्पाटयन्ति च ॥ ३९.५९॥
३९.६०/१प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे ।
३९.६०/२त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ ३९.६०॥
३९.६१/१चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च ।
३९.६१/२शीर्यमाणान्यदृश्यन्त तारा इव नभस्तलात् ॥ ३९.६१॥
३९.६२/१दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः ।
३९.६२/२क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥ ३९.६२॥
३९.६३/१मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ।
३९.६३/२षड्रसान् निवहन्त्यन्या गुडकुल्या मनोरमाः ॥ ३९.६३॥
३९.६४/१उच्चावचानि मांसानि भक्ष्याणि विविधानि च ।
३९.६४/२यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ ३९.६४॥
३९.६५/१भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च ।
३९.६५/२रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ ३९.६५॥
३९.६६/१भक्षयन्तोऽथ शैलाभा भीषयन्तश्च सर्वतः ।
३९.६६/२क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ ३९.६६॥
३९.६७/१एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् ।
३९.६७/२रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥ ३९.६७॥
३९.६८/१तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः ।
३९.६८/२चक्रुरन्ये तथा नादान् सर्वभूतभयंकरान् ॥ ३९.६८॥
३९.६९/१छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयंकरम् ।
३९.६९/२ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः ।
३९.६९/३ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति ॥ ३९.६९॥
३९.७०/१वीरभद्र उवाच । नाहं देवो न दैत्यो वा न च भोक्तुमिहागतः ।
३९.७०/२नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ ३९.७०॥
३९.७१/१दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः ।
३९.७१/२वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः ॥ ३९.७१॥
३९.७२/१भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता ।
३९.७२/२प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥ ३९.७२॥
३९.७३/१शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् ।
३९.७३/२वरं क्रोधोऽपि देवस्य न वरः परिचारकैः ॥ ३९.७३॥
३९.७४/१ब्रह्मोवाच । निखातोत्पाटितैर्यूपैरपविद्धैस्ततस्ततः ।
३९.७४/२उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥ ३९.७४॥
३९.७५/१पक्षवातविनिर्धूतैः शिवारुतविनादितैः ।
३९.७५/२स तस्य यज्ञो नृपतेर्बाध्यमानस्तदा गणैः ॥ ३९.७५॥
३९.७६/१आस्थाय मृगरूपं वै खमेवाभ्यपतत् तदा ।
३९.७६/२तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ ३९.७६॥
३९.७७/१धनुरादाय बाणं च तदर्थमगमत् प्रभुः ।
३९.७७/२ततस्तस्य गणेशस्य क्रोधाद् अमिततेजसः ॥ ३९.७७॥
३९.७८/१ललाटात् प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह ।
३९.७८/२तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ ३९.७८॥
३९.७९/१प्रादुर्भूतो महान् अग्निर्ज्वलत्कालानलोपमः ।
३९.७९/२तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ ३९.७९॥
३९.८०/१ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर्विभीषणः ।
३९.८०/२ऊर्ध्वकेशोऽतिरोमाङ्गः शोणकर्णस्तथैव च ॥ ३९.८०॥
३९.८१/१करालकृष्णवर्णश्च रक्तवासास्तथैव च ।
३९.८१/२तं यज्ञं स महासत्त्वोऽदहत् कक्षमिवानलः ॥ ३९.८१॥
३९.८२/१देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश ।
३९.८२/२तेन तस्मिन् विचरता विक्रमेण तदा तु वै ॥ ३९.८२॥
३९.८३/१पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः ।
३९.८३/२महाभूते प्रवृत्ते तु देवलोकभयंकरे ॥ ३९.८३॥
३९.८४/१तदा चाहं महादेवमब्रवं प्रतिपूजयन् ।
३९.८४/२भवतेऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ ३९.८४॥
३९.८५/१क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ।
३९.८५/२इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥ ३९.८५॥
३९.८६/१तव क्रोधान् महादेव न शान्तिमुपलेभिरे ।
३९.८६/२यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभ ॥ ३९.८६॥
३९.८७/१ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ।
३९.८७/२एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ॥ ३९.८७॥
३९.८८/१समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ।
३९.८८/२इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥ ३९.८८॥
३९.८९/१भगवान् मां तथेत्याह देवदेवः पिनाकधृक् ।
३९.८९/२परां च प्रीतिमगमत् स स्वयं च पिनाकधृक् ॥ ३९.८९॥
३९.९०/१दक्षोऽपि मनसा देवं भवं शरणमन्वगात् ।
३९.९०/२प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ ३९.९०॥
३९.९१/१विधार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् ।
३९.९१/२स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते ॥ ३९.९१॥
३९.९२/१श्राविते च महाख्याने देवानां पितृभिः सह ।
३९.९२/२तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः ।
३९.९२/३भीतः शङ्कितचित्तस्तु सबाष्पवदनेक्षणः ॥ ३९.९२॥
३९.९३/१दक्ष उवाच । यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः ।
३९.९३/२यदि चाहमनुग्राह्यो यदि देयो वरो मम ॥ ३९.९३॥
३९.९४/१यद् भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् ।
३९.९४/२चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् ॥ ३९.९४॥
३९.९५/१दीर्घकालेन महता प्रयत्नेन च संचितम् ।
३९.९५/२न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर ॥ ३९.९५॥
३९.९६/१ब्रह्मोवाच । तथास्त्वित्याह भगवान् भगनेत्रहरो हरः ।
३९.९६/२धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ ३९.९६॥
३९.९७/१जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् ।
३९.९७/२नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥ ३९.९७॥
४०.१/१ब्रह्मोवाच । एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः ।
४०.१/२प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१॥
४०.२/१दक्ष उवाच । नमस्ते देवदेवेश नमस्तेऽन्धकसूदन ।
४०.२/२देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ ४०.२॥
४०.३/१सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
४०.३/२सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ ४०.३॥
४०.४/१सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि ।
४०.४/२शङ्कुकर्णो महाकर्णः कुम्भकर्णोऽर्णवालयः ॥ ४०.४॥
४०.५/१गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते ।
४०.५/२शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ४०.५॥
४०.६/१गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः ।
४०.६/२देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ४०.६॥
४०.७/१मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः ।
४०.७/२त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ४०.७॥
४०.८/१त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् ।
४०.८/२आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ४०.८॥
४०.९/१क्रिया करणकार्ये च कर्ता कारणमेव च ।
४०.९/२असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ ४०.९॥
४०.१०/१नमो भवाय शर्वाय रुद्राय वरदाय च ।
४०.१०/२पशूनां पतये चैव नमोऽस्त्वन्धकघातिने ॥ ४०.१०॥
४०.११/१त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ।
४०.११/२त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ४०.११॥
४०.१२/१नमश्चण्डाय मुण्डाय विश्वचण्डधराय च ।
४०.१२/२दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ ४०.१२॥
४०.१३/१नमोऽर्धदण्डिकेशाय शुष्काय विकृताय च ।
४०.१३/२विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ ४०.१३॥
४०.१४/१नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च ।
४०.१४/२सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ ४०.१४॥
४०.१५/१नमः प्रमथनाशाय वृषस्कन्धाय वै नमः ।
४०.१५/२नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ४०.१५॥
४०.१६/१हिरण्यकृतचूडाय हिरण्यपतये नमः ।
४०.१६/२शत्रुघाताय चण्डाय पर्णसंघशयाय च ॥ ४०.१६॥
४०.१७/१नमः स्तुताय स्तुतये स्तूयमानाय वै नमः ।
४०.१७/२सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ ४०.१७॥
४०.१८/१नमो होमाय मन्त्राय शुक्लध्वजपताकिने ।
४०.१८/२नमोऽनम्याय नम्याय नमः किलकिलाय च ॥ ४०.१८॥
४०.१९/१नमस्त्वां शयमानाय शयितायोत्थिताय च ।
४०.१९/२स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ ४०.१९॥
४०.२०/१नमो नर्तनशीलाय मुखवादित्रकारिणे ।
४०.२०/२बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ ४०.२०॥
४०.२१/१नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ।
४०.२१/२उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ ४०.२१॥
४०.२२/१नमः कपालहस्ताय सितभस्मप्रियाय च ।
४०.२२/२विभीषणाय भीमाय भीष्मव्रतधराय च ॥ ४०.२२॥
४०.२३/१नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे ।
४०.२३/२पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ ४०.२३॥
४०.२४/१अघोरघोररूपाय घोराघोरतराय च ।
४०.२४/२नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ ४०.२४॥
४०.२५/१नमो बुद्धाय शुद्धाय संविभागप्रियाय च ।
४०.२५/२पवनाय पतंगाय नमः सांख्यपराय च ॥ ४०.२५॥
४०.२६/१नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने ।
४०.२६/२सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ ४०.२६॥
४०.२७/१प्राणदण्डाय नित्याय नमस्ते लोहिताय च ।
४०.२७/२हूंहूंकाराय रुद्राय भगाकारप्रियाय च ॥ ४०.२७॥
४०.२८/१नमोऽपारवते नित्यं गिरिवृक्षप्रियाय च ।
४०.२८/२नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ ४०.२८॥
४०.२९/१यज्ञवाहाय दान्ताय तप्याय च भगाय च ।
४०.२९/२नमस्तटाय तट्याय तटिनीपतये नमः ॥ ४०.२९॥
४०.३०/१अन्नदायान्नपतये नमस्त्वन्नभुजाय च ।
४०.३०/२नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ४०.३०॥
४०.३१/१सहस्रोद्धतशूलाय सहस्रनयनाय च ।
४०.३१/२नमो बालार्कवर्णाय बालरूपधराय च ॥ ४०.३१॥
४०.३२/१नमो बालार्करूपाय बालक्रीडनकाय च ।
४०.३२/२नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ ४०.३२॥
४०.३३/१तरंगाङ्कितकेशाय मुक्तकेशाय वै नमः ।
४०.३३/२नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ४०.३३॥
४०.३४/१वर्णाश्रमाणां विधिवत् पृथग्धर्मप्रवर्तिने ।
४०.३४/२नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ४०.३४॥
४०.३५/१श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च ।
४०.३५/२धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ४०.३५॥
४०.३६/१सांख्याय सांख्यमुख्याय योगाधिपतये नमः ।
४०.३६/२नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ ४०.३६॥
४०.३७/१कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
४०.३७/२ईशान रुद्रसंघात हरिकेश नमोऽस्तु ते ॥ ४०.३७॥
४०.३८/१त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमोऽस्तु ते ।
४०.३८/२कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ४०.३८॥
४०.३९/१सर्वगर्हित सर्वघ्न सद्योजात नमोऽस्तु ते ।
४०.३९/२उन्मादन शतावर्त+ ।गङ्गातोयार्द्रमूर्धज ॥ ४०.३९॥
४०.४०/१चन्द्रार्धसंयुगावर्त मेघावर्त नमोऽस्तु ते ।
४०.४०/२नमोऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४०.४०॥
४०.४१/१अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल ।
४०.४१/२जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ ४०.४१॥
४०.४२/१त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ।
४०.४२/२चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ ४०.४२॥
४०.४३/१त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते ।
४०.४३/२सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४०.४३॥
४०.४४/१ऋक्सामानि तथौंकारमाहुस्त्वां ब्रह्मवादिनः ।
४०.४४/२हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ ४०.४४॥
४०.४५/१गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः ।
४०.४५/२यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ ४०.४५॥
४०.४६/१पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ।
४०.४६/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश्च ये ॥ ४०.४६॥
४०.४७/१त्वमेवाश्रमसंघाश्च विद्युत् स्तनितमेव च ।
४०.४७/२संवत्सरस्त्वम् ऋतवो मासा मासार्धमेव च ॥ ४०.४७॥
४०.४८/१कला काष्ठा निमेषाश्च नक्षत्राणि युगानि च ।
४०.४८/२वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४०.४८॥
४०.४९/१सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् ।
४०.४९/२क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ ४०.४९॥
४०.५०/१वज्रं प्रहरणानां च व्रतानां सत्यमेव च ।
४०.५०/२त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ ४०.५०॥
४०.५१/१व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ।
४०.५१/२त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ४०.५१॥
४०.५२/१छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः ।
४०.५२/२दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ॥ ४०.५२॥
४०.५३/१इन्दुः समुद्रः सरितः पल्वलानि सरांसि च ।
४०.५३/२लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ ४०.५३॥
४०.५४/१द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ।
४०.५४/२आदिश्चान्तश्च मध्यश्च गायत्र्योंकार एव च ॥ ४०.५४॥
४०.५५/१हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः ।
४०.५५/२कद्रुश्च कपिलो बभ्रुः कपोतो मच्छकस्तथा ॥ ४०.५५॥
४०.५६/१सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः ।
४०.५६/२सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ४०.५६॥
४०.५७/१त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः ।
४०.५७/२उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ ४०.५७॥
४०.५८/१होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः ।
४०.५८/२त्रिसौपर्णस्तथा ब्रह्मन् यजुषां शतरुद्रियम् ॥ ४०.५८॥
४०.५९/१पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
४०.५९/२प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ ४०.५९॥
४०.६०/१प्राणोऽपानः समानश्च उदानो व्यान एव च ।
४०.६०/२उन्मेषश्च निमेषश्च क्षुत्तृङ्जृम्भा तथैव च ॥ ४०.६०॥
४०.६१/१लोहिताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः ।
४०.६१/२शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ ४०.६१॥
४०.६२/१गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः ।
४०.६२/२मत्स्यो जालो जलोऽजय्यो जलव्यालः कुटीचरः ॥ ४०.६२॥
४०.६३/१विकालश्च सुकालश्च दुष्कालः कालनाशनः ।
४०.६३/२मृत्युश्चैवाक्षयोऽन्तश्च क्षमामायाकरोत्करः ॥ ४०.६३॥
४०.६४/१संवर्तो वर्तकश्चैव संवर्तकबलाहकौ ।
४०.६४/२घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ४०.६४॥
४०.६५/१ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् ।
४०.६५/२चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ४०.६५॥
४०.६६/१चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च ह ।
४०.६६/२क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ ४०.६६॥
४०.६७/१रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः ।
४०.६७/२शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ ४०.६७॥
४०.६८/१भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः ।
४०.६८/२स्वाहा स्वधा वषट्कारो नमस्कार नमोऽस्तु ते ॥ ४०.६८॥
४०.६९/१गूढव्रतश्च गूढश्च गूढव्रतनिषेवितः ।
४०.६९/२तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ ४०.६९॥
४०.७०/१धाता विधाता संधाता निधाता धारणो धरः ।
४०.७०/२तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ ४०.७०॥
४०.७१/१भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः ।
४०.७१/२भूर्भुवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ ४०.७१॥
४०.७२/१ब्रह्मावर्तः सुरावर्तः कामावर्त नमोऽस्तु ते ।
४०.७२/२कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ४०.७२॥
४०.७३/१गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः ।
४०.७३/२त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ४०.७३॥
४०.७४/१अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखोऽमुखः ।
४०.७४/२चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ ४०.७४॥
४०.७५/१हिरण्यगर्भः शकुनिर्धनदोऽर्थपतिर्विराट् ।
४०.७५/२अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ४०.७५॥
४०.७६/१तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः ।
४०.७६/२दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ४०.७६॥
४०.७७/१दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः ।
४०.७७/२शशः शशाङ्कनयन+ ।शीतोष्णः क्षुत् तृषा जरा ॥ ४०.७७॥
४०.७८/१आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः ।
४०.७८/२सह्यो यज्ञमृगव्याधो व्याधीनामाकरोऽकरः ॥ ४०.७८॥
४०.७९/१शिखण्डी पुण्डरीकश्च पुण्डरीकावलोकनः ।
४०.७९/२दण्डधृक् चक्रदण्डश्च रौद्रभागविनाशनः ॥ ४०.७९॥
४०.८०/१विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ।
४०.८०/२मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ ४०.८०॥
४०.८१/१वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः ।
४०.८१/२वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ४०.८१॥
४०.८२/१चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः ।
४०.८२/२अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ ४०.८२॥
४०.८३/१न ब्रह्मा न च गोविन्दः पुराणर्षयो न च ।
४०.८३/२माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ४०.८३॥
४०.८४/१शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् ।
४०.८४/२ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ ४०.८४॥
४०.८५/१रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ।
४०.८५/२भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ ४०.८५॥
४०.८६/१यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् ।
४०.८६/२तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ४०.८६॥
४०.८७/१यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः ।
४०.८७/२ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ४०.८७॥
४०.८८/१सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते ।
४०.८८/२यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ ४०.८८॥
४०.८९/१प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
४०.८९/२ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ४०.८९॥
४०.९०/१अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
४०.९०/२रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ४०.९०॥
४०.९१/१येनाप्युत्पादिता गर्भा अपो भागगताश्च ये ।
४०.९१/२तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ४०.९१॥
४०.९२/१येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च ।
४०.९२/२हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ ४०.९२॥
४०.९३/१ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च ।
४०.९३/२वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ४०.९३॥
४०.९४/१चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
४०.९४/२हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ४०.९४॥
४०.९५/१येषु पञ्चसु भूतेषु दिशासु विदिशासु च ।
४०.९५/२इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ४०.९५॥
४०.९६/१रसातलगता ये च ये च तस्मात् परं गताः ।
४०.९६/२नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ ४०.९६॥
४०.९७/१सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः ।
४०.९७/२सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ४०.९७॥
४०.९८/१त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः ।
४०.९८/२त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ४०.९८॥
४०.९९/१अथवा मायया देव मोहितः सूक्ष्मया तव ।
४०.९९/२तस्मात् तु कारणाद् वापि त्वं मया न निमन्त्रितः ॥ ४०.९९॥
४०.१००/१प्रसीद मम देवेश त्वमेव शरणं मम ।
४०.१००/२त्वं गतिस्त्वं प्रतिष्ठा च न चान्योऽस्तीति मे मतिः ॥ ४०.१००॥
४०.१०१/१ब्रह्मोवाच । स्तुत्वैवं स महादेवं विरराम महामतिः ।
४०.१०१/२भगवान् अपि सुप्रीतः पुनर्दक्षमभाषत ॥ ४०.१०१॥
४०.१०२/१श्रीभगवान् उवाच । परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
४०.१०२/२बहुना तु किमुक्तेन मत्समीपं गमिष्यसि ॥ ४०.१०२॥
४०.१०३/१ब्रह्मोवाच । तथैवमब्रवीद् वाक्यं त्रैलोक्याधिपतिर्भवः ।
४०.१०३/२कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ ४०.१०३॥
४०.१०४/१श्रीशिव उवाच । दक्ष दुःखं न कर्तव्यं
यज्ञविध्वंसनं प्रति ।
४०.१०४/२अहं यज्ञहनस्तुभ्यं दृष्टमेतत् पुरानघ ॥ ४०.१०४॥
४०.१०५/१भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत ।
४०.१०५/२प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु ॥ ४०.१०५॥
४०.१०६/१अश्वमेधसहस्रस्य वाजपेयशतस्य वै ।
४०.१०६/२प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ ४०.१०६॥
४०.१०७/१वेदान् षडङ्गान् बुध्यस्व सांख्ययोगांश्च कृत्स्नशः ।
४०.१०७/२तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ४०.१०७॥
४०.१०८/१अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् ।
४०.१०८/२वर्णाश्रमकृतैर्धर्मैर्विनीतं न क्वचित् क्वचित् ॥ ४०.१०८॥
४०.१०९/१समागतं व्यवसितं पशुपाशविमोक्षणम् ।
४०.१०९/२सर्वेषामाश्रमाणां च मया पाशुपतं व्रतम् ॥ ४०.१०९॥
४०.११०/१उत्पादितं दक्ष शुभं सर्वपापविमोचनम् ।
४०.११०/२अस्य चीर्णस्य यत् सम्यक् फलं भवति पुष्कलम् ।
४०.११०/३तच्चास्तु सुमहाभाग मानसस्त्यज्यतां ज्वरः ॥ ४०.११०॥
४०.१११/१ब्रह्मोवाच । एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः ।
४०.१११/२अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ ४०.१११॥
४०.११२/१अवाप्य च तथा भागं यथोक्तं चोमया भवः ।
४०.११२/२ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत् तदा ॥ ४०.११२॥
४०.११३/१शान्त्यर्थं सर्वभूतानां शृणुध्वमथ वै द्विजाः ।
४०.११३/२शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ ४०.११३॥
४०.११४/१अपां तु नीलिकां विद्यान् निर्मोको भुजगेषु च ।
४०.११४/२खोरकः सौरभेयाणामूखरः पृथिवीतले ॥ ४०.११४॥
४०.११५/१शुनामपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् ।
४०.११५/२रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ॥ ४०.११५॥
४०.११६/१नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् ।
४०.११६/२जनानामपि भेदश्च सर्वेषामिति नः श्रुतम् ॥ ४०.११६॥
४०.११७/१शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ।
४०.११७/२शार्दूलेष्वथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ ४०.११७॥
४०.११८/१मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः ।
४०.११८/२मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ ४०.११८॥
४०.११९/१एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः ।
४०.११९/२नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ४०.११९॥
४०.१२०/१इमां ज्वरोत्पत्तिमदीनमानसः ।
४०.१२०/२पठेत् सदा यः सुसमाहितो नरः ।
४०.१२०/३विमुक्तरोगः स नरो मुदायुतो ।
४०.१२०/४लभेत कामांश्च यथामनीषितान् ॥ ४०.१२०॥
४०.१२१/१दक्षप्रोक्तं स्तवं चापि कीर्तयेद् यः शृणोति वा ।
४०.१२१/२नाशुभं प्राप्नुयात् किंचिद् दीर्घमायुरवाप्नुयात् ॥ ४०.१२१॥
४०.१२२/१यथा सर्वेषु देवेषु वरिष्ठो भगवान् भवः ।
४०.१२२/२तथा स्तवो वरिष्ठोऽयं स्तवानां दक्षनिर्मितः ॥ ४०.१२२॥
४०.१२३/१यशःस्वर्गसुरैश्वर्य+ ।वित्तादिजयकाङ्क्षिभिः ।
४०.१२३/२स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ४०.१२३॥
४०.१२४/१व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः ।
४०.१२४/२राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ४०.१२४॥
४०.१२५/१अनेनैव च देहेन गणानां च महेश्वरात् ।
४०.१२५/२इह लोके सुखं प्राप्य गणराड् उपजायते ॥ ४०.१२५॥
४०.१२६/१न यक्षा न पिशाचा वा न नागा न विनायकाः ।
४०.१२६/२कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ४०.१२६॥
४०.१२७/१शृणुयाद् वा इदं नारी भक्त्याथ भवभाविता ।
४०.१२७/२पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ ४०.१२७॥
४०.१२८/१शृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्यभीक्ष्णशः ।
४०.१२८/२तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ४०.१२८॥
४०.१२९/१मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् ।
४०.१२९/२सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ ४०.१२९॥
४०.१३०/१देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च ।
४०.१३०/२बलिं विभजतः कृत्वा दमेन नियमेन च ॥ ४०.१३०॥
४०.१३१/१ततः प्रयुक्तो गृह्णीयान् नामान्याशु यथाक्रमम् ।
४०.१३१/२ईप्सितांल्लभतेऽप्यर्थान् कामान् भोगांश्च मानवः ॥ ४०.१३१॥
४०.१३२/१मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः ।
४०.१३२/२सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ ४०.१३२॥
४०.१३३/१पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते ।
४०.१३३/२मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ ४०.१३३॥
४०.१३४/१वृषेण विनियुक्तेन विमानेन विराजते ।
४०.१३४/२आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ४०.१३४॥
४०.१३५/१इत्याह भगवान् व्यासः पराशरसुतः प्रभुः ।
४०.१३५/२नैतद् वेदयते कश्चिन् नैतच्छ्राव्यं च कस्यचित् ॥ ४०.१३५॥
४०.१३६/१श्रुत्वेमं परमं गुह्यं येऽपि स्युः पापयोनयः ।
४०.१३६/२वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ४०.१३६॥
४०.१३७/१श्रावयेद् यश्च विप्रेभ्यः सदा पर्वसु पर्वसु ।
४०.१३७/२रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ४०.१३७॥
४१.१/१लोमहर्षण उवाच । श्रुत्वैवं वै मुनिश्रेष्ठाः कथां
पापप्रणाशिनीम् ।
४१.१/२रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१॥
४१.२/१पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् ।
४१.२/२उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ ४१.२॥
४१.३/१दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् ।
४१.३/२पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ४१.३॥
४१.४/१यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः ।
४१.४/२हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ ४१.४॥
४१.५/१पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः ।
४१.५/२पृष्टः प्रोवाच तान् व्यासः क्षेत्रमेकाम्रकं पुनः ॥ ४१.५॥
४१.६/१व्यास उवाच । ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः ।
४१.६/२प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ४१.६॥
४१.७/१ऋषय ऊचुः । अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् ।
४१.७/२दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ४१.७॥
४१.८/१एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् ।
४१.८/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४१.८॥
४१.९/१व्यास उवाच । तेषां तद् वचनं श्रुत्वा लोकनाथश्चतुर्मुखः ।
४१.९/२प्रोवाच शम्भोस्तत् क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ४१.९॥
४१.१०/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
४१.१०/२सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ ४१.१०॥
४१.११/१लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् ।
४१.११/२एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ४१.११॥
४१.१२/१एकाम्रवृक्षस्तत्रासीत् पुरा कल्पे द्विजोत्तमाः ।
४१.१२/२नाम्ना तस्यैव तत् क्षेत्रमेकाम्रकमिति श्रुतम् ॥ ४१.१२॥
४१.१३/१हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् ।
४१.१३/२विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ ४१.१३॥
४१.१४/१गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् ।
४१.१४/२नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ ४१.१४॥
४१.१५/१पुराट्टालकसंयुक्तं रथिभिः समलंकृतम् ।
४१.१५/२राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ ४१.१५॥
४१.१६/१मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् ।
४१.१६/२रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम् ॥ ४१.१६॥
४१.१७/१सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः ।
४१.१७/२समीरणोद्धताभिश्च पताकाभिरलंकृतम् ॥ ४१.१७॥
४१.१८/१नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः ।
४१.१८/२वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम् ॥ ४१.१८॥
४१.१९/१देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः ।
४१.१९/२पूजाविचित्ररचितैः सर्वत्र समलंकृतम् ॥ ४१.१९॥
४१.२०/१स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः ।
४१.२०/२हारैरलंकृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ ४१.२०॥
४१.२१/१पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः ।
४१.२१/२स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ ४१.२१॥
४१.२२/१सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः ।
४१.२२/२सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ ४१.२२॥
४१.२३/१दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसंनिभाः ।
४१.२३/२हंसवारणगामिन्यः कुचभारावनामिताः ॥ ४१.२३॥
४१.२४/१दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः ।
४१.२४/२मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ ४१.२४॥
४१.२५/१ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः ।
४१.२५/२ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ ४१.२५॥
४१.२६/१सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः ।
४१.२६/२दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ ४१.२६॥
४१.२७/१क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः ।
४१.२७/२स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ ४१.२७॥
४१.२८/१पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः ।
४१.२८/२सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ ४१.२८॥
४१.२९/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ।
४१.२९/२स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ ४१.२९॥
४१.३०/१अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः ।
४१.३०/२घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ ४१.३०॥
४१.३१/१उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा ।
४१.३१/२विश्वाचीसहजन्याभाः प्रम्लोचासदृशास्तथा ॥ ४१.३१॥
४१.३२/१सर्वास्ताः प्रियवादिन्यः सर्वा विहसिताननाः ।
४१.३२/२कलाकौशलसंयुक्ताः सर्वास्ता गुणसंयुताः ॥ ४१.३२॥
४१.३३/१एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः ।
४१.३३/२निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ ४१.३३॥
४१.३४/१प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः ।
४१.३४/२न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ ४१.३४॥
४१.३५/१यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः ।
४१.३५/२न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ ४१.३५॥
४१.३६/१न रोगिणो न मलिना न कदर्या न मायिनः ।
४१.३६/२न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ ४१.३६॥
४१.३७/१तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते ।
४१.३७/२सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम् ॥ ४१.३७॥
४१.३८/१नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् ।
४१.३८/२कर्णिकारैश्च पनसैश्चम्पकैर्नागकेसरैः ॥ ४१.३८॥
४१.३९/१पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः ।
४१.३९/२चूतनिम्बकदम्बैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.३९॥
४१.४०/१नीपकैर्धवखदिरैर्लताभिश्च विराजितम् ।
४१.४०/२शालैस्तालैस्तमालैश्च नारिकेलैः शुभाञ्जनैः ॥ ४१.४०॥
४१.४१/१अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः ।
४१.४१/२लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥ ४१.४१॥
४१.४२/१पलाशैर्मुचुकुन्दैश्च पारिजातैः सकुब्जकैः ।
४१.४२/२कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥ ४१.४२॥
४१.४३/१केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः ।
४१.४३/२मन्दारकुन्दपुष्पैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.४३॥
४१.४४/१नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः ।
४१.४४/२फलभारानतैर्वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ ४१.४४॥
४१.४५/१चकोरैः शतपत्त्रैश्च भृङ्गराजैश्च कोकिलैः ।
४१.४५/२कलविङ्कैर्मयूरैश्च प्रियपुत्रैः शुकैस्तथा ॥ ४१.४५॥
४१.४६/१जीवंजीवकहारीतैश्चातकैर्वनवेष्टितैः ।
४१.४६/२नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥ ४१.४६॥
४१.४७/१दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः ।
४१.४७/२नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥ ४१.४७॥
४१.४८/१कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ।
४१.४८/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४१.४८॥
४१.४९/१कारण्डवैः प्लवैर्हंसैस्तथान्यैर्जलचारिभिः ।
४१.४९/२एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥ ४१.४९॥
४१.५०/१नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः ।
४१.५०/२आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ ४१.५०॥
४१.५१/१हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः ।
४१.५१/२पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥ ४१.५१॥
४१.५२/१पुष्करिण्यस्तडागानि वाप्यः कूपाश्च सागराः ।
४१.५२/२तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक् ॥ ४१.५२॥
४१.५३/१सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह ।
४१.५३/२तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः ॥ ४१.५३॥
४१.५४/१चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् ।
४१.५४/२अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ ४१.५४॥
४१.५५/१यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः ।
४१.५५/२विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ ४१.५५॥
४१.५६/१देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य वाग्यतः ।
४१.५६/२तिलोदकेन विधिना नामगोत्रविधानवित् ॥ ४१.५६॥
४१.५७/१स्नात्वैवं विधिवत् तत्र सोऽश्वमेधफलं लभेत् ।
४१.५७/२ग्रहोपरागे विषुवे संक्रान्त्यामयने तथा ॥ ४१.५७॥
४१.५८/१युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ ।
४१.५८/२ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ ४१.५८॥
४१.५९/१अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै ।
४१.५९/२पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस्तटे ॥ ४१.५९॥
४१.६०/१पितृणामक्षयां तृप्तिं ते कुर्वन्ति न संशयः ।
४१.६०/२ततः शम्भोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ ४१.६०॥
४१.६१/१प्रविश्य पूजयेच्छर्वं कृत्वा तं त्रिः प्रदक्षिणम् ।
४१.६१/२घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ ४१.६१॥
४१.६२/१चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च ।
४१.६२/२ततः सम्पूजयेद् देवं चन्द्रमौलिमुमापतिम् ॥ ४१.६२॥
४१.६३/१पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः ।
४१.६३/२आगमोक्तेन मन्त्रेण वेदोक्तेन च शंकरम् ॥ ४१.६३॥
४१.६४/१अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् ।
४१.६४/२एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ ४१.६४॥
४१.६५/१धूपदीपैश्च नैवेद्यैरुपहारैस्तथा स्तवैः ।
४१.६५/२दण्डवत्प्रणिपातैश्च गीतैर्वाद्यैर्मनोहरैः ॥ ४१.६५॥
४१.६६/१नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः ।
४१.६६/२एवं सम्पूज्य विधिवद् देवदेवमुमापतिम् ॥ ४१.६६॥
४१.६७/१सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः ।
४१.६७/२कुलैकविंशमुद्धृत्य दिव्याभरणभूषिताः ॥ ४१.६७॥
४१.६८/१सौवर्णेन विमानेन किङ्किणीजालमालिना ।
४१.६८/२उपगीयमानो गन्धर्वैरप्सरोभिरलंकृतः ॥ ४१.६८॥
४१.६९/१उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति ।
४१.६९/२भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ ४१.६९॥
४१.७०/१तल्लोकवासिभिः सार्धं यावद् आभूतसम्प्लवम् ।
४१.७०/२ततस्तस्माद् इहायातः पृथिव्यां पुण्यसंक्षये ॥ ४१.७०॥
४१.७१/१जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः ।
४१.७१/२योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४१.७१॥
४१.७२/१शयनोत्थापने चैव संक्रान्त्यामयने तथा ।
४१.७२/२अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ ४१.७२॥
४१.७३/१ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् ।
४१.७३/२विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ ४१.७३॥
४१.७४/१सर्वकालेऽपि तं देवं ये पश्यन्ति सुमेधसः ।
४१.७४/२तेऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ ४१.७४॥
४१.७५/१देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा ।
४१.७५/२योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम् ॥ ४१.७५॥
४१.७६/१तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम् ।
४१.७६/२पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ ४१.७६॥
४१.७७/१आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् ।
४१.७७/२सर्वपापविनिर्मुक्ता विमानवरमास्थिताः ॥ ४१.७७॥
४१.७८/१उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ।
४१.७८/२तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥ ४१.७८॥
४१.७९/१भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् ।
४१.७९/२पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले ॥ ४१.७९॥
४१.८०/१अथवा योगिनां गेहे वेदवेदाङ्गपारगाः ।
४१.८०/२उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ ४१.८०॥
४१.८१/१मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः ।
४१.८१/२योगं शम्भोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ ४१.८१॥
४१.८२/१तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः ।
४१.८२/२पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरेऽपि वा ॥ ४१.८२॥
४१.८३/१चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति ।
४१.८३/२दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥ ४१.८३॥
४१.८४/१स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः ।
४१.८४/२धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥ ४१.८४॥
४१.८५/१दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा ।
४१.८५/२सम्पूज्यैवं विधानेन शिवलोकं व्रजेन् नरः ॥ ४१.८५॥
४१.८६/१नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता ।
४१.८६/२पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥ ४१.८६॥
४१.८७/१कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः ।
४१.८७/२तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात् ॥ ४१.८७॥
४१.८८/१तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा ।
४१.८८/२माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ ४१.८८॥
४१.८९/१यस्मिन् यस्मिंस्तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि ।
४१.८९/२पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ ४१.८९॥
४१.९०/१गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा ।
४१.९०/२कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९०॥
४१.९१/१स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने ।
४१.९१/२प्राप्नोत्यभिमतान् कामाञ् शिवलोकं स गच्छति ॥ ४१.९१॥
४१.९२/१यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः ।
४१.९२/२कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ ४१.९२॥
४१.९३/१एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे ।
४१.९३/२स्नानं करोति यस्तत्र मोक्षं स लभते ध्रुवम् ॥ ४१.९३॥
४२.१/१ब्रह्मोवाच । विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता ।
४२.१/२यस्याः संदर्शनान् मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१॥
४२.२/१सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च ।
४२.२/२नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ ४२.२॥
४२.३/१अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः ।
४२.३/२सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ४२.३॥
४२.४/१आस्ते वैतरणी तत्र सर्वपापहरा नदी ।
४२.४/२यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४२.४॥
४२.५/१आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् ।
४२.५/२दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ४२.५॥
४२.६/१कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते ।
४२.६/२मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ४२.६॥
४२.७/१तीर्थेष्वेतेषु मतिमान् विरजे संयतेन्द्रियः ।
४२.७/२गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च ॥ ४२.७॥
४२.८/१सर्वपापविनिर्मुक्तो विमानवरमास्थितः ।
४२.८/२उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ ४२.८॥
४२.९/१विरजे यो मम क्षेत्रे पिण्डदानं करोति वै ।
४२.९/२स करोत्यक्षयां तृप्तिं पितृणां नात्र संशयः ॥ ४२.९॥
४२.१०/१मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् ।
४२.१०/२परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ ४२.१०॥
४२.११/१स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् ।
४२.११/२पश्येद् देवीं च वाराहीं स याति त्रिदशालयम् ॥ ४२.११॥
४२.१२/१सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च ।
४२.१२/२तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ ४२.१२॥
४२.१३/१समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः ।
४२.१३/२आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ ४२.१३॥
४२.१४/१सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् ।
४२.१४/२दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४२.१४॥
४२.१५/१अशोकार्जुनपुंनागैर्बकुलैः सरलद्रुमैः ।
४२.१५/२पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ ४२.१५॥
४२.१६/१चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः ।
४२.१६/२कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ ४२.१६॥
४२.१७/१प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः ।
४२.१७/२सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ ४२.१७॥
४२.१८/१मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः ।
४२.१८/२खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ ४२.१८॥
४२.१९/१अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः ।
४२.१९/२शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ ४२.१९॥
४२.२०/१सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः ।
४२.२०/२मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ ४२.२०॥
४२.२१/१श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः ।
४२.२१/२मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ ४२.२१॥
४२.२२/१चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः ।
४२.२२/२कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४२.२२॥
४२.२३/१प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः ।
४२.२३/२श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ ४२.२३॥
४२.२४/१केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ।
४२.२४/२मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ ४२.२४॥
४२.२५/१जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः ।
४२.२५/२मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ ४२.२५॥
४२.२६/१अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः ।
४२.२६/२लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ ४२.२६॥
४२.२७/१दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः ।
४२.२७/२नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ ४२.२७॥
४२.२८/१सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
४२.२८/२कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ४२.२८॥
४२.२९/१कह्लारैः कमलैश्चापि आचितानि समन्ततः ।
४२.२९/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४२.२९॥
४२.३०/१कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः ।
४२.३०/२दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ४२.३०॥
४२.३१/१एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः ।
४२.३१/२खगैर्जलचरैश्चान्यैः कुसुमैश्च जलोद्भवैः ॥ ४२.३१॥
४२.३२/१एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः ।
४२.३२/२ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ ४२.३२॥
४२.३३/१स्वधर्मनिरतैर्वर्णैस्तथान्यैः समलंकृतम् ।
४२.३३/२हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ ४२.३३॥
४२.३४/१अशेषविद्यानिलयं सर्वधर्मगुणाकरम् ।
४२.३४/२एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ४२.३४॥
४२.३५/१आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः ।
४२.३५/२यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता ॥ ४२.३५॥
४२.३६/१तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः ।
४२.३६/२यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ ४२.३६॥
४२.३७/१जगद्व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् ।
४२.३७/२अहं रुद्रश्च शक्रश्च देवाश्चाग्निपुरोगमाः ॥ ४२.३७॥
४२.३८/१निवसामो मुनिश्रेष्ठास्तस्मिन् देशे सदा वयम् ।
४२.३८/२गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ ४२.३८॥
४२.३९/१यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः ।
४२.३९/२ऋषयो वालखिल्याश्च कश्यपाद्याः प्रजेश्वराः ॥ ४२.३९॥
४२.४०/१सुपर्णाः किंनरा नागास्तथान्ये स्वर्गवासिनः ।
४२.४०/२साङ्गाश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥ ४२.४०॥
४२.४१/१इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः ।
४२.४१/२नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ४२.४१॥
४२.४२/१सागराश्च तथा शैलास्तस्मिन् देशे व्यवस्थिताः ।
४२.४२/२एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ४२.४२॥
४२.४३/१सर्वोपभोगसहिते वासः कस्य न रोचते ।
४२.४३/२श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः ॥ ४२.४३॥
४२.४४/१आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः ।
४२.४४/२धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ ४२.४४॥
४२.४५/१तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् ।
४२.४५/२स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ ४२.४५॥
४२.४६/१ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे ।
४२.४६/२सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥ ४२.४६॥
४२.४७/१ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् ।
४२.४७/२चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ ४२.४७॥
४२.४८/१चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् ।
४२.४८/२सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ४२.४८॥
४२.४९/१त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ ४२.४९॥
४३.१/१ब्रह्मोवाच । पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः ।
४३.१/२बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥ ४३.१॥
४३.२/१सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः ।
४३.२/२रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ ४३.२॥
४३.३/१यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ।
४३.३/२धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ४३.३॥
४३.४/१वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ।
४३.४/२आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः ॥ ४३.४॥
४३.५/१वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः ।
४३.५/२अध्येता योगसांख्यानां मुमुक्षुर्धर्मतत्परः ॥ ४३.५॥
४३.६/१एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः ।
४३.६/२तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ ४३.६॥
४३.७/१कथमाराधयिष्यामि देवदेवं जनार्दनम् ।
४३.७/२कस्मिन् क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ४३.७॥
४३.८/१एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् ।
४३.८/२आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ ४३.८॥
४३.९/१तानि सर्वाणि संत्यज्य जगामायतनं पुनः ।
४३.९/२विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.९॥
४३.१०/१स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः ।
४३.१०/२अयजच्चाश्वमेधेन विधिवद् भूरिदक्षिणः ॥ ४३.१०॥
४३.११/१कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् ।
४३.११/२तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ४३.११॥
४३.१२/१पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः ।
४३.१२/२स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ ४३.१२॥
४३.१३/१भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् ।
४३.१३/२प्रसादाद् देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ४३.१३॥
४३.१४/१मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः ।
४३.१४/२सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥ ४३.१४॥
४३.१५/१मुनय ऊचुः । कस्मात् स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः ।
४३.१५/२जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.१५॥
४३.१६/१गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः ।
४३.१६/२वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम् ॥ ४३.१६॥
४३.१७/१कथं स सर्वफलदे क्षेत्रे परमदुर्लभे ।
४३.१७/२प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ ४३.१७॥
४३.१८/१कथं स कृष्णं रामं च सुभद्रां च प्रजापते ।
४३.१८/२निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम् ॥ ४३.१८॥
४३.१९/१कथं तत्र महीपालः प्रासादे भुवनोत्तमे ।
४३.१९/२स्थापयामास मतिमान् कृष्णादींस्त्रिदशार्चितान् ॥ ४३.१९॥
४३.२०/१एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् ।
४३.२०/२वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ ४३.२०॥
४३.२१/१न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै ।
४३.२१/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४३.२१॥
४३.२२/१ब्रह्मोवाच । साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् ।
४३.२२/२सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ४३.२२॥
४३.२३/१वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे ।
४३.२३/२शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ ४३.२३॥
४३.२४/१अवन्ती नाम नगरी मालवे भुवि विश्रुता ।
४३.२४/२बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ ४३.२४॥
४३.२५/१हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा ।
४३.२५/२दृढयन्त्रार्गलद्वारा परिखाभिरलंकृता ॥ ४३.२५॥
४३.२६/१नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया ।
४३.२६/२रथ्यापणवती रम्या ।
४३.२६/३सुविभक्तचतुष्पथा ॥ ४३.२६॥
४३.२७/१गृहगोपुरसम्बाधा वीथीभिः समलंकृता ।
४३.२७/२राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ ४३.२७॥
४३.२८/१अनेकशतसाहस्रैः प्रासादैः समलंकृता ।
४३.२८/२यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ ४३.२८॥
४३.२९/१नानावर्णपताकाभिर्ध्वजैश्च समलंकृता ।
४३.२९/२हस्त्यश्वरथसंकीर्णा पदातिगणसंकुला ॥ ४३.२९॥
४३.३०/१नानायोधसमाकीर्णा नानाजनपदैर्युता ।
४३.३०/२ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ ४३.३०॥
४३.३१/१समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता ।
४३.३१/२न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ ४३.३१॥
४३.३२/१न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः ।
४३.३२/२सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ ४३.३२॥
४३.३३/१क्रीडन्ति स्म दिवा रात्रौ हृष्टास्तत्र पृथक् पृथक् ।
४३.३३/२सुवेषाः पुरुषास्तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ ४३.३३॥
४३.३४/१सुरूपाः सुगुणाश्चैव दिव्यालंकारभूषिताः ।
४३.३४/२कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ ४३.३४॥
४३.३५/१सुकेशाः सुकपोलाश्च सुमुखाः श्मश्रुधारिणः ।
४३.३५/२ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ ४३.३५॥
४३.३६/१दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् ।
४३.३६/२स्त्रियस्तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ ४३.३६॥
४३.३७/१हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः ।
४३.३७/२सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ ४३.३७॥
४३.३८/१सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः ।
४३.३८/२हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ ४३.३८॥
४३.३९/१बिम्बौष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः ।
४३.३९/२सुवर्णाभरणोपेताः सर्वालंकारभूषिताः ॥ ४३.३९॥
४३.४०/१श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः ।
४३.४०/२दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४३.४०॥
४३.४१/१विदग्धाः सुभगाः कान्ताश्चार्वङ्ग्यः प्रियदर्शनाः ।
४३.४१/२रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ ४३.४१॥
४३.४२/१क्रीडन्त्यश्च मदोन्मत्ताः च ।
४३.४२/२गीतवाद्यकथालापै रमयन्त्यश्च ताः स्त्रियः ॥ ४३.४२॥
४३.४३/१वारमुख्याश्च दृश्यन्ते नृत्यगीतविशारदाः ।
४३.४३/२प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ ४३.४३॥
४३.४४/१अन्याश्च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः ।
४३.४४/२पतिव्रताश्च सुभगा गुणैः सर्वैरलंकृताः ॥ ४३.४४॥
४३.४५/१वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः ।
४३.४५/२देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥ ४३.४५॥
४३.४६/१शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः ।
४३.४६/२पिप्पलैः कर्णिकारैश्च चन्दनागुरुचम्पकैः ॥ ४३.४६॥
४३.४७/१पुंनागैर्नारिकेरैश्च पनसैः सरलद्रुमैः ।
४३.४७/२नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ ४३.४७॥
४३.४८/१चूतबिल्वकदम्बैश्च शिंशपैर्धवखादिरैः ।
४३.४८/२पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ ४३.४८॥
४३.४९/१पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा ।
४३.४९/२न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥ ४३.४९॥
४३.५०/१मन्दारैः पारिजातैश्च तिन्तिडीकविभीतकैः ।
४३.५०/२प्राचीनामलकैः प्लक्षैर्जम्बूशिरीषपादपैः ॥ ४३.५०॥
४३.५१/१कालेयैः काञ्चनारैश्च मधुजम्बीरतिन्दुकैः ।
४३.५१/२खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ ४३.५१॥
४३.५२/१कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीजपूरकैः ।
४३.५२/२केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ ४३.५२॥
४३.५३/१मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः ।
४३.५३/२मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ ४३.५३॥
४३.५४/१बहुवारैः कोविदारैर्बदरैः सकरञ्जकैः ।
४३.५४/२अन्यैश्च विविधैः पुष्प+ ।वृक्षैश्चान्यैर्मनोहरैः ॥ ४३.५४॥
४३.५५/१लतागुल्मैर्वितानैश्च उद्यानैर्नन्दनोपमैः ।
४३.५५/२सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ ४३.५५॥
४३.५६/१नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः ।
४३.५६/२चकोरैः शतपत्त्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥ ४३.५६॥
४३.५७/१कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा ।
४३.५७/२कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥ ४३.५७॥
४३.५८/१खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः ।
४३.५८/२सरितः पुष्करिण्यश्च सरांसि सुबहूनि च ॥ ४३.५८॥
४३.५९/१अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः ।
४३.५९/२पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥ ४३.५९॥
४३.६०/१अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः ।
४३.६०/२गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ४३.६०॥
४३.६१/१हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।
४३.६१/२सारसैश्च बलाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥ ४३.६१॥
४३.६२/१जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः ।
४३.६२/२खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥ ४३.६२॥
४३.६३/१नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः ।
४३.६३/२एवं नानाविधैः पुष्पैर्विविधैश्च जलाशयैः ॥ ४३.६३॥
४३.६४/१विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा ।
४३.६४/२जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठितैः ॥ ४३.६४॥
४३.६५/१देवतायतनैर्दिव्यैः शोभिता सा महापुरी ।
४३.६५/२तत्रास्ते भगवान् देवस्त्रिपुरारिस्त्रिलोचनः ॥ ४३.६५॥
४३.६६/१महाकालेति विख्यातः सर्वकामप्रदः शिवः ।
४३.६६/२शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने ॥ ४३.६६॥
४३.६७/१देवान् पितृन् ऋषींश्चैव संतर्प्य विधिवद् बुधः ।
४३.६७/२गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम् ॥ ४३.६७॥
४३.६८/१प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः ।
४३.६८/२स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दीपैश्च भक्तितः ॥ ४३.६८॥
४३.६९/१नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः ।
४३.६९/२दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैश्च शंकरम् ॥ ४३.६९॥
४३.७०/१सम्पूज्य विधिवद् भक्त्या महाकालं सकृच्छिवम् ।
४३.७०/२अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ४३.७०॥
४३.७१/१पापैः सर्वैर्विनिर्मुक्तो विमानैः सार्वकामिकैः ।
४३.७१/२आरुह्य त्रिदिवं याति यत्र शम्भोर्निकेतनम् ॥ ४३.७१॥
४३.७२/१दिव्यरूपधरः श्रीमान् दिव्यालंकारभूषितः ।
४३.७२/२भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ४३.७२॥
४३.७३/१शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः ।
४३.७३/२पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले ॥ ४३.७३॥
४३.७४/१चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः ।
४३.७४/२योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४३.७४॥
४३.७५/१आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता ।
४३.७५/२तस्यां स्नातस्तु विधिवत् संतर्प्य पितृदेवताः ॥ ४३.७५॥
४३.७६/१सर्वपापविनिर्मुक्तो विमानवरमास्थितः ।
४३.७६/२भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः ॥ ४३.७६॥
४३.७७/१आस्ते तत्रैव भगवान् देवदेवो जनार्दनः ।
४३.७७/२गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ ४३.७७॥
४३.७८/१तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः ।
४३.७८/२विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ४३.७८॥
४३.७९/१सर्वकामसमृद्धेन कामगेनास्थिरेण च ।
४३.७९/२उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥ ४३.७९॥
४३.८०/१भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः ।
४३.८०/२आभूतसम्प्लवं यावत् सुरूपः सुभगः सुखी ॥ ४३.८०॥
४३.८१/१कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले ।
४३.८१/२प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ ४३.८१॥
४३.८२/१वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ।
४३.८२/२विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ ४३.८२॥
४३.८३/१दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् ।
४३.८३/२अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ ४३.८३॥
४३.८४/१मातरश्च मुनिश्रेष्ठाः सर्वकामफलप्रदाः ।
४३.८४/२दृष्ट्वा तान् विधिवद् भक्त्या सम्पूज्य प्रणिपत्य च ॥ ४३.८४॥
४३.८५/१सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् ।
४३.८५/२एवं सा नगरी रम्या राजसिंहेन पालिता ॥ ४३.८५॥
४३.८६/१नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती ।
४३.८६/२पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ ४३.८६॥
४३.८७/१धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता ।
४३.८७/२विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ ४३.८७॥
४३.८८/१इतिहासपुराणानि शास्त्राणि विविधानि च ।
४३.८८/२काव्यालापकथाश्चैव श्रूयन्तेऽहर्निशं द्विजाः ॥ ४३.८८॥
४३.८९/१एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता ।
४३.८९/२यस्यां राजाभवत् पूर्वमिन्द्रद्युम्नो महामतिः ॥ ४३.८९॥
४४.१/१ब्रह्मोवाच । तस्यां स नृपतिः पूर्वं कुर्वन् राज्यमनुत्तमम् ।
४४.१/२पालयामास मतिमान् प्रजाः पुत्रान् इवौरसान् ॥ ४४.१॥
४४.२/१सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः ।
४४.२/२मतिमान् धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ ४४.२॥
४४.३/१सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरंजयः ।
४४.३/२आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ ४४.३॥
४४.४/१वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः ।
४४.४/२शारदेन्दुरिवाभाति लक्षणैः समलंकृतः ॥ ४४.४॥
४४.५/१आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा ।
४४.५/२दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ ४४.५॥
४४.६/१सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः ।
४४.६/२प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ४४.६॥
४४.७/१हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् ।
४४.७/२रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ ४४.७॥
४४.८/१एवं सर्वधनैर्युक्तो गुणैः सर्वैरलंकृतः ।
४४.८/२सर्वकामसमृद्धात्मा कुर्वन् राज्यमकण्टकम् ॥ ४४.८॥
४४.९/१तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् ।
४४.९/२कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ४४.९॥
४४.१०/१विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् ।
४४.१०/२इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ ४४.१०॥
४४.११/१धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् ।
४४.११/२वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ४४.११॥
४४.१२/१गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् ।
४४.१२/२आधाय परमां काष्ठां कृतकृत्योऽभवत् तदा ॥ ४४.१२॥
४४.१३/१सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् ।
४४.१३/२भ्रान्तिज्ञानाद् अतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ ४४.१३॥
४४.१४/१कथमाराधयिष्यामि देवदेवं सनातनम् ।
४४.१४/२पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४.१४॥
४४.१५/१वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् ।
४४.१५/२श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ ४४.१५॥
४४.१६/१स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः ।
४४.१६/२बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ ४४.१६॥
४४.१७/१अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः ।
४४.१७/२रथैर्विमानसंकाशैः पताकाध्वजसेवितैः ॥ ४४.१७॥
४४.१८/१सादिनश्च तथा सर्वे प्रासतोमरपाणयः ।
४४.१८/२अश्वैः पवनसंकाशैरनुजग्मुस्तु तं नृपम् ॥ ४४.१८॥
४४.१९/१हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः ।
४४.१९/२ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ ४४.१९॥
४४.२०/१हेमकक्षैः सपताकैर्घण्टारवविभूषितैः ।
४४.२०/२अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ ४४.२०॥
४४.२१/१असंख्येयाश्च पादाता धनुष्प्रासासिपाणयः ।
४४.२१/२दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४४.२१॥
४४.२२/१अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः ।
४४.२२/२सर्वास्त्रकुशलाः शूराः सदा संग्रामलालसाः ॥ ४४.२२॥
४४.२३/१अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः ।
४४.२३/२बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ ४४.२३॥
४४.२४/१दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः ।
४४.२४/२दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ ४४.२४॥
४४.२५/१सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः ।
४४.२५/२ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ ४४.२५॥
४४.२६/१यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः ।
४४.२६/२उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ ४४.२६॥
४४.२७/१वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः ।
४४.२७/२ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ ४४.२७॥
४४.२८/१वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः ।
४४.२८/२धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ ४४.२८॥
४४.२९/१अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः ।
४४.२९/२तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ ४४.२९॥
४४.३०/१रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा ।
४४.३०/२तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ ४४.३०॥
४४.३१/१फलविक्रयिणश्चैव पत्त्रविक्रयिणस्तथा ।
४४.३१/२तथा जवसहाराश्च रजकाश्च सहस्रशः ॥ ४४.३१॥
४४.३२/१गोपाला नापिताश्चैव तथान्ये वस्त्रसूचकाः ।
४४.३२/२मेषपालाश्चाजपाला मृगपालाश्च हंसकाः ॥ ४४.३२॥
४४.३३/१धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये ।
४४.३३/२गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥ ४४.३३॥
४४.३४/१गायना नर्तकाश्चैव तथा मङ्गलपाठकाः ।
४४.३४/२शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥ ४४.३४॥
४४.३५/१कवयः काव्यकर्तारो नानाकाव्यविशारदाः ।
४४.३५/२विषघ्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥ ४४.३५॥
४४.३६/१व्योकारास्ताम्रकाराश्च कांस्यकाराश्च रूठकाः ।
४४.३६/२कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥ ४४.३६॥
४४.३७/१दण्डकाराश्चासिकाराः सुराधूतोपजीविनः ।
४४.३७/२मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥ ४४.३७॥
४४.३८/१तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः ।
४४.३८/२लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥ ४४.३८॥
४४.३९/१गजवैद्याश्च वैद्याश्च नरवैद्याश्च ये नराः ।
४४.३९/२वृक्षवैद्याश्च गोवैद्या ये चान्ये छेददाहकाः ॥ ४४.३९॥
४४.४०/१एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः ।
४४.४०/२अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥ ४४.४०॥
४४.४१/१यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः ।
४४.४१/२अनुयान्ति यथा पुत्रास्तथा तं तेऽपि नागराः ॥ ४४.४१॥
४४.४२/१एवं स नृपतिः श्रीमान् वृतः सर्वैर्महाजनैः ।
४४.४२/२हस्त्यश्वरथपादातैर्जगाम च शनैः शनैः ॥ ४४.४२॥
४४.४३/१एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् ।
४४.४३/२सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥ ४४.४३॥
४४.४४/१ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् ।
४४.४४/२अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥ ४४.४४॥
४४.४५/१नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् ।
४४.४५/२वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ ४४.४५॥
४४.४६/१तीर्थराजं महाशब्दमपारं सुभयंकरम् ।
४४.४६/२मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥ ४४.४६॥
४४.४७/१मत्स्यैः कूर्मैश्च शङ्खैश्च शुक्तिकानक्रशङ्कुभिः ।
४४.४७/२शिंशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥ ४४.४७॥
४४.४८/१लवणोदं हरेः स्थानं शयनस्य नदीपतिम् ।
४४.४८/२सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ ४४.४८॥
४४.४९/१अनेकावर्तगम्भीरं दानवानां समाश्रयम् ।
४४.४९/२अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥ ४४.४९॥
४४.५०/१विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् ।
४४.५०/२सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ ४४.५०॥
४४.५१/१तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् ।
४४.५१/२चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ ४४.५१॥
४४.५२/१अभेद्यं सर्वभूतानां देवानाममृतालयम् ।
४४.५२/२उत्पत्तिस्थितिसंहार+ एतुभूतं सनातनम् ॥ ४४.५२॥
४४.५३/१उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् ।
४४.५३/२दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ ४४.५३॥
४४.५४/१निवासमकरोत् तत्र वेलामसाद्य सागरीम् ।
४४.५४/२पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥ ४४.५४॥
४४.५५/१वृतं शालैः कदम्बैश्च पुंनागैः सरलद्रुमैः ।
४४.५५/२पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥ ४४.५५॥
४४.५६/१तालैः पिप्पलैः खर्जूरैर्नारङ्गैर्बीजपूरकैः ।
४४.५६/२शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥ ४४.५६॥
४४.५७/१कपित्थैः कर्णिकारैश्च पाटलाशोकचम्पकैः ।
४४.५७/२दाडिमैश्च तमालैश्च पारिजातैस्तथार्जुनैः ॥ ४४.५७॥
४४.५८/१प्राचीनामलकैर्बिल्वैः प्रियङ्गुवटखादिरैः ।
४४.५८/२इङ्गुदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुकैः ॥ ४४.५८॥
४४.५९/१मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः ।
४४.५९/२पलाशबदरैर्नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ ४४.५९॥
४४.६०/१वारकैः कोविदारैश्च भल्लातामलकैस्तथा ।
४४.६०/२इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ ४४.६०॥
४४.६१/१ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः ।
४४.६१/२शाखोठकैर्निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ ४४.६१॥
४४.६२/१गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरुपाटलैः ।
४४.६२/२जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥ ४४.६२॥
४४.६३/१एवं नानाविधैर्वृक्षैस्तथान्यैर्बहुपादपैः ।
४४.६३/२कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ ४४.६३॥
४४.६४/१नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः ।
४४.६४/२मयूरवरसंघुष्टैः शुकसारिकसंकुलैः ॥ ४४.६४॥
४४.६५/१हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः ।
४४.६५/२जीवंजीवककाकोलैः कलविङ्कैः कपोतकैः ॥ ४४.६५॥
४४.६६/१खगैर्नानाविधैश्चान्यैः श्रोत्ररम्यैर्मनोहरैः ।
४४.६६/२पुष्पिताग्रेषु वृक्षेषु कूजद्भिश्चार्वधिष्ठितैः ॥ ४४.६६॥
४४.६७/१केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः ।
४४.६७/२मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥ ४४.६७॥
४४.६८/१कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः ।
४४.६८/२मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥ ४४.६८॥
४४.६९/१अन्यैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः ।
४४.६९/२वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥ ४४.६९॥
४४.७०/१विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः ।
४४.७०/२गन्धर्वोरगरक्षोभिर्भूताप्सरसकिंनरैः ॥ ४४.७०॥
४४.७१/१मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः ।
४४.७१/२मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥ ४४.७१॥
४४.७२/१तथान्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः ।
४४.७२/२शार्दूलैर्दीप्तमातङ्गैस्तथान्यैर्वनचारिभिः ॥ ४४.७२॥
४४.७३/१एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः ।
४४.७३/२लतागुल्मवितानैश्च विविधैश्च जलाशयैः ॥ ४४.७३॥
४४.७४/१हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः ।
४४.७४/२कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपशोभितैः ॥ ४४.७४॥
४४.७५/१कमलैः शतपत्त्रैश्च कह्लारैः कुमुदोत्पलैः ।
४४.७५/२खगैर्जलचरैश्चान्यैः पुष्पैर्जलसमुद्भवैः ॥ ४४.७५॥
४४.७६/१पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः ।
४४.७६/२नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥ ४४.७६॥
४४.७७/१सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः ।
४४.७७/२सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥ ४४.७७॥
४४.७८/१एवं सर्वैः समुदितैः शोभितं सुमनोहरैः ।
४४.७८/२ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ ४४.७८॥
४४.७९/१दशयोजनविस्तीर्णं पञ्चयोजनमायतम् ।
४४.७९/२नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ ४४.७९॥
४५.१/१मुनय ऊचुः । तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे ।
४५.१/२किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१॥
४५.२/१येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ।
४५.२/२स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ ४५.२॥
४५.३/१संशयो नो महान् अत्र विस्मयश्च जगत्पते ।
४५.३/२श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ४५.३॥
४५.४/१ब्रह्मोवाच । शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् ।
४५.४/२प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४५.४॥
४५.५/१सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते ।
४५.५/२सिद्धविद्याधरैर्यक्षैः किंनरैरुपशोभिते ॥ ४५.५॥
४५.६/१देवदानवगन्धर्वैर्नागैरप्सरसां गणैः ।
४५.६/२मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ४५.६॥
४५.७/१अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः ।
४५.७/२वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ ४५.७॥
४५.८/१कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः ।
४५.८/२जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः ॥ ४५.८॥
४५.९/१अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः ।
४५.९/२पुंनागाशोकसरल+ ंयग्रोधाम्रातकार्जुनैः ॥ ४५.९॥
४५.१०/१पारिजाताम्रखदिर+ ंईपबिल्वकदम्बकैः ।
४५.१०/२धवखादिरपालाश+ ।शीर्षामलकतिन्दुकैः ॥ ४५.१०॥
४५.११/१नारिङ्गकोलबकुल+ ।लोध्रदाडिमदारुकैः ।
४५.११/२सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ ४५.११॥
४५.१२/१अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः ।
४५.१२/२नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ ४५.१२॥
४५.१३/१मालतीयूथिकामल्ली+ ।कुन्दबाणकुरुण्टकैः ।
४५.१३/२पाटलागस्त्यकुटज+ ंअन्दारकुसुमादिभिः ॥ ४५.१३॥
४५.१४/१अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः ।
४५.१४/२नानाविहगसंघैश्च कूजद्भिर्मधुरस्वरैः ॥ ४५.१४॥
४५.१५/१पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः ।
४५.१५/२एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ ४५.१५॥
४५.१६/१खगैर्नानाविधैश्चैव शोभिते सुरसेविते ।
४५.१६/२तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ ४५.१६॥
४५.१७/१सर्वलोकविधातारं वासुदेवाख्यमव्ययम् ।
४५.१७/२प्रणम्य शिरसा देवी लोकानां हितकाम्यया ।
४५.१७/३पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ ४५.१७॥
४५.१८/१श्रीरुवाच । ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ।
४५.१८/२मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ ४५.१८॥
४५.१९/१लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे ।
४५.१९/२येन मुच्येत देवेश अस्मात् संसारसागरात् ॥ ४५.१९॥
४५.२०/१आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे ।
४५.२०/२त्वदृते नास्ति लोकेऽस्मिन् वक्ता संशयनिर्णये ॥ ४५.२०॥
४५.२१/१ब्रह्मोवाच । श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः ।
४५.२१/२प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ ४५.२१॥
४५.२२/१श्रीभगवान् उवाच । सुखोपास्यः सुसाध्यश्चऽभिरामश्च सुसत्फलः ।
४५.२२/२आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ ४५.२२॥
४५.२३/१न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते ।
४५.२३/२कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः ॥ ४५.२३॥
४५.२४/१न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः ।
४५.२४/२मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ ४५.२४॥
४५.२५/१तत् तेऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् ।
४५.२५/२भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥ ४५.२५॥
४५.२६/१आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे ।
४५.२६/२प्रलीना देवगन्धर्व+ ।दैत्यविद्याधरोरगाः ॥ ४५.२६॥
४५.२७/१तमोभूतमिदं सर्वं न प्राज्ञायत किंचन ।
४५.२७/२तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ ४५.२७॥
४५.२८/१श्रीमांस्त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः ।
४५.२८/२वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ ४५.२८॥
४५.२९/१सोऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् ।
४५.२९/२पद्मकेशरसंकाशं ब्रह्माणं भूतमव्ययम् ॥ ४५.२९॥
४५.३०/१तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः ।
४५.३०/२पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ४५.३०॥
४५.३१/१मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च ।
४५.३१/२चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ ४५.३१॥
४५.३२/१ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम् ।
४५.३२/२संचिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ ४५.३२॥
४५.३३/१मरीच्यादीन् मुनीन् सर्वान् देवासुरपितृन् अपि ।
४५.३३/२यक्षविद्याधरांश्चान्यान् गङ्गाद्याः सरितस्तथा ॥ ४५.३३॥
४५.३४/१नरवानरसिंहांश्च विविधांश्च विहंगमान् ।
४५.३४/२जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस्तथा ॥ ४५.३४॥
४५.३५/१ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् ।
४५.३५/२अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान् पृथक् ॥ ४५.३५॥
४५.३६/१यत् किंचिज्जीवसंज्ञं तु तृणगुल्मपिपीलिकम् ।
४५.३६/२ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम् ॥ ४५.३६॥
४५.३७/१दक्षिणाङ्गे तथात्मानं संचिन्त्य पुरुषं स्वयम् ।
४५.३७/२वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥ ४५.३७॥
४५.३८/१ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः ।
४५.३८/२अधमोत्तममध्याश्च मम क्षेत्राणि यानि च ॥ ४५.३८॥
४५.३९/१एवं संचिन्त्य देवोऽसौ पुरा सलिलयोनिजः ।
४५.३९/२जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥ ४५.३९॥
४५.४०/१ध्यानमात्रेण देवेन स्वयमेव जनार्दनः ।
४५.४०/२तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ ४५.४०॥
४५.४१/१सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः ।
४५.४१/२सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः ॥ ४५.४१॥
४५.४२/१अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः ।
४५.४२/२आसनैरर्घ्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥ ४५.४२॥
४५.४३/१तुष्टाव परमैः स्तोत्रैर्विरिञ्चिः सुसमाहितः ।
४५.४३/२ततोऽहमुक्तवान् देवं ब्रह्माणं कमलोद्भवम् ।
४५.४३/३कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ ४५.४३॥
४५.४४/१ब्रह्मोवाच । जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् ।
४५.४४/२स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ ४५.४४॥
४५.४५/१योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च ।
४५.४५/२विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥ ४५.४५॥
४५.४६/१स्थानं जगत्पते मह्यामुत्कृष्टं च यद् उच्यते ।
४५.४६/२सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ ४५.४६॥
४५.४७/१विधातुर्वचनं श्रुत्वा ततोऽहं प्रोक्तवान् प्रिये ।
४५.४७/२शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ ४५.४७॥
४५.४८/१उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् ।
४५.४८/२गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ ४५.४८॥
४५.४९/१भुक्तिमुक्तिप्रदं नृणां क्षेत्रं परमदुर्लभम् ।
४५.४९/२महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ ४५.४९॥
४५.५०/१तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् ।
४५.५०/२विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ ४५.५०॥
४५.५१/१सर्वेषामेव देवानाम् ऋषीणां ब्रह्मचारिणाम् ।
४५.५१/२दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ ४५.५१॥
४५.५२/१नागविद्याधराणां च स्थावरस्य चरस्य च ।
४५.५२/२उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः ॥ ४५.५२॥
४५.५३/१दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति ।
४५.५३/२दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४५.५३॥
४५.५४/१यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे ।
४५.५४/२विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥ ४५.५४॥
४५.५५/१दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् ।
४५.५५/२ब्रह्महत्यात् प्रमुच्येत पापेष्वन्येषु का कथा ॥ ४५.५५॥
४५.५६/१प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः ।
४५.५६/२सर्वे विधूतपाप्मानस्ते गताः केशवालयम् ॥ ४५.५६॥
४५.५७/१न्यग्रोधस्योत्तरे किंचिद् दक्षिणे केशवस्य तु ।
४५.५७/२प्रासादस्तत्र तिष्ठेत् तु पदं धर्ममयं हि तत् ॥ ४५.५७॥
४५.५८/१प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् ।
४५.५८/२अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ ४५.५८॥
४५.५९/१गच्छमानांस्तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये ।
४५.५९/२मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ ४५.५९॥
४५.६०/१यम उवाच । नमस्ते भगवन् देव लोकनाथ जगत्पते ।
४५.६०/२क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ ४५.६०॥
४५.६१/१वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् ।
४५.६१/२विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥ ४५.६१॥
४५.६२/१नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् ।
४५.६२/२सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥ ४५.६२॥
४५.६३/१सर्वलोकविधातारं सर्वलोकसुखावहम् ।
४५.६३/२पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ ४५.६३॥
४५.६४/१परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् ।
४५.६४/२श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ ४५.६४॥
४५.६५/१पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
४५.६५/२हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ ४५.६५॥
४५.६६/१सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् ।
४५.६६/२कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ ४५.६६॥
४५.६७/१भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् ।
४५.६७/२नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम् ॥ ४५.६७॥
४५.६८/१इत्येवं धर्मराजस्तु पुरा न्यग्रोधसंनिधौ ।
४५.६८/२स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत् तदा ॥ ४५.६८॥
४५.६९/१तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् ।
४५.६९/२स्तोत्रस्य कारणं देवि पृष्टवान् अहमन्तकम् ॥ ४५.६९॥
४५.७०/१वैवस्वत महाबाहो सर्वदेवोत्तमो ह्यसि ।
४५.७०/२किमर्थं स्तुतवान् मां त्वं संक्षेपात् तद् ब्रवीहि मे ॥ ४५.७०॥
४५.७१/१धर्मराज उवाच । अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे ।
४५.७१/२इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ ४५.७१॥
४५.७२/१तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया ।
४५.७२/२श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥ ४५.७२॥
४५.७३/१अतः कर्तुं न शक्नोमि व्यापारमरिसूदन ।
४५.७३/२प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ ४५.७३॥
४५.७४/१श्रुत्वा वैवस्वतस्यैतद् वाक्यमेतद् उवाच ह ।
४५.७४/२यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ ४५.७४॥
४५.७५/१ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया ।
४५.७५/२यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ४५.७५॥
४५.७६/१प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः ।
४५.७६/२यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥ ४५.७६॥
४५.७७/१ब्रह्मोवाच । लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः ।
४५.७७/२तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ४५.७७॥
४५.७८/१यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः ।
४५.७८/२तं सर्वं कथयामास स तस्यै भगवान् पुरा ॥ ४५.७८॥
४५.७९/१इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा ।
४५.७९/२क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ ४५.७९॥
४५.८०/१हयमेधस्य यजनं स्वप्नदर्शनमेव च ।
४५.८०/२लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥ ४५.८०॥
४५.८१/१दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः ।
४५.८१/२निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥ ४५.८१॥
४५.८२/१स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे ।
४५.८२/२यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा ॥ ४५.८२॥
४५.८३/१मार्कण्डेयस्य चरितं स्थापनं शंकरस्य च ।
४५.८३/२पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ ४५.८३॥
४५.८४/१वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः ।
४५.८४/२दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ ४५.८४॥
४५.८५/१सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः ।
४५.८५/२दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा ॥ ४५.८५॥
४५.८६/१अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् ।
४५.८६/२श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ ४५.८६॥
४५.८७/१उदधेर्दर्शनं चैव स्नानं तर्पणमेव च ।
४५.८७/२समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥ ४५.८७॥
४५.८८/१पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च ।
४५.८८/२स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ ४५.८८॥
४५.८९/१वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः ।
४५.८९/२पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः ॥ ४५.८९॥
४६.१/१मुनय ऊचुः । श्रोतुमिच्छामहे देव कथाशेषं महीपतेः ।
४६.१/२तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१॥
४६.२/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
४६.२/२क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः ॥ ४६.२॥
४६.३/१गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते ।
४६.३/२ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ ४६.३॥
४६.४/१नदी तत्र महापुण्या विन्ध्यपादविनिर्गता ।
४६.४/२स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४६.४॥
४६.५/१गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी ।
४६.५/२महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ४६.५॥
४६.६/१दक्षिणस्योदधेर्गर्भं शोभिता ।
४६.६/२उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ ४६.६॥
४६.७/१दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः ।
४६.७/२हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः ॥ ४६.७॥
४६.८/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक् पृथक् ।
४६.८/२स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ४६.८॥
४६.९/१ताम्बूलपूर्णवदना मालादामविभूषिताः ।
४६.९/२वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ४६.९॥
४६.१०/१अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः ।
४६.१०/२सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ ४६.१०॥
४६.११/१चत्वारे राजमार्गेषु वनेषूपवनेषु च ।
४६.११/२सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ४६.११॥
४६.१२/१इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः ।
४६.१२/२काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ ४६.१२॥
४६.१३/१स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः ।
४६.१३/२सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ ४६.१३॥
४६.१४/१सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः ।
४६.१४/२पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ ४६.१४॥
४६.१५/१सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः ।
४६.१५/२कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः ॥ ४६.१५॥
४६.१६/१बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः ।
४६.१६/२सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ ४६.१६॥
४६.१७/१काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः ।
४६.१७/२विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ ४६.१७॥
४६.१८/१कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः ।
४६.१८/२ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ ४६.१८॥
४६.१९/१कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः ।
४६.१९/२देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ ४६.१९॥
४६.२०/१दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः ।
४६.२०/२वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ ४६.२०॥
४६.२१/१शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः ।
४६.२१/२क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ ४६.२१॥
४६.२२/१एवमादि तथानेक+ ।गीतवाद्यविशारदाः ।
४६.२२/२दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ ४६.२२॥
४६.२३/१भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः ।
४६.२३/२मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ ४६.२३॥
४६.२४/१इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् ।
४६.२४/२अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ ४६.२४॥
४६.२५/१जगद्गुरुं परं देवं परं पारं परं पदम् ।
४६.२५/२सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ ४६.२५॥
४६.२६/१इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् ।
४६.२६/२कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ ४६.२६॥
४६.२७/१प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता ।
४६.२७/२न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ ४६.२७॥
४६.२८/१तथा यत्नं करिष्यामि यथा देवो जगत्पतिः ।
४६.२८/२प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ ४६.२८॥
४६.२९/१यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः ।
४६.२९/२उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ ४६.२९॥
४६.३०/१अनन्यमनसा चैव तन्मना नान्यमानसः ।
४६.३०/२विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ ४६.३०॥
४७.१/१ब्रह्मोवाच । एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः ।
४७.१/२प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत् तदा ॥ ४७.१॥
४७.२/१आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् ।
४७.२/२भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ ४७.२॥
४७.३/१ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः ।
४७.३/२अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ ४७.३॥
४७.४/१तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने ।
४७.४/२सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४७.४॥
४७.५/१जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः ।
४७.५/२वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ ४७.५॥
४७.६/१पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः ।
४७.६/२ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ४७.६॥
४७.७/१दत्त्वैवमर्घ्यं विधिवद् आनाय्य स महीपतिः ।
४७.७/२कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा ।
४७.७/३कोशलाधिपतिं चैव तान् उवाच तदा नृपः ॥ ४७.७॥
४७.८/१राजोवाच । गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः ।
४७.८/२गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ ४७.८॥
४७.९/१विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् ।
४७.९/२निरूप्य सर्वसानूनि *च्छेदयित्वा शिलाः शुभाः ।
४७.९/३संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ ४७.९॥
४७.१०/१ब्रह्मोवाच । एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः ।
४७.१०/२पुनरेवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान् ॥ ४७.१०॥
४७.११/१राजोवाच । गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै ।
४७.११/२यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः ॥ ४७.११॥
४७.१२/१हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः ।
४७.१२/२गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ ४७.१२॥
४७.१३/१ब्रह्मोवाच । एवं दूताः समाज्ञाता राज्ञा तेन महात्मना ।
४७.१३/२गत्वा तदा नृपान् ऊचुर्वचनं तस्य भूपतेः ॥ ४७.१३॥
४७.१४/१श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः ।
४७.१४/२आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ ४७.१४॥
४७.१५/१ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः ।
४७.१५/२पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ ४७.१५॥
४७.१६/१प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः ।
४७.१६/२पार्वतीयाश्च ये केचित् तथा द्वीपनिवासिनः ॥ ४७.१६॥
४७.१७/१रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः ।
४७.१७/२सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ ४७.१७॥
४७.१८/१तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् ।
४७.१८/२प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ ४७.१८॥
४७.१९/१राजोवाच । शृणुध्वं नृपशार्दूला यथा किंचिद् ब्रवीम्यहम् ।
४७.१९/२अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ ४७.१९॥
४७.२०/१हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् ।
४७.२०/२कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ ४७.२०॥
४७.२१/१भवद्भिः सुसहायैस्तु सर्वमेतत् करोम्यहम् ।
४७.२१/२यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ ४७.२१॥
४७.२२/१ब्रह्मोवाच । इत्येवं वदमानस्य राजराजस्य धीमतः ।
४७.२२/२सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ ४७.२२॥
४७.२३/१ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः ।
४७.२३/२कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ ४७.२३॥
४७.२४/१वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः ।
४७.२४/२गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ ४७.२४॥
४७.२५/१असंख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा ।
४७.२५/२शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ ४७.२५॥
४७.२६/१सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः ।
४७.२६/२श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ ४७.२६॥
४७.२७/१अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः ।
४७.२७/२बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ ४७.२७॥
४७.२८/१गव्यस्य हविषः कुम्भैः शतशोऽथ सहस्रशः ।
४७.२८/२तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ ४७.२८॥
४७.२९/१राजानः पूरयामासुर्यत् किंचिद् द्रव्यसम्भवैः ।
४७.२९/२तान् दृष्ट्वा यज्ञसम्भारान् सर्वसम्पत्समन्वितान् ॥ ४७.२९॥
४७.३०/१यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् ।
४७.३०/२शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु ॥ ४७.३०॥
४७.३१/१ऋषींश्चैव महर्षींश्च देवर्षींश्चैव तापसान् ।
४७.३१/२ब्रह्मचारिगृहस्थांश्च वानप्रस्थान् यतींस्तथा ॥ ४७.३१॥
४७.३२/१स्नातकान् ब्राह्मणांश्चान्यान् अग्निहोत्रे सदा स्थितान् ।
४७.३२/२आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान् ॥ ४७.३२॥
४७.३३/१सदस्याञ् शास्त्रकुशलांस्तथान्यान् पावकान् बहून् ।
४७.३३/२दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम् ॥ ४७.३३॥
४७.३४/१राजोवाच । ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः ।
४७.३४/२वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ४७.३४॥
४७.३५/१ब्रह्मोवाच । इत्युक्तः स तथा चक्रे वचनं तस्य भूपतेः ।
४७.३५/२हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ ४७.३५॥
४७.३६/१ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह ।
४७.३६/२ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि ॥ ४७.३६॥
४७.३७/१तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् ।
४७.३७/२कारयामास विप्रोऽसौ यज्ञवाटं यथाविधि ॥ ४७.३७॥
४७.३८/१प्रासादशतसम्बाधं मणिप्रवरशोभितम् ।
४७.३८/२इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ ४७.३८॥
४७.३९/१स्तम्भान् कनकचित्रांश्च तोरणानि बृहन्ति च ।
४७.३९/२यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ ४७.३९॥
४७.४०/१अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।
४७.४०/२कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ ४७.४०॥
४७.४१/१ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् ।
४७.४१/२कारयामास विधिवच्छालास्तत्राप्यनेकशः ॥ ४७.४१॥
४७.४२/१प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः ।
४७.४२/२रत्नान्यनेकान्यादाय स्त्रियश्चाययुरुत्सवे ॥ ४७.४२॥
४७.४३/१तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् ।
४७.४३/२नदतः सागरस्येव दिविस्पृग् अभवद् ध्वनिः ॥ ४७.४३॥
४७.४४/१तेषामभ्यागतानां च स राजा मुनिसत्तमाः ।
४७.४४/२व्यादिदेशायतनानि शय्याश्चाप्युपचारतः ॥ ४७.४४॥
४७.४५/१भोजनानि विचित्राणि शालीक्षुयवगोरसैः ।
४७.४५/२उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ ४७.४५॥
४७.४६/१तथा तस्मिन् महायज्ञे बहवो ब्रह्मवादिनः ।
४७.४६/२ये च द्विजातिप्रवरास्तत्रासन् द्विजसत्तमाः ॥ ४७.४६॥
४७.४७/१समाजग्मुः सशिष्यास्तान् प्रतिजग्राह पार्थिवः ।
४७.४७/२सर्वांश्च तान् अनुययौ यावद् आवसथान् इति ॥ ४७.४७॥
४७.४८/१स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः ।
४७.४८/२ततः कृत्वा स्वशिल्पं च शिल्पिनोऽन्ये च ये तदा ॥ ४७.४८॥
४७.४९/१कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् ।
४७.४९/२ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः ।
४७.४९/३हृष्टरोमाभवद् राजा सह मन्त्रिभिरच्युतः ॥ ४७.४९॥
४७.५०/१ब्रह्मोवाच । तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः ।
४७.५०/२हेतुवादान् बहून् आहुः परस्परजिगीषवः ॥ ४७.५०॥
४७.५१/१देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः ।
४७.५१/२ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥ ४७.५१॥
४७.५२/१शय्यासनविकारांश्च सुबहून् रत्नसंचयान् ।
४७.५२/२घटपात्रीकटाहानि कलशान् वर्धमानकान् ॥ ४७.५२॥
४७.५३/१नहि कश्चिद् असौवर्णमपश्यद् वसुधाधिपः ।
४७.५३/२यूपांश्च शास्त्रपठितान् दारवान् हेमभूषितान् ॥ ४७.५३॥
४७.५४/१उपक्षिप्तान् यथाकालं विधिवद् भूरिवर्चसः ।
४७.५४/२स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ ४७.५४॥
४७.५५/१सर्वान् एव समानीतान् अपश्यंस्तत्र ते नृपाः ।
४७.५५/२गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च ॥ ४७.५५॥
४७.५६/१औदकानि च सत्त्वानि श्वापदानि वयांसि च ।
४७.५६/२जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥ ४७.५६॥
४७.५७/१पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते ।
४७.५७/२एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ ४७.५७॥
४७.५८/१यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः ।
४७.५८/२ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत् ॥ ४७.५८॥
४७.५९/१पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् ।
४७.५९/२दुन्दुभिर्मेघनिर्घोषान् मुहुर्मुहुरथाकरोत् ॥ ४७.५९॥
४७.६०/१विननादासकृच्चापि दिवसे दिवसे गते ।
४७.६०/२एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥ ४७.६०॥
४७.६१/१अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान् ।
४७.६१/२दधिकुल्याश्च ददृशुः पयसश्च ह्रदांस्तथा ॥ ४७.६१॥
४७.६२/१जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः ।
४७.६२/२द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥ ४७.६२॥
४७.६३/१तत्र यानि सहस्राणि पुरुषाणां ततस्ततः ।
४७.६३/२गृहीत्वा भाजनं जग्मुर्बहूनि द्विजसत्तमाः ॥ ४७.६३॥
४७.६४/१श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः ।
४७.६४/२पर्यवेषयन् द्विजातीञ् शतशोऽथ सहस्रशः ॥ ४७.६४॥
४७.६५/१विविधान्यनुपानानि पुरुषा येऽनुयायिनः ।
४७.६५/२ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ ४७.६५॥
४७.६६/१समागतान् वेदविदो राज्ञश्च पृथिवीश्वरान् ।
४७.६६/२पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः ॥ ४७.६६॥
४७.६७/१दिग्देशाद् आगतान् राज्ञो महासंग्रामशालिनः ।
४७.६७/२नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥ ४७.६७॥
४७.६८/१पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः ।
४७.६८/२इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ ४७.६८॥
४७.६९/१कुलशीलगुणोपेताः सहस्रैकं शताधिकम् ।
४७.६९/२एवं तद्भूपपरम+ ।पत्नीगणसमन्वितम् ॥ ४७.६९॥
४७.७०/१रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् ।
४७.७०/२रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ ४७.७०॥
४७.७१/१करिणः पर्वताकारान् मदसिक्तान् महाबलान् ।
४७.७१/२शतशः कोटिसंघातैर्दन्तिभिर्दन्तभूषणैः ॥ ४७.७१॥
४७.७२/१वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः ।
४७.७२/२श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवान्वितैः ॥ ४७.७२॥
४७.७३/१संनद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः ।
४७.७३/२असंख्येयैः पदातैश्च देवपुत्रोपमैस्तथा ॥ ४७.७३॥
४७.७४/१इत्येवं ददृशे राजा यज्ञसम्भारविस्तरम् ।
४७.७४/२मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥ ४७.७४॥
४७.७५/१राजोवाच । आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् ।
४७.७५/२चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ ४७.७५॥
४७.७६/१विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् ।
४७.७६/२कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ ४७.७६॥
४७.७७/१अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् ।
४७.७७/२इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ ४७.७७॥
४७.७८/१सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् ।
४७.७८/२स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥ ४७.७८॥
४७.७९/१सम्यक् समृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् ।
४७.७९/२अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ ४७.७९॥
४७.८०/१सर्वेषां याचमानानां नास्ति ह्येतन् न भाषयेत् ।
४७.८०/२तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्विह ।
४७.८०/३प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ ४७.८०॥
४७.८१/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः ।
४७.८१/२ददौ सुवर्णसंघातं कोटीनां चैव भूषणम् ॥ ४७.८१॥
४७.८२/१करेणुशतसाहस्रं वाजिनो नियुतानि च ।
४७.८२/२अर्बुदं चैव वृषभं स्वर्णशृङ्गीश्च धेनुकाः ॥ ४७.८२॥
४७.८३/१सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः ।
४७.८३/२प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ ४७.८३॥
४७.८४/१वासांसि च महार्हाणि राङ्कवास्तरणानि च ।
४७.८४/२सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥ ४७.८४॥
४७.८५/१अददात् स महायज्ञे रत्नानि विविधानि च ॥ ४७.८५॥
४७.८६/१वज्रवैदूर्यमाणिक्य+ ंउक्तिकाद्यानि यानि च ।
४७.८६/२अलंकारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ ४७.८६॥
४७.८७/१शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् ।
४७.८७/२स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ ४७.८७॥
४७.८८/१मध्यहीनाश्च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः ।
४७.८८/२हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ ४७.८८॥
४७.८९/१पादनूपुरसंयुक्ताः पट्टदुकूलवाससः ।
४७.८९/२एकैकशोऽददात् तस्मिन् काम्याश्च कामिनीर्बहूः ॥ ४७.८९॥
४७.९०/१अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः ।
४७.९०/२भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ ४७.९०॥
४७.९१/१खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् ।
४७.९१/२अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्च खाण्डवान् ॥ ४७.९१॥
४७.९२/१मधुरांस्तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम् ।
४७.९२/२प्रीत्यर्थं सर्वसत्त्वानां दीयतेऽन्नं पुनः पुनः ॥ ४७.९२॥
४७.९३/१दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते ।
४७.९३/२एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ ४७.९३॥
४७.९४/१गन्धर्वाप्सरसः सिद्धा ऋषयश्च प्रजेश्वराः ।
४७.९४/२विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ ४७.९४॥
४७.९५/१पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः ।
४७.९५/२न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः ॥ ४७.९५॥
४७.९६/१न वोपसर्गो न ग्लानिर्नाधयो व्याधयस्तथा ।
४७.९६/२नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ ४७.९६॥
४७.९७/१हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे ।
४७.९७/२ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥ ४७.९७॥
४७.९८/१न जातं तादृशं यज्ञं धनधान्यसमन्वितम् ।
४७.९८/२एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः ।
४७.९८/३क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥ ४७.९८॥
४८.१/१मुनय ऊचुः । ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् ।
४८.१/२यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१॥
४८.२/१केन चैव प्रकारेण तुष्टस्तस्मै स माधवः ।
४८.२/२तत् सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ ४८.२॥
४८.३/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् ।
४८.३/२कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ४८.३॥
४८.४/१प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते ।
४८.४/२चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ४८.४॥
४८.५/१न वेद्मि केन देवेशं सर्वेशं लोकपावनम् ।
४८.५/२सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ४८.५॥
४८.६/१चिन्ताविष्टस्त्वभूद् राजा शेते रात्रौ दिवापि न ।
४८.६/२न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम् ॥ ४८.६॥
४८.७/१नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि ।
४८.७/२न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ ४८.७॥
४८.८/१नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च ।
४८.८/२सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ ४८.८॥
४८.९/१बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः ।
४८.९/२बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ ४८.९॥
४८.१०/१शैलमृद्दारुजातेषु प्रशस्तं किं महीतले ।
४८.१०/२विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ ४८.१०॥
४८.११/१एतैरेव त्रयाणां तु दयितं स्यात् सुरार्चितम् ।
४८.११/२स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत् ॥ ४८.११॥
४८.१२/१पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् ।
४८.१२/२चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ४८.१२॥
४९.१/१वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।
४९.१/२त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१॥
४९.२/१निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम ।
४९.२/२संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ ४९.२॥
४९.३/१नमस्ते हेमगर्भाभ नमस्ते मकरध्वज ।
४९.३/२रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक ॥ ४९.३॥
४९.४/१नमस्तेऽञ्जनसंकाश नमस्ते भक्तवत्सल ।
४९.४/२अनिरुद्ध नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ४९.४॥
४९.५/१नमस्ते विबुधावास नमस्ते विबुधप्रिय ।
४९.५/२नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ४९.५॥
४९.६/१नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध ।
४९.६/२चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ४९.६॥
४९.७/१नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित ।
४९.७/२त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ४९.७॥
४९.८/१प्रलयानलसंकाश नमस्ते दितिजान्तक ।
४९.८/२नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ४९.८॥
४९.९/१यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा ।
४९.९/२तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ४९.९॥
४९.१०/१तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया ।
४९.१०/२तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ ४९.१०॥
४९.११/१अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो ।
४९.११/२दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ ४९.११॥
४९.१२/१ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ।
४९.१२/२तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ ४९.१२॥
४९.१३/१मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ।
४९.१३/२प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ ४९.१३॥
४९.१४/१भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः ।
४९.१४/२तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ ४९.१४॥
४९.१५/१न भेदस्तव देवेश विद्यते परमार्थतः ।
४९.१५/२विविधं तव यद् रूपमुक्तं तद् उपचारतः ॥ ४९.१५॥
४९.१६/१अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः ।
४९.१६/२एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ ४९.१६॥
४९.१७/१परमं तव यद् रूपं भावाभावविवर्जितम् ।
४९.१७/२निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ ४९.१७॥
४९.१८/१सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् ।
४९.१८/२तद् देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ ४९.१८॥
४९.१९/१अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् ।
४९.१९/२शङ्खचक्रगदापाणि+ ंउकुटाङ्गदधारिणम् ॥ ४९.१९॥
४९.२०/१श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ।
४९.२०/२तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ ४९.२०॥
४९.२१/१देवदेव सुरश्रेष्ठ भक्तानामभयप्रद ।
४९.२१/२त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ ४९.२१॥
४९.२२/१नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ।
४९.२२/२त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन ॥ ४९.२२॥
४९.२३/१जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ।
४९.२३/२हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ ४९.२३॥
४९.२४/१पतितोऽहं महारौद्रे घोरे संसारसागरे ।
४९.२४/२विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ ४९.२४॥
४९.२५/१इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले ।
४९.२५/२निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ॥ ४९.२५॥
४९.२६/१मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ।
४९.२६/२नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ ४९.२६॥
४९.२७/१मया जन्मान्यनेकानि सहस्राण्ययुतानि च ।
४९.२७/२विविधान्यनुभूतानि संसारेऽस्मिञ् जनार्दन ॥ ४९.२७॥
४९.२८/१वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च ।
४९.२८/२इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ ४९.२८॥
४९.२९/१असंतोषाश्च संतोषाः संचयापचया व्ययाः ।
४९.२९/२मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ ४९.२९॥
४९.३०/१भार्यारिमित्रबन्धूनां वियोगाः संगमास्तथा ।
४९.३०/२पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ४९.३०॥
४९.३१/१दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः ।
४९.३१/२प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ॥ ४९.३१॥
४९.३२/१मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले ।
४९.३२/२गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ ४९.३२॥
४९.३३/१दुःखानि यान्यनेकानि बाल्ययौवनगोचरे ।
४९.३३/२वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ४९.३३॥
४९.३४/१मरणे यानि दुःखानि यममार्गे यमालये ।
४९.३४/२मया तान्यनुभूतानि नरके यातनास्तथा ॥ ४९.३४॥
४९.३५/१कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ।
४९.३५/२महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ ४९.३५॥
४९.३६/१द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ।
४९.३६/२धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.३६॥
४९.३७/१नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् ।
४९.३७/२गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ ४९.३७॥
४९.३८/१गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ।
४९.३८/२दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ४९.३८॥
४९.३९/१हतो मया हताश्चान्ये घातितो घातितास्तथा ।
४९.३९/२दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ ४९.३९॥
४९.४०/१पितृमातृसुहृद्भ्रातृ+ ।कलत्राणां कृतेन च ।
४९.४०/२धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.४०॥
४९.४१/१उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन ।
४९.४१/२देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४९.४१॥
४९.४२/१न विद्यते तथा स्थानं यत्राहं न गतः प्रभो ।
४९.४२/२कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४९.४२॥
४९.४३/१कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ।
४९.४३/२जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४९.४३॥
४९.४४/१याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति ।
४९.४४/२तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४९.४४॥
४९.४५/१अधश्चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः ।
४९.४५/२एवं संसारचक्रेऽस्मिन् भैरवे रोमहर्षणे ॥ ४९.४५॥
४९.४६/१भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् ।
४९.४६/२न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ ४९.४६॥
४९.४७/१शोकतृष्णाभिभूतोऽहं कांदिशीको विचेतनः ।
४९.४७/२इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ ४९.४७॥
४९.४८/१त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ।
४९.४८/२कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ ४९.४८॥
४९.४९/१त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति ।
४९.४९/२देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ॥ ४९.४९॥
४९.५०/१जीविते मरणे चैव योगक्षेमेऽथवा प्रभो ।
४९.५०/२ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः ॥ ४९.५०॥
४९.५१/१सुगतिस्तु कथं तेषां भवेत् संसारबन्धनात् ।
४९.५१/२किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ ४९.५१॥
४९.५२/१येषां न जायते भक्तिर्जगद्धातरि केशवे ।
४९.५२/२प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ ४९.५२॥
४९.५३/१पतन्ति नरके घोरे जायमानाः पुनः पुनः ।
४९.५३/२न तेषां निष्कृतिस्तस्माद् विद्यते नरकार्णवात् ॥ ४९.५३॥
४९.५४/१ये दूषयन्ति दुर्वृत्तास्त्वां देव पुरुषाधमाः ।
४९.५४/२यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ॥ ४९.५४॥
४९.५५/१तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा ।
४९.५५/२आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः ॥ ४९.५५॥
४९.५६/१अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् ।
४९.५६/२न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥ ४९.५६॥
४९.५७/१कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् ।
४९.५७/२तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥ ४९.५७॥
४९.५८/१तत् क्षमस्वापराधं मे यदि तेऽस्ति दया मयि ।
४९.५८/२कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ४९.५८॥
४९.५९/१तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः ।
४९.५९/२स्तुतोऽसि यन् मया देव भक्तिभावेन चेतसा ।
४९.५९/३साङ्गं भवतु तत् सर्वं वासुदेव नमोऽस्तु ते ॥ ४९.५९॥
४९.६०/१ब्रह्मोवाच । इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः ।
४९.६०/२ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ ४९.६०॥
४९.६१/१यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ।
४९.६१/२स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम् ॥ ४९.६१॥
४९.६२/१त्रिसंध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः ।
४९.६२/२धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ४९.६२॥
४९.६३/१यः पठेच्छृणुयाद् वापि श्रावयेद् वा समाहितः ।
४९.६३/२स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥ ४९.६३॥
४९.६४/१धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ।
४९.६४/२गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ ४९.६४॥
४९.६५/१न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने ।
४९.६५/२न दुष्टमतये दद्यान् नाभक्ताय कदाचन ॥ ४९.६५॥
४९.६६/१दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ।
४९.६६/२विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ ४९.६६॥
४९.६७/१इदं समस्ताघविनाशहेतुः ।
४९.६७/२कारुण्यसंज्ञं सुखमोक्षदं च ।
४९.६७/३अशेषवाञ्छाफलदं वरिष्ठम् ।
४९.६७/४स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ४९.६७॥
४९.६८/१ये तं सुसूक्ष्मं विमला मुरारिम् ।
४९.६८/२ध्यायन्ति नित्यं पुरुषं पुराणम् ।
४९.६८/३ते मुक्तिभाजः प्रविशन्ति विष्णुम् ।
४९.६८/४मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ॥ ४९.६८॥
४९.६९/१एकः स देवो भवदुःखहन्ता ।
४९.६९/२परः परेषां न ततोऽस्ति चान्यत् ।
४९.६९/३द्रष्टा स पाता स तु नाशकर्ता ।
४९.६९/४विष्णुः समस्ताखिलसारभूतः ॥ ४९.६९॥
४९.७०/१किं विद्यया किं स्वगुणैश्च तेषाम् ।
४९.७०/२यज्ञैश्च दानैश्च तपोभिरुग्रैः ।
४९.७०/३येषां न भक्तिर्भवतीह कृष्णे ।
४९.७०/४जगद्गुरौ मोक्षसुखप्रदे च ॥ ४९.७०॥
४९.७१/१लोके स धन्यः स शुचिः स विद्वान् ।
४९.७१/२मखैस्तपोभिः स गुणैर्वरिष्ठः ।
४९.७१/३ज्ञाता स दाता स तु सत्यवक्ता ।
४९.७१/४यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ४९.७१॥
५०.१/१ब्रह्मोवाच । स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् ।
५०.१/२वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५०.१॥
५०.२/१चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले ।
५०.२/२वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ ५०.२॥
५०.३/१कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः ।
५०.३/२मम चार्तिहरो देवस्तदासाविति चिन्तयन् ॥ ५०.३॥
५०.४/१सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः ।
५०.४/२आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥ ५०.४॥
५०.५/१स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् ।
५०.५/२शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ ५०.५॥
५०.६/१शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् ।
५०.६/२युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम् ॥ ५०.६॥
५०.७/१सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् ।
५०.७/२स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते ॥ ५०.७॥
५०.८/१क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया ।
५०.८/२तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ॥ ५०.८॥
५०.९/१यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी ।
५०.९/२यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ ५०.९॥
५०.१०/१गतायामद्य शर्वर्यां निर्मले भास्करोदिते ।
५०.१०/२सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ ५०.१०॥
५०.११/१जलं तथैव वेलायां दृश्यते तत्र वै महत् ।
५०.११/२लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ ५०.११॥
५०.१२/१कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च ।
५०.१२/२वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥ ५०.१२॥
५०.१३/१परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज ।
५०.१३/२एकाकी विहरन् राजन् स त्वं पश्यसि पादपम् ॥ ५०.१३॥
५०.१४/१ईदृक् चिह्नं समालोक्य छेदय त्वमशङ्कितः ।
५०.१४/२छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम् ॥ ५०.१४॥
५०.१५/१दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात् ।
५०.१५/२कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ ५०.१५॥
५०.१६/१ब्रह्मोवाच । एवमुक्त्वा महाभागो जगामादर्शनं हरिः ।
५०.१६/२स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥ ५०.१६॥
५०.१७/१तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः ।
५०.१७/२व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम् ॥ ५०.१७॥
५०.१८/१प्रगतायां रजन्यां तु उत्थितो नान्यमानसः ।
५०.१८/२स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः ॥ ५०.१८॥
५०.१९/१दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च ।
५०.१९/२कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ ५०.१९॥
५०.२०/१न चाश्वो न पदातिश्च न गजो न च सारथिः ।
५०.२०/२एकाकी स महावेलां प्रविवेश महीपतिः ॥ ५०.२०॥
५०.२१/१तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् ।
५०.२१/२महातिगमहारोहं पुण्यं विपुलमेव च ॥ ५०.२१॥
५०.२२/१महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके ।
५०.२२/२सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ ५०.२२॥
५०.२३/१नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः ।
५०.२३/२परशुना शातयामास निशितेन दृढेन च ॥ ५०.२३॥
५०.२४/१द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च ।
५०.२४/२निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ ५०.२४॥
५०.२५/१विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ ।
५०.२५/२आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ ॥ ५०.२५॥
५०.२६/१ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ ।
५०.२६/२अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥ ५०.२६॥
५०.२७/१तावूचतुर्महाराज किमत्र त्वं करिष्यसि ।
५०.२७/२किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥ ५०.२७॥
५०.२८/१असहायो महादुर्गे निर्जने गहने वने ।
५०.२८/२महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ ५०.२८॥
५०.२९/१ब्रह्मोवाच । तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः ।
५०.२९/२बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ ५०.२९॥
५०.३०/१दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ ।
५०.३०/२नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ ५०.३०॥
५०.३१/१राजोवाच । देवदेवमनाद्यन्तमनन्तं जगतां पतिम् ।
५०.३१/२आराधयितुं प्रतिमां करोमीति मतिर्मम ॥ ५०.३१॥
५०.३२/१अहं स देवदेवेन परमेण महात्मना ।
५०.३२/२स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥ ५०.३२॥
५०.३३/१ब्रह्मोवाच । राज्ञस्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च ।
५०.३३/२प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥ ५०.३३॥
५०.३४/१विष्णुरुवाच । साधु साधु महीपाल यद् एतन् मतमुत्तमम् ।
५०.३४/२संसारसागरे घोरे कदलीदलसंनिभे ॥ ५०.३४॥
५०.३५/१निःसारे दुःखबहुले कामक्रोधसमाकुले ।
५०.३५/२इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥ ५०.३५॥
५०.३६/१नानाव्याधिशतावर्ते जलबुद्बुदसंनिभे ।
५०.३६/२यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥ ५०.३६॥
५०.३७/१धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलंकृतः ।
५०.३७/२सप्रजा पृथिवी धन्या सशैलवनकानना ॥ ५०.३७॥
५०.३८/१सपुरग्रामनगरा चतुर्वर्णैरलंकृता ।
५०.३८/२यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥ ५०.३८॥
५०.३९/१एह्येहि सुमहाभाग द्रुमेऽस्मिन् सुखशीतले ।
५०.३९/२आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः ॥ ५०.३९॥
५०.४०/१अयं मम सहायस्तु आगतः शिल्पिनां वरः ।
५०.४०/२विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु ।
५०.४०/३मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ॥ ५०.४०॥
५०.४१/१ब्रह्मोवाच । श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः ।
५०.४१/२सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥ ५०.४१॥
५०.४२/१तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले ।
५०.४२/२ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः ॥ ५०.४२॥
५०.४३/१शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति ।
५०.४३/२कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥ ५०.४३॥
५०.४४/१श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् ।
५०.४४/२गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥ ५०.४४॥
५०.४५/१लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् ।
५०.४५/२देवदानवगन्धर्व+ ।यक्षविद्याधरोरगैः ॥ ५०.४५॥
५०.४६/१न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः ।
५०.४६/२भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥ ५०.४६॥
५०.४७/१तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ ५०.४७॥
५०.४८/१ब्रह्मोवाच । श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् ।
५०.४८/२तत्क्षणात् कारयामास प्रतिमाः शुभलक्षणाः ॥ ५०.४८॥
५०.४९/१प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् ।
५०.४९/२आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥ ५०.४९॥
५०.५०/१नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् ।
५०.५०/२कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥ ५०.५०॥
५०.५१/१द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम् ।
५०.५१/२अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् ॥ ५०.५१॥
५०.५२/१पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम् ।
५०.५२/२चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥ ५०.५२॥
५०.५३/१तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् ।
५०.५३/२विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम् ॥ ५०.५३॥
५०.५४/१विचित्राभरणोपेतां रत्नहारावलम्बिताम् ।
५०.५४/२पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ ५०.५४॥
५०.५५/१स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः ।
५०.५५/२दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलंकृताः ॥ ५०.५५॥
५०.५६/१सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः ।
५०.५६/२विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥ ५०.५६॥
५०.५७/१इन्द्रद्युम्न उवाच । किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ ।
५०.५७/२उभौ चाद्भुतकर्माणौ देववृत्तावमानुषौ ॥ ५०.५७॥
५०.५८/१देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् ।
५०.५८/२किं नु ब्रह्महृषीकेशौ किं वसू किमुताश्विनौ ॥ ५०.५८॥
५०.५९/१न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ ।
५०.५९/२युवां गतोऽस्मि शरणमात्मा तु मे प्रकाश्यताम् ॥ ५०.५९॥
५१.१/१श्रीभगवान् उवाच । नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।
५१.१/२न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ॥ ५१.१॥
५१.२/१अर्तिहा सर्वलोकानामनन्तबलपौरुषः ।
५१.२/२आराधनीयो भूतानामन्तो यस्य न विद्यते ॥ ५१.२॥
५१.३/१पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते ।
५१.३/२यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥ ५१.३॥
५१.४/१अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवोऽप्यहम् ।
५१.४/२इन्द्रोऽहं देवराजश्च जगत्संयमनो यमः ॥ ५१.४॥
५१.५/१पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ् नृप ।
५१.५/२वरुणोऽपां पतिश्चाहं धरित्री च महीधरः ॥ ५१.५॥
५१.६/१यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् ।
५१.६/२चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन ॥ ५१.६॥
५१.७/१प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ।
५१.७/२यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम् ॥ ५१.७॥
५१.८/१मद्दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते ।
५१.८/२त्वं पुनर्दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि ॥ ५१.८॥
५१.९/१ब्रह्मोवाच । श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः ।
५१.९/२रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ५१.९॥
५१.१०/१राजोवाच । श्रियः कान्त नमस्तेऽस्तु श्रीपते पीतवाससे ।
५१.१०/२श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ ५१.१०॥
५१.११/१आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् ।
५१.११/२निष्कलं परमं देवं प्रणतोऽस्मि सनातनम् ॥ ५१.११॥
५१.१२/१शब्दातीतं गुणातीतं भावाभावविवर्जितम् ।
५१.१२/२निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ ५१.१२॥
५१.१३/१प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् ।
५१.१३/२सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥ ५१.१३॥
५१.१४/१शङ्खचक्रधरं देवं गदामुशलधारिणम् ।
५१.१४/२नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ ५१.१४॥
५१.१५/१नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् ।
५१.१५/२नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ ५१.१५॥
५१.१६/१पुनस्त्वां देवदेवेशं नमस्ये वरदं विभुम् ।
५१.१६/२सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ ५१.१६॥
५१.१७/१ब्रह्मोवाच । एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः ।
५१.१७/२उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ ५१.१७॥
५१.१८/१राजोवाच । प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् ।
५१.१८/२देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ ५१.१८॥
५१.१९/१सिद्धविद्याधराः साध्याः किंनरा गुह्यकास्तथा ।
५१.१९/२ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ ५१.१९॥
५१.२०/१परिव्राड्योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः ।
५१.२०/२मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम् ॥ ५१.२०॥
५१.२१/१निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः ।
५१.२१/२तत् पदं गन्तुमिच्छामि त्वत्प्रसादात् सुदुर्लभम् ॥ ५१.२१॥
५१.२२/१श्रीभगवान् उवाच । सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि ।
५१.२२/२भविष्यति यथाकामं मत्प्रसादान् न संशयः ॥ ५१.२२॥
५१.२३/१दश वर्षसहस्राणि तथा नव शतानि च ।
५१.२३/२अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ ५१.२३॥
५१.२४/१प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः ।
५१.२४/२पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ ५१.२४॥
५१.२५/१परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् ।
५१.२५/२चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ ५१.२५॥
५१.२६/१तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् ।
५१.२६/२यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ ५१.२६॥
५१.२७/१कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले ।
५१.२७/२यावद् घना नभो यावद् यावच्चन्द्रार्कतारकम् ॥ ५१.२७॥
५१.२८/१यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः ।
५१.२८/२तिष्ठन्ति दिवि देवाश्च तावत् सर्वत्र चाव्यया ॥ ५१.२८॥
५१.२९/१इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् ।
५१.२९/२यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥ ५१.२९॥
५१.३०/१दापयिष्यति यः पिण्डांस्तटेऽस्मिन् सरसः शुभे ।
५१.३०/२कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ ५१.३०॥
५१.३१/१पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः ।
५१.३१/२विमानेन वसेत् तत्र यावद् इन्द्राश्चतुर्दश ॥ ५१.३१॥
५१.३२/१सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते ।
५१.३२/२न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः ॥ ५१.३२॥
५१.३३/१केतकीवनसंछन्नो नानापादपसंकुलः ।
५१.३३/२नारिकेलैरसंख्येयैश्चम्पकैर्बकुलावृतैः ॥ ५१.३३॥
५१.३४/१अशोकैः कर्णिकारैश्च पुंनागैर्नागकेसरैः ।
५१.३४/२पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः ॥ ५१.३४॥
५१.३५/१न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः ।
५१.३५/२हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा ॥ ५१.३५॥
५१.३६/१करञ्जैर्लकुचैः प्लक्षैः पनसैर्बिल्वधातुकैः ।
५१.३६/२अन्यैर्बहुविधैर्वृक्षैः शोभितः समलंकृतः ॥ ५१.३६॥
५१.३७/१आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते ।
५१.३७/२ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥ ५१.३७॥
५१.३८/१मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः ।
५१.३८/२क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥ ५१.३८॥
५१.३९/१चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः ।
५१.३९/२वीजयन्तस्तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥ ५१.३९॥
५१.४०/१ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः ।
५१.४०/२वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः ॥ ५१.४०॥
५१.४१/१नानावर्णपदैः स्तोत्रैरृग्यजुःसामनिस्वनैः ।
५१.४१/२करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः ॥ ५१.४१॥
५१.४२/१ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः ।
५१.४२/२नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥ ५१.४२॥
५१.४३/१पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः ।
५१.४३/२हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥ ५१.४३॥
५१.४४/१विमानेनार्कवर्णेन रत्नहारेण भ्राजता ।
५१.४४/२सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे ॥ ५१.४४॥
५१.४५/१तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् ।
५१.४५/२कोटीधनपतिः श्रीमांश्चतुर्वेदी भवेद् ध्रुवम् ॥ ५१.४५॥
५१.४६/१ब्रह्मोवाच । एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः ।
५१.४६/२जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥ ५१.४६॥
५१.४७/१स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः ।
५१.४७/२कृतकृत्यमिवात्मानं मेने संदर्शनाद् धरेः ॥ ५१.४७॥
५१.४८/१ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् ।
५१.४८/२रथैर्विमानसंकाशैर्मणिकाञ्चनचित्रितैः ॥ ५१.४८॥
५१.४९/१संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः ।
५१.४९/२आनयामास मतिमान् सामात्यः सपुरोहितः ॥ ५१.४९॥
५१.५०/१नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः ।
५१.५०/२संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५१.५०॥
५१.५१/१ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे ।
५१.५१/२प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥ ५१.५१॥
५१.५२/१यथोक्तेन विधानेन विधिदृष्टेन कर्मणा ।
५१.५२/२आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ ५१.५२॥
५१.५३/१आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः ।
५१.५३/२ऋत्विग्भ्यश्च विधानेन तथान्येभ्यो धनं ददौ ॥ ५१.५३॥
५१.५४/१कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे ।
५१.५४/२स्थापयामास तान् सर्वान् विधिदृष्टेन कर्मणा ॥ ५१.५४॥
५१.५५/१ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः ।
५१.५५/२सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ॥ ५१.५५॥
५१.५६/१रत्नैश्च विविधैर्दिव्यैरासनैर्ग्रामपत्तनैः ।
५१.५६/२ददौ चान्यान् स विषयान् पुराणि नगराणि च ॥ ५१.५६॥
५१.५७/१एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् ।
५१.५७/२इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ॥ ५१.५७॥
५१.५८/१कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः ।
५१.५८/२जगाम परमं स्थानं तद् विष्णोः परमं पदम् ॥ ५१.५८॥
५१.५९/१एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः ।
५१.५९/२क्षेत्रस्य चैव माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ ५१.५९॥
५१.६०/१विष्णुरुवाच । श्रुत्वैवं वचनं तस्य ब्रह्मणोऽव्यक्तजन्मनः ।
५१.६०/२आश्चर्यं मेनिरे विप्राः पप्रच्छुश्च पुनर्मुदा ॥ ५१.६०॥
५१.६१/१मुनय ऊचुः । कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् ।
५१.६१/२विधिना केन कर्तव्यं पञ्चतीर्थमिति प्रभो ॥ ५१.६१॥
५१.६२/१एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम् ।
५१.६२/२देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् ॥ ५१.६२॥
५१.६३/१ब्रह्मोवाच । निराहारः कुरुक्षेत्रे पादेनैकेन यस्तपेत् ।
५१.६३/२जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ ५१.६३॥
५१.६४/१दृष्ट्वा सदा ज्येष्ठशुक्ल+ ।द्वादश्यां पुरुषोत्तमम् ।
५१.६४/२कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम् ॥ ५१.६४॥
५१.६५/१तस्माज्ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः ।
५१.६५/२स्वर्गलोकेप्सुविप्राद्यैर्द्रष्टव्यः पुरुषोत्तमः ॥ ५१.६५॥
५१.६६/१पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः ।
५१.६६/२शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम् ॥ ५१.६६॥
५१.६७/१ये पश्यन्त्यव्ययं देवं द्वादश्यां पुरुषोत्तमम् ।
५१.६७/२ते विष्णुलोकमासाद्य न च्यवन्ते कदाचन ॥ ५१.६७॥
५१.६८/१तस्माज्ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः ।
५१.६८/२कृत्वा तस्मिन् पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः ॥ ५१.६८॥
५१.६९/१सुदूरस्थोऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम् ।
५१.६९/२अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् ॥ ५१.६९॥
५१.७०/१यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः ।
५१.७०/२सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ ५१.७०॥
५१.७१/१चक्रं दृष्ट्वा हरेर्दूरात् प्रासादोपरि संस्थितम् ।
५१.७१/२सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तत् ॥ ५१.७१॥
५२.१/१ब्रह्मोवाच । आसीत् कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये ।
५२.१/२नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ ५२.१॥
५२.२/१उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते ।
५२.२/२विद्युदुत्पातसंघातैः सम्भग्ने तरुपर्वते ॥ ५२.२॥
५२.३/१लोके च संहृते सर्वे महदुल्कानिबर्हणे ।
५२.३/२शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥ ५२.३॥
५२.४/१ततः संवर्तको वह्निर्वायुना सह भो द्विजाः ।
५२.४/२लोकं तु प्राविशत् सर्वमादित्यैरुपशोभितम् ॥ ५२.४॥
५२.५/१पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
५२.५/२देवदानवयक्षाणां भयं जनयते महत् ॥ ५२.५॥
५२.६/१निर्दहन् नागलोकं च यच्च किंचित् क्षिताविह ।
५२.६/२अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥ ५२.६॥
५२.७/१ततो योजनविंशानां सहस्राणि शतानि च ।
५२.७/२निर्दहत्याशुगो वायुः स च संवर्तकोऽनलः ॥ ५२.७॥
५२.८/१सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
५२.८/२ततो दहति संदीप्तः सर्वमेव जगत् प्रभुः ॥ ५२.८॥
५२.९/१प्रदीप्तोऽसौ महारौद्रः कल्पाग्निरिति संश्रुतः ।
५२.९/२महाज्वालो महार्चिष्मान् सम्प्रदीप्तमहास्वनः ॥ ५२.९॥
५२.१०/१सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा ।
५२.१०/२त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम् ॥ ५२.१०॥
५२.११/१एवंविधे महाघोरे महाप्रलयदारुणे ।
५२.११/२ऋषिः परमधर्मात्मा ध्यानयोगपरोऽभवत् ॥ ५२.११॥
५२.१२/१एकः संतिष्ठते विप्रा मार्कण्डेयेति विश्रुतः ।
५२.१२/२मोहपाशैर्निबद्धोऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥ ५२.१२॥
५२.१३/१स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः ।
५२.१३/२तृष्णार्तः प्रस्खलन् विप्रास्तदासौ भयविह्वलः ॥ ५२.१३॥
५२.१४/१बभ्राम पृथिवीं सर्वां कांदिशीको विचेतनः ।
५२.१४/२त्रातारं नाधिगच्छन् वै इतश्चेतश्च धावति ॥ ५२.१४॥
५२.१५/१न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः ।
५२.१५/२करोमि किं न जानामि यस्याहं शरणं व्रजे ॥ ५२.१५॥
५२.१६/१कथं पश्यामि तं देवं पुरुषेशं सनातनम् ।
५२.१६/२इति संचिन्तयन् देवमेकाग्रेण सनातनम् ॥ ५२.१६॥
५२.१७/१प्राप्तवांस्तत् पदं दिव्यं महाप्रलयकारणम् ।
५२.१७/२पुरुषेशमिति ख्यातं वटराजं सनातनम् ॥ ५२.१७॥
५२.१८/१त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ ।
५२.१८/२आसाद्य तं मुनिश्रेष्ठास्तस्य मूले समाविशत् ॥ ५२.१८॥
५२.१९/१न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् ।
५२.१९/२न संवर्तागमस्तत्र न च वज्राशनिस्तथा ॥ ५२.१९॥
५३.१/१ब्रह्मोवाच । ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः ।
५३.१/२समुत्तस्थुर्महामेघा नभस्यद्भुतदर्शनाः ॥ ५३.१॥
५३.२/१केचिन् नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः ।
५३.२/२केचित् किञ्जल्कसंकाशाः केचित् पीताः पयोधराः ॥ ५३.२॥
५३.३/१केचिद् धरितसंकाशाः काकाण्डसंनिभास्तथा ।
५३.३/२केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसंनिभाः ॥ ५३.३॥
५३.४/१केचित् पुरवराकाराः केचिद् गिरिवरोपमाः ।
५३.४/२केचिद् अञ्जनसंकाशाः केचिन् मरकतप्रभाः ॥ ५३.४॥
५३.५/१विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर्महाघनाः ।
५३.५/२घोररूपा महाभागा घोरस्वननिनादिताः ॥ ५३.५॥
५३.६/१ततो जलधराः सर्वे समावृण्वन् नभस्तलम् ।
५३.६/२तैरियं पृथिवी सर्वा सपर्वतवनाकरा ॥ ५३.६॥
५३.७/१आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः ।
५३.७/२ततस्ते जलदा घोरा वारिणा मुनिसत्तमाः ॥ ५३.७॥
५३.८/१सर्वतः प्लावयामासुश्चोदिताः परमेष्ठिना ।
५३.८/२वर्षमाणा महातोयं पूरयन्तो वसुंधराम् ॥ ५३.८॥
५३.९/१सुघोरमशिवं रौद्रं नाशयन्ति स्म पावकम् ।
५३.९/२ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥ ५३.९॥
५३.१०/१धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ।
५३.१०/२ततः समुद्राः स्वां वेलामतिक्रामन्ति भो द्विजाः ॥ ५३.१०॥
५३.११/१पर्वताश्च व्यशीर्यन्त मही चाप्सु निमज्जति ।
५३.११/२सर्वतः सुमहाभ्रान्तास्ते पयोदा नभस्तलम् ॥ ५३.११॥
५३.१२/१संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः ।
५३.१२/२ततस्तं मारुतं घोरं स विष्णुर्मुनिसत्तमाः ॥ ५३.१२॥
५३.१३/१आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः ।
५३.१३/२तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ ५३.१३॥
५३.१४/१नष्टे देवासुरनरे यक्षराक्षसवर्जिते ।
५३.१४/२ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥ ५३.१४॥
५३.१५/१ददर्श चक्षुरुन्मील्य जलपूर्णां वसुंधराम् ।
५३.१५/२नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम् ॥ ५३.१५॥
५३.१६/१न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् ।
५३.१६/२तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये ॥ ५३.१६॥
५३.१७/१निमज्जन् स तदा विप्राः संतर्तुमुपचक्रमे ।
५३.१७/२बभ्रामासौ मुनिश्चार्त इतश्चेतश्च सम्प्लवन् ॥ ५३.१७॥
५३.१८/१निममज्ज तदा विप्रास्त्रातारं नाधिगच्छति ।
५३.१८/२एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः ।
५३.१८/३प्रोवाच मुनिशार्दूलास्तदा ध्यानेन तोषितः ॥ ५३.१८॥
५३.१९/१श्रीभगवान् उवाच । वत्स श्रान्तोऽसि बालस्त्वं भक्तत्र मम सुव्रत ।
५३.१९/२आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥ ५३.१९॥
५३.२०/१मा त्वयैव च भेतव्यं सम्प्राप्तोऽसि ममाग्रतः ।
५३.२०/२मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥ ५३.२०॥
५३.२१/१ब्रह्मोवाच । तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः ।
५३.२१/२उवाच स तदा विप्रा विस्मितश्चाभवन् मुहुः ॥ ५३.२१॥
५३.२२/१मार्कण्डेय उवाच । कोऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव ।
५३.२२/२बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः ॥ ५३.२२॥
५३.२३/१न ह्येष समुदाचारो देवेष्वपि समाहितः ।
५३.२३/२मां ब्रह्मा स च देवेशो दीर्घायुरिति भाषते ॥ ५३.२३॥
५३.२४/१कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
५३.२४/२मार्कण्डेयेति चोक्त्वा मन्+ ंऋत्युं गन्तुमिहेच्छति ॥ ५३.२४॥
५३.२५/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्राश्चिन्ताविष्टोऽभवन् मुनिः ।
५३.२५/२किं स्वप्नोऽयं मया दृष्टः किं वा मोहोऽयमागतः ॥ ५३.२५॥
५३.२६/१इत्थं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः ।
५३.२६/२व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥ ५३.२६॥
५३.२७/१स गत्वा शरणं देवं मुनिस्तद्गतमानसः ।
५३.२७/२ददर्श तं वटं भूयो विशालं सलिलोपरि ॥ ५३.२७॥
५३.२८/१शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् ।
५३.२८/२रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥ ५३.२८॥
५३.२९/१वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् ।
५३.२९/२पद्मरागादिभिर्जुष्टं रत्नैरन्यैरलंकृतम् ॥ ५३.२९॥
५३.३०/१नानास्तरणसंवीतं नानारत्नोपशोभितम् ।
५३.३०/२नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥ ५३.३०॥
५३.३१/१तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् ।
५३.३१/२सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥ ५३.३१॥
५३.३२/१चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् ।
५३.३२/२श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥ ५३.३२॥
५३.३३/१वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् ।
५३.३३/२हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥ ५३.३३॥
५३.३४/१दृष्ट्वा तदा मुनिर्देवं विस्मयोत्फुल्ललोचनः ।
५३.३४/२रोमाञ्चिततनुर्देवं प्रणिपत्येदमब्रवीत् ॥ ५३.३४॥
५३.३५/१मार्कण्डेय उवाच । अहो चैकार्णवे घोरे विनष्टे सचराचरे ।
५३.३५/२कथमेको ह्ययं बालस्तिष्ठत्यत्र सुनिर्भयः ॥ ५३.३५॥
५३.३६/१ब्रह्मोवाच । भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः ।
५३.३६/२न बुबोध तदा देवं मायया तस्य मोहितः ।
५३.३६/३यदा न बुबुधे चैनं तदा खेदाद् उवाच ह ॥ ५३.३६॥
५३.३७/१मार्कण्डेय उवाच । वृथा मे तपसो वीर्यं वृथा
ज्ञानं वृथा क्रिया ।
५३.३७/२वृथा मे जीवितं दीर्घं वृथा मानुष्यमेव च ॥ ५३.३७॥
५३.३८/१योऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥ ५३.३८॥
५३.३९/१ब्रह्मोवाच । एवं संचिन्तयन् विप्रः प्लवमानो विचेतनः ।
५३.३९/२त्राणार्थं विह्वलश्चासौ निर्वेदं गतवांस्तदा ॥ ५३.३९॥
५३.४०/१ततो बालार्कसंकाशं स्वमहिम्ना व्यवस्थितम् ।
५३.४०/२सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥ ५३.४०॥
५३.४१/१दृष्ट्वा तं मुनिमायान्तं स बालः प्रहसन्न् इव ।
५३.४१/२प्रोवाच मुनिशार्दूलास्तदा मेघौघनिस्वनः ॥ ५३.४१॥
५३.४२/१श्रीभगवान् उवाच । वत्स जानामि श्रान्तं त्वां त्राणार्थं
मामुपस्थितम् ।
५३.४२/२शरीरं विश मे क्षिप्रं विश्रामस्ते मयोदितः ॥ ५३.४२॥
५३.४३/१ब्रह्मोवाच । श्रुत्वा स वचनं तस्य किंचिन् नोवाच मोहितः ।
५३.४३/२विवेश वदनं तस्य विवृतं चावशो मुनिः ॥ ५३.४३॥
५४.१/१ब्रह्मोवाच । स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः ।
५४.१/२ददर्श पृथिवीं कृत्स्नां नानाजनपदैर्वृताम् ॥ ५४.१॥
५४.२/१लवणेक्षुसुरासर्पिर्+ ।दधिदुग्धजलोदधीन् ।
५४.२/२ददर्श तान् समुद्रांश्च जम्बु प्लक्षं च शाल्मलम् ॥ ५४.२॥
५४.३/१कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः ।
५४.३/२भारतादीनि वर्षाणि तथा सर्वांश्च पर्वतान् ॥ ५४.३॥
५४.४/१मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् ।
५४.४/२नानारत्नान्वितैः शृङ्गैर्भूषितं बहुकन्दरम् ॥ ५४.४॥
५४.५/१नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् ।
५४.५/२नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥ ५४.५॥
५४.६/१व्याघ्रैः सिंहैर्वराहैश्च चामरैर्महिषैर्गजैः ।
५४.६/२मृगैः शाखामृगैश्चान्यैर्भूषितं सुमनोहरम् ॥ ५४.६॥
५४.७/१शक्राद्यैर्विविधैर्देवैः सिद्धचारणपन्नगैः ।
५४.७/२मुनियक्षाप्सरोभिश्च वृतैश्चान्यैः सुरालयैः ॥ ५४.७॥
५४.८/१ब्रह्मोवाच । एवं सुमेरुं श्रीमन्तमपश्यन् मुनिसत्तमः ।
५४.८/२पर्यटन् स तदा विप्रस्तस्य बालस्य चोदरे ॥ ५४.८॥
५४.९/१हिमवन्तं हेमकूटं निषधं गन्धमादनम् ।
५४.९/२श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥ ५४.९॥
५४.१०/१महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् ।
५४.१०/२सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥ ५४.१०॥
५४.११/१एताश्चान्याश्च बहवो यावन्तः पृथिवीधराः ।
५४.११/२ततस्तांस्तु मुनिश्रेष्ठाः सोऽपश्यद् रत्नभूषितान् ॥ ५४.११॥
५४.१२/१कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् ।
५४.१२/२बाह्लीकान् शूरसेनांश्च काश्मीरांस्तङ्गणान् खसान् ॥ ५४.१२॥
५४.१३/१पार्वतीयान् किरातांश्च कर्णप्रावरणान् मरून् ।
५४.१३/२अन्त्यजान् अन्त्यजातींश्च सोऽपश्यत् तस्य चोदरे ॥ ५४.१३॥
५४.१४/१मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान् ।
५४.१४/२गजांश्चान्यांस्तथा सत्त्वान् सोऽपश्यत् तस्य चोदरे ॥ ५४.१४॥
५४.१५/१पृथिव्यां यानि तीर्थानि ग्रामाश्च नगराणि च ।
५४.१५/२कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥ ५४.१५॥
५४.१६/१शक्रादीन् विबुधाञ् श्रेष्ठांस्तथान्यांश्च दिवौकसः ।
५४.१६/२गन्धर्वाप्सरसो यक्षान् ऋषींश्चैव सनातनान् ॥ ५४.१६॥
५४.१७/१दैत्यदानवसंघांश्च नागांश्च मुनिसत्तमाः ।
५४.१७/२सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः ॥ ५४.१७॥
५४.१८/१यत् किंचित् तेन लोकेऽस्मिन् दृष्टपूर्वं चराचरम् ।
५४.१८/२अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥ ५४.१८॥
५४.१९/१अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः ।
५४.१९/२ब्रह्मादिस्तम्बपर्यन्तं यत् किंचित् सचराचरम् ॥ ५४.१९॥
५४.२०/१भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः ।
५४.२०/२महर्जनस्तपः सत्यमतलं वितलं तथा ॥ ५४.२०॥
५४.२१/१पातालं सुतलं चैव वितलं च रसातलम् ।
५४.२१/२महातलं च ब्रह्माण्डमपश्यत् तस्य चोदरे ॥ ५४.२१॥
५४.२२/१अव्याहता गतिस्तस्य तदाभूद् द्विजसत्तमाः ।
५४.२२/२प्रसादात् तस्य देवस्य स्मृतिलोपश्च नाभवत् ॥ ५४.२२॥
५४.२३/१भ्रममाणस्तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः ।
५४.२३/२नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥ ५४.२३॥
५४.२४/१यदासौ नागतश्चान्तं तस्य देहस्य भो द्विजाः ।
५४.२४/२तदा तं वरदं देवं शरणं गतवान् मुनिः ॥ ५४.२४॥
५४.२५/१ततोऽसौ सहसा विप्रा वायुवेगेन निःसृतः ।
५४.२५/२महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः ॥ ५४.२५॥
५५.१/१ब्रह्मोवाच । स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः ।
५५.१/२पुनश्चैकार्णवामुर्वीमपश्यज्जनवर्जिताम् ॥ ५५.१॥
५५.२/१पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् ।
५५.२/२शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥ ५५.२॥
५५.३/१श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् ।
५५.३/२जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥ ५५.३॥
५५.४/१सोऽपि तं मुनिमायान्तं प्लवमानमचेतनम् ।
५५.४/२दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव ॥ ५५.४॥
५५.५/१श्रीभगवान् उवाच । कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे ।
५५.५/२भ्रममाणश्च किं तत्र आश्चर्यं दृष्टवान् असि ॥ ५५.५॥
५५.६/१भक्तोऽसि मे मुनिश्रेष्ठ श्रान्तोऽसि च ममाश्रितः ।
५५.६/२तेन त्वामुपकाराय सम्भाषे पश्य मामिह ॥ ५५.६॥
५५.७/१ब्रह्मोवाच । श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः ।
५५.७/२ददर्श तं सुदुष्प्रेक्षं रत्नैर्दिव्यैरलंकृतम् ॥ ५५.७॥
५५.८/१प्रसन्ना निर्मला दृष्टिर्मुहूर्तात् तस्य भो द्विजाः ।
५५.८/२प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर्नवा ॥ ५५.८॥
५५.९/१रक्ताङ्गुलितलौ पादौ ततस्तस्य सुरार्चितौ ।
५५.९/२प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥ ५५.९॥
५५.१०/१कृताञ्जलिस्तदा हृष्टो विस्मितश्च पुनः पुनः ।
५५.१०/२दृष्ट्वा तं परमात्मानं संस्तोतुमुपचक्रमे ॥ ५५.१०॥
५५.११/१मार्कण्डेय उवाच । देवदेव जगन्नाथ मायाबालवपुर्धर ।
५५.११/२त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ ५५.११॥
५५.१२/१संतप्तोऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना ।
५५.१२/२अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ ५५.१२॥
५५.१३/१शोषितश्च प्रचण्डेन वायुना जगदायुना ।
५५.१३/२विह्वलोऽहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥ ५५.१३॥
५५.१४/१तापितश्च तशामात्यैः प्रलयावर्तकादिभिः ।
५५.१४/२न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१४॥
५५.१५/१तृषितश्च क्षुधाविष्टो दुःखितश्च जगत्पते ।
५५.१५/२त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ ५५.१५॥
५५.१६/१अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे ।
५५.१६/२न चान्तमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१६॥
५५.१७/१तवोदरे च देवेश मया दृष्टं चराचरम् ।
५५.१७/२विस्मितोऽहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥ ५५.१७॥
५५.१८/१संसारेऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम ।
५५.१८/२प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ ५५.१८॥
५५.१९/१प्रसीद विबुधां नाथ प्रसीद विबुधालय ।
५५.१९/२प्रसीद सर्वलोकेश जगत्कारणकारण ॥ ५५.१९॥
५५.२०/१प्रसीद सर्वकृद् देव प्रसीद मम भूधर ।
५५.२०/२प्रसीद सलिलावास प्रसीद मधुसूदन ॥ ५५.२०॥
५५.२१/१प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर ।
५५.२१/२प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥ ५५.२१॥
५५.२२/१प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक ।
५५.२२/२प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ ५५.२२॥
५५.२३/१प्रसीद शक्रावरज प्रसीद वरदाव्यय ।
५५.२३/२त्वं मही त्वं जलं देव त्वमग्निस्त्वं समीरणः ॥ ५५.२३॥
५५.२४/१त्वं नभस्त्वं मनश्चैव त्वमहंकार एव च ।
५५.२४/२त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ ५५.२४॥
५५.२५/१पुरुषस्त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः ।
५५.२५/२त्वमिन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ ५५.२५॥
५५.२६/१त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः ।
५५.२६/२त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥ ५५.२६॥
५५.२७/१त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् ।
५५.२७/२वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वरः ॥ ५५.२७॥
५५.२८/१त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः ।
५५.२८/२वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥ ५५.२८॥
५५.२९/१दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गणाः ।
५५.२९/२सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं सचारणाः ॥ ५५.२९॥
५५.३०/१पितरो वालखिल्याश्च प्रजानां पतयोऽच्युत ।
५५.३०/२मुनयस्त्वम् ऋषिगणास्त्वमश्विनौ निशाचराः ॥ ५५.३०॥
५५.३१/१अन्याश्च जातयस्त्वं हि यत् किंचिज्जीवसंज्ञितम् ।
५५.३१/२किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥ ५५.३१॥
५५.३२/१भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम् ।
५५.३२/२यत् ते रूपं परं देव कूटस्थमचलं ध्रुवम् ॥ ५५.३२॥
५५.३३/१ब्रह्माद्यास्तन् न जानन्ति कथमन्येऽल्पमेधसः ।
५५.३३/२देव शुद्धस्वभावोऽसि नित्यस्त्वं प्रकृतेः परः ॥ ५५.३३॥
५५.३४/१अव्यक्तः शाश्वतोऽनन्तः सर्वव्यापी महेश्वरः ।
५५.३४/२त्वमाकाशः परः शान्तो अजस्त्वं विभुरव्ययः ॥ ५५.३४॥
५५.३५/१एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् ।
५५.३५/२स्तुतोऽसि यन् मया देव विकलेनाल्पचेतसा ।
५५.३५/३तत् सर्वं देवदेवेश क्षन्तुमर्हसि चाव्यय ॥ ५५.३५॥
५६.१/१ब्रह्मोवाच । इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः ।
५६.१/२प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा ॥ ५६.१॥
५६.२/१श्रीभगवान् उवाच । ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते ।
५६.२/२ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि ॥ ५६.२॥
५६.३/१ब्रह्मोवाच । श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः ।
५६.३/२उवाच परमप्रीतो मुनिस्तद्गतमानसः ॥ ५६.३॥
५६.४/१मार्कण्डेय उवाच । ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम् ।
५६.४/२त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते ॥ ५६.४॥
५६.५/१द्रुतमन्तः शरीरेण सततं पर्यवर्तितम् ।
५६.५/२इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम् ॥ ५६.५॥
५६.६/१इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते ।
५६.६/२पीत्वा जगद् इदं सर्वमेतद् आख्यातुमर्हसि ॥ ५६.६॥
५६.७/१किमर्थं च जगत् सर्वं शरीरस्थं तवानघ ।
५६.७/२कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ ५६.७॥
५६.८/१ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः ।
५६.८/२त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् ।
५६.८/३महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो ॥ ५६.८॥
५६.९/१ब्रह्मोवाच । इत्युक्तः स तदा तेन देवदेवो महाद्युतिः ।
५६.९/२सान्त्वयन् स तदा वाक्यमुवाच वदतां वरः ॥ ५६.९॥
५६.१०/१श्रीभगवान् उवाच । कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः ।
५६.१०/२तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ ५६.१०॥
५६.११/१पितृभक्तोऽसि विप्रर्षे मामेव शरणं गतः ।
५६.११/२ततो दृष्टोऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत् ॥ ५६.११॥
५६.१२/१आपो नारा इति पुरा संज्ञाकर्म कृतं मया ।
५६.१२/२तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा ॥ ५६.१२॥
५६.१३/१अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः ।
५६.१३/२विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ ५६.१३॥
५६.१४/१अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः ।
५६.१४/२अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ५६.१४॥
५६.१५/१अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः ।
५६.१५/२अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ५६.१५॥
५६.१६/१अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने ।
५६.१६/२द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः ॥ ५६.१६॥
५६.१७/१सदिशं च नभः कायो वायुर्मनसि मे स्थितः ।
५६.१७/२मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः ॥ ५६.१७॥
५६.१८/१यजन्ते वेदविदुषो मां देवयजने स्थितम् ।
५६.१८/२पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ॥ ५६.१८॥
५६.१९/१यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ।
५६.१९/२चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥ ५६.१९॥
५६.२०/१शेषो भूत्वाहमेको हि धारयामि वसुंधराम् ।
५६.२०/२वाराहं रूपमास्थाय ममेयं जगती पुरा ॥ ५६.२०॥
५६.२१/१मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता ।
५६.२१/२अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम ॥ ५६.२१॥
५६.२२/१पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम् ।
५६.२२/२ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ॥ ५६.२२॥
५६.२३/१पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ।
५६.२३/२ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः ॥ ५६.२३॥
५६.२४/१मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ।
५६.२४/२यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥ ५६.२४॥
५६.२५/१कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ।
५६.२५/२सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः ॥ ५६.२५॥
५६.२६/१मामेव सततं विप्राश्चिन्तयन्त उपासते ।
५६.२६/२अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः ॥ ५६.२६॥
५६.२७/१अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः ।
५६.२७/२तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ॥ ५६.२७॥
५६.२८/१मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम ।
५६.२८/२रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ॥ ५६.२८॥
५६.२९/१वसनं शयनं चैव निलयं चैव विद्धि मे ।
५६.२९/२कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च ॥ ५६.२९॥
५६.३०/१ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ।
५६.३०/२प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम् ॥ ५६.३०॥
५६.३१/१सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु ।
५६.३१/२मद्विधानेन विहिता मम देहविचारिणः ॥ ५६.३१॥
५६.३२/१मयाभिभूतविज्ञानाश्चेष्टयन्ति न कामतः ।
५६.३२/२सम्यग् वेदमधीयाना यजन्तो विविधैर्मखैः ॥ ५६.३२॥
५६.३३/१शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ।
५६.३३/२प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः ॥ ५६.३३॥
५६.३४/१लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ।
५६.३४/२तन् मां महाफलं विद्धि नराणां भावितात्मनाम् ॥ ५६.३४॥
५६.३५/१सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् ।
५६.३५/२यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम ॥ ५६.३५॥
५६.३६/१अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।
५६.३६/२दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ॥ ५६.३६॥
५६.३७/१राक्षसाश्चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः ।
५६.३७/२तदाहं सम्प्रसूयामि गृहेषु पुण्यकर्मणाम् ॥ ५६.३७॥
५६.३८/१प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ।
५६.३८/२सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ॥ ५६.३८॥
५६.३९/१स्थावराणि च भूतानि संहराम्यात्ममायया ।
५६.३९/२कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ॥ ५६.३९॥
५६.४०/१आविश्य मानुषं देहं मर्यादाबन्धकारणात् ।
५६.४०/२श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम ॥ ५६.४०॥
५६.४१/१रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ।
५६.४१/२त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च ॥ ५६.४१॥
५६.४२/१अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः ।
५६.४२/२त्रैलोक्यं नाशयाम्येकः सर्वं स्थावरजङ्गमम् ॥ ५६.४२॥
५६.४३/१अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः ।
५६.४३/२अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ॥ ५६.४३॥
५६.४४/१कालचक्रं नयाम्येको ब्रह्मरूपं ममैव तत् ।
५६.४४/२शमनं सर्वभूतानां सर्वभूतकृतोद्यमम् ॥ ५६.४४॥
५६.४५/१एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम ।
५६.४५/२सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ५६.४५॥
५६.४६/१सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः ।
५६.४६/२यच्च किंचित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज ॥ ५६.४६॥
५६.४७/१सुखोदयाय तत् सर्वं श्रेयसे च तवानघ ।
५६.४७/२यच्च किंचित् त्वया लोके दृष्टं स्थावरजङ्गमम् ॥ ५६.४७॥
५६.४८/१विहितः सर्व एवासौ मयात्मा भूतभावनः ।
५६.४८/२अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ५६.४८॥
५६.४९/१यावद् युगानां विप्रर्षे सहस्रं परिवर्तते ।
५६.४९/२तावत् स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन् ॥ ५६.४९॥
५६.५०/१एवं सर्वमहं कालमिहासे मुनिसत्तम ।
५६.५०/२अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते ॥ ५६.५०॥
५६.५१/१मया च दत्तो विप्रेन्द्र वरस्ते ब्रह्मरूपिणा ।
५६.५१/२असकृत् परितुष्टेन विप्रर्षिगणपूजित ॥ ५६.५१॥
५६.५२/१सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे ।
५६.५२/२निर्गतोऽसि मयाज्ञातस्ततस्ते दर्शितं जगत् ॥ ५६.५२॥
५६.५३/१अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम ।
५६.५३/२दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे ॥ ५६.५३॥
५६.५४/१ततोऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया ।
५६.५४/२आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः ॥ ५६.५४॥
५६.५५/१यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः ।
५६.५५/२तावत् त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ ५६.५५॥
५६.५६/१ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे ।
५६.५६/२एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम ॥ ५६.५६॥
५६.५७/१आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च ।
५६.५७/२लोके यच्च भवेत् किंचिद् इह स्थावरजङ्गमम् ॥ ५६.५७॥
५६.५८/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः ।
५६.५८/२पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः ॥ ५६.५८॥
५६.५९/१श्रीभगवान् उवाच । मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः ।
५६.५९/२वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिराद् अहम् ॥ ५६.५९॥
५६.६०/१आयुष्मान् असि देवानां मद्भक्तोऽसि दृढव्रतः ।
५६.६०/२तेन त्वमसि विप्रेन्द्र पुनर्दीर्घायुराप्नुहि ॥ ५६.६०॥
५६.६१/१ब्रह्मोवाच । श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः ।
५६.६१/२मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत् ॥ ५६.६१॥
५६.६२/१मार्कण्डेय उवाच । दृष्टं परं हि देवेश तव रूपं द्विजोत्तम ।
५६.६२/२मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे ॥ ५६.६२॥
५६.६३/१एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः ।
५६.६३/२लोकानां च हितार्थाय नानाभावप्रशान्तये ॥ ५६.६३॥
५६.६४/१शैवभागवतानां च वादार्थप्रतिषेधकम् ।
५६.६४/२अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे ॥ ५६.६४॥
५६.६५/१शिवस्यायतनं देव करोमि परमं महत् ।
५६.६५/२प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम् ॥ ५६.६५॥
५६.६६/१ततो ज्ञास्यन्ति लोकेऽस्मिन्न् एकमूर्ती हरीश्वरौ ।
५६.६६/२प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम् ॥ ५६.६६॥
५६.६७/१श्रीभगवान् उवाच । यद् एतत् परमं देवं कारणं भुवनेश्वरम् ।
५६.६७/२लिङ्गमाराधनार्थाय नानाभावप्रशान्तये ॥ ५६.६७॥
५६.६८/१ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् ।
५६.६८/२तत्प्रभावाच्छिवलोके तिष्ठ त्वं च तथाक्षयम् ॥ ५६.६८॥
५६.६९/१शिवे संस्थापिते विप्र मम संस्थापनं भवेत् ।
५६.६९/२नावयोरन्तरं किंचिद् एकभावौ द्विधा कृतौ ॥ ५६.६९॥
५६.७०/१यो रुद्रः स स्वयं विष्णुर्यो विष्णुः स महेश्वरः ।
५६.७०/२उभयोरन्तरं नास्ति पवनाकाशयोरिव ॥ ५६.७०॥
५६.७१/१मोहितो नाभिजानाति य एव गरुडध्वजः ।
५६.७१/२वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम् ॥ ५६.७१॥
५६.७२/१तव नामाङ्कितं तस्मात् कुरु विप्र शिवालयम् ।
५६.७२/२उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम् ॥ ५६.७२॥
५६.७३/१मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः ।
५६.७३/२भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः ॥ ५६.७३॥
५६.७४/१ब्रह्मोवाच । इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत ।
५६.७४/२मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः ॥ ५६.७४॥
५७.१/१ब्रह्मोवाच । अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः ।
५७.१/२यत् फलं स्नानदानेन देवताप्रेक्षणेन च ॥ ५७.१॥
५७.२/१मार्कण्डेयह्रदं गत्वा नरश्चोदङ्मुखः शुचिः ।
५७.२/२निमज्जेत् तत्र वारांस्त्रीन् इमं मन्त्रमुदीरयेत् ॥ ५७.२॥
५७.३/१संसारसागरे मग्नं पापग्रस्तमचेतनम् ।
५७.३/२त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥ ५७.३॥
५७.४/१नमः शिवाय शान्ताय सर्वपापहराय च ।
५७.४/२स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ ५७.४॥
५७.५/१नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन् ।
५७.५/२तिलोदकेन मतिमान् पितृंश्चान्यांश्च तर्पयेत् ॥ ५७.५॥
५७.६/१स्नात्वा तथैव चाचम्य ततो गच्छेच्छिवालयम् ।
५७.६/२प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ५७.६॥
५७.७/१मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् ।
५७.७/२अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥ ५७.७॥
५७.८/१त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण ।
५७.८/२त्राहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते ॥ ५७.८॥
५७.९/१मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शंकरम् ।
५७.९/२दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५७.९॥
५७.१०/१पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति ।
५७.१०/२तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ५७.१०॥
५७.११/१इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः ।
५७.११/२शांकरं योगमासाद्य ततो मोक्षमवाप्नुयात् ॥ ५७.११॥
५७.१२/१कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् ।
५७.१२/२पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम् ॥ ५७.१२॥
५७.१३/१ओं नमो व्यक्तरूपाय महाप्रलयकारिणे ।
५७.१३/२महद्रसोपविष्टाय न्यग्रोधाय नमोऽस्तु ते ॥ ५७.१३॥
५७.१४/१अमरस्त्वं सदा कल्पे हरेश्चायतनं वट ।
५७.१४/२न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते ॥ ५७.१४॥
५७.१५/१भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः ।
५७.१५/२सहसा मुच्यते पापाज्जीर्णत्वच इवोरगः ॥ ५७.१५॥
५७.१६/१छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः ।
५७.१६/२ब्रह्महत्यां नरो जह्यात् पापेष्वन्येषु का कथा ॥ ५७.१६॥
५७.१७/१दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् ।
५७.१७/२न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥ ५७.१७॥
५७.१८/१राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् ।
५७.१८/२तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ५७.१८॥
५७.१९/१वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् ।
५७.१९/२सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ ५७.१९॥
५७.२०/१दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् ।
५७.२०/२संकर्षणं सुभद्रां च स याति परमां गतिम् ॥ ५७.२०॥
५७.२१/१प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् ।
५७.२१/२संकर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥ ५७.२१॥
५७.२२/१नमस्ते हलधृग् राम नमस्ते मुशलायुध ।
५७.२२/२नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ ५७.२२॥
५७.२३/१नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ।
५७.२३/२प्रलम्बारे नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज ॥ ५७.२३॥
५७.२४/१एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् ।
५७.२४/२कैलासशिखराकारं चन्द्रात् कान्ततराननम् ॥ ५७.२४॥
५७.२५/१नीलवस्त्रधरं देवं फणाविकटमस्तकम् ।
५७.२५/२महाबलं हलधरं कुण्डलैकविभूषितम् ॥ ५७.२५॥
५७.२६/१रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम् ।
५७.२६/२सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५७.२६॥
५७.२७/१आभूतसम्प्लवं यावद् भुक्त्वा तत्र सुखं नरः ।
५७.२७/२पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले ॥ ५७.२७॥
५७.२८/१ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ।
५७.२८/२ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ ५७.२८॥
५७.२९/१एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः ।
५७.२९/२द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः ॥ ५७.२९॥
५७.३०/१द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् ।
५७.३०/२पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ ५७.३०॥
५७.३१/१न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः ।
५७.३१/२यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥ ५७.३१॥
५७.३२/१तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् ।
५७.३२/२सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ ५७.३२॥
५७.३३/१जय कृष्ण जगन्नाथ जय सर्वाघनाशन ।
५७.३३/२जय चाणूरकेशिघ्न जय कंसनिषूदन ॥ ५७.३३॥
५७.३४/१जय पद्मपलाशाक्ष जय चक्रगदाधर ।
५७.३४/२जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥ ५७.३४॥
५७.३५/१जय देव जगत्पूज्य जय संसारनाशन ।
५७.३५/२जय लोकपते नाथ जय वाञ्छाफलप्रद ॥ ५७.३५॥
५७.३६/१संसारसागरे घोरे निःसारे दुःखफेनिले ।
५७.३६/२क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ ५७.३६॥
५७.३७/१नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे ।
५७.३७/२निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ ५७.३७॥
५७.३८/१एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् ।
५७.३८/२सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ ५७.३८॥
५७.३९/१पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् ।
५७.३९/२महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ ५७.३९॥
५७.४०/१शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् ।
५७.४०/२सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ ५७.४०॥
५७.४१/१दृष्ट्वा नरोऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च ।
५७.४१/२अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥ ५७.४१॥
५७.४२/१यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् ।
५७.४२/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४२॥
५७.४३/१यत् फलं सर्वरत्नाद्यैरिष्टे बहुसुवर्णके ।
५७.४३/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४३॥
५७.४४/१यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् ।
५७.४४/२तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ ५७.४४॥
५७.४५/१यत् फलं सर्वदानेन व्रतेन नियमेन च ।
५७.४५/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४५॥
५७.४६/१तपोभिर्विविधैरुग्रैर्यत् फलं समुदाहृतम् ।
५७.४६/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४६॥
५७.४७/१यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् ।
५७.४७/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४७॥
५७.४८/१यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः ।
५७.४८/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४८॥
५७.४९/१यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् ।
५७.४९/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.४९॥
५७.५०/१संन्यासेन यथोक्तेन यत् फलं समुदाहृतम् ।
५७.५०/२नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५७.५०॥
५७.५१/१किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः ।
५७.५१/२दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ ५७.५१॥
५७.५२/१पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः ।
५७.५२/२श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ ५७.५२॥
५७.५३/१सर्वकामसमृद्धेन विमानेन सुवर्चसा ।
५७.५३/२त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ ५७.५३॥
५७.५४/१तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् ।
५७.५४/२गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥ ५७.५४॥
५७.५५/१च्युतस्तस्माद् इहायातो विप्राणां प्रवरे कुले ।
५७.५५/२सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ ५७.५५॥
५७.५६/१स्वधर्मनिरतः शान्तो दाता भूतहिते रतः ।
५७.५६/२आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् ॥ ५७.५६॥
५७.५७/१ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् ।
५७.५७/२प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥ ५७.५७॥
५७.५८/१नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे ।
५७.५८/२त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमोऽस्तु ते ॥ ५७.५८॥
५७.५९/१एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् ।
५७.५९/२बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ ५७.५९॥
५७.६०/१कामगेन विमानेन नरो विष्णुपुरं व्रजेत् ।
५७.६०/२आभूतसम्प्लवं यावत् क्रीडित्वा तत्र देववत् ॥ ५७.६०॥
५७.६१/१इह मानुषतां प्राप्तो ब्राह्मणो वेदविद् भवेत् ।
५७.६१/२प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥ ५७.६१॥
५८.१/१ब्रह्मोवाच । एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च ।
५८.१/२धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ ५८.१॥
५८.२/१निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः ।
५८.२/२प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः ॥ ५८.२॥
५८.३/१इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः ।
५८.३/२अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ५८.३॥
५८.४/१सर्वदेवमयो योऽसौ हतवान् असुरोत्तमम् ।
५८.४/२स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥ ५८.४॥
५८.५/१भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् ।
५८.५/२मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ ५८.५॥
५८.६/१नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः ।
५८.६/२न तेषां दुष्कृतं किंचित् फलं स्याद् यद् यद् ईप्सितम् ॥ ५८.६॥
५८.७/१तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत् ।
५८.७/२धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति ॥ ५८.७॥
५८.८/१मुनय ऊचुः । माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् ।
५८.८/२यथा कथयसे देव तेन नो विस्मयो महान् ॥ ५८.८॥
५८.९/१प्रभावं तस्य देवस्य विस्तरेण जगत्पते ।
५८.९/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ५८.९॥
५८.१०/१यथा प्रसीदेद् देवोऽसौ नरसिंहो महाबलः ।
५८.१०/२भक्तानामुपकाराय ब्रूहि देव नमोऽस्तु ते ॥ ५८.१०॥
५८.११/१प्रसादान् नरसिंहस्य या भवन्त्यत्र सिद्धयः ।
५८.११/२ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥ ५८.११॥
५८.१२/१ब्रह्मोवाच । शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम ।
५८.१२/२अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ ५८.१२॥
५८.१३/१कः शक्नोति गुणान् वक्तुं समस्तांस्तस्य भो द्विजाः ।
५८.१३/२सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ ५८.१३॥
५८.१४/१याः काश्चित् सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः ।
५८.१४/२प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥ ५८.१४॥
५८.१५/१स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे ।
५८.१५/२प्रसादात् तस्य देवस्य भवत्यव्याहता गतिः ॥ ५८.१५॥
५८.१६/१असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे ।
५८.१६/२नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥ ५८.१६॥
५८.१७/१विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् ।
५८.१७/२येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः ॥ ५८.१७॥
५८.१८/१शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् ।
५८.१८/२नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः ॥ ५८.१८॥
५८.१९/१शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः ।
५८.१९/२पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः ॥ ५८.१९॥
५८.२०/१कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः ।
५८.२०/२अरण्ये विजने देशे पर्वते सिन्धुसंगमे ॥ ५८.२०॥
५८.२१/१ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा ।
५८.२१/२प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥ ५८.२१॥
५८.२२/१द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः ।
५८.२२/२जपेल्लक्षाणि वै विंशन् मनसा संयतेन्द्रियः ॥ ५८.२२॥
५८.२३/१उपपातकयुक्तश्च महापातकसंयुतः ।
५८.२३/२मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः ॥ ५८.२३॥
५८.२४/१कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ।
५८.२४/२पुण्यगन्धादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥ ५८.२४॥
५८.२५/१कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके ।
५८.२५/२प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते ॥ ५८.२५॥
५८.२६/१भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते ।
५८.२६/२तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः ॥ ५८.२६॥
५८.२७/१किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः ।
५८.२७/२विद्याधरा यक्षगणाः सकिंनरमहोरगाः ॥ ५८.२७॥
५८.२८/१मन्त्रं यान् आसुरान् हन्तुं जपन्त्येकेऽन्यसाधकाः ।
५८.२८/२ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥ ५८.२८॥
५८.२९/१सकृज्जप्तं तु कवचं रक्षेत् सर्वमुपद्रवम् ।
५८.२९/२द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥ ५८.२९॥
५८.३०/१गन्धर्वाः किंनरा यक्षा विद्याधरमहोरगाः ।
५८.३०/२भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥ ५८.३०॥
५८.३१/१त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः ।
५८.३१/२द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥ ५८.३१॥
५८.३२/१रक्षते भगवान् देवो नरसिंहो महाबलः ।
५८.३२/२ततो गत्वा बिलद्वारमुपोष्य रजनीत्रयम् ॥ ५८.३२॥
५८.३३/१पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् ।
५८.३३/२पलाशसमिधस्तत्र जुहुयात् त्रिमधुप्लुताः ॥ ५८.३३॥
५८.३४/१द्वे शते द्विजशार्दूला वषट्कारेण साधकः ।
५८.३४/२ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥ ५८.३४॥
५८.३५/१ततो विशेत् तु निःशङ्कं कवची विवरं बुधः ।
५८.३५/२गच्छतः संकटं तस्य तमोमोहश्च नश्यति ॥ ५८.३५॥
५८.३६/१राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः ।
५८.३६/२नरसिंहं स्मरंस्तत्र पातालं विशते द्विजाः ॥ ५८.३६॥
५८.३७/१गत्वा तत्र जपेत् तत्त्वं नरसिंहाख्यमव्ययम् ।
५८.३७/२ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥ ५८.३७॥
५८.३८/१निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च ।
५८.३८/२प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥ ५८.३८॥
५८.३९/१ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः ।
५८.३९/२पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥ ५८.३९॥
५८.४०/१क्रीडते सह कन्याभिर्यावद् आभूतसम्प्लवम् ।
५८.४०/२भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥ ५८.४०॥
५८.४१/१यदा न रोचते वासस्तस्मान् निर्गच्छते पुनः ।
५८.४१/२पट्टं शूलं च खड्गं च रोचनां च मणिं तथा ॥ ५८.४१॥
५८.४२/१रसं रसायनं चैव पादुकाञ्जनमेव च ।
५८.४२/२कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥ ५८.४२॥
५८.४३/१कमण्डलुं चाक्षसूत्रं यष्टिं संजीवनीं तथा ।
५८.४३/२सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥ ५८.४३॥
५८.४४/१ज्वलद्वह्निस्फुलिङ्गोर्मि+ ।वेष्टितं त्रिशिखं हृदि ।
५८.४४/२सकृन् न्यस्तं दहेत् सर्वं वृजिनं जन्मकोटिजम् ॥ ५८.४४॥
५८.४५/१विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम् ।
५८.४५/२स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥ ५८.४५॥
५८.४६/१महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् ।
५८.४६/२हृदन्ते वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥ ५८.४६॥
५८.४७/१बालानां कण्ठके बद्धं रक्षा भवति नित्यशः ।
५८.४७/२गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥ ५८.४७॥
५८.४८/१व्याधिजाते समिद्भिश्च घृतक्षीरेण होमयेत् ।
५८.४८/२त्रिसंध्यं मासमेकं तु सर्वरोगान् विनाशयेत् ॥ ५८.४८॥
५८.४९/१असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे ।
५८.४९/२यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥ ५८.४९॥
५८.५०/१अष्टोत्तरशतं त्वेके पूजयित्वा मृगाधिपम् ।
५८.५०/२मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥ ५८.५०॥
५८.५१/१रक्तचन्दनसम्मिश्रा गवां क्षीरेण लोडयेत् ।
५८.५१/२सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥ ५८.५१॥
५८.५२/१लिम्पेत् तथा भूर्जपत्त्रे रोचनया समालिखेत् ।
५८.५२/२नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥ ५८.५२॥
५८.५३/१जपेत् संख्याविहीनं तु पूजयित्वा जलाशये ।
५८.५३/२यावत् सप्ताहमात्रं तु जपेत् संयमितेन्द्रियः ॥ ५८.५३॥
५८.५४/१जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी ।
५८.५४/२अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥ ५८.५४॥
५८.५५/१जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् ।
५८.५५/२तमेवं पिञ्जके बद्ध्वा भ्रामयेत् साधकोत्तमः ॥ ५८.५५॥
५८.५६/१महावातो मुहूर्तेन आगच्छेन् नात्र संशयः ।
५८.५६/२पुनश्च धारयेत् क्षिप्रं सप्तसप्तेन वारिणा ॥ ५८.५६॥
५८.५७/१अथ तां प्रतिमां द्वारि निखनेद् यस्य साधकः ।
५८.५७/२गोत्रोत्सादो भवेत् तस्य उद्धृते चैव शान्तिदः ॥ ५८.५७॥
५८.५८/१तस्मात् तं मुनिशार्दूला भक्त्या सम्पूजयेत् सदा ।
५८.५८/२मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ ५८.५८॥
५८.५९/१विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
५८.५९/२ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ॥ ५८.५९॥
५८.६०/१सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ।
५८.६०/२मुच्यन्ते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः ॥ ५८.६०॥
५८.६१/१सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम् ।
५८.६१/२देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥ ५८.६१॥
५८.६२/१यक्षविद्याधरत्वं च तथान्यच्चाभिवाञ्छितम् ।
५८.६२/२दृष्ट्वा स्तुत्वा नमस्कृत्वा सम्पूज्य नरकेसरीम् ॥ ५८.६२॥
५८.६३/१प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् ।
५८.६३/२नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम् ॥ ५८.६३॥
५८.६४/१निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
५८.६४/२सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥ ५८.६४॥
५८.६५/१मुच्यते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः ।
५८.६५/२संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते ॥ ५८.६५॥
५८.६६/१कान्तारे प्राणसंदेहे विषवह्निजलेषु च ।
५८.६६/२राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥ ५८.६६॥
५८.६७/१स्मृत्वा तं पुरुषः सर्वै राजग्रामैर्विमुच्यते ।
५८.६७/२सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम् ॥ ५८.६७॥
५८.६८/१तथा संदर्शने तस्य विनाशं यान्त्युपद्रवाः ।
५८.६८/२गुटिकाञ्जनपाताल+ ।पादुके च रसायनम् ॥ ५८.६८॥
५८.६९/१नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान् ।
५८.६९/२यान् यान् कामान् अभिध्यायन् भजते नरकेसरीम् ॥ ५८.६९॥
५८.७०/१तांस्तान् कामान् अवाप्नोति नरो नास्त्यत्र संशयः ।
५८.७०/२दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च ॥ ५८.७०॥
५८.७१/१दशानामश्वमेधानां फलं दशगुणं लभेत् ।
५८.७१/२पापैः सर्वैर्विनिर्मुक्तो गुणैः सर्वैरलंकृतः ॥ ५८.७१॥
५८.७२/१सर्वकामसमृद्धात्मा जरामरणवर्जितः ।
५८.७२/२सौवर्णेन विमानेन किङ्किणीजालमालिना ॥ ५८.७२॥
५८.७३/१सर्वकामसमृद्धेन कामगेन सुवर्चसा ।
५८.७३/२तरुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥ ५८.७३॥
५८.७४/१दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना ।
५८.७४/२कुलैकविंशमुद्धृत्य देववन् मुदितः सुखी ॥ ५८.७४॥
५८.७५/१स्तूयमानोऽप्सरोभिश्च विष्णुलोकं व्रजेन् नरः ।
५८.७५/२भुक्त्वा तत्र वरान् भोगान् विष्णुलोके द्विजोत्तमाः ॥ ५८.७५॥
५८.७६/१गन्धर्वैरप्सरैर्युक्तः कृत्वा रूपं चतुर्भुजम् ।
५८.७६/२मनोह्लादकरं सौख्यं यावद् आभूतसम्प्लवम् ॥ ५८.७६॥
५८.७७/१पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले ।
५८.७७/२चतुर्वेदी भवेद् विप्रो वेदवेदाङ्गपारगः ।
५८.७७/३वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ५८.७७॥
५९.१/१ब्रह्मोवाच । अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ।
५९.१/२सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ ५९.१॥
५९.२/१मया चाराधितश्चासौ शक्रेण तदनन्तरम् ।
५९.२/२विभीषणेन रामेण कस्तं नाराधयेत् पुमान् ॥ ५९.२॥
५९.३/१श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वेतमाधवम् ।
५९.३/२मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ ५९.३॥
५९.४/१मुनय ऊचुः । श्वेतमाधवमाहात्म्यं वक्तुमर्हस्यशेषतः ।
५९.४/२विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥ ५९.४॥
५९.५/१तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले ।
५९.५/२श्वेताख्यं माधवं देवं कस्तं स्थापितवान् पुरा ॥ ५९.५॥
५९.६/१ब्रह्मोवाच । अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली ।
५९.६/२मतिमान् धर्मविच्छूरः सत्यसंधो दृढव्रतः ॥ ५९.६॥
५९.७/१यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः ।
५९.७/२भवन्त्यायुष्मन्तो लोका बालस्तस्मिन् न सीदति ॥ ५९.७॥
५९.८/१वर्तमाने तदा राज्ये किंचित् काले गते द्विजाः ।
५९.८/२कपालगौतमो नाम ऋषिः परमधार्मिकः ॥ ५९.८॥
५९.९/१सुतोऽस्याजातदन्तश्च मृतः कालवशाद् द्विजाः ।
५९.९/२तमादाय ऋषिर्धीमान् नृपस्यान्तिकमानयत् ॥ ५९.९॥
५९.१०/१दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् ।
५९.१०/२प्रतिज्ञामकरोद् विप्रा जीवनार्थं शिशोस्तदा ॥ ५९.१०॥
५९.११/१राजोवाच । यावद् बालमहं त्वेनं यमस्य सदने गतम् ।
५९.११/२नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥ ५९.११॥
५९.१२/१ब्रह्मोवाच । एवमुक्त्वासितैः पद्मैः शतैर्दशशतादिकैः ।
५९.१२/२सम्पूज्य च महादेवं राजा विद्यां पुनर्जपेत् ॥ ५९.१२॥
५९.१३/१अतिभक्तिं तु संचिन्त्य नृपस्य जगदीश्वरः ।
५९.१३/२सांनिध्यमगमत् तुष्टोऽस्मीत्युवाच सहोमया ॥ ५९.१३॥
५९.१४/१श्रुत्वैवं गिरमीशस्य विलोक्य सहसा हरम् ।
५९.१४/२भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥ ५९.१४॥
५९.१५/१शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् ।
५९.१५/२महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥ ५९.१५॥
५९.१६/१श्वेत उवाच । कारुण्यं यदि मे दृष्ट्वा प्रसन्नोऽसि प्रभो यदि ।
५९.१६/२कालस्य वशमापन्नो बालको द्विजपुत्रकः ॥ ५९.१६॥
५९.१७/१जीवत्वेष पुनर्बाल इत्येवं व्रतमाहितम् ।
५९.१७/२अकस्माच्च मृतं बालं नियम्य भगवन् स्वयम् ।
५९.१७/३यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥ ५९.१७॥
५९.१८/१ब्रह्मोवाच । श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस्तदा ।
५९.१८/२कालमाज्ञापयामास सर्वभूतभयंकरम् ॥ ५९.१८॥
५९.१९/१नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः ।
५९.१९/२बालं संजीवयामास मृत्योर्मुखगतं पुनः ॥ ५९.१९॥
५९.२०/१कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः ।
५९.२०/२देव्या सहोमया देवस्तत्रैवान्तरधीयत ॥ ५९.२०॥
५९.२१/१एवं संजीवयामास मुनेः पुत्रं नृपोत्तमः ॥ ५९.२१॥
५९.२२/१मुनय ऊचुः । देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय ।
५९.२२/२ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम् ॥ ५९.२२॥
५९.२३/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् ।
५९.२३/२प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः ॥ ५९.२३॥
५९.२४/१माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् ।
५९.२४/२यच्छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः ॥ ५९.२४॥
५९.२५/१श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः ।
५९.२५/२शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥ ५९.२५॥
५९.२६/१स कृत्वा राज्यमेकाग्र्यं वर्षाणां च सहस्रशः ।
५९.२६/२विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस्तथा ॥ ५९.२६॥
५९.२७/१केशवाराधने विप्रा निश्चितं व्रतमास्थितः ।
५९.२७/२स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥ ५९.२७॥
५९.२८/१तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके ।
५९.२८/२श्वेतोऽथ कारयामास प्रासादं शुभलक्षणम् ॥ ५९.२८॥
५९.२९/१धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे ।
५९.२९/२ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥ ५९.२९॥
५९.३०/१कृतः स भगवाञ् श्वेतो माधवश्चन्द्रसंनिभः ।
५९.३०/२प्रतिष्ठां विधिवच्चक्रे यथोद्दिष्टां स्वयं तु सः ॥ ५९.३०॥
५९.३१/१दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् ।
५९.३१/२अथानन्तरतो राजा माधवस्य च संनिधौ ॥ ५९.३१॥
५९.३२/१महीं निपत्य सहसा ओंकारं द्वादशाक्षरम् ।
५९.३२/२जपन् स मौनमास्थाय मासमेकं समाधिना ॥ ५९.३२॥
५९.३३/१निराहारो महाभागः सम्यग् विष्णुपदे स्थितः ।
५९.३३/२जपान्ते स तु देवेशं संस्तोतुमुपचक्रमे ॥ ५९.३३॥
५९.३४/१श्वेत उवाच । ओं नमो वासुदेवाय नमः संकर्षणाय च ।
५९.३४/२प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥ ५९.३४॥
५९.३५/१नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे ।
५९.३५/२निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥ ५९.३५॥
५९.३६/१ओं नमः पद्मनाभाय पद्मगर्भोद्भवाय च ।
५९.३६/२नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥ ५९.३६॥
५९.३७/१ओं नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे ।
५९.३७/२नमः सहस्रपादाय सहस्रभुजमन्यवे ॥ ५९.३७॥
५९.३८/१ओं नमोऽस्तु वराहाय वरदाय सुमेधसे ।
५९.३८/२वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥ ५९.३८॥
५९.३९/१ओं नमो बालरूपाय बालपद्मप्रभाय च ।
५९.३९/२बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥ ५९.३९॥
५९.४०/१केशवाय नमो नित्यं नमो नारायणाय च ।
५९.४०/२माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥ ५९.४०॥
५९.४१/१ओं नमो विष्णवे नित्यं देवाय वसुरेतसे ।
५९.४१/२मधुसूदनाय नमः शुद्धायांशुधराय च ॥ ५९.४१॥
५९.४२/१नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे ।
५९.४२/२त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥ ५९.४२॥
५९.४३/१सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः ।
५९.४३/२नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥ ५९.४३॥
५९.४४/१नमो वामनरूपाय नमो वामनकर्मणे ।
५९.४४/२नमो वामननेत्राय नमो वामनवाहिने ॥ ५९.४४॥
५९.४५/१नमो रम्याय पूज्याय नमोऽस्त्वव्यक्तरूपिणे ।
५९.४५/२अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥ ५९.४५॥
५९.४६/१संसारार्णवपोताय प्रशान्ताय स्वरूपिणे ।
५९.४६/२शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥ ५९.४६॥
५९.४७/१भवभङ्गकृते चैव भवभोगप्रदाय च ।
५९.४७/२भवसंघातरूपाय भवसृष्टिकृते नमः ॥ ५९.४७॥
५९.४८/१ओं नमो दिव्यरूपाय सोमाग्निश्वसिताय च ।
५९.४८/२सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥ ५९.४८॥
५९.४९/१ओं नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे ।
५९.४९/२ऋक्स्तुताय नमस्तुभ्यं नम ऋक्साधनाय च ॥ ५९.४९॥
५९.५०/१ओं नमो यजुषां धात्रे यजूरूपधराय च ।
५९.५०/२यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥ ५९.५०॥
५९.५१/१ओं नमः श्रीपते देव श्रीधराय वराय च ।
५९.५१/२श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥ ५९.५१॥
५९.५२/१ओं नमः सामरूपाय सामध्वनिवराय च ।
५९.५२/२ओं नमः सामसौम्याय सामयोगविदे नमः ॥ ५९.५२॥
५९.५३/१साम्ने च सामगीताय ओं नमः सामधारिणे ।
५९.५३/२सामयज्ञविदे चैव नमः सामकराय च ॥ ५९.५३॥
५९.५४/१नमस्त्वथर्वशिरसे नमोऽथर्वस्वरूपिणे ।
५९.५४/२नमोऽस्त्वथर्वपादाय नमोऽथर्वकराय च ॥ ५९.५४॥
५९.५५/१ओं नमो वज्रशीर्षाय मधुकैटभघातिने ।
५९.५५/२महोदधिजलस्थाय वेदाहरणकारिणे ॥ ५९.५५॥
५९.५६/१नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः ।
५९.५६/२नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥ ५९.५६॥
५९.५७/१नारायण नमस्तुभ्यं नमो लोकहिताय च ।
५९.५७/२ओं नमो मोहनाशाय भवभङ्गकराय च ॥ ५९.५७॥
५९.५८/१गतिप्रदाय च नमो नमो बन्धहराय च ।
५९.५८/२त्रैलोक्यतेजसां कर्त्रे नमस्तेजःस्वरूपिणे ॥ ५९.५८॥
५९.५९/१योगीश्वराय शुद्धाय रामायोत्तरणाय च ।
५९.५९/२सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥ ५९.५९॥
५९.६०/१वासुदेवाय वन्द्याय वामदेवाय वै नमः ।
५९.६०/२देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥ ५९.६०॥
५९.६१/१देवैर्वन्दितदेहाय नमस्ते दिव्यमौलिने ।
५९.६१/२नमो वासनिवासाय वासव्यवहराय च ॥ ५९.६१॥
५९.६२/१ओं नमो वसुकर्त्रे च वसुवासप्रदाय च ।
५९.६२/२नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥ ५९.६२॥
५९.६३/१यतियोगकरेशाय नमो यज्ञाङ्गधारिणे ।
५९.६३/२संकर्षणाय च नमः प्रलम्बमथनाय च ॥ ५९.६३॥
५९.६४/१मेघघोषस्वनोत्तीर्ण+ ।वेगलाङ्गलधारिणे ।
५९.६४/२नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥ ५९.६४॥
५९.६५/१न मेऽस्ति त्वाम् ऋते बन्धुर्नरकोत्तारणे प्रभो ।
५९.६५/२अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ॥ ५९.६५॥
५९.६६/१मलं यत् कायजं वापि मानसं चैव केशव ।
५९.६६/२न तस्यान्योऽस्ति देवेश क्षालकस्त्वाम् ऋतेऽच्युत ॥ ५९.६६॥
५९.६७/१संसर्गाणि समस्तानि विहाय त्वामुपस्थितः ।
५९.६७/२सङ्गो मेऽस्तु त्वया सार्धमात्मलाभाय केशव ॥ ५९.६७॥
५९.६८/१कष्टमापत् सुदुष्पारं संसारं वेद्मि केशव ।
५९.६८/२तापत्रयपरिक्लिष्टस्तेन त्वां शरणं गतः ॥ ५९.६८॥
५९.६९/१एषणाभिर्जगत् सर्वं मोहितं मायया तव ।
५९.६९/२आकर्षितं च लोभाद्यैरतस्त्वामहमाश्रितः ॥ ५९.६९॥
५९.७०/१नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः ।
५९.७०/२यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥ ५९.७०॥
५९.७१/१तथा फलविहीनं तु सुखमात्यन्तिकं लभेत् ।
५९.७१/२नष्टो विवेकशून्योऽस्मि दृश्यते जगद् आतुरम् ॥ ५९.७१॥
५९.७२/१गोविन्द त्राहि संसारान् मामुद्धर्तुं त्वमर्हसि ।
५९.७२/२मग्नस्य मोहसलिले निरुत्तारे भवार्णवे ।
५९.७२/३उद्धर्ता पुण्डरीकाक्ष त्वाम् ऋतेऽन्यो न विद्यते ॥ ५९.७२॥
५९.७३/१ब्रह्मोवाच । इत्थं स्तुतस्ततस्तेन राज्ञा श्वेतेन भो द्विजाः ।
५९.७३/२तस्मिन् क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥ ५९.७३॥
५९.७४/१भक्तिं तस्य तु संचिन्त्य देवदेवो जगद्गुरुः ।
५९.७४/२आजगाम नृपस्याग्रे सर्वैर्देवैर्वृतो हरिः ॥ ५९.७४॥
५९.७५/१नीलजीमूतसंकाशः पद्मपत्त्रायतेक्षणः ।
५९.७५/२दधत् सुदर्शनं धीमान् कराग्रे दीप्तमण्डलम् ॥ ५९.७५॥
५९.७६/१क्षीरोदजलसंकाशो विमलश्चन्द्रसंनिभः ।
५९.७६/२रराज वामहस्तेऽस्य पाञ्चजन्यो महाद्युतिः ॥ ५९.७६॥
५९.७७/१पक्षिराजध्वजः श्रीमान् गदाशार्ङ्गासिधृक् प्रभुः ।
५९.७७/२उवाच साधु भो राजन् यस्य ते मतिरुत्तमा ।
५९.७७/३यद् इष्टं वर भद्रं ते प्रसन्नोऽस्मि तवानघ ॥ ५९.७७॥
५९.७८/१ब्रह्मोवाच । श्रुत्वैवं देवदेवस्य वाक्यं तत् परमामृतम् ।
५९.७८/२प्रणम्य शिरसोवाच श्वेतस्तद्गतमानसः ॥ ५९.७८॥
५९.७९/१श्वेत उवाच । यद्यहं भगवन् भक्तः प्रयच्छ वरमुत्तमम् ।
५९.७९/२आब्रह्मभवनाद् ऊर्ध्वं वैष्णवं पदमव्ययम् ॥ ५९.७९॥
५९.८०/१विमलं विरजं शुद्धं संसारासङ्गवर्जितम् ।
५९.८०/२तत् पदं गन्तुमिच्छामि त्वत्प्रसादाज्जगत्पते ॥ ५९.८०॥
५९.८१/१श्रीभगवान् उवाच । यत् पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः ।
५९.८१/२नाभिगच्छन्ति यद् रम्यं परं पदमनामयम् ॥ ५९.८१॥
५९.८२/१यास्यसि परमं स्थानं राज्यामृतमुपास्य च ।
५९.८२/२सर्वांल्लोकान् अतिक्रम्य मम लोकं गमिष्यसि ॥ ५९.८२॥
५९.८३/१कीर्तिस्तवात्र राजेन्द्र त्रींल्लोकांश्च गमिष्यति ।
५९.८३/२सांनिध्यं मम चैवात्र सर्वदैव भविष्यति ॥ ५९.८३॥
५९.८४/१श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः ।
५९.८४/२कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयमम्बु च ॥ ५९.८४॥
५९.८५/१स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः ।
५९.८५/२यस्त्विमां प्रतिमां गच्छेन् माधवाख्यां शशिप्रभाम् ॥ ५९.८५॥
५९.८६/१शङ्खगोक्षीरसंकाशामशेषाघविनाशिनीम् ।
५९.८६/२तां प्रणम्य सकृद् भक्त्या पुण्डरीकनिभेक्षणाम् ॥ ५९.८६॥
५९.८७/१विहाय सर्वलोकान् वै मम लोके महीयते ।
५९.८७/२मन्वन्तराणि तत्रैव देवकन्याभिरावृतः ॥ ५९.८७॥
५९.८८/१गीयमानश्च मधुरं सिद्धगन्धर्वसेवितः ।
५९.८८/२भुनक्ति विपुलान् भोगान् यथेष्टं मामकैः सह ॥ ५९.८८॥
५९.८९/१च्युतस्तस्माद् इहागत्य मनुष्यो ब्राह्मणो भवेत् ।
५९.८९/२वेदवेदाङ्गविच्छ्रीमान् भोगवांश्चिरजीवितः ॥ ५९.८९॥
५९.९०/१गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः ।
५९.९०/२रूपवान् बहुभाग्यश्च पुत्रपौत्रसमन्वितः ॥ ५९.९०॥
५९.९१/१पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे ।
५९.९१/२त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥ ५९.९१॥
६०.१/१ब्रह्मोवाच । श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ।
६०.१/२एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥ ६०.१॥
६०.२/१वेदानां हरणार्थाय रसातलतले स्थितम् ।
६०.२/२चिन्तयित्वा क्षितिं सम्यक् तस्मिन् स्थाने प्रतिष्ठितम् ॥ ६०.२॥
६०.३/१आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् ।
६०.३/२प्रणम्य प्रणतो भूत्वा सर्वदुःखाद् विमुच्यते ॥ ६०.३॥
६०.४/१प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ।
६०.४/२काले पुनरिहायातो राजा स्यात् पृथिवीतले ॥ ६०.४॥
६०.५/१वत्समाधवमासाद्य दुराधर्षो भवेन् नरः ।
६०.५/२दाता भोक्ता भवेद् यज्वा वैष्णवः सत्यसंगरः ॥ ६०.५॥
६०.६/१योगं प्राप्य हरेः पश्चात् ततो मोक्षमवाप्नुयात् ।
६०.६/२मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् ।
६०.६/३यं दृष्ट्वा मुनिशार्दूलाः सर्वान् कामान् अवाप्नुयात् ॥ ६०.६॥
६०.७/१मुनय ऊचुः । भगवञ् श्रोतुमिच्छामो मार्जनं वरुणालये ।
६०.७/२क्रियते स्नानदानादि तस्याशेषफलं वद ॥ ६०.७॥
६०.८/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि ।
६०.८/२भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यमुत्तमम् ॥ ६०.८॥
६०.९/१मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते ।
६०.९/२चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥ ६०.९॥
६०.१०/१तद्वत् स्नानं समुद्रस्य सर्वकालं प्रशस्यते ।
६०.१०/२पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥ ६०.१०॥
६०.११/१मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् ।
६०.११/२इन्द्रद्युम्नसरश्चैव पञ्चतीर्थीविधिः स्मृतः ॥ ६०.११॥
६०.१२/१पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ।
६०.१२/२तदा गच्छेद् विशेषेण तीर्थराजं परं शुभम् ॥ ६०.१२॥
६०.१३/१कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः ।
६०.१३/२सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः ॥ ६०.१३॥
६०.१४/१कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् ।
६०.१४/२प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥ ६०.१४॥
६०.१५/१यं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् ।
६०.१५/२पुण्यं चाप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥ ६०.१५॥
६०.१६/१तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे ।
६०.१६/२यथासंख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥ ६०.१६॥
६०.१७/१वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः ।
६०.१७/२वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ ६०.१७॥
६०.१८/१योजनं पादहीनं च योजनार्धं तदर्धकम् ।
६०.१८/२प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥ ६०.१८॥
६०.१९/१यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् ।
६०.१९/२दक्षिणाभिमुखो गच्छेद् धन्वन्तरशतत्रयम् ॥ ६०.१९॥
६०.२०/१यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् ।
६०.२०/२सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ ६०.२०॥
६०.२१/१प्रणिपत्य ततस्तं भोः परिपूज्य ततः पुनः ।
६०.२१/२मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥ ६०.२१॥
६०.२२/१उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् ।
६०.२२/२गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥ ६०.२२॥
६०.२३/१न्यसेद् अष्टाक्षरं मन्त्रं पश्चाद् धस्तशरीरयोः ।
६०.२३/२ओं नमो नारायणायेति यं वदन्ति मनीषिणः ॥ ६०.२३॥
६०.२४/१किं कार्यं बहुभिर्मन्त्रैर्मनोविभ्रमकारकैः ।
६०.२४/२ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६०.२४॥
६०.२५/१आपो नरस्य सूनुत्वान् नारा इतीह कीर्तिताः ।
६०.२५/२विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥ ६०.२५॥
६०.२६/१नारायणपरा वेदा नारायणपरा द्विजाः ।
६०.२६/२नारायणपरा यज्ञा नारायणपराः क्रियाः ॥ ६०.२६॥
६०.२७/१नारायणपरा पृथ्वी नारायणपरं जलम् ।
६०.२७/२नारायणपरो वह्निर्नारायणपरं नभः ॥ ६०.२७॥
६०.२८/१नारायणपरो वायुर्नारायणपरं मनः ।
६०.२८/२अहंकारश्च बुद्धिश्च उभे नारायणात्मके ॥ ६०.२८॥
६०.२९/१भूतं भव्यं भविष्यं च यत् किंचिज्जीवसंज्ञितम् ।
६०.२९/२स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ ६०.२९॥
६०.३०/१शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च ।
६०.३०/२प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥ ६०.३०॥
६०.३१/१जले स्थले च पाताले स्वर्गलोकेऽम्बरे नगे ।
६०.३१/२अवष्टभ्य इदं सर्वमास्ते नारायणः प्रभुः ॥ ६०.३१॥
६०.३२/१किं चात्र बहुनोक्तेन जगद् एतच्चराचरम् ।
६०.३२/२ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥ ६०.३२॥
६०.३३/१नारायणात् परं किंचिन् नेह पश्यामि भो द्विजाः ।
६०.३३/२तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥ ६०.३३॥
६०.३४/१आपो ह्यायतनं विष्णोः स च एवाम्भसां पतिः ।
६०.३४/२तस्माद् अप्सु स्मरेन् नित्यं नारायणमघापहम् ॥ ६०.३४॥
६०.३५/१स्नानकाले विशेषेण चोपस्थाय जले शुचिः ।
६०.३५/२स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत् ॥ ६०.३५॥
६०.३६/१ओंकारं च नकारं च अङ्गुष्ठे हस्तयोर्न्यसेत् ।
६०.३६/२शेषैर्हस्ततलं यावत् तर्जन्यादिषु विन्यसेत् ॥ ६०.३६॥
६०.३७/१ओंकारं वामपादे तु नकारं दक्षिणे न्यसेत् ।
६०.३७/२मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥ ६०.३७॥
६०.३८/१राकारं नाभिदेशे तु यकारं वामबाहुके ।
६०.३८/२णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥ ६०.३८॥
६०.३९/१अधश्चोर्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः ।
६०.३९/२ध्यात्वा नारायणं पश्चाद् आरभेत् कवचं बुधः ॥ ६०.३९॥
६०.४०/१पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः ।
६०.४०/२पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥ ६०.४०॥
६०.४१/१पातु विष्णुस्तथाग्नेये नैरृते माधवोऽव्ययः ।
६०.४१/२वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥ ६०.४१॥
६०.४२/१भूतले पातु वाराहस्तथोर्ध्वं च त्रिविक्रमः ।
६०.४२/२कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेत् ततः ॥ ६०.४२॥
६०.४३/१अहं नारायणो देवः शङ्खचक्रगदाधरः ।
६०.४३/२एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत् ॥ ६०.४३॥
६०.४४/१त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः ।
६०.४४/२प्रधानः सर्वभूतानां जीवानां प्रभुरव्ययः ॥ ६०.४४॥
६०.४५/१अमृतस्यारणिस्त्वं हि देवयोनिरपां पते ।
६०.४५/२वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते ॥ ६०.४५॥
६०.४६/१एवमुच्चार्य विधिवत् ततः स्नानं समाचरेत् ।
६०.४६/२अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥ ६०.४६॥
६०.४७/१कृत्वा तु वैदिकैर्मन्त्रैरभिषेकं च मार्जनम् ।
६०.४७/२अन्तर्जले जपेत् पश्चात् त्रिरावृत्त्याघमर्षणम् ॥ ६०.४७॥
६०.४८/१हयमेधो यथा विप्राः सर्वपापहरः क्रतुः ।
६०.४८/२तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥ ६०.४८॥
६०.४९/१उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
६०.४९/२प्राणान् आयम्य चाचम्य संध्यां चोपास्य भास्करम् ॥ ६०.४९॥
६०.५०/१उपतिष्ठेत् ततश्चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ।
६०.५०/२उपस्थायोर्ध्वबाहुश्च तल्लिङ्गैर्भास्करं ततः ॥ ६०.५०॥
६०.५१/१गायत्रीं पावनीं देवीं जपेद् अष्टोत्तरं शतम् ।
६०.५१/२अन्यांश्च सौरमन्त्रांश्च जप्त्वा तिष्ठन् समाहितः ॥ ६०.५१॥
६०.५२/१कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ।
६०.५२/२स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद् दैवतान्यृषीन् ॥ ६०.५२॥
६०.५३/१मनुष्यांश्च पितृंश्चान्यान् नामगोत्रेण मन्त्रवित् ।
६०.५३/२तोयेन तिलमिश्रेण विधिवत् सुसमाहितः ॥ ६०.५३॥
६०.५४/१तर्पणं देवतानां च पूर्वं कृत्वा समाहितः ।
६०.५४/२अधिकारी भवेत् पश्चात् पितृणां तर्पणे द्विजः ॥ ६०.५४॥
६०.५५/१श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ।
६०.५५/२तर्पणे तूभयं कुर्याद् एष एव विधिः सदा ॥ ६०.५५॥
६०.५६/१अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
६०.५६/२तृप्यतामिति सिञ्चेत् तु नामगोत्रेण वाग्यतः ॥ ६०.५६॥
६०.५७/१कायस्थैर्यस्तिलैर्मोहात् करोति पितृतर्पणम् ।
६०.५७/२तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥ ६०.५७॥
६०.५८/१अङ्गस्थैर्न तिलैः कुर्याद् देवतापितृतर्पणम् ।
६०.५८/२रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत् ॥ ६०.५८॥
६०.५९/१भूम्यां यद् दीयते तोयं दाता चैव जले स्थितः ।
६०.५९/२वृथा तन् मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥ ६०.५९॥
६०.६०/१स्थले स्थित्वा जले यस्तु प्रयच्छेद् उदकं नरः ।
६०.६०/२पितृणां नोपतिष्ठेत सलिलं तन् निरर्थकम् ॥ ६०.६०॥
६०.६१/१उदके नोदकं कुर्यात् पितृभ्यश्च कदाचन ।
६०.६१/२उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम् ॥ ६०.६१॥
६०.६२/१नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
६०.६२/२नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते ॥ ६०.६२॥
६०.६३/१पितृणामक्षयं स्थानं मही दत्ता मया द्विजाः ।
६०.६३/२तस्मात् तत्रैव दातव्यं पितृणां प्रीतिमिच्छता ॥ ६०.६३॥
६०.६४/१भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः ।
६०.६४/२भूम्यां चैव लयं याता भूमौ दद्यात् ततो जलम् ॥ ६०.६४॥
६०.६५/१आस्तीर्य च कुशान् साग्रांस्तान् आवाह्य स्वमन्त्रतः ।
६०.६५/२प्राचीनाग्रेषु वै देवान् याम्याग्रेषु तथा पितृन् ॥ ६०.६५॥
६१.१/१ब्रह्मोवाच । देवान् पितृंस्तथा चान्यान् संतर्प्याचम्य वाग्यतः ।
६१.१/२हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ ६१.१॥
६१.२/१पुरं विलिख्य भो विप्रास्तीरे तस्य महोदधेः ।
६१.२/२मध्ये तत्र लिखेत् पद्ममष्टपत्त्रं सकर्णिकम् ॥ ६१.२॥
६१.३/१एवं मण्डलमालिख्य पूजयेत् तत्र भो द्विजाः ।
६१.३/२अष्टाक्षरविधानेन नारायणमजं विभुम् ॥ ६१.३॥
६१.४/१अतः परं प्रवक्ष्यामि कायशोधनमुत्तमम् ।
६१.४/२अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥ ६१.४॥
६१.५/१ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् ।
६१.५/२चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥ ६१.५॥
६१.६/१शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन् महीम् ।
६१.६/२एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥ ६१.६॥
६१.७/१अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः ।
६१.७/२वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥ ६१.७॥
६१.८/१पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च ।
६१.८/२करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ ६१.८॥
६१.९/१एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् ।
६१.९/२ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥ ६१.९॥
६१.१०/१नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः ।
६१.१०/२मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥ ६१.१०॥
६१.११/१नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः ।
६१.११/२राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥ ६१.११॥
६१.१२/१वायव्योऽयं यकारस्तु वामस्कन्धे समाश्रितः ।
६१.१२/२णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः ।
६१.१२/३यकारोऽयं शिरस्थश्च यत्र लोकाः प्रतिष्ठिताः ॥ ६१.१२॥
६१.१३/१ओं विष्णवे नमः शिरः ओं ज्वलनाय नमः शिखा ।
६१.१३/२ओं विष्णवे नमः कवचमों विष्णवे नमः स्फुरणं दिशोबन्धाय ।
६१.१३/३ओं हुम्फडस्त्रमों शिरसि शुक्लो वासुदेव इति ।
६१.१३/४ओं आं ललाटे रक्तः संकर्षणो गरुत्मान् वह्निस्तेज आदित्य इति ।
६१.१३/५ओं आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति ।
६१.१३/६ओं आं हृदये कृष्णोऽनिरुद्धः सर्वशक्तिसमन्वित इति ।
६१.१३/७एवं चतुर्व्यूहमात्मानं कृत्वा ततः कर्म समाचरेत् ॥ ६१.१३॥
६१.१४/१ममाग्रेऽवस्थितो विष्णुः पृष्ठतश्चापि केशवः ।
६१.१४/२गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ ६१.१४॥
६१.१५/१उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले ।
६१.१५/२अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥ ६१.१५॥
६१.१६/१गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
६१.१६/२नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥ ६१.१६॥
६१.१७/१एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् ।
६१.१७/२यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥ ६१.१७॥
६१.१८/१ततश्चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु ।
६१.१८/२फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥ ६१.१८॥
६१.१९/१तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् ।
६१.१९/२पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च ॥ ६१.१९॥
६१.२०/१ततो विचिन्त्य हृदय ओंकारं ज्योतीरूपिणम् ।
६१.२०/२कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥ ६१.२०॥
६१.२१/१अष्टाक्षरं ततो मन्त्रं विन्यसेच्च यथाक्रमम् ।
६१.२१/२तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥ ६१.२१॥
६१.२२/१द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम् ।
६१.२२/२ततोऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥ ६१.२२॥
६१.२३/१चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् ।
६१.२३/२चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् ।
६१.२३/३ततश्चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे ॥ ६१.२३॥
६१.२४/१आवाहनमन्त्रः । मीनरूपो वराहश्च नरसिंहोऽथ वामनः ।
६१.२४/२आयातु देवो वरदो मम नारायणोऽग्रतः ।
६१.२४/३ओं नमो नारायणाय नमः ॥ ६१.२४॥
६१.२५/१स्थापनमन्त्रः । कर्णिकायां सुपीठेऽत्र पद्मकल्पितमासनम् ।
६१.२५/२सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन ।
६१.२५/३ओं नमो नारायणाय नमः ॥ ६१.२५॥
६१.२६/१अर्घमन्त्रः । ओं त्रैलोक्यपतीनां पतये देवदेवाय
हृषीकेशाय विष्णवे नमः ।
६१.२६/२ओं नमो नारायणाय नमः ॥ ६१.२६॥
६१.२७/१पाद्यमन्त्रः । ओं पाद्यं पादयोर्देव पद्मनाभ सनातन ।
६१.२७/२विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन ।
६१.२७/३ओं नमो नारायणाय नमः ॥ ६१.२७॥
६१.२८/१मधुपर्कमन्त्रः । मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव ।
६१.२८/२मया निवेदितं भक्त्या गृहाण पुरुषोत्तम ।
६१.२८/३ओं नमो नारायणाय नमः ॥ ६१.२८॥
६१.२९/१आचमनीयमन्त्रः । मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् ।
६१.२९/२गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ।
६१.२९/३ओं नमो नारायणाय नमः ॥ ६१.२९॥
६१.३०/१स्नानमन्त्रः । त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च ।
६१.३०/२लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्यहम् ।
६१.३०/३ओं नमो नारायणाय नमः ॥ ६१.३०॥
६१.३१/१वस्त्रमन्त्रः । देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित ।
६१.३१/२स्वर्णवर्णप्रभे देव वाससी तव केशव ।
६१.३१/३ओं नमो नारायणाय नमः ॥ ६१.३१॥
६१.३२/१विलेपनमन्त्रः । शरीरं ते न जानामि चेष्टां चैव च केशव ।
६१.३२/२मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् ।
६१.३२/३ओं नमो नारायणाय नमः ॥ ६१.३२॥
६१.३३/१उपवीतमन्त्रः । ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना ।
६१.३३/२सावित्रीग्रन्थिसंयुक्तमुपवीतं तवार्पये ।
६१.३३/३ओं नमो नारायणाय नमः ॥ ६१.३३॥
६१.३४/१अलंकारमन्त्रः । दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ ।
६१.३४/२गात्राणि तव शोभन्तु सालंकाराणि माधव ।
६१.३४/३ओं नमो नारायणाय नमः ॥ ६१.३४॥
६१.३५/१ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥ ६१.३५॥
६१.३६/१धूपमन्त्रः । वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते ।
६१.३६/२मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।
६१.३६/३ओं नमो नारायणाय नमः ॥ ६१.३६॥
६१.३७/१दीपमन्त्रः । सूर्यचन्द्रसमो ज्योतिर्विद्युदग्न्योस्तथैव च ।
६१.३७/२त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम् ।
६१.३७/३ओं नमो नारायणाय नमः ॥ ६१.३७॥
६१.३८/१नैवेद्यमन्त्रः । अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् ।
६१.३८/२मया निवेदितं भक्त्या नैवेद्यं तव केशव ।
६१.३८/३ओं नमो नारायणाय नमः ॥ ६१.३८॥
६१.३९/१पूर्वे दले वासुदेवं याम्ये संकर्षणं न्यसेत् ।
६१.३९/२प्रद्युम्नं पश्चिमे कुर्याद् अनिरुद्धं तथोत्तरे ॥ ६१.३९॥
६१.४०/१वाराहं च तथाग्नेये नरसिंहं च नैरृते ।
६१.४०/२वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥ ६१.४०॥
६१.४१/१तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् ।
६१.४१/२वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥ ६१.४१॥
६१.४२/१तथा महागदां चैव न्यसेद् देवस्य दक्षिणे ।
६१.४२/२ततः शार्ङ्गं धनुर्विद्वान् न्यसेद् देवस्य वामतः ॥ ६१.४२॥
६१.४३/१दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् ।
६१.४३/२श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत् ॥ ६१.४३॥
६१.४४/१वनमालां च पुरतस्ततः श्रीवत्सकौस्तुभौ ।
६१.४४/२विन्यसेद् धृदयादीनि पूर्वादिषु चतुर्दिशम् ॥ ६१.४४॥
६१.४५/१ततोऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् ।
६१.४५/२इन्द्रमग्निं यमं चैव नैरृतं वरुणं तथा ॥ ६१.४५॥
६१.४६/१वायुं धनदमीशानमनन्तं ब्रह्मणा सह ।
६१.४६/२पूजयेत् तान्त्रिकैर्मन्त्रैरधश्चोर्ध्वं तथैव च ॥ ६१.४६॥
६१.४७/१एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् ।
६१.४७/२लभेद् अभिमतान् कामान् नरो नास्त्यत्र संशयः ॥ ६१.४७॥
६१.४८/१अनेनैव विधानेन मण्डलस्थं जनार्दनम् ।
६१.४८/२पूजितं यः सम्पश्येत स विशेद् विष्णुमव्ययम् ॥ ६१.४८॥
६१.४९/१सकृद् अप्यर्चितो येन विधिनानेन केशवः ।
६१.४९/२जन्ममृत्युजरां तीर्त्वा स विष्णोः पदमाप्नुयात् ॥ ६१.४९॥
६१.५०/१यः स्मरेत् सततं भक्त्या नारायणमतन्द्रितः ।
६१.५०/२अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥ ६१.५०॥
६१.५१/१ओंकारादिसमायुक्तं नमःकारान्तदीपितम् ।
६१.५१/२तन्नाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते ॥ ६१.५१॥
६१.५२/१अनेनैव विधानेन गन्धपुष्पं निवेदयेत् ।
६१.५२/२एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥ ६१.५२॥
६१.५३/१मुद्रास्ततो निबध्नीयाद् यथोक्तक्रमचोदिताः ।
६१.५३/२जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥ ६१.५३॥
६१.५४/१अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा ।
६१.५४/२कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥ ६१.५४॥
६१.५५/१पद्मं शङ्खश्च श्रीवत्सो गदा गरुड एव च ।
६१.५५/२चक्रं खड्गश्च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥ ६१.५५॥
६१.५६/१विसर्जनमन्त्रः । गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम ।
६१.५६/२यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् ।
६१.५६/३।६१.५६।
६१.५७/१अर्चनं ये न जानन्ति हरेर्मन्त्रैर्यथोदितम् ।
६१.५७/२ते तत्र मूलमन्त्रेण पूजयन्त्वच्युतं सदा ॥ ६१.५७॥
६२.१/१ब्रह्मोवाच । एवं सम्पूज्य विधिवद् भक्त्या तं पुरुषोत्तमम् ।
६२.१/२प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत् ॥ ६२.१॥
६२.२/१प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते ।
६२.२/२तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ॥ ६२.२॥
६२.३/१स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः ।
६२.३/२तीरे चाभ्यर्च्य विधिवन् नारायणमनामयम् ॥ ६२.३॥
६२.४/१रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ।
६२.४/२शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ६२.४॥
६२.५/१सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः ।
६२.५/२वृन्दारक इव श्रीमान् रूपयौवनगर्वितः ॥ ६२.५॥
६२.६/१विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना ।
६२.६/२कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६२.६॥
६२.७/१भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह ।
६२.७/२मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥ ६२.७॥
६२.८/१पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते ।
६२.८/२रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः ॥ ६२.८॥
६२.९/१वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः ।
६२.९/२योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ६२.९॥
६२.१०/१ग्रहोपरागे संक्रान्त्यामयने विषुवे तथा ।
६२.१०/२युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥ ६२.१०॥
६२.११/१आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ ।
६२.११/२ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥ ६२.११॥
६२.१२/१फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते ।
६२.१२/२पितृणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥ ६२.१२॥
६२.१३/१अक्षयां पितरस्तेषां तृप्तिं सम्प्राप्नुवन्ति वै ।
६२.१३/२एवं स्नानफलं सम्यक् सागरस्य मयोदितम् ॥ ६२.१३॥
६२.१४/१दानस्य च फलं विप्राः पिण्डदानस्य चैव हि ।
६२.१४/२धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम् ॥ ६२.१४॥
६२.१५/१भुक्तिमुक्तिफलं नृणां धन्यं दुःस्वप्ननाशनम् ।
६२.१५/२सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ ६२.१५॥
६२.१६/१नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः ।
६२.१६/२तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ॥ ६२.१६॥
६२.१७/१यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः ।
६२.१७/२पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥ ६२.१७॥
६२.१८/१तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः ।
६२.१८/२भूतले यानि तीर्थानि सरितश्च सरांसि च ॥ ६२.१८॥
६२.१९/१विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः ।
६२.१९/२राजा समस्ततीर्थानां सागरः सरितां पतिः ॥ ६२.१९॥
६२.२०/१तस्मात् समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः ।
६२.२०/२तमो नाशं यथाभ्येति भास्करेऽभ्युदिते द्विजाः ॥ ६२.२०॥
६२.२१/१स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः ।
६२.२१/२तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥ ६२.२१॥
६२.२२/१अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै ।
६२.२२/२कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः ॥ ६२.२२॥
६२.२३/१कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै ।
६२.२३/२तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम् ।
६२.२३/३यत् किंचित् क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥ ६२.२३॥
६३.१/१ब्रह्मोवाच । ततो गच्छेद् द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसम्भवम् ।
६३.१/२इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ ६३.१॥
६३.२/१गत्वा तत्र शुचिर्धीमान् आचम्य मनसा हरिम् ।
६३.२/२ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत् ॥ ६३.२॥
६३.३/१अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन ।
६३.३/२स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते ॥ ६३.३॥
६३.४/१एवमुच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितृन् ।
६३.४/२तिलोदकेन चान्यांश्च संतर्प्याचम्य वाग्यतः ॥ ६३.४॥
६३.५/१दत्त्वा पितृणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् ।
६३.५/२दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः ॥ ६३.५॥
६३.६/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत् ।
६३.६/२कामगेन विमानेन विष्णुलोकं स गच्छति ॥ ६३.६॥
६३.७/१भुक्त्वा तत्र सुखान् भोगान् यावच्चन्द्रार्कतारकम् ।
६३.७/२च्युतस्तस्माद् इहायातो मोक्षं च लभते ध्रुवम् ॥ ६३.७॥
६३.८/१एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः ।
६३.८/२ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम् ॥ ६३.८॥
६३.९/१स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये ।
६३.९/२प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः ॥ ६३.९॥
६३.१०/१मुनय ऊचुः । मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह ।
६३.१०/२प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥ ६३.१०॥
६३.११/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
६३.११/२ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥ ६३.११॥
६३.१२/१पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ।
६३.१२/२पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥ ६३.१२॥
६३.१३/१नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे ।
६३.१३/२ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ ६३.१३॥
६३.१४/१स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः ।
६३.१४/२यत् किंचित् क्रियते तत्र तस्मिन् कालेऽक्षयं भवेत् ॥ ६३.१४॥
६३.१५/१शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः ।
६३.१५/२हरते दश पापानि तस्माद् दशहरा स्मृता ॥ ६३.१५॥
६३.१६/१यस्तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः ।
६३.१६/२सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ ६३.१६॥
६३.१७/१उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम् ।
६३.१७/२दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः ॥ ६३.१७॥
६३.१८/१नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।
६३.१८/२फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ ६३.१८॥
६३.१९/१विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः ।
६३.१९/२कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च
भो द्विजाः ॥ ६३.१९॥
६३.२०/१नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ।
६३.२०/२विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ ६३.२०॥
६३.२१/१यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् ।
६३.२१/२वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम् ॥ ६३.२१॥
६३.२२/१ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् ।
६३.२२/२कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६३.२२॥
६४.१/१ब्रह्मोवाच । यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः ।
६४.१/२प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम् ॥ ६४.१॥
६४.२/१कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः ।
६४.२/२नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम् ॥ ६४.२॥
६४.३/१प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये ।
६४.३/२गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे ॥ ६४.३॥
६४.४/१कोकामुखे शूकरे च मथुरायां मरुस्थले ।
६४.४/२शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥ ६४.४॥
६४.५/१पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः ।
६४.५/२शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥ ६४.५॥
६४.६/१लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने ।
६४.६/२कामालये कोटितीर्थे तथा चामरकण्टके ॥ ६४.६॥
६४.७/१लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके ।
६४.७/२उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥ ६४.७॥
६४.८/१एकाम्रके च केदारे काश्यां च विरजे द्विजाः ।
६४.८/२कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥ ६४.८॥
६४.९/१महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये ।
६४.९/२सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥ ६४.९॥
६४.१०/१गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः ।
६४.१०/२सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥ ६४.१०॥
६४.११/१गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा ।
६४.११/२तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥ ६४.११॥
६४.१२/१वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा ।
६४.१२/२ऋषिकुल्या कुमारी च विपाशा च दृषद्वती ॥ ६४.१२॥
६४.१३/१शरयूर्नाकगङ्गा च गण्डकी च महानदी ।
६४.१३/२कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥ ६४.१३॥
६४.१४/१महानदी वैतरणी याश्चान्या नानुकीर्तिताः ।
६४.१४/२अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥ ६४.१४॥
६४.१५/१पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च ।
६४.१५/२सागरेषु च शैलेषु नदीषु च सरःसु च ॥ ६४.१५॥
६४.१६/१यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे ।
६४.१६/२तत् फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन् नरः ॥ ६४.१६॥
६४.१७/१तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे ।
६४.१७/२महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः ॥ ६४.१७॥
६४.१८/१दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह ।
६४.१८/२विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥ ६४.१८॥
६४.१९/१भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ।
६४.१९/२पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ॥ ६४.१९॥
६४.२०/१स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः ।
६४.२०/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६४.२०॥
६५.१/१मुनय ऊचुः । कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव ।
६५.१/२विधिना केन तद् ब्रूहि ततो विधिविदां वर ॥ ६५.१॥
६५.२/१ब्रह्मोवाच । शृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम ।
६५.२/२रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥ ६५.२॥
६५.३/१मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चन्द्रदैवते ।
६५.३/२पौर्णमास्यां तदा स्नानं सर्वकालं हरेर्द्विजाः ॥ ६५.३॥
६५.४/१सर्वतीर्थमयः कूपस्तत्रास्ते निर्मलः शुचिः ।
६५.४/२तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥ ६५.४॥
६५.५/१तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर्जलम् ।
६५.५/२कृष्णरामाभिषेकार्थं सुभद्रायाश्च भो द्विजाः ॥ ६५.५॥
६५.६/१कृत्वा सुशोभनं मञ्चं पताकाभिरलंकृतम् ।
६५.६/२सुदृढं सुखसंचारं वस्त्रैः पुष्पैरलंकृतम् ॥ ६५.६॥
६५.७/१विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः ।
६५.७/२सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ ६५.७॥
६५.८/१तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं द्विजाः ।
६५.८/२मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥ ६५.८॥
६५.९/१ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।
६५.९/२अनेकशतसाहस्रैर्वृतं स्त्रीपुरुषैर्द्विजाः ॥ ६५.९॥
६५.१०/१गृहस्थाः स्नातकाश्चैव यतयो ब्रह्मचारिणः ।
६५.१०/२स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥ ६५.१०॥
६५.११/१तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः ।
६५.११/२स्वोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक् पृथक् ॥ ६५.११॥
६५.१२/१पश्चात् पटहशङ्खाद्यैर्भेरीमुरजनिस्वनैः ।
६५.१२/२काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥ ६५.१२॥
६५.१३/१अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविभूषितैः ।
६५.१३/२स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दैर्मनोहरैः ॥ ६५.१३॥
६५.१४/१जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः ।
६५.१४/२श्रूयते सुमहाञ् शब्दः सागरस्येव गर्जतः ॥ ६५.१४॥
६५.१५/१मुनीनां वेदशब्देन मन्त्रशब्दैस्तथापरैः ।
६५.१५/२नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥ ६५.१५॥
६५.१६/१यतिभिः स्नातकैश्चैव गृहस्थैर्ब्रह्मचारिभिः ।
६५.१६/२स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥ ६५.१६॥
६५.१७/१श्यामैर्वेश्याजनैश्चैव कुचभारावनामिभिः ।
६५.१७/२पीतरक्ताम्बराभिश्च माल्यदामावनामिभिः ॥ ६५.१७॥
६५.१८/१सरत्नकुण्डलैर्दिव्यैः सुवर्णस्तबकान्वितैः ।
६५.१८/२चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥ ६५.१८॥
६५.१९/१यक्षविद्याधरैः सिद्धैः किंनरैश्चाप्सरोगणैः ।
६५.१९/२परिवार्याम्बरगतैर्देवगन्धर्वचारणैः ॥ ६५.१९॥
६५.२०/१आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
६५.२०/२लोकपालास्तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥ ६५.२०॥
६५.२१/१नमस्ते देवदेवेश पुराण पुरुषोत्तम ।
६५.२१/२सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते ॥ ६५.२१॥
६५.२२/१त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् ।
६५.२२/२तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥ ६५.२२॥
६५.२३/१स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् ।
६५.२३/२सुभद्रां च मुनिश्रेष्ठास्तदाकाशे व्यवस्थिताः ॥ ६५.२३॥
६५.२४/१गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा ।
६५.२४/२देवतूर्याण्यवाद्यन्त वाता वान्ति सुशीतलाः ॥ ६५.२४॥
६५.२५/१पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः ।
६५.२५/२जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥ ६५.२५॥
६५.२६/१शक्राद्या विबुधाः सर्व ऋषयः पितरस्तथा ।
६५.२६/२प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥ ६५.२६॥
६५.२७/१ततो मङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् ।
६५.२७/२आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ ६५.२७॥
६५.२८/१इन्द्रो विष्णुर्महावीर्यः सूर्याचन्द्रमसौ तथा ।
६५.२८/२धाता चैव विधाता च तथा चैवानिलानलौ ॥ ६५.२८॥
६५.२९/१पूषा भगोऽर्यमा त्वष्टा अंशुनैव विवस्वता ।
६५.२९/२पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च ॥ ६५.२९॥
६५.३०/१रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।
६५.३०/२विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ६५.३०॥
६५.३१/१गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः ।
६५.३१/२देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ ६५.३१॥
६५.३२/१वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः ।
६५.३२/२भृगुभिश्चाङ्गिरोभिश्च सर्वविद्यासुनिष्ठितैः ॥ ६५.३२॥
६५.३३/१सर्वविद्याधरैः पुण्यैर्योगसिद्धिभिरावृतः ।
६५.३३/२पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ ६५.३३॥
६५.३४/१अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ।
६५.३४/२क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ ६५.३४॥
६५.३५/१ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः ।
६५.३५/२मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥ ६५.३५॥
६५.३६/१समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ।
६५.३६/२पृथिवी द्यौर्दिशश्चैव पादपाश्च द्विजोत्तमाः ॥ ६५.३६॥
६५.३७/१अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती ।
६५.३७/२उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ ६५.३७॥
६५.३८/१राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ।
६५.३८/२हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ॥ ६५.३८॥
६५.३९/१ऐरावतः सानुचरः कलाकाष्ठास्तथैव च ।
६५.३९/२मासार्धं मासर्तवस्तथा रात्र्यहनी समाः ॥ ६५.३९॥
६५.४०/१उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः ।
६५.४०/२अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ ६५.४०॥
६५.४१/१धर्मश्च भगवान् देवः समाजग्मुर्हि संगताः ।
६५.४१/२कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ ६५.४१॥
६५.४२/१बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ।
६५.४२/२ते देवस्याभिषेकार्थं समायान्ति ततस्ततः ॥ ६५.४२॥
६५.४३/१गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः ।
६५.४३/२आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥ ६५.४३॥
६५.४४/१दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्द्विजाः ।
६५.४४/२सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥ ६५.४४॥
६५.४५/१तोयेनाकाशगङ्गायाः कृष्णं रामेण संगतम् ।
६५.४५/२सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्यवनिस्थिताः ॥ ६५.४५॥
६५.४६/१संचरन्ति विमानानि देवानामम्बरे तथा ।
६५.४६/२उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६५.४६॥
६५.४७/१दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः ।
६५.४७/२गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६५.४७॥
६५.४८/१एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण संगतम् ।
६५.४८/२स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः ॥ ६५.४८॥
६५.४९/१जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल
जय जय भूतचरण जय जयादिदेव बहुकारण जय जय वासुदेव
जय जयासुरसंहरण जय जय दिव्यमीन जय जय त्रिदशवर जय
जय जलधिशयन ।
६५.४९/२जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज
जय जय कैटभारे जय जय वेदवर जय जय कूर्मरूप जय जय
यज्ञवर जय जय कमलनाभ जय जय शैलचर ।
६५.४९/३जय जय योगशायिञ् जय जय वेगधर जय जय
विश्वमूर्ते जय जय चक्रधर जय जय भूतनाथ जय जय
धरणीधर जय जय शेषशायिञ् जय जय पीतवासो जय जय
सोमकान्त ।
६५.४९/४जय जय योगवास जय जय दहनवक्त्र जय जय
धर्मवास जय जय गुणनिधान जय जय श्रीनिवास जय जय
गरुडगमन जय जय सुखनिवास जय जय धर्मकेतो जय जय
महीनिवास ।
६५.४९/५जय जय गहनचरित्र जय जय योगिगम्य जय जय
मखनिवास जय जय वेदवेद्य जय शान्तिकर जय जय योगिचिन्त्य
जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर ।
६५.४९/६जय जय भाववेद्य जय जय मुक्तिकर जय जय विमलदेह
जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर
जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य ।
६५.४९/७जय जय कान्तियुत जय जय लोकशरण जय जय
लक्ष्मीयुत जय जय पङ्कजाक्ष जय जय सृष्टिकर जय जय
योगयुत जय जयातसीकुसुमश्यामदेह जय जय समुद्राविष्टदेह जय
जय लक्ष्मीपङ्कजषट्चरण ।
६५.४९/८जय जय भक्तवश जय जय लोककान्त जय जय
परमशान्त जय जय परमसार जय जय चक्रधर जय जय
भोगियुत जय जय नीलाम्बर जय जय शान्तिकर जय जय मोक्षकर
जय जय कलुषहर ॥ ६५.४९॥
६५.५०/१जय कृष्ण जगन्नाथ जय संकर्षणानुज ।
६५.५०/२जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥ ६५.५०॥
६५.५१/१जय मालावृतोरस्क जय चक्रगदाधर ।
६५.५१/२जय पद्मालयाकान्त जय विष्णो नमोऽस्तु ते ॥ ६५.५१॥
६५.५३/१ब्रह्मोवाच । एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः ।
६५.५३/२सिद्धचारणसंघाश्च ये चान्ये स्वर्गवासिनः मुनयो
वालखिल्याश्च कृष्णं रामेण संगतम् ।
६५.५३/३सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥ ६५.५३॥
६५.५४/१दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः ।
६५.५४/२कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥ ६५.५४॥
६५.५५/१संचरन्ति विमानानि देवानामम्बरे तदा ।
६५.५५/२उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ ६५.५५॥
६५.५६/१दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः ।
६५.५६/२गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ ६५.५६॥
६५.५७/१तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् ।
६५.५७/२बलभद्रं सुभद्रां च ते यान्ति पदमव्ययम् ॥ ६५.५७॥
६५.५८/१सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् ।
६५.५८/२दृष्ट्वा निरामयं स्थानं यान्ति नास्त्यत्र संशयः ॥ ६५.५८॥
६५.५९/१कपिलाशतदानेन यत् फलं पुष्करे स्मृतम् ।
६५.५९/२तत् फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ।
६५.५९/३सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः ॥ ६५.५९॥
६५.६०/१कन्याशतप्रदानेन यत् फलं समुदाहृतम् ।
६५.६०/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६०॥
६५.६१/१सुवर्णशतनिष्काणां दानेन यत् फलं स्मृतम् ।
६५.६१/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६१॥
६५.६२/१गोसहस्रप्रदानेन यत् फलं परिकीर्तितम् ।
६५.६२/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६२॥
६५.६३/१भूमिदानेन विधिवद् यत् फलं समुदाहृतम् ।
६५.६३/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६३॥
६५.६४/१यत् फलं चान्नदानेन अर्घातिथ्येन कीर्तितम् ।
६५.६४/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६४॥
६५.६५/१वृषोत्सर्गेण विधिवद् यत् फलं समुदाहृतम् ।
६५.६५/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६५॥
६५.६६/१यत् फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम् ।
६५.६६/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६६॥
६५.६७/१तिलधेनुप्रदानेन यत् फलं सम्प्रकीर्तितम् ।
६५.६७/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६७॥
६५.६८/१गजाश्वरथदानेन यत् फलं समुदाहृतम् ।
६५.६८/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६८॥
६५.६९/१सुवर्णशृङ्गीदानेन यत् फलं समुदाहृतम् ।
६५.६९/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.६९॥
६५.७०/१जलधेनुप्रदानेन यत् फलं समुदाहृतम् ।
६५.७०/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७०॥
६५.७१/१दानेन घृतधेन्वाश्च फलं यत् समुदाहृतम् ।
६५.७१/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७१॥
६५.७२/१चान्द्रायणेन चीर्णेन यत् फलं समुदाहृतम् ।
६५.७२/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७२॥
६५.७३/१मासोपवासैर्विधिवद् यत् फलं समुदाहृतम् ।
६५.७३/२तत् फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ ६५.७३॥
६५.७४/१अथ किं बहुनोक्तेन भाषितेन पुनः पुनः ।
६५.७४/२तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः ॥ ६५.७४॥
६५.७५/१यत् फलं सर्वतीर्थेषु व्रतैर्दानैश्च कीर्तितम् ।
६५.७५/२तत् फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥ ६५.७५॥
६५.७६/१सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः ।
६५.७६/२तस्मान् नरोऽथवा नारी पश्येत् तं पुरुषोत्तमम् ॥ ६५.७६॥
६५.७७/१ततः समस्ततीर्थानां लभेत् स्नानादिकं फलम् ।
६५.७७/२स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते ॥ ६५.७७॥
६५.७८/१वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता ।
६५.७८/२राक्षसाद्यैर्गृहीता वा तथा रोगैश्च संहताः ॥ ६५.७८॥
६५.७९/१सद्यस्ताः स्नानशेषेण उदकेनाभिषेचिताः ।
६५.७९/२प्राप्नुवन्तीप्सितान् कामान् यान् यान् वाञ्छन्ति चेप्सितान् ॥ ६५.७९॥
६५.८०/१पुत्रार्थिनी लभेत् पुत्रान् सौभाग्यं च सुखार्थिनी ।
६५.८०/२रोगार्ता मुच्यते रोगाद् धनं च धनकाङ्क्षिणी ॥ ६५.८०॥
६५.८१/१पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले ।
६५.८१/२तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥ ६५.८१॥
६५.८२/१तस्मात् स्नानावशेषं यत् कृष्णस्य सलिलं द्विजाः ।
६५.८२/२तेनाभिषिञ्चेद् गात्राणि सर्वकामप्रदं हि तत् ॥ ६५.८२॥
६५.८३/१स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् ।
६५.८३/२ब्रह्महत्यादिभिः पापैर्मुच्यन्ते ते न संशयः ॥ ६५.८३॥
६५.८४/१शास्त्रेषु यत् फलं प्रोक्तं पृथिव्-यस्त्रिप्रदक्षिणैः ।
६५.८४/२दृष्ट्वा नरो लभेत् कृष्णं व्रजन्तं दक्षिणामुखम् ॥ ६५.८४॥
६५.८५/१तीर्थयात्राफलं यत् तु पृथिव्यां समुदाहृतम् ।
६५.८५/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८५॥
६५.८६/१बदर्यां यत् फलं प्रोक्तं दृष्ट्वा नारायणं नरम् ।
६५.८६/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८६॥
६५.८७/१गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत् फलम् ।
६५.८७/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८७॥
६५.८८/१प्रयागे च महामाघ्यां यत् फलं समुदाहृतम् ।
६५.८८/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८८॥
६५.८९/१शालग्रामे महाचैत्र्यां स्नानदानेन यत् फलम् ।
६५.८९/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.८९॥
६५.९०/१महाभिधानकार्त्तिक्यां पुष्करे यत् फलं स्मृतम् ।
६५.९०/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९०॥
६५.९१/१यत् फलं स्नानदानेन गङ्गासागरसंगमे ।
६५.९१/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९१॥
६५.९२/१ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत् फलम् ।
६५.९२/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९२॥
६५.९३/१गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः ।
६५.९३/२सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च ॥ ६५.९३॥
६५.९४/१यत् फलं स्नानदानेन विधिवत् समुदाहृतम् ।
६५.९४/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९४॥
६५.९५/१पुष्करे चाथ तीर्थेषु गये चामरकण्टके ।
६५.९५/२नैमिषादिषु तीर्थेषु क्षेत्रेष्वायतनेषु च ॥ ६५.९५॥
६५.९६/१यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे ।
६५.९६/२दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥ ६५.९६॥
६५.९७/१अथ किं पुनरुक्तेन भाषितेन पुनः पुनः ।
६५.९७/२यत् किंचित् कथितं चात्र फलं पुण्यस्य कर्मणः ॥ ६५.९७॥
६५.९८/१वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः ।
६५.९८/२धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः ॥ ६५.९८॥
६५.९९/१दृष्ट्वा नरो लभेत् कृष्णं तत् फलं सहलायुधम् ।
६५.९९/२सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥ ६५.९९॥
६६.१/१ब्रह्मोवाच । गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ।
६६.१/२कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ ६६.१॥
६६.२/१ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् ।
६६.२/२हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ ६६.२॥
६६.३/१मुनय ऊचुः । केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते ।
६६.३/२यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥ ६६.३॥
६६.४/१किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते ।
६६.४/२पवित्रे विजने देशे गत्वा तत्र च मण्डपे ॥ ६६.४॥
६६.५/१कृष्णः संकर्षणश्चैव सुभद्रा च रथेन ते ।
६६.५/२स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै ॥ ६६.५॥
६६.६/१ब्रह्मोवाच । इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः ।
६६.६/२सप्ताहं सरसस्तीरे मम यात्रा भवत्विति ॥ ६६.६॥
६६.७/१गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा ।
६६.७/२तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥ ६६.७॥
६६.८/१श्रीभगवान् उवाच । सप्ताहं सरसस्तीरे तव राजन् भविष्यति ।
६६.८/२गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥ ६६.८॥
६६.९/१ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् ।
६६.९/२संकर्षणं सुभद्रां च विधिवत् सुसमाहिताः ॥ ६६.९॥
६६.१०/१ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च वै नृप ।
६६.१०/२पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः ॥ ६६.१०॥
६६.११/१उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ।
६६.११/२जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ ६६.११॥
६६.१२/१न तेषां दुर्लभं किंचित् फलं यस्य यद् ईप्सितम् ।
६६.१२/२भविष्यति नृपश्रेष्ठ मत्प्रसादाद् असंशयम् ॥ ६६.१२॥
६६.१३/१ब्रह्मोवाच । एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत ।
६६.१३/२स तु राजवरः श्रीमान् कृतकृत्योऽभवत् तदा ॥ ६६.१३॥
६६.१४/१तस्मात् सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः ।
६६.१४/२सर्वकामप्रदं देवं पश्येत् तं पुरुषोत्तमम् ॥ ६६.१४॥
६६.१५/१अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् ।
६६.१५/२रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥ ६६.१५॥
६६.१६/१आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् ।
६६.१६/२नरः संततिमाप्नोति रूपयौवनसम्पदम् ॥ ६६.१६॥
६६.१७/१यान् यान् समीहते भोगान् दृष्ट्वा तं पुरुषोत्तमम् ।
६६.१७/२नरो वाप्यथवा नारी तांस्तान् प्राप्नोत्यसंशयम् ॥ ६६.१७॥
६६.१८/१यात्रां कृत्वा गुडिवाख्यां विधिवत् सुसमाहितः ।
६६.१८/२आषाढस्य सिते पक्षे नरो योषिद् अथापि वा ॥ ६६.१८॥
६६.१९/१दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ।
६६.१९/२दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥ ६६.१९॥
६६.२०/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य चात्मनः ।
६६.२०/२कामगेन विमानेन सर्वरत्नैरलंकृतः ॥ ६६.२०॥
६६.२१/१गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः ।
६६.२१/२रूपवान् सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥ ६६.२१॥
६६.२२/१तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ।
६६.२२/२सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥ ६६.२२॥
६६.२३/१पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ।
६६.२३/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६६.२३॥
६७.१/१मुनय ऊचुः । एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक् पृथक् ।
६७.१/२यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ ६७.१॥
६७.२/१ब्रह्मोवाच । प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम ।
६७.२/२यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः ॥ ६७.२॥
६७.३/१गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा ।
६७.३/२यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥ ६७.३॥
६७.४/१संकर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम् ।
६७.४/२नरो गच्छेद् विष्णुलोके यावद् इन्द्राश्चतुर्दश ॥ ६७.४॥
६७.५/१यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः ।
६७.५/२तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥ ६७.५॥
६७.६/१तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे ।
६७.६/२भुक्तिमुक्तिप्रदे नृणां सर्वसत्त्वसुखावहे ॥ ६७.६॥
६७.७/१ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः ।
६७.७/२यथोक्तेन विधानेन दश द्वे च समाहितः ॥ ६७.७॥
६७.८/१प्रतिष्ठां कुरुते यस्तु शाठ्यदम्भविवर्जितः ।
६७.८/२स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम् ॥ ६७.८॥
६७.९/१मुनय ऊचुः । श्रोतुमिच्छामहे देव प्रतिष्ठां वदतस्तव ।
६७.९/२विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥ ६७.९॥
६७.१०/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् ।
६७.१०/२यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥ ६७.१०॥
६७.११/१यात्रा द्वादश सम्पूर्णा यदा स्यात् तु द्विजोत्तमाः ।
६७.११/२तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम् ॥ ६७.११॥
६७.१२/१ज्येष्ठे मासि सिते पक्षे त्वेकादश्यां समाहितः ।
६७.१२/२गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ ६७.१२॥
६७.१३/१आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ।
६७.१३/२ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः ॥ ६७.१३॥
६७.१४/१यस्य यो विधिरुद्दिष्ट ऋषिभिः स्नानकर्मणि ।
६७.१४/२तेनैव तु विधानेन स्नानं तस्य विधीयते ॥ ६७.१४॥
६७.१५/१स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितृन् ।
६७.१५/२संतर्पयेत् तथान्यांश्च नामगोत्रविधानवित् ॥ ६७.१५॥
६७.१६/१उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
६७.१६/२उपस्पृश्य विधानेन भास्कराभिमुखस्ततः ॥ ६७.१६॥
६७.१७/१गायत्रीं पावनीं देवीं मनसा वेदमातरम् ।
६७.१७/२सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम् ॥ ६७.१७॥
६७.१८/१पुण्यांश्च सौरमन्त्रांश्च श्रद्धया सुसमाहितः ।
६७.१८/२त्रिः प्रदक्षिणमावृत्य भास्करं प्रणमेत् ततः ॥ ६७.१८॥
६७.१९/१वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यमुदाहृतम् ।
६७.१९/२स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥ ६७.१९॥
६७.२०/१ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् ।
६७.२०/२प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥ ६७.२०॥
६७.२१/१घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् ।
६७.२१/२मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥ ६७.२१॥
६७.२२/१ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ।
६७.२२/२चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥ ६७.२२॥
६७.२३/१पूजयेत् परया भक्त्या पद्मैश्च पुरुषोत्तमम् ।
६७.२३/२अन्यैश्च वैष्णवैः पुष्पैरर्चयेन् मल्लिकादिभिः ॥ ६७.२३॥
६७.२४/१सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् ।
६७.२४/२धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः ॥ ६७.२४॥
६७.२५/१गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् ।
६७.२५/२दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै ॥ ६७.२५॥
६७.२६/१अन्यांश्च दीपकान् दद्याद् द्वादशैव समाहितः ।
६७.२६/२घृतेन च मुनिश्रेष्ठास्तिलतैलेन वा पुनः ॥ ६७.२६॥
६७.२७/१नैवेद्ये पायसापूप+ ।शष्कुलीवटकं तथा ।
६७.२७/२मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥ ६७.२७॥
६७.२८/१एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् ।
६७.२८/२नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम् ॥ ६७.२८॥
६७.२९/१ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम् ।
६७.२९/२नमस्ते सर्वलोकेश भक्तानामभयप्रद ॥ ६७.२९॥
६७.३०/१संसारसागरे मग्नं त्राहि मां पुरुषोत्तम ।
६७.३०/२यास्ते मया कृता यात्रा द्वादशैव जगत्पते ॥ ६७.३०॥
६७.३१/१प्रसादात् तव गोविन्द सम्पूर्णास्ता भवन्तु मे ।
६७.३१/२एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च ॥ ६७.३१॥
६७.३२/१ततोऽर्चयेद् गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः ।
६७.३२/२नानयोरन्तरं यस्माद् विद्यते मुनिसत्तमाः ॥ ६७.३२॥
६७.३३/१देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः ।
६७.३३/२नानापुष्पैर्मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥ ६७.३३॥
६७.३४/१कृत्वावधारणं पश्चाज्जागरं कारयेन् निशि ।
६७.३४/२कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥ ६७.३४॥
६७.३५/१ध्यायन् पठन् स्तुवन् देवं प्रणयेद् रजनीं बुधः ।
६७.३५/२ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥ ६७.३५॥
६७.३६/१निमन्त्रयेद् व्रतस्नातान् ब्राह्मणान् वेदपारगान् ।
६७.३६/२इतिहासपुराणज्ञाञ् श्रोत्रियान् संयतेन्द्रियान् ॥ ६७.३६॥
६७.३७/१स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ।
६७.३७/२स्नापयेत् पूर्ववत् तत्र पूजयेत् पुरुषोत्तमम् ॥ ६७.३७॥
६७.३८/१गन्धैः पुष्पैरुपहारैर्नैवेद्यैर्दीपकैस्तथा ।
६७.३८/२उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥ ६७.३८॥
६७.३९/१जाप्यैः स्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः ।
६७.३९/२सम्पूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत् ततः ॥ ६७.३९॥
६७.४०/१द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च ।
६७.४०/२छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥ ६७.४०॥
६७.४१/१भक्त्या तु सधनं तेभ्यो दद्याद् वस्त्रादिकं द्विजाः ।
६७.४१/२सद्भावेन तु गोविन्दस्तोष्यते पूजितो यतः ॥ ६७.४१॥
६७.४२/१आचार्याय ततो दद्याद् गोवस्त्रं कनकं तथा ।
६७.४२/२छत्त्रोपानद्युगं चान्यत् कांस्यपात्रं च भक्तितः ॥ ६७.४२॥
६७.४३/१ततस्तान् भोजयेद् विप्रान् भोज्यं पायसपूर्वकम् ।
६७.४३/२पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम् ॥ ६७.४३॥
६७.४४/१ततस्तान् अन्नतृप्तांश्च ब्राह्मणान् स्वस्थमानसान् ।
६७.४४/२द्वादशैवोदकुम्भांश्च दद्यात् तेभ्यः समोदकान् ॥ ६७.४४॥
६७.४५/१दक्षिणां च यथाशक्त्या दद्यात् तेभ्यो विमत्सरः ।
६७.४५/२कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत् ॥ ६७.४५॥
६७.४६/१एवं सम्पूज्य तान् विप्रान् गुरुं ज्ञानप्रदायकम् ।
६७.४६/२पूजयेत् परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥ ६७.४६॥
६७.४७/१सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चान्यैर्वरैर्बुधः ।
६७.४७/२सम्पूज्य तं नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥ ६७.४७॥
६७.४८/१सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः ।
६७.४८/२अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ ६७.४८॥
६७.४९/१इत्युच्चार्य ततो विप्रांस्त्रिः कृत्वा च प्रदक्षिणाम् ।
६७.४९/२प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥ ६७.४९॥
६७.५०/१ततस्तान् ब्राह्मणान् भक्त्या चासीमान्तमनुव्रजेत् ।
६७.५०/२अनुव्रज्य तु तान् सर्वान् नमस्कृत्य निवर्तयेत् ॥ ६७.५०॥
६७.५१/१बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीत वाग्यतः ।
६७.५१/२अन्यैश्चोपासकैर्दीनैर्भिक्षुकैश्चान्नकाङ्क्षिभिः ॥ ६७.५१॥
६७.५२/१एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् ।
६७.५२/२अश्वमेधसहस्राणां राजसूयशतस्य च ॥ ६७.५२॥
६७.५३/१अतीतं शतमादाय पुरुषाणां नरोत्तमाः ।
६७.५३/२भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥ ६७.५३॥
६७.५४/१सर्वलक्षणसम्पन्नः सर्वालंकारभूषितः ।
६७.५४/२सर्वकामसमृद्धात्मा देववद् विगतज्वरः ॥ ६७.५४॥
६७.५५/१रूपयौवनसम्पन्नो गुणैः सर्वैरलंकृतः ।
६७.५५/२स्तूयमानोऽप्सरोभिश्च गन्धर्वैः समलंकृतः ॥ ६७.५५॥
६७.५६/१विमानेनार्कवर्णेन कामगेन स्थिरेण च ।
६७.५६/२पताकाध्वजयुक्तेन सर्वरत्नैरलंकृतः ॥ ६७.५६॥
६७.५७/१उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः ।
६७.५७/२युवा महाबलो धीमान् विष्णुलोकं स गच्छति ॥ ६७.५७॥
६७.५८/१तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान् ।
६७.५८/२सिद्धाप्सरोभिर्गन्धर्वैः सुरविद्याधरोरगैः ॥ ६७.५८॥
६७.५९/१स्तूयमानो मुनिवरैस्तिष्ठते विगतज्वरः ।
६७.५९/२यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥ ६७.५९॥
६७.६०/१तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् ।
६७.६०/२भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह ॥ ६७.६०॥
६७.६१/१तदन्ते ब्रह्मसदनमायाति सर्वकामदम् ।
६७.६१/२सिद्धविद्याधरैश्चापि शोभितं सुरकिंनरैः ॥ ६७.६१॥
६७.६२/१कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः ।
६७.६२/२तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥ ६७.६२॥
६७.६३/१रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् ।
६७.६३/२अनेकशतसाहस्रैर्विमानैः समलंकृतम् ॥ ६७.६३॥
६७.६४/१सिद्धविद्याधरैर्यक्षैर्भूषितं दैत्यदानवैः ।
६७.६४/२अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥ ६७.६४॥
६७.६५/१तदन्ते याति गोलोकं सर्वभोगसमन्वितम् ।
६७.६५/२सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ॥ ६७.६५॥
६७.६६/१तत्र सप्ततिकल्पांस्तु भुक्त्वा भोगमनुत्तमम् ।
६७.६६/२दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः ॥ ६७.६६॥
६७.६७/१तस्माद् आगच्छते लोकं प्राजापत्यमनुत्तमम् ।
६७.६७/२गन्धर्वाप्सरसैः सिद्धैर्मुनिविद्याधरैर्वृतः ॥ ६७.६७॥
६७.६८/१षष्टिकल्पान् सुखं तत्र भुक्त्वा नानाविधं मुदा ।
६७.६८/२तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥ ६७.६८॥
६७.६९/१गन्धर्वैः किंनरैः सिद्धैः सुरविद्याधरोरगैः ।
६७.६९/२गुह्यकाप्सरसैः साध्यैर्वृतैश्चान्यैः सुरोत्तमैः ॥ ६७.६९॥
६७.७०/१आगत्य तत्र पञ्चाशत् कल्पान् भुक्त्वा सुखं नरः ।
६७.७०/२सुरलोकं ततो गत्वा विमानैः समलंकृतः ॥ ६७.७०॥
६७.७१/१चत्वारिंशत् तु कल्पांस्तु भुक्त्वा भोगान् सुदुर्लभान् ।
६७.७१/२आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम् ॥ ६७.७१॥
६७.७२/१ततो भोगान् वरान् भुङ्क्ते त्रिंशत् कल्पान् यथेप्सितान् ।
६७.७२/२तस्माद् आगच्छते लोकं शशाङ्कस्य द्विजोत्तमाः ॥ ६७.७२॥
६७.७३/१यत्रासौ तिष्ठते सोमः सर्वैर्देवैरलंकृतः ।
६७.७३/२तत्र विंशतिकल्पांस्तु भुक्त्वा भोगं सुदुर्लभम् ॥ ६७.७३॥
६७.७४/१आदित्यस्य ततो लोकमायाति सुरपूजितम् ।
६७.७४/२नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥ ६७.७४॥
६७.७५/१तत्र भुक्त्वा शुभान् भोगान् दश कल्पान् द्विजोत्तमाः ।
६७.७५/२तस्माद् आयाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥ ६७.७५॥
६७.७६/१तत्र भोगान् समस्तांश्च कल्पमेकं यथासुखम् ।
६७.७६/२भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ ६७.७६॥
६७.७७/१चक्रवर्ती महावीर्यो गुणैः सर्वैरलंकृतः ।
६७.७७/२कृत्वा राज्यं स्वधर्मेण यज्ञैरिष्ट्वा सुदक्षिणैः ॥ ६७.७७॥
६७.७८/१तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् ।
६७.७८/२तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ६७.७८॥
६७.७९/१तस्माद् आगच्छते चात्र जायते योगिनां कुले ।
६७.७९/२प्रवरे वैष्णवे विप्रा दुर्लभे साधुसम्मते ॥ ६७.७९॥
६७.८०/१चतुर्वेदी विप्रवरो यज्ञैरिष्ट्वाप्तदक्षिणैः ।
६७.८०/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६७.८०॥
६७.८१/१एवं यात्राफलं विप्रा मया सम्यग् उदाहृतम् ।
६७.८१/२भुक्तिमुक्तिप्रदं नृणां किमन्यच्छ्रोतुमिच्छथ ॥ ६७.८१॥
६८.१/१मुनय ऊचुः । श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् ।
६८.१/२लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ ६८.१॥
६८.२/१प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो ।
६८.२/२कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥ ६८.२॥
६८.३/१दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा ।
६८.३/२विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥ ६८.३॥
६८.४/१ब्रह्मोवाच । शृणुध्वं मुनयः सर्वे यत् परं परमं पदम् ।
६८.४/२भक्तानामीहितं धन्यं पुण्यं संसारनाशनम् ॥ ६८.४॥
६८.५/१प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम ।
६८.५/२सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥ ६८.५॥
६८.६/१अशोकैः पारिजातैश्च मन्दारैश्चम्पकद्रुमैः ।
६८.६/२मालतीमल्लिकाकुन्दैर्बकुलैर्नागकेसरैः ॥ ६८.६॥
६८.७/१पुंनागैरतिमुक्तैश्च प्रियङ्गुतगरार्जुनैः ।
६८.७/२पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥ ६८.७॥
६८.८/१नारङ्गैः पनसैर्लोध्रैर्निम्बदाडिमसर्जकैः ।
६८.८/२द्राक्षालकुचखर्जूरैर्मधुकेन्द्रफलैर्द्रुमैः ॥ ६८.८॥
६८.९/१कपित्थैर्नारिकेरैश्च तालैः श्रीफलसम्भवैः ।
६८.९/२कल्पवृक्षैरसंख्यैश्च वन्यैरन्यैः सुशोभनैः ॥ ६८.९॥
६८.१०/१सरलैश्चन्दनैर्नीपैर्देवदारुशुभाञ्जनैः ।
६८.१०/२जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥ ६८.१०॥
६८.११/१ताम्बूलपत्त्रनिचयैस्तथा पूगीफलद्रुमैः ।
६८.११/२अन्यैश्च विविधैर्वृक्षैः सर्वर्तुफलशोभितैः ॥ ६८.११॥
६८.१२/१पुष्पैर्नानाविधैश्चैव लतागुच्छसमुद्भवैः ।
६८.१२/२नानाजलाशयैः पुण्यैर्नानापक्षिरुतैर्वरैः ॥ ६८.१२॥
६८.१३/१दीर्घिकाशतसंघातैस्तोयपूर्णैर्मनोहरैः ।
६८.१३/२कुमुदैः शतपत्त्रैश्च पुष्पैः कोकनदैर्वरैः ॥ ६८.१३॥
६८.१४/१रक्तनीलोत्पलैः कान्तैः कह्लारैश्च सुगन्धिभिः ।
६८.१४/२अन्यैश्च जलजैः पुष्पैर्नानावर्णैः सुशोभनैः ॥ ६८.१४॥
६८.१५/१हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।
६८.१५/२कोयष्टिकैश्च दात्यूहैः कारण्डवरवाकुलैः ॥ ६८.१५॥
६८.१६/१चातकैः प्रियपुत्रैश्च जीवंजीवकजातिभिः ।
६८.१६/२अन्यैर्दिव्यैर्जलचरैर्विहारमधुरस्वनैः ॥ ६८.१६॥
६८.१७/१एवं नानाविधैर्दिव्यैर्नानाश्चर्यसमन्वितैः ।
६८.१७/२वृक्षैर्जलाशयैः पुण्यैर्भूषितं सुमनोहरैः ॥ ६८.१७॥
६८.१८/१तत्र दिव्यैर्विमानैश्च नानारत्नविभूषितैः ।
६८.१८/२कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥ ६८.१८॥
६८.१९/१तरुणादित्यसंकाशैरप्सरोभिरलंकृतैः ।
६८.१९/२हेमशय्यासनयुतैर्नानाभोगसमन्वितैः ॥ ६८.१९॥
६८.२०/१खेचरैः सपताकैश्च मुक्ताहारावलम्बिभिः ।
६८.२०/२नानावर्णैरसंख्यातैर्जातरूपपरिच्छदैः ॥ ६८.२०॥
६८.२१/१नानाकुसुमगन्धाढ्यैश्चन्दनागुरुभूषितैः ।
६८.२१/२सुखप्रचारबहुलैर्नानावादित्रनिःस्वनैः ॥ ६८.२१॥
६८.२२/१मनोमारुततुल्यैश्च किङ्किणीस्तबकाकुलैः ।
६८.२२/२विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते ॥ ६८.२२॥
६८.२३/१नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः ।
६८.२३/२चन्द्राननाभिः कान्ताभिर्योषिद्भिः सुमनोहरैः ॥ ६८.२३॥
६८.२४/१पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः ।
६८.२४/२श्यामावदातवर्णाभिर्मत्तमातङ्गगामिभिः ॥ ६८.२४॥
६८.२५/१परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः ।
६८.२५/२चामरै रुक्मदण्डैश्च नानारत्नविभूषितैः ॥ ६८.२५॥
६८.२६/१गीतनृत्यैस्तथा वाद्यैर्मोदमानैर्मदालसैः ।
६८.२६/२यक्षविद्याधरैः सिद्धैर्गन्धर्वैरप्सरोगणैः ॥ ६८.२६॥
६८.२७/१सुरसंघैश्च ऋषिभिः शुशुभे भुवनोत्तमम् ।
६८.२७/२तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः ॥ ६८.२७॥
६८.२८/१वटराजसमीपे तु दक्षिणस्योदधेस्तटे ।
६८.२८/२दृष्टो यैर्भगवान् कृष्णः पुष्कराक्षो जगत्पतिः ॥ ६८.२८॥
६८.२९/१क्रीडन्त्यप्सरसैः सार्धं यावद् द्यौश्चन्द्रतारकम् ।
६८.२९/२प्रतप्तहेमसंकाशा जरामरणवर्जिताः ॥ ६८.२९॥
६८.३०/१सर्वदुःखविहीनाश्च तृष्णाग्लानिविवर्जिताः ।
६८.३०/२चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥ ६८.३०॥
६८.३१/१श्रीवत्सलाञ्छनैर्युक्ताः शङ्खचक्रगदाधराः ।
६८.३१/२केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसंनिभाः ॥ ६८.३१॥
६८.३२/१केचिन् मरकतप्रख्याः केचिद् वैदूर्यसंनिभाः ।
६८.३२/२श्यामवर्णाः कुण्डलिनस्तथान्ये वज्रसंनिभाः ॥ ६८.३२॥
६८.३३/१न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः ।
६८.३३/२यादृग् भाति हरेर्लोकः सर्वाश्चर्यसमन्वितः ॥ ६८.३३॥
६८.३४/१न तत्र पुनरावृत्तिर्गमनाज्जायते द्विजाः ।
६८.३४/२प्रभावात् तस्य देवस्य यावद् आभूतसम्प्लवम् ॥ ६८.३४॥
६८.३५/१विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः ।
६८.३५/२कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥ ६८.३५॥
६८.३६/१प्रतप्तहेमसंकाशं तरुणादित्यसंनिभम् ।
६८.३६/२पुरमध्ये हरेर्भाति मन्दिरं रत्नभूषितम् ॥ ६८.३६॥
६८.३७/१अनेकशतसाहस्रैः पताकैः समलंकृतम् ।
६८.३७/२योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम् ॥ ६८.३७॥
६८.३८/१नानावर्णैर्ध्वजैश्चित्रैः कल्पितैः सुमनोहरैः ।
६८.३८/२विभाति शारदो यद्वन् नक्षत्रैः सह चन्द्रमाः ॥ ६८.३८॥
६८.३९/१चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् ।
६८.३९/२पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥ ६८.३९॥
६८.४०/१प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर्युतम् ।
६८.४०/२इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥ ६८.४०॥
६८.४१/१पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् ।
६८.४१/२षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥ ६८.४१॥
६८.४२/१नानारत्नमयैर्हेम+ ।प्रवालाङ्कुरभूषितैः ।
६८.४२/२स्तम्भैरद्भुतसंकाशैर्भाति तद् भवनं महत् ॥ ६८.४२॥
६८.४३/१दृश्यन्ते तत्र सिद्धाश्च भासयन्ति दिशो दश ।
६८.४३/२पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥ ६८.४३॥
६८.४४/१आरूढस्तत्र भगवान् सलक्ष्मीको जनार्दनः ।
६८.४४/२पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥ ६८.४४॥
६८.४५/१ज्वलत् सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् ।
६८.४५/२दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥ ६८.४५॥
६८.४६/१कुन्देन्दुरजतप्रख्यं हारगोक्षीरसंनिभम् ।
६८.४६/२आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥ ६८.४६॥
६८.४७/१यस्य शब्देन सकलं संक्षोभं जायते जगत् ।
६८.४७/२विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥ ६८.४७॥
६८.४८/१दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् ।
६८.४८/२ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैरपि ॥ ६८.४८॥
६८.४९/१कौमोदकीं गदां चासौ धृतवान् दक्षिणे करे ।
६८.४९/२वामे विस्फुरति ह्यस्य शार्ङ्गं सूर्यसमप्रभम् ॥ ६८.४९॥
६८.५०/१शरैरादित्यसंकाशैर्ज्वालामालाकुलैर्वरैः ।
६८.५०/२योऽसौ संहरते देवस्त्रैलोक्यं सचराचरम् ॥ ६८.५०॥
६८.५१/१सर्वानन्दकरः श्रीमान् सर्वशास्त्रविशारदः ।
६८.५१/२सर्वलोकगुरुर्देवः सर्वैर्देवैर्नमस्कृतः ॥ ६८.५१॥
६८.५२/१सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः ।
६८.५२/२सहस्राख्यः सहस्राङ्गः सहस्रभुजवान् प्रभुः ॥ ६८.५२॥
६८.५३/१सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः ।
६८.५३/२विद्युद्विस्पष्टसंकाशो जगन्नाथो जगद्गुरुः ॥ ६८.५३॥
६८.५४/१परीतः सुरसिद्धैश्च गन्धर्वाप्सरसां गणैः ।
६८.५४/२यक्षविद्याधरैर्नागैर्मुनिसिद्धैः सचारणैः ॥ ६८.५४॥
६८.५५/१सुपर्णैर्दानवैर्दैत्यै राक्षसैर्गुह्यकिंनरैः ।
६८.५५/२अन्यैर्देवगणैर्दिव्यैः स्तूयमानो विराजते ॥ ६८.५५॥
६८.५६/१तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती ।
६८.५६/२बुद्धिर्मतिस्तथा क्षान्तिः सिद्धिमूर्तिस्तथा द्युतिः ॥ ६८.५६॥
६८.५७/१गायत्री चैव सावित्री मङ्गला सर्वमङ्गला ।
६८.५७/२प्रभा मतिस्तथा कान्तिस्तत्र नारायणी स्थिता ॥ ६८.५७॥
६८.५८/१श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा ।
६८.५८/२निद्रा रात्रिस्तथा माया तथान्यामरयोषितः ॥ ६८.५८॥
६८.५९/१वासुदेवस्य सर्वास्ता भवने सम्प्रतिष्ठिताः ।
६८.५९/२अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥ ६८.५९॥
६८.६०/१घृताची मेनका रम्भा सहजन्या तिलोत्तमा ।
६८.६०/२उर्वशी चैव निम्लोचा तथान्या वामना परा ॥ ६८.६०॥
६८.६१/१मन्दोदरी च सुभगा विश्वाची विपुलानना ।
६८.६१/२भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥ ६८.६१॥
६८.६२/१मुनिसम्मोहिनी रामा चन्द्रमध्या शुभानना ।
६८.६२/२सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥ ६८.६२॥
६८.६३/१अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला ।
६८.६३/२क्रतुस्थला वराङ्गी च पूर्वचित्तिस्तथा परा ॥ ६८.६३॥
६८.६४/१परावती महारूपा शशिलेखा शुभानना ।
६८.६४/२हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥ ६८.६४॥
६८.६५/१बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः ।
६८.६५/२एताश्चान्या अप्सरसो रूपयौवनगर्विताः ॥ ६८.६५॥
६८.६६/१सुमध्याश्चारुवदनाः सर्वालंकारभूषिताः ।
६८.६६/२गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥ ६८.६६॥
६८.६७/१गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः ।
६८.६७/२नृत्यन्त्यनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥ ६८.६७॥
६८.६८/१न तत्र रोगो नो ग्लानिर्न मृत्युर्न हिमातपौ ।
६८.६८/२न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम् ॥ ६८.६८॥
६८.६९/१परमानन्दजननं सर्वकामफलप्रदम् ।
६८.६९/२विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः ॥ ६८.६९॥
६८.७०/१ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् ।
६८.७०/२विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥ ६८.७०॥
६८.७१/१एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् ।
६८.७१/२सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥ ६८.७१॥
६८.७२/१न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः ।
६८.७२/२न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥ ६८.७२॥
६८.७३/१येऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् ।
६८.७३/२ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥ ६८.७३॥
६८.७४/१दक्षिणस्योदधेस्तीरे क्षेत्रे परमदुर्लभे ।
६८.७४/२दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥ ६८.७४॥
६८.७५/१कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् ।
६८.७५/२ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे ॥ ६८.७५॥
६८.७६/१वटसागरयोर्मध्ये यः स्मरेत् पुरुषोत्तमम् ।
६८.७६/२तेऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥ ६८.७६॥
६८.७७/१तेऽपि तत्र परं स्थानं यान्ति नास्त्यत्र संशयः ।
६८.७७/२एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः ।
६८.७७/३सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ ६८.७७॥
६९.१/१मुनय ऊचुः । बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते ।
६९.१/२नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ ६९.१॥
६९.२/१क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् ।
६९.२/२त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥ ६९.२॥
६९.३/१सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् ।
६९.३/२यत्र स्वदेहसंत्यागाद् विष्णुलोकं व्रजेन् नरः ॥ ६९.३॥
६९.४/१अहो मोक्षस्य मार्गोऽयं देहत्यागस्त्वयोदितः ।
६९.४/२नराणामुपकाराय पुरुषाख्ये न संशयः ॥ ६९.४॥
६९.५/१अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः ।
६९.५/२तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥ ६९.५॥
६९.६/१श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् ।
६९.६/२प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च ॥ ६९.६॥
६९.७/१पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च ।
६९.७/२न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥ ६९.७॥
६९.८/१यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः ।
६९.८/२ज्ञातोऽस्माभिरभिप्रायस्तवेदानीं पितामह ॥ ६९.८॥
६९.९/१येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् ।
६९.९/२पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले ।
६९.९/३तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥ ६९.९॥
६९.१०/१ब्रह्मोवाच । सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् ।
६९.१०/२पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले ॥ ६९.१०॥
६९.११/१सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च ।
६९.११/२तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥ ६९.११॥
६९.१२/१यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः ।
६९.१२/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१२॥
६९.१३/१आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः ।
६९.१३/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१३॥
६९.१४/१नक्षत्राणां यथा सोमः सरसां सागरो यथा ।
६९.१४/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१४॥
६९.१५/१वसूनां पावको यद्वद् रुद्राणां शंकरो यथा ।
६९.१५/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१५॥
६९.१६/१वर्णानां ब्राह्मणो यद्वद् वैनतेयश्च पक्षिणाम् ।
६९.१६/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१६॥
६९.१७/१शिखरिणां यथा मेरुः पर्वतानां हिमालयः ।
६९.१७/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१७॥
६९.१८/१प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा ।
६९.१८/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१८॥
६९.१९/१ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा ।
६९.१९/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१९॥
६९.२०/१सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा ।
६९.२०/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२०॥
६९.२१/१उच्चैःश्रवा यथाश्वानां कवीनामुशना कविः ।
६९.२१/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२१॥
६९.२२/१मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ।
६९.२२/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२२॥
६९.२३/१इन्द्रियाणां मनो यद्वद् भूतानामवनी यथा ।
६९.२३/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२३॥
६९.२४/१अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा ।
६९.२४/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२४॥
६९.२५/१भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः ।
६९.२५/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२५॥
६९.२६/१गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा ।
६९.२६/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२६॥
६९.२७/१अकारः सर्ववर्णानां गायत्री छन्दसां यथा ।
६९.२७/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२७॥
६९.२८/१सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः ।
६९.२८/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२८॥
६९.२९/१अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता ।
६९.२९/२तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.२९॥
६९.३०/१यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ।
६९.३०/२तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.३०॥
६९.३१/१मनुष्याणां यथा राजा धेनूनामपि कामधुक् ।
६९.३१/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३१॥
६९.३२/१सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर्यथा ।
६९.३२/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३२॥
६९.३३/१प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा ।
६९.३३/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३३॥
६९.३४/१झषाणां मकरो यद्वन् मृगाणां मृगराड् यथा ।
६९.३४/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३४॥
६९.३५/१समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः ।
६९.३५/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३५॥
६९.३६/१वरुणो यादसां यद्वद् यमः संयमिनां यथा ।
६९.३६/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३६॥
६९.३७/१देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः ।
६९.३७/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३७॥
६९.३८/१धातूनां काञ्चनं यद्वत् पवित्राणां च दक्षिणा ।
६९.३८/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३८॥
६९.३९/१प्रजापतिर्यथा दक्ष ऋषीणां कश्यपो यथा ।
६९.३९/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.३९॥
६९.४०/१ग्रहाणां भास्करो यद्वन् मन्त्राणां प्रणवो यथा ।
६९.४०/२तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.४०॥
६९.४१/१अश्वमेधस्तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः ।
६९.४१/२तथा समस्ततीर्थानां क्षेत्रं च तद् द्विजोत्तमाः ॥ ६९.४१॥
६९.४२/१ओषधीनां यथा धान्यं तृणेषु तृणराड् यथा ।
६९.४२/२तथा समस्ततीर्थानामुत्तमं पुरुषोत्तमम् ॥ ६९.४२॥
६९.४३/१यथा समस्ततीर्थानां धर्मः संसारतारकः ।
६९.४३/२तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.४३॥
७०.१/१ब्रह्मोवाच । सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः ।
७०.१/२जपहोमव्रतानां च तपोदानफलानि च ॥ ७०.१॥
७०.२/१न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि ।
७०.२/२किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥ ७०.२॥
७०.३/१सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् ।
७०.३/२पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम् ॥ ७०.३॥
७०.४/१ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते ।
७०.४/२हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे ॥ ७०.४॥
७०.५/१संवत्सरमुपासीत मासमात्रमथापि वा ।
७०.५/२तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥ ७०.५॥
७०.६/१स याति परमं स्थानं यत्र योगेश्वरो हरिः ।
७०.६/२भुक्त्वा भोगान् विचित्रांश्च देवयोषित्समन्वितः ॥ ७०.६॥
७०.७/१कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः ।
७०.७/२जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥ ७०.७॥
७०.८/१सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् ।
७०.८/२कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥ ७०.८॥
७०.९/१मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च ।
७०.९/२स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥ ७०.९॥
७०.१०/१मार्जनस्य यथाकाले भागीरथ्याः समागमम् ।
७०.१०/२सर्वमेतन् मया ख्यातं यत् परं श्रोतुमिच्छथ ॥ ७०.१०॥
७०.११/१इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया ।
७०.११/२सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् ।
७०.११/३पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥ ७०.११॥
७०.१२/१मुनय ऊचुः । नहि नस्तृप्तिरस्तीह शृण्वतां तीर्थविस्तरम् ।
७०.१२/२पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ।
७०.१२/३परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥ ७०.१२॥
७०.१३/१ब्रह्मोवाच । इममेव पुरा प्रश्नं पृष्टोऽस्मि द्विजसत्तमाः ।
७०.१३/२नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम् ॥ ७०.१३॥
७०.१४/१नारद उवाच । तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् ।
७०.१४/२सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥ ७०.१४॥
७०.१५/१कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले ।
७०.१५/२सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते ॥ ७०.१५॥
७०.१६/१ब्रह्मोवाच । चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले ।
७०.१६/२दैवानि मुनिशार्दूल आसुराण्यार्षाणि च ॥ ७०.१६॥
७०.१७/१मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः ।
७०.१७/२मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम् ॥ ७०.१७॥
७०.१८/१आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम् ।
७०.१८/२आसुरेभ्यस्तथा पुण्यं दैवं तत् सार्वकामिकम् ॥ ७०.१८॥
७०.१९/१ब्रह्मविष्णुशिवैश्चैव निर्मितं दैवमुच्यते ।
७०.१९/२त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः ॥ ७०.१९॥
७०.२०/१त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम् ।
७०.२०/२तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥ ७०.२०॥
७०.२१/१जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् ।
७०.२१/२कर्मभूमिर्यतः पुत्र तस्मात् तीर्थं तद् उच्यते ॥ ७०.२१॥
७०.२२/१तत्रैव यानि तीर्थानि यान्युक्तानि मया तव ।
७०.२२/२हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसम्भवाः ॥ ७०.२२॥
७०.२३/१तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः ।
७०.२३/२एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः ॥ ७०.२३॥
७०.२४/१अभिसम्पूजितं यस्माद् भारतं बहुपुण्यदम् ।
७०.२४/२कर्मभूमिरतो देवैर्वर्षं तस्मात् प्रकीर्तितम् ॥ ७०.२४॥
७०.२५/१आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् ।
७०.२५/२आसुरैरावृतान्यासंस्तद् एवासुरमुच्यते ॥ ७०.२५॥
७०.२६/१दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः ।
७०.२६/२दैवप्रभावात् तपस आर्षाण्यपि च तान्यपि ॥ ७०.२६॥
७०.२७/१आत्मनः श्रेयसे मुक्त्यै पूजायै भूतयेऽथवा ।
७०.२७/२आत्मनः फलभूत्यर्थं यशसोऽवाप्तये पुनः ॥ ७०.२७॥
७०.२८/१मानुषैः कारितान्याहुर्मानुषाणीति नारद ।
७०.२८/२एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तम ॥ ७०.२८॥
७०.२९/१भेदं न कश्चिज्जानाति श्रोतुं युक्तोऽसि नारद ।
७०.२९/२बहवः पण्डितम्मन्याः शृण्वन्ति कथयन्ति च ।
७०.२९/३सुकृती कोऽपि जानाति वक्तुं श्रोतुं निजैर्गुणैः ॥ ७०.२९॥
७०.३०/१नारद उवाच । तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः ।
७०.३०/२यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ७०.३०॥
७०.३१/१ब्रह्मन् कृतयुगादौ तु उपायोऽन्यो न विद्यते ।
७०.३१/२तीर्थसेवां विना स्वल्प+ ।आयासेनाभीष्टदायिनीम् ॥ ७०.३१॥
७०.३२/१न त्वया सदृशो धातर्वक्ता ज्ञाताथवा क्वचित् ।
७०.३२/२त्वं नाभिकमले विष्णोः संजातोऽखिलपूर्वजः ॥ ७०.३२॥
७०.३३/१ब्रह्मोवाच । गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।
७०.३३/२तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ ७०.३३॥
७०.३४/१भागीरथी नर्मदा तु यमुना च सरस्वती ।
७०.३४/२विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥ ७०.३४॥
७०.३५/१एता नद्यः पुण्यतमा देवतीर्थान्युदाहृताः ।
७०.३५/२गयः कोल्लासुरो वृत्रस्त्रिपुरो ह्यन्धकस्तथा ॥ ७०.३५॥
७०.३६/१हयमूर्धा च लवणो नमुचिः शृङ्गकस्तथा ।
७०.३६/२यमः पातालकेतुश्च मयः पुष्कर एव च ॥ ७०.३६॥
७०.३७/१एतैरावृततीर्थानि आसुराणि शुभानि च ।
७०.३७/२प्रभासो भार्गवोऽगस्तिर्नरनारायणौ तथा ॥ ७०.३७॥
७०.३८/१वसिष्ठश्च भरद्वाजो गोतमः कश्यपो मनुः ।
७०.३८/२इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद ॥ ७०.३८॥
७०.३९/१अम्बरीषो हरिश्चन्द्रो मान्धाता मनुरेव च ।
७०.३९/२कुरुः कनखलश्चैव भद्राश्वः सगरस्तथा ॥ ७०.३९॥
७०.४०/१अश्वयूपो नाचिकेता वृषाकपिररिंदमः ।
७०.४०/२इत्यादिमानुषैर्विप्र निर्मितानि शुभानि च ॥ ७०.४०॥
७०.४१/१यशसः फलभूत्यर्थं निर्मितानीह नारद ।
७०.४१/२स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये ।
७०.४१/३पुण्यतीर्थानि तान्याहुस्तीर्थभेदो मयोदितः ॥ ७०.४१॥
७१.१/१नारद उवाच । त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्युक्तमुत्तमम् ।
७१.१/२तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ ७१.१॥
७१.२/१ब्रह्मोवाच । तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः ।
७१.२/२तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते ॥ ७१.२॥
७१.३/१गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी ।
७१.३/२त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः शृणु ॥ ७१.३॥
७१.४/१वर्षाणामयुतात् पूर्वं देवकार्य उपस्थिते ।
७१.४/२तारको बलवान् आसीन् मद्वराद् अतिगर्वितः ॥ ७१.४॥
७१.५/१देवानां परमैश्वर्यं हृतं तेन बलीयसा ।
७१.५/२ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः ॥ ७१.५॥
७१.६/१क्षीरोदशायिनं देवं जगतां प्रपितामहम् ।
७१.६/२कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः ॥ ७१.६॥
७१.७/१देवा ऊचुः । त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन ।
७१.७/२सर्वेश्वर जगद्योने त्रयीमूर्ते नमोऽस्तु ते ॥ ७१.७॥
७१.८/१लोकस्रष्टासुरान् हन्ता त्वमेव जगतां पतिः ।
७१.८/२स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥ ७१.८॥
७१.९/१त्राता न कोप्यस्ति जगत्त्रयेऽपि ।
७१.९/२शरीरिणां सर्वविपद्गतानाम् ।
७१.९/३त्वया विना वारिजपत्त्रनेत्र ।
७१.९/४तापत्रयाणां शरणं न चान्यत् ॥ ७१.९॥
७१.१०/१पिता च माता जगतोऽखिलस्य ।
७१.१०/२त्वमेव सेवासुलभोऽसि विष्णो ।
७१.१०/३प्रसीद पाहीश महाभयेभ्यो ।
<71।10/4>ऽस्मदार्तिहन्ता वद कस्त्वदन्यः ॥ ७१.१०॥
७१.११/१आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च ।
७१.११/२इत्यादिरूपभेदैर्नो रक्षसे भय आगते ॥ ७१.११॥
७१.१२/१हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः ।
७१.१२/२कस्मान् न रक्षसे देव अनन्यशरणान् हरे ॥ ७१.१२॥
७१.१३/१ब्रह्मोवाच । ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः ।
७१.१३/२कस्माच्च भयमापन्नं तद् ब्रुवन्तु गतज्वराः ।
७१.१३/३ततः श्रियः पतिं प्राहुस्तं तारकवधं प्रति ॥ ७१.१३॥
७१.१४/१देवा ऊचुः । तारकाद् भयमापन्नं भीषणं रोमहर्षणम् ।
७१.१४/२न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम् ॥ ७१.१४॥
७१.१५/१अर्वाग्दशाहाद् यो बालस्तस्मान् मृत्युमवाप्स्यति ।
७१.१५/२तस्माद् देव न चान्येभ्यस्तत्र नीतिर्विधीयताम् ॥ ७१.१५॥
७१.१६/१ब्रह्मोवाच । पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः ।
७१.१६/२न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत् ॥ ७१.१६॥
७१.१७/१ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम् ।
७१.१७/२तस्माद् वधमवाप्नोति तारको लोकदारुणः ॥ ७१.१७॥
७१.१८/१तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह ।
७१.१८/२भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥ ७१.१८॥
७१.१९/१तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम् ।
७१.१९/२हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥ ७१.१९॥
७१.२०/१इदमूचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥ ७१.२०॥
७१.२१/१देवा ऊचुः । दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ ।
७१.२१/२बुद्धिः प्रज्ञा धृतिर्मेधा लज्जा पुष्टिः सरस्वती ॥ ७१.२१॥
७१.२२/१एवं त्वनेकधा लोके या स्थिता लोकपावनी ।
७१.२२/२देवानां कार्यसिद्ध्यर्थं युवयोर्गर्भमाविशत् ॥ ७१.२२॥
७१.२३/१समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति ।
७१.२३/२अस्माकं भवतां चापि पालनी च भविष्यति ॥ ७१.२३॥
७१.२४/१ब्रह्मोवाच । हिमवान् अपि तद् वाक्यं सुराणामभिनन्द्य च ।
७१.२४/२मेना चापि महोत्साहा अस्त्वित्येवं वचोऽब्रवीत् ॥ ७१.२४॥
७१.२५/१तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे ।
७१.२५/२शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥ ७१.२५॥
७१.२६/१तां वै प्रोचुः सुरगणा ईशार्थे तप आविश ।
७१.२६/२तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥ ७१.२६॥
७१.२७/१पुनः सम्मन्त्रयामासुरीशो ध्यायति तां शिवाम् ।
७१.२७/२आत्मानं वा तथान्यद् वा न जानीमः कथं भवः ॥ ७१.२७॥
७१.२८/१मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः ।
७१.२८/२तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ ।
७१.२८/३ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः ॥ ७१.२८॥
७१.२९/१बृहस्पतिरुवाच । यस्त्वयं मदनो धीमान् कन्दर्पः पुष्पचापधृक् ।
७१.२९/२स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥ ७१.२९॥
७१.३०/१तेन विद्धस्त्रिनेत्रोऽपि ईशायां बुद्धिमादधेत् ।
७१.३०/२परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः ॥ ७१.३०॥
७१.३१/१जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः ।
७१.३१/२तथोढायां जगद्धात्र्यां शम्भोः पुत्रो भविष्यति ॥ ७१.३१॥
७१.३२/१जातः पुत्रस्त्रिनेत्रस्य तारकं स हनिष्यति ।
७१.३२/२वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥ ७१.३२॥
७१.३३/१आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥ ७१.३३॥
७१.३४/१ब्रह्मोवाच । तथेत्युक्त्वा सुरगणा मदनं कुसुमाकरम् ।
७१.३४/२प्रेषयामासुरव्यग्राः शिवान्तिकमरिंदमाः ॥ ७१.३४॥
७१.३५/१स जगाम त्वरा कामो धृतचापो समाधवः ।
७१.३५/२रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम् ॥ ७१.३५॥
७१.३६/१गृहीत्वा सशरं चापमिदं तस्य मनोऽभवत् ।
७१.३६/२मया वेध्यस्त्ववेध्यो वै शम्भुर्लोकगुरुः प्रभुः ॥ ७१.३६॥
७१.३७/१त्रैलोक्यजयिनो बाणाः शम्भौ मे किं दृढा न वा ।
७१.३७/२तेनासौ चाग्निनेत्रेण भस्मशेषस्तदा कृतः ॥ ७१.३७॥
७१.३८/१तद् एव कर्म सुदृढमीक्षितुं सुरसत्तमाः ।
७१.३८/२आजग्मुस्तत्र यद् वृत्तं शृणु विस्मयकारकम् ॥ ७१.३८॥
७१.३९/१शम्भुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम् ।
७१.३९/२तावच्च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः ।
७१.३९/३तुष्टुवुस्त्रिदशेशानं कृताञ्जलिपुटाः सुराः ॥ ७१.३९॥
७१.४०/१देवा ऊचुः । तारकाद् भयमापन्नं कुरु पत्नीं गिरेः सुताम् ॥ ७१.४०॥
७१.४१/१ब्रह्मोवाच । विद्धचित्तो हरोऽप्याशु मेने वाक्यं सुरोदितम् ।
७१.४१/२अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥ ७१.४१॥
७१.४२/१प्रेषयामासुरमरा विवाहाय परस्परम् ।
७१.४२/२सम्बन्धोऽपि तथाप्यासीद् धिमवल्लोकनाथयोः ॥ ७१.४२॥
७२.१/१ब्रह्मोवाच । हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते ।
७२.१/२नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ ७२.१॥
७२.२/१नदीनदसरःकूप+ ।तडागादिभिरावृते ।
७२.२/२देवगन्धर्वयक्षादि+ ।सिद्धचारणसेविते ॥ ७२.२॥
७२.३/१शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे ।
७२.३/२मेरुमन्दरकैलास+ ंऐनाकादिनगैर्वृते ॥ ७२.३॥
७२.४/१वसिष्ठागस्त्यपौलस्त्य+ ।लोमशादिभिरावृते ।
७२.४/२महोत्सवे वर्तमाने विवाहः समजायत ॥ ७२.४॥
७२.५/१तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता ।
७२.५/२वज्रमाणिक्यवैदूर्य+ ।तन्मयस्तम्भशोभिता ॥ ७२.५॥
७२.६/१जयालक्ष्मीशुभाक्षान्ति+ ।कीर्तिपुष्ट्यादिसंवृता ।
७२.६/२मेरुमन्दरकैलास+ ।रैवतैः परिशोभितैः ॥ ७२.६॥
७२.७/१पूजितो लोकनाथेन विष्णुना प्रभविष्णुना ।
७२.७/२मैनाकः पर्वतश्रेष्ठो रेजेऽतीव हिरण्मयः ॥ ७२.७॥
७२.८/१ऋषयो लोकपालाश्च आदित्याः समरुद्गणाः ।
७२.८/२विवाहे वेदिकां चक्रुर्देवदेवस्य शूलिनः ॥ ७२.८॥
७२.९/१विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् ।
७२.९/२सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥ ७२.९॥
७२.१०/१आभिस्तु शोभितेशान्या विवाहः समजायत ।
७२.१०/२समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥ ७२.१०॥
७२.११/१सवनस्पतिबीजाश्च सर्वे तत्र समाययुः ।
७२.११/२भुवः कर्म इला चक्रे ओषध्यस्त्वन्नकर्म च ॥ ७२.११॥
७२.१२/१वरुणः पानकर्माणि दानकर्म धनाधिपः ।
७२.१२/२अग्निश्चकार तत्रान्नं यच्चेष्टं लोकनाथयोः ॥ ७२.१२॥
७२.१३/१तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः ।
७२.१३/२वेदाश्च सरहस्या वै गायन्ति च हसन्ति ॥ ७२.१३॥
७२.१४/१नृत्यन्त्यप्सरसः सर्वा जगुर्गन्धर्वकिंनराः ।
७२.१४/२लाजाधृक् चापि मैनाको बभूव मुनिसत्तम ॥ ७२.१४॥
७२.१५/१पुण्याहवाचनं वृत्तमन्तर्वेश्मनि नारद ।
७२.१५/२वेदिकायामुपाविष्टौ दम्पती सुरसत्तमौ ॥ ७२.१५॥
७२.१६/१प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक ।
७२.१६/२हुत्वा लाजांश्च विधिवत् प्रदक्षिणमथाकरोत् ॥ ७२.१६॥
७२.१७/१अश्मनः स्पर्शहेतोश्च देव्यङ्गुष्ठं करेऽस्पृशत् ।
७२.१७/२विष्णुना प्रेरितः शम्भुर्दक्षिणस्य पदस्य च ॥ ७२.१७॥
७२.१८/१तामदर्शमहं तत्र होमं कुर्वन् हरान्तिके ।
७२.१८/२दृष्टेऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥ ७२.१८॥
७२.१९/१लज्जया कलुषीभूतः स्कन्नं वीर्यमचूर्णयम् ।
७२.१९/२मद्वीर्याच्चूर्णितात् सूक्ष्माद् वालखिल्यास्तु जज्ञिरे ॥ ७२.१९॥
७२.२०/१ततो महान् अभूत् तत्र हाहाकारः सुरोदितः ।
७२.२०/२लज्जया परिभूतोऽहं निर्गतस्तु तदासनात् ॥ ७२.२०॥
७२.२१/१पश्यत्सु देवसंघेषु तूष्णीम्भूतेषु नारद ।
७२.२१/२गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनमब्रवीत् ॥ ७२.२१॥
७२.२२/१शिव उवाच । ब्रह्माणमाह्वयस्वेह गतपापं करोम्यहम् ।
७२.२२/२कृतापराधेऽपि जने सन्तः सकृपमानसाः ।
७२.२२/३मोहयन्त्यपि विद्वांसं विषयाणामियं स्थितिः ॥ ७२.२२॥
७२.२३/१ब्रह्मोवाच । एवमुक्त्वा स भगवान् उमया सहितः शिवः ।
७२.२३/२ममानुकम्पया चैव लोकानां हितकाम्यया ॥ ७२.२३॥
७२.२४/१एतच्चकार लोकेशः शृणु नारद यत्नतः ।
७२.२४/२पापिनां पापमोक्षाय भूमिरापो भविष्यति ॥ ७२.२४॥
७२.२५/१तयोश्च सारसर्वस्वमाहरिष्यामि पावनम् ।
७२.२५/२एवं निश्चित्य भगवांस्तयोः सारं समाहरत् ॥ ७२.२५॥
७२.२६/१भूमिं कमण्डलुं कृत्वा तत्रापः संनिवेश्य च ।
७२.२६/२पावमान्यादिभिः सूक्तैरभिमन्त्र्य च यत्नतः ॥ ७२.२६॥
७२.२७/१त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा ।
७२.२७/२मामुवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥ ७२.२७॥
७२.२८/१आपो वै मातरो देव्यो भूमिर्माता तथापरा ।
७२.२८/२स्थित्युत्पत्तिविनाशानां हेतुत्वमुभयोः स्थितम् ॥ ७२.२८॥
७२.२९/१अत्र प्रतिष्ठितो धर्मो ह्यत्र यज्ञः सनातनः ।
७२.२९/२अत्र भुक्तिश्च मुक्तिश्च स्थावरं जङ्गमं तथा ॥ ७२.२९॥
७२.३०/१स्मरणान् मानसं पापं वचनाद् वाचिकं तथा ।
७२.३०/२स्नानपानाभिषेकाच्च प्रणश्यत्यपि कायिकम् ॥ ७२.३०॥
७२.३१/१एतद् एवामृतं लोके नैतस्मात् पावनं परम् ।
७२.३१/२मयाभिमन्त्रितं ब्रह्मन् गृहाणेमं कमण्डलुम् ॥ ७२.३१॥
७२.३२/१अत्रत्यं वारि यः कश्चित् स्मरेद् अपि पठेद् अपि ।
७२.३२/२स सर्वकामान् आप्नोति गृहाणेमं कमण्डलुम् ॥ ७२.३२॥
७२.३३/१भूतेभ्यश्चापि पञ्चभ्य आपो भूतं महोदितम् ।
७२.३३/२तासामुत्कृष्टमेतस्माद् गृहाणेमं कमण्डलुम् ॥ ७२.३३॥
७२.३४/१अत्र यद् वारि शोभिष्ठं पुण्यं पावनमेव च ।
७२.३४/२स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन् पापाद् विमोक्ष्यसे ॥ ७२.३४॥
७२.३५/१एवमुक्त्वा महादेवः प्रादान् मम कमण्डलुम् ।
७२.३५/२ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् ।
७२.३५/३आह्लादश्च महांस्तत्र जयशब्दो व्यवर्तत ॥ ७२.३५॥
७२.३८/१देवोत्सवे मातुरजः पदाग्रम् ।
७२.३८/२समीक्ष्य पापात् पतितत्वमाप ।
७२.३८/३प्रादात् कृपालुः स्मरणात् पवित्राम् ।
७२.३८/४गङ्गां पिता पुण्यकमण्डलुस्थाम् ॥ ७२.३८॥
७३.१/१नारद उवाच । कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी ।
७३.१/२यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद ॥ ७३.१॥
७३.२/१ब्रह्मोवाच । बलिर्नाम महादैत्यो देवारिरपराजितः ।
७३.२/२धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥ ७३.२॥
७३.३/१गुरुभक्त्या च सत्येन वीर्येण च बलेन च ।
७३.३/२त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥ ७३.३॥
७३.४/१तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः ।
७३.४/२मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥ ७३.४॥
७३.५/१तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम् ।
७३.५/२नारयो व्याधयो वापि नाधयो वा कथंचन ॥ ७३.५॥
७३.६/१अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः ।
७३.६/२स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥ ७३.६॥
७३.७/१तस्योन्नतिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः ।
७३.७/२तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥ ७३.७॥
७३.८/१ततः सम्मन्त्रयामासुः कृत्वा मात्सर्यमग्रतः ।
७३.८/२तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥ ७३.८॥
७३.९/१देवा ऊचुः । आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर ।
७३.९/२अस्मदर्थे भवान् नित्यमायुधानि बिभर्ति च ॥ ७३.९॥
७३.१०/१त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् ।
७३.१०/२त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥ ७३.१०॥
७३.११/१मनसा कर्मणा वाचा त्वामेव शरणं गताः ।
७३.११/२त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.११॥
७३.१२/१यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत ।
७३.१२/२त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.१२॥
७३.१३/१त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः ।
७३.१३/२त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥ ७३.१३॥
७३.१४/१स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर्भूत्वा तु रक्षसि ।
७३.१४/२संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥ ७३.१४॥
७३.१५/१ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् ।
७३.१५/२हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१५॥
७३.१६/१अनादिस्त्वं जगद्धातरनन्तस्त्वं जगद्गुरुः ।
७३.१६/२अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥ ७३.१६॥
७३.१७/१तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा ।
७३.१७/२स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१७॥
७३.१८/१ब्रह्मोवाच । इत्येतद् एव वचनं श्रुत्वा दैतेयसूदनः ।
७३.१८/२उवाच सर्वान् अमरान् देवानां कार्यसिद्धये ॥ ७३.१८॥
७३.१९/१श्रीभगवान् उवाच । मद्भक्तोऽसौ बलिर्दैत्यो
ह्यवध्योऽसौ सुरासुरैः ।
७३.१९/२यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥ ७३.१९॥
७३.२०/१विना तु संगरं देवा हत्वा राज्यं त्रिविष्टपे ।
७३.२०/२बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥ ७३.२०॥
७३.२१/१ब्रह्मोवाच । तथेत्युक्त्वा सुरगणाः संजग्मुर्दिवमेव हि ।
७३.२१/२भगवान् अपि देवेशो ह्यदित्या गर्भमाविशत् ॥ ७३.२१॥
७३.२२/१तस्मिन्न् उत्पद्यमाने तु उत्सवाश्च बभूविरे ।
७३.२२/२जातोऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः ॥ ७३.२२॥
७३.२३/१एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः ।
७३.२३/२बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥ ७३.२३॥
७३.२४/१पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना ।
७३.२४/२मखे तस्मिन् वर्तमाने यजमाने बलौ तथा ॥ ७३.२४॥
७३.२५/१आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि ।
७३.२५/२हविर्भागार्थमासन्न+ ।देवगन्धर्वपन्नगे ॥ ७३.२५॥
७३.२६/१दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक् ।
७३.२६/२परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥ ७३.२६॥
७३.२७/१शनैस्तद्देशमभ्यागाद् वामनः सामगायनः ।
७३.२७/२यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥ ७३.२७॥
७३.२८/१प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः ।
७३.२८/२ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥ ७३.२८॥
७३.२९/१दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ।
७३.२९/२ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम् ॥ ७३.२९॥
७३.३०/१जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् ।
७३.३०/२बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥ ७३.३०॥
७३.३१/१ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक् ।
७३.३१/२तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान् ॥ ७३.३१॥
७३.३२/१शुक्र उवाच । योऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः ।
७३.३२/२नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥ ७३.३२॥
७३.३३/१शिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि ।
७३.३३/२मया च सह सम्मन्त्र्य पश्चाद् देयं त्वया प्रभो ॥ ७३.३३॥
७३.३४/१ब्रह्मोवाच । बलिस्तु भार्गवं प्राह पुरोधसमरिंदमः ॥ ७३.३४॥
७३.३५/१बलिरुवाच । धन्योऽहं मम यज्ञेशो गृहमायाति मूर्तिमान् ।
७३.३५/२आगत्य याचते किंचित् किं मन्त्र्यमवशिष्यते ॥ ७३.३५॥
७३.३६/१ब्रह्मोवाच । एवमुक्त्वा सभार्योऽसौ शुक्रेण च पुरोधसा ।
७३.३६/२जगाम यत्र विप्रेन्द्रो वामनोऽदितिनन्दनः ॥ ७३.३६॥
७३.३७/१कृताञ्जलिपुटो भूत्वा केनार्थित्वं तद् उच्यताम् ।
७३.३७/२वामनोऽपि तदा प्राह पदत्रयमितां भुवम् ॥ ७३.३७॥
७३.३८/१देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम् ।
७३.३८/२तथेत्युक्त्वा तु कलशान् नानारत्नविभूषितात् ॥ ७३.३८॥
७३.३९/१वारिधारां पुरस्कृत्य वामनाय भुवं ददौ ।
७३.३९/२पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥ ७३.३९॥
७३.४०/१पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ ।
७३.४०/२पश्यत्सु दैत्यसंघेषु जयशब्दे प्रवर्तति ॥ ७३.४०॥
७३.४१/१शनैस्तु वामनः प्राह स्वस्ति राजन् सुखी भव ।
७३.४१/२देहि मे सम्मितां भूमिं त्रिपदामाशु गम्यते ॥ ७३.४१॥
७३.४२/१तथेत्युवाच दैत्येशो यावत् पश्यति वामनम् ।
७३.४२/२यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे ॥ ७३.४२॥
७३.४३/१यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः ।
७३.४३/२अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः ।
७३.४३/३तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः ॥ ७३.४३॥
७३.४४/१बलिरुवाच । क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय ।
७३.४४/२जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥ ७३.४४॥
७३.४५/१ब्रह्मोवाच । तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥ ७३.४५॥
७३.४६/१विष्णुरुवाच । दैत्येश्वर महाबाहो क्रमिष्ये पश्य
दैत्यराट् ॥ ७३.४६॥
७३.४७/१ब्रह्मोवाच । एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥ ७३.४७॥
७३.४८/१ब्रह्मोवाच । कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् ।
७३.४८/२द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥ ७३.४८॥
७३.४९/१तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर ।
७३.४९/२क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत् ।
७३.४९/३विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः ॥ ७३.४९॥
७३.५०/१बलिरुवाच । त्वया सृष्टं जगत् सर्वं न स्रष्टाहं सुरेश्वर ।
७३.५०/२त्वद्दोषाद् अल्पमभवत् किं करोमि जगन्मय ॥ ७३.५०॥
७३.५१/१तथापि नानृतपूर्वं कदाचिद् वच्मि केशव ।
७३.५१/२सत्यवाक्यं च मां कुर्वन् मत्पृष्ठे हि पदं न्यस ॥ ७३.५१॥
७३.५२/१ब्रह्मोवाच । ततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः ॥ ७३.५२॥
७३.५३/१भगवान् उवाच । वरं वृणीष्व भद्रं ते भक्त्या
प्रीतोऽस्मि दैत्यराट् ॥ ७३.५३॥
७३.५४/१ब्रह्मोवाच । स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् ।
७३.५४/२स तु प्रादात् स्वयं विष्णुः प्रीतः सन् मनसेप्सितम् ॥ ७३.५४॥
७३.५५/१रसातलपतित्वं च भावि चेन्द्रपदं पुनः ।
७३.५५/२आत्माधिपत्यं च हरिरविनाशि यशो विभुः ॥ ७३.५५॥
७३.५६/१एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् ।
७३.५६/२रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम् ॥ ७३.५६॥
७३.५७/१शतक्रतोस्तथा प्रादात् सुरराज्यं यथाभवम् ।
७३.५७/२एतस्मिन्न् अन्तरे तत्र पदं प्रागात् सुरार्चितम् ॥ ७३.५७॥
७३.५८/१द्वितीयं तत् पदं विष्णोः पितुर्मम महामते ।
७३.५८/२यत् पदं समनुप्राप्तं गृहं दृष्ट्वाप्यचिन्तयम् ॥ ७३.५८॥
७३.५९/१किं कृत्यं यच्छुभं मे स्यात् पदे विष्णोः समागते ।
७३.५९/२सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात् कमण्डलुः ॥ ७३.५९॥
७३.६०/१तद् वारि यत् पुण्यतमं दत्तं च त्रिपुरारिणा ।
७३.६०/२वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥ ७३.६०॥
७३.६१/१शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् ।
७३.६१/२मातृस्वरूपं लोकानाममृतं भेषजं शुचि ॥ ७३.६१॥
७३.६२/१पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् ।
७३.६२/२स्मरणाद् एव लोकानां पावनं किं नु दर्शनात् ॥ ७३.६२॥
७३.६३/१तादृग् वारि शुचिर्भूत्वा कल्पयेऽर्घाय मे पितुः ।
७३.६३/२इति संचिन्त्य तद् वारि गृहीत्वार्घाय कल्पितम् ॥ ७३.६३॥
७३.६४/१विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम् ।
७३.६४/२तद् वारि पतितं मेरौ चतुर्धा व्यगमद् भुवम् ॥ ७३.६४॥
७३.६५/१पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा ।
७३.६५/२दक्षिणे यत् तु पतितं जटाभिः शंकरो मुने ॥ ७३.६५॥
७३.६६/१जग्राह पश्चिमे यत् तु पुनः प्रायात् कमण्डलुम् ।
७३.६६/२उत्तरे पतितं यत् तु विष्णुर्जग्राह तज्जलम् ॥ ७३.६६॥
७३.६७/१पूर्वस्मिन्न् ऋषयो देवा पितरो लोकपालकाः ।
७३.६७/२जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तद् उच्यते ॥ ७३.६७॥
७३.६८/१या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः ।
७३.६८/२विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः ॥ ७३.६८॥
७३.६९/१महेश्वरजटासंस्थाः पर्वजातशुभोदयाः ।
७३.६९/२तासां प्रभावस्मरणात् सर्वकामान् अवाप्नुयात् ॥ ७३.६९॥
७४.१/१नारद उवाच । कमण्डलुस्थिता देवी महेश्वरजटागता ।
७४.१/२श्रुता देव यथा मर्त्यमागता तद् ब्रवीतु मे ॥ ७४.१॥
७४.२/१ब्रह्मोवाच । महेश्वरजटास्था या आपो देव्यो महामते ।
७४.२/२तासां च द्विविधो भेद आहर्तुर्द्वयकारणात् ॥ ७४.२॥
७४.३/१एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना ।
७४.३/२गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः ॥ ७४.३॥
७४.४/१अपरस्तु महाप्राज्ञ क्षत्रियेण बलीयसा ।
७४.४/२आराध्य शंकरं देवं तपोभिर्नियमैस्तथा ॥ ७४.४॥
७४.५/१भगीरथेन भूपेन आहृतोऽंशो अपरस्तथा ।
७४.५/२एवं द्वैरूप्यमभवद् गङ्गाया मुनिसत्तम ॥ ७४.५॥
७४.६/१नारद उवाच । महेश्वरजटास्था या हेतुना केन गौतमः ।
७४.६/२आहर्ता क्षत्रियेणापि आहृता केन तद् वद ॥ ७४.६॥
७४.७/१ब्रह्मोवाच । यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा ।
७४.७/२तत् सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव ॥ ७४.७॥
७४.८/१यस्मिन् काले सुरेशस्य उमा पत्न्यभवत् प्रिया ।
७४.८/२तस्मिन्न् एवाभवद् गङ्गा प्रिया शम्भोर्महामते ॥ ७४.८॥
७४.९/१मम दोषापनोदाय चिन्तयानः शिवस्तदा ।
७४.९/२उमया सहितः श्रीमान् देवीं प्रेक्ष्य विशेषतः ॥ ७४.९॥
७४.१०/१रसवृत्तौ स्थितो यस्मान् निर्ममे रसमुत्तमम् ।
७४.१०/२रसिकत्वात् प्रियत्वाच्च स्त्रैणत्वात् पावनत्वतः ॥ ७४.१०॥
७४.१२/१सर्वाभ्यो ह्यधिकप्रीतिर्गङ्गाभूद् द्विजसत्तम ।
७४.१२/२सैवोद्भूता जटामार्गात् कस्मिंश्चित् कारणान्तरे ।
७४.१२/३स तु संगोपयामास गङ्गां शम्भुर्जटागताम् ॥ ७४.१२॥
७४.१३/१शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा ।
७४.१३/२सोढुं ब्रह्मञ् जटाजूटे स्थितां दृष्ट्वा पुनः पुनः ॥ ७४.१३॥
७४.१४/१अमर्षेण भवं गोरी प्रेरयस्वेत्यभाषत ।
७४.१४/२नैवासौ प्रैरयच्छम्भू रसिको रसमुत्तमम् ॥ ७४.१४॥
७४.१५/१जटास्वेव तदा देवीं गोपायन्तं विमृश्य सा ।
७४.१५/२विनायकं जयां स्कन्दं रहो वचनमब्रवीत् ॥ ७४.१५॥
७४.१६/१नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः ।
७४.१६/२सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम् ॥ ७४.१६॥
७४.१७/१एवं विमृश्य बहुशो गौरी चाह विनायकम् ॥ ७४.१७॥
७४.१८/१पार्वत्युवाच । न देवैर्नासुरैर्यक्षैर्न सिद्धैर्भवतापि च ।
७४.१८/२न राजभिरथान्यैर्वा न गङ्गां त्यजति प्रभुः ॥ ७४.१८॥
७४.१९/१पुनस्तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् ।
७४.१९/२अथवा ब्राह्मणैः पुण्यैस्तपोभिर्हतकल्मषैः ॥ ७४.१९॥
७४.२०/१तैर्वा जटास्थिता गङ्गा प्रार्थिता भुवमाप्नुयात् ॥ ७४.२०॥
७४.२१/१ब्रह्मोवाच । एतच्छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् ।
७४.२१/२भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते ॥ ७४.२१॥
७४.२२/१तत् कुर्मो मस्तकाद् गङ्गां यथा त्यजति मे पिता ।
७४.२२/२एतस्मिन्न् अन्तरे ब्रह्मन्न् अनावृष्टिरजायत ॥ ७४.२२॥
७४.२३/१द्विर्द्वादश समा मर्त्ये सर्वप्राणिभयावहा ।
७४.२३/२ततो विनष्टमभवज्जगत् स्थावरजङ्गमम् ॥ ७४.२३॥
७४.२४/१विना तु गौतमं पुण्यमाश्रमं सर्वकामदम् ।
७४.२४/२स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा ॥ ७४.२४॥
७४.२५/१कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः ।
७४.२५/२मन्नामा तत्र विख्यातस्ततो ब्रह्मगिरिः सदा ॥ ७४.२५॥
७४.२६/१तमाश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः ।
७४.२६/२तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे ॥ ७४.२६॥
७४.२७/१आधयो व्याधयो वापि दुर्भिक्षं वाप्यवर्षणम् ।
७४.२७/२भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन ॥ ७४.२७॥
७४.२८/१तदाश्रमं विनान्यत्र हव्यं वा कव्यमेव च ।
७४.२८/२नास्ति पुत्र तथा दाता होता यष्टा तथैव च ॥ ७४.२८॥
७४.२९/१यदैव गौतमो विप्रो ददाति च जुहोति च ।
७४.२९/२तदैवाप्ययनं स्वर्गे सुराणामपि नान्यतः ॥ ७४.२९॥
७४.३०/१देवलोकेऽपि मर्त्ये वा श्रूयते गौतमो मुनिः ।
७४.३०/२होता दाता च भोक्ता च स एवेति जना विदुः ॥ ७४.३०॥
७४.३१/१तच्छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः ।
७४.३१/२गौतमाश्रममापृच्छन्न् आगच्छन्तस्तपोधनाः ॥ ७४.३१॥
७४.३२/१तेषां मुनीनां सर्वेषामागतानां स गौतमः ।
७४.३२/२शिष्यवत् पुत्रवद् भक्त्या पितृवत् पोषकोऽभवत् ॥ ७४.३२॥
७४.३३/१यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् ।
७४.३३/२यथानुरूपं सर्वेषां शुश्रूषामकरोन् मुनिः ॥ ७४.३३॥
७४.३४/१आज्ञया गौतमस्यासन्न् ओषध्यो लोकमातरः ।
७४.३४/२आराधिताः पुनस्तेन ब्रह्मविष्णुमहेश्वराः ॥ ७४.३४॥
७४.३५/१जायन्ते च तदौषध्यो लूयन्ते च तदैव हि ।
७४.३५/२सम्पत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात् ॥ ७४.३५॥
७४.३६/१सर्वाः समृद्धयस्तस्य संसिध्यन्ते मनोगताः ।
७४.३६/२प्रत्यहं वक्ति विनयाद् गौतमस्त्वागतान् मुनीन् ॥ ७४.३६॥
७४.३७/१पुत्रवच्छिष्यवच्चैव प्रेष्यवत् करवाणि किम् ।
७४.३७/२पितृवत् पोषयामास संवत्सरगणान् बहून् ॥ ७४.३७॥
७४.३८/१एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिराश्रयात् ।
७४.३८/२ततो विनायकः प्राह मातरं भ्रातरं जयाम् ॥ ७४.३८॥
७४.३९/१विनायक उवाच । देवानां सदने मातर्गीयते गौतमो द्विजः ।
७४.३९/२यन् न साध्यं सुरगणैर्गौतमः कृतवान् इति ॥ ७४.३९॥
७४.४०/१एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् ।
७४.४०/२स विप्रश्चालयेद् एनां मातर्गङ्गां जटागताम् ॥ ७४.४०॥
७४.४१/१तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् ।
७४.४१/२स एव च्यावयेद् एनां जटास्थां मे पितृप्रियाम् ॥ ७४.४१॥
७४.४२/१तत्र नीतिर्विधातव्या तां विप्रो याचयेद् यथा ।
७४.४२/२तत्प्रभावात् सरिच्छ्रेष्ठा शिरसोऽवतरत्यपि ॥ ७४.४२॥
७४.४३/१ब्रह्मोवाच । इत्युक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् ।
७४.४३/२जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः ॥ ७४.४३॥
७४.४४/१वसन् कतिपयाहःसु गौतमाश्रममण्डले ।
७४.४४/२उवाच ब्राह्मणान् सर्वांस्तत्र तत्र च विघ्नराट् ॥ ७४.४४॥
७४.४५/१गच्छामः स्वमधिष्ठानमाश्रमाणि शुचीनि च ।
७४.४५/२पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम् ॥ ७४.४५॥
७४.४६/१इति सम्मन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः ।
७४.४६/२स तान् निवारयामास स्नेहबुद्ध्या मुनीन् पृथक् ॥ ७४.४६॥
७४.४७/१गौतम उवाच । कृताञ्जलिः सविनयमासध्वमिह चैव हि ।
७४.४७/२युष्मच्चरणशुश्रूषां करोमि मुनिपुंगवाः ॥ ७४.४७॥
७४.४८/१शुश्रूषौ पुत्रवन् नित्यं मयि तिष्ठति नोचितम् ।
७४.४८/२भवतां भूमिदेवानामाश्रमान्तरसेवनम् ॥ ७४.४८॥
७४.४९/१इदमेवाश्रमं पुण्यं सर्वेषामिति मे मतिः ।
७४.४९/२अलमन्येन मुनय आश्रमेण गतेन वा ॥ ७४.४९॥
७४.५०/१ब्रह्मोवाच । इति श्रुत्वा मुनेर्वाक्यं विघ्नकृत्यमनुस्मरन् ।
७४.५०/२उवाच प्राञ्जलिर्भूत्वा ब्राह्मणान् स गणाधिपः ॥ ७४.५०॥
७४.५१/१गणाधिप उवाच । अन्नक्रीता वयं किं नो निवारयत गौतमः ।
७४.५१/२साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम् ॥ ७४.५१॥
७४.५२/१नायमर्हति दण्डं वा उपकारी द्विजोत्तमः ।
७४.५२/२तस्माद् बुद्ध्या व्यवस्यामि तत् सर्वैरनुमन्यताम् ॥ ७४.५२॥
७४.५३/१ब्रह्मोवाच । ततः सर्वे द्विजश्रेष्ठाः क्रियतामित्यनुब्रुवन् ।
७४.५३/२एतस्य तूपकाराय लोकानां हितकाम्यया ॥ ७४.५३॥
७४.५४/१ब्राह्मणानां च सर्वेषां श्रेयो यत् स्यात् तथा कुरु ।
७४.५४/२ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः ॥ ७४.५४॥
७४.५५/१विनायक उवाच । क्रियते गुणरूपं यद् गौतमस्य विशेषतः ॥ ७४.५५॥
७४.५६/१ब्रह्मोवाच । अनुमान्य द्विजान् सर्वान् पुनः पुनरुदारधीः ।
७४.५६/२स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान् पुनः ।
७४.५६/३मातुर्मते स्थितो विद्वाञ् जयां प्राह गणेश्वरः ॥ ७४.५६॥
७४.५७/१विनायक उवाच । यथा नान्यो विजानीते तथा कुरु शुभानने ।
७४.५७/२गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति ॥ ७४.५७॥
७४.५८/१शालीन् खाद विनाश्याथ विकारं कुरु भामिनि ।
७४.५८/२कृते प्रहारे हुंकारे प्रेक्षिते चापि किंचन ।
७४.५८/३पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च ॥ ७४.५८॥
७४.५९/१ब्रह्मोवाच । तथा चकार विजया विघ्नेश्वरमते स्थिता ।
७४.५९/२यत्रासीद् गौतमो विप्रो जया गोरूपधारिणी ॥ ७४.५९॥
७४.६०/१जगाम शालीन् खादन्ती तां ददर्श स गौतमः ।
७४.६०/२गां दृष्ट्वा विकृतां विप्रस्तां तृणेन न्यवारयत् ॥ ७४.६०॥
७४.६१/१निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः ।
७४.६१/२तस्यां तु पतितायां च हाहाकारो महान् अभूत् ॥ ७४.६१॥
७४.६२/१स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् ।
७४.६२/२व्यथिता ब्राह्मणाः प्राहुर्विघ्नराजपुरस्कृताः ॥ ७४.६२॥
७४.६३/१ब्राह्मणा ऊचुः । इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे ।
७४.६३/२पुत्रवत् पोषिताः सर्वे पृष्टोऽसि मुनिपुंगव ॥ ७४.६३॥
७४.६४/१ब्रह्मोवाच । इति श्रुत्वा मुनिर्वाक्यं विप्राणां गच्छतां तदा ।
७४.६४/२वज्राहत इवासीत् स विप्राणां पुरतोऽपतत् ॥ ७४.६४॥
७४.६५/१तमूचुर्ब्राह्मणाः सर्वे पश्येमां पतितां भुवि ।
७४.६५/२रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम् ॥ ७४.६५॥
७४.६६/१तीर्थदेवस्वरूपिण्यामस्यां गवि विधेर्बलात् ।
७४.६६/२पतितायां मुनिश्रेष्ठ गन्तव्यमवशिष्यते ॥ ७४.६६॥
७४.६७/१चीर्णं व्रतं क्षयं याति यथा वासस्त्वदाश्रमे ।
७४.६७/२वयं नान्यधना ब्रह्मन् केवलं तु तपोधनाः ॥ ७४.६७॥
७४.६८/१ब्रह्मोवाच । विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः ॥ ७४.६८॥
७४.६९/१गौतम उवाच । भवन्त एव शरणं पूतं मां कर्तुमर्हथ ॥ ७४.६९॥
७४.७०/१ब्रह्मोवाच । ततः प्रोवाच भगवान् विघ्नराड्
ब्राह्मणैर्वृतः ॥ ७४.७०॥
७४.७१/१विघ्नराज उवाच । नैवेयं म्रियते तत्र नैव जीवति तत्र किम् ।
७४.७१/२वदामोऽस्मिन् सुसंदिग्धे निष्कृतिं गतिमेव वा ॥ ७४.७१॥
७४.७२/१गौतम उवाच । कथमुत्थास्यतीयं गौरथ चास्मिंश्च निष्कृतिम् ।
७४.७२/२वक्तुमर्हथ तत् सर्वं करिष्येऽहमसंशयम् ॥ ७४.७२॥
७४.७३/१ब्राह्मणा ऊचुः । सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् ।
७४.७३/२एतद् वाक्यमथास्माकं प्रमाणं तव गौतम ॥ ७४.७३॥
७४.७४/१ब्रह्मोवाच । ब्राह्मणैः प्रेर्यमाणोऽसौ गौतमेन बलीयसा ।
७४.७४/२विघ्नकृद् ब्रह्मवपुषा प्राह सर्वान् इदं वचः ॥ ७४.७४॥
७४.७५/१विघ्नराज उवाच । सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् ।
७४.७५/२अनुमन्यन्तु मुनयो मद्वाक्यं गौतमोऽपि च ॥ ७४.७५॥
७४.७६/१महेश्वरजटाजूटे ब्रह्मणोऽव्यक्तजन्मनः ।
७४.७६/२कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम ॥ ७४.७६॥
७४.७७/१तद् आनयस्व तरसा तपसा नियमेन च ।
७४.७७/२तेनाभिषिञ्च गामेतां भगवन् भुवमाश्रिताम् ।
७४.७७/३ततो वत्स्यामहे सर्वे पूर्ववत् तव वेश्मनि ॥ ७४.७७॥
७४.७८/१ब्रह्मोवाच । इत्युक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि ।
७४.७८/२तत्रापतत् पुष्पवृष्टिर्जयशब्दो व्यवर्धत ।
७४.७८/३ततः कृताञ्जलिर्नम्रो गौतमो वाक्यमब्रवीत् ॥ ७४.७८॥
७४.७९/१गौतम उवाच । तपसाग्निप्रसादेन देवब्रह्मप्रसादतः ।
७४.७९/२भवतां च प्रसादेन मत्संकल्पोऽनुसिध्यताम् ॥ ७४.७९॥
७४.८०/१ब्रह्मोवाच । एवमस्त्विति तं विप्रा आपृच्छन् मुनिपुंगवम् ।
७४.८०/२स्वानि स्थानानि ते जग्मुः समृद्धान्यन्नवारिभिः ॥ ७४.८०॥
७४.८१/१यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः ।
७४.८१/२जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत ॥ ७४.८१॥
७४.८२/१गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा ।
७४.८२/२गौतमोऽपि मुनिश्रेष्ठस्तपसा हतकल्मषः ॥ ७४.८२॥
७४.८३/१ध्यायंस्तदर्थं स मुनिः किमिदं मम संस्थितम् ।
७४.८३/२इत्येवं बहुशो ध्यायञ् ज्ञानेन ज्ञातवान् द्विज ॥ ७४.८३॥
७४.८४/१निश्चित्य देवकार्यार्थमात्मनः किल्बिषां गतिम् ।
७४.८४/२लोकानामुपकारं च शम्भोः प्रीणनमेव च ॥ ७४.८४॥
७४.८५/१उमायाः प्रीणनं चापि गङ्गानयनमेव च ।
७४.८५/२सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम् ॥ ७४.८५॥
७४.८६/१इत्येवं मनसा ध्यायन् सुप्रीतोऽभूद् द्विजोत्तमः ।
७४.८६/२आराध्य जगतामीशं त्रिनेत्रं वृषभध्वजम् ॥ ७४.८६॥
७४.८७/१आनयिष्ये सरिच्छ्रेष्ठां प्रीताऽस्तु गिरिजा मम ।
७४.८७/२सपत्नी जगदम्बाया महेश्वरजटास्थिता ॥ ७४.८७॥
७४.८८/१एवं हि संकल्प्य मुनिप्रवीरः ।
७४.८८/२स गौतमो ब्रह्मगिरेर्जगाम ।
७४.८८/३कैलासमाधिष्ठितमुग्रधन्वना ।
७४.८८/४सुरार्चितं प्रियया ब्रह्मवृन्दैः ॥ ७४.८८॥
७५.१/१नारद उवाच । कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः ।
७५.१/२किं चकार तपो वापि कां चक्रे स्तुतिमुत्तमाम् ॥ ७५.१॥
७५.२/१ब्रह्मोवाच । गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः ।
७५.२/२आस्तीर्य स कुशान् प्राज्ञः कैलासे पर्वतोत्तमे ॥ ७५.२॥
७५.३/१उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ ।
७५.३/२अपतत् पुष्पवृष्टिश्च स्तूयमाने महेश्वरे ॥ ७५.३॥
७५.४/१गौतम उवाच । भोगार्थिनां भोगमभीप्सितं च ।
७५.४/२दातुं महान्त्यष्टवपूंषि धत्ते ।
७५.४/३सोमो जनानां गुणवन्ति नित्यम् ।
७५.४/४देवं महादेवमिति स्तुवन्ति ॥ ७५.४॥
७५.५/१कर्तुं स्वकीयैर्विषयैः सुखानि ।
७५.५/२भर्तुं समस्तं सचराचरं च ।
७५.५/३सम्पत्तये ह्यस्य विवृद्धये च ।
७५.५/४महीमयं रूपमितीश्वरस्य ॥ ७५.५॥
७५.६/१सृष्टेः स्थितेः संहरणाय भूमेर्।
७५.६/२आधारमाधातुमपां स्वरूपम् ।
७५.६/३भेजे शिवः शान्ततनुर्जनानाम् ।
७५.६/४सुखाय धर्माय जगत् प्रतिष्ठितम् ॥ ७५.६॥
७५.७/१कालव्यवस्थाममृतस्रवं च ।
७५.७/२जीवस्थितिं सृष्टिमथो विनाशनम् ।
७५.७/३मुदं प्रजानां सुखमुन्नतिं च ।
७५.७/४चक्रेऽर्कचन्द्राग्निमयं शरीरम् ॥ ७५.७॥
७५.८/१वृद्धिं गतिं शक्तिमथाक्षराणि ।
७५.८/२जीवव्यवस्थां मुदमप्यनेकाम् ।
७५.८/३स्रष्टुं कृतं वायुरितीशरूपम् ।
७५.८/४त्वं वेत्सि नूनं भगवन् भवन्तम् ॥ ७५.८॥
७५.९/१भेदैर्विना नैव कृतिर्न धर्मो ।
७५.९/२नात्मीयमन्यन् न दिशोऽन्तरिक्षम् ।
७५.९/३द्यावापृथिव्यौ न च भुक्तिमुक्ती ।
७५.९/४तस्माद् इदं व्योमवपुस्तवेश ॥ ७५.९॥
७५.१०/१धर्मं व्यवस्थापयितुं व्यवस्य ।
७५.१०/२ऋक्सामशास्त्राणि यजुश्च शाखाः ।
७५.१०/३लोके च गाथाः स्मृतयः पुराणम् ।
७५.१०/४इत्यादिशब्दात्मकतामुपैति ॥ ७५.१०॥
७५.११/१यष्टा क्रतुर्यान्यपि साधनानि ।
७५.११/२ऋत्विक्प्रदेशं फलदेशकालाः ।
७५.११/३त्वमेव शम्भो परमार्थतत्त्वम् ।
७५.११/४वदन्ति यज्ञाङ्गमयं वपुस्ते ॥ ७५.११॥
७५.१२/१कर्ता प्रदाता प्रतिभूः प्रदानम् ।
७५.१२/२सर्वज्ञसाक्षी पुरुषः परश्च ।
७५.१२/३प्रत्यात्मभूतः परमार्थरूपस्- ।
७५.१२/४त्वमेव सर्वं किमु वाग्विलासैः ॥ ७५.१२॥
७५.१३/१न वेदशास्त्रैर्गुरुभिः प्रदिष्टो ।
७५.१३/२न नासि बुद्ध्यादिभिरप्रधृष्यः ।
७५.१३/३अजोऽप्रमेयः शिवशब्दवाच्यस्- ।
७५.१३/४त्वमस्ति सत्यं भगवन् नमस्ते ॥ ७५.१३॥
७५.१४/१आत्मैकतां स्वप्रकृतिं कदाचिद् ।
७५.१४/२ऐक्षच्छिवः सम्पद् इयं ममेति ।
७५.१४/३पृथक् तदैवाभवद् अप्रतर्क्य+ ।
७५.१४/४अचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ ७५.१४॥
७५.१५/१भावेऽभिवृद्धा च भवे भवे च ।
७५.१५/२स्वकारणं कारणमास्थिता च ।
७५.१५/३नित्या शिवा सर्वसुलक्षणा वा ।
७५.१५/४विलक्षणा विश्वकरस्य शक्तिः ॥ ७५.१५॥
७५.१६/१उत्पादनं संस्थितिरन्नवृद्धि+ ।
७५.१६/२लयाः सतां यत्र सनातनास्ते ।
७५.१६/३एकैव मूर्तिर्न समस्ति किंचिद् ।
७५.१६/४असाध्यमस्या दयिता हरस्य ॥ ७५.१६॥
७५.१७/१यदर्थमन्नानि धनानि जीवा ।
७५.१७/२यच्छन्ति कुर्वन्ति तपांसि धर्मान् ।
७५.१७/३सापीयमम्बा जगतो जनित्री ।
७५.१७/४प्रिया तु सोमस्य महासुकीर्तिः ॥ ७५.१७॥
७५.१८/१यद् ईक्षितं काङ्क्षति वासवोऽपि ।
७५.१८/२यन्नामतो मङ्गलमाप्नुयाच्च ।
७५.१८/३या व्याप्य विश्वं विमलीकरोति ।
७५.१८/४सोमा सदा सोमसमानरूपा ॥ ७५.१८॥
७५.१९/१ब्रह्मादिजीवस्य चराचरस्य ।
७५.१९/२बुद्ध्यक्षिचैतन्यमनःसुखानि ।
७५.१९/३यस्याः प्रसादात् फलवन्ति नित्यम् ।
७५.१९/४वागीश्वरी लोकगुरोः सुरम्या ॥ ७५.१९॥
७५.२०/१चतुर्मुखस्यापि मनो मलीनम् ।
७५.२०/२किमन्यजन्तोरिति चिन्त्य माता ।
७५.२०/३गङ्गावतारं विविधैरुपायैः ।
७५.२०/४सर्वं जगत् पावयितुं चकार ॥ ७५.२०॥
७५.२१/१श्रुतीः समालक्ष्य हरप्रभुत्वम् ।
७५.२१/२विश्वस्य लोकः सकलैः प्रमाणैः ।
७५.२१/३कृत्वा च धर्मान् बुभुजे च भोगान् ।
७५.२१/४विभूतिरेषा तु सदाशिवस्य ॥ ७५.२१॥
७५.२२/१कार्यक्रियाकारकसाधनानाम् ।
७५.२२/२वेदोदितानामथ लौकिकानाम् ।
७५.२२/३यत् साध्यमुत्कृष्टतमं प्रियं च ।
७५.२२/४प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥ ७५.२२॥
७५.२३/१ध्यात्वा वरं ब्रह्म परं प्रधानम् ।
७५.२३/२यत् सारभूतं यद् उपासितव्यम् ।
७५.२३/३यत् प्राप्य मुक्ता न पुनर्भवन्ति ।
७५.२३/४सद्योगिनो मुक्तिरुमापतिः सः ॥ ७५.२३॥
७५.२४/१यथा यथा शम्भुरमेयमाया+ ।
७५.२४/२रूपाणि धत्ते जगतो हिताय ।
७५.२४/३तद्योगयोग्यानि तथैव धत्से ।
७५.२४/४पतिव्रतात्वं त्वयि मातरेवम् ॥ ७५.२४॥
७५.२५/१ब्रह्मोवाच । इत्येवं स्तुवतस्तस्य पुरस्ताद् वृषभध्वजः ।
७५.२५/२उमया सहितः श्रीमान् गणेशादिगणैर्वृतः ॥ ७५.२५॥
७५.२६/१साक्षाद् आगत्य तं शम्भुः प्रसन्नो वाक्यमब्रवीत् ॥ ७५.२६॥
७५.२७/१शिव उवाच । किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः ।
७५.२७/२परितुष्टोऽस्मि याचस्व देवानामपि दुष्करम् ॥ ७५.२७॥
७५.२८/१ब्रह्मोवाच । इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः ।
७५.२८/२हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥ ७५.२८॥
७५.२९/१अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम् ।
७५.२९/२अहो लोकगतिश्चित्रा अहो धातर्नमोऽस्तु ते ॥ ७५.२९॥
७५.३०/१गौतम उवाच । जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित ।
७५.३०/२यदि तुष्टोऽसि देवेश त्रयीधाम नमोऽस्तु ते ॥ ७५.३०॥
७५.३१/१ईश्वर उवाच । त्रयाणामुपकारार्थं लोकानां याचितं त्वया ।
७५.३१/२आत्मनस्तूपकाराय तद् याचस्वाकुतोभयः ॥ ७५.३१॥
७५.३२/१गौतम उवाच । स्तोत्रेणानेन ये भक्तास्त्वां च देवीं स्तुवन्ति वै ।
७५.३२/२सर्वकामसमृद्धाः स्युरेतद् धि वरयाम्यहम् ॥ ७५.३२॥
७५.३३/१ब्रह्मोवाच । एवमस्त्विति देवेशः परितुष्टोऽब्रवीद् वचः ।
७५.३३/२अन्यान् अपि वरान् मत्तो याचस्व विगतज्वरः ॥ ७५.३३॥
७५.३४/१एवमुक्तस्तु हर्षेण गौतमः प्राह शंकरम् ॥ ७५.३४॥
७५.३५/१गौतम उवाच । इमां देवीं जटासंस्थां पावनीं लोकपावनीम् ।
७५.३५/२तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ ॥ ७५.३५॥
७५.३६/१सर्वासां तीर्थभूता तु यावद् गच्छति सागरम् ।
७५.३६/२ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च ॥ ७५.३६॥
७५.३७/१स्नानमात्रेण सर्वाणि विलयं यान्तु शंकर ।
७५.३७/२चन्द्रसूर्योपरागे च अयने विषुवे तथा ॥ ७५.३७॥
७५.३८/१संक्रान्तौ वैधृतौ पुण्य+ ।तीर्थेष्वन्येषु यत् फलम् ।
७५.३८/२अस्यास्तु स्मरणाद् एव तत् पुण्यं जायतां हर ॥ ७५.३८॥
७५.३९/१श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च ।
७५.३९/२द्वापरे यज्ञदाने च दानमेव कलौ युगे ॥ ७५.३९॥
७५.४०/१युगधर्माश्च ये सर्वे देशधर्मास्तथैव च ।
७५.४०/२देशकालादिसंयोगे यो धर्मो यत्र शस्यते ॥ ७५.४०॥
७५.४१/१यद् अन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः ।
७५.४१/२अस्यास्तु स्मरणाद् एव तत् पुण्यं जायतां हर ॥ ७५.४१॥
७५.४२/१यत्र यत्र त्वियं याति यावत् सागरगामिनी ।
७५.४२/२तत्र तत्र त्वया भाव्यमेष चास्तु वरो वरः ॥ ७५.४२॥
७५.४३/१योजनानां तूपरि तु दश यावच्च संख्यया ।
७५.४३/२तदन्तरप्रविष्टानां महापातकिनामपि ॥ ७५.४३॥
७५.४४/१तत् पितृणां च तेषां च स्नानायागच्छतां शिव ।
७५.४४/२स्नाने चाप्यन्तरे मृत्योर्मुक्तिभाजो भवन्तु वै ॥ ७५.४४॥
७५.४५/१एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले ।
७५.४५/२एषा तेभ्यो विशिष्टा तु अलं शम्भो नमोऽस्तु ते ॥ ७५.४५॥
७५.४६/१ब्रह्मोवाच । तद् गौतमवचः श्रुत्वा तथास्त्वित्यब्रवीच्छिवः ।
७५.४६/२अस्याः परतरं तीर्थं न भूतं न भविष्यति ॥ ७५.४६॥
७५.४७/१सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् ।
७५.४७/२सर्वेषां गौतमी पुण्या इत्युक्त्वान्तरधीयत ॥ ७५.४७॥
७५.४८/१ततो गते भगवति लोकपूजिते ।
७५.४८/२तदाज्ञया पूर्णबलः स गौतमः ।
७५.४८/३जटां समादाय सरिद्वरां ताम् ।
७५.४८/४सुरैर्वृतो ब्रह्मगिरिं विवेश ॥ ७५.४८॥
७५.४९/१ततस्तु गौतमे प्राप्ते जटामादाय नारद ।
७५.४९/२पुष्पवृष्टिरभूत् तत्र समाजग्मुः सुरेश्वराः ॥ ७५.४९॥
७५.५०/१ऋषयश्च महाभागा ब्राह्मणाः क्षत्रियास्तथा ।
७५.५०/२जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः ॥ ७५.५०॥
७६.१/१नारद उवाच । महेश्वरजटाजुटाद् गङ्गामादाय गौतमः ।
७६.१/२आगत्य ब्रह्मणः पुण्ये ततः किमकरोद् गिरौ ॥ ७६.१॥
७६.२/१ब्रह्मोवाच । आदाय गौतमो गङ्गां शुचिः प्रयतमानसः ।
७६.२/२पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः ॥ ७६.२॥
७६.३/१गिरेर्मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम् ।
७६.३/२उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजसत्तमः ॥ ७६.३॥
७६.४/१गौतम उवाच । त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि ।
७६.४/२क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥ ७६.४॥
७६.५/१ब्रह्मोवाच । एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम् ।
७६.५/२दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥ ७६.५॥
७६.६/१गङ्गोवाच । गच्छेयं देवसदनमथवापि कमण्डलुम् ।
७६.६/२रसातलं वा गच्छेयं जातस्त्वं सत्यवाग् असि ॥ ७६.६॥
७६.७/१गौतम उवाच । त्रयाणामुपकारार्थं लोकानां याचिता मया ।
७६.७/२शम्भुना च तथा दत्ता देवि तन् नान्यथा भवेत् ॥ ७६.७॥
७६.८/१ब्रह्मोवाच । तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् ।
७६.८/२त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥ ७६.८॥
७६.९/१स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले ।
७६.९/२रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥ ७६.९॥
७६.१०/१सर्वत्र सर्वभूतैव सर्वपापविनाशिनी ।
७६.१०/२सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥ ७६.१०॥
७६.११/१मर्त्या मर्त्यगतामेव पश्यन्ति न तलं गताम् ।
७६.११/२नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः ॥ ७६.११॥
७६.१२/१यावत् सागरगा देवी तावद् देवमयी स्मृता ।
७६.१२/२उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति ॥ ७६.१२॥
७६.१३/१ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम् ।
७६.१३/२गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत् ॥ ७६.१३॥
७६.१४/१त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः ।
७६.१४/२उभयोस्तीरयोः स्नानं करोमीति दधे मतिम् ॥ ७६.१४॥
७६.१५/१स्मृतमात्रस्तदा तत्र *आविरासीत् करुणार्णवः ।
७६.१५/२तत्र स्नानं कथं सिध्येद् इत्येवं शर्वमब्रवीत् ॥ ७६.१५॥
७६.१६/१कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम् ॥ ७६.१६॥
७६.१७/१गौतम उवाच । देवदेव महेशान तीर्थस्नानविधिं मम ।
७६.१७/२ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया ॥ ७६.१७॥
७६.१८/१शिव उवाच । महर्षे शृणु सर्वं च विधिं गोदावरीभवम् ।
७६.१८/२पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥ ७६.१८॥
७६.१९/१ब्राह्मणान् भोजयित्वा च तेषामाज्ञां प्रगृह्य च ।
७६.१९/२ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥ ७६.१९॥
७६.२०/१यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
७६.२०/२विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ७६.२०॥
७६.२१/१भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः ।
७६.२१/२श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम् ॥ ७६.२१॥
७६.२२/१अकिंचनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् ।
७६.२२/२शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् ।
७६.२२/३अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत् ॥ ७६.२२॥
७७.१/१ब्रह्मोवाच । त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥ ७७.१॥
७७.२/१शिव उवाच । द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम ।
७७.२/२सर्वत्राहं संनिहितः सर्वकामप्रदस्तथा ॥ ७७.२॥
७७.३/१ब्रह्मोवाच । गङ्गाद्वारे प्रयागे च तथा सागरसंगमे ।
७७.३/२एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥ ७७.३॥
७७.४/१नर्मदा तु सरिच्छ्रेष्ठा पर्वतेऽमरकण्टके ।
७७.४/२यमुना संगता तत्र प्रभासे तु सरस्वती ॥ ७७.४॥
७७.५/१कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद ।
७७.५/२तिसृणां संगमो यत्र तत् तीर्थं मुक्तिदं नृणाम् ॥ ७७.५॥
७७.६/१पयोउष्णी संगता यत्र तत्रत्या तच्च मुक्तिदम् ।
७७.६/२इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥ ७७.६॥
७७.७/१सर्वेषां सर्वदा नृणां स्नानान् मुक्तिं प्रदास्यति ।
७७.७/२किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे ॥ ७७.७॥
७७.८/१सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः ।
७७.८/२तिस्रः कोट्योऽर्धकोटी च योजनानां शतद्वये ॥ ७७.८॥
७७.९/१तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम ।
७७.९/२इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥ ७७.९॥
७७.१०/१ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी ।
७७.१०/२ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥ ७७.१०॥
७७.११/१स्मरणाद् एव पापौघ+ अन्त्री मम सदा प्रिया ।
७७.११/२पञ्चानामपि भूतानामापः श्रेष्ठत्वमागताः ॥ ७७.११॥
७७.१२/१तत्रापि तीर्थभूतास्तु तस्माद् आपः पराः स्मृताः ।
७७.१२/२तासां भागीरथी श्रेष्ठा ताभ्योऽपि गौतमी तथा ॥ ७७.१२॥
७७.१३/१आनीता सजटा गङ्गा अस्या नान्यच्छुभावहम् ।
७७.१३/२स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥ ७७.१३॥
७७.१४/१ब्रह्मोवाच । इत्येतत् कथितं पुत्र गौतमाय महात्मने ।
७७.१४/२साक्षाद् धरेण तुष्टेन मया तव निवेदितम् ॥ ७७.१४॥
७७.१५/१एवं सा गौतमी गङ्गा सर्वेभ्योऽप्यधिका मता ।
७७.१५/२तत्स्वरूपं च कथितं कुतोऽन्या श्रवणस्पृहा ॥ ७७.१५॥
७८.१/१नारद उवाच । द्विविधा सैव गदिता एकापि सुरसत्तम ।
७८.१/२एको भेदस्तु कथितो ब्राह्मणेनाहृतो यतः ॥ ७८.१॥
७८.२/१क्षत्रियेणापरोऽप्यंशो जटास्वेव व्यवस्थितः ।
७८.२/२भवस्य देवदेवस्य आहृतस्तद् वदस्व मे ॥ ७८.२॥
७८.३/१ब्रह्मोवाच । वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः ।
७८.३/२पुरा वै सगरो नाम राजासीद् अतिधार्मिकः ॥ ७८.३॥
७८.४/१यज्वा दानपरो नित्यं धर्माचारविचारवान् ।
७८.४/२तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम् ॥ ७८.४॥
७८.५/१तस्य वै संततिर्नाभूद् इति चिन्तापरोऽभवत् ।
७८.५/२वसिष्ठं गृहमाहूय सम्पूज्य विधिवत् ततः ॥ ७८.५॥
७८.६/१उवाच वचनं राजा संततेः कारणं प्रति ।
७८.६/२इति तद्वचनं श्रुत्वा ध्यात्वा राजानमब्रवीत् ॥ ७८.६॥
७८.७/१वसिष्ठ उवाच । सपत्नीकः सदा राजन्न् ऋषिपूजापरो भव ॥ ७८.७॥
७८.८/१ब्रह्मोवाच । इत्युक्त्वा स मुनिर्विप्र यथास्थानं जगाम ह ।
७८.८/२एकदा तस्य राजर्षेर्गृहमागात् तपोनिधिः ॥ ७८.८॥
७८.९/१तस्यर्षेः पूजनं चक्रे स संतुष्टोऽब्रवीद् वचम् ।
७८.९/२वरं ब्रूहि महाभागेत्युक्ते पुत्रान् स चावृणोत् ॥ ७८.९॥
७८.१०/१स मुनिः प्राह राजानमेकस्यां वंशधारकः ।
७८.१०/२पुत्रो भूयात् तथान्यस्यां षष्टिसाहस्रकं सुताः ॥ ७८.१०॥
७८.११/१वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः ।
७८.११/२स यज्ञान् सुबहूंश्चक्रे हयमेधान् सुदक्षिणान् ॥ ७८.११॥
७८.१२/१एकस्मिन् हयमेधे वै दीक्षितो विधिवन् नृपः ।
७८.१२/२पुत्रान् न्ययोजयद् राजा ससैन्यान् हयरक्षणे ॥ ७८.१२॥
७८.१३/१क्वचिद् अन्तरमासाद्य हयं जह्रे शतक्रतुः ।
७८.१३/२मार्गमाणाश्च ते पुत्रा नैवापश्यन् हयं तदा ॥ ७८.१३॥
७८.१४/१सहस्राणां तथा षष्टिर्नानायुद्धविशारदाः ।
७८.१४/२तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥ ७८.१४॥
७८.१५/१प्रोक्षितं तद् धयं नीत्वा ते रसातलमागमन् ।
७८.१५/२राक्षसान् मायया युक्तान् नैवापश्यन्त सागराः ॥ ७८.१५॥
७८.१६/१न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः ।
७८.१६/२इतश्चेतश्चरन्तस्ते नैवापश्यन् हयं तदा ॥ ७८.१६॥
७८.१७/१देवलोकं तदा जग्मुः पर्वतांश्च सरांसि च ।
७८.१७/२वनानि च विचिन्वन्तो नैवापश्यन् हयं तदा ॥ ७८.१७॥
७८.१८/१कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः ।
७८.१८/२अदृष्ट्वा तु पशुं रम्यं राजा चिन्तामुपेयिवान् ॥ ७८.१८॥
७८.१९/१अटन्तः सागराः सर्वे देवलोकमुपागमन् ।
७८.१९/२हयं तमनुचिन्वन्तस्तत्रापि न हयोऽभवत् ॥ ७८.१९॥
७८.२०/१ततो महीं समाजग्मुः पर्वतांश्च वनानि च ।
७८.२०/२तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥ ७८.२०॥
७८.२१/१एतस्मिन्न् अन्तरे तत्र दैवी वाग् अभवत् तदा ।
७८.२१/२रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥ ७८.२१॥
७८.२२/१इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् ।
७८.२२/२अखनन् पृथिवीं सर्वां परितः सागरास्ततः ॥ ७८.२२॥
७८.२३/१ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस्त्वहर्निशम् ।
७८.२३/२न्यखनंश्चापि जग्मुश्च सत्वरास्ते रसातलम् ॥ ७८.२३॥
७८.२४/१तान् आगतान् भूपसुतान् सागरान् बलिनः कृतीन् ।
७८.२४/२श्रुत्वा रक्षांसि संत्रस्ता व्यगमन् कपिलान्तिकम् ॥ ७८.२४॥
७८.२५/१कपिलोऽपि महाप्राज्ञस्तत्र शेते रसातले ।
७८.२५/२पुरा च साधितं तेन देवानां कार्यमुत्तमम् ॥ ७८.२५॥
७८.२६/१विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति ।
७८.२६/२अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ ॥ ७८.२६॥
७८.२७/१रसातलं ददुस्तस्मै पुनराह सुरान् मुनिः ।
७८.२७/२यो मामुत्थापयेन् मन्दो भस्मी भूयाच्च सत्वरम् ॥ ७८.२७॥
७८.२८/१ततः शये तलगतो नो चेन् न स्वप्न एव हि ।
७८.२८/२तथेत्युक्तः सुरगणैस्तत्र शेते रसातले ॥ ७८.२८॥
७८.२९/१तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः ।
७८.२९/२सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥ ७८.२९॥
७८.३०/१विना युद्धेन ते भीता राक्षसाः सत्वरास्तदा ।
७८.३०/२आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥ ७८.३०॥
७८.३१/१शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः ।
७८.३१/२दूरे स्थित्वा मौनिनश्च प्रेक्षन्तः किं भवेद् इति ॥ ७८.३१॥
७८.३२/१ततस्तु सागराः सर्वे निर्विशन्तो रसातलम् ।
७८.३२/२ददृशुस्ते हयं बद्धं शयानं पुरुषं तथा ॥ ७८.३२॥
७८.३३/१तं मेनिरे च हर्तारं क्रतुहन्तारमेव च ।
७८.३३/२एनं हत्वा महापापं नयामोऽश्वं नृपान्तिकम् ॥ ७८.३३॥
७८.३४/१केचिद् ऊचुः पशुं बद्धं नयामोऽनेन किं फलम् ।
७८.३४/२तदाहुरपरे शूरा राजानः शासका वयम् ॥ ७८.३४॥
७८.३५/१उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा ।
७८.३५/२ते तं जघ्नुर्मुनिं पादैर्ब्रुवन्तो निष्ठुराणि च ॥ ७८.३५॥
७८.३६/१ततः कोपेन महता कपिलो मुनिसत्तमः ।
७८.३६/२सागरान् ईक्षयामास तान् कोपाद् भस्मसात् करोत् ॥ ७८.३६॥
७८.३७/१जज्वलुस्ते ततस्तत्र सागराः सर्व एव हि ।
७८.३७/२तत् तु सर्वं न जानाति दीक्षितः सगरो नृपः ॥ ७८.३७॥
७८.३८/१नारदः कथयामास सगराय महात्मने ।
७८.३८/२कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम् ॥ ७८.३८॥
७८.३९/१राक्षसानां तु विकृतिं सागराणां च नाशनम् ।
७८.३९/२ततश्चिन्तापरो राजा कर्तव्यं नावबुध्यत ॥ ७८.३९॥
७८.४०/१अपरोऽपि सुतश्चासीद् असमञ्जा इति श्रुतः ।
७८.४०/२स तु बालांस्तथा पौरान् मौर्ख्यात् क्षिपति चाम्भसि ॥ ७८.४०॥
७८.४१/१सगरोऽप्यथ विज्ञप्तः पौरैः सम्मिलितैस्तदा ।
७८.४१/२दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धोऽब्रवीन् नृपः ॥ ७८.४१॥
७८.४२/१स्वान् अमात्यांस्तदा राजा देशत्यागं करोत्वयम् ।
७८.४२/२असमञ्जाः क्षत्रधर्म+ ।त्यागी वै बालघातकः ॥ ७८.४२॥
७८.४३/१सगरस्य तु तद् वाक्यं श्रुत्वामात्यास्त्वरान्विताः ।
७८.४३/२तत्यजुर्नृपतेः पुत्रमसमञ्जा गतो वनम् ॥ ७८.४३॥
७८.४४/१सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले ।
७८.४४/२एकोऽपि च वनं प्राप्त इदानीं का गतिर्मम ॥ ७८.४४॥
७८.४५/१अंशुमान् इति विख्यातः पुत्रस्तस्यासमञ्जसः ।
७८.४५/२आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत् ॥ ७८.४५॥
७८.४६/१कपिलं च समाराध्य अंशुमान् अपि बालकः ।
७८.४६/२सगराय हयं प्रादात् ततः पूर्णोऽभवत् क्रतुः ॥ ७८.४६॥
७८.४७/१तस्यापि पुत्रस्तेजस्वी दिलीप इति धार्मिकः ।
७८.४७/२तस्यापि पुत्रो मतिमान् भगीरथ इति श्रुतः ॥ ७८.४७॥
७८.४८/१पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः ।
७८.४८/२सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः ॥ ७८.४८॥
७८.४९/१सागराणां तु सर्वेषां निष्कृतिस्तु कथं भवेत् ।
७८.४९/२भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक ॥ ७८.४९॥
७८.५०/१तस्य तद् वचनं श्रुत्वा बालः प्रायाद् रसातलम् ।
७८.५०/२कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत् ॥ ७८.५०॥
७८.५१/१स मुनिस्तु चिरं ध्यात्वा तपसाराध्य शंकरम् ।
७८.५१/२जटाजलेन स्वपितृन् आप्लाव्य नृपसत्तम ॥ ७८.५१॥
७८.५२/१ततः कृतार्थो भविता त्वं च ते पितरस्तथा ।
७८.५२/२तथा करोमीति मुनिं प्रणम्य पुनरब्रवीत् ॥ ७८.५२॥
७८.५३/१क्व गच्छेऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद् वद ॥ ७८.५३॥
७८.५४/१कपिल उवाच । कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् ।
७८.५४/२तपः कुरु यथाशक्ति ततश्चेप्सितमाप्स्यसि ॥ ७८.५४॥
७८.५५/१ब्रह्मोवाच । तच्छ्रुत्वा स मुनेर्वाक्यं मुनिं नत्वा त्वगान् नगम् ।
७८.५५/२कैलासं स शुचिर्भूत्वा बालो बालक्रियान्वितः ।
७८.५५/३तपसे निश्चयं कृत्वा उवाच स भगीरथः ॥ ७८.५५॥
७८.५६/१भगीरथ उवाच । बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
७८.५६/२नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥ ७८.५६॥
७८.५७/१वाग्भिर्मनोभिः कृतिभिः कदाचिन् ।
७८.५७/२ममोपकुर्वन्ति हिते रता ये ।
७८.५७/३तेभ्यो हितार्थं त्विह चामरेश ।
७८.५७/४सोमं नमस्यामि सुरादिपूज्यम् ॥ ७८.५७॥
७८.५८/१उत्पादितो यैरभिवर्धितश्च ।
७८.५८/२समानगोत्रश्च समानधर्मा ।
७८.५८/३तेषामभीष्टानि शिवः करोतु ।
७८.५८/४बालेन्दुमौलिं प्रणतोऽस्मि नित्यम् ॥ ७८.५८॥
७८.५९/१ब्रह्मोवाच । एवं तु ब्रुवतस्तस्य पुरस्ताद् अभवच्छिवः ।
७८.५९/२वरेण च्छन्दयानो वै भगीरथमुवाच ह ॥ ७८.५९॥
७८.६०/१शिव उवाच । यन् न साध्यं सुरगणैर्देयं तत् ते मया ध्रुवम् ।
७८.६०/२वदस्व निर्भयो भूत्वा भगीरथ महामते ॥ ७८.६०॥
७८.६१/१ब्रह्मोवाच । भगीरथः प्रणम्येशं हृष्टः प्रोवाच
शंकरम् ॥ ७८.६१॥
७८.६२/१भगीरथ उवाच । जटास्थितां पितृणां मे पावनाय सरिद्वराम् ।
७८.६२/२तामेव देहि देवेश सर्वमाप्तं ततो भवेत् ॥ ७८.६२॥
७८.६३/१ब्रह्मोवाच । महेशोऽपि विहस्याथ भगीरथमुवाच ह ॥ ७८.६३॥
७८.६४/१शिव उवाच । दत्ता मयेयं ते पुत्र पुनस्तां स्तुहि सुव्रत ॥ ७८.६४॥
७८.६५/१ब्रह्मोवाच । तद् देववचनं श्रुत्वा तदर्थं तु तपो महत् ।
७८.६५/२स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः ॥ ७८.६५॥
७८.६६/१तस्या अपि प्रसादं च प्राप्य बालोऽप्यबालवत् ।
७८.६६/२गङ्गां महेश्वरात् प्राप्तामादायागाद् रसातलम् ॥ ७८.६६॥
७८.६७/१न्यवेदयत् स मुनये कपिलाय महात्मने ।
७८.६७/२यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः ॥ ७८.६७॥
७८.६८/१प्रदक्षिणमथावर्त्य कृताञ्जलिपुटोऽब्रवीत् ॥ ७८.६८॥
७८.६९/१भगीरथ उवाच । देवि मे पितरः शापात् कपिलस्य महामुनेः ।
७८.६९/२प्राप्तास्ते विगतिं मातस्तस्मात् तान् पातुमर्हसि ॥ ७८.६९॥
७८.७०/१ब्रह्मोवाच । तथेत्युक्त्वा सुरनदी सर्वेषामुपकारिका ।
७८.७०/२लोकानामुपकारार्थं पितृणां पावनाय च ॥ ७८.७०॥
७८.७१/१अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः ।
७८.७१/२स्मरणाद् एव पापानां नाशाय सुरनिम्नगा ॥ ७८.७१॥
७८.७२/१भगीरथोदितं चक्रे रसातलतले स्थितान् ।
७८.७२/२भस्मीभूतान् नृपसुतान् सागरांश्च विशेषतः ॥ ७८.७२॥
७८.७३/१विनिर्दग्धान् अथाप्लाव्य खातपूरमथाकरोत् ।
७८.७३/२ततो मेरुं समाप्लाव्य स्थितां बालोऽब्रवीन् नृपः ॥ ७८.७३॥
७८.७४/१कर्मभूमौ त्वया भाव्यं तथेत्यागाद् धिमालयम् ।
७८.७४/२हिमवत्पर्वतात् पुण्याद् भारतं वर्षमभ्यगात् ॥ ७८.७४॥
७८.७५/१तन्मध्यतः पुण्यनदी प्रायात् पूर्वार्णवं प्रति ।
७८.७५/२एवमेषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने ॥ ७८.७५॥
७८.७६/१माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी ।
७८.७६/२भागीरथी देवनदी हिमवच्छिखराश्रया ॥ ७८.७६॥
७८.७७/१महेश्वरजटावारि एवं द्वैविध्यमागतम् ।
७८.७७/२विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते ।
७८.७७/३उत्तरे सापि विन्ध्यस्य भागीरथ्यभिधीयते ॥ ७८.७७॥
७९.१/१नारद उवाच । न मनस्तृप्तिमाधत्ते कथाः शृण्वत् त्वयेरिताः ।
७९.१/२पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ ७९.१॥
७९.२/१क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद ।
७९.२/२पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥ ७९.२॥
७९.३/१ब्रह्मोवाच । तीर्थानां च पृथग् भावं फलं माहात्म्यमेव च ।
७९.३/२सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥ ७९.३॥
७९.४/१तथापि किंचिद् वक्ष्यामि शृणु नारद यत्नतः ।
७९.४/२यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥ ७९.४॥
७९.५/१तानि वक्ष्यामि संक्षेपान् नमस्कृत्वा त्रिलोचनम् ।
७९.५/२यत्रासौ भगवान् आसीत् प्रत्यक्षस्त्र्यम्बको मुने ॥ ७९.५॥
७९.६/१त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम् ।
७९.६/२वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ७९.६॥
७९.७/१तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाभवत् ।
७९.७/२पुरा देवान् पराभूय यज्ञमादाय राक्षसः ॥ ७९.७॥
७९.८/१रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः ।
७९.८/२यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन् मही ॥ ७९.८॥
७९.९/१नायं लोकोऽस्ति न परो यज्ञे नष्ट इतीत्वराः ।
७९.९/२सुरास्तमेव विविशू रसातलमनुद्विषम् ॥ ७९.९॥
७९.१०/१नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः ।
७९.१०/२विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥ ७९.१०॥
७९.११/१राक्षसस्य तु तत् कर्म यज्ञभ्रंशमशेषतः ।
७९.११/२ततः प्रोवाच भगवान् वाराहं वपुरास्थितः ॥ ७९.११॥
७९.१२/१शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम् ।
७९.१२/२आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान् ॥ ७९.१२॥
७९.१३/१स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः ।
७९.१३/२येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥ ७९.१३॥
७९.१४/१जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् ।
७९.१४/२स वराहवपुः श्रीमान् रसातलनिवासिनः ॥ ७९.१४॥
७९.१५/१राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् ।
७९.१५/२वाराहरूपी भगवान् मखमादाय यज्ञभुक् ॥ ७९.१५॥
७९.१६/१येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् ।
७९.१६/२मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥ ७९.१६॥
७९.१७/१तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः ।
७९.१७/२पथस्तस्माद् विनिःसृत्य गङ्गास्रवणमभ्यगात् ॥ ७९.१७॥
७९.१८/१प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद ।
७९.१८/२गङ्गाम्भसा तत्र कुण्डं वाराहमभवत् ततः ॥ ७९.१८॥
७९.१९/१मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः ।
७९.१९/२दत्तवांस्त्रिदशश्रेष्ठो मुखाद् यज्ञोऽभ्यजायत ॥ ७९.१९॥
७९.२०/१ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते ।
७९.२०/२वाराहरूपमभवद् एवं वै कारणान्तरात् ॥ ७९.२०॥
७९.२१/१तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम् ।
७९.२१/२तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ७९.२१॥
७९.२२/१तत्र स्थितोऽपि यः कश्चित् पितृन् स्मरति पुण्यकृत् ।
७९.२२/२विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः ॥ ७९.२२॥
८०.१/१ब्रह्मोवाच । कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः ।
८०.१/२तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः ॥ ८०.१॥
८०.२/१कुशावर्तमिति ख्यातं नराणां सर्वकामदम् ।
८०.२/२कुशेनावर्तितं यत्र गौतमेन महात्मना ॥ ८०.२॥
८०.३/१कुशेनावर्तयित्वा तु आनयामास तां मुनिः ।
८०.३/२तत्र स्नानं च दानं च पितृणां तृप्तिदायकम् ॥ ८०.३॥
८०.४/१नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् ।
८०.४/२तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः ॥ ८०.४॥
८०.५/१सर्वं तद् अक्षयं विद्यात् पितृणां तृप्तिदायकम् ।
८०.५/२विश्रुतं त्रिषु लोकेषु कपोतं तीर्थमुत्तमम् ॥ ८०.५॥
८०.६/१तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् ।
८०.६/२तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः ॥ ८०.६॥
८०.७/१हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् ।
८०.७/२एवम्भूतः स पापात्मा क्रोधनोऽनृतभाषणः ॥ ८०.७॥
८०.८/१भीषणाकृतिरत्युग्रो नीलाक्षो ह्रस्वबाहुकः ।
८०.८/२दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः ॥ ८०.८॥
८०.९/१ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः ।
८०.९/२पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥ ८०.९॥
८०.१०/१तस्य भार्या तथाभूता अपत्यान्यपि नारद ।
८०.१०/२तया तु प्रेर्यमाणोऽसौ विवेश गहनं वनम् ॥ ८०.१०॥
८०.११/१स जघान मृगान् पापः पक्षिणो बहुरूपिणः ।
८०.११/२पञ्जरे प्राक्षिपत् कांश्चिज्जीवमानांस्तथेतरान् ॥ ८०.११॥
८०.१२/१क्षुधया परितप्ताङ्गो विह्वलस्तृषया तथा ।
८०.१२/२भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥ ८०.१२॥
८०.१३/१ततोऽपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे ।
८०.१३/२क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा ॥ ८०.१३॥
८०.१४/१ववौ वायुः साश्मवर्षो वारिधारातिभीषणः ।
८०.१४/२स गच्छंल्लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥ ८०.१४॥
८०.१५/१जलं स्थलं गर्तमथो पन्थानमथवा दिशः ।
८०.१५/२न बुबोध तदा पापः श्रान्तः शरणमप्यथ ॥ ८०.१५॥
८०.१६/१क्व गच्छामि क्व तिष्ठेयं किं करोमीत्यचिन्तयत् ।
८०.१६/२सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः ॥ ८०.१६॥
८०.१७/१ममाप्यन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् ।
८०.१७/२त्रातारं नैव पश्यामि शिलां वा वृक्षमन्तिके ॥ ८०.१७॥
८०.१८/१एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके ।
८०.१८/२वने वनस्पतिमिव नक्षत्राणां यथात्रिजम् ॥ ८०.१८॥
८०.१९/१मृगाणां च यथा सिंहमाश्रमाणां गृहाधिपम् ।
८०.१९/२इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ ८०.१९॥
८०.२०/१श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् ।
८०.२०/२तमाश्रित्योपविष्टोऽभूत् क्लिन्नवासा स लुब्धकः ॥ ८०.२०॥
८०.२१/१स्मरन् भार्यामपत्यानि जीवेयुरथवा न वा ।
८०.२१/२एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥ ८०.२१॥
८०.२२/१तमेव नगमाश्रित्य कपोतो भार्यया सह ।
८०.२२/२पुत्रपौत्रैः परिवृतो ह्यास्ते तत्र नगोत्तमे ॥ ८०.२२॥
८०.२३/१सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च ।
८०.२३/२बहवो वत्सरा याता वसतस्तस्य पक्षिणः ॥ ८०.२३॥
८०.२४/१पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि ।
८०.२४/२कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥ ८०.२४॥
८०.२५/१भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः ।
८०.२५/२तस्मिन् दिने दैववशात् कपोतश्च कपोतकी ॥ ८०.२५॥
८०.२६/१भक्ष्यार्थं तु उभौ यातौ कपोतो नगमभ्यगात् ।
८०.२६/२सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते ॥ ८०.२६॥
८०.२७/१गृहीता लुब्धकेनाथ जीवमानेव वर्तते ।
८०.२७/२कपोतकोऽप्यपत्यानि मातृहीनान्युदीक्ष्य च ॥ ८०.२७॥
८०.२८/१वर्षं च भीषणं प्राप्तमस्तं यातो दिवाकरः ।
८०.२८/२स्वकोटरं तया हीनमालोक्य विललाप सः ॥ ८०.२८॥
८०.२९/१तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् ।
८०.२९/२अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥ ८०.२९॥
८०.३०/१नाद्याप्यायाति कल्याणी मम हर्षविवर्धिनी ।
८०.३०/२मम धर्मस्य जननी मम देहस्य चेश्वरी ॥ ८०.३०॥
८०.३१/१धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी ।
८०.३१/२तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥ ८०.३१॥
८०.३२/१सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा ।
८०.३२/२नाद्याप्यायाति कल्याणी सम्प्रयातेऽपि भास्करे ॥ ८०.३२॥
८०.३३/१न जानाति व्रतं मन्त्रं दैवं धर्मार्थमेव च ।
८०.३३/२पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥ ८०.३३॥
८०.३४/१नाद्याप्यायाति कल्याणी किं करोमि क्व यामि वा ।
८०.३४/२किं मे गृहं काननं च तया हीनं हि दृश्यते ॥ ८०.३४॥
८०.३५/१तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् ।
८०.३५/२नाद्याप्यायाति मे कान्ता यया गृहमुदीरितम् ॥ ८०.३५॥
८०.३६/१विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् ।
८०.३६/२किं कुर्वन्तु त्वपत्यानि लुप्तधर्मस्त्वहं पुनः ॥ ८०.३६॥
८०.३७/१एवं विलपतस्तस्य भर्तुर्वाक्यं निशम्य सा ।
८०.३७/२पञ्जरस्थैव सा वाक्यं भर्तारमिदमब्रवीत् ॥ ८०.३७॥
८०.३८/१कपोतक्युवाच । अत्राहमस्मि बद्धैव विवशास्मि खगोत्तम ।
८०.३८/२आनीताहं लुब्धकेन बद्धा पाशैर्महामते ॥ ८०.३८॥
८०.३९/१धन्यास्म्यनुगृहीतास्मि पतिर्वक्ति गुणान् मम ।
८०.३९/२सतो वाप्यसतो वापि कृतार्थाहं न संशयः ॥ ८०.३९॥
८०.४०/१तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।
८०.४०/२विपर्यये तु नारीणामवश्यं नाशमाप्नुयात् ॥ ८०.४०॥
८०.४१/१त्वं दैवं त्वं प्रभुर्मह्यं त्वं सुहृत् त्वं परायणम् ।
८०.४१/२त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस्त्वमेव च ॥ ८०.४१॥
८०.४३/१मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु ।
८०.४३/२त्वत्प्रसादाच्च भुक्ता हि भोगाश्च विविधा मया ।
८०.४३/३अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥ ८०.४३॥
८०.४४/१ब्रह्मोवाच । इति श्रुत्वा प्रियावाक्यमुत्ततार नगोत्तमात् ।
८०.४४/२यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम् ॥ ८०.४४॥
८०.४५/१तामागत्य प्रियां दृष्ट्वा मृतवच्चापि लुब्धकम् ।
८०.४५/२मोचयामीति तामाह निश्चेष्टो लुब्धकोऽधुना ॥ ८०.४५॥
८०.४६/१मा मुञ्चस्व महाभाग ज्ञात्वा सम्बन्धमस्थिरम् ।
८०.४६/२लुब्धानां खेचरा ह्यन्नं जीवो जीवस्य चाशनम् ॥ ८०.४६॥
८०.४७/१नापराधं स्मराम्यस्य धर्मबुद्धिं स्थिरां कुरु ।
८०.४७/२गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ ८०.४७॥
८०.४८/१पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ।
८०.४८/२अभ्यागतमनुप्राप्तं वचनैस्तोषयन्ति ये ॥ ८०.४८॥
८०.४९/१तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् ।
८०.४९/२तस्यान्नस्य प्रदानेन शक्रस्तृप्तिमवाप्नुयात् ॥ ८०.४९॥
८०.५०/१पितरः पादशौचेन अन्नाद्येन प्रजापतिः ।
८०.५०/२तस्योपचाराद् वै लक्ष्मीर्विष्णुना प्रीतिमाप्नुयात् ॥ ८०.५०॥
८०.५१/१शयने सर्वदेवास्तु तस्मात् पूज्यतमोऽतिथिः ।
८०.५१/२अभ्यागतमनुश्रान्तं सूर्योढं गृहमागतम् ।
८०.५१/३तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्यसौ ॥ ८०.५१॥
८०.५२/१अभ्यागतं श्रान्तमनुव्रजन्ति ।
८०.५२/२देवाश्च सर्वे पितरोऽग्नयश्च ।
८०.५२/३तस्मिन् हि तृप्ते मुदमाप्नुवन्ति ।
८०.५२/४गते निराशेऽपि च ते निराशाः ॥ ८०.५२॥
८०.५३/१तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज ।
८०.५३/२कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥ ८०.५३॥
८०.५४/१उपकारोऽपकारश्च प्रवराविति सम्मतौ ।
८०.५४/२उपकारिषु सर्वोऽपि करोत्युपकृतिं पुनः ॥ ८०.५४॥
८०.५५/१अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः ॥ ८०.५५॥
८०.५६/१कपोत उवाच । आवयोरनुरूपं च त्वयोक्तं साधु मन्यसे ।
८०.५६/२किंतु वक्तव्यमप्यस्ति तच्छृणुष्व वरानने ॥ ८०.५६॥
८०.५७/१सहस्रं भरते कश्चिच्छतमन्यो दशापरः ।
८०.५७/२आत्मानं च सुखेनान्यो वयं कष्टोदरम्भराः ॥ ८०.५७॥
८०.५८/१गर्तधान्यधनाः केचित् कुशूलधनिनोऽपरे ।
८०.५८/२घटक्षिप्तधनाः केचिच्चञ्चुक्षिप्तधना वयम् ॥ ८०.५८॥
८०.५९/१पूजयामि कथं श्रान्तमभ्यागतमिमं शुभे ॥ ८०.५९॥
८०.६०/१कपोत्युवाच । अग्निरापः शुभा वाणी तृणकाष्ठादिकं च यत् ।
८०.६०/२एतद् अप्यर्थिने देयं शीतार्तो लुब्धकस्त्वयम् ॥ ८०.६०॥
८०.६१/१ब्रह्मोवाच । एतच्छ्रुत्वा प्रियावाक्यं वृक्षमारुह्य पक्षिराट् ।
८०.६१/२आलोकयामास तदा वह्निं दूरं ददर्श ह ॥ ८०.६१॥
८०.६२/१स तु गत्वा वह्निदेशं चञ्चुनोल्मुकमाहरत् ।
८०.६२/२पुरोऽग्निं ज्वालयामास लुब्धकस्य कपोतकः ॥ ८०.६२॥
८०.६३/१शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः ।
८०.६३/२अग्नौ निक्षेपयामास निशीथे स कपोतराट् ॥ ८०.६३॥
८०.६४/१तमग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः ।
८०.६४/२अवशानि स्वकाङ्गानि प्रताप्य सुखमाप्तवान् ॥ ८०.६४॥
८०.६५/१क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी ।
८०.६५/२मा मुञ्चस्व महाभाग इति भर्तारमब्रवीत् ॥ ८०.६५॥
८०.६६/१स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् ।
८०.६६/२इष्टातिथीनां ये लोकास्तांस्त्वं प्राप्नुहि सुव्रत ॥ ८०.६६॥
८०.६७/१कपोत उवाच । मयि तिष्ठति नैवायं तव धर्मो विधीयते ।
८०.६७/२इष्टातिथिर्भवामीह अनुजानीहि मां शुभे ॥ ८०.६७॥
८०.६८/१ब्रह्मोवाच । इत्युक्त्वाग्निं त्रिरावर्त्य स्मरन् देवं चतुर्भुजम् ।
८०.६८/२विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥ ८०.६८॥
८०.६९/१यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत् ।
८०.६९/२तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यमब्रवीत् ॥ ८०.६९॥
८०.७०/१लुब्धक उवाच । अहो मानुषदेहस्य धिग् जीवितमिदं मम ।
८०.७०/२यद् इदं पक्षिराजेन मदर्थे साहसं कृतम् ॥ ८०.७०॥
८०.७१/१ब्रह्मोवाच । एवं ब्रुवन्तं तं लुब्धं पक्षिणी
वाक्यमब्रवीत् ॥ ८०.७१॥
८०.७२/१कपोतक्युवाच । मां त्वं मुञ्च महाभाग दूरं यात्येष
मे पतिः ॥ ८०.७२॥
८०.७३/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् ।
८०.७३/२लुब्धको मोचयामास तरसा भीतवत् तदा ॥ ८०.७३॥
८०.७४/१सापि प्रदक्षिणं कृत्वा पतिमग्निं तदा जगौ ॥ ८०.७४॥
८०.७५/१कपोत्युवाच । स्त्रीणामयं परो धर्मो यद् भर्तुरनुवेशनम् ।
८०.७५/२वेदे च विहितो मार्गः सर्वलोकेषु पूजितः ॥ ८०.७५॥
८०.७६/१व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् ।
८०.७६/२एवं त्वनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥ ८०.७६॥
८०.७७/१तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे ।
८०.७७/२तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ ८०.७७॥
८०.७८/१नमस्कृत्वा भुवं देवान् गङ्गां चापि वनस्पतीन् ।
८०.७८/२आश्वास्य तान्यपत्यानि लुब्धकं वाक्यमब्रवीत् ॥ ८०.७८॥
८०.७९/१कपोत्युवाच । त्वत्प्रसादान् महाभाग उपपन्नं ममेदृशम् ।
८०.७९/२अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥ ८०.७९॥
८०.८०/१ब्रह्मोवाच । इत्युक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् ।
८०.८०/२प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥ ८०.८०॥
८०.८१/१गगने सूर्यसंकाशं विमानमतिशोभनम् ।
८०.८१/२तदारूढौ सुरनिभौ दम्पती ददृशे ततः ॥ ८०.८१॥
८०.८२/१हर्षेण प्रोचतुरुभौ लुब्धकं विस्मयान्वितम् ॥ ८०.८२॥
८०.८३/१दम्पती ऊचतुः । गच्छावस्त्रिदशस्थानमापृष्टोऽसि महामते ।
८०.८३/२आवयोः स्वर्गसोपानमतिथिस्त्वं नमोऽस्तु ते ॥ ८०.८३॥
८०.८४/१ब्रह्मोवाच । विमानवरमारूढौ तौ दृष्ट्वा लुब्धकोऽपि सः ।
८०.८४/२सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिरभाषत ॥ ८०.८४॥
८०.८५/१लुब्धक उवाच । न त्यक्तव्यो महाभागौ देयं किंचिद् अजानते ।
८०.८५/२अहमत्रातिथिर्मान्यो निष्कृतिं वक्तुमर्हथः ॥ ८०.८५॥
८०.८६/१दम्पती ऊचतुः । गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय ।
८०.८६/२तत्रैवाप्लवनात् पक्षं सर्वपापैर्विमोक्ष्यसे ॥ ८०.८६॥
८०.८७/१मुक्तपापः पुनस्तत्र गङ्गायामवगाहने ।
८०.८७/२अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥ ८०.८७॥
८०.८८/१सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसम्भुवि ।
८०.८८/२पुनराप्लवनाद् एव त्यक्त्वा देहं मलीमसम् ॥ ८०.८८॥
८०.८९/१विमानवरमारूढः स्वर्गं गन्तास्यसंशयम् ॥ ८०.८९॥
८०.९०/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः ।
८०.९०/२विमानवरमारूढो दिव्यरूपधरोऽभवत् ॥ ८०.९०॥
८०.९१/१दिव्यमाल्याम्बरधरः पूज्यमानोऽप्सरोगणैः ।
८०.९१/२कपोतश्च कपोती च तृतीयो लुब्धकस्तथा ।
८०.९१/३गङ्गायाश्च प्रभावेण सर्वे वै दिवमाक्रमन् ॥ ८०.९१॥
८०.९२/१ततः प्रभृति तत् तीर्थं कापोतमिति विश्रुतम् ।
८०.९२/२तत्र स्नानं च दानं च पितृपूजनमेव च ॥ ८०.९२॥
८०.९३/१जपयज्ञादिकं कर्म तद् आनन्त्याय कल्पते ॥ ८०.९३॥
८१.१/१ब्रह्मोवाच । कार्त्तिकेयं परं तीर्थं कौमारमिति विश्रुतम् ।
८१.१/२यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत् ॥ ८१.१॥
८१.२/१निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे ।
८१.२/२कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥ ८१.२॥
८१.३/१यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान् ।
८१.३/२ममाज्ञया प्रीतमनाः पितुश्चैव प्रसादतः ॥ ८१.३॥
८१.४/१एवमुक्तः स वै मात्रा विशाखो देवतास्त्रियः ।
८१.४/२यथासुखं बलाद् रेमे देवपत्न्योऽपि रेमिरे ॥ ८१.४॥
८१.५/१ततः सम्भुज्यमानासु देवपत्नीषु नारद ।
८१.५/२नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः ॥ ८१.५॥
८१.६/१ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत् ।
८१.६/२असकृद् वार्यमाणोऽपि मात्रा देवैः स शक्तिधृक् ॥ ८१.६॥
८१.७/१नैवासावकरोद् वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः ।
८१.७/२अभिशापभयाद् भीता पार्वती पर्यचिन्तयत् ॥ ८१.७॥
८१.८/१पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये ।
८१.८/२देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः ॥ ८१.८॥
८१.९/१यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी ।
८१.९/२तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती ॥ ८१.९॥
८१.१०/१इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः ।
८१.१०/२यावत् पश्यति तस्यां तु मातृरूपमपश्यत ॥ ८१.१०॥
८१.११/१तामपास्य नमस्याथ पुनरन्यामथाह्वयत् ।
८१.११/२तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान् ॥ ८१.११॥
८१.१२/१एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत् ।
८१.१२/२इति संचिन्त्य गाङ्गेयो वैराग्यमगमत् तदा ॥ ८१.१२॥
८१.१३/१स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् ।
८१.१३/२निवार्यश्चेद् अहं भोगात् किंतु पूर्वं प्रवर्तितः ॥ ८१.१३॥
८१.१४/१तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्विति ।
८१.१४/२लज्जया परया युक्तो गौतमीमगमत् तदा ॥ ८१.१४॥
८१.१५/१इयं च मातृरूपा मे शृणोतु मम भाषितम् ।
८१.१५/२इतः स्त्रीनामधेयं यन् मम मातृसमं मतम् ॥ ८१.१५॥
८१.१६/१एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः ।
८१.१६/२पुत्रं निवारयामास वृत्तमित्यब्रवीद् गुरुः ॥ ८१.१६॥
८१.१७/१ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् ।
८१.१७/२कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत् ॥ ८१.१७॥
८१.१८/१स्कन्द उवाच । सेनापतिः सुरपतिस्तव पुत्रोऽहमित्यपि ।
८१.१८/२अलमेतेन देवेश किं वरैः सुरपूजित ॥ ८१.१८॥
८१.१९/१अथवा दातुकामोऽसि लोकानां हितकाम्यया ।
८१.१९/२याचेऽहं नात्मना देव तद् अनुज्ञातुमर्हसि ॥ ८१.१९॥
८१.२०/१महापातकिनः केचिद् गुरुदाराभिगामिनः ।
८१.२०/२अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥ ८१.२०॥
८१.२१/१आप्नुवन्तूत्तमां जातिं तिर्यञ्चोऽपि सुरेश्वर ।
८१.२१/२कुरूपो रूपसम्पत्तिमत्र स्नानाद् अवाप्नुयात् ॥ ८१.२१॥
८१.२२/१ब्रह्मोवाच । एवमस्त्विति तं शम्भुः प्रत्यनन्दत् सुतेरितम् ।
८१.२२/२ततः प्रभृति तत् तीर्थं कार्त्तिकेयमिति श्रुतम् ।
८१.२२/३तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ८१.२२॥
८२.१/१ब्रह्मोवाच । यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् ।
८२.१/२तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ ८२.१॥
८२.२/१पुरा तारकनाशाय भवरेतोऽपिबत् कविः ।
८२.२/२रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्योऽस्पृहन् मुने ॥ ८२.२॥
८२.३/१सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्वरुन्धतीम् ।
८२.३/२तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः ॥ ८२.३॥
८२.४/१तप्यमानास्तु शोभिष्ठा ऋतुस्नातास्तु ता मुने ।
८२.४/२किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥ ८२.४॥
८२.५/१इत्युक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् ।
८२.५/२ताभ्यस्ते निःसृता गर्भाः फेनरूपास्तदाम्भसि ॥ ८२.५॥
८२.६/१अम्भसा त्वेकतां प्राप्ता वायुना सर्व एव हि ।
८२.६/२एकरूपस्तदा ताभ्यः षण्मुखः समजायत ॥ ८२.६॥
८२.७/१स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः ।
८२.७/२तासां विकृतरूपाणि दृष्ट्वा ते ऋषयोऽब्रुवन् ॥ ८२.७॥
८२.८/१गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर्न युज्यते ।
८२.८/२स्त्रीणामिति ततो वत्स निरस्ताः पतिभिस्तु ताः ॥ ८२.८॥
८२.९/१ततो दुःखं समाविष्टास्त्यक्ताः स्वपतिभिश्च षट् ।
८२.९/२ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥ ८२.९॥
८२.१०/१गाङ्गेयोऽग्निभवश्चेति विख्यातस्तारकान्तकः ।
८२.१०/२तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति ॥ ८२.१०॥
८२.११/१देवर्षेर्वचनाद् एव समभ्येत्य च षण्मुखम् ।
८२.११/२कृत्तिकाः स्वयमेवैतद् यथावृत्तं न्यवेदयत् ॥ ८२.११॥
८२.१२/१ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयोऽनुमन्य च ।
८२.१२/२गौतमीं यान्तु सर्वाश्च स्नात्वापूज्य महेश्वरम् ॥ ८२.१२॥
८२.१३/१एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् ।
८२.१३/२तथेत्युक्त्वा कृत्तिकाश्च स्नात्वा गङ्गां च गौतमीम् ॥ ८२.१३॥
८२.१४/१देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् ।
८२.१४/२देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥ ८२.१४॥
८२.१५/१ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थमुच्यते ।
८२.१५/२कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानमाचरेत् ॥ ८२.१५॥
८२.१६/१सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः ।
८२.१६/२तत्तीर्थस्मरणं वापि यः करोति शृणोति च ।
८२.१६/३सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥ ८२.१६॥
८३.१/१ब्रह्मोवाच । दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने ।
८३.१/२यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ ८३.१॥
८३.२/१विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः ।
८३.२/२तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः ॥ ८३.२॥
८३.३/१पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः ।
८३.३/२तमपृच्छन् महाबाहुर्भौवनः सार्वभौवनः ॥ ८३.३॥
८३.४/१यक्ष्येऽहं हयमेधैश्च युगपद् दशभिर्मुने ।
८३.४/२इत्यपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति ॥ ८३.४॥
८३.५/१सोऽवदद् देवयजनं तत्र तत्र नृपोत्तम ।
८३.५/२यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥ ८३.५॥
८३.६/१तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले ।
८३.६/२युगपद् दशमेधानि प्रवृत्तानि पुरोधसा ॥ ८३.६॥
८३.७/१पूर्णतां नाययुस्तानि दृष्ट्वा चिन्तापरो नृपः ।
८३.७/२विहाय देवयजनं पुनरन्यत्र तान् क्रतून् ॥ ८३.७॥
८३.८/१उपाक्रामत् तथा तत्र विघ्नदोषास्तमाययुः ।
८३.८/२दृष्ट्वापूर्णांस्ततो यज्ञान् राजा गुरुमभाषत ॥ ८३.८॥
८३.९/१राजोवाच । देशदोषात् कालदोषान् मम दोषात् तवापि वा ।
८३.९/२पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥ ८३.९॥
८३.१०/१ब्रह्मोवाच । ततश्च दुःखितो राजा कश्यपेन पुरोधसा ।
८३.१०/२गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः ॥ ८३.१०॥
८३.११/१कश्यपभौवनावूचतुः । भगवन् युगपत् कार्याण्यश्वमेधानि मानद ।
८३.११/२दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद ॥ ८३.११॥
८३.१२/१ब्रह्मोवाच । ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा ।
८३.१२/२अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥ ८३.१२॥
८३.१३/१भौवनोऽपि महाप्राज्ञः कश्यपेन महात्मना ।
८३.१३/२आगत्य मामब्रवीच्च गुरुं देशादिकं च यत् ॥ ८३.१३॥
८३.१४/१ततोऽहमब्रवं पुत्र भौवनं कश्यपं तथा ।
८३.१४/२गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥ ८३.१४॥
८३.१५/१अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः ।
८३.१५/२गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः ॥ ८३.१५॥
८३.१६/१एकेन हयमेधेन तत्र स्नानेन वा पुनः ।
८३.१६/२सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः ॥ ८३.१६॥
८३.१७/१तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात् ।
८३.१७/२कश्यपेन सहायेन हयमेधाय दीक्षितः ॥ ८३.१७॥
८३.१८/१ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ ।
८३.१८/२सम्पूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः ॥ ८३.१८॥
८३.१९/१ततोऽन्तरिक्षे वाग् उच्चैरुवाच नृपसत्तमम् ।
८३.१९/२पूजयित्वा स्थितं विप्रान् ऋत्विजोऽथ सदस्पतीन् ॥ ८३.१९॥
८३.२०/१आकाशवाग् उवाच । पुरोधसे कश्यपाय सशैलवनकाननाम् ।
८३.२०/२पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥ ८३.२०॥
८३.२१/१भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् ।
८३.२१/२नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥ ८३.२१॥
८३.२२/१विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने ।
८३.२२/२त्वया तु हयमेधोऽयं कृतः सबहुदक्षिणः ।
८३.२२/३कृतकृत्योऽसि भद्रं ते नात्र कार्या विचारणा ॥ ८३.२२॥
८३.२३/१ब्रह्मोवाच । तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥ ८३.२३॥
८३.२४/१पृथिव्युवाच । विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः ।
८३.२४/२निमज्जेऽहं सलिलस्य मध्ये तस्मान् न दीयताम् ॥ ८३.२४॥
८३.२५/१ब्रह्मोवाच । ततश्च भौवनो भीतः किं देयमिति चाब्रवीत् ।
८३.२५/२पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम् ॥ ८३.२५॥
८३.२६/१भूम्युवाच । तिला गावो धनं धान्यं यत् किंचिद् गौतमीतटे ।
८३.२६/२सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि ॥ ८३.२६॥
८३.२७/१गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः ।
८३.२७/२तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥ ८३.२७॥
८३.२८/१ब्रह्मोवाच । तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः ।
८३.२८/२तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात् सुविस्तरम् ॥ ८३.२८॥
८३.२९/१ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः ।
८३.२९/२दशानामश्वमेधानां फलं स्नानाद् अवाप्यते ॥ ८३.२९॥
८४.१/१ब्रह्मोवाच । पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः ।
८४.१/२तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ ८४.१॥
८४.२/१गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद ।
८४.२/२तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा ॥ ८४.२॥
८४.३/१अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी ।
८४.३/२केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥ ८४.३॥
८४.४/१सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा ।
८४.४/२उत्तमाङ्गेन मार्जारी साप्यास्तेऽञ्जनपर्वते ॥ ८४.४॥
८४.५/१दक्षिणार्णवमभ्यागात् केसरी लोकविश्रुतः ।
८४.५/२एतस्मिन्न् अन्तरेऽगस्त्योऽञ्जनं पर्वतमभ्यगात् ॥ ८४.५॥
८४.६/१अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् ।
८४.६/२पूजयामासतुरुभे यथान्यायं यथासुखम् ॥ ८४.६॥
८४.७/१ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः ।
८४.७/२ते आहतुरुभेऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥ ८४.७॥
८४.८/१सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ ।
८४.८/२तथेत्युक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥ ८४.८॥
८४.९/१ततः कदाचित् ते काले अञ्जना चाद्रिका तथा ।
८४.९/२गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥ ८४.९॥
८४.१०/१वायुश्च निरृतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ ।
८४.१०/२कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः ॥ ८४.१०॥
८४.११/१भार्ये भवेतामुभयोरावां देवौ वरप्रदौ ।
८४.११/२ते अप्यूचतुरस्त्वेतद् रेमाते गिरिमूर्धनि ॥ ८४.११॥
८४.१२/१अञ्जनायां तथा वायोर्हनुमान् समजायत ।
८४.१२/२अद्रिकायां च निरृतेरद्रिर्नाम पिशाचराट् ॥ ८४.१२॥
८४.१३/१पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात् ।
८४.१३/२आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम् ॥ ८४.१३॥
८४.१४/१शापाच्छचीपतेस्तत्र युवामाज्ञातुमर्हथः ।
८४.१४/२ततः प्रोवाच भगवान् वायुश्च निरृतिस्तथा ॥ ८४.१४॥
८४.१५/१गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति ।
८४.१५/२इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम् ॥ ८४.१५॥
८४.१६/१ततोऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् ।
८४.१६/२भ्रातुर्हनुमतः प्रीत्यै स्नापयामास मातरम् ॥ ८४.१६॥
८४.१७/१तथैव हनुमान् गङ्गामादायाद्रिमतित्वरन् ।
८४.१७/२मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान् ॥ ८४.१७॥
८४.१८/१ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा ।
८४.१८/२ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम् ॥ ८४.१८॥
८४.१९/१योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् ।
८४.१९/२मार्जारसंज्ञितात् तस्माद् धनूमन्तं वृषाकपिम् ॥ ८४.१९॥
८४.२०/१फेनासंगममाख्यातं सर्वकामप्रदं शुभम् ।
८४.२०/२तस्य स्वरूपं व्युष्टिश्च तत्रैव प्रोच्यते शुभा ॥ ८४.२०॥
८५.१/१ब्रह्मोवाच । क्षुधातीर्थमिति ख्यातं शृणु नारद तन्मनाः ।
८५.१/२कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ ८५.१॥
८५.२/१ऋषिरासीत् पुरा कण्वस्तपस्वी वेदवित्तमः ।
८५.२/२परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः ॥ ८५.२॥
८५.३/१गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा ।
८५.३/२आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥ ८५.३॥
८५.४/१वीक्ष्य कण्वोऽथ वैषम्यं वैराग्यमगमत् तदा ।
८५.४/२गौतमोऽपि द्विजश्रेष्ठो ह्यहं तपसि निष्ठितः ॥ ८५.४॥
८५.५/१समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि ।
८५.५/२न भोक्ष्येऽहं क्षुधार्तोऽपि पीडितेऽपि कलेवरे ॥ ८५.५॥
८५.६/१गच्छेयं गौतमीं गङ्गामर्जयेयं च सम्पदम् ।
८५.६/२इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥ ८५.६॥
८५.७/१स्नात्वा शुचिर्यतमना उपविश्य कुशासने ।
८५.७/२तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥ ८५.७॥
८५.८/१कण्व उवाच । नमोऽस्तु गङ्गे परमार्तिहारिणि ।
८५.८/२नमः क्षुधे सर्वजनार्तिकारिणि ।
८५.८/३नमो महेशानजटोद्भवे शुभे ।
८५.८/४नमो महामृत्युमुखाद् विनिसृते ॥ ८५.८॥
८५.९/१पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् ।
८५.९/२सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ ८५.९॥
८५.१०/१क्षुधारूपेण सर्वेषां तापपापप्रदे नमः ।
८५.१०/२नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि ।
८५.१०/३नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ ८५.१०॥
८५.११/१ब्रह्मोवाच । इत्येवं स्तुवतस्तस्य पुरस्ताद् अभवद् द्वयम् ।
८५.११/२एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति ।
८५.११/३पुनः कृताञ्जलिर्भूत्वा नमस्कृत्वा द्विजोत्तमः ॥ ८५.११॥
८५.१२/१कण्व उवाच । सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे ।
८५.१२/२वैष्णवि त्र्यम्बके देवि गोदावरि नमोऽस्तु ते ॥ ८५.१२॥
८५.१३/१त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि ।
८५.१३/२सप्तधा सागरं यान्ति गोदावरि नमोऽस्तु ते ॥ ८५.१३॥
८५.१४/१सर्वपापकृतां पापे धर्मकामार्थनाशिनि ।
८५.१४/२दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥ ८५.१४॥
८५.१५/१ब्रह्मोवाच । तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर्द्विजम् ॥ ८५.१५॥
८५.१६/१गङ्गाक्षुधे ऊचतुः । अभीष्टं वद कल्याण वरान् वरय
सुव्रत ॥ ८५.१६॥
८५.१७/१ब्रह्मोवाच । प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां
यथाक्रमम् ॥ ८५.१७॥
८५.१८/१कण्व उवाच । देहि देवि मनोज्ञानि कामानि विभवं मम ।
८५.१८/२आयुर्वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥ ८५.१८॥
८५.१९/१ब्रह्मोवाच । इत्युक्त्वा गौतमीं गङ्गां क्षुधां चाह
द्विजोत्तमः ॥ ८५.१९॥
८५.२०/१कण्व उवाच । मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि ।
८५.२०/२याहि पापतरे रूक्षे न भूयास्त्वं कदाचन ॥ ८५.२०॥
८५.२१/१अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः ।
८५.२१/२तेषां दारिद्र्यदुःखानि न भवेयुर्वरोऽपरः ॥ ८५.२१॥
८५.२२/१अस्मिंस्तीर्थे महापुण्ये स्नानदानजपादिकम् ।
८५.२२/२ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥ ८५.२२॥
८५.२३/१यस्त्विदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे ।
८५.२३/२तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरोऽपरः ॥ ८५.२३॥
८५.२५/१ब्रह्मोवाच । एवमस्त्विति चोक्त्वा ते कण्वं याते स्वमालयम् ।
८५.२५/२ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् ।
८५.२५/३सर्वपापहरं वत्स पितृणां प्रीतिवर्धनम् ॥ ८५.२५॥
८६.१/१ब्रह्मोवाच । अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थमिति श्रुतम् ।
८६.१/२तत्र स्नानान् नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥ ८६.१॥
८६.२/१एकादश्यां तु शुक्लायामुपोष्य पृथिवीपते ।
८६.२/२गणिकासंगमे स्नात्वा प्राप्नुयाद् अक्षयं पदम् ॥ ८६.२॥
८६.३/१पुरा तत्र यथा वृत्तं तन् मे निगदतः शृणु ।
८६.३/२आसीद् विश्वधरो नाम वैश्यो बहुधनान्वितः ॥ ८६.३॥
८६.४/१उत्तरे वयसि श्रेष्ठस्तस्य पुत्रोऽभवद् ऋषे ।
८६.४/२गुणवान् रूपसम्पन्नो विलासी शुभदर्शनः ॥ ८६.४॥
८६.५/१प्राणेभ्योऽपि प्रियः पुत्रः काले पञ्चत्वमागतः ।
८६.५/२तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ ॥ ८६.५॥
८६.६/१कुर्वाते स्म तदा तेन सहैव मरणे मतिम् ।
८६.६/२हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥ ८६.६॥
८६.७/१यौवने वर्तमानोऽपि नीतोऽसि गुणसागर ।
८६.७/२आवयोश्च तथैव त्वं प्राणेभ्योऽपि सुदुर्लभः ॥ ८६.७॥
८६.८/१इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः ।
८६.८/२त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः ॥ ८६.८॥
८६.९/१गोदावर्याः शुभे तीरे स्थितो ध्यायञ् जनार्दनम् ।
८६.९/२अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥ ८६.९॥
८६.१०/१इयत इति मे पृथ्वी कथ्यतां केन पूरिता ।
८६.१०/२न कश्चिन् म्रियते जन्तुर्भाराक्रान्ता वसुंधरा ॥ ८६.१०॥
८६.११/१ततो देवी गता तूर्णं वसुधा मुनिसत्तम ।
८६.११/२यत्रास्ति सुरसंयुक्तः शक्रः परपुरंजयः ।
८६.११/३दृष्ट्वा वसुंधरामिन्द्रः प्रणिपत्येदमब्रवीत् ॥ ८६.११॥
८६.१२/१इन्द्र उवाच । किमागमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥ ८६.१२॥
८६.१३/१धरोवाच । भारेण गुरुणा शक्र पीडिताहं विना वधम् ।
८६.१३/२कारणं प्रष्टुमायाता किमिदं कथ्यतां मम ॥ ८६.१३॥
८६.१४/१ब्रह्मोवाच । इति श्रुत्वा महीवाक्यमिन्द्रो वचनमब्रवीत् ॥ ८६.१४॥
८६.१५/१इन्द्र उवाच । कारणं यदि नाम स्यात् तदानीं ज्ञायते मया ।
८६.१५/२सुराणां हि पतिर्यस्माद् अहं सर्वासु मेदिनि ॥ ८६.१५॥
८६.१६/१ब्रह्मोवाच । अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् ।
८६.१६/२यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥ ८६.१६॥
८६.१७/१इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिंनराः ।
८६.१७/२यमस्यानयने शीघ्रं महेन्द्रेण महामुने ॥ ८६.१७॥
८६.१८/१ततस्ते सत्वरं याताः सर्वे वैवस्वतं पुरम् ।
८६.१८/२नैवापश्यन् यमं तत्र ते सिद्धाः सह किंनरैः ।
८६.१८/३तथागत्य पुनर्वेगाद् वार्त्ता शक्रे निवेदिता ॥ ८६.१८॥
८६.१९/१सिद्धकिंनरा ऊचुः । यमो यमपुरे नाथ अस्माभिर्नावलोकितः ।
८६.१९/२महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥ ८६.१९॥
८६.२०/१ब्रह्मोवाच । इति श्रुत्वा वचस्तेषां पृष्टः शक्रेण वै तदा ।
८६.२०/२सविता स पिता तस्य यमः कुत्रास्त इत्यथ ॥ ८६.२०॥
८६.२१/१सूर्य उवाच । शक्र गोदावरीतीरे कृतान्तो वर्ततेऽधुना ।
८६.२१/२चरंस्तत्र तपस्तीव्रं न जाने किं नु कारणम् ॥ ८६.२१॥
८६.२२/१ब्रह्मोवाच । इति श्रुत्वा वचो भानोः शक्रः
शङ्कामुपाविशत् ॥ ८६.२२॥
८६.२३/१शक्र उवाच । अहो कष्टं महाकष्टं नष्टा मे सुरनाथता ।
८६.२३/२गोदावर्यां तपः कुर्याद् यमो वै दुष्टचेष्टितः ।
८६.२३/३जिघृक्षुर्मत्पदं नूनं देवा इति मतिर्मम ॥ ८६.२३॥
८६.२४/१ब्रह्मोवाच । इत्युक्त्वा सहसेन्द्रेण आहूतश्चाप्सरोगणः ॥ ८६.२४॥
८६.२५/१इन्द्र उवाच । का भवतीषु कालस्य स्थितस्य तपसि द्विषः ।
८६.२५/२तपःप्रणाशने शक्ता इति मे शीघ्रमुच्यताम् ॥ ८६.२५॥
८६.२६/१ब्रह्मोवाच । इति शक्रवचः श्रुत्वा नोचे कापि महामुने ।
८६.२६/२अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥ ८६.२६॥
८६.२७/१इन्द्र उवाच । उत्तरं नाब्रवीत् किंचिद् यामस्तर्हि वयं स्वयम् ।
८६.२७/२सज्जा भवन्तु विबुधाः सैन्यैरायान्तु मा चिरम् ।
८६.२७/३घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥ ८६.२७॥
८६.२८/१ब्रह्मोवाच । इत्युक्ते सति देवानां सेना प्रादुर्बभूव ह ।
८६.२८/२इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥ ८६.२८॥
८६.२९/१प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि ।
८६.२९/२चक्रं यत्राभवत् तत्र चक्रतीर्थमनुत्तमम् ॥ ८६.२९॥
८६.३०/१अथेन्द्रं मेनका प्राह शङ्कितेति वचस्तदा ॥ ८६.३०॥
८६.३१/१मेनकोवाच । कालावलोकने नालं काचिद् अस्ति सुरेश्वर ।
८६.३१/२मरणं च वरं देव भवतो न यमात् पुनः ॥ ८६.३१॥
८६.३२/१रूपयौवनमत्तेयं गणिकायाचनं प्रभो ।
८६.३२/२प्रेषणं तत् प्रयच्छैषा स्वामित्वं मन्यते त्वया ॥ ८६.३२॥
८६.३३/१ब्रह्मोवाच । इति श्रुत्वा वचस्तस्याः शक्रः सुरवरेश्वरः ।
८६.३३/२आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा ॥ ८६.३३॥
८६.३४/१शक्र उवाच । गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् ।
८६.३४/२कृतकृत्यागता भूयो वल्लभा मे यथा शची ॥ ८६.३४॥
८६.३५/१ब्रह्मोवाच । इत्याकर्ण्य वचः शक्राद् उत्पत्य गणिका दिशः ।
८६.३५/२क्षणेन यमसांनिध्यमायाता चारुरूपिणी ॥ ८६.३५॥
८६.३६/१यमान्तिकमनुप्राप्ता द्योतयन्ती दिशो दश ।
८६.३६/२सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम् ॥ ८६.३६॥
८६.३७/१ततश्चचाल कालस्य मनो लोलं चलाचलम् ।
८६.३७/२अथोन्मील्य यमो नेत्रे कामपावकपूरिते ॥ ८६.३७॥
८६.३८/१तस्यां व्यापारयामास श्रेयःशत्रौ महामुने ।
८६.३८/२ततो विलीय सा सद्यः सरित्त्वमगमत् तदा ॥ ८६.३८॥
८६.३९/१गौतम्यां तु समागम्य गणिकागणकिंकरैः ।
८६.३९/२गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः ॥ ८६.३९॥
८६.४०/१गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति ।
८६.४०/२विस्मयं परमं प्राप्तः कालस्तरललोचनः ।
८६.४०/३अथादित्येन चागत्य एवमुक्तो यमस्तदा ॥ ८६.४०॥
८६.४१/१सूर्य उवाच । कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् ।
८६.४१/२पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः ।
८६.४१/३पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः ॥ ८६.४१॥
८६.४२/१ब्रह्मोवाच । इति श्रुत्वा यमो वाक्यं पितुर्वचनमब्रवीत् ॥ ८६.४२॥
८६.४३/१यम उवाच । एतन् न गर्हितं कर्म कुर्यामहमिदं ध्रुवम् ।
८६.४३/२कर्मण्यस्मिन् महाक्रूरे समादेष्टुं न वार्हसि ॥ ८६.४३॥
८६.४४/१इति श्रुत्वा च तद् वाक्यं भानुर्वचनमब्रवीत् ।
८६.४४/२किं नाम गर्हितं कर्म तव कर्तुमलं यम ॥ ८६.४४॥
८६.४५/१किं न दृष्टा त्वया यान्ती गणिका गणकिंकरैः ।
८६.४५/२गीयमाना दिवं सद्यो गौतमीतोयमाप्लुता ॥ ८६.४५॥
८६.४६/१त्वया चात्र तपस्तीव्रं कृतं पुत्र सुदुष्करम् ।
८६.४६/२नैवान्तं तस्य पश्यामि तस्माद् गच्छ निजं पुरम् ॥ ८६.४६॥
८६.४७/१इत्युक्त्वा भगवान् भानुस्तत्र स्नात्वा गतो दिवम् ।
८६.४७/२यमोऽपि संगमे स्नात्वा ततो निजपुरं ययौ ॥ ८६.४७॥
८६.४८/१भूतहापि ततः शङ्कां तत्याज च महामुने ।
८६.४८/२तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम् ॥ ८६.४८॥
८६.४९/१भगवान् यत्र गोविन्दो वनमालाविभूषितः ।
८६.४९/२इति यः शृणुयान् मर्त्यः पठेद् वापि समाहितः ॥ ८६.४९॥
८६.५०/१आपदस्तस्य नश्यन्ति दीर्घमायुरवाप्नुयात् ॥ ८६.५०॥
८७.१/१ब्रह्मोवाच । अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम् ।
८७.१/२शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥ ८७.१॥
८७.२/१कौतुकेनातिमहता मया पूर्वं मुनीश्वर ।
८७.२/२सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥ ८७.२॥
८७.३/१तासामेकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् ।
८७.३/२तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥ ८७.३॥
८७.४/१को वास्याः पोषणे शक्त इति मे बुद्धिराविशत् ।
८७.४/२न दैत्यानां सुराणां च न मुनीनां तथैव च ॥ ८७.४॥
८७.५/१नास्त्यस्याः पोषणे शक्तिरिति मे बुद्धिरन्वभूत् ।
८७.५/२गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥ ८७.५॥
८७.६/१सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने ।
८७.६/२गौतमाय महाप्राज्ञामददां पोषणाय ताम् ॥ ८७.६॥
८७.७/१पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम् ।
८७.७/२यौवनस्थां पुनः साध्वीमानयेथा ममान्तिकम् ॥ ८७.७॥
८७.८/१एवमुक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् ।
८७.८/२तामादाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥ ८७.८॥
८७.९/१तां पोषयित्वा विधिवद् अलंकृत्य ममान्तिकम् ।
८७.९/२निर्विकारो मुनिश्रेष्ठो ह्यहल्यामानयत् तदा ॥ ८७.९॥
८७.१०/१तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः ।
८७.१०/२मम देया सुरेशान इत्यूचुस्ते पृथक् पृथक् ॥ ८७.१०॥
८७.११/१तथैव मुनयः साध्या दानवा यक्षराक्षसाः ।
८७.११/२तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थमथ संगतान् ॥ ८७.११॥
८७.१२/१इन्द्रस्य तु विशेषेण महांश्चाभूत् तदा ग्रहः ।
८७.१२/२गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यमेव च ॥ ८७.१२॥
८७.१३/१स्मृत्वा सुविस्मितो भूत्वा ममैवमभवत् सुधीः ।
८७.१३/२देयेयं गौतमायैव नान्ययोग्या शुभानना ॥ ८७.१३॥
८७.१४/१तस्मै एव तु तां दास्ये तथाप्येवमचिन्तयम् ।
८७.१४/२सर्वेषां च मतिर्धैर्यं मथितं बालयानया ॥ ८७.१४॥
८७.१५/१अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस्तदा ।
८७.१५/२देवान् ऋषींस्तदा वीक्ष्य मया तत्रोक्तमुच्चकैः ॥ ८७.१५॥
८७.१६/१तस्मै सा दीयते सुभ्रूर्यः पृथिव्याः प्रदक्षिणाम् ।
८७.१६/२कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥ ८७.१६॥
८७.१७/१ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् ।
८७.१७/२अहल्यार्थं सुरा जग्मुः पृथिव्याश्च प्रदक्षिणे ॥ ८७.१७॥
८७.१८/१गतेषु सुरसंघेषु गौतमोऽपि मुनीश्वर ।
८७.१८/२प्रयत्नमकरोत् किंचिद् अहल्यार्थमिमं तथा ॥ ८७.१८॥
८७.१९/१एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक् ।
८७.१९/२अर्धप्रसूता ह्यभवत् तां ददर्श स गौतमः ॥ ८७.१९॥
८७.२०/१तस्याः प्रदक्षिणं चक्रे इयमुर्वीति संस्मरन् ।
८७.२०/२लिङ्गस्य च सुरेशस्य प्रदक्षिणमथाकरोत् ॥ ८७.२०॥
८७.२१/१तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः ।
८७.२१/२सर्वेषां चैव देवानामेकं चापि प्रदक्षिणम् ॥ ८७.२१॥
८७.२२/१नैवाभवद् भुवो गन्तुः संजातं द्वितयं मम ।
८७.२२/२एवं निश्चित्य स मुनिर्ममान्तिकमथाभ्यगात् ॥ ८७.२२॥
८७.२३/१नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः ।
८७.२३/२कमलासन विश्वात्मन् नमस्तेऽस्तु पुनः पुनः ॥ ८७.२३॥
८७.२४/१प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला ।
८७.२४/२यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम् ॥ ८७.२४॥
८७.२५/१मया तु ध्यानयोगेन ज्ञात्वा गौतममब्रवम् ।
८७.२५/२तवैव दीयते सुभ्रूः प्रदक्षिणमिदं कृतम् ॥ ८७.२५॥
८७.२६/१धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैरपि ।
८७.२६/२अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥ ८७.२६॥
८७.२७/१कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् ।
८७.२७/२लिङ्गं प्रदक्षिणीकृत्य तद् एव फलमाप्नुयात् ॥ ८७.२७॥
८७.२८/१तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत ।
८७.२८/२तुष्टोऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥ ८७.२८॥
८७.२९/१दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया ।
८७.२९/२इत्युक्त्वाहं गौतमाय अहल्यामददां मुने ॥ ८७.२९॥
८७.३०/१जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् ।
८७.३०/२शनैः शनैरथागत्य ददृशुः सर्व एव ते ॥ ८७.३०॥
८७.३१/१तं गौतममहल्यां च दाम्पत्यं प्रीतिवर्धनम् ।
८७.३१/२ते चागत्याथ पश्यन्तो विस्मिताश्चाभवन् सुराः ॥ ८७.३१॥
८७.३२/१अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः ।
८७.३२/२समत्सरः शचीभर्ता तामीक्ष्य च दिवं ययौ ॥ ८७.३२॥
८७.३३/१ततः प्रीतमनास्तस्मै गौतमाय महात्मने ।
८७.३३/२प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥ ८७.३३॥
८७.३४/१अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः ।
८७.३४/२गौतमस्य कथां पुण्यां श्रुत्वा शक्रस्त्रिविष्टपे ॥ ८७.३४॥
८७.३५/१तमाश्रमं तं च मुनिं तस्य भार्यामनिन्दिताम् ।
८७.३५/२भूत्वा ब्राह्मणवेषेण द्रष्टुमागाच्छतक्रतुः ॥ ८७.३५॥
८७.३६/१स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा ।
८७.३६/२पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥ ८७.३६॥
८७.३७/१नात्मानं न परं देशं कालं शापाद् ऋषेर्भयम् ।
८७.३७/२न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥ ८७.३७॥
८७.३८/१तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः ।
८७.३८/२संतप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥ ८७.३८॥
८७.३९/१एवं वसन् विप्ररूपो नान्तरं त्वध्यगच्छत ।
८७.३९/२स कदाचिन् महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ ८७.३९॥
८७.४०/१सहितो गौतमः शिष्यैर्निर्गतश्चाश्रमाद् बहिः ।
८७.४०/२आश्रमं गौतमीं विप्रान् धान्यानि विविधानि च ॥ ८७.४०॥
८७.४१/१द्रष्टुं गतो मुनिवर इन्द्रस्तं समुदैक्षत ।
८७.४१/२इदमन्तरमित्युक्त्वा चक्रे कार्यं मनःप्रियम् ॥ ८७.४१॥
८७.४२/१रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः ।
८७.४२/२तां दृष्ट्वा चारुसर्वाङ्गीमहल्यां वाक्यमब्रवीत् ॥ ८७.४२॥
८७.४३/१इन्द्र उवाच । आकृष्टोऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः ।
८७.४३/२इति ब्रुवन् हसन् हस्तमादायान्तः समाविशत् ॥ ८७.४३॥
८७.४४/१न बुबोध त्वहल्या तं जारं मेने तु गौतमम् ।
८७.४४/२रममाणा यथासौख्यं प्रागाच्छिष्यैः स गौतमः ॥ ८७.४४॥
८७.४५/१आगच्छन्तं नित्यमेव अहल्या प्रियवादिनी ।
८७.४५/२प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥ ८७.४५॥
८७.४६/१तामदृष्ट्वा महाप्राज्ञो मेने तन् महद् अद्भुतम् ।
८७.४६/२द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥ ८७.४६॥
८७.४७/१अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः ।
८७.४७/२ऊचुर्मुनिवरं भीता गौतमं विस्मयान्विताः ॥ ८७.४७॥
८७.४८/१रक्षिण ऊचुः । भगवन् किमिदं चित्रं बहिरन्तश्च दृश्यसे ।
८७.४८/२प्रिययान्तः प्रविष्टोऽसि तथैव च बहिर्भवान् ।
८७.४८/३अहो तपःप्रभावोऽयं नानारूपधरो भवान् ॥ ८७.४८॥
८७.५०/१ब्रह्मोवाच । तच्छ्रुत्वा विस्मितस्त्वन्तः प्रविष्टः को नु तिष्ठति ।
८७.५०/२प्रिये अहल्ये भवति किं मां न प्रतिभाषसे ।
८७.५०/३इत्यृषेर्वचनं श्रुत्वा अहल्या जारमब्रवीत् ॥ ८७.५०॥
८७.५१/१अहल्योवाच । को भवान् मुनिरूपेण पापं त्वं कृतवान् असि ।
८७.५१/२इति ब्रुवती शयनाद् उत्थिता सत्वरं भयात् ॥ ८७.५१॥
८७.५२/१स चापि पापकृच्छक्रो बिडालोऽभून् मुनेर्भयात् ।
८७.५२/२त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥ ८७.५२॥
८७.५३/१उवाच स मुनिः कोपात् किमिदं साहसं कृतम् ।
८७.५३/२इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता ॥ ८७.५३॥
८७.५४/१अन्वेषयंस्तु तं जारं बिडालं ददृशे मुनिः ।
८७.५४/२को भवान् इति तं प्राह भस्मीकुर्यां मृषावदन् ॥ ८७.५४॥
८७.५५/१इन्द्र उवाच । कृताञ्जलिपुटो भूत्वा चैवमाह शचीपतिः ।
८७.५५/२शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥ ८७.५५॥
८७.५६/१ममेदं पापमापन्नं सत्यमुक्तं मयानघ ।
८७.५६/२महद्विगर्हितं कर्म कृतवान् अस्म्यहं मुने ॥ ८७.५६॥
८७.५७/१स्मरसायकनिर्भिन्न+ ऋदयाः किं न कुर्वते ।
८७.५७/२ब्रह्मन् मयि महापापे क्षमस्व करुणानिधे ॥ ८७.५७॥
८७.५८/१सन्तः कृतापराधेऽपि न रौक्ष्यं जातु कुर्वते ।
८७.५८/२निशम्य तद् वचो विप्रो हरिमाह रुषान्वितः ॥ ८७.५८॥
८७.५९/१गौतम उवाच । भगभक्त्या कृतं पापं सहस्रभगवान् भव ।
८७.५९/२तामप्याह मुनिः कोपात् त्वं च शुष्कनदी भव ॥ ८७.५९॥
८७.६०/१ततः प्रसादयामास कथयन्ती तदाकृतिम् ॥ ८७.६०॥
८७.६१/१अहल्योवाच । मनसाप्यन्यपुरुषं पापिष्ठाः कामयन्ति याः ।
८७.६१/२अक्षयान् यान्ति नरकांस्तासां सर्वेऽपि पूर्वजाः ॥ ८७.६१॥
८७.६२/१भूत्वा प्रसन्नो भगवन्न् अवधारय मद्वचः ।
८७.६२/२तव रूपेण चागत्य मामगात् साक्षिणस्त्विमे ॥ ८७.६२॥
८७.६३/१तथेति रक्षिणः प्रोचुरहल्या सत्यवादिनी ।
८७.६३/२ध्यानेनापि मुनिर्ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥ ८७.६३॥
८७.६४/१गौतम उवाच । यदा तु संगता भद्रे गौतम्या सरिदीशया ।
८७.६४/२नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम ॥ ८७.६४॥
८७.६५/१इत्यृषेर्वचनं श्रुत्वा तथा चक्रे पतिव्रता ।
८७.६५/२तया तु संगता देव्या अहल्या गौतमप्रिया ॥ ८७.६५॥
८७.६६/१पुनस्तद् रूपमभवद् यन् मया निर्मितं पुरा ।
८७.६६/२ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम् ॥ ८७.६६॥
८७.६७/१इन्द्र उवाच । मां पाहि मुनिशार्दूल पापिष्ठं गृहमागतम् ।
८७.६७/२पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥ ८७.६७॥
८७.६८/१गौतम उवाच । गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरंदर ।
८७.६८/२क्षणान् निर्धूतपापस्त्वं सहस्राक्षो भविष्यसि ॥ ८७.६८॥
८७.६९/१उभयं विस्मयकरं दृष्टवान् अस्मि नारद ।
८७.६९/२अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥ ८७.६९॥
८७.७०/१ततः प्रभृति तत् तीर्थमहल्यासंगमं शुभम् ।
८७.७०/२इन्द्रतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ॥ ८७.७०॥
८८.१/१ब्रह्मोवाच । तस्माद् अप्यपरं तीर्थं जनस्थानमिति श्रुतम् ।
८८.१/२चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम् ॥ ८८.१॥
८८.२/१वैवस्वतान्वये जातो राजाभूज्जनकः पुरा ।
८८.२/२सोऽपाम्पतेस्तु तनुजामुपयेमे गुणार्णवाम् ॥ ८८.२॥
८८.३/१धर्मार्थकाममोक्षाणां जनकां जनको नृपः ।
८८.३/२अनुरूपगुणत्वाच्च तस्य भार्या गुणार्णवा ॥ ८८.३॥
८८.४/१याज्ञवल्क्यश्च विप्रेन्द्रस्तस्य राज्ञः पुरोहितः ।
८८.४/२तमपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥ ८८.४॥
८८.५/१जनक उवाच । भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः ।
८८.५/२दासीदासेभतुरग+ ।रथाद्यैर्भुक्तिरुत्तमा ॥ ८८.५॥
८८.६/१किंत्वन्तविरसा भुक्तिर्मुक्तिरेका निरत्यया ।
८८.६/२भुक्तेर्मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥ ८८.६॥
८८.७/१सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः ।
८८.७/२तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत् ॥ ८८.७॥
८८.८/१याज्ञवल्क्य उवाच । अपाम्पतिस्तव गुरुः श्वशुरः प्रियकृत् तथा ।
८८.८/२तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥ ८८.८॥
८८.९/१याज्ञवल्क्यश्च जनको राजानं वरुणं तदा ।
८८.९/२गत्वा चोचतुरव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥ ८८.९॥
८८.१०/१वरुण उवाच । द्विधा तु संस्थिता मुक्तिः कर्मद्वारेऽप्यकर्मणि ।
८८.१०/२वेदे च निश्चितो मार्गः कर्म ज्यायो ह्यकर्मणः ॥ ८८.१०॥
८८.११/१सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् ।
८८.११/२अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥ ८८.११॥
८८.१२/१कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम ।
८८.१२/२तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥ ८८.१२॥
८८.१३/१तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः ।
८८.१३/२अकर्मणः कर्म पुण्यं कर्म चाप्याश्रमेषु च ॥ ८८.१३॥
८८.१४/१जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् ।
८८.१४/२आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥ ८८.१४॥
८८.१५/१चतुर्णामाश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् ।
८८.१५/२तस्माद् भुक्तिश्च मुक्तिश्च भवतीति मतिर्मम ॥ ८८.१५॥
८८.१६/१ब्रह्मोवाच । एतच्छ्रुत्वा तु जनको याज्ञवल्क्यश्च बुद्धिमान् ।
८८.१६/२वरुणं पूजयित्वा तु पुनर्वचनमूचतुः ॥ ८८.१६॥
८८.१७/१को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् ।
८८.१७/२तद् वदस्व सुरश्रेष्ठ सर्वज्ञोऽसि नमोऽस्तु ते ॥ ८८.१७॥
८८.१८/१वरुण उवाच । पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् ।
८८.१८/२तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ८८.१८॥
८८.१९/१तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् ।
८८.१९/२तत्र यज्ञेन दानेन भोगान् मुक्तिमवाप्स्यति ॥ ८८.१९॥
८८.२०/१ब्रह्मोवाच । याज्ञवल्क्यश्च जनको वाचं श्रुत्वा ह्यपाम्पतेः ।
८८.२०/२वरुणेन ह्यनुज्ञातौ स्वपुरीं जग्मतुस्तदा ॥ ८८.२०॥
८८.२१/१अश्वमेधादिकं कर्म चकार जनको नृपः ।
८८.२१/२याजयामास विप्रेन्द्रो याज्ञवल्क्यश्च तं नृपम् ॥ ८८.२१॥
८८.२२/१गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिमवाप राट् ।
८८.२२/२तथा जनकराजानो बहवस्तत्र कर्मणा ॥ ८८.२२॥
८८.२३/१मुक्तिं प्रापुर्महाभागा गौतम्याश्च प्रसादतः ।
८८.२३/२ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम् ॥ ८८.२३॥
८८.२४/१जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् ।
८८.२४/२चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत् ॥ ८८.२४॥
८८.२५/१तत्र स्नानेन दानेन पितृणां तर्पणेन तु ।
८८.२५/२तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात् ॥ ८८.२५॥
८८.२६/१सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात् ॥ ८८.२६॥
८९.१/१ब्रह्मोवाच । अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे ।
८९.१/२तयोश्च संगमः पुण्यो गङ्गायां मुनिसत्तम ॥ ८९.१॥
८९.२/१तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम् ।
८९.२/२कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥ ८९.२॥
८९.३/१त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः ।
८९.३/२तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥ ८९.३॥
८९.४/१भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा ।
८९.४/२चिन्तयामास किं कृत्यं मम स्याद् इति भामिनी ॥ ८९.४॥
८९.५/१तस्याः पुत्रौ महाराज्ञौ मनुर्वैवस्वतो यमः ।
८९.५/२यमुना च नदी पुण्या शृणु विस्मयकारणम् ॥ ८९.५॥
८९.६/१साकरोद् आत्मनश्छायामात्मरूपेण यत्नतः ।
८९.६/२तामब्रवीत् ततश्चोषा त्वं च मत्सदृशी भव ॥ ८९.६॥
८९.७/१भर्तारं त्वमपत्यानि पालयस्व ममाज्ञया ।
८९.७/२यावद् आगमनं मे स्यात् पत्युस्तावत् प्रिया भव ॥ ८९.७॥
८९.८/१नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये ।
८९.८/२तथेत्याह च सा छाया निर्जगाम गृहाद् उषा ॥ ८९.८॥
८९.९/१इत्युक्त्वा सा जगामाशु शान्तं रूपमभीप्सती ।
८९.९/२सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् ।
८९.९/३त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥ ८९.९॥
८९.१०/१त्वष्टोवाच । नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् ।
८९.१०/२अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव ।
८९.१०/३बिभेमि भद्रे शिष्टोऽहं भर्तुर्गेहं पुनर्व्रज ॥ ८९.१०॥
८९.११/१ब्रह्मोवाच । एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः ।
८९.११/२उत्तरं च कुरोर्देशं जगाम तपसे त्वरा ॥ ८९.११॥
८९.१२/१तत्र तेपे तपस्तीव्रं वडवारूपधारिणी ।
८९.१२/२दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥ ८९.१२॥
८९.१३/१एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी ।
८९.१३/२पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे ॥ ८९.१३॥
८९.१४/१सावर्णिश्च शनिश्चैव विष्टिर्या दुष्टकन्यका ।
८९.१४/२सा छाया वर्तयामास वैषम्येणैव नित्यशः ॥ ८९.१४॥
८९.१५/१स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह ।
८९.१५/२वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥ ८९.१५॥
८९.१६/१ताडयामास पादेन दक्षिणाशापतिर्यमः ।
८९.१६/२पुत्रदौर्जन्यसंक्षोभाच्छाया वैवस्वतं यमम् ॥ ८९.१६॥
८९.१७/१शशाप पाप ते पादो विशीर्यतु ममाज्ञया ।
८९.१७/२विशीर्णचरणो दुःखाद् रुदन् पितरमभ्यगात् ।
८९.१७/३सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः ॥ ८९.१७॥
८९.१८/१यम उवाच । नेयं माता सुरश्रेष्ठ यया शप्तोऽहमीदृशः ।
८९.१८/२अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥ ८९.१८॥
८९.१९/१यद् बाल्याद् अब्रवं किंचिद् अथवा दुष्कृतं कृतम् ।
८९.१९/२नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका ॥ ८९.१९॥
८९.२०/१यद् अपत्यकृतं किंचित् साध्वसाधु यथा तथा ।
८९.२०/२मात्यस्यां सर्वमप्येतत् तस्मान् मातेति गीयते ॥ ८९.२०॥
८९.२१/१प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा ।
८९.२१/२वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका ॥ ८९.२१॥
८९.२२/१ब्रह्मोवाच । तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः ।
८९.२२/२इयं छाया नास्य माता उषा माता तु सान्यतः ॥ ८९.२२॥
८९.२३/१मम शान्तिमभीप्सन्ती देशेऽन्यस्मिंस्तपोरता ।
८९.२३/२उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥ ८९.२३॥
८९.२४/१तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः ।
८९.२४/२यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥ ८९.२४॥
८९.२५/१तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः ।
८९.२५/२कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥ ८९.२५॥
८९.२६/१उषा पतिव्रतोपेता पतिध्यानपरायणा ।
८९.२६/२हयधर्षणसम्भीता को न्वयं चेत्यजानती ॥ ८९.२६॥
८९.२७/१अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा ।
८९.२७/२को नु मे रक्षकोऽत्र स्याद् ऋषयो वाथवा सुराः ॥ ८९.२७॥
८९.२८/१धावन्तीं तां प्रियामश्वामश्वरूपधरः स्वयम् ।
८९.२८/२पर्यधावद् यतो याति उषा भानुस्ततस्ततः ॥ ८९.२८॥
८९.२९/१स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते ।
८९.२९/२भागीरथीं नदीश्चान्या वनान्युपवनानि च ॥ ८९.२९॥
८९.३०/१नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावुभौ ।
८९.३०/२अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्यभ्यगाच्च गौतमीम् ॥ ८९.३०॥
८९.३१/१त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् ।
८९.३१/२ऋषीणामाश्रमं साश्वा प्रविष्टा गौतमीं तथा ॥ ८९.३१॥
८९.३२/१अनुप्राप्तस्तथा चाश्वो भानुस्तद्रूपवांस्ततः ।
८९.३२/२अश्वं निवारयामासुर्जनस्था मुनिदारकाः ।
८९.३२/३ततः कोपाद् ऋषींस्तांश्च शशापोषापतिः प्रभुः ॥ ८९.३२॥
८९.३३/१भानुरुवाच । निवारयथ मां यस्माद् वटा यूयं भविष्यथ ॥ ८९.३३॥
८९.३४/१ब्रह्मोवाच । ज्ञानदृष्ट्या तु मुनयो मेनिरेऽश्वमुषापतिम् ।
८९.३४/२स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥ ८९.३४॥
८९.३५/१स्तूयमानो मुनिगणैरश्वां भानुरथागमत् ।
८९.३५/२वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥ ८९.३५॥
८९.३६/१ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे ।
८९.३६/२तयोर्वीर्येण गङ्गायामश्विनौ समजायताम् ॥ ८९.३६॥
८९.३७/१तत्रागच्छन् सुरगणाः सिद्धाश्च मुनयस्तथा ।
८९.३७/२नद्यो गावस्तथौषध्यो देवा ज्योतिर्गणास्तथा ॥ ८९.३७॥
८९.३८/१सप्ताश्वश्च रथः पुण्यो ह्यरुणो भानुसारथिः ।
८९.३८/२यमो मनुश्च वरुणः शनिर्वैवस्वतस्तथा ॥ ८९.३८॥
८९.३९/१यमुना च नदी पुण्या तापी चैव महानदी ।
८९.३९/२तत्तद्रूपं समास्थाय नद्यस्ता विस्मयान् मुने ॥ ८९.३९॥
८९.४०/१द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस्तथा ।
८९.४०/२अभिप्रायं विदित्वा तु श्वशुरं भानुरब्रवीत् ॥ ८९.४०॥
८९.४१/१भानुरुवाच । उषायाः प्रीतये त्वष्टः कुर्वत्यास्तप उत्तमम् ।
८९.४१/२यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्यनेकशः ।
८९.४१/३यावत् सौख्यं भवेद् अस्यास्तावच्छिन्धि प्रजापते ॥ ८९.४१॥
८९.४२/१ब्रह्मोवाच । तथेत्युक्त्वा ततस्त्वष्टा सोमनाथस्य संनिधौ ।
८९.४२/२तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥ ८९.४२॥
८९.४३/१भर्त्रा च संगता यत्र गौतम्यामश्वरूपिणी ।
८९.४३/२अश्विनोर्यत्र चोत्पत्तिरश्वतीर्थं तद् उच्यते ॥ ८९.४३॥
८९.४४/१भानुतीर्थं तद् आख्यातं तथा पञ्चवटाश्रमः ।
८९.४४/२तापी च यमुना चैव पितरं द्रष्टुमागते ॥ ८९.४४॥
८९.४५/१अरुणावरुणानद्योर्गङ्गायां संगमः शुभः ।
८९.४५/२देवानां तत्र तीर्थानामागतानां पृथक् पृथक् ॥ ८९.४५॥
८९.४६/१नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ।
८९.४६/२तत्र स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ ८९.४६॥
८९.४७/१स्मरणात् पठनाद् वापि श्रवणाद् अपि नारद ।
८९.४७/२सर्वपापविनिर्मुक्तो धर्मवान् स सुखी भवेत् ॥ ८९.४७॥
९०.१/१ब्रह्मोवाच । गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् ।
९०.१/२तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ॥ ९०.१॥
९०.२/१मणिनाग इति त्वासीच्छेषपुत्रो महाबलः ।
९०.२/२गरुडस्य भयाद् भक्त्या तोषयामास शंकरम् ॥ ९०.२॥
९०.३/१ततः प्रसन्नो भगवान् परमेष्ठी महेश्वरः ।
९०.३/२तमुवाच महानागं वरं वरय पन्नग ॥ ९०.३॥
९०.४/१नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् ।
९०.४/२तथेत्याह च तं शम्भुर्गरुडाद् अभयं भवेत् ॥ ९०.४॥
९०.५/१निर्गतो निर्भयो नागो गरुडाद् अरुणानुजात् ।
९०.५/२क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः ॥ ९०.५॥
९०.६/१इतश्चेतश्च चरति नागोऽसौ सुखशीतले ।
९०.६/२गरुडोऽपि च यत्रास्ते तं देशमपि यात्यसौ ॥ ९०.६॥
९०.७/१गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु ।
९०.७/२तं गृहीत्वा महानागं प्राक्षिपत् स्वस्य वेश्मनि ॥ ९०.७॥
९०.८/१तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम् ।
९०.८/२एतस्मिन्न् अन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥ ९०.८॥
९०.९/१नन्दिकेश्वर उवाच । नूनं नागो न चायाति भक्षितो बद्ध एव वा ।
९०.९/२गरुडेन सुरेशान जीवन् नागो न संव्रजेत् ॥ ९०.९॥
९०.१०/१ब्रह्मोवाच । नन्दिनो वचनं श्रुत्वा ज्ञात्वा
शम्भुरथाब्रवीत् ॥ ९०.१०॥
९०.११/१शिव उवाच । गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम् ।
९०.११/२गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम् ॥ ९०.११॥
९०.१२/१बद्धं नागं काश्यपेन मद्वाक्याद् आनय स्वयम् ।
९०.१२/२तत् प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥ ९०.१२॥
९०.१३/१व्यज्ञापयत् स्वयं वाक्यं विष्णुं लोकपरायणम् ।
९०.१३/२नारायणः प्रीतमना गरुडं वाक्यमब्रवीत् ॥ ९०.१३॥
९०.१४/१विष्णुरुवाच । विनतात्मज मे वाक्यान् नन्दिने देहि पन्नगम् ।
९०.१४/२कम्पमानस्तद् आकर्ण्य नेत्युवाच विहंगमः ।
९०.१४/३विष्णुमप्यब्रवीत् कोपात् सुपर्णो नन्दिनोऽन्तिके ॥ ९०.१४॥
९०.१५/१गरुड उवाच । यद् यत् प्रियतमं किंचिद् भृत्येभ्यः
प्रभविष्णवः ।
९०.१५/२दास्यन्त्यन्ये भवान् नैव मयानीतं हरिष्यति ॥ ९०.१५॥
९०.१६/१पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना ।
९०.१६/२मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥ ९०.१६॥
९०.१७/१त्वां वहामि सदा स्वामिन् मम देयं सदा त्वया ।
९०.१७/२मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥ ९०.१७॥
९०.१८/१सतां प्रभूणां नेयं स्याद् वृत्तिः सद्वृत्तिकारिणाम् ।
९०.१८/२सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥ ९०.१८॥
९०.१९/१दैत्याञ् जयसि संग्रामे मद्बलेनैव केशव ।
९०.१९/२अहं महाबलीत्येवं मुधैव श्लाघते भवान् ॥ ९०.१९॥
९०.२०/१ब्रह्मोवाच । गरुडस्येति तद् वाक्यं श्रुत्वा चक्रगदाधरः ।
९०.२०/२विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः ॥ ९०.२०॥
९०.२१/१इदमाह महाबुद्धिर्मां समुह्य कृशो भवान् ।
९०.२१/२त्वद्बलाद् असुरान् सर्वाञ् जेष्येऽहं खगसत्तम ॥ ९०.२१॥
९०.२२/१इत्युक्त्वा श्रीपतिर्ब्रह्मञ् शान्तकोपोऽब्रवीद् इदम् ।
९०.२२/२वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनोऽन्तिके ॥ ९०.२२॥
९०.२३/१गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत् ।
९०.२३/२सत्यं मां वहसे नित्यं पश्य धर्मं विहंगम ॥ ९०.२३॥
९०.२४/१न्यस्तायां च ततोऽङ्गुल्यां शिरः कुक्षौ समाविशत् ।
९०.२४/२कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितोऽभवत् ।
९०.२४/३ततः कृताञ्जलिर्दीनो व्यथितो लज्जयान्वितः ॥ ९०.२४॥
९०.२५/१गरुड उवाच । त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम् ।
९०.२५/२त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च ॥ ९०.२५॥
९०.२६/१अपराधसहस्राणि क्षमन्ते प्रभविष्णवः ।
९०.२६/२कृतापराधेऽपि जने महती यस्य वै कृपा ॥ ९०.२६॥
९०.२७/१वदन्ति मुनयः सर्वे त्वामेव करुणाकरम् ।
९०.२७/२रक्षस्वार्तं जगन्मातर्मामम्बुजनिवासिनि ।
९०.२७/३कमले बालकं दीनमार्तं तनयवत्सले ॥ ९०.२७॥
९०.२८/१ब्रह्मोवाच । ततः कृपान्विता देवी श्रीरप्याह जनार्दनम् ॥ ९०.२८॥
९०.२९/१कमलोवाच । रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् ।
९०.२९/२जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम् ॥ ९०.२९॥
९०.३०/१विष्णुरुवाच । नय नागं सगरुडं शम्भोरन्तिकमेव च ।
९०.३०/२तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः ।
९०.३०/३आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥ ९०.३०॥
९०.३१/१ब्रह्मोवाच । तथेत्युक्त्वा च वृषभो नागेन गरुडेन च ।
९०.३१/२शनैः स शंकरं गत्वा सर्वं तस्मै न्यवेदयत् ।
९०.३१/३शंकरोऽपि गरुत्मन्तं प्रोवाच शशिशेखरः ॥ ९०.३१॥
९०.३२/१शिव उवाच । याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् ।
९०.३२/२सर्वकामप्रदां शान्तां तामाप्लुत्य पुनर्वपुः ॥ ९०.३२॥
९०.३३/१प्राप्स्यसे सर्वकामांश्च शतधाथ सहस्रधा ।
९०.३३/२सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः ।
९०.३३/३प्राणिनोऽभीष्टदा तेषां शरणं खग गौतमी ॥ ९०.३३॥
९०.३४/१ब्रह्मोवाच । तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडोऽभ्यगात् ।
९०.३४/२गङ्गामाप्लुत्य गरुडः शिवं विष्णुं ननाम सः ॥ ९०.३४॥
९०.३५/१ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः ।
९०.३५/२वेगी भवन् मुनिश्रेष्ठ पुनर्विष्णुमियात् सुधीः ॥ ९०.३५॥
९०.३६/१ततः प्रभृति तत् तीर्थं गारुडं सर्वकामदम् ।
९०.३६/२तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः ।
९०.३६/३सर्वं तद् अक्षयं वत्स शिवविष्णुप्रियावहम् ॥ ९०.३६॥
९१.१/१ब्रह्मोवाच । ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् ।
९१.१/२पितृणां पुण्यजननं स्मरणाद् अपि पापनुत् ॥ ९१.१॥
९१.२/१तस्य प्रभाव एष स्यान् मया दृष्टस्तु नारद ।
९१.२/२ब्राह्मणः कर्षकः कश्चिज्जाबालिरिति विश्रुतः ॥ ९१.२॥
९१.३/१न विमुञ्चत्यनड्वाहौ मध्यं यातेऽपि भास्करे ।
९१.३/२प्रतोदेन प्रतुदति पृष्ठतोऽपि च पार्श्वयोः ॥ ९१.३॥
९१.४/१तौ गावावश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी ।
९१.४/२सुरभिर्जगतां माता नन्दिने सर्वमब्रवीत् ॥ ९१.४॥
९१.५/१स चापि व्यथितो भूत्वा शम्भवे तन् न्यवेदयत् ।
९१.५/२शम्भुश्च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥ ९१.५॥
९१.६/१शिवाज्ञासहितो नन्दी गोजातं सर्वमाहरत् ।
९१.६/२नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस्त्वरा ॥ ९१.६॥
९१.७/१मामवोचन् सुरगणा विना गोभिर्न जीव्यते ।
९१.७/२तान् अवोचं सुरान् सर्वाञ् शंकरं यात याचत ॥ ९१.७॥
९१.८/१तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् ।
९१.८/२ईशोऽपि विबुधान् आह जानाति वृषभो मम ॥ ९१.८॥
९१.९/१ते वृषं प्रोचुरमरा देहि गा उपकारिणः ।
९१.९/२वृषोऽपि विबुधान् आह गोसवः क्रियतां क्रतुः ॥ ९१.९॥
९१.१०/१ततः प्राप्स्यथ गाः सर्वा या दिव्या याश्च मानुषाः ।
९१.१०/२ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥ ९१.१०॥
९१.११/१गौतम्याश्च शुभे पार्श्वे गावो ववृधिरे ततः ।
९१.११/२गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम् ॥ ९१.११॥
९१.१२/१तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् ।
९१.१२/२किंचिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे ॥ ९१.१२॥
९२.१/१ब्रह्मोवाच । पापप्रणाशनं नाम तीर्थं पापभयापहम् ।
९२.१/२नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः ॥ ९२.१॥
९२.२/१धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः ।
९२.२/२तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥ ९२.२॥
९२.३/१तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः ।
९२.३/२धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने ॥ ९२.३॥
९२.४/१ततः सा बालविधवा बालपुत्रा सुरूपिणी ।
९२.४/२त्रातारं नैव पश्यन्ती गालवाश्रममभ्यगात् ॥ ९२.४॥
९२.५/१तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता ।
९२.५/२सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी ॥ ९२.५॥
९२.६/१तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः ।
९२.६/२जातोऽपि मातृदोषेण वेश्येरितमतिस्त्वभूत् ॥ ९२.६॥
९२.७/१जनस्थानमिति ख्यातं नानाजातिसमावृतम् ।
९२.७/२तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥ ९२.७॥
९२.८/१तत्सुतोऽपि बहून् देशान् परिबभ्राम कामुकः ।
९२.८/२सोऽपि कालवशात् तत्र जनस्थानेऽवसत् तदा ॥ ९२.८॥
९२.९/१स्त्रियमाकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः ।
९२.९/२मही चापि धनं दातृन् पुरुषान् समपेक्षते ॥ ९२.९॥
९२.१०/१मेने न पुत्रमात्मीयं स चापि न तु मातरम् ।
९२.१०/२तयोः समागमश्चासीद् विधिना मातृपुत्रयोः ॥ ९२.१०॥
९२.११/१एवं बहुतिथे काले पुत्रे मातरि गच्छति ।
९२.११/२तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः ॥ ९२.११॥
९२.१२/१एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः ।
९२.१२/२आसीत् तस्याप्यसद्वृत्तेः शृणु नारद चित्रवत् ॥ ९२.१२॥
९२.१३/१स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् ।
९२.१३/२ब्राह्मीं संध्यामनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम् ॥ ९२.१३॥
९२.१४/१विद्याबलेन वित्तानि बहून्यार्ज्य ददात्यसौ ।
९२.१४/२तथा स प्रातरुत्थाय गङ्गां गत्वा यथाविधि ॥ ९२.१४॥
९२.१५/१शौचादि स्नानसंध्यादि सर्वं कार्यं यथाक्रमम् ।
९२.१५/२कृत्वा तु ब्राह्मणान् नत्वा ततोऽभ्येति स्वकर्मसु ॥ ९२.१५॥
९२.१६/१प्रातःकाले गौतमीं तु यदा याति विरूपवान् ।
९२.१६/२कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥ ९२.१६॥
९२.१७/१स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् ।
९२.१७/२शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः ॥ ९२.१७॥
९२.१८/१एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः ।
९२.१८/२गालवो यत्र भगवांस्तपोज्ञानपरायणः ॥ ९२.१८॥
९२.१९/१आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर्वृतः ।
९२.१९/२ब्राह्मणोऽपि च तत्रैव नित्यं तीर्थं समेत्य च ॥ ९२.१९॥
९२.२०/१गालवं च नमस्याथ ततो याति स्वमन्दिरम् ।
९२.२०/२गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः ॥ ९२.२०॥
९२.२१/१स्नानसंध्योत्तरे काले पुनर्यद् अपि तद् द्विजे ।
९२.२१/२उभयं तस्य तद् रूपं गालवो नित्यमेव च ॥ ९२.२१॥
९२.२२/१दृष्ट्वा सविस्मयो मेने किंचिद् अस्त्यत्र कारणम् ।
९२.२२/२एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥ ९२.२२॥
९२.२३/१गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर्गृहम् ।
९२.२३/२आहूय यत्नतो धीमान् कृपया विस्मयेन च ॥ ९२.२३॥
९२.२४/१गालव उवाच । को भवान् क्व च गन्तासि किं करोषि क्व भोक्ष्यसि ।
९२.२४/२किंनामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥ ९२.२४॥
९२.२५/१ब्रह्मोवाच । गालवस्य वचः श्रुत्वा ब्राह्मणोऽप्याह तं
मुनिम् ॥ ९२.२५॥
९२.२६/१ब्राह्मण उवाच । श्वः कथ्यते मया सर्वं ज्ञात्वा
कार्यविनिर्णयम् ॥ ९२.२६॥
९२.२७/१ब्रह्मोवाच । एवमुक्त्वा गालवं तं सनाज्जातो गृहं ययौ ।
९२.२७/२भुक्त्वा रात्रौ तया सम्यक् शय्यामासाद्य बन्धकीम् ।
९२.२७/३उवाच चकितः स्मृत्वा गालवस्य तु यद् वचः ॥ ९२.२७॥
९२.२८/१ब्राह्मण उवाच । त्वं तु सर्वगुणोपेता बन्धक्यपि पतिव्रता ।
९२.२८/२आवयोः सदृशी प्रीतिर्यावज्जीवं प्रवर्तताम् ॥ ९२.२८॥
९२.२९/१तथापि किंचित् पृच्छामि किंनाम्नी त्वं क्व वा कुलम् ।
९२.२९/२किं नु स्थानं क्व वा बन्धुर्मम सर्वं निवेद्यताम् ॥ ९२.२९॥
९२.३०/१बन्धक्युवाच । धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः ।
९२.३०/२तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥ ९२.३०॥
९२.३१/१उत्सृष्टो मतिमान् बालः सनाज्जात इति श्रुतः ।
९२.३१/२अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् ।
९२.३१/३स्वैरिणी त्विह वर्तेऽहं विद्धि मां ब्राह्मणीं द्विज ॥ ९२.३१॥
९२.३२/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा मर्मविद्ध इवाभवत् ।
९२.३२/२पपात सहसा भूमौ वेश्या तं वाक्यमब्रवीत् ॥ ९२.३२॥
९२.३३/१वेश्योवाच । किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर्गता तव ।
९२.३३/२किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत् ॥ ९२.३३॥
९२.३४/१आत्मानमात्मनाश्वास्य ब्राह्मणो वाक्यमब्रवीत् ॥ ९२.३४॥
९२.३५/१ब्राह्मण उवाच । धृतव्रतः पिता विप्रस्तत्पुत्रोऽहं सनाद्यतः ।
९२.३५/२माता मही मम इयं मम दैवाद् उपागता ॥ ९२.३५॥
९२.३६/१ब्रह्मोवाच । एतच्छ्रुत्वा तस्य वाक्यं साप्यभूद् अतिदुःखिता ।
९२.३६/२तयोस्तु शोचतोः पश्चात् प्रभाते विमले रवौ ।
९२.३६/३गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत् ॥ ९२.३६॥
९२.३७/१ब्राह्मण उवाच । धृतव्रतसुतो ब्रह्मंस्त्वया पूर्वं तु पालितः ।
९२.३७/२उपनीतस्त्वया चैव मही माता मम प्रभो ॥ ९२.३७॥
९२.३८/१किं करोमि च किं कृत्वा निष्कृतिर्मम वै भवेत् ॥ ९२.३८॥
९२.३९/१ब्रह्मोवाच । तद् विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः ।
९२.३९/२तवेदं द्विविधं रूपं नित्यं पश्याम्यपूर्ववत् ॥ ९२.३९॥
९२.४०/१ततः पृष्टोऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा ।
९२.४०/२यत् कृत्यं तव तत् सर्वं गङ्गायां प्रत्यगात् क्षयम् ॥ ९२.४०॥
९२.४१/१अस्य तीर्थस्य माहात्म्याद् अस्या देव्याः प्रसादतः ।
९२.४१/२पूतोऽसि प्रत्यहं वत्स नात्र कार्या विचारणा ॥ ९२.४१॥
९२.४२/१प्रभाते तव रूपाणि सपापानि त्वहर्निशम् ।
९२.४२/२पश्येऽहं पुनरप्येव रूपं तव गुणोत्तमम् ॥ ९२.४२॥
९२.४३/१आगच्छन्तं त्वागोयुक्तं गच्छन्तं त्वामनागसम् ।
९२.४३/२पश्यामि नित्यं तस्मात् त्वं पूतो देव्या कृतोऽधुना ॥ ९२.४३॥
९२.४४/१तस्मान् न कार्यं ते किंचिद् अवशिष्टं भविष्यति ।
९२.४४/२इयं च माता ते विप्र ज्ञाता या चैव बन्धकी ॥ ९२.४४॥
९२.४५/१पश्चात्तापं गतात्यन्तं निवृत्ता त्वथ पातकात् ।
९२.४५/२भूतानां विषये प्रीतिर्वत्स स्वाभाविकी यतः ॥ ९२.४५॥
९२.४६/१सत्सङ्गतो महापुण्यान् निवृत्तिर्दैवतो भवेत् ।
९२.४६/२अत्यर्थमनुतप्तेयं प्रागाचरितपुण्यतः ॥ ९२.४६॥
९२.४७/१स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति ।
९२.४७/२तथा तौ चक्रतुरुभौ मातापुत्रौ च नारद ॥ ९२.४७॥
९२.४८/१स्नानाद् बभूवतुरुभौ गतपापावसंशयम् ।
९२.४८/२ततः प्रभृति तत् तीर्थं धौतपापं प्रचक्षते ॥ ९२.४८॥
९२.४९/१पापप्रणाशनं नाम गालवं चेति विश्रुतम् ।
९२.४९/२महापातकमल्पं वा तथा यच्चोपपातकम् ।
९२.४९/३तत् सर्वं नाशयेद् एतद् धौतपापं सुपुण्यदम् ॥ ९२.४९॥
९३.१/१ब्रह्मोवाच । यत्र दाशरथी रामः सीतया सहितो द्विज ।
९३.१/२पितृन् संतर्पयामास पितृतीर्थं ततो विदुः ॥ ९३.१॥
९३.२/१तत्र स्नानं च दानं च पितृणां तर्पणं तथा ।
९३.२/२सर्वमक्षयतामेति नात्र कार्या विचारणा ॥ ९३.२॥
९३.३/१यत्र दाशरथी रामो विश्वामित्रं महामुनिम् ।
९३.३/२पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः ॥ ९३.३॥
९३.४/१विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् ।
९३.४/२तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥ ९३.४॥
९३.५/१अनावृष्टिरभूत् पूर्वं प्रजानामतिभीषणा ।
९३.५/२विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीमगात् ॥ ९३.५॥
९३.६/१शिष्यान् पुत्रांश्च जायां च कृशान् दृष्ट्वा क्षुधातुरान् ।
९३.६/२व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदमुवाच ह ॥ ९३.६॥
९३.७/१विश्वामित्र उवाच । यथा कथंचिद् यत् किंचिद् यत्र
क्वापि यथा तथा ।
९३.७/२आनीयतां किंतु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् ।
९३.७/३इदानीमेव गन्तव्यमानेतव्यं क्षणेन तु ॥ ९३.७॥
९३.८/१ब्रह्मोवाच । ऋषेस्तद् वचनाच्छिष्याः क्षुधितास्त्वरया ययुः ।
९३.८/२अटमाना इतश्चेतो मृतं ददृशिरे शुनम् ॥ ९३.८॥
९३.९/१तमादाय त्वरायुक्ता आचार्याय न्यवेदयन् ।
९३.९/२सोऽपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना ॥ ९३.९॥
९३.१०/१विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा ।
९३.१०/२पचध्वं मन्त्रवच्चापि हुत्वाग्नौ तु यथाविधि ॥ ९३.१०॥
९३.११/१देवान् ऋषीन् पितृन् अन्यांस्तर्पयित्वातिथीन् गुरून् ।
९३.११/२सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः ॥ ९३.११॥
९३.१२/१विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत् ।
९३.१२/२पच्यमाने श्वमांसे तु देवदूतोऽग्निरभ्यगात् ।
९३.१२/३देवानां सदने सर्वं देवेभ्यस्तन् न्यवेदयत् ॥ ९३.१२॥
९३.१३/१अग्निरुवाच । देवैः श्वमांसं भोक्तव्यमापन्नम्
ऋषिकल्पितम् ॥ ९३.१३॥
९३.१४/१ब्रह्मोवाच । अग्नेस्तद्वचनाद् इन्द्रः श्येनो भूत्वा विहायसि ।
९३.१४/२स्थालीमथाहरत् पूर्णां मांसेन पिहितां तदा ॥ ९३.१४॥
९३.१५/१तत् कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन् ।
९३.१५/२हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥ ९३.१५॥
९३.१६/१ततश्चुकोप भगवाञ् शप्तुकामस्तदा हरिम् ।
९३.१६/२ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥ ९३.१६॥
९३.१७/१पुनर्निवेशयामास उल्कास्वेव खगो हरिः ।
९३.१७/२मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह ।
९३.१७/३स्थालीं वीक्ष्य ततः कोपाद् इदमाह स कौशिकः ॥ ९३.१७॥
९३.१८/१विश्वामित्र उवाच । श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम् ।
९३.१८/२नो चेत् त्वां भस्मसात् कुर्यामिन्द्रो भीतस्तदाब्रवीत् ॥ ९३.१८॥
९३.१९/१इन्द्र उवाच । मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः ।
९३.१९/२किमनेन श्वमांसेन अमेध्येन महामुने ॥ ९३.१९॥
९३.२०/१ब्रह्मोवाच । विश्वामित्रोऽपि नेत्याह भुक्तेनैकेन किं फलम् ।
९३.२०/२प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे ॥ ९३.२०॥
९३.२१/१सर्वेषाममृतं चेत् स्याद् भोक्ष्येऽहममृतं शुचि ।
९३.२१/२अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥ ९३.२१॥
९३.२२/१पश्चाद् अहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे ।
९३.२२/२ततो भीतः सहस्राक्षो मेघान् आहूय तत्क्षणात् ॥ ९३.२२॥
९३.२३/१ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः ।
९३.२३/२पश्चात् तद् अमृतं पुण्यं हरिदत्तं यथाविधि ॥ ९३.२३॥
९३.२४/१तर्पयित्वा सुरान् आदौ तर्पयित्वा जगत्त्रयम् ।
९३.२४/२विप्रः सम्भुक्तवाञ् शिष्यैर्विश्वामित्रः स्वभार्यया ॥ ९३.२४॥
९३.२५/१ततः प्रभृति तत् तीर्थमाख्यातं चातिपुण्यदम् ।
९३.२५/२यत्रागतः सुरपतिर्लोकानाममृतार्पणम् ॥ ९३.२५॥
९३.२६/१संजातं मांसवर्जं तु तत् तीर्थं पुण्यदं नृणाम् ।
९३.२६/२तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ९३.२६॥
९३.२७/१ततः प्रभृति तत् तीर्थं विश्वामित्रमिति स्मृतम् ।
९३.२७/२मधुतीर्थमथैन्द्रं च श्येनं पर्जन्यमेव च ॥ ९३.२७॥
९४.१/१ब्रह्मोवाच । श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् ।
९४.१/२तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ९४.१॥
९४.२/१श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा ।
९४.२/२आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः ॥ ९४.२॥
९४.३/१मनसा कर्मणा वाचा शिवभक्तिपरायणः ।
९४.३/२ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम् ॥ ९४.३॥
९४.४/१पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् ।
९४.४/२नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा ॥ ९४.४॥
९४.५/१नाशक्नुवन् गृहं तस्य प्रवेष्टुमपि नारद ।
९४.५/२तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत् ॥ ९४.५॥
९४.६/१चित्रक उवाच । किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्विति ।
९४.६/२नाद्याप्यायान्ति दूतास्ते मृत्योर्नैवोचितं तु ते ॥ ९४.६॥
९४.७/१ब्रह्मोवाच । ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम् ।
९४.७/२बहिःस्थितांस्तदा पश्यन् मृत्युर्दूतान् भयार्दितान् ।
९४.७/३प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः ॥ ९४.७॥
९४.८/१दूता ऊचुः । शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः ।
९४.८/२येषां प्रसन्नो गिरिशस्तेषां का नाम भीतयः ॥ ९४.८॥
९४.९/१ब्रह्मोवाच । पाशपाणिस्तदा मृत्युः प्राविशद् यत्र स द्विजः ।
९४.९/२नासौ विप्रो विजानाति मृत्युं वा यमकिंकरान् ॥ ९४.९॥
९४.१०/१शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः ।
९४.१०/२मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥ ९४.१०॥
९४.११/१दण्ड्युवाच । किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युरब्रवीत् ॥ ९४.११॥
९४.१२/१मृत्युरुवाच । श्वेतं नेतुमिहायातस्तस्माद् वीक्षे
द्विजोत्तमम् ॥ ९४.१२॥
९४.१३/१ब्रह्मोवाच । त्वं गच्छेत्यब्रवीद् दण्डी मृत्युः पाशान् अथाक्षिपत् ।
९४.१३/२श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥ ९४.१३॥
९४.१४/१शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत् ।
९४.१४/२ततः पाशधरो मृत्युः पपात धरणीतले ॥ ९४.१४॥
९४.१५/१ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च ।
९४.१५/२यमाय सर्वमवदन् वधं मृत्योस्तु दण्डिना ॥ ९४.१५॥
९४.१६/१ततश्च कुपितो धर्मो यमो महिषवाहनः ।
९४.१६/२चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥ ९४.१६॥
९४.१७/१महिषं भूतवेतालान् आधिव्याधींस्तथैव च ।
९४.१७/२अक्षिरोगान् कुक्षिरोगान् कर्णशूलं तथैव च ॥ ९४.१७॥
९४.१८/१ज्वरं च त्रिविधं पापं नरकाणि पृथक् पृथक् ।
९४.१८/२त्वरन्तामिति तान् उक्त्वा जगाम त्वरितो यमः ॥ ९४.१८॥
९४.१९/१एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः ।
९४.१९/२तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥ ९४.१९॥
९४.२०/१विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् ।
९४.२०/२तत्र तद् युद्धमभवत् सर्वलोकभयावहम् ॥ ९४.२०॥
९४.२१/१कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिंकरान् ।
९४.२१/२दक्षिणाशापतिं चापि निजघान बलान्वितम् ॥ ९४.२१॥
९४.२२/१हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन् ।
९४.२२/२आदित्योऽपि सुरैः सार्धं श्रुत्वा तन् महद् अद्भुतम् ॥ ९४.२२॥
९४.२३/१लोकपालैरनुवृतो ममान्तिकमुपागमत् ।
९४.२३/२अहं विष्णुश्च भगवान् इन्द्रोऽग्निर्वरुणस्तथा ॥ ९४.२३॥
९४.२४/१चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः ।
९४.२४/२एते चान्ये च बहवो वयं याता यमान्तिकम् ॥ ९४.२४॥
९४.२५/१मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः ।
९४.२५/२समुद्राश्च नदा नागा नानाभूतान्यनेकशः ॥ ९४.२५॥
९४.२६/१तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् ।
९४.२६/२तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः ।
९४.२६/३कृताञ्जलिपुटाः शम्भुमूचुः सर्वे पुनः पुनः ॥ ९४.२६॥
९४.२७/१देवा ऊचुः । भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च ।
९४.२७/२आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमोऽस्तु ते ।
९४.२७/३ब्रह्मप्रिय नमस्तेऽस्तु देवप्रिय नमोऽस्तु ते ॥ ९४.२७॥
९४.२८/१श्वेतं द्विजं भक्तमनायुषं ते ।
९४.२८/२नेतुं यमादिः सकलोऽसमर्थः ।
९४.२८/३संतोषमाप्ताः परमं समीक्ष्य ।
९४.२८/४भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ ९४.२८॥
९४.२९/१ये त्वां प्रपन्नाः शरणं कृपालुम् ।
९४.२९/२नालं कृतान्तोऽप्यनुवीक्षितुं तान् ।
९४.२९/३एवं विदित्वा शिव एव सर्वे ।
९४.२९/४त्वामेव भक्त्या परया भजन्ते ॥ ९४.२९॥
९४.३०/१त्वमेव जगतां नाथ किं न स्मरसि शंकर ।
९४.३०/२त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुमीश्वरः ॥ ९४.३०॥
९४.३१/१ब्रह्मोवाच । एवं तु स्तुवतां तेषां पुरस्ताद् अभवच्छिवः ।
९४.३१/२किं ददामीति तान् आह इदमूचुः सुरा अपि ॥ ९४.३१॥
९४.३२/१देवा ऊचुः । अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् ।
९४.३२/२धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः ॥ ९४.३२॥
९४.३३/१नायं वधमवाप्नोति नापराधी न पापकृत् ।
९४.३३/२विना तेन जगद्धातुर्नैव किंचिद् भविष्यति ॥ ९४.३३॥
९४.३४/१तस्माज्जीवय देवेश यमं सबलवाहनम् ।
९४.३४/२प्रार्थना सफला नाथ महत्सु न वृथा भवेत् ॥ ९४.३४॥
९४.३५/१ब्रह्मोवाच । ततः प्रोवाच भगवाञ् जीवयेयमसंशयम् ।
९४.३५/२यमं यदि वचो मेऽद्य अनुमन्यन्ति देवताः ॥ ९४.३५॥
९४.३६/१ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् ।
९४.३६/२हरिब्रह्मादिसहितं वशे यस्याखिलं जगत् ॥ ९४.३६॥
९४.३७/१ततः प्रोवाच भगवान् अमरान् समुपागतान् ।
९४.३७/२मद्भक्तो न मृतिं यातु नेत्यूचुरमराः पुनः ॥ ९४.३७॥
९४.३८/१अमराः स्युस्ततो देव सर्वलोकाश्चराचराः ।
९४.३८/२अमर्त्यमर्त्यभेदोऽयं न स्याद् देव जगन्मय ॥ ९४.३८॥
९४.३९/१पुनरप्याह ताञ् शम्भुः शृण्वन्तु मम भाषितम् ।
९४.३९/२मद्भक्तानां वैष्णवानां गौतमीमनुसेवताम् ॥ ९४.३९॥
९४.४०/१वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यमर्हति ।
९४.४०/२वार्त्ताप्येषां न कर्तव्या यमेन तु कदाचन ॥ ९४.४०॥
९४.४१/१आधिव्याध्यादिभिर्जातु कार्यो नाभिभवः क्वचित् ।
९४.४१/२ये शिवं शरणं यातास्ते मुक्तास्तत्क्षणाद् अपि ॥ ९४.४१॥
९४.४२/१सानुगस्य यमस्यातो नमस्याः सर्व एव ते ।
९४.४२/२तथेत्यूचुः सुरगणा देवदेवं शिवं प्रति ॥ ९४.४२॥
९४.४३/१ततश्च भगवान् नाथो नन्दिनं प्राह वाहनम् ॥ ९४.४३॥
९४.४४/१शिव उवाच । गौतम्या उदकेन त्वमभिषिञ्च मृतं यमम् ॥ ९४.४४॥
९४.४५/१ब्रह्मोवाच । ततो यमादयः सर्वे अभिषिक्तास्तु नन्दिना ।
९४.४५/२उत्थिताश्च सजीवास्ते दक्षिणाशां ततो गताः ॥ ९४.४५॥
९४.४६/१उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः ।
९४.४६/२स्थिता आसन् पूजयन्तो देवदेवं महेश्वरम् ॥ ९४.४६॥
९४.४७/१तत्रासन्न् अयुतान्यष्ट सहस्राणि चतुर्दश ।
९४.४७/२तथा षट् च सहस्राणि पुनः षट् च तथैव च ॥ ९४.४७॥
९४.४८/१षड् दक्षिणे तथा तीरे तीर्थानामयुतत्रयम् ।
९४.४८/२पुण्यमाख्यानमेतद् धि श्वेततीर्थस्य नारद ॥ ९४.४८॥
९४.४९/१यत्रासौ पतितो मृत्युर्मृत्युतीर्थं तद् उच्यते ।
९४.४९/२तस्य श्रवणमात्रेण सहस्रं जीवते समाः ॥ ९४.४९॥
९४.५०/१तत्र स्नानं च दानं च सर्वपापप्रणाशनम् ।
९४.५०/२श्रवणं पठनं चापि स्मरणं च मलक्षयम् ।
९४.५०/३करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम् ॥ ९४.५०॥
९५.१/१ब्रह्मोवाच । शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
९५.१/२सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ ९५.१॥
९५.२/१अङ्गिराश्च भृगुश्चैव ऋषी परमधार्मिकौ ।
९५.२/२तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥ ९५.२॥
९५.३/१जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ ।
९५.३/२उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः ॥ ९५.३॥
९५.४/१ऋषी ऊचतुः । आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः ।
९५.४/२तस्माद् एकः शासिता स्यात् तिष्ठत्वेको यथासुखम् ॥ ९५.४॥
९५.५/१ब्रह्मोवाच । एतच्छ्रुत्वा ततः शीघ्रमङ्गिराः प्राह भार्गवम् ।
९५.५/२अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥ ९५.५॥
९५.६/१एतच्छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः ।
९५.६/२तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥ ९५.६॥
९५.७/१उभावपि सुतौ नित्यमध्यापयति वै पृथक् ।
९५.७/२वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रोऽब्रवीद् इदम् ॥ ९५.७॥
९५.८/१शुक्र उवाच । वैषम्येण गुरो मां त्वमध्यापयसि नित्यशः ।
९५.८/२गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः ॥ ९५.८॥
९५.९/१वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः ।
९५.९/२नैषा विषमबुद्धीनां संख्या पापस्य विद्यते ॥ ९५.९॥
९५.१०/१आचार्य सम्यग् ज्ञातोऽसि नमस्येऽहं पुनः पुनः ।
९५.१०/२गच्छेयं गुरुमन्यं वै मामनुज्ञातुमर्हसि ॥ ९५.१०॥
९५.११/१गच्छेयं पितरं ब्रह्मन् यद्यसौ विषमो भवेत् ।
९५.११/२ततो वान्यत्र गच्छामि स्वामिन् पृष्टोऽसि गम्यते ॥ ९५.११॥
९५.१२/१ब्रह्मोवाच । गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस्त्वगात् ततः ।
९५.१२/२अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत् ॥ ९५.१२॥
९५.१३/१तस्मात् कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत् ।
९५.१३/२इति स्मरन् महाप्राज्ञमपृच्छद् वृद्धगौतमम् ॥ ९५.१३॥
९५.१४/१शुक्र उवाच । को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत् ।
९५.१४/२त्रयाणामपि लोकानां यो गुरुस्तं व्रजाम्यहम् ॥ ९५.१४॥
९५.१५/१ब्रह्मोवाच । स प्राह जगतामीशं शम्भुं देवं जगद्गुरुम् ।
९५.१५/२क्वाराधयामि गिरिशमित्युक्तः प्राह गौतमः ॥ ९५.१५॥
९५.१६/१गौतम उवाच । गौतम्यां तु शुचिर्भूत्वा स्तोत्रैस्तोषय शंकरम् ।
९५.१६/२ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥ ९५.१६॥
९५.१७/१ब्रह्मोवाच । गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः ।
९५.१७/२स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः ॥ ९५.१७॥
९५.१८/१शुक्र उवाच । बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
९५.१८/२नाहं जानामि ते किंचित् स्तुतिं कर्तुं नमोऽस्तु ते ॥ ९५.१८॥
९५.१९/१परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा ।
९५.१९/२त्वं प्रभुः सर्वभावेन जगन्नाथ नमोऽस्तु ते ॥ ९५.१९॥
९५.२०/१गुरुर्गुरुमतां देव महतां च महान् असि ।
९५.२०/२अहमल्पतरो बालो जगन्मय नमोऽस्तु ते ॥ ९५.२०॥
९५.२१/१विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् ।
९५.२१/२मां त्वं च कृपया पश्य लोकसाक्षिन् नमोऽस्तु ते ॥ ९५.२१॥
९५.२२/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य प्रसन्नोऽभूत् सुरेश्वरः ॥ ९५.२२॥
९५.२३/१शिव उवाच । कामं वरय भद्रं ते यच्चापि
सुरदुर्लभम् ॥ ९५.२३॥
९५.२४/१ब्रह्मोवाच । कविरप्याह देवेशं कृताञ्जलिरुदारधीः ॥ ९५.२४॥
९५.२५/१शुक्र उवाच । ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा ।
९५.२५/२तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम् ॥ ९५.२५॥
९५.२६/१ब्रह्मोवाच । मृतसंजीविनीं विद्यामज्ञातां त्रिदशैरपि ।
९५.२६/२तां दत्तवान् सुरश्रेष्ठस्तस्मै शुक्राय याचते ॥ ९५.२६॥
९५.२७/१इतरा लौकिकी विद्या वैदिकी चान्यगोचरा ।
९५.२७/२किं पुनः शंकरे तुष्टे विचार्यमवशिष्यते ॥ ९५.२७॥
९५.२८/१स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् ।
९५.२८/२दैत्यानां च गुरुश्चासीद् विद्यया पूजितः कविः ॥ ९५.२८॥
९५.२९/१ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे ।
९५.२९/२कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस्तु ताम् ॥ ९५.२९॥
९५.३०/१कचाद् बृहस्पतिश्चापि ततो देवाः पृथक् पृथक् ।
९५.३०/२अवापुर्महतीं विद्यां यामाहुर्मृतजीविनीम् ॥ ९५.३०॥
९५.३१/१यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् ।
९५.३१/२गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते ॥ ९५.३१॥
९५.३२/१मृतसंजीविनीतीर्थमायुरारोग्यवर्धनम् ।
९५.३२/२स्नानं दानं च यत् किंचित् सर्वमक्षयपुण्यदम् ॥ ९५.३२॥
९६.१/१ब्रह्मोवाच । इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ।
९६.१/२स्मरणाद् अपि पापौघ+ ।क्लेशसंघविनाशनम् ॥ ९६.१॥
९६.२/१पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद ।
९६.२/२शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः ॥ ९६.२॥
९६.३/१इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति ।
९६.३/२यत्र यत्र त्वसौ याति हत्या सापीन्द्रगामिनी ॥ ९६.३॥
९६.४/१स महत् सर आविश्य पद्मनालमुपागमत् ।
९६.४/२तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः ॥ ९६.४॥
९६.५/१सरस्तीरेऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् ।
९६.५/२एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्यभवन् मुने ॥ ९६.५॥
९६.६/१मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेद् इति ।
९६.६/२तत्राहमवदं देवान् हत्यास्थानं प्रकल्प्य च ॥ ९६.६॥
९६.७/१इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम् ।
९६.७/२यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति ॥ ९६.७॥
९६.८/१तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन् ।
९६.८/२तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा ॥ ९६.८॥
९६.९/१अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे ।
९६.९/२अभिषिच्यमानमिन्द्रं तं प्रकोपाद् गौतमोऽब्रवीत् ॥ ९६.९॥
९६.१०/१गौतम उवाच । अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् ।
९६.१०/२तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्वसुरारयः ॥ ९६.१०॥
९६.११/१ब्रह्मोवाच । तद् ऋषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम् ।
९६.११/२नर्मदामगमन् सर्व इन्द्रमादाय सत्वराः ॥ ९६.११॥
९६.१२/१उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे ।
९६.१२/२अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवान् ऋषिः ॥ ९६.१२॥
९६.१३/१अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् ।
९६.१३/२पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः ॥ ९६.१३॥
९६.१४/१देवा ऊचुः । अयमिन्द्रः सहस्राक्षो यस्मिन् देशेऽभिषिच्यते ।
९६.१४/२तत्रातिदारुणं विघ्नं मुने समुपजायते ॥ ९६.१४॥
९६.१५/१तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव ।
९६.१५/२मलनिर्यातनं यस्मिन् कुर्मस्तस्मिन् वरान् बहून् ॥ ९६.१५॥
९६.१६/१देशे दास्यामहे सर्वे तद् अनुज्ञातुमर्हसि ।
९६.१६/२यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥ ९६.१६॥
९६.१७/१स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः ।
९६.१७/२नानावृष्टिर्न दुर्भिक्षं भवेद् अत्र कदाचन ॥ ९६.१७॥
९६.१८/१ब्रह्मोवाच । मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः ।
९६.१८/२अभिषेकः कृतस्तत्र मलनिर्यातनं तथा ॥ ९६.१८॥
९६.१९/१देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः ।
९६.१९/२अभिषिक्ते सुरपतौ जाते च विमले तदा ॥ ९६.१९॥
९६.२०/१आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे ।
९६.२०/२सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च ॥ ९६.२०॥
९६.२१/१वसिष्ठो गौतमश्चापि अगस्त्योऽत्रिश्च कश्यपः ।
९६.२१/२एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥ ९६.२१॥
९६.२२/१स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम् ।
९६.२२/२मया पुनः शचीभर्ता कमण्डलुभवेन च ॥ ९६.२२॥
९६.२३/१वारिणाप्यभिषिक्तश्च तत्र पुण्याभवन् नदी ।
९६.२३/२सिक्ता चेति च तत्रासीत् ते गङ्गायां च संगते ॥ ९६.२३॥
९६.२४/१संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ ।
९६.२४/२ततः प्रभृति तत् तीर्थं पुण्यासंगममुच्यते ॥ ९६.२४॥
९६.२५/१सिक्तायाः संगमे पुण्यमैन्द्रं तद् अभिधीयते ।
९६.२५/२तत्र सप्त सहस्राणि तीर्थान्यासञ् शुभानि च ॥ ९६.२५॥
९६.२६/१तेषु स्नानं च दानं च विशेषेण तु संगमे ।
९६.२६/२सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा ॥ ९६.२६॥
९६.२७/१यद् एतत् पुण्यमाख्यानं यः पठेच्च शृणोति वा ।
९६.२७/२सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥ ९६.२७॥
९७.१/१ब्रह्मोवाच । पौलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् ।
९७.१/२प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ ९७.१॥
९७.२/१उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः ।
९७.२/२पुरा लङ्कापतिश्चासीज्ज्येष्ठो विश्रवसः सुतः ॥ ९७.२॥
९७.३/१तस्यैते भ्रातरश्चासन् बलवन्तोऽमितप्रभाः ।
९७.३/२सापत्ना रावणश्चैव कुम्भकर्णो विभीषणः ॥ ९७.३॥
९७.४/१तेऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास्तु ते ।
९७.४/२मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥ ९७.४॥
९७.५/१ममान्तिकं भक्तियुक्तो नित्यमेति तु याति च ।
९७.५/२रावणस्य तु या माता कुपिता साब्रवीत् सुतान् ॥ ९७.५॥
९७.६/१रावणमातोवाच । मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् ।
९७.६/२देवाश्च दानवाश्चासन् सापत्ना भ्रातरो मिथः ॥ ९७.६॥
९७.७/१अन्योन्यवधमीप्सन्ते जयैश्वर्यवशानुगाः ।
९७.७/२तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः ।
९७.७/३सापत्न्यं योऽनुमन्यते तस्य जीवो निरर्थकः ॥ ९७.७॥
९७.८/१ब्रह्मोवाच । तन् मातृवचनं श्रुत्वा भ्रातरस्ते त्रयो मुने ।
९७.८/२जग्मुस्ते तपसेऽरण्यं कृतवन्तस्तपो महत् ॥ ९७.८॥
९७.९/१मत्तो वरान् अवापुश्च त्रय एते च राक्षसाः ।
९७.९/२मातुलेन मरीचेन तथा मातामहेन तु ॥ ९७.९॥
९७.१०/१तन्मातृवचनाच्चापि ततो लङ्कामयाचत ।
९७.१०/२रक्षोभावान् मातृदोषाद् भ्रात्रोर्वैरमभून् महत् ॥ ९७.१०॥
९७.११/१ततस्तद् अभवद् युद्धं देवदानवयोरिव ।
९७.११/२युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥ ९७.११॥
९७.१२/१पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् ।
९७.१२/२रावणो घोषयामास त्रैलोक्ये सचराचरे ॥ ९७.१२॥
९७.१३/१यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम ।
९७.१३/२भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् ।
९७.१३/३पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः ॥ ९७.१३॥
९७.१४/१धनद उवाच । भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे ।
९७.१४/२आश्रयः शरणं यत् स्याद् दैवं वा तीर्थमेव च ॥ ९७.१४॥
९७.१५/१ब्रह्मोवाच । तत् पौत्रवचनं श्रुत्वा पुलस्त्यो
वाक्यमब्रवीत् ॥ ९७.१५॥
९७.१६/१पुलस्त्य उवाच । गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् ।
९७.१६/२तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः ॥ ९७.१६॥
९७.१७/१सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥ ९७.१७॥
९७.१८/१ब्रह्मोवाच । तथेत्युक्त्वा जगामासौ सभार्यो धनदस्तथा ।
९७.१८/२पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥ ९७.१८॥
९७.१९/१गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः ।
९७.१९/२तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥ ९७.१९॥
९७.२०/१धनद उवाच । स्वामी त्वमेवास्य चराचरस्य ।
९७.२०/२विश्वस्य शम्भो न परोऽस्ति कश्चित् ।
९७.२०/३त्वामप्यवज्ञाय यदीह मोहात् ।
९७.२०/४प्रगल्भते कोऽपि स शोच्य एव ॥ ९७.२०॥
९७.२१/१त्वमष्टमूर्त्या सकलं बिभर्षि ।
९७.२१/२त्वदाज्ञया वर्तत एव सर्वम् ।
९७.२१/३तथापि वेदेति बुधो भवन्तम् ।
९७.२१/४न जात्वविद्वान् महिमा पुरातनम् ॥ ९७.२१॥
९७.२२/१मलप्रसूतं यद् अवोचद् अम्बा ।
९७.२२/२हास्यात् सुतोऽयं तव देव शूरः ।
९७.२२/३त्वत्प्रेक्षिताद् यः स च विघ्नराजो ।
९७.२२/४जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥ ९७.२२॥
९७.२३/१अश्रुप्लुताङ्गी गिरिजा समीक्ष्य ।
९७.२३/२वियुक्तदाम्पत्यमितीशमूचे ।
९७.२३/३मनोभवोऽभून् मदनो रतिश्च ।
९७.२३/४सौभाग्यपूर्वत्वमवाप सोमात् ॥ ९७.२३॥
९७.२४/१ब्रह्मोवाच । इत्यादि स्तुवतस्तस्य पुरतोऽभूत् त्रिलोचनः ।
९७.२४/२वरेण च्छन्दयामास हर्षान् नोवाच किंचन ॥ ९७.२४॥
९७.२५/१तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे ।
९७.२५/२पुनः पुनर्वरस्वेति शिवे वादिनि हर्षिते ॥ ९७.२५॥
९७.२६/१एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ।
९७.२६/२प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥ ९७.२६॥
९७.२७/१पुलस्त्यस्य तु यच्चित्तं पितुर्वैश्रवणस्य तु ।
९७.२७/२विदित्वेव तदा वाणी शुभमर्थमुदीरयत् ॥ ९७.२७॥
९७.२८/१भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत् ।
९७.२८/२प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच्छुभा ॥ ९७.२८॥
९७.२९/१प्रभूतशत्रुः परिभूतदुःखः ।
९७.२९/२सम्पूज्य सोमेश्वरमाप लिङ्गम् ।
९७.२९/३दिगीश्वरत्वं द्रविणप्रभुत्वम् ।
९७.२९/४अपारदातृत्वकलत्रपुत्रान् ॥ ९७.२९॥
९७.३०/१तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् ।
९७.३०/२एवं भवतु नामेति धनदो वाक्यमब्रवीत् ॥ ९७.३०॥
९७.३१/१तथैवास्त्विति देवेशो दैवीं वाचममन्यत ।
९७.३१/२पुलस्त्यं च वरैः पुण्यैस्तथा विश्रवसं मुनिम् ॥ ९७.३१॥
९७.३२/१धनपालं च देवेशो ह्यभिनन्द्य ययौ शिवः ।
९७.३२/२ततः प्रभृति तत् तीर्थं पौलस्त्यं धनदं विदुः ॥ ९७.३२॥
९७.३३/१तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् ।
९७.३३/२तेषु स्नानादि यत् किंचित् तत् सर्वं बहुपुण्यदम् ॥ ९७.३३॥
९८.१/१ब्रह्मोवाच । अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् ।
९८.१/२सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु ॥ ९८.१॥
९८.२/१जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट् ।
९८.२/२हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु ॥ ९८.२॥
९८.३/१ऋषीणां सत्त्रसदने अग्नेर्भ्रातरमुत्तमम् ।
९८.३/२भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली ॥ ९८.३॥
९८.४/१जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि ।
९८.४/२हव्यं देवा नैव चापुर्मृते वै जातवेदसि ॥ ९८.४॥
९८.५/१मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि ।
९८.५/२कोपेन महताविष्टो गाङ्गमम्भः समाविशत् ॥ ९८.५॥
९८.६/१गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः ।
९८.६/२जीवमुत्सर्जयामासुरग्निजीवा यतो मताः ॥ ९८.६॥
९८.७/१यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते ।
९८.७/२आजग्मुर्विबुधाः सर्व ऋषयः पितरस्तथा ॥ ९८.७॥
९८.८/१विनाग्निना न जीवामः स्तुवन्तोऽग्निं विशेषतः ।
९८.८/२अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवौकसः ॥ ९८.८॥
९८.९/१देवा ऊचुः । देवाञ् जीवय हव्येन कव्येन च पितृंस्तथा ।
९८.९/२मानुषान् अन्नपाकेन बीजानां क्लेदनेन च ॥ ९८.९॥
९८.१०/१ब्रह्मोवाच । अग्निरप्याह तान् देवाञ् शक्तो यो मे गतोऽनुजः ।
९८.१०/२क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः ॥ ९८.१०॥
९८.११/१सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने ।
९८.११/२कार्यं तु सर्वतस्तस्य भवतां जातवेदसः ॥ ९८.११॥
९८.१२/१इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत् ।
९८.१२/२इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत् ॥ ९८.१२॥
९८.१३/१अथापि क्रियमाणे वै कार्ये सैव गतिर्मम ।
९८.१३/२देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा ॥ ९८.१३॥
९८.१४/१आयुः कर्मणि च प्रीतिर्व्याप्तौ शक्तिश्च दीयते ।
९८.१४/२प्रयाजान् अनुयाजांश्च दास्यामो हव्यवाहन ॥ ९८.१४॥
९८.१५/१देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तव ।
९८.१५/२त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम ॥ ९८.१५॥
९८.१६/१ब्रह्मोवाच । ततस्तुष्टोऽभवद् वह्निर्देववाक्याद् यथाक्रमम् ।
९८.१६/२इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥ ९८.१६॥
९८.१७/१सर्वत्र वह्निरभयः समर्थोऽभूत् सुराज्ञया ।
९८.१७/२जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः ॥ ९८.१७॥
९८.१८/१जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते ।
९८.१८/२जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम् ॥ ९८.१८॥
९८.१९/१उभयत्र पदे वासः सर्वगोऽग्निस्ततोऽभवत् ।
९८.१९/२यथागतं सुरा जग्मुर्वह्नितीर्थं तद् उच्यते ॥ ९८.१९॥
९८.२०/१तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च ।
९८.२०/२तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥ ९८.२०॥
९८.२१/०अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम् ।
९८.२२/०देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥ २१.२॥
९८.२२/१अग्निप्रतिष्ठितं लिङ्गं तत्रास्तेऽनेकवर्णवत् ।
९८.२२/२तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत् ॥ ९८.२२॥
९९.१/१ब्रह्मोवाच । ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः ।
९९.१/२तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ ९९.१॥
९९.२/१आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः ।
९९.२/२न दारसंग्रहं लेभे वैराग्यान् नाग्निपूजनम् ॥ ९९.२॥
९९.३/१कनीयांस्तु समर्थोऽपि परिवित्तिभयान् मुने ।
९९.३/२नाकरोद् दारकर्मादि नैवाग्नीनामुपासनम् ॥ ९९.३॥
९९.४/१ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् ।
९९.४/२ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः ॥ ९९.४॥
९९.५/१पितर ऊचुः । ऋणत्रयापनोदाय क्रियतां दारसंग्रहः ॥ ९९.५॥
९९.६/१ब्रह्मोवाच । नेत्युवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते ।
९९.६/२कनीयांस्तु पितृन् प्राह न योग्यो दारसंग्रहः ॥ ९९.६॥
९९.७/१ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति ।
९९.७/२तावुभौ पुनरप्येवमूचुस्ते वै पितामहाः ॥ ९९.७॥
९९.८/१पितर ऊचुः । यातामुभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ ।
९९.८/२कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ ९९.८॥
९९.९/१गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् ।
९९.९/२स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ ९९.९॥
९९.१०/१दृष्टावनामिता ध्याता गौतमी सर्वकामदा ।
९९.१०/२न देशकालजात्यादि+ ंइयमोऽत्रावगाहने ।
९९.१०/३ज्येष्ठोऽनृणस्ततो भूयात् परिवित्तिर्न चेतरः ॥ ९९.१०॥
९९.११/१ब्रह्मोवाच । ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् ।
९९.११/२त्रयाणामपि लोकानां काक्षीवतोऽनृणोऽभवत् ॥ ९९.११॥
९९.१२/१ततः प्रभृति तत् तीर्थम् ऋणमोचनमुच्यते ।
९९.१२/२श्रौतस्मार्तर्णेभ्यश्च इतरेभ्यश्च नारद ।
९९.१२/३तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ ९९.१२॥
१००.१/१ब्रह्मोवाच । सुपर्णासंगमं नाम काद्रवासंगमं तथा ।
१००.१/२महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥ १००.१॥
१००.२/१अग्निकुण्डं च तत्रैव रौद्रं वैष्णवमेव च ।
१००.२/२सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥ १००.२॥
१००.३/१अप्सरा च नदी यत्र संगता गङ्गया तथा ।
१००.३/२तत्तीर्थस्मरणाद् एव कृतकृत्यो भवेन् नरः ॥ १००.३॥
१००.४/१सर्वपापप्रशमनं शृणु यत्नेन नारद ।
१००.४/२इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः ।
१००.४/३दत्तार्धतपसः सर्वे प्रोचुस्ते काश्यपं मुनिम् ॥ १००.४॥
१००.५/१वालखिल्या ऊचुः । पुत्रमुत्पादयानेन इन्द्रदर्पहरं शुभम् ।
१००.५/२तपसोऽर्धं तु दास्यामस्तथेत्याह मुनिस्तु तान् ॥ १००.५॥
१००.६/१सुपर्णायां ततो गर्भमादधे स प्रजापतिः ।
१००.६/२कद्र्वां चैव शनैर्ब्रह्मन् सर्पाणां सर्पमातरि ॥ १००.६॥
१००.७/१ते गर्भिण्यावुभे आह गन्तुकामः प्रजापतिः ।
१००.७/२अपराधो न च क्वापि कार्यो गमनमेव च ॥ १००.७॥
१००.८/१अन्यत्र गमनाच्छापो भविष्यति न संशयः ॥ १००.८॥
१००.९/१ब्रह्मोवाच । इत्युक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे ।
१००.९/२तदैव जग्मतुः सत्त्रम् ऋषीणां भावितात्मनाम् ॥ १००.९॥
१००.१०/१ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् ।
१००.१०/२उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते ॥ १००.१०॥
१००.११/१निवार्यमाणे बहुशो मुनिभिस्तत्त्वदर्शिभिः ।
१००.११/२विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च ॥ १००.११॥
१००.१२/१योषितां दुर्विलसितं कः संवरितुमीश्वरः ।
१००.१२/२ते दृष्ट्वा चुक्षुभुर्विप्रा अपमार्गरते उभे ॥ १००.१२॥
१००.१३/१अपमार्गस्थिते यस्माद् आपगे हि भविष्यथः ।
१००.१३/२सुपर्णा चैव कद्रूश्च नद्यौ ते सम्बभूवतुः ॥ १००.१३॥
१००.१४/१स कदाचिद् गृहं प्रायात् कश्यपोऽथ प्रजापतिः ।
१००.१४/२ऋषिभ्यस्तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम् ॥ १००.१४॥
१००.१५/१श्रुत्वा तु विस्मयाविष्टः किं करोमीत्यचिन्तयत् ।
१००.१५/२ऋषिभ्यः कथयामास वालखिल्या इति श्रुताः ॥ १००.१५॥
१००.१६/१त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् ।
१००.१६/२तत्र स्तुहि महेशानं पुनर्भार्ये भविष्यतः ॥ १००.१६॥
१००.१७/१ब्रह्महत्याभयाद् एव यत्र देवो महेश्वरः ।
१००.१७/२गङ्गामध्ये सदा ह्यास्ते मध्यमेश्वरसंज्ञया ॥ १००.१७॥
१००.१८/१तथेत्युक्त्वा कश्यपोऽपि स्नात्वा गङ्गां जितव्रतः ।
१००.१८/२तुष्टाव स्तवनैः पुण्यैर्देवदेवं महेश्वरम् ॥ १००.१८॥
१००.१९/१कश्यप उवाच । लोकत्रयैकाधिपतेर्न यस्य ।
१००.१९/२कुत्रापि वस्तुन्यभिमानलेशः ।
१००.१९/३स सिद्धनाथोऽखिलविश्वकर्ता ।
१००.१९/४भर्ता शिवाया भवतु प्रसन्नः ॥ १००.१९॥
१००.२०/१तापत्रयोष्णद्युतितापितानाम् ।
१००.२०/२इतस्ततो वै परिधावतां च ।
१००.२०/३शरीरिणां स्थावरजङ्गमानाम् ।
१००.२०/४त्वमेव दुःखव्यपनोददक्षः ॥ १००.२०॥
१००.२१/१सत्त्वादियोगस्त्रिविधोऽपि यस्य ।
१००.२१/२शक्रादिभिर्वक्तुमशक्य एव ।
१००.२१/३विचित्रवृत्तिं परिचिन्त्य सोमम् ।
१००.२१/४सुखी सदा दानपरो वरेण्यः ॥ १००.२१॥
१००.२२/१ब्रह्मोवाच । इत्यादिस्तुतिभिर्देवः स्तुतो गौरीपतिः शिवः ।
१००.२२/२प्रसन्नो ह्यददाच्छम्भुः कश्यपाय वरान् बहून् ॥ १००.२२॥
१००.२३/१भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते ।
१००.२३/२नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥ १००.२३॥
१००.२४/१तत्संगमनमात्रेण ताभ्यां भूयात् स्वकं वपुः ।
१००.२४/२ते गर्भिण्यौ पुनर्जाते गङ्गायाश्च प्रसादतः ॥ १००.२४॥
१००.२५/१ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः ।
१००.२५/२आह्वयामास तान् विप्रान् गौतमीतीरमाश्रितान् ॥ १००.२५॥
१००.२६/१सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः ।
१००.२६/२ब्राह्मणान् पूजयामास विधिदृष्टेन कर्मणा ॥ १००.२६॥
१००.२७/१भुक्तवत्स्वथ विप्रेषु कश्यपस्याथ मन्दिरे ।
१००.२७/२भर्तृसमीपोपविष्टा कद्रूर्विप्रान् निरीक्ष्य च ॥ १००.२७॥
१००.२८/१ततः कद्रूरृषीन् अक्ष्णा प्राहसत् ते च चुक्षुभुः ।
१००.२८/२येनाक्ष्णा हसिता पापे भज्यतां तेऽक्षि पापवत् ॥ १००.२८॥
१००.२९/१काणाभवत् ततः कद्रूः सर्पमातेति योच्यते ।
१००.२९/२ततः प्रसादयामास कश्यपो भगवान् ऋषीन् ॥ १००.२९॥
१००.३०/१ततः प्रसन्नास्ते प्रोचुर्गौतमी सरितां वरा ।
१००.३०/२अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥ १००.३०॥
१००.३१/१भार्यान्वितस्तथा चक्रे कश्यपो मुनिसत्तमः ।
१००.३१/२ततः प्रभृति तत् तीर्थमुभयोः संगमं विदुः ।
१००.३१/३सर्वपापप्रशमनं सर्वक्रतुफलप्रदम् ॥ १००.३१॥
१०१.१/१ब्रह्मोवाच । पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः ।
१०१.१/२स्मरणाद् एव पापानां नाशनं किं तु दर्शनात् ॥ १०१.१॥
१०१.२/१पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् ।
१०१.२/२यदृच्छया देवनदीं हसन्तीं ब्रह्मणोऽन्तिके ।
१०१.२/३तां दृष्ट्वा रूपसम्पन्नामुर्वशीं प्राह भूपतिः ॥ १०१.२॥
१०१.३/१राजोवाच । केयं रूपवती साध्वी स्थितेयं ब्रह्मणोऽन्तिके ।
१०१.३/२सर्वासामुत्तमा योषिद् दीपयन्ती सभामिमाम् ॥ १०१.३॥
१०१.४/१ब्रह्मोवाच । उर्वशी प्राह राजानमियं देवनदी शुभा ।
१०१.४/२सरस्वती ब्रह्मसुता नित्यमेति च याति च ।
१०१.४/३तच्छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥ १०१.४॥
१०१.५/१ब्रह्मोवाच । उर्वशी पुनरप्याह राजानं भूरिदक्षिणम् ॥ १०१.५॥
१०१.६/१उर्वश्युवाच । आनीयते महाराज तस्याः सर्वं निवेद्य च ॥ १०१.६॥
१०१.७/१ब्रह्मोवाच । ततस्तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम् ।
१०१.७/२सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी ॥ १०१.७॥
१०१.८/१सरस्वत्यपि तन् मेने उर्वश्या यन् निवेदितम् ।
१०१.८/२सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः ॥ १०१.८॥
१०१.९/१सरस्वत्यास्ततस्तीरे स रेमे बहुलाः समाः ।
१०१.९/२सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः ॥ १०१.९॥
१०१.१०/१तां गच्छन्तीं नृपगृहं नित्यमेव सरस्वतीम् ।
१०१.१०/२सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥ १०१.१०॥
१०१.११/१तस्यै ददावहं शापं भूया इति महानदी ।
१०१.११/२मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम् ॥ १०१.११॥
१०१.१२/१कमण्डलुभवां पूतां मातरं लोकपावनीम् ।
१०१.१२/२तापत्रयोपशमनीमैहिकामुष्मिकप्रदाम् ॥ १०१.१२॥
१०१.१३/१सा गत्वा गौतमीं देवीं प्राह मच्छापमादितः ।
१०१.१३/२गङ्गापि मामुवाचेदं विशापां कर्तुमर्हसि ॥ १०१.१३॥
१०१.१४/१न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि ।
१०१.१४/२स्त्रीणामेष स्वभावो वै पुंस्कामा योषितो यतः ॥ १०१.१४॥
१०१.१५/१स्वभावचपला ब्रह्मन् योषितः सकला अपि ।
१०१.१५/२त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥ १०१.१५॥
१०१.१६/१विडम्बयति कं वा न कामो वापि स्वभावतः ।
१०१.१६/२ततो विशापमवदं दृश्यापि स्यात् सरस्वती ॥ १०१.१६॥
१०१.१७/१तस्माच्छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती ।
१०१.१७/२यत्रैषा संगता देवी गङ्गायां शापविह्वला ॥ १०१.१७॥
१०१.१८/१तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः ।
१०१.१८/२तपस्तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥ १०१.१८॥
१०१.१९/१सर्वान् कामान् अथावाप गङ्गायाश्च प्रसादतः ।
१०१.१९/२ततः प्रभृति तत् तीर्थं पुरूरवसमुच्यते ॥ १०१.१९॥
१०१.२०/१सरस्वतीसंगमं च ब्रह्मतीर्थं तद् उच्यते ।
१०१.२०/२सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥ १०१.२०॥
१०२.१/१ब्रह्मोवाच । सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ।
१०२.१/२एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥ १०२.१॥
१०२.२/१तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् ।
१०२.२/२सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥ १०२.२॥
१०२.३/१एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः ।
१०२.३/२सर्वासामुत्तमां कांचिन् निर्ममे लोकसुन्दरीम् ॥ १०२.३॥
१०२.४/१तां दृष्ट्वा विकृता बुद्धिर्ममासीन् मुनिसत्तम ।
१०२.४/२गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥ १०२.४॥
१०२.५/१मृगीभूता तु सा बाला मृगोऽहमभवं तदा ।
१०२.५/२मृगव्याधोऽभवच्छम्भुर्धर्मसंरक्षणाय च ॥ १०२.५॥
१०२.६/१ता मद्भीताः पञ्च सुता गङ्गामीयुर्महानदीम् ।
१०२.६/२ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः ॥ १०२.६॥
१०२.७/१धनुर्गृहीत्वा सशरमीशोऽपि मृगरूपिणम् ।
१०२.७/२मामुवाच वधिष्ये त्वां मृगव्याधस्तदा हरः ॥ १०२.७॥
१०२.८/१तत्कर्मणो निवृत्तोऽहं प्रादां कन्यां विवस्वते ।
१०२.८/२सावित्र्याद्याः पञ्च सुता नदीरूपेण संगताः ॥ १०२.८॥
१०२.९/१ता आगताः पुनश्चापि स्वर्गं लोकं ममान्तिकम् ।
१०२.९/२यत्र ताः संगता देव्या पञ्च तीर्थानि नारद ॥ १०२.९॥
१०२.१०/१संगतानि च पुण्यानि पञ्च नद्यः सरस्वती ।
१०२.१०/२तेषु स्नानं तथा दानं यत् किंचित् कुरुते नरः ॥ १०२.१०॥
१०२.११/१सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम् ।
१०२.११/२तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम् ।
१०२.११/३स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम् ॥ १०२.११॥
१०३.१/१ब्रह्मोवाच । शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् ।
१०३.१/२तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद ॥ १०३.१॥
१०३.२/१आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः ।
१०३.२/२गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥ १०३.२॥
१०३.३/१हयमेध उपक्रान्ते ऋत्विग्भिरृषिभिर्वृते ।
१०३.३/२तस्य राज्ञो महाबाहोर्वसिष्ठस्तु पुरोहितः ॥ १०३.३॥
१०३.४/१तद्यज्ञवाटमगमद् दानवोऽथ हिरण्यकः ।
१०३.४/२तं दानवमभिप्रेक्ष्य देवास्त्विन्द्रपुरोगमाः ॥ १०३.४॥
१०३.५/१भीताः केचिद् दिवं जग्मुर्हव्यवाट् शमिमाविशत् ।
१०३.५/२अश्वत्थं विष्णुरगमद् भानुरर्कं वटं शिवः ॥ १०३.५॥
१०३.६/१सोमः पलाशमगमद् गङ्गाम्भो हव्यवाहनः ।
१०३.६/२अश्विनौ तु हयं गृह्य वायसोऽभूद् यमः स्वयम् ॥ १०३.६॥
१०३.७/१एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः ।
१०३.७/२यष्टिमादाय दैतेयान् न्यवारयद् अथाज्ञया ॥ १०३.७॥
१०३.८/१ततः प्रवृत्तः पुनरेव यज्ञो ।
१०३.८/२दैत्यो गतः स्वेन बलेन युक्तः ।
१०३.८/३इमानि तीर्थानि ततः शुभानि ।
१०३.८/४दशाश्वमेधस्य फलानि दद्युः ॥ १०३.८॥
१०३.९/१प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः ।
१०३.९/२आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥ १०३.९॥
१०३.१०/१देवाश्च ऋषयः सर्वे निवृत्ते मखविस्तरे ।
१०३.१०/२तुष्टाः प्रोचुर्वसिष्ठं तं यजमानं प्रियव्रतम् ॥ १०३.१०॥
१०३.११/१तांश्च वृक्षांस्तां च गङ्गां मुदा युक्ताः पुनः पुनः ।
१०३.११/२हयमेधस्य निष्पत्त्यै एते याता इतस्ततः ॥ १०३.११॥
१०३.१२/१हयमेधफलं दद्युस्तीर्थानीत्यवदन् सुराः ।
१०३.१२/२तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद ।
१०३.१२/३हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥ १०३.१२॥
१०४.१/१ब्रह्मोवाच । विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् ।
१०४.१/२वारुणं ब्राह्ममाग्नेयमैन्द्रमैन्दवमैश्वरम् ॥ १०४.१॥
१०४.२/१मैत्रं च वैष्णवं चैव याम्यमाश्विनमौशनम् ।
१०४.२/२एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे ॥ १०४.२॥
१०४.३/१हरिश्चन्द्र इति त्वासीद् इक्ष्वाकुप्रभवो नृपः ।
१०४.३/२तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस्तथा ।
१०४.३/३कृत्वातिथ्यं तयोः सम्यग् *घरिश्चन्द्रोऽब्रवीद् ऋषी ॥ १०४.३॥
१०४.४/१हरिश्चन्द्र उवाच । पुत्रार्थं क्लिश्यते लोकः किं
पुत्रेण भविष्यति ।
१०४.४/२ज्ञानी वाप्यथवाज्ञानी उत्तमो मध्यमोऽथवा ।
१०४.४/३एतं मे संशयं नित्यं ब्रूताम् ऋषिवरावुभौ ॥ १०४.४॥
१०४.५/१ब्रह्मोवाच । तावूचतुर्हरिश्चन्द्रं पर्वतो नारदस्तथा ॥ १०४.५॥
१०४.६/१नारदपर्वतावूचतुः । एकधा दशधा राजञ् शतधा च सहस्रधा ।
१०४.६/२उत्तरं विद्यते सम्यक् तथाप्येतद् उदीर्यते ॥ १०४.६॥
१०४.७/१नापुत्रस्य परो लोको विद्यते नृपसत्तम ।
१०४.७/२जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥ १०४.७॥
१०४.८/१दशानामश्वमेधानामभिषेकफलं लभेत् ।
१०४.८/२आत्मप्रतिष्ठा पुत्रात् स्याज्जायते चामरोत्तमः ॥ १०४.८॥
१०४.९/१अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः ।
१०४.९/२त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान् ॥ १०४.९॥
१०४.१०/१किं तु मूलं किमु जलं किं तु श्मश्रूणि किं तपः ।
१०४.१०/२विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः ॥ १०४.१०॥
१०४.११/१पुत्र एव परो लोको धर्मः कामोऽर्थ एव च ।
१०४.११/२पुत्रो मुक्तिः परं ज्योतिस्तारकः सर्वदेहिनाम् ॥ १०४.११॥
१०४.१२/१विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ ।
१०४.१२/२पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥ १०४.१२॥
१०४.१३/१विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम् ।
१०४.१३/२विना पुत्रेण यज्जन्म व्यर्थं तद् अवभाति मे ॥ १०४.१३॥
१०४.१४/१तस्मात् पुत्रसमं किंचित् काम्यं नास्ति जगत्त्रये ।
१०४.१४/२तच्छ्रुत्वा विस्मयवांस्तावुवाच नृपः पुनः ॥ १०४.१४॥
१०४.१५/१हरिश्चन्द्र उवाच । कथं मे स्यात् सुतो ब्रूतां यत्र
क्वापि यथातथम् ।
१०४.१५/२येन केनाप्युपायेन कृत्वा किंचित् तु पौरुषम् ।
१०४.१५/३मन्त्रेण यागदानाभ्यामुत्पाद्योऽसौ सुतो मया ॥ १०४.१५॥
१०४.१६/१ब्रह्मोवाच । तावूचतुर्नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् ।
१०४.१६/२ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद ॥ १०४.१६॥
१०४.१७/१तत्रापाम्पतिरुत्कृष्टं ददाति मनसीप्सितम् ।
१०४.१७/२वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥ १०४.१७॥
१०४.१८/१स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति ।
१०४.१८/२एतच्छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥ १०४.१८॥
१०४.१९/१तोषयामास वरुणं गौतमीतीरमाश्रितः ।
१०४.१९/२ततश्च तुष्टो वरुणो हरिश्चन्द्रमुवाच ह ॥ १०४.१९॥
१०४.२०/१वरुण उवाच । पुत्रं दास्यामि ते राजंल्लोकत्रयविभूषणम् ।
१०४.२०/२यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम् ॥ १०४.२०॥
१०४.२१/१ब्रह्मोवाच । हरिश्चन्द्रोऽपि वरुणं यक्ष्ये तेनेत्यवोचत ।
१०४.२१/२ततो गत्वा हरिश्चन्द्रश्चरुं कृत्वा तु वारुणम् ॥ १०४.२१॥
१०४.२२/१भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात् ।
१०४.२२/२जाते पुत्रे अपामीशः प्रोवाच वदतां वरः ॥ १०४.२२॥
१०४.२३/१वरुण उवाच । अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं
पुरा ॥ १०४.२३॥
१०४.२४/१ब्रह्मोवाच । हरिश्चन्द्रोऽपि वरुणं प्रोवाचेदं
क्रमागतम् ॥ १०४.२४॥
१०४.२५/१हरिश्चन्द्र उवाच । निर्दशो मेध्यतां याति
पशुर्यक्ष्ये ततो ह्यहम् ॥ १०४.२५॥
१०४.२६/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं राज्ञो वरुणोऽगात् स्वमालयम् ।
१०४.२६/२निर्दशे पुनरभ्येत्य यजस्वेत्याह तं नृपम् ॥ १०४.२६॥
१०४.२७/१राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः ।
१०४.२७/२पशोर्दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥ १०४.२७॥
१०४.२८/१तच्छ्रुत्वा राजवचनं पुनः प्रायाद् अपाम्पतिः ।
१०४.२८/२जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥ १०४.२८॥
१०४.२९/१पुनरप्याह राजानं यजस्वेति ततोऽब्रवीत् ।
१०४.२९/२राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते ॥ १०४.२९॥
१०४.३०/१सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना ।
१०४.३०/२पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद ।
१०४.३०/३यजस्वेति नृपं प्राह राजा प्राह त्वपाम्पतिम् ॥ १०४.३०॥
१०४.३१/१राजोवाच । यदा तु क्षत्रियो यज्ञे पशुर्भवति वारिप ।
१०४.३१/२धनुर्वेदं यदा वेत्ति तदा स्यात् पशुरुत्तमः ॥ १०४.३१॥
१०४.३२/१ब्रह्मोवाच । तच्छ्रुत्वा राजवचनं वरुणोऽगात् स्वमालयम् ।
१०४.३२/२यदास्त्रेषु च शस्त्रेषु समर्थोऽभूत् स रोहितः ॥ १०४.३२॥
१०४.३३/१सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्वरिंदमः ।
१०४.३३/२युवराज्यमनुप्राप्ते रोहिते षोडशाब्दिके ॥ १०४.३३॥
१०४.३४/१प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः ।
१०४.३४/२आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम् ॥ १०४.३४॥
१०४.३५/१ओमित्युक्त्वा नृपवर ऋत्विजः प्राह भूपतिः ।
१०४.३५/२रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च ॥ १०४.३५॥
१०४.३६/१हरिश्चन्द्र उवाच । एहि पुत्र महावीर यक्ष्ये त्वां
वरुणाय हि ॥ १०४.३६॥
१०४.३७/१ब्रह्मोवाच । किमेतद् इत्यथोवाच रोहितः पितरं प्रति ।
१०४.३७/२पितापि तद् यथावृत्तमाचचक्षे सविस्तरम् ।
१०४.३७/३रोहितः पितरं प्राह शृण्वतो वरुणस्य च ॥ १०४.३७॥
१०४.३८/१रोहित उवाच । अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः ।
१०४.३८/२विष्णवे लोकनाथाय यक्ष्येऽहं त्वरितं शुचिः ।
१०४.३८/३पशुना वरुणेनाथ तद् अनुज्ञातुमर्हसि ॥ १०४.३८॥
१०४.३९/१ब्रह्मोवाच । रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस्तदा ।
१०४.३९/२कोपेन महताविष्टो जलोदरमथाकरोत् ॥ १०४.३९॥
१०४.४०/१हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ ।
१०४.४०/२गृहीत्वा स धनुर्दिव्यं रथारूढो गतव्यथः ॥ १०४.४०॥
१०४.४१/१यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः ।
१०४.४१/२गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सोऽपि रोहितः ॥ १०४.४१॥
१०४.४२/१व्यतीतान्यथ वर्षाणि पञ्च षष्ठे प्रवर्तति ।
१०४.४२/२तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम् ॥ १०४.४२॥
१०४.४३/१मया पुत्रेण जातेन पितुर्वै क्लेशकारिणा ।
१०४.४३/२किं फलं किं नु कृत्यं स्याद् इत्येवं पर्यचिन्तयत् ॥ १०४.४३॥
१०४.४४/१तस्यास्तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः ।
१०४.४४/२गङ्गातीरे वर्तमानमपश्यद् ऋषिसत्तमम् ॥ १०४.४४॥
१०४.४५/१अजीगर्तमिति ख्यातम् ऋषेस्तु वयसः सुतम् ।
१०४.४५/२त्रिभिः पुत्रैरनुवृतं भार्यया क्षीणवृत्तिकम् ।
१०४.४५/३तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचोऽब्रवीत् ॥ १०४.४५॥
१०४.४६/१रोहित उवाच । क्षीणवृत्तिः कृशः कस्माद् दुर्मना
इव लक्ष्यसे ॥ १०४.४६॥
१०४.४७/१ब्रह्मोवाच । अजीगर्तोऽपि चोवाच रोहितं नृपतेः सुतम् ॥ १०४.४७॥
१०४.४८/१अजीगर्त उवाच । वर्तनं नास्ति देहस्य भोक्तारो बहवश्च मे ।
१०४.४८/२विनान्नेन मरिष्यामो ब्रूहि किं करवामहे ॥ १०४.४८॥
१०४.४९/१ब्रह्मोवाच । तच्छ्रुत्वा पुनरप्याह नृपपुत्र ऋषिं
तदा ॥ १०४.४९॥
१०४.५०/१रोहित उवाच । तव किं वर्तते चित्ते तद् ब्रूहि वदतां
वर ॥ १०४.५०॥
१०४.५१/१अजीगर्त उवाच । हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे ।
१०४.५१/२विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः ॥ १०४.५१॥
१०४.५२/१सुता मे सन्ति भार्या च अहं वै पञ्चमस्तथा ।
१०४.५२/२नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम ॥ १०४.५२॥
१०४.५३/१रोहित उवाच । किं क्रीणासि महाबुद्धेऽजीगर्त सत्यमेव मे ।
१०४.५३/२वद नान्यच्च वक्तव्यं विप्रा वै सत्यवादिनः ॥ १०४.५३॥
१०४.५४/१अजीगर्त उवाच । त्रयाणामपि पुत्राणामेकं वा मां तथैव च ।
१०४.५४/२भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम् ॥ १०४.५४॥
१०४.५५/१रोहित उवाच । किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा ।
१०४.५५/२युवानं देहि पुत्रं मे पुत्राणां यं त्वमिच्छसि ॥ १०४.५५॥
१०४.५६/१अजीगर्त उवाच । ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित ।
१०४.५६/२माता कनीयसं चापि न क्रीणाति ततोऽनयोः ।
१०४.५६/३मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम् ॥ १०४.५६॥
१०४.५७/१रोहित उवाच । वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः ।
१०४.५७/२यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने ॥ १०४.५७॥
१०४.५८/१ब्रह्मोवाच । तथेत्युक्त्वा त्वजीगर्तः पुत्रमूल्यमकल्पयत् ।
१०४.५८/२गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् ।
१०४.५८/३राजपुत्र वरं देहि दास्यामि स्वसुतं तव ॥ १०४.५८॥
१०४.५९/१ब्रह्मोवाच । तथेत्युक्त्वा रोहितोऽपि प्रादात् सवसनं धनम् ।
१०४.५९/२दत्त्वा जगाम पितरम् ऋषिपुत्रेण रोहितः ।
१०४.५९/३पित्रे निवेदयामास क्रयक्रीतम् ऋषेः सुतम् ॥ १०४.५९॥
१०४.६०/१रोहित उवाच । वरुणाय यजस्व त्वं पशुना त्वमरुग् भव ॥ १०४.६०॥
१०४.६१/१ब्रह्मोवाच । तथोवाच हरिश्चन्द्रः पुत्रवाक्याद् अनन्तरम् ॥ १०४.६१॥
१०४.६२/१हरिश्चन्द्र उवाच । ब्राह्मणाः क्षत्रिया वैश्या राज्ञा
पाल्या इति श्रुतिः ।
१०४.६२/२विशेषतस्तु वर्णानां गुरवो हि द्विजोत्तमाः ॥ १०४.६२॥
१०४.६३/१विष्णोरपि हि ये पूज्या मादृशाः कुत एव हि ।
१०४.६३/२अवज्ञयापि येषां स्यान् नृपाणां स्वकुलक्षयः ॥ १०४.६३॥
१०४.६४/१तान् पशून् कृत्वा कृपणं कथं रक्षितुमुत्सहे ।
१०४.६४/२अहं च ब्राह्मणं कुर्यां पशुं नैतद् धि युज्यते ॥ १०४.६४॥
१०४.६५/१वरं हि जातु मरणं न कथंचिद् द्विजं पशुम् ।
१०४.६५/२करोमि तस्मात् पुत्र त्वं ब्राह्मणेन सुखं व्रज ॥ १०४.६५॥
१०४.६६/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥ १०४.६६॥
१०४.६७/१आकाशवाग् उवाच । गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः ।
१०४.६७/२पशुना विप्रपुत्रेण रोहितेन सुतेन च ॥ १०४.६७॥
१०४.६८/१त्वया कार्यः क्रतुश्चैव शुनःशेपवधं विना ।
१०४.६८/२क्रतुः पूर्णो भवेत् तत्र तस्माद् याहि महामते ॥ १०४.६८॥
१०४.६९/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं शीघ्रं गङ्गामगान् नृपोत्तमः ।
१०४.६९/२विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा ॥ १०४.६९॥
१०४.७०/१वामदेवेन ऋषिणा तथान्यैर्मुनिभिः सह ।
१०४.७०/२प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः ॥ १०४.७०॥
१०४.७१/१वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् ।
१०४.७१/२कृत्वा सर्वं यथान्यायं तस्मिन् यज्ञे प्रवर्तिते ॥ १०४.७१॥
१०४.७२/१शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् ।
१०४.७२/२वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रोऽब्रवीद् इदम् ॥ १०४.७२॥
१०४.७३/१विश्वामित्र उवाच । देवान् ऋषीन् हरिश्चन्द्रं रोहितं
च विशेषतः ।
१०४.७३/२अनुजानन्त्विमं सर्वे शुनःशेपं द्विजोत्तमम् ॥ १०४.७३॥
१०४.७४/१येभ्यस्त्वयं हविर्देयो देवेभ्योऽयं पृथक् पृथक् ।
१०४.७४/२अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः ॥ १०४.७४॥
१०४.७५/१वसाभिर्लोमभिस्त्वग्भिर्मांसैः सन्मन्त्रितैर्मखे ।
१०४.७५/२अग्नौ होष्यः पशुश्चायं शुनःशेपो द्विजोत्तमः ॥ १०४.७५॥
१०४.७६/१उपासिताः स्युर्विप्रेन्द्रास्ते सर्वे त्वनुमन्य माम् ।
१०४.७६/२गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान् पृथक् पृथक् ॥ १०४.७६॥
१०४.७७/१मन्त्रैः स्तोत्रैः स्तुवन्तस्ते मुदं यान्तु शिवे रताः ।
१०४.७७/२एनं रक्षन्तु मुनयो देवाश्च हविषो भुजः ॥ १०४.७७॥
१०४.७८/१ब्रह्मोवाच । तथेत्यूचुश्च मुनयो मेने च नृपसत्तमः ।
१०४.७८/२ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम् ॥ १०४.७८॥
१०४.७९/१स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः ।
१०४.७९/२ततस्तुष्टाः सुरगणाः शुनःशेपं च ते मुने ।
१०४.७९/३अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः ॥ १०४.७९॥
१०४.८०/१सुरा ऊचुः । क्रतुः पूर्णो भवत्वेष शुनःशेपवधं विना ॥ १०४.८०॥
१०४.८१/१ब्रह्मोवाच । विशेषेणाथ वरुणश्चावदन् नृपसत्तमम् ।
१०४.८१/२ततः पूर्णोऽभवद् राज्ञो नृमेधो लोकविश्रुतः ॥ १०४.८१॥
१०४.८२/१देवानां च प्रसादेन मुनीनां च प्रसादतः ।
१०४.८२/२तीर्थस्य तु प्रसादेन राज्ञः पूर्णोऽभवत् क्रतुः ॥ १०४.८२॥
१०४.८३/१विश्वामित्रः शुनःशेपं पूजयामास संसदि ।
१०४.८३/२अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके ॥ १०४.८३॥
१०४.८४/१ज्येष्ठं चकार पुत्राणामात्मनः स तु कौशिकः ।
१०४.८४/२न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः ॥ १०४.८४॥
१०४.८५/१शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः ।
१०४.८५/२ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयामास तान् सुतान् ॥ १०४.८५॥
१०४.८६/१वरेण मुनिशार्दूलस्तद् एतत् कथितं मया ।
१०४.८६/२एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे ॥ १०४.८६॥
१०४.८७/१तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः ।
१०४.८७/२बहूनि तेषां नामानि मत्तः शृणु महामते ॥ १०४.८७॥
१०४.८८/१हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् ।
१०४.८८/२इत्याद्यष्ट सहस्राणि तीर्थान्यथ चतुर्दश ॥ १०४.८८॥
१०४.८९/१तेषु स्नानं च दानं च नरमेधफलप्रदम् ।
१०४.८९/२आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम ॥ १०४.८९॥
१०४.९०/१यः पठेत् पाठयेद् वापि शृणुयाद् वापि भक्तितः ।
१०४.९०/२अपुत्रः पुत्रमाप्नोति यच्चान्यन् मनसः प्रियम् ॥ १०४.९०॥
१०५.१/१ब्रह्मोवाच । सोमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
१०५.१/२तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद ॥ १०५.१॥
१०५.२/१सोमो राजामृतमयो गन्धर्वाणां पुराभवत् ।
१०५.२/२न देवानां तदा देवा मामभ्येत्येदमब्रुवन् ॥ १०५.२॥
१०५.३/१देवा ऊचुः । गन्धर्वैराहृतः सोमो देवानां प्राणदः पुरा ।
१०५.३/२तमध्यायन् सुरगणा ऋषयस्त्वतिदुःखिताः ।
१०५.३/३यथा स्यात् सोमो ह्यस्माकं तथा नीतिर्विधीयताम् ॥ १०५.३॥
१०५.४/१ब्रह्मोवाच । तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः ।
१०५.४/२तेभ्यो दत्त्वाथ मां देवाः सोममाहर्तुमर्हथ ॥ १०५.४॥
१०५.५/१वाचं प्रत्यूचुरमरास्त्वां दातुं न क्षमा वयम् ।
१०५.५/२विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥ १०५.५॥
१०५.६/१पुनर्वाग् अब्रवीद् देवान् पुनरेष्याम्यहं त्विह ।
१०५.६/२अत्र बुद्धिर्विधातव्या क्रियतां क्रतुरुत्तमः ॥ १०५.६॥
१०५.७/१गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि ।
१०५.७/२मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥ १०५.७॥
१०५.८/१गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह ।
१०५.८/२तथेत्युक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥ १०५.८॥
१०५.९/१देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान् ।
१०५.९/२आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥ १०५.९॥
१०५.१०/१ततो देवगिरिर्नाम पर्वतस्याभवन् मुने ।
१०५.१०/२तत्रागमन् सुरगणा गन्धर्वा यक्षकिंनराः ॥ १०५.१०॥
१०५.११/१देवाः सिद्धाश्च ऋषयस्तथाष्टौ देवयोनयः ।
१०५.११/२ऋषिभिर्गौतमीतीरे क्रियमाणे महाध्वरे ॥ १०५.११॥
१०५.१२/१तत्र देवैः परिवृतः सहस्राक्षोऽभ्यभाषत ॥ १०५.१२॥
१०५.१३/१इन्द्र उवाच । गन्धर्वान् अथ सम्पूज्य सरस्वत्याः समीपतः ।
१०५.१३/२सरस्वत्या पणध्वं नो युष्माकममृतात्मना ॥ १०५.१३॥
१०५.१४/१ब्रह्मोवाच । तच्छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः ।
१०५.१४/२सोमं दत्त्वा सुरेभ्यस्तु जगृहुस्तां सरस्वतीम् ॥ १०५.१४॥
१०५.१५/१सोमोऽभवच्चामराणां गन्धर्वाणां सरस्वती ।
१०५.१५/२अवसत् तत्र वागीशा तथापि च सुरान्तिके ॥ १०५.१५॥
१०५.१६/१आयाति च रहो नित्यमुपांशु क्रियतामिति ।
१०५.१६/२अत एव हि सोमस्य क्रयो भवति नारद ॥ १०५.१६॥
१०५.१७/१उपांशुना वर्तितव्यं सोमक्रयण एव हि ।
१०५.१७/२ततोऽभवद् देवतानां सोमश्चापि सरस्वती ॥ १०५.१७॥
१०५.१८/१गन्धर्वाणां नैव सोमो नैवासीच्च सरस्वती ।
१०५.१८/२तत्रागमन् सर्व एव सोमार्थं गौतमीतटम् ॥ १०५.१८॥
१०५.१९/१गावो देवाः पर्वता यक्षरक्षाः ।
१०५.१९/२सिद्धाः साध्या मुनयो गुह्यकाश्च ।
१०५.१९/३गन्धर्वास्ते मरुतः पन्नगाश्च ।
१०५.१९/४सर्वौषध्यो मातरो लोकपालाः ।
१०५.१९/५रुद्रादित्या वसवश्चाश्विनौ च ।
१०५.१९/६येऽन्ये देवा यज्ञभागस्य योग्याः ॥ १०५.१९॥
१०५.२०/१पञ्चविंशतिनद्यस्तु गङ्गायां संगता मुने ।
१०५.२०/२पूर्णाहुतिर्यत्र दत्ता पूर्णाख्यानं तद् उच्यते ॥ १०५.२०॥
१०५.२१/१गौतम्यां संगता यास्तु सर्वाश्चापि यथोदिताः ।
१०५.२१/२तन्नामधेयतीर्थानि संक्षेपाच्छृणु नारद ॥ १०५.२१॥
१०५.२२/१सोमतीर्थं च गान्धर्वं देवतीर्थमतः परम् ।
१०५.२२/२पूर्णातीर्थं ततः शालं श्रीपर्णासंगमं तथा ॥ १०५.२२॥
१०५.२३/१स्वागतासंगमं पुण्यं कुसुमायाश्च संगमम् ।
१०५.२३/२पुष्टिसंगममाख्यातं कर्णिकासंगमं शुभम् ॥ १०५.२३॥
१०५.२४/१वैणवीसंगमश्चैव कृशरासंगमस्तथा ।
१०५.२४/२वासवीसंगमश्चैव शिवशर्या तथा शिखी ॥ १०५.२४॥
१०५.२५/१कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा ।
१०५.२५/२अजो वृद्धः सुरो भद्रो गौतम्या सह संगताः ॥ १०५.२५॥
१०५.२६/१एते चान्ये च बहवो नदीनदसहायगाः ।
१०५.२६/२पृथिव्यां यानि तीर्थानि ह्यगमन् देवपर्वते ॥ १०५.२६॥
१०५.२७/१सोमार्थं वै तथा चान्येऽप्यागमन् मखमण्डपम् ।
१०५.२७/२तानि तीर्थानि गङ्गायां संगतानि यथाक्रमम् ॥ १०५.२७॥
१०५.२८/१नदीरूपेण कान्येव नदरूपेण कानिचित् ।
१०५.२८/२सरोरूपेण कान्यत्र स्तवरूपेण कानिचित् ॥ १०५.२८॥
१०५.२९/१तान्येव सर्वतीर्थानि विख्यातानि पृथक् पृथक् ।
१०५.२९/२तेषु स्नानं जपो होमः पितृतर्पणमेव च ॥ १०५.२९॥
१०५.३०/१सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् ।
१०५.३०/२एतेषां पठनं चापि स्मरणं वा करोति यः ।
१०५.३०/३सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥ १०५.३०॥
१०६.१/१ब्रह्मोवाच । प्रवरासंगमो नाम श्रेष्ठा चैव महानदी ।
१०६.१/२यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ १०६.१॥
१०६.२/१देवानां दानवानां च संगमोऽभूत् सुदारुणः ।
१०६.२/२तेषां परस्परं वापि प्रीतिश्चाभून् महामुने ॥ १०६.२॥
१०६.३/१तेऽप्येवं मन्त्रयामासुर्देवा वै दानवा मिथः ।
१०६.३/२मेरुपर्वतमासाद्य परस्परहितैषिणः ॥ १०६.३॥
१०६.४/१देवदैत्या ऊचुः । अमृतेनामरत्वं स्याद् उत्पाद्यामृतमुत्तमम् ।
१०६.४/२पिबामः सर्व एवैते भवामश्चामरा वयम् ॥ १०६.४॥
१०६.५/१एकीभूत्वा वयं लोकान् पालयामः सुखानि च ।
१०६.५/२प्राप्स्यामः संगरं हित्वा संगरो दुःखकारणम् ॥ १०६.५॥
१०६.६/१प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः ।
१०६.६/२यतः स्नेहेन वृत्तिर्या सास्माकं सुखदा सदा ॥ १०६.६॥
१०६.७/१वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन ।
१०६.७/२न च त्रैलोक्यराज्येऽपि कैवल्ये वा सुखं मनाक् ।
१०६.७/३तद् ऊर्ध्वमपि वा यत् तु निर्वैरत्वाद् अवाप्यते ॥ १०६.७॥
१०६.८/१ब्रह्मोवाच । एवं परस्परं प्रीताः सन्तो देवाश्च दानवाः ।
१०६.८/२एकीभूताश्च सुप्रीता विमथ्य वरुणालयम् ॥ १०६.८॥
१०६.९/१मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् ।
१०६.९/२देवाश्च दानवाः सर्वे ममन्थुर्वरुणालयम् ॥ १०६.९॥
१०६.१०/१उत्पन्नं च ततः पुण्यममृतं सुरवल्लभम् ।
१०६.१०/२निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥ १०६.१०॥
१०६.११/१यामः स्वं स्वमधिष्ठानं कृतकार्याः श्रमं गताः ।
१०६.११/२सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥ १०६.११॥
१०६.१२/१यदा सर्वागमो यत्र यस्मिंल्लग्ने शुभावहे ।
१०६.१२/२विभज्यतामिदं पुण्यममृतं सुरसत्तमाः ॥ १०६.१२॥
१०६.१३/१इत्युक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः ।
१०६.१३/२गतेषु दैत्यसंघेषु देवाः सर्वेऽन्वमन्त्रयन् ॥ १०६.१३॥
१०६.१४/१देवा ऊचुः । गतास्ते रिपवोऽस्माकं दैवयोगाद् अरिंदमाः ।
१०६.१४/२रिपूणाममृतं नैव देयं भवति सर्वथा ॥ १०६.१४॥
१०६.१५/१ब्रह्मोवाच । बृहस्पतिस्तथेत्याह पुनराह सुरान् इदम् ॥ १०६.१५॥
१०६.१६/१बृहस्पतिरुवाच । न जानन्ति यथा पापा पिबध्वं च तथामृतम् ।
१०६.१६/२अयमेवोचितो मन्त्रो यच्छत्रूणां पराभवः ॥ १०६.१६॥
१०६.१७/१द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः ।
१०६.१७/२न विश्वास्या न चाख्येया नैव मन्त्र्याश्च शत्रवः ॥ १०६.१७॥
१०६.१८/१तेभ्यो न देयममृतं भवेयुरमरास्ततः ।
१०६.१८/२अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु ।
१०६.१८/३ताञ् जेतुं नैव शक्ष्यामो न देयममृतं ततः ॥ १०६.१८॥
१०६.१९/१ब्रह्मोवाच । इति सम्मन्त्र्य ते देवा वाचस्पतिमथाब्रुवन् ॥ १०६.१९॥
१०६.२०/१देवा ऊचुः । क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः ।
१०६.२०/२कुर्मस्तद् एव प्रथमं वद वाचस्पते तथा ॥ १०६.२०॥
१०६.२१/१बृहस्पतिरुवाच । यान्तु ब्रह्माणममराः पृच्छन्त्वत्र गतिं पराम् ।
१०६.२१/२स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥ १०६.२१॥
१०६.२२/१ब्रह्मोवाच । बृहस्पतेर्वचः श्रुत्वा मदन्तिकमथागमन् ।
१०६.२२/२नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन् ॥ १०६.२२॥
१०६.२३/१तद् देववचनात् पुत्र तैः सुरैरगमं हरिम् ।
१०६.२३/२विष्णवे कथितं सर्वं शम्भवे विषहारिणे ॥ १०६.२३॥
१०६.२४/१अहं विष्णुश्च शम्भुश्च देवगन्धर्वकिंनरैः ।
१०६.२४/२मेरुकन्दरमागत्य न जानन्ति यथासुराः ॥ १०६.२४॥
१०६.२५/१रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे ।
१०६.२५/२आदित्यस्तत्र विज्ञाता सोमभोज्यान् अथेतरान् ॥ १०६.२५॥
१०६.२६/१सोमो दातामृतं भागं चक्रधृग् रक्षकस्तथा ।
१०६.२६/२नैव जानन्ति तद् दैत्या दनुजा राक्षसास्तथा ॥ १०६.२६॥
१०६.२७/१विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् ।
१०६.२७/२कामरूपधरो राहुर्मरुतां मध्यमाविशत् ॥ १०६.२७॥
१०६.२८/१मरुद्रूपं समास्थाय पानपात्रधरस्तथा ।
१०६.२८/२ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥ १०६.२८॥
१०६.२९/१तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे ।
१०६.२९/२दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत् ॥ १०६.२९॥
१०६.३०/१विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः ।
१०६.३०/२चिच्छेद तरसा वत्स तच्छिरस्त्वमरं त्वभूत् ॥ १०६.३०॥
१०६.३१/१शिरोमात्रविहीनं यद् देहं तद् अपतद् भुवि ।
१०६.३१/२देहं तद् अमृतस्पृष्टं पतितं दक्षिणे तटे ॥ १०६.३१॥
१०६.३२/१गौतम्या मुनिशार्दूल कम्पयद् वसुधातलम् ।
१०६.३२/२देहं चाप्यमरं पुत्र तद् अद्भुतमिवाभवत् ॥ १०६.३२॥
१०६.३३/१देहं च शिरसोऽपेक्षि शिरो देहमपेक्षते ।
१०६.३३/२उभयं चामरं जातं दैत्यश्चायं महाबलः ॥ १०६.३३॥
१०६.३४/१शिरः काये समाविष्टं सर्वान् भक्षयते सुरान् ।
१०६.३४/२तस्माद् देहमिदं पूर्वं नाशयामो महीगतम् ।
१०६.३४/३ततस्ते शंकरं प्राहुर्देवाः सर्वे ससम्भ्रमाः ॥ १०६.३४॥
१०६.३५/१देवा ऊचुः । महीगतं दैत्यदेहं नाशयस्व सुरोत्तम ।
१०६.३५/२त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥ १०६.३५॥
१०६.३६/१शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥ १०६.३६॥
१०६.३७/१ब्रह्मोवाच । प्रेषयामास चेशोऽपि श्रेष्ठां शक्तिं तदात्मनः ।
१०६.३७/२मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥ १०६.३७॥
१०६.३८/१ईशायुधधरा देवी ईशशक्तिसमन्विता ।
१०६.३८/२महीगतं यत्र देहं तत्रागाद् भक्ष्यकाङ्क्षिणी ॥ १०६.३८॥
१०६.३९/१शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् ।
१०६.३९/२देहो देव्या पुनस्तत्र युयुधे बहवः समाः ॥ १०६.३९॥
१०६.४०/१राहुस्तत्र सुरान् आह भित्त्वा देहं पुरा मम ।
१०६.४०/२अत्रास्ते रसमुत्कृष्टं तद् आकृष्य शरीरतः ॥ १०६.४०॥
१०६.४१/१पृथक्भूते रसे देहं प्रवरेऽमृतमुत्तमम् ।
१०६.४१/२भस्मीभूयात् क्षणेनैव तस्मात् कुर्वन्तु तत् पुरा ॥ १०६.४१॥
१०६.४२/१ब्रह्मोवाच । एतद् राहुवचः श्रुत्वा प्रीताः सर्वेऽसुरारयः ।
१०६.४२/२अभ्यषिञ्चन् ग्रहाणां त्वं ग्रहो भूया मुदान्वितः ॥ १०६.४२॥
१०६.४३/१तद्देववचनाच्छक्तिरीश्वरी या निगद्यते ।
१०६.४३/२देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥ १०६.४३॥
१०६.४४/१आकृष्य शीघ्रमुत्कृष्टं प्रवरं चामृतं बहिः ।
१०६.४४/२स्थापयित्वा तु तद् देहं भक्षयामास चाम्बिका ॥ १०६.४४॥
१०६.४५/१कालरात्रिर्भद्रकाली प्रोच्यते या महाबला ।
१०६.४५/२स्थापितं रसमुत्कृष्टं रसानां प्रवरं रसम् ॥ १०६.४५॥
१०६.४६/१व्यस्रवत् स्थापितं तत् तु प्रवरा साभवन् नदी ।
१०६.४६/२आकृष्टममृतं चैव स्थापितं साप्यभक्षयत् ॥ १०६.४६॥
१०६.४७/१ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा ।
१०६.४७/२राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥ १०६.४७॥
१०६.४८/१नदीनां प्रवरा रम्या चामृता प्रेरिता तहा ।
१०६.४८/२तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥ १०६.४८॥
१०६.४९/१तत्र शम्भुः स्वयं तस्थौ सर्वदा सुरपूजितः ।
१०६.४९/२तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक् ॥ १०६.४९॥
१०६.५०/१वरान् ददुर्मुदा युक्ता यथा पूजामवाप्स्यति ।
१०६.५०/२शम्भुः सुरपतिर्लोके तथा पूजामवाप्स्यसि ॥ १०६.५०॥
१०६.५१/१निवासं कुरु देवि त्वं लोकानां हितकाम्यया ।
१०६.५१/२सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥ १०६.५१॥
१०६.५२/१स्तवनात् कीर्तनाद् ध्यानात् सर्वकामप्रदायिनी ।
१०६.५२/२त्वां नमस्यन्ति ये भक्त्या किंचिद् आपेक्ष्य सर्वदा ॥ १०६.५२॥
१०६.५३/१तेषां सर्वाणि कार्याणि भवेयुर्देवताज्ञया ।
१०६.५३/२शिवशक्त्योर्यतस्तस्मिन् निवासोऽभूत् सनातनः ॥ १०६.५३॥
१०६.५४/१अतो वदन्ति मुनयो निवासपुरमित्यदः ।
१०६.५४/२प्रवरायाः पुरा देवाः सुप्रीतास्ते वरान् ददुः ॥ १०६.५४॥
१०६.५५/१गङ्गायाः संगमो यस्ते विख्यातः सुरवल्लभः ।
१०६.५५/२तत्राप्लुतानां सर्वेषां भुक्तिर्वा मुक्तिरेव च ॥ १०६.५५॥
१०६.५६/१यद् वापि मनसः काम्यं देवानामपि दुर्लभम् ।
१०६.५६/२स्यात् तेषां सर्वमेवेह एवं दत्त्वा सुरा ययुः ॥ १०६.५६॥
१०६.५७/१ततः प्रभृति तत् तीर्थं प्रवरासंगमं विदुः ।
१०६.५७/२प्रेरिता देवदेवेन शक्तिर्या प्रेरिता तु सा ॥ १०६.५७॥
१०६.५८/१अमृता सैव विख्याता प्रवरैवं महानदी ॥ १०६.५८॥
१०७.१/१ब्रह्मोवाच । वृद्धासंगममाख्यातं यत्र वृद्धेश्वरः शिवः ।
१०७.१/२तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ॥ १०७.१॥
१०७.२/१गौतमो वृद्ध इत्युक्तो मुनिरासीन् महातपाः ।
१०७.२/२यदा पुराभवद् बालो गौतमस्य सुतो द्विजः ॥ १०७.२॥
१०७.३/१अनासः स पुरोत्पन्नस्तस्माद् विकृतरूपधृक् ।
१०७.३/२स वैराग्याज्जगामाथ देशं तीर्थमितस्ततः ॥ १०७.३॥
१०७.४/१उपाध्यायेन नैवासील्लज्जितस्य समागमः ।
१०७.४/२शिष्यैरन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥ १०७.४॥
१०७.५/१उपनीतः कथंचिच्च पित्रा वै गौतमेन सः ।
१०७.५/२एतावता गौतमोऽपि व्यगमच्चरितुं बहिः ॥ १०७.५॥
१०७.६/१एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे ।
१०७.६/२नैव चाध्ययनं तस्य संजातं गौतमस्य हि ॥ १०७.६॥
१०७.७/१नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा ।
१०७.७/२अग्निकार्यं ततश्चक्रे नित्यमेव यतव्रतः ॥ १०७.७॥
१०७.८/१गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः ।
१०७.८/२अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥ १०७.८॥
१०७.९/१एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने ।
१०७.९/२उपासतोऽग्निं विधिवद् गायत्रीं च महात्मनः ॥ १०७.९॥
१०७.१०/१तस्यायुर्ववृधे पुत्र गौतमस्य चिरायुषः ।
१०७.१०/२न दारसंग्रहं लेभे नैव दातास्ति कन्यकाम् ॥ १०७.१०॥
१०७.११/१तथा चरंस्तीर्थदेशे वनेषु विविधेषु च ।
१०७.११/२आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः ॥ १०७.११॥
१०७.१२/१एवं भ्रमञ् शीतगिरिमाश्रित्यास्ते स गौतमः ।
१०७.१२/२तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम् ॥ १०७.१२॥
१०७.१३/१तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् ।
१०७.१३/२चिन्तयंस्तु प्रविष्टोऽसावपश्यत् स्त्रियमुत्तमाम् ॥ १०७.१३॥
१०७.१४/१शिथिलाङ्गीमथ कृशां वृद्धां च तपसि स्थिताम् ।
१०७.१४/२ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥ १०७.१४॥
१०७.१५/१स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् ।
१०७.१५/२नमस्यन्तं मुनिश्रेष्ठं तं गौतममवारयत् ॥ १०७.१५॥
१०७.१६/१वृद्धोवाच । गुरुस्त्वं भविता मह्यं न मां वन्दितुमर्हसि ।
१०७.१६/२आयुर्विद्या धनं कीर्तिर्धर्मः स्वर्गादिकं च यत् ।
१०७.१६/३तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥ १०७.१६॥
१०७.१७/१ब्रह्मोवाच । कृताञ्जलिपुटस्तां वै गौतमः प्राह
विस्मितः ॥ १०७.१७॥
१०७.१८/१गौतम उवाच । तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी ।
१०७.१८/२अल्पविद्यस्त्वल्पवया अहं तव गुरुः कथम् ॥ १०७.१८॥
१०७.१९/१वृद्धोवाच । आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः ।
१०७.१९/२गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः ॥ १०७.१९॥
१०७.२०/१स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः ।
१०७.२०/२विश्राममकरोद् अस्यां गुहायां स ऋतध्वजः ॥ १०७.२०॥
१०७.२१/१युवा स मतिमान् दक्षो बलेन महता वृतः ।
१०७.२१/२तं विश्रान्तं नृपवरमप्सरा ददृशे ततः ॥ १०७.२१॥
१०७.२२/१गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता ।
१०७.२२/२तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥ १०७.२२॥
१०७.२३/१इति क्रीडा समभवत् तया राज्ञो महामते ।
१०७.२३/२निवृत्तकामो राजेन्द्रस्तामापृच्छ्यागमद् गृहम् ॥ १०७.२३॥
१०७.२४/१उत्पन्नाहं ततस्तस्यां सुश्यामायां महामते ।
१०७.२४/२गच्छन्ती मां तदा माता इदमाह तपोधन ॥ १०७.२४॥
१०७.२५/१सुश्यामोवाच । यस्त्वस्यां प्रविशेद् भद्रे स ते भर्ता
भविष्यति ॥ १०७.२५॥
१०७.२६/१वृद्धोवाच । इत्युक्त्वा सा जगमाथ माता मम महामते ।
१०७.२६/२तस्माद् अत्र प्रविष्टस्त्वं पुमान् नान्यः कदाचन ॥ १०७.२६॥
१०७.२७/१सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम ।
१०७.२७/२अत्रैव च तपस्तप्त्वा ततः स्वर्गमुपेयिवान् ॥ १०७.२७॥
१०७.२८/१स्वर्गं यातेऽपि पितरि सहस्राणि तथा दश ।
१०७.२८/२वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥ १०७.२८॥
१०७.२९/१स्वर्गे यातो मम भ्राता अहमत्रैव संस्थिता ।
१०७.२९/२अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम ॥ १०७.२९॥
१०७.३०/१अहमात्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका ।
१०७.३०/२तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम् ॥ १०७.३०॥
१०७.३१/१गौतम उवाच । सहस्रायुरहं भद्रे मत्तस्त्वं वयसाधिका ।
१०७.३१/२अहं बालस्त्वं तु वृद्धा नैवायं घटते मिथः ॥ १०७.३१॥
१०७.३२/१वृद्धोवाच । त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम ।
१०७.३२/२धात्रा दत्तस्ततस्त्वं मां न निराकर्तुमर्हसि ॥ १०७.३२॥
१०७.३३/१अथवा नेच्छसि मां त्वमप्रदुष्टामनुव्रताम् ।
१०७.३३/२ततस्त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥ १०७.३३॥
१०७.३४/१अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् ।
१०७.३४/२अनुरक्तजनत्यागे पातकान्तो न विद्यते ॥ १०७.३४॥
१०७.३५/१ब्रह्मोवाच । वृद्धायास्तद् वचः श्रुत्वा गौतमो
वाक्यमब्रवीत् ॥ १०७.३५॥
१०७.३६/१गौतम उवाच । अहं तपोविरहितो विद्याहीनो ह्यकिंचनः ।
१०७.३६/२नाहं वरो हि योग्यस्ते कुरूपो भोगवर्जितः ॥ १०७.३६॥
१०७.३७/१अनासोऽहं किं करोमि अतपोविद्य एव च ।
१०७.३७/२तस्मात् सुरूपं सुविद्यामापाद्य प्रथमं शुभे ।
१०७.३७/३पश्चात् ते वचनं कार्यं ततो वृद्धाब्रवीद् द्विजम् ॥ १०७.३७॥
१०७.३८/१वृद्धोवाच । मया सरस्वती देवी तोषिता तपसा द्विज ।
१०७.३८/२तथैवापो रूपवत्यो रूपदाताग्निरेव च ॥ १०७.३८॥
१०७.३९/१तस्माद् वागीश्वरी देवी सा ते विद्यां प्रदास्यति ।
१०७.३९/२अग्निश्च रूपवान् देवस्तव रूपं प्रदास्यति ॥ १०७.३९॥
१०७.४०/१ब्रह्मोवाच । एवमुक्त्वा गौतमं तं वृद्धोवाच विभावसुम् ।
१०७.४०/२प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन् मुनिम् ॥ १०७.४०॥
१०७.४१/१ततः सुविद्यः सुभगः सुकान्तो ।
१०७.४१/२वृद्धां स पत्नीमकरोत् प्रीतियुक्तः ।
१०७.४१/३तया स रेमे बहुला मनोज्ञया ।
१०७.४१/४समाः सुखं प्रीतमना गुहायाम् ॥ १०७.४१॥
१०७.४२/१कदाचित् तत्र वसतोर्दम्पत्योर्मुदतोर्गिरौ ।
१०७.४२/२गुहायां मुनिशार्दूल आजग्मुर्मुनयोऽमलाः ॥ १०७.४२॥
१०७.४३/१वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः ।
१०७.४३/२भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस्तस्य तां गुहाम् ॥ १०७.४३॥
१०७.४४/१आगतांस्तान् ऋषीञ् ज्ञात्वा गौतमः सह भार्यया ।
१०७.४४/२सत्कारमकरोत् तेषां जहसुस्तं च केचन ॥ १०७.४४॥
१०७.४५/१ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः ।
१०७.४५/२वृद्धां च गौतमं प्रेक्ष्य जहसुस्तत्र केचन ॥ १०७.४५॥
१०७.४६/१ऋषय ऊचुः । पुत्रोऽयं तव पौत्रो वा वृद्धे को गौतमोऽभवत् ।
१०७.४६/२सत्यं वदस्व कल्याणि इत्येवं जहसुर्द्विजाः ॥ १०७.४६॥
१०७.४७/१विषं वृद्धस्य युवती वृद्धाया अमृतं युवा ।
१०७.४७/२इष्टानिष्टसमायोगो दृष्टोऽस्माभिरहो चिरात् ॥ १०७.४७॥
१०७.४८/१ब्रह्मोवाच । इत्येवमूचिरे केचिद् दम्पत्योः शृण्वतोस्तदा ।
१०७.४८/२एवमुक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥ १०७.४८॥
१०७.४९/१ऋषीणां वचनं श्रुत्वा उभावपि सुदुःखितौ ।
१०७.४९/२लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह ।
१०७.४९/३पप्रच्छ मुनिशार्दूलमगस्त्यम् ऋषिसत्तमम् ॥ १०७.४९॥
१०७.५०/१गौतम उवाच । को देशः किमु तीर्थं वा यत्र श्रेयः समाप्यते ।
१०७.५०/२शीघ्रमेव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥ १०७.५०॥
१०७.५१/१अगस्त्य उवाच । वदद्भिर्मुनिभिर्ब्रह्मन् मया श्रुतमिदं वचः ।
१०७.५१/२सर्वे कामास्तत्र पूर्णा गौतम्यां नात्र संशयः ॥ १०७.५१॥
१०७.५२/१तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम् ।
१०७.५२/२अहं त्वामनुयास्यामि यथेच्छसि तथा कुरु ॥ १०७.५२॥
१०७.५३/१ब्रह्मोवाच । एतच्छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमोऽभ्यगात् ।
१०७.५३/२तत्र तेपे तपस्तीव्रं पत्न्या स भगवान् ऋषिः ॥ १०७.५३॥
१०७.५४/१स्तुतिं चकार देवस्य शम्भोर्विष्णोस्तथैव च ।
१०७.५४/२गङ्गां च तोषयामास भार्यार्थं भगवान् ऋषिः ॥ १०७.५४॥
१०७.५५/१गौतम उवाच । खिन्नात्मनामत्र भवे त्वमेव शरणं शिवः ।
१०७.५५/२मरुभूमावध्वगानां विटपीव प्रियायुतः ॥ १०७.५५॥
१०७.५६/१उच्चावचानां भूतानां सर्वथा पापनोदनः ।
१०७.५६/२सस्यानां घनवत् कृष्ण त्वमवग्रहशोषिणाम् ॥ १०७.५६॥
१०७.५७/१वैकुण्ठदुर्गनिःश्रेणिस्त्वं पीयूषतरंगिणी ।
१०७.५७/२अधोगतानां तप्तानां शरणं भव गौतमि ॥ १०७.५७॥
१०७.५८/१ब्रह्मोवाच । ततस्तुष्टावदद् वाक्यं गौतमं वृद्धया युतम् ।
१०७.५८/२शरणागतदीनार्तं शरण्या गौतमी मुदा ॥ १०७.५८॥
१०७.५९/१गौतम्युवाच । अभिषिञ्चस्व भार्यां त्वं मज्जलैर्मन्त्रसंयुतैः ।
१०७.५९/२कलशैरुपचारैश्च ततः पत्नी तव प्रिया ॥ १०७.५९॥
१०७.६०/१सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना ।
१०७.६०/२सर्वलक्षणसम्पूर्णा रम्यरूपमवाप्स्यति ॥ १०७.६०॥
१०७.६१/१रूपवत्या पुनस्त्वं वै भार्यया चाभिषेचितः ।
१०७.६१/२सर्वलक्षणसम्पूर्णः कान्तं रूपमवाप्स्यसि ॥ १०७.६१॥
१०७.६२/१ब्रह्मोवाच । तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः ।
१०७.६२/२सुरूपतामुभौ प्राप्तौ गौतम्याश्च प्रसादतः ॥ १०७.६२॥
१०७.६३/१अभिषेकोदकं यच्च सा नदी समजायत ।
१०७.६३/२तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥ १०७.६३॥
१०७.६४/१वृद्धा नदीति विख्याता गौतमोऽपि तथोच्यते ।
१०७.६४/२वृद्धगौतम इत्युक्त ऋषिभिः समवासिभिः ।
१०७.६४/३वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥ १०७.६४॥
१०७.६५/१वृद्धोवाच । मन्नाम्नीयं नदी देवि वृद्धा चेत्यभिधीयताम् ।
१०७.६५/२त्वया च संगमस्तस्यास्तस्यास्तीर्थमनुत्तमम् ॥ १०७.६५॥
१०७.६६/१रूपसौभाग्यसम्पत्ति+ ।पुत्रपौत्रप्रवर्धनम् ।
१०७.६६/२आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् ।
१०७.६६/३स्नानदानादिहोमैश्च पितृणां पावनं परम् ॥ १०७.६६॥
१०७.६७/१ब्रह्मोवाच । अस्त्वित्याह च तां गङ्गा सुवृद्धां गौतमप्रियाम् ।
१०७.६७/२गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥ १०७.६७॥
१०७.६८/१तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः ।
१०७.६८/२तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥ १०७.६८॥
१०७.६९/१ततः प्रभृति तत् तीर्थं वृद्धासंगममुच्यते ॥ १०७.६९॥
१०८.१/१ब्रह्मोवाच । इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
१०८.१/२ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ १०८.१॥
१०८.२/१वैवस्वतान्वये जात इलो नाम जनेश्वरः ।
१०८.२/२महत्या सेनया सार्धं जगाम मृगयावनम् ॥ १०८.२॥
१०८.३/१परिबभ्राम गहनं बहुव्यालसमाकुलम् ।
१०८.३/२नानाकारद्विजयुतं विटपैः परिशोभितम् ॥ १०८.३॥
१०८.४/१वनेचरं नृपश्रेष्ठो मृगयागतमानसः ।
१०८.४/२तत्रैव मतिमाधत्त इलोऽमात्यान् अथाब्रवीत् ॥ १०८.४॥
१०८.५/१इल उवाच । गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् ।
१०८.५/२देशं कोशं बलं राज्यं पालयन्तु पुनश्च तम् ॥ १०८.५॥
१०८.६/१वसिष्ठोऽपि तथा यातु आदायाग्नीन् पितेव नः ।
१०८.६/२पत्नीभिः सहितो धीमान् अरण्येऽहं वसाम्यथ ॥ १०८.६॥
१०८.७/१अरण्यभोगभुग्भिश्च वाजिवारणमानुषैः ।
१०८.७/२मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम् ॥ १०८.७॥
१०८.८/१ब्रह्मोवाच । तथेत्युक्त्वा ययुस्तेऽपि स्वयं प्रायाच्छनैर्गिरिम् ।
१०८.८/२हिमवन्तं रत्नमयं वसंस्तत्र इलो नृपः ॥ १०८.८॥
१०८.९/१ददर्श कन्दरं तत्र नानारत्नविचित्रितम् ।
१०८.९/२तत्र यक्षेश्वरः कश्चित् समन्युरिति विश्रुतः ॥ १०८.९॥
१०८.१०/१तस्य भार्या समानाम्नी भर्तृव्रतपरायणा ।
१०८.१०/२तस्मिन् वसत्यसौ यक्षो रमणीये नगोत्तमे ॥ १०८.१०॥
१०८.११/१मृगरूपेण व्यचरद् भार्यया स महामतिः ।
१०८.११/२स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥ १०८.११॥
१०८.१२/१इत्थं स यक्षो जानाति मृगरूपधरोऽपि च ।
१०८.१२/२इलस्तु तं न जानाति कन्दरं यक्षपालितम् ॥ १०८.१२॥
१०८.१३/१यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् ।
१०८.१३/२तत्रोपविष्टो नृपतिर्महत्या सेनया वृतः ॥ १०८.१३॥
१०८.१४/१वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः ।
१०८.१४/२स यक्षोऽधर्मकोपेन भार्यया मृगरूपधृक् ॥ १०८.१४॥
१०८.१५/१इलं जेतुं न शक्नोमि याचितो न ददाति च ।
१०८.१५/२हृतं गेहं ममानेन किं करोमीत्यचिन्तयत् ॥ १०८.१५॥
१०८.१६/१युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् ।
१०८.१६/२आत्मीयान् प्रेषयामास यक्षाञ् शूरान् धनुर्धरान् ॥ १०८.१६॥
१०८.१७/१यक्ष उवाच । युद्धे जित्वा च राजानमिलमुद्धतदन्तिनम् ।
१०८.१७/२गृहाद् यथान्यतो याति मम तत् कर्तुमर्हथ ॥ १०८.१७॥
१०८.१८/१ब्रह्मोवाच । यक्षेश्वरस्य तद् वाक्याद् यक्षास्ते युद्धदुर्मदाः ।
१०८.१८/२इलं गत्वाब्रुवन् सर्वे निर्गच्छास्माद् गुहालयात् ॥ १०८.१८॥
१०८.१९/१न चेद् युद्धात् परिभ्रष्टः पलाय्य क्व गमिष्यसि ।
१०८.१९/२तद् यक्षवचनात् कोपाद् युद्धं चक्रे स राजराट् ॥ १०८.१९॥
१०८.२०/१जित्वा यक्षान् बहुविधान् उवास दश शर्वरीः ।
१०८.२०/२यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन् ॥ १०८.२०॥
१०८.२१/१हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् ।
१०८.२१/२प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥ १०८.२१॥
१०८.२२/१यक्ष उवाच । राजाऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः ।
१०८.२२/२कथमायाति विपदं तत्रोपायो विचिन्त्यताम् ॥ १०८.२२॥
१०८.२३/१पापर्द्धिव्यसनान्तानि राज्यान्यखिलभूभुजाम् ।
१०८.२३/२प्रापयोमावनं सुभ्रूर्मृगी भूत्वा मनोहरा ॥ १०८.२३॥
१०८.२४/१प्रविशेत् तत्र राजायं स्त्री भविष्यत्यसंशयम् ।
१०८.२४/२करणीयं त्वया भद्रे न चैतद् युज्यते मम ।
१०८.२४/३अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥ १०८.२४॥
१०८.२५/१यक्षिण्युवाच । कथं त्वया न गन्तव्यमुमावनमनुत्तमम् ।
१०८.२५/२गतेऽपि त्वयि को दोषस्तन् मे कथय तत्त्वतः ॥ १०८.२५॥
१०८.२६/१यक्ष उवाच । हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः ।
१०८.२६/२देवैर्गणैरनुवृतो विचचार यथासुखम् ।
१०८.२६/३पार्वती शंकरं प्राह कदाचिद् रहसि स्थितम् ॥ १०८.२६॥
१०८.२७/१पार्वत्युवाच । स्त्रीणामेष स्वभावोऽस्ति रतं गोपायितं भवेत् ।
१०८.२७/२तस्मान् मे नियतं देशमाज्ञया रक्षितं तव ॥ १०८.२७॥
१०८.२८/१देहि मे त्रिदशेशान उमावनमिति श्रुतम् ।
१०८.२८/२विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना ॥ १०८.२८॥
१०८.२९/१यस्त्वत्र प्रविशेन् नाथ स्त्रीत्वं तस्य भवेद् इति ॥ १०८.२९॥
१०८.३०/१यक्ष उवाच । इत्याज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना ।
१०८.३०/२किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः ।
१०८.३०/३तस्मान् मया न गन्तव्यमुमाया वनमुत्तमम् ॥ १०८.३०॥
१०८.३१/१ब्रह्मोवाच । तद् भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी ।
१०८.३१/२मृगी भूत्वा विशालाक्षी इलस्य पुरतोऽभवत् ॥ १०८.३१॥
१०८.३२/१यक्षस्तु संस्थितस्तत्र ददर्शेलो मृगीं तदा ।
१०८.३२/२मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः ॥ १०८.३२॥
१०८.३३/१एक एव हयारूढो निर्ययौ तां मृगीमनु ।
१०८.३३/२साकर्षत शनैस्तं तु राजानं मृगयाकुलम् ॥ १०८.३३॥
१०८.३४/१शनैर्जगाम सा तत्र यद् उमावनमुच्यते ।
१०८.३४/२अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित् क्वचित् ॥ १०८.३४॥
१०८.३५/१तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् ।
१०८.३५/२हरिणी चपलाक्षी सा तमाकर्षद् उमावनम् ॥ १०८.३५॥
१०८.३६/१अनुप्राप्तो हयारूढस्तत् प्राप स उमावनम् ।
१०८.३६/२उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा ॥ १०८.३६॥
१०८.३७/१मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी ।
१०८.३७/२दिव्यरूपं समास्थाय चाशोकतरुसंनिधौ ॥ १०८.३७॥
१०८.३८/१तच्छाखालम्बितकरा दिव्यगन्धानुलेपना ।
१०८.३८/२दिव्यरूपधरा तन्वी कृतकार्या समा तदा ॥ १०८.३८॥
१०८.३९/१हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा ।
१०८.३९/२मृगीमालोकयन्तं तं चपलाक्षमिलं तदा ॥ १०८.३९॥
१०८.४०/१भर्तृवाक्यमशेषेण स्मरन्ती प्राह भूमिपम् ॥ १०८.४०॥
१०८.४१/१समोवाच । हयारूढाबला तन्वि क्व एकैव तु गच्छसि ।
१०८.४१/२पुरुषस्य च वेषेण इले कमनुयास्यसि ॥ १०८.४१॥
१०८.४२/१ब्रह्मोवाच । इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः ।
१०८.४२/२यक्षिणीं भर्त्सयित्वासौ तामपृच्छन् मृगीं पुनः ॥ १०८.४२॥
१०८.४३/१तथापि यक्षिणी प्राह इले किमनुवीक्षसे ।
१०८.४३/२इलेति वचनं श्रुत्वा धृतचापो हयस्थितः ॥ १०८.४३॥
१०८.४४/१कुपितो दर्शयामास त्रैलोक्यविजयी धनुः ।
१०८.४४/२पुनः सा प्राह नृपतिं महात्मानमिले स्वयम् ॥ १०८.४४॥
१०८.४५/१प्रेक्षस्व पश्चान् मां ब्रूहि असत्यां सत्यवादिनीम् ।
१०८.४५/२तदा चालोकयद् राजा स्तनौ तुङ्गौ भुजान्तरे ॥ १०८.४५॥
१०८.४६/१किमिदं मम संजातमित्येवं चकितोऽभवत् ॥ १०८.४६॥
१०८.४७/१इलोवाच । किमिदं मम संजातं जानीते भवती स्फुटम् ।
१०८.४७/२वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते ॥ १०८.४७॥
१०८.४८/१यक्षिण्युवाच । हिमवत्कन्दरश्रेष्ठे समन्युर्वसते पतिः ।
१०८.४८/२यक्षाणामधिपः श्रीमांस्तद्भार्याहं तु यक्षिणी ॥ १०८.४८॥
१०८.४९/१यत्कन्दरे भवान् राजा तूपविष्टः सुशीतले ।
१०८.४९/२यस्य यक्षा हता मोहात् त्वया हि संगरं विना ॥ १०८.४९॥
१०८.५०/१ततोऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् ।
१०८.५०/२प्रविष्टा त्वं प्रविष्टोऽसि पुरा प्राह महेश्वरः ॥ १०८.५०॥
१०८.५१/१यस्त्वत्र प्रविशेन् मन्दः पुमान् स्त्रीत्वमवाप्स्यति ।
१०८.५१/२तस्मात् स्त्रीत्वमवाप्तोऽसि न त्वं दुःखितुमर्हसि ।
१०८.५१/३प्रौढोऽपि कोऽत्र जानाति विचित्रभवितव्यताम् ॥ १०८.५१॥
१०८.५२/१ब्रह्मोवाच । यक्षिणीवचनं श्रुत्वा हयारूढस्तदापतत् ।
१०८.५२/२तमाश्वास्य पुनः सैव यक्षिणी वाक्यमब्रवीत् ॥ १०८.५२॥
१०८.५३/१यक्षिण्युवाच । स्त्रीत्वं जातं जातमेव न पुंस्त्वं कर्तुमर्हसि ।
१०८.५३/२गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतमलंकृतिम् ।
१०८.५३/३स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वमेव तत् ॥ १०८.५३॥
१०८.५४/१ब्रह्मोवाच । इला सर्वमथावाप्य यक्षिणीं वाक्यमब्रवीत् ॥ १०८.५४॥
१०८.५५/१इलोवाच । को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् ।
१०८.५५/२एतद् वदस्व कल्याणी दुःखार्ताया विशेषतः ।
१०८.५५/३आर्तानामार्तिशमनाच्छ्रेयो नाभ्यधिकं क्वचित् ॥ १०८.५५॥
१०८.५६/१यक्षिण्युवाच । बुधः सोमसुतो नाम वनाद् अस्माच्च पूर्वतः ।
१०८.५६/२आश्रमस्तस्य सुभगे पितरं नित्यमेष्यति ॥ १०८.५६॥
१०८.५७/१अनेनैव पथा सोमं पितरं स बुधो ग्रहः ।
१०८.५७/२द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च ॥ १०८.५७॥
१०८.५८/१यदा याति बुधः शान्तस्तदात्मानं च दर्शय ।
१०८.५८/२तं दृष्ट्वा त्वं तु सुभगे सर्वकामान् अवाप्स्यसि ॥ १०८.५८॥
१०८.५९/१ब्रह्मोवाच । तामाश्वास्य ततः सुभ्रूर्यक्षिण्यन्तरधीयत ।
१०८.५९/२यक्षिणी सा तमाचष्ट यक्षोऽपि सुखमाप्तवान् ॥ १०८.५९॥
१०८.६०/१इलसैन्यं च तत्रासीत् तद् गतं च यथासुखम् ।
१०८.६०/२उमावनस्थिता चेला गायन्ती नृत्यती पुनः ॥ १०८.६०॥
१०८.६१/१स्त्रीभावमनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् ।
१०८.६१/२कदाचित् क्रियमाणे तु इलया नृत्यकर्मणि ॥ १०८.६१॥
१०८.६२/१तामपश्यद् बुधो धीमान् पितरं गन्तुमुद्यतः ।
१०८.६२/२इलां दृष्ट्वा गतिं त्यक्त्वा तामागत्याब्रवीद् बुधः ॥ १०८.६२॥
१०८.६३/१बुध उवाच । भार्या भव मम स्वस्था सर्वाभ्यस्त्वं
प्रिया भव ॥ १०८.६३॥
१०८.६४/१ब्रह्मोवाच । बुधवाक्यमिला भक्त्या त्वभिनन्द्य तथाकरोत् ।
१०८.६४/२स्मृत्वा च यक्षिणीवाक्यं ततस्तुष्टाभवन् मुने ॥ १०८.६४॥
१०८.६५/१बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानमुत्तमम् ।
१०८.६५/२सा चापि सर्वभावेन तोषयामास तं पतिम् ।
१०८.६५/३ततो बहुतिथे काले बुधस्तुष्टोऽवदत् प्रियाम् ॥ १०८.६५॥
१०८.६६/१बुध उवाच । किं ते देयं मया भद्रे प्रियं यन् मनसि
स्थितम् ॥ १०८.६६॥
१०८.६७/१ब्रह्मोवाच । तद्वाक्यसमकालं तु पुत्रं देहीत्यभाषत ।
१०८.६७/२इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा ॥ १०८.६७॥
१०८.६८/१बुध उवाच । अमोघमेतन् मद्वीर्यं तथा प्रीतिसमुद्भवम् ।
१०८.६८/२पुत्रस्ते भविता तस्मात् क्षत्रियो लोकविश्रुतः ॥ १०८.६८॥
१०८.६९/१सोमवंशकरः श्रीमान् आदित्य इव तेजसा ।
१०८.६९/२बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः ॥ १०८.६९॥
१०८.७०/१वीर्येणाजौ हरिरिव कोपेन हुतभुग् यथा ॥ १०८.७०॥
१०८.७१/१ब्रह्मोवाच । तस्मिन्न् उत्पद्यमाने तु बुधपुत्रे महात्मनि ।
१०८.७१/२जयशब्दश्च सर्वत्र त्वासीच्च सुरवेश्मनि ॥ १०८.७१॥
१०८.७२/१बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः ।
१०८.७२/२अहमप्यागमं तत्र मुदा युक्तो महामते ॥ १०८.७२॥
१०८.७३/१जातमात्रः सुतो रावमकरोत् स पृथुस्वरम् ।
१०८.७३/२तेन सर्वेऽप्यवोचन् वै संगता ऋषयः सुराः ॥ १०८.७३॥
१०८.७४/१यस्मात् पुरू रवोऽस्येति तस्माद् एष पुरूरवाः ।
१०८.७४/२स्याद् इत्येवं नाम चक्रुः सर्वे संतुष्टमानसाः ॥ १०८.७४॥
१०८.७५/१बुधोऽप्यध्यापयामास क्षात्रविद्यां सुतं शुभाम् ।
१०८.७५/२धनुर्वेदं सप्रयोगं बुधः प्रादात् तदात्मजे ॥ १०८.७५॥
१०८.७६/१स शीघ्रं वृद्धिमगमच्छुक्लपक्षे यथा शशी ।
१०८.७६/२स मातरं दुःखयुतां समीक्ष्येलां महामतिः ।
१०८.७६/३नमस्याथ विनीतात्मा इलामैलोऽब्रवीद् इदम् ॥ १०८.७६॥
१०८.७७/१ऐल उवाच । बुधो मातर्मम पिता तव भर्ता प्रियस्तथा ।
१०८.७७/२अहं च पुत्रः कर्मण्यः कस्मात् ते मानसो ज्वरः ॥ १०८.७७॥
१०८.७८/१इलोवाच । सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः ।
१०८.७८/२भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन ॥ १०८.७८॥
१०८.७९/१तथापि पूर्वजं किंचिद् दुःखं स्मृत्वा पुनः पुनः ।
१०८.७९/२चिन्तयेयं महाबुद्धे ततो मातरमब्रवीत् ॥ १०८.७९॥
१०८.८०/१ऐल उवाच । निवेदयस्व मे मातस्तद् एव प्रथमं मम ॥ १०८.८०॥
१०८.८१/१ब्रह्मोवाच । इला चैनमुवाचेदं रहोवाचं कथं वदे ।
१०८.८१/२तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः ।
१०८.८१/३मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम् ॥ १०८.८१॥
१०८.८२/१ब्रह्मोवाच । तन् मातृवचनं श्रुत्वा विनीतः प्राह मातरम् ।
१०८.८२/२पादयोः पतितश्चापि वद मातर्यथा तथा ॥ १०८.८२॥
१०८.८३/१ब्रह्मोवाच । सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् ।
१०८.८३/२तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान् सुतान् ॥ १०८.८३॥
१०८.८४/१पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् ।
१०८.८४/२वननिर्याणमेवाथ अमात्यानां पुरोधसः ॥ १०८.८४॥
१०८.८५/१प्रेषणं च नगर्यां तां मृगयासक्तिमेव च ।
१०८.८५/२हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम् ॥ १०८.८५॥
१०८.८६/१उमावनप्रवेशं च स्त्रीत्वप्राप्तिमशेषतः ।
१०८.८६/२महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु ॥ १०८.८६॥
१०८.८७/१यक्षिणीवाक्यमप्यस्य वरदानं तथैव च ।
१०८.८७/२बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्यशेषतः ॥ १०८.८७॥
१०८.८८/१कथयामास तत् सर्वं श्रुत्वा मातरमब्रवीत् ।
१०८.८८/२पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत् ॥ १०८.८८॥
१०८.८९/१एतावता ते तृप्तिश्चेद् अलमेतेन चाम्बिके ।
१०८.८९/२यद् अप्यन्यन् मनोवर्ति तद् अप्याज्ञापयस्व मे ॥ १०८.८९॥
१०८.९०/१इलोवाच । इच्छेयं पुंस्त्वमुत्कृष्टमिच्छेयं राज्यमुत्तमम् ।
१०८.९०/२अभिषेकं च पुत्राणां तव चापि विशेषतः ॥ १०८.९०॥
१०८.९१/१दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् ।
१०८.९१/२सर्वं च कर्तुमिच्छामि तव पुत्र प्रसादतः ॥ १०८.९१॥
१०८.९२/१पुत्र उवाच । उपायं त्वा तु पृच्छामि येन पुंस्त्वमवाप्स्यसि ।
१०८.९२/२तपसो वान्यतो वापि वदस्व मम तत्त्वतः ॥ १०८.९२॥
१०८.९३/१इलोवाच । बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् ।
१०८.९३/२स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम् ॥ १०८.९३॥
१०८.९४/१ब्रह्मोवाच । तन्मातृवचनाद् ऐलो गत्वा पितरमञ्जसा ।
१०८.९४/२उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः ॥ १०८.९४॥
१०८.९५/१बुध उवाच । इलं जाने महाप्राज्ञ इलां जातां पुनस्तथा ।
१०८.९५/२उमावनप्रवेशं च शम्भोराज्ञां तथैव च ॥ १०८.९५॥
१०८.९६/१तस्माच्छम्भुप्रसादेन उमायाश्च प्रसादतः ।
१०८.९६/२विशापो भविता पुत्र तावाराध्य न चान्यथा ॥ १०८.९६॥
१०८.९७/१पुरूरवा उवाच । पश्येयं तं कथं देवं कथं
वा मातरं शिवाम् ।
१०८.९७/२तीर्थाद् वा तपसो वापि तत् पितः प्रथमं वद ॥ १०८.९७॥
१०८.९८/१बुध उवाच । गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः ।
१०८.९८/२उमया सहितः श्रीमाञ् शापहन्ता वरप्रदः ॥ १०८.९८॥
१०८.९९/१ब्रह्मोवाच । पुरूरवाः पितुर्वाक्यं श्रुत्वा तु मुदितोऽभवत् ।
१०८.९९/२गौतमीं तपसे धीमान् गङ्गां त्रैलोक्यपावनीम् ॥ १०८.९९॥
१०८.१००/१पुंस्त्वमिच्छंस्तथा मातुर्जगाम तपसे त्वरन् ।
१०८.१००/२हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम् ॥ १०८.१००॥
१०८.१०१/१गच्छन्तमन्वगात् पुत्रमिला सोमसुतस्तथा ।
१०८.१०१/२ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात् ॥ १०८.१०१॥
१०८.१०२/१तत्र स्नात्वा तपः किंचित् कृत्वा चक्रुः स्तुतिं पराम् ।
१०८.१०२/२भवस्य देवदेवस्य स्तुतिक्रममिमं शृणु ॥ १०८.१०२॥
१०८.१०३/१बुधस्तुष्टाव प्रथममिला च तदनन्तरम् ।
१०८.१०३/२ततः पुरूरवाः पुत्रो गौरीं देवीं च शंकरम् ॥ १०८.१०३॥
१०८.१०४/१बुध उवाच । यौ कुङ्कुमेन स्वशरीरजेन ।
१०८.१०४/२स्वभावहेमप्रतिमौ सरूपौ ।
१०८.१०४/३यावर्चितौ स्कन्दगणेश्वराभ्याम् ।
१०८.१०४/४तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०४॥
१०८.१०५/१इलोवाच । संसारतापत्रयदावदग्धाः ।
१०८.१०५/२शरीरिणो यौ परिचिन्तयन्तः ।
१०८.१०५/३सद्यः परां निर्वृतिमाप्नुवन्ति ।
१०८.१०५/४तौ शंकरौ मे शरणं भवेताम् ॥ १०८.१०५॥
१०८.१०६/१आर्ता ह्यहं पीडितमानसा ते ।
१०८.१०६/२क्लेशादिगोप्ता न परोऽस्ति कश्चित् ।
१०८.१०६/३देव त्वदीयौ चरणौ सुपुण्यौ ।
१०८.१०६/४तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०६॥
१०८.१०७/१पुरूरवा उवाच । ययोः सकाशाद् इदमभ्युदैति ।
१०८.१०७/२प्रयाति चान्ते लयमेव सर्वम् ।
१०८.१०७/३जगच्छरण्यौ जगदात्मकौ तु ।
१०८.१०७/४गौरीहरौ मे शरणं भवेताम् ॥ १०८.१०७॥
१०८.१०८/१यौ देववृन्देषु महोत्सवे तु ।
१०८.१०८/२पादौ गृहाणेश गिरीशपुत्र्याः ।
१०८.१०८/३प्रोक्तं धृतौ प्रीतिवशाच्छिवेन ।
१०८.१०८/४तौ मे शरण्यौ शरणं भवेताम् ॥ १०८.१०८॥
१०८.१०९/१श्रीदेव्युवाच । किमभीष्टं प्रदास्यामि युष्मभ्यं तद् वदन्तु मे ।
१०८.१०९/२कृतकृत्याः स्थ भद्रं वो देवानामपि दुष्करम् ॥ १०८.१०९॥
१०८.११०/१पुरूरवा उवाच । इलो राजा तवाज्ञात्वा वनं प्राविशद् अम्बिके ।
१०८.११०/२तत् क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वमर्हसि ॥ १०८.११०॥
१०८.१११/१ब्रह्मोवाच । तथेत्युवाच तान् सर्वान् भवस्य तु मते स्थिता ।
१०८.१११/२ततः स भगवान् आह देवीवाक्यरतः सदा ॥ १०८.१११॥
१०८.११२/१शिव उवाच । अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्वयं
नृपः ॥ १०८.११२॥
१०८.११३/१ब्रह्मोवाच । स्नाताया बुधभार्यायाः शरीराद् वारि सुस्रुवे ।
१०८.११३/२नृत्यं गीतं च लावण्यं यक्षिण्या यद् उपार्जितम् ॥ १०८.११३॥
१०८.११४/१तत् सर्वं वारिधाराभिर्गङ्गाम्भसि समाविशत् ।
१०८.११४/२नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे ॥ १०८.११४॥
१०८.११५/१ताश्चापि संगता गङ्गां ते पुण्याः संगमास्त्रयः ।
१०८.११५/२तेषु स्नानं च दानं च सुरराज्यफलप्रदम् ॥ १०८.११५॥
१०८.११६/१इला पुंस्त्वमवाप्याथ गौरीशम्भोः प्रसादतः ।
१०८.११६/२महाभ्युदयसिद्ध्यर्थं वाजिमेधमथाकरोत् ॥ १०८.११६॥
१०८.११७/१पुरोधसं वसिष्ठं च भार्यां पुत्रांस्तथैव च ।
१०८.११७/२अमात्यांश्च बलं कोशमानीय स नृपोत्तमः ॥ १०८.११७॥
१०८.११८/१चतुरङ्गं बलं राज्यं दण्डकेऽस्थापयत् तदा ।
१०८.११८/२इलस्य नाम्ना विख्यातं तत्र तत् पुरमुच्यते ॥ १०८.११८॥
१०८.११९/१पूर्वजातान् अथो पुत्रान् सूर्यवंशक्रमागते ।
१०८.११९/२राज्येऽभिषिच्य पश्चात् तमैलं स्नेहाद् असिञ्चयत् ॥ १०८.११९॥
१०८.१२०/१सोमवंशकरः श्रीमान् अयं राजा भवेद् इति ।
१०८.१२०/२सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठोऽभवन् मुने ॥ १०८.१२०॥
१०८.१२१/१यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः ।
१०८.१२१/२यत्र पुंस्त्वमवाप्याथ यत्र पुत्राः समागताः ॥ १०८.१२१॥
१०८.१२२/१यक्षिणीदत्तनृत्यादि+ ।गीतसौभाग्यमङ्गलाः ।
१०८.१२२/२नद्यो भूत्वा यत्र गङ्गां संगतास्तानि नारद ॥ १०८.१२२॥
१०८.१२३/१तीर्थानि शुभदान्यासन् सहस्राण्यथ षोडश ।
१०८.१२३/२उभयोस्तीरयोस्तात तत्र शम्भुरिलेश्वरः ।
१०८.१२३/३तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १०८.१२३॥
१०९.१/१ब्रह्मोवाच । चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् ।
१०९.१/२यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ १०९.१॥
१०९.२/१यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः ।
१०९.२/२पूजयामास तत् तीर्थं चक्रतीर्थमुदाहृतम् ॥ १०९.२॥
१०९.३/१यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
१०९.३/२दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥ १०९.३॥
१०९.४/१दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे ।
१०९.४/२अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥ १०९.४॥
१०९.५/१दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे ।
१०९.५/२अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी ॥ १०९.५॥
१०९.६/१पितरं नाशये पापं क्षमेयं न कथंचन ।
१०९.६/२शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥ १०९.६॥
१०९.७/१पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः ।
१०९.७/२यादृशस्तादृशो वापि पतिः स्त्रीणां परा गतिः ॥ १०९.७॥
१०९.८/१किं पुनः सकलाधीशो महादेवो जगद्गुरुः ।
१०९.८/२श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥ १०९.८॥
१०९.९/१तस्मात् त्यक्ष्य इमं देहमित्युक्त्वा सा महासती ।
१०९.९/२कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥ १०९.९॥
१०९.१०/१शिवैकचेतना देहं बलाद् योगाच्च तत्यजे ।
१०९.१०/२महेश्वरोऽपि सकलं वृत्तमाकर्ण्य नारदात् ॥ १०९.१०॥
१०९.११/१दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा ।
१०९.११/२ते ऊचतुरुभे देवं दक्षक्रतुविनाशनम् ॥ १०९.११॥
१०९.१२/१दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः ।
१०९.१२/२भीमैर्गणैः परिवृतो भूतनाथैः समं ययौ ॥ १०९.१२॥
१०९.१३/१मखस्तैर्वेष्टितः सर्वो देवब्रह्मपुरस्कृतः ।
१०९.१३/२दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥ १०९.१३॥
१०९.१४/१वसिष्ठादिभिरत्युग्रैर्मुनिभिः परिवारितः ।
१०९.१४/२इन्द्रादित्याद्यैर्वसुभिः सर्वतःपरिपालितः ॥ १०९.१४॥
१०९.१५/१ऋग्यजुःसामवेदैश्च स्वाहाशब्दैरलंकृतः ।
१०९.१५/२श्रद्धा पुष्टिस्तथा तुष्टिः शान्तिर्लज्जा सरस्वती ॥ १०९.१५॥
१०९.१६/१भूमिर्द्यौः शर्वरी क्षान्तिरुषा आशा जया मतिः ।
१०९.१६/२एताभिश्च तथान्याभिः सर्वतः समलंकृतः ॥ १०९.१६॥
१०९.१७/१त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा ।
१०९.१७/२सुरभिर्नन्दिनी धेनुः कामधुक् कामदोहिनी ॥ १०९.१७॥
१०९.१८/१एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् ।
१०९.१८/२कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥ १०९.१८॥
१०९.१९/१यद् यद् इष्टतमं किंचित् तत्र तस्मिन् मखे स्थितम् ।
१०९.१९/२स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥ १०९.१९॥
१०९.२०/१दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् ।
१०९.२०/२एतैश्च सर्वतो वाक्यैर्दक्षस्य पूजितं मखम् ॥ १०९.२०॥
१०९.२१/१आदौ तु वीरभद्रोऽसौ भद्रकाल्या युतो ययौ ।
१०९.२१/२शोककोपपरीतात्मा पश्चाच्छूलपिनाकधृक् ॥ १०९.२१॥
१०९.२२/१अभ्याययौ महादेवो महाभूतैरलंकृतः ।
१०९.२२/२तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥ १०९.२२॥
१०९.२३/१क्रतुं विध्वंसयामासुस्तत्र क्षोभो महान् अभूत् ।
१०९.२३/२पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम् ॥ १०९.२३॥
१०९.२४/१केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शंकरम् ।
१०९.२४/२एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥ १०९.२४॥
१०९.२५/१पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात् ।
१०९.२५/२भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥ १०९.२५॥
१०९.२६/१दिवाकरं पुनर्दोर्भ्यां परिभ्राम्य समाक्षिपत् ।
१०९.२६/२ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥ १०९.२६॥
१०९.२७/१देवा ऊचुः । त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात् ।
१०९.२७/२महेश्वरगणः कश्चित् प्रमथानां तु नायकः ।
१०९.२७/३तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥ १०९.२७॥
१०९.२८/१ब्रह्मोवाच । हरिणा चक्रमुत्सृष्टं भूतनाथवधं प्रति ।
१०९.२८/२भूतनाथोऽपि तच्चक्रमापतच्च तदाग्रसत् ॥ १०९.२८॥
१०९.२९/१ग्रस्ते चक्रे ततो विष्णोर्लोकपाला भयाद् ययुः ।
१०९.२९/२तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि ।
१०९.२९/३तुष्टाव शंकरं देवं दक्षो भक्त्या प्रजापतिः ॥ १०९.२९॥
१०९.३०/१दक्ष उवाच । जय शंकर सोमेश जय सर्वज्ञ शम्भवे ।
१०९.३०/२जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥ १०९.३०॥
१०९.३१/१आदिकर्तर्नमस्तेऽस्तु नीलकण्ठ नमोऽस्तु ते ।
१०९.३१/२ब्रह्मप्रिय नमस्तेऽस्तु ब्रह्मरूप नमोऽस्तु ते ॥ १०९.३१॥
१०९.३२/१त्रिमूर्तये नमो देव त्रिधाम परमेश्वर ।
१०९.३२/२सर्वमूर्ते नमस्तेऽस्तु त्रैलोक्याधार कामद ॥ १०९.३२॥
१०९.३३/१नमो वेदान्तवेद्याय नमस्ते परमात्मने ।
१०९.३३/२यज्ञरूप नमस्तेऽस्तु यज्ञधाम नमोऽस्तु ते ॥ १०९.३३॥
१०९.३४/१यज्ञदान नमस्तेऽस्तु हव्यवाह नमोऽस्तु ते ।
१०९.३४/२यज्ञहर्त्रे नमस्तेऽस्तु फलदाय नमोऽस्तु ते ॥ १०९.३४॥
१०९.३५/१त्राहि त्राहि जगन्नाथ शरणागतवत्सल ।
१०९.३५/२भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥ १०९.३५॥
१०९.३६/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य प्रसन्नोऽभून् महेश्वरः ।
१०९.३६/२किं ददामीति तं प्राह क्रतुः पूर्णोऽस्तु मे प्रभो ॥ १०९.३६॥
१०९.३७/१तथेत्युवाच भगवान् देवदेवो महेश्वरः ।
१०९.३७/२शंकरः सर्वभूतात्मा करुणावरुणालयः ॥ १०९.३७॥
१०९.३८/१क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने ।
१०९.३८/२एवमुक्त्वा स भगवान् भूतैरन्तरधीयत ॥ १०९.३८॥
१०९.३९/१यथागतं सुरा जग्मुः स्वमेव सदनं प्रति ।
१०९.३९/२ततः कदाचिद् देवानां दैत्यानां विग्रहो महान् ॥ १०९.३९॥
१०९.४०/१बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् ।
१०९.४०/२तुष्टुवुः सर्वभावेन वचोभिस्तं जनार्दनम् ॥ १०९.४०॥
१०९.४१/१देवा ऊचुः । शक्रादयोऽपि त्रिदशाः कटाक्षम् ।
१०९.४१/२अवेक्ष्य यस्यास्तप आचरन्ति ।
१०९.४१/३सा चापि यत्पादरता च लक्ष्मीस्- ।
१०९.४१/४तं ब्रह्मभूतं शरणं प्रपद्ये ॥ १०९.४१॥
१०९.४२/१यस्मात् त्रिलोक्यां न परः समानो ।
१०९.४२/२न चाधिकस्तार्क्ष्यरथान् नृसिंहात् ।
१०९.४२/३स देवदेवोऽवतु नः समस्तान् ।
१०९.४२/४महाभयेभ्यः कृपया प्रपन्नान् ॥ १०९.४२॥
१०९.४३/१ब्रह्मोवाच । ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः ।
१०९.४३/२किमर्थमागताः सर्वे तत्कर्तास्मीत्युवाच तान् ॥ १०९.४३॥
१०९.४४/१देवा ऊचुः । भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन ।
१०९.४४/२ततस्त्राणाय देवानां मतिं कुरु जनार्दन ॥ १०९.४४॥
१०९.४६/१ब्रह्मोवाच । तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे ।
१०९.४६/२किं करोमि गतं चक्रं भवन्तश्चार्तिमागताः ।
१०९.४६/३यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥ १०९.४६॥
१०९.४७/१ब्रह्मोवाच । ततो गतेषु देवेषु विष्णुश्चक्रार्थमुद्यतः ।
१०९.४७/२गोदावरीं ततो गत्वा शम्भोः पूजां प्रचक्रमे ॥ १०९.४७॥
१०९.४८/१सुवर्णकमलैर्दिव्यैः सुगन्धैर्दशभिः शतैः ।
१०९.४८/२भक्तितो नित्यवत् पूजां चक्रे विष्णुरुमापतेः ॥ १०९.४८॥
१०९.४९/१एवं सम्पूज्यमाने तु तयोस्तत्त्वमिदं शृणु ।
१०९.४९/२कमलानां सहस्रे तु यदैकं नैव पूर्यते ॥ १०९.४९॥
१०९.५०/१तदासुरारिः स्वं नेत्रमुत्पाट्यार्घ्यमकल्पयत् ।
१०९.५०/२अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् ।
१०९.५०/३ध्यात्वा शम्भुं ददावर्घ्यमनन्यशरणो हरिः ॥ १०९.५०॥
१०९.५१/१विष्णुरुवाच । त्वमेव देव जानीषे भावमन्तर्गतं नृणाम् ।
१०९.५१/२त्वमेव शरणोऽधीशोऽत्र का भवेद् विचारणा ॥ १०९.५१॥
१०९.५२/१ब्रह्मोवाच । वदन्न् उदश्रुनयनो निलिल्येऽसावितीश्वरे ।
१०९.५२/२भवानीसहितः शम्भुः पुरस्ताद् अभवत् तदा ॥ १०९.५२॥
१०९.५३/१गाढमालिङ्ग्य विविधैर्वरैरापूरयद् धरिम् ।
१०९.५३/२तद् एव चक्रमभवन् नेत्रं चापि यथा पुरा ॥ १०९.५३॥
१०९.५४/१ततः सुरगणाः सर्वे तुष्टुवुर्हरिशंकरौ ।
१०९.५४/२गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम् ॥ १०९.५४॥
१०९.५५/१ततः प्रभृति तत् तीर्थं चक्रतीर्थमिति स्मृतम् ।
१०९.५५/२यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥ १०९.५५॥
१०९.५६/१तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम् ।
१०९.५६/२सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत् ।
१०९.५६/३तत् तु चक्राङ्कितं तीर्थमद्यापि परिदृश्यते ॥ १०९.५६॥
११०.१/१ब्रह्मोवाच । पिप्पलं तीर्थमाख्यातं चक्रतीर्थाद् अनन्तरम् ।
११०.१/२यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ ११०.१॥
११०.२/१यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं विभुम् ।
११०.२/२पूजयामास तत् तीर्थं चक्रतीर्थमुदाहृतम् ॥ ११०.२॥
११०.३/१यत्र प्रीतोऽभवद् विष्णोः शम्भुस्तत् पिप्पलं विदुः ।
११०.३/२महिमानं यस्य वक्तुं न क्षमोऽप्यहिनायकः ॥ ११०.३॥
११०.४/१चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् ।
११०.४/२शृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया ॥ ११०.४॥
११०.५/१दधीचिरिति विख्यातो मुनिरासीद् गुणान्वितः ।
११०.५/२तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता ॥ ११०.५॥
११०.६/१लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी ।
११०.६/२इति नाम्ना च विख्याता वडवेति प्रकीर्तिता ॥ ११०.६॥
११०.७/१दधीचेः सा प्रिया नित्यं तपस्तेपे तया महत् ।
११०.७/२दधीचिरग्निमान् नित्यं गृहधर्मपरायणः ॥ ११०.७॥
११०.८/१भागीरथीं समाश्रित्य देवातिथिपरायणः ।
११०.८/२स्वकलत्ररतः शान्तः कुम्भयोनिरिवापरः ॥ ११०.८॥
११०.९/१तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः ।
११०.९/२आजग्मुर्मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः ॥ ११०.९॥
११०.१०/१तत्र देवाः समाजग्मू रुद्रादित्यास्तथाश्विनौ ।
११०.१०/२इन्द्रो विष्णुर्यमोऽग्निश्च जित्वा दैत्यान् उपागतान् ॥ ११०.१०॥
११०.११/१जयेन जातसंहर्षाः स्तुताश्चैव मरुद्गणैः ।
११०.११/२दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः ॥ ११०.११॥
११०.१२/१दधीचिर्जातसंहर्षः सुरान् पूज्य पृथक् पृथक् ।
११०.१२/२गृहकृत्यं ततश्चक्रे सुरेभ्यो भार्यया सह ॥ ११०.१२॥
११०.१३/१पृष्टाश्च कुशलं तेन कथाश्चक्रुः सुरा अपि ।
११०.१३/२दधीचिमब्रुवन् देवा भार्यया सुखितं पुनः ॥ ११०.१३॥
११०.१४/१आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः ॥ ११०.१४॥
११०.१५/१देवा ऊचुः । किमद्य दुर्लभं लोके ऋषेऽस्माकं भविष्यति ।
११०.१५/२त्वादृशः सकृपो येषु मुनिर्भूकल्पपादपः ॥ ११०.१५॥
११०.१६/१एतद् एव फलं पुंसां जीवतां मुनिसत्तम ।
११०.१६/२तीर्थाप्लुतिर्भूतदया दर्शनं च भवादृशाम् ॥ ११०.१६॥
११०.१७/१यत् स्नेहाद् उच्यतेऽस्माभिरवधारय तन् मुने ।
११०.१७/२जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुंगवान् ॥ ११०.१७॥
११०.१८/१वयं च सुखिनो ब्रह्मंस्त्वयि दृष्टे विशेषतः ।
११०.१८/२नायुधैः फलमस्माकं वोढुं नैव क्षमा वयम् ॥ ११०.१८॥
११०.१९/१स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर ।
११०.१९/२स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च ॥ ११०.१९॥
११०.२०/१नयेयुरायुधानीति तथैव च रसातले ।
११०.२०/२तस्मात् तवाश्रमे पुण्ये स्थाप्यन्तेऽस्त्राणि मानद ॥ ११०.२०॥
११०.२१/१नैवात्र किंचिद् भयमस्ति विप्र ।
११०.२१/२न दानवेभ्यो राक्षसेभ्यश्च घोरम् ।
११०.२१/३त्वदाज्ञया रक्षितपुण्यदेशो ।
११०.२१/४न विद्यते तपसा ते समानः ॥ ११०.२१॥
११०.२२/१जितारयो ब्रह्मविदां वरिष्ठम् ।
११०.२२/२वयं च पूर्वं निहता दैत्यसंघाः ।
११०.२२/३अस्त्रैरलं भारभूतैः कृतार्थैः ।
११०.२२/४स्थाप्यं स्थानं ते समीपे मुनीश ॥ ११०.२२॥
११०.२३/१दिव्यान् भोगान् कामिनीभिः समेतान् ।
११०.२३/२देवोद्याने नन्दने सम्भजामः ।
११०.२३/३ततो यामः कृतकार्याः सहेन्द्राः ।
११०.२३/४स्वं स्वं स्थानं चायुधानां च रक्षा ॥ ११०.२३॥
११०.२४/१त्वया कृता जायतां तत् प्रशाधि ।
११०.२४/२समर्थस्त्वं रक्षणे धारणे च ॥ ११०.२४॥
११०.२५/१ब्रह्मोवाच । तद्वाक्यमाकर्ण्य दधीचिरेवम् ।
११०.२५/२वाक्यं जगौ विबुधान् एवमस्तु ।
११०.२५/३निवार्यमाणः प्रियशीलया स्त्रिया ।
११०.२५/४किं देवकार्येण विरुद्धकारिणा ॥ ११०.२५॥
११०.२६/१ये ज्ञातशास्त्राः परमार्थनिष्ठाः ।
११०.२६/२संसारचेष्टासु गतानुरागाः ।
११०.२६/३तेषां परार्थव्यसनेन किं मुने ।
११०.२६/४येनात्र वामुत्र सुखं न किंचित् ॥ ११०.२६॥
११०.२७/१देवद्विषो द्वेषमनुप्रयान्ति ।
११०.२७/२दत्ते स्थाने विप्रवर्य शृणुष्व ।
११०.२७/३नष्टे हृते चायुधानां मुनीश ।
११०.२७/४कुप्यन्ति देवा रिपवस्ते भवन्ति ॥ ११०.२७॥
११०.२८/१तस्मान् नेदं वेदविदां वरिष्ठ ।
११०.२८/२युक्तं द्रव्ये परकीये ममत्वम् ।
११०.२८/३तावच्च मैत्री द्रव्यभावश्च तावन् ।
११०.२८/४नष्टे हृते रिपवस्ते भवन्ति ॥ ११०.२८॥
११०.२९/१चेद् अस्ति शक्तिर्द्रव्यदाने ततस्ते ।
११०.२९/२दातव्यमेवार्थिने किं विचार्यम् ।
११०.२९/३नो चेत् सन्तः परकार्याणि कुर्युर्।
११०.२९/४वाग्भिर्मनोभिः कृतिभिस्तथैव ॥ ११०.२९॥
११०.३०/१परस्वसंधारणमेतद् एव ।
११०.३०/२सद्भिर्निरस्तं त्यज कान्त सद्यः ॥ ११०.३०॥
११०.३१/१ब्रह्मोवाच । एवं प्रियाया वचनं स विप्रो ।
११०.३१/२निशम्य भार्यामिदमाह सुभ्रूम् ॥ ११०.३१॥
११०.३२/१दधीचिरुवाच । पुरा सुराणामनुमान्य भद्रे ।
११०.३२/२नेतीति वाणी न सुखं ममैति ॥ ११०.३२॥
११०.३३/१ब्रह्मोवाच । श्रुत्वेरितं पत्युरिति प्रियायाम् ।
११०.३३/२दैवं विनान्यन् न नृणां समर्थम् ।
११०.३३/३तूष्णीं स्थितायां सुरसत्तमास्ते ।
११०.३३/४संस्थाप्य चास्त्राण्यतिदीप्तिमन्ति ॥ ११०.३३॥
११०.३४/१नत्वा मुनीन्द्रं ययुरेव लोकान् ।
११०.३४/२दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः ।
११०.३४/३गतेषु देवेषु मुनिप्रवर्यो ।
११०.३४/४हृष्टोऽवसद् भार्यया धर्मयुक्तः ॥ ११०.३४॥
११०.३५/१गते च काले ह्यतिविप्रयुक्ते ।
११०.३५/२दैवे वर्षे संख्यया वै सहस्रे ।
११०.३५/३न ते सुरा आयुधानां मुनीश ।
११०.३५/४वाचं मनश्चापि तथैव चक्रुः ॥ ११०.३५॥
११०.३६/१दधीचिरप्याह गभस्तिमोजसा ।
११०.३६/२देवारयो मां द्विषतीह भद्रे ।
११०.३६/३न ते सुरा नेतुकामा भवन्ति ।
११०.३६/४संस्थापितान्यत्र वदस्व युक्तम् ॥ ११०.३६॥
११०.३७/१सा चाह कान्तं विनयाद् उक्तमेव ।
११०.३७/२त्वं जानीषे नाथ यद् अत्र युक्तम् ।
११०.३७/३दैत्या हरिष्यन्ति महाप्रवृद्धास्- ।
११०.३७/४तपोयुक्ता बलिनः स्वायुधानि ॥ ११०.३७॥
११०.३८/१तदस्त्ररक्षार्थमिदं स चक्रे ।
११०.३८/२मन्त्रैस्तु संक्षाल्य जलैश्च पुण्यैः ।
११०.३८/३तद् वारि सर्वास्त्रमयं सुपुण्यम् ।
११०.३८/४तेजोयुक्तं तच्च पपौ दधीचिः ॥ ११०.३८॥
११०.३९/१निर्वीर्यरूपाणि तदायुधानि ।
११०.३९/२क्षयं जग्मुः क्रमशः कालयोगात् ।
११०.३९/३सुराः समागत्य दधीचिमूचुर्।
११०.३९/४महाभयं ह्यागतं शात्रवं नः ॥ ११०.३९॥
११०.४०/१ददस्व चास्त्राणि मुनिप्रवीर ।
११०.४०/२यानि त्वदन्ते निहितानि देवैः ।
११०.४०/३दधीचिरप्याह सुरारिभीत्या ।
११०.४०/४अनागत्या भवतां चाचिरेण ॥ ११०.४०॥
११०.४१/१अस्त्राणि पीतानि शरीरसंस्थान्य्।
११०.४१/२उक्तानि युक्तं मम तद् वदन्तु ।
११०.४१/३श्रुत्वा तदुक्तं वचनं तु देवाः ।
११०.४१/४प्रोचुस्तमित्थं विनयावनम्राः ॥ ११०.४१॥
११०.४२/१अस्त्राणि देहीति च वक्तुमेतच् ।
११०.४२/२छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र ।
११०.४२/३विना च तैः परिभूयेम नित्यम् ।
११०.४२/४पुष्टारयः क्व प्रयामो मुनीश ॥ ११०.४२॥
११०.४३/१न मर्त्यलोके न तले न नाके ।
११०.४३/२वासः सुराणां भविताद्य तात ।
११०.४३/३त्वं विप्रवर्यस्तपसा चैव युक्तो ।
११०.४३/४नान्यद् वक्तुं युज्यते ते पुरस्तात् ॥ ११०.४३॥
११०.४४/१विप्रस्तदोवाच मदस्थिसंस्थान्य्।
११०.४४/२अस्त्राणि गृह्णन्तु न संशयोऽत्र ।
११०.४४/३देवास्तमप्याहुरनेन किं नो ह्य्।
११०.४४/४अस्त्रैर्हीनाः स्त्रीत्वमाप्ताः सुरेन्द्राः ॥ ११०.४४॥
११०.४५/१पुनस्तदा चाह मुनिप्रवीरस्- ।
११०.४५/२त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः ।
११०.४५/३अस्त्राणि कुर्वन्तु मदस्थिभूतान्य्।
११०.४५/४अनुत्तमान्युत्तमरूपवन्ति ॥ ११०.४५॥
११०.४६/१कुरुष्व चेत्याहुरदीनसत्त्वम् ।
११०.४६/२दधीचिमित्युत्तरमग्निकल्पम् ।
११०.४६/३तदा तु तस्य प्रियमीरयन्ती ।
११०.४६/४न सांनिध्ये प्रातिथेयी मुनीश ॥ ११०.४६॥
११०.४७/१ते चापि देवास्तामदृष्ट्वैव शीघ्रम् ।
११०.४७/२तस्या भीता विप्रमूचुः कुरुष्व ।
११०.४७/३तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो ।
११०.४७/४यथासुखं देहमिमं जुषध्वम् ॥ ११०.४७॥
११०.४८/१मदस्थिभिः प्रीतिमन्तो भवन्तु ।
११०.४८/२सुराः सर्वे किं तु देहेन कार्यम् ॥ ११०.४८॥
११०.४९/१ब्रह्मोवाच । इत्युक्त्वासौ बद्धपद्मासनस्थो ।
११०.४९/२नासाग्रदत्ताक्षिप्रकाशप्रसन्नः ।
११०.४९/३वायुं सवह्निं मध्यमोद्घाटयोगान् ।
११०.४९/४नीत्वा शनैर्दहराकाशगर्भम् ॥ ११०.४९॥
११०.५०/१यद् अप्रमेयं परमं पदं यद् ।
११०.५०/२यद् ब्रह्मरूपं यद् उपासितव्यम् ।
११०.५०/३तत्रैव विन्यस्य धियं महात्मा ।
११०.५०/४सायुज्यतां ब्रह्मणोऽसौ जगाम ॥ ११०.५०॥
११०.५१/१निर्जीवतां प्राप्तमभीक्ष्य देवाः ।
११०.५१/२कलेवरं तस्य सुराश्च सम्यक् ।
११०.५१/३त्वष्टारमप्यूचुरतित्वरन्तः ।
११०.५१/४कुरुष्व चास्त्राणि बहूनि सद्यः ॥ ११०.५१॥
११०.५२/१स चापि तान् आह कथं नु कार्यम् ।
११०.५२/२कलेवरं ब्राह्मणस्येह देवाः ।
११०.५२/३बिभेमि कर्तुं दारुणं चाक्षमोऽहम् ।
११०.५२/४विदारितान्यायुधान्युत्तमानि ॥ ११०.५२॥
११०.५३/१तदस्थिभूतानि करोमि सद्यस्- ।
११०.५३/२ततो देवा गाः समूचुस्त्वरन्तः ॥ ११०.५३॥
११०.५४/१देवा ऊचुः । वज्रं मुखं वः क्रियते हितार्थम् ।
११०.५४/२गावो देवैरायुधार्थं क्षणेन ।
११०.५४/३दधीचिदेहं तु विदार्य यूयम् ।
११०.५४/४अस्थीनि शुद्धानि प्रयच्छताद्य ॥ ११०.५४॥
११०.५५/१ब्रह्मोवाच । ता देववाक्याच्च तथैव चक्रुः ।
११०.५५/२संलिह्य चास्थीनि ददुः सुराणाम् ।
११०.५५/३सुरास्त्वरा जग्मुरदीनसत्त्वाः ।
११०.५५/४स्वमालयं चापि तथैव गावः ॥ ११०.५५॥
११०.५६/१कृत्वा तथास्त्राणि च देवतानाम् ।
११०.५६/२त्वष्टा जगामाथ सुराज्ञया तदा ।
११०.५६/३ततश्चिराच्छीलवती सुभद्रा ।
११०.५६/४भर्तुः प्रिया बालगर्भा त्वरन्ती ॥ ११०.५६॥
११०.५७/१करे गृहीत्वा कलशं वारिपूर्णम् ।
११०.५७/२उमां नत्वा फलपुष्पैः समेत्य ।
११०.५७/३अग्निं च भर्तारमथाश्रमं च ।
११०.५७/४संद्रष्टुकामा ह्याजगामाथ शीघ्रम् ॥ ११०.५७॥
११०.५८/१आगच्छन्तीं तां प्रातिथेयीं तदानीम् ।
११०.५८/२निवारयामास तदोल्कपातः ।
११०.५८/३सा सम्भ्रमाद् आगता चाश्रमं स्वम् ।
११०.५८/४नैवापश्यत् तत्र भर्तारमग्रे ॥ ११०.५८॥
११०.५९/१क्व वा गतश्चेति सविस्मया सा ।
११०.५९/२पप्रच्छ चाग्निं प्रातिथेयी तदानीम् ।
११०.५९/३अग्निस्तदोवाच सविस्तरं ताम् ।
११०.५९/४देवागमं याचनं वै शरीरे ॥ ११०.५९॥
११०.६०/१अस्थ्नामुपादानमथ प्रयाणम् ।
११०.६०/२श्रुत्वा सर्वं दुःखिता सा बभूव ।
११०.६०/३दुःखोद्वेगात् सा पपाताथ पृथ्व्याम् ।
११०.६०/४मन्दं मन्दं वह्निनाश्वासिता च ॥ ११०.६०॥
११०.६१/१प्रातिथेय्युवाच । शापेऽमराणां तु नाहं समर्था ।
११०.६१/२अग्निं प्राप्स्ये किं नु कार्यं भवेन् मे ॥ ११०.६१॥
११०.६२/१ब्रह्मोवाच । कोपं च दुःखं च नियम्य साध्वी ।
११०.६२/२तदावादीद् धर्मयुक्तं च भर्तुः ॥ ११०.६२॥
११०.६३/१प्रातिथेय्युवाच । उत्पद्यते यत् तु विनाशि सर्वम् ।
११०.६३/२न शोच्यमस्तीति मनुष्यलोके ।
११०.६३/३गोविप्रदेवार्थमिह त्यजन्ति ।
११०.६३/४प्राणान् प्रियान् पुण्यभाजो मनुष्याः ॥ ११०.६३॥
११०.६४/१संसारचक्रे परिवर्तमाने ।
११०.६४/२देहं समर्थं धर्मयुक्तं त्ववाप्य ।
११०.६४/३प्रियान् प्राणान् देवविप्रार्थहेतोस्- ।
११०.६४/४ते वै धन्याः प्राणिनो ये त्यजन्ति ॥ ११०.६४॥
११०.६५/१प्राणाः सर्वेऽस्यापि देहान्वितस्य ।
११०.६५/२यातारो वै नात्र संदेहलेशः ।
११०.६५/३एवं ज्ञात्वा विप्रगोदेवदीनाद्य्+ ।
११०.६५/४अर्थं चैनान् उत्सृजन्तीश्वरास्ते ॥ ११०.६५॥
११०.६६/१निवार्यमाणोऽपि मया प्रपन्नया ।
११०.६६/२चकार देवास्त्रपरिग्रहं सः ।
११०.६६/३मनोगतं वेत्त्यथवा विधातुः ।
११०.६६/४को मर्त्यलोकातिगचेष्टितस्य ॥ ११०.६६॥
११०.६७/१ब्रह्मोवाच । इत्येवमुक्त्वापूज्य चाग्नीन् यथावद् ।
११०.६७/२भर्तुस्त्वचा लोमभिः सा विवेश ।
११०.६७/३गर्भस्थितं बालकं प्रातिथेयी ।
११०.६७/४कुक्षिं विदार्याथ करे गृहीत्वा ॥ ११०.६७॥
११०.६८/१नत्वा च गङ्गां भुवमाश्रमं च ।
११०.६८/२वनस्पतीन् ओषधीराश्रमस्थान् ॥ ११०.६८॥
११०.६९/१प्रातिथेय्युवाच । पित्रा हीनो बन्धुभिर्गोत्रजैश्च ।
११०.६९/२मात्रा हीनो बालकः सर्व एव ।
११०.६९/३रक्षन्तु सर्वेऽपि च भूतसंघास्- ।
११०.६९/४तथौषध्यो बालकं लोकपालाः ॥ ११०.६९॥
११०.७०/१ये बालकं मातृपितृप्रहीणम् ।
११०.७०/२सनिर्विशेषं स्वतनुप्ररूढैः ।
११०.७०/३पश्यन्ति रक्षन्ति त एव नूनम् ।
११०.७०/४ब्रह्मादिकानामपि वन्दनीयाः ॥ ११०.७०॥
११०.७१/१ब्रह्मोवाच । इत्युक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा ।
११०.७१/२पिप्पलानां समीपे तु न्यस्य बालं नमस्य च ॥ ११०.७१॥
११०.७२/१अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता ।
११०.७२/२विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ ॥ ११०.७२॥
११०.७३/१रुरुदुश्चाश्रमस्था ये वृक्षाश्च वनवासिनः ।
११०.७३/२पुत्रवत् पोषिता येन ऋषिणा च दधीचिना ॥ ११०.७३॥
११०.७४/१विना तेन न जीवामस्तया मात्रा विना तथा ।
११०.७४/२मृगाश्च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम् ॥ ११०.७४॥
११०.७५/१वृक्षा ऊचुः । स्वर्गमासेदुषोः पित्रोस्तदपत्येष्वकृत्रिमम् ।
११०.७५/२ये कुर्वन्त्यनिशं स्नेहं त एव कृतिनो नराः ॥ ११०.७५॥
११०.७६/१दधीचिः प्रातिथेयी वा वीक्षतेऽस्मान् यथा पुरा ।
११०.७६/२तथा पिता न माता वा धिग् अस्मान् पापिनो वयम् ॥ ११०.७६॥
११०.७७/१अस्माकमपि सर्वेषामतः प्रभृति निश्चितम् ।
११०.७७/२बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः ॥ ११०.७७॥
११०.७८/१ब्रह्मोवाच । एवमुक्त्वा तदौषध्यो वनस्पतिसमन्विताः ।
११०.७८/२सोमं राजानमभ्येत्य याचिरेऽमृतमुत्तमम् ॥ ११०.७८॥
११०.७९/१स चापि दत्तवांस्तेभ्यः सोमोऽमृतमनुत्तमम् ।
११०.७९/२ददुर्बालाय ते चापि अमृतं सुरवल्लभम् ॥ ११०.७९॥
११०.८०/१स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी ।
११०.८०/२पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः ।
११०.८०/३प्रवृद्धः पिप्पलान् एवमुवाच त्वतिविस्मितः ॥ ११०.८०॥
११०.८१/१पिप्पलाद उवाच । मानुषेभ्यो मानुषास्तु जायन्ते पक्षिभिः खगाः ।
११०.८१/२बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते ।
११०.८१/३वार्क्षस्त्वहं कथं जातो हस्तपादादिजीववान् ॥ ११०.८१॥
११०.८२/१ब्रह्मोवाच । वृक्षास्तद्वचनं श्रुत्वा सर्वमूचुर्यथाक्रमम् ।
११०.८२/२दधीचेर्मरणं साध्व्यास्तथा चाग्निप्रवेशनम् ॥ ११०.८२॥
११०.८३/१अस्थ्नां संहरणं देवैरेतत् सर्वं सविस्तरम् ।
११०.८३/२श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि ॥ ११०.८३॥
११०.८४/१आश्वासितः पुनर्वृक्षैर्वाक्यैर्धर्मार्थसंहितैः ।
११०.८४/२आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन् ॥ ११०.८४॥
११०.८५/१पिप्पलाद उवाच । पितृहन्तृन् हनिष्येऽहं नान्यथा
जीवितुं क्षमः ।
११०.८५/२पितुर्मित्राणि शत्रूंश्च तथा पुत्रोऽनुवर्तते ॥ ११०.८५॥
११०.८६/१स एव पुत्रो योऽन्यस्तु पुत्ररूपो रिपुः स्मृतः ।
११०.८६/२वदन्ति पितृमित्राणि तारयन्त्यहितान् अपि ॥ ११०.८६॥
११०.८७/१ब्रह्मोवाच । वृक्षास्तं बालमादाय सोमान्तिकमथाययुः ।
११०.८७/२बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् ।
११०.८७/३श्रुत्वा सोमोऽपि तं बालं पिप्पलादमभाषत ॥ ११०.८७॥
११०.८८/१सोम उवाच । गृहाण विद्यां विधिवत् समग्राम् ।
११०.८८/२तपःसमृद्धिं च शुभां च वाचम् ।
११०.८८/३शौर्यं च रूपं च बलं च बुद्धिम् ।
११०.८८/४सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम् ॥ ११०.८८॥
११०.८९/१ब्रह्मोवाच । पिप्पलादस्तमप्याह ओषधीशं विनीतवत् ॥ ११०.८९॥
११०.९०/१पिप्पलाद उवाच । सर्वमेतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् ।
११०.९०/२न करोम्यत्र यावच्च तस्मात् तत् प्रथमं वद ॥ ११०.९०॥
११०.९१/१यस्मिन् देशे यत्र काले यस्मिन् देवे च मन्त्रके ।
११०.९१/२यत्र तीर्थे च सिध्येत मत्संकल्पः सुरोत्तम ॥ ११०.९१॥
११०.९२/१ब्रह्मोवाच । चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर्वा मुक्तिरेव वा ।
११०.९२/२सर्वं महेश्वराद् देवाज्जायते नात्र संशयः ॥ ११०.९२॥
११०.९३/१स सोमं पुनरप्याह कथं द्रक्ष्ये महेश्वरम् ।
११०.९३/२बालोऽहं बालबुद्धिश्च न सामर्थ्यं तपस्तथा ॥ ११०.९३॥
११०.९४/१चन्द्र उवाच । गौतमीं गच्छ भद्र त्वं स्तुहि
चक्रेश्वरं हरम् ।
११०.९४/२प्रसन्नस्तु तवेशानो ह्यल्पायासेन वत्सक ॥ ११०.९४॥
११०.९५/१प्रीतो भवेन् महादेवः साक्षात् कारुणिकः शिवः ।
११०.९५/२आस्ते साक्षात्कृतः शम्भुर्विष्णुना प्रभविष्णुना ॥ ११०.९५॥
११०.९६/१वरं च दत्तवान् विष्णोश्चक्रं च त्रिदशार्चितम् ।
११०.९६/२गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम् ॥ ११०.९६॥
११०.९७/१चक्रेश्वरं नाम तीर्थं जानन्त्योषधयस्तु तत् ।
११०.९७/२तं गत्वा स्तुहि देवेशं सर्वभावेन शंकरम् ।
११०.९७/३स ते प्रीतमनास्तात सर्वान् कामान् प्रदास्यति ॥ ११०.९७॥
११०.९८/१ब्रह्मोवाच । तद् राजवचनाद् ब्रह्मन् पिप्पलादो महामुनिः ।
११०.९८/२आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः ॥ ११०.९८॥
११०.९९/१तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान् ययुः ।
११०.९९/२गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् ।
११०.९९/३तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः ॥ ११०.९९॥
११०.१००/१पिप्पलाद उवाच । सर्वाणि कर्माणि विहाय धीरास्- ।
११०.१००/२त्यक्तैषणा निर्जितचित्तवाताः ।
११०.१००/३यं यान्ति मुक्त्यै शरणं प्रयत्नात् ।
११०.१००/४तमादिदेवं प्रणमामि शम्भुम् ॥ ११०.१००॥
११०.१०१/१यः सर्वसाक्षी सकलान्तरात्मा ।
११०.१०१/२सर्वेश्वरः सर्वकलानिधानम् ।
११०.१०१/३विज्ञाय मच्चित्तगतं समस्तम् ।
११०.१०१/४स मे स्मरारिः करुणां करोतु ॥ ११०.१०१॥
११०.१०२/१दिगीश्वराञ् जित्य सुरार्चितस्य ।
११०.१०२/२कैलासमान्दोलयतः पुरारेः ।
११०.१०२/३अङ्गुष्ठकृत्यैव रसातलाद् अधो+ ।
११०.१०२/४गतस्य तस्यैव दशाननस्य ॥ ११०.१०२॥
११०.१०३/१आलूनकायस्य गिरं निशम्य ।
११०.१०३/२विहस्य देव्या सह दत्तमिष्टम् ।
११०.१०३/३तस्मै प्रसन्नः कुपितोऽपि तद्वद् ।
११०.१०३/४अयुक्तदातासि महेश्वर त्वम् ॥ ११०.१०३॥
११०.१०४/१सौत्रामणीम् ऋद्धिमधः स चक्रे ।
११०.१०४/२योऽर्चां हरौ नित्यमतीव कृत्वा ।
११०.१०४/३बाणः प्रशस्यः कृतवान् उच्चपूजाम् ।
११०.१०४/४रम्यां मनोज्ञां शशिखण्डमौलेः ॥ ११०.१०४॥
११०.१०५/१जित्वा रिपून् देवगणान् प्रपूज्य ।
११०.१०५/२गुरुं नमस्कर्तुमगाद् विशाखः ।
११०.१०५/३चुकोप दृष्ट्वा गणनाथमूढम् ।
११०.१०५/४अङ्के तमारोप्य जहास सोमः ॥ ११०.१०५॥
११०.१०६/१ईशाङ्करूढोऽपि शिशुस्वभावान् ।
११०.१०६/२न मातुरङ्कं प्रमुमोच बालः ।
११०.१०६/३क्रुद्धं सुतं बोधितुमप्यशक्तस्- ।
११०.१०६/४ततोऽर्धनारित्वमवाप सोमः ॥ ११०.१०६॥
११०.१०७/१ब्रह्मोवाच । ततः स्वयम्भूः सुप्रीतः पिप्पलादमभाषत ॥ ११०.१०७॥
११०.१०८/१शिव उवाच । वरं वरय भद्रं ते पिप्पलाद
यथेप्सितम् ॥ ११०.१०८॥
११०.१०९/१पिप्पलाद उवाच । हतो देवैर्महादेव पिता मम महायशाः ।
११०.१०९/२अदाम्भिकः सत्यवादी तथा माता पतिव्रता ॥ ११०.१०९॥
११०.११०/१देवेभ्यश्च तयोर्नाशं श्रुत्वा नाथ सविस्तरम् ।
११०.११०/२दुःखकोपसमाविष्टो नाहं जीवितुमुत्सहे ॥ ११०.११०॥
११०.१११/१तस्मान् मे देहि सामर्थ्यं नाशयेयं सुरान् यथा ।
११०.१११/२अवध्यसेव्यस्त्रैलोक्ये त्वमेव शशिशेखर ॥ ११०.१११॥
११०.११२/१ईश्वर उवाच । तृतीयं नयनं द्रष्टुं यदि शक्नोषि मेऽनघ ।
११०.११२/२ततः समर्थो भविता देवांश्छेदयितुं भवान् ॥ ११०.११२॥
११०.११३/१ब्रह्मोवाच । ततो द्रष्टुं मनश्चक्रे तृतीयं लोचनं विभोः ।
११०.११३/२न शशाक तदोवाच न शक्तोऽस्मीति शंकरम् ॥ ११०.११३॥
११०.११४/१ईश्वर उवाच । किंचित् कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् ।
११०.११४/२तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः ॥ ११०.११४॥
११०.११५/१ब्रह्मोवाच । एतच्छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः ।
११०.११५/२दधीचिसूनुर्धर्मात्मा तत्रैव बहुलाः समाः ॥ ११०.११५॥
११०.११६/१शिवध्यानैकनिरतो बालोऽपि बलवान् इव ।
११०.११६/२प्रत्यहं प्रातरुत्थाय स्नात्वा नत्वा गुरून् क्रमात् ॥ ११०.११६॥
११०.११७/१सुखासीनो मनः कृत्वा सुषुम्नायामनन्यधीः ।
११०.११७/२हस्तस्वस्तिकमारोप्य नाभौ विस्मृतसंसृतिः ॥ ११०.११७॥
११०.११८/१स्थानात् स्थानान्तरोत्कर्षान् विदध्यौ शाम्भवं महः ।
११०.११८/२ददर्श चक्षुर्देवस्य तृतीयं पिप्पलाशनः ।
११०.११८/३कृताञ्जलिपुटो भूत्वा विनीत इदमब्रवीत् ॥ ११०.११८॥
११०.११९/१पिप्पलाद उवाच । शम्भुना देवदेवेन वरो दत्तः पुरा मम ।
११०.११९/२तार्तीयचक्षुषो ज्योतिर्यदा पश्यसि तत्क्षणात् ॥ ११०.११९॥
११०.१२०/१सर्वं ते प्रार्थितं सिध्येद् इत्याह त्रिदशेश्वरः ।
११०.१२०/२तस्माद् रिपुविनाशाय हेतुभूतां प्रयच्छ मे ॥ ११०.१२०॥
११०.१२१/१तदैव पिप्पलाः प्रोचुर्वडवापि महाद्युते ।
११०.१२१/२माता तव प्रातिथेयी वदन्त्येवं दिवं गता ॥ ११०.१२१॥
११०.१२२/१पराभिद्रोहनिरता विस्मृतात्महिता नराः ।
११०.१२२/२इतस्ततो भ्रान्तचित्ताः पतन्ति नरकावटे ॥ ११०.१२२॥
११०.१२३/१तन् मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः ।
११०.१२३/२अभिमाने ज्वलत्यन्तः साधुवादो निरर्थकः ॥ ११०.१२३॥
११०.१२४/१देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता ।
११०.१२४/२वडवेति स्मरन् विप्रः कृत्यापि वडवाकृतिः ॥ ११०.१२४॥
११०.१२५/१सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी ।
११०.१२५/२गभस्तिनी बालगर्भा या माता पिप्पलाशिनः ॥ ११०.१२५॥
११०.१२६/१तद्ध्यानयोगात् तु जाता कृत्या सानलगर्भिणी ।
११०.१२६/२उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा ॥ ११०.१२६॥
११०.१२७/१अवोचत् पिप्पलादं तं किं कृत्यं मे वदस्व तत् ।
११०.१२७/२पिप्पलादोऽपि तां प्राह देवान् खाद रिपून् मम ॥ ११०.१२७॥
११०.१२८/१जग्राह सा तथेत्युक्त्वा पिप्पलादं पुरस्थितम् ।
११०.१२८/२स प्राह किमिदं कृत्ये सा चाप्याह त्वयोदितम् ॥ ११०.१२८॥
११०.१२९/१देवैश्च निर्मितं देहं ततो भीतः शिवं ययौ ।
११०.१२९/२तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः ॥ ११०.१२९॥
११०.१३०/१शिव उवाच । योजनान्तःस्थिताञ् जीवान् न गृहाण मदाज्ञया ।
११०.१३०/२तस्माद् याहि ततो दूरं कृत्ये कृत्यं ततः कुरु ॥ ११०.१३०॥
११०.१३१/१ब्रह्मोवाच । तीर्थात् तु पिप्पलात् पूर्वं यावद् योजनसंख्यया ।
११०.१३१/२प्रातिष्ठद् वडवारूपा कृत्या सा ऋषिनिर्मिता ॥ ११०.१३१॥
११०.१३२/१तस्यां जातो महान् अग्निर्लोकसंहरणक्षमः ।
११०.१३२/२तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुमुपागमन् ॥ ११०.१३२॥
११०.१३३/१चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् ।
११०.१३३/२स्तुवन्तो भीतमनसः शम्भुमूचुर्दिवौकसः ॥ ११०.१३३॥
११०.१३४/१देवा ऊचुः । रक्षस्व शम्भो कृत्यास्मान् बाधते तद्भवानलः ।
११०.१३४/२शरणं भव सर्वेश भीतानामभयप्रद ॥ ११०.१३४॥
११०.१३५/१सर्वतः परिभूतानामार्तानां श्रान्तचेतसाम् ।
११०.१३५/२सर्वेषामेव जन्तूनां त्वमेव शरणं शिव ॥ ११०.१३५॥
११०.१३६/१ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता ।
११०.१३६/२सा जिघांसति लोकांस्त्रींस्त्वं नस्त्राता न चेतरः ॥ ११०.१३६॥
११०.१३७/१ब्रह्मोवाच । तान् अब्रवीज्जगन्नाथो योजनान्तर्निवासिनः ।
११०.१३७/२न बाधते त्वसौ कृत्या तस्माद् यूयमहर्निशम् ।
११०.१३७/३इहैवासध्वममरास्तस्या वो न भयं भवेत् ॥ ११०.१३७॥
११०.१३८/१ब्रह्मोवाच । पुनरूचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् ।
११०.१३८/२तत् त्यक्त्वात्र कथं नाथ वत्स्यामस्त्रिदशार्चित ॥ ११०.१३८॥
११०.१४०/१ब्रह्मोवाच । देवानां वचनं श्रुत्वा शिवो
वाक्यमथाब्रवीत् ॥ ११०.१४०॥
११०.१४१/१शिव उवाच । देवोऽसौ विश्वतश्चक्षुर्यो देवो विश्वतोमुखः ।
११०.१४१/२यो रश्मिभिस्तु धमते नित्यं यो जनको मतः ॥ ११०.१४१॥
११०.१४२/१स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा ।
११०.१४२/२स्थितिं करोतु तन्मूर्तौ भविष्यन्त्यखिलाः स्थिताः ॥ ११०.१४२॥
११०.१४३/१ब्रह्मोवाच । तथेति शम्भुवचनात् पारिजाततरोस्तदा ।
११०.१४३/२देवा दिवाकरं चक्रुस्त्वष्टा भास्करमब्रवीत् ॥ ११०.१४३॥
११०.१४४/१त्वष्टोवाच । इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् ।
११०.१४४/२स्वांशैश्च वयमप्यत्र तिष्ठामः शम्भुसंनिधौ ॥ ११०.१४४॥
११०.१४५/१चक्रेश्वरस्य परितो यावद् योजनसंख्यया ।
११०.१४५/२गङ्गाया उभयं तीरमासाद्यासन् सुरोत्तमाः ॥ ११०.१४५॥
११०.१४६/१अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः ।
११०.१४६/२तिस्रः कोट्यस्तथा पञ्च शतानि मुनिसत्तम ।
११०.१४६/३तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा ॥ ११०.१४६॥
११०.१४७/१ब्रह्मोवाच । ततः सुरगणाः सर्वे विनीताः शिवमब्रुवन् ॥ ११०.१४७॥
११०.१४८/१देवा ऊचुः । पिप्पलादं सुरेशान शमं नय जगन्मय ॥ ११०.१४८॥
११०.१४९/१ब्रह्मोवाच । ओमित्युक्त्वा जगन्नाथः पिप्पलादमवोचत ॥ ११०.१४९॥
११०.१५०/१शिव उवाच । नाशितेष्वपि देवेषु पिता ते नागमिष्यति ।
११०.१५०/२दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये ॥ ११०.१५०॥
११०.१५१/१दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् ।
११०.१५१/२तथा याता दिवं तात तव माता पतिव्रता ॥ ११०.१५१॥
११०.१५२/१समा काप्यत्र मतया लोपामुद्राप्यरुन्धती ।
११०.१५२/२यद् अस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा ॥ ११०.१५२॥
११०.१५३/१तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् ।
११०.१५३/२त्वया पुत्रेण सर्वत्र नातः परतरं कृतम् ॥ ११०.१५३॥
११०.१५४/१त्वत्प्रतापभयात् स्वर्गाच्च्युतांस्त्वं पातुमर्हसि ।
११०.१५४/२कांदिशीकांस्तव भयाद् अमरांस्त्रातुमर्हसि ।
११०.१५४/३नार्तत्राणाद् अभ्यधिकं सुकृतं क्वापि विद्यते ॥ ११०.१५४॥
११०.१५५/१यावद् यशः स्फुरति चारु मनुष्यलोके ।
११०.१५५/२अहानि तावन्ति दिवं गतस्य ।
११०.१५५/३दिने दिने वर्षसंख्या परस्मिंल् ।
११०.१५५/४लोके वासो जायते निर्विकारः ॥ ११०.१५५॥
११०.१५६/१मृतास्त एवात्र यशो न येषाम् ।
११०.१५६/२अन्धास्त एव श्रुतवर्जिता ये ।
११०.१५६/३ये दानशीला न नपुंसकास्ते ।
११०.१५६/४ये धर्मशीला न त एव शोच्याः ॥ ११०.१५६॥
११०.१५७/१ब्रह्मोवाच । भाषितं देवदेवस्य श्रुत्वा शान्तोऽभवन् मुनिः ।
११०.१५७/२कृताञ्जलिपुटो भूत्वा नत्वा नाथमथाब्रवीत् ॥ ११०.१५७॥
११०.१५८/१पिप्पलाद उवाच । वाग्भिर्मनोभिः कृतिभिः कदाचिन् ।
११०.१५८/२ममोपकुर्वन्ति हिते रता ये ।
११०.१५८/३तेभ्यो हितार्थं त्विह चापरेषाम् ।
११०.१५८/४सोमं नमस्यामि सुरादिपूज्यम् ॥ ११०.१५८॥
११०.१५९/१संरक्षितो यैरभिवर्धितश्च ।
११०.१५९/२समानगोत्रश्च समानधर्मा ।
११०.१५९/३तेषामभीष्टानि शिवः करोतु ।
११०.१५९/४बालेन्दुमौलिं प्रणतोऽस्मि नित्यम् ॥ ११०.१५९॥
११०.१६०/१यैरहं वर्धितो नित्यं मातृवत् पितृवत् प्रभो ।
११०.१६०/२तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये ॥ ११०.१६०॥
११०.१६१/१यशस्तु तेषां भविता तेभ्योऽहमनृणस्ततः ।
११०.१६१/२यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले ॥ ११०.१६१॥
११०.१६२/१तेभ्यो यद् इदमधिकमनुमन्यन्तु देवताः ।
११०.१६२/२ततः क्षमेऽहं देवानामपराधं निरञ्जनः ॥ ११०.१६२॥
११०.१६३/१ब्रह्मोवाच । ततः समक्षं सुरसाक्षरां गिरम् ।
११०.१६३/२सहस्रचक्षुःप्रमुखांस्तथाग्रतः ।
११०.१६३/३उवाच देवा अपि मेनिरे वचो ।
११०.१६३/४दधीचिपुत्रोदितमादरेण ॥ ११०.१६३॥
११०.१६४/१बालस्य बुद्धिं विनयं च विद्याम् ।
११०.१६४/२शौर्यं बलं साहसं सत्यवाचम् ।
११०.१६४/३पित्रोर्भक्तिं भावशुद्धिं विदित्वा ।
११०.१६४/४तदावादीच्छंकरः पिप्पलादम् ॥ ११०.१६४॥
११०.१६५/१शंकर उवाच । वत्स यद् वै प्रियं कामं यच्चापि सुरवल्लभम् ।
११०.१६५/२प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः ॥ ११०.१६५॥
११०.१६६/१पिप्पलाद उवाच । ये गङ्गायामाप्लुता धर्मनिष्ठाः ।
११०.१६६/२सम्पश्यन्ति त्वत्पदाब्जं महेश ।
११०.१६६/३सर्वान् कामान् आप्नुवन्तु प्रसह्य ।
११०.१६६/४देहान्ते ते पदमायान्तु शैवम् ॥ ११०.१६६॥
११०.१६७/१तातः प्राप्तस्त्वत्पदं चाम्बिका मे ।
११०.१६७/२नाथ प्राप्ता पिप्पलश्चामराश्च ।
११०.१६७/३सुखं प्राप्ता नाथनाथं विलोक्य ।
११०.१६७/४त्वां पश्येयुस्त्वत्पदं ते प्रयान्तु ॥ ११०.१६७॥
११०.१६८/१ब्रह्मोवाच । तथेत्युक्त्वा पिप्पलादं देवदेवो महेश्वरः ।
११०.१६८/२अभिनन्द्य च तं देवैः सार्धं वाक्यमथाब्रवीत् ॥ ११०.१६८॥
११०.१६९/१देवा अपि मुदा युक्ता निर्भयास्तत्कृताद् भयात् ।
११०.१६९/२इदमूचुः सर्व एव दाधीचं शिवसंनिधौ ॥ ११०.१६९॥
११०.१७०/१देवा ऊचुः । सुराणां यद् अभीष्टं च त्वया कृतमसंशयम् ।
११०.१७०/२पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी ॥ ११०.१७०॥
११०.१७१/१याचितं च त्वया पूर्वं परार्थं नात्मने द्विज ।
११०.१७१/२तस्माद् अन्यतमं ब्रूहि किंचिद् दास्यामहे वयम् ॥ ११०.१७१॥
११०.१७२/१ब्रह्मोवाच । पुनः पुनस्तद् एवोचुः सुरसंघा द्विजोत्तमम् ।
११०.१७२/२कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरान् इदम् ।
११०.१७२/३उवाच पिप्पलादश्च उमां नत्वा च पिप्पलान् ॥ ११०.१७२॥
११०.१७३/१पिप्पलाद उवाच । पितरौ द्रष्टुकामोऽस्मि सदा मे शब्दगोचरौ ।
११०.१७३/२ते धन्याः प्राणिनो लोके मातापित्रोर्वशे स्थिताः ॥ ११०.१७३॥
११०.१७४/१शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः ।
११०.१७४/२इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः ॥ ११०.१७४॥
११०.१७५/१परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत् स्वयम् ।
११०.१७५/२पशूनां पक्षिणां चापि सुलभं मातृदर्शनम् ॥ ११०.१७५॥
११०.१७६/१दुर्लभं मम तच्चापि पृच्छे पापफलं नु किम् ।
११०.१७६/२दुर्लभं च तथा चेत् स्यात् सर्वेषां यस्य कस्यचित् ॥ ११०.१७६॥
११०.१७७/१नोपपद्येत सुलभं मत्तो नान्योऽस्ति पापकृत् ।
११०.१७७/२तयोर्दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः ॥ ११०.१७७॥
११०.१७८/१मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति ।
११०.१७८/२पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ ।
११०.१७८/३तेषां महापातकानां कः संख्यां कर्तुमीश्वरः ॥ ११०.१७८॥
११०.१७९/१ब्रह्मोवाच । तद् ऋषेर्वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः ।
११०.१७९/२विमानवरमारूढौ पितरौ दम्पती शुभौ ॥ ११०.१७९॥
११०.१८०/१तव संदर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् ।
११०.१८०/२विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय ॥ ११०.१८०॥
११०.१८१/१पश्य पश्येति तं प्राहुर्दाधीचं सुरसत्तमाः ।
११०.१८१/२विमानवरमारूढौ स्वर्गिणौ स्वर्णभूषणौ ॥ ११०.१८१॥
११०.१८२/१तव संदर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ ।
११०.१८२/२वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किंनरैः ॥ ११०.१८२॥
११०.१८३/१दृष्ट्वा स मातापितरौ ननाम शिवसंनिधौ ।
११०.१८३/२हर्षबाष्पाश्रुनयनौ स कथंचिद् उवाच तौ ॥ ११०.१८३॥
११०.१८४/१पुत्र उवाच । तारयन्त्येव पितरावन्ये पुत्राः कुलोद्वहाः ।
११०.१८४/२अहं तु मातुरुदरे केवलं भेदकारणम् ।
११०.१८४/३एवम्भूतोऽपि तौ मोहात् पश्येयमतिदुर्मतिः ॥ ११०.१८४॥
११०.१८५/१ब्रह्मोवाच । तावालोक्य ततो दुःखाद् वक्तुं नैव शशाक सः ।
११०.१८५/२देवाश्च मातापितरौ पिप्पलादमथाब्रुवन् ॥ ११०.१८५॥
११०.१८६/१धन्यस्त्वं पुत्र लोकेषु यस्य कीर्तिर्गता दिवम् ।
११०.१८६/२साक्षात्कृतस्त्वया त्र्यक्षो देवाश्चाश्वासितास्त्वया ।
११०.१८६/३त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन ॥ ११०.१८६॥
११०.१८७/१ब्रह्मोवाच । पुष्पवृष्टिस्तदा स्वर्गात् पपात तस्य मूर्धनि ।
११०.१८७/२जयशब्दः सुरैरुक्तः प्रादुर्भूतो महामुने ॥ ११०.१८७॥
११०.१८८/१आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया ।
११०.१८८/२शम्भुं गङ्गां सुरान् नत्वा पुत्रं वाक्यमथाब्रवीत् ॥ ११०.१८८॥
११०.१८९/१दधीचिरुवाच । प्राप्य भार्यां शिवे भक्तिं कुरु
गङ्गां च सेवय ।
११०.१८९/२पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् ।
११०.१८९/३कृतकृत्यस्ततो वत्स आक्रमस्व चिरं दिवम् ॥ ११०.१८९॥
११०.१९०/१ब्रह्मोवाच । करोम्येवमिति प्राह दधीचिं पिप्पलाशनः ।
११०.१९०/२दधीचिः पुत्रमाश्वास्य भार्यया च पुनः पुनः ॥ ११०.१९०॥
११०.१९१/१अनुज्ञातः सुरगणैः पुनः स दिवमाक्रमत् ।
११०.१९१/२देवा अप्यूचिरे सर्वे पिप्पलादं ससम्भ्रमाः ॥ ११०.१९१॥
११०.१९२/१देवा ऊचुः । कृत्यां शमय भद्रं ते तद् उत्पन्नं
महानलम् ॥ ११०.१९२॥
११०.१९३/१ब्रह्मोवाच । पिप्पलादस्तु तान् आह न शक्तोऽहं निवारणे ।
११०.१९३/२असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम् ॥ ११०.१९३॥
११०.१९४/१मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति ।
११०.१९४/२तामेव गत्वा विबुधाः प्रोचुस्ते शान्तिकारणम् ॥ ११०.१९४॥
११०.१९५/१अनलं च यथाप्रीति ते उभे नेत्यवोचताम् ।
११०.१९५/२सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना ॥ ११०.१९५॥
११०.१९६/१तथा च मत्प्रसूतोऽग्निरन्यथा तत् कथं भवेत् ।
११०.१९६/२महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा ॥ ११०.१९६॥
११०.१९७/१सर्वमस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते ।
११०.१९७/२मया सम्मन्त्र्य ते देवाः पुनरूचुरुभावपि ॥ ११०.१९७॥
११०.१९८/१भक्षयेतामुभौ सर्वं यथानुक्रमतस्तथा ।
११०.१९८/२वडवापि सुरान् एवमुवाच शृणु नारद ॥ ११०.१९८॥
११०.१९९/१वडवोवाच । भवतामिच्छया सर्वं भक्ष्यं मे
सुरसत्तमाः ॥ ११०.१९९॥
११०.२००/१ब्रह्मोवाच । वडवा सा नदी जाता गङ्गया संगता मुने ।
११०.२००/२तद्भवस्तु महान् अग्निर्य आसीद् अतिभीषणः ।
११०.२००/३तमाहुरमरा वह्निं भूतानामादितो विदुः ॥ ११०.२००॥
११०.२०१/१सुरा ऊचुः । आपो ज्येष्ठतमा ज्ञेयास्तथैव प्रथमं भवान् ।
११०.२०१/२तत्राप्यपाम्पतिं ज्येष्ठं समुद्रमशनं कुरु ।
११०.२०१/३यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम् ॥ ११०.२०१॥
११०.२०२/१ब्रह्मोवाच । अनलस्त्वमरान् आह आपस्तत्र कथं त्वहम् ।
११०.२०२/२व्रजेयं यदि मां तत्र प्रापयन्त्युदकं महत् ॥ ११०.२०२॥
११०.२०३/१भवन्त एव तेऽप्याहुः कथं तेऽग्ने गतिर्भवेत् ।
११०.२०३/२अग्निरप्याह तान् देवान् कन्या मां गुणशालिनी ॥ ११०.२०३॥
११०.२०४/१हिरण्यकलशे स्थाप्य नयेद् यत्र गतिर्मम ।
११०.२०४/२तस्य तद् वचनं श्रुत्वा कन्यामूचुः सरस्वतीम् ॥ ११०.२०४॥
११०.२०५/१देवा ऊचुः । नयैनमनलं शीघ्रं शिरसा वरुणालयम् ॥ ११०.२०५॥
११०.२०६/१ब्रह्मोवाच । सरस्वती सुरान् आह नैका शक्ता च धारणे ।
११०.२०६/२युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम् ॥ ११०.२०६॥
११०.२०७/१सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा ।
११०.२०७/२नर्मदां तपतीं चैव सुराः प्रोचुः पृथक् पृथक् ॥ ११०.२०७॥
११०.२०८/१ताभिः समन्वितोवाह हिरण्यकलशेऽनलम् ।
११०.२०८/२संस्थाप्य शिरसाधार्य ता जग्मुर्वरुणालयम् ॥ ११०.२०८॥
११०.२०९/१संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः ।
११०.२०९/२अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः ॥ ११०.२०९॥
११०.२१०/१प्रापयामासुरनलं पञ्चनद्यः सरस्वती ।
११०.२१०/२अध्यास्ते च महान् अग्निः पिबन् वारि शनैः शनैः ॥ ११०.२१०॥
११०.२११/१ततः सुरगणाः सर्वे शिवमूचुः सुरोत्तमम् ॥ ११०.२११॥
११०.२१२/१देवा ऊचुः । अस्थ्नां च पावनं ब्रूहि अस्माकं च
गवां तथा ॥ ११०.२१२॥
११०.२१३/१ब्रह्मोवाच । शिवः प्राह तदा सर्वान् गङ्गामाप्लुत्य यत्नतः ।
११०.२१३/२देवाश्च गावस्तत्पापान् मुच्यन्ते नात्र संशयः ॥ ११०.२१३॥
११०.२१४/१प्रक्षालितानि चास्थीनि ऋषिदेहभवान्यथ ।
११०.२१४/२तानि प्रक्षालनाद् एव तत्र प्राप्तानि पूतताम् ॥ ११०.२१४॥
११०.२१५/१यत्र देवा मुक्तपापास्तत् तीर्थं पापनाशनम् ।
११०.२१५/२तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम् ॥ ११०.२१५॥
११०.२१६/१गवां च पावनं यत्र गोतीर्थं तद् उदाहृतम् ।
११०.२१६/२तत्र स्नानान् महाबुद्धिर्गोमेधफलमाप्नुयात् ॥ ११०.२१६॥
११०.२१७/१यत्र तद्ब्राह्मणास्थीनि आसन् पुण्यानि नारद ।
११०.२१७/२पितृतीर्थं तु वै ज्ञेयं पितृणां प्रीतिवर्धनम् ॥ ११०.२१७॥
११०.२१८/१भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् ।
११०.२१८/२तत्र तीर्थे संक्रमेरन् यावच्चन्द्रार्कतारकम् ॥ ११०.२१८॥
११०.२१९/१स्वर्गे वासो भवेत् तस्य अपि दुष्कृतकर्मणः ।
११०.२१९/२तथा चक्रेश्वरात् तीर्थात् त्रीणि तीर्थानि नारद ।
११०.२१९/३ततः पूताः सुरगणा गावः शम्भुमथाब्रुवन् ॥ ११०.२१९॥
११०.२२०/१गोसुरा ऊचुः । यामः स्वं स्वमधिष्ठानमत्र सूर्यः प्रतिष्ठितः ।
११०.२२०/२अस्मिन् स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः ॥ ११०.२२०॥
११०.२२१/१भवेयुर्जगतामीश तद् अनुज्ञातुमर्हसि ।
११०.२२१/२सूर्यो ह्यात्मास्य जगतस्तस्थुषश्च सनातनः ॥ ११०.२२१॥
११०.२२२/१दिवाकरो देवमयस्तत्रास्माभिः प्रतिष्ठितः ।
११०.२२२/२यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् ।
११०.२२२/३सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम् ॥ ११०.२२२॥
११०.२२३/१ब्रह्मोवाच । आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः ।
११०.२२३/२पिप्पलाः कालपर्याये स्वर्गं जग्मुरथाक्षयम् ॥ ११०.२२३॥
११०.२२४/१पादपानां पदं विप्रः पिप्पलादः प्रतापवान् ।
११०.२२४/२क्षेत्राधिपत्ये संस्थाप्य पूजयामास शंकरम् ॥ ११०.२२४॥
११०.२२५/१दधीचिसूनुर्मुनिरुग्रतेजा ।
११०.२२५/२अवाप्य भार्यां गौतमस्यात्मजां च ।
११०.२२५/३पुत्रान् अथावाप्य श्रियं यशश्च ।
११०.२२५/४सुहृज्जनैः स्वर्गमवाप धीरः ॥ ११०.२२५॥
११०.२२६/१ततः प्रभृति तत् तीर्थं पिप्पलेश्वरमुच्यते ।
११०.२२६/२सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम् ॥ ११०.२२६॥
११०.२२७/१किं पुनः स्नानदानाभ्यामादित्यस्य तु दर्शनात् ।
११०.२२७/२चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी ॥ ११०.२२७॥
११०.२२८/१सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् ।
११०.२२८/२सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते ।
११०.२२८/३प्रतिष्ठानं तु तत् क्षेत्रं सुराणामपि वल्लभम् ॥ ११०.२२८॥
११०.२२९/१इतीदमाख्यानमतीव पुण्यम् ।
११०.२२९/२पठेत वा यः शृणुयात् स्मरेद् वा ।
११०.२२९/३स दीर्घजीवी धनवान् धर्मयुक्तश् ।
११०.२२९/४चान्ते स्मरञ् शम्भुमुपैति नित्यम् ॥ ११०.२२९॥
१११.१/१ब्रह्मोवाच । नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् ।
१११.१/२यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम् ॥ १११.१॥
१११.२/१प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः ।
१११.२/२सोमवंशभवः श्रीमान् मतिमान् गुणसागरः ॥ १११.२॥
१११.३/१पुत्रार्थं स महायत्नमकरोत् प्रियया सह ।
१११.३/२तस्य पुत्रश्चिराद् आसीत् सर्पो वै भीषणाकृतिः ॥ १११.३॥
१११.४/१पुत्रं तं गोपयामास शूरसेनो महीपतिः ।
१११.४/२राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः ॥ १११.४॥
१११.५/१अन्तर्वर्ती परो वापि मातरं पितरं विना ।
१११.५/२धात्रेय्यपि न जानाति नामात्यो न पुरोहितः ॥ १११.५॥
१११.६/१तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः ।
१११.६/२संतापं नित्यमाप्नोति सर्पाद् वरमपुत्रता ॥ १११.६॥
१११.७/१एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् ।
१११.७/२स सर्पः पितरं प्राह कुरु चूडामपि क्रियाम् ॥ १११.७॥
१११.८/१तथोपनयनं चापि वेदाध्ययनमेव च ।
१११.८/२यावद् वेदं न चाधीते तावच्छूद्रसमो द्विजः ॥ १११.८॥
१११.९/१ब्रह्मोवाच । एतच्छ्रुत्वा पुत्रवचः शूरसेनोऽतिदुःखितः ।
१११.९/२ब्राह्मणं कंचनानीय संस्कारादि तदाकरोत् ।
१११.९/३अधीतवेदः सर्पोऽपि पितरं चाब्रवीद् इदम् ॥ १११.९॥
१११.१०/१सर्प उवाच । विवाहं कुरु मे राजन् स्त्रीकामोऽहं नृपोत्तम ।
१११.१०/२अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः ॥ १११.१०॥
१११.११/१जनयित्वात्मजान् वेद+ ।विधिनाखिलसंस्कृतीः ।
१११.११/२न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः ॥ १११.११॥
१११.१२/१ब्रह्मोवाच । विस्मितः स पिता प्राह सुतं तमुरगाकृतिम् ॥ १११.१२॥
१११.१३/१शूरसेन उवाच । यस्य शब्दाद् अपि त्रासं यान्ति शूराश्च पूरुषाः ।
१११.१३/२तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम् ॥ १११.१३॥
१११.१४/१ब्रह्मोवाच । तत् पितुर्वचनं श्रुत्वा सर्पः प्राह
विचक्षणः ॥ १११.१४॥
१११.१५/१सर्प उवाच । विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर ।
१११.१५/२प्रसह्याहरणं चापि शस्त्रैर्वैवाह एव च ॥ १११.१५॥
१११.१६/१जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् ।
१११.१६/२नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥ १११.१६॥
१११.१७/१ब्रह्मोवाच । तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः ।
१११.१७/२विवाहार्थममात्यांस्तान् आहूयेदं वचोऽब्रवीत् ॥ १११.१७॥
१११.१८/१शूरसेन उवाच । नागेश्वरो मम सुतो युवराजो गुणाकरः ।
१११.१८/२गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः ॥ १११.१८॥
१११.१९/१रथे नागे स धनुषि पृथिव्यां नोपमीयते ।
१११.१९/२विवाहस्तस्य कर्तव्यो ह्यहं वृद्धस्तथैव च ॥ १११.१९॥
१११.२०/१राज्यभारं सुते न्यस्य निश्चिन्तोऽहं भवाम्यतः ।
१११.२०/२न दारसंग्रहो यावत् तावत् पुत्रो मम प्रियः ॥ १११.२०॥
१११.२१/१बालभावं नो जहाति तस्मात् सर्वेऽनुमन्य च ।
१११.२१/२विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥ १११.२१॥
१११.२२/१न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः ।
१११.२२/२सुते न्यस्तभरा यान्ति कृतिनस्तपसे वनम् ॥ १११.२२॥
१११.२३/१ब्रह्मोवाच । अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् ।
१११.२३/२ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम् ॥ १११.२३॥
१११.२४/१अमात्या ऊचुः । तव पुत्रो गुणज्येष्ठस्त्वं च सर्वत्र विश्रुतः ।
१११.२४/२विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥ १११.२४॥
१११.२५/१ब्रह्मोवाच । अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः ।
१११.२५/२पुत्रं सर्पं त्वमात्यानां न चाख्याति न ते विदुः ॥ १११.२५॥
१११.२६/१राजा पुनस्तान् उवाच का स्यात् कन्या गुणाधिका ।
१११.२६/२महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः ॥ १११.२६॥
१११.२७/१सम्बन्धयोग्यः शूरश्च यत्सम्बन्धः प्रशस्यते ।
१११.२७/२तद् राजवचनं श्रुत्वा अमात्यानां महामतिः ॥ १११.२७॥
१११.२८/१कुलीनः साधुरत्यन्तं राजकार्यहिते रतः ।
१११.२८/२राज्ञो मतिं विदित्वा तु इङ्गितज्ञोऽब्रवीद् इदम् ॥ १११.२८॥
१११.२९/१अमात्य उवाच । पूर्वदेशे महाराज विजयो नाम भूपतिः ।
१११.२९/२वाजिवारणरत्नानां यस्य संख्या न विद्यते ॥ १११.२९॥
१११.३०/१अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः ।
१११.३०/२तेषां स्वसा भोगवती साक्षाल्लक्ष्मीरिवापरा ।
१११.३०/३तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता ॥ १११.३०॥
१११.३१/१ब्रह्मोवाच । वृद्धामात्यवचः श्रुत्वा राजा तं
प्रत्यभाषत ॥ १११.३१॥
१११.३२/१राजोवाच । सुता तस्य कथं मेऽस्य सुतस्य स्याद् वदस्व
तत् ॥ १११.३२॥
१११.३३/१वृद्धामात्य उवाच । लक्षितोऽसि महाराज यत् ते मनसि वर्तते ।
१११.३३/२यच्छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः ॥ १११.३३॥
१११.३४/१ब्रह्मोवाच । वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः ।
१११.३४/२सम्पूज्य प्रेषयामास महत्या सेनया सह ॥ १११.३४॥
१११.३५/१स पूर्वदेशमागत्य महाराजं समेत्य च ।
१११.३५/२सम्पूज्य विविधैर्वाक्यैरुपायैर्नीतिसम्भवैः ॥ १११.३५॥
१११.३६/१महाराजसुतायाश्च भोगवत्या महामतिः ।
१११.३६/२शूरसेनस्य नृपतेः सूनोर्नागस्य धीमतः ॥ १११.३६॥
१११.३७/१विवाहायाकरोत् संधिं मिथ्यामिथ्यावचोउक्तिभिः ।
१११.३७/२पूजयामास नृपतिं भूषणाच्छादनादिभिः ॥ १११.३७॥
१११.३८/१अवाप्य पूजां नृपतिर्ददामीत्यवदत् तदा ।
१११.३८/२तत आगत्य राज्ञेऽसौ वृद्धामात्यो महामतिः ॥ १११.३८॥
१११.३९/१शूरसेनाय तद् वृत्तं वैवाहिकमवेदयत् ।
१११.३९/२ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥ १११.३९॥
१११.४०/१पुनर्बलेन महता वस्त्रालंकारभूषितः ।
१११.४०/२जगाम तरसा सर्वैरन्यैश्च सचिवैर्वृतः ॥ १११.४०॥
१११.४१/१विवाहाय महामात्यो महाराजाय बुद्धिमान् ।
१११.४१/२सर्वं प्रोवाच वृद्धोऽसावमात्यः सचिवैर्वृतः ॥ १११.४१॥
१११.४२/१वृद्धामात्य उवाच । अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः ।
१११.४२/२पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः ॥ १११.४२॥
१११.४३/१क्षत्रियाणां विवाहाश्च भवेयुर्बहुधा नृप ।
१११.४३/२तस्माच्छस्त्रैरलंकारैर्विवाहः स्यान् महामते ॥ १११.४३॥
१११.४४/१क्षत्रिया ब्राह्मणाश्चैव सत्यां वाचं वदन्ति हि ।
१११.४४/२तस्माच्छस्त्रैरलंकारैर्विवाहस्त्वनुमन्यताम् ॥ १११.४४॥
१११.४५/१ब्रह्मोवाच । वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः ।
१११.४५/२मेने वाक्यं तथा सत्यममात्यं भूपतिं तदा ॥ १११.४५॥
१११.४६/१विवाहमकरोद् राजा भोगवत्याः सविस्तरम् ।
१११.४६/२शस्त्रेण च यथाशास्त्रं प्रेषयामास तां पुनः ॥ १११.४६॥
१११.४७/१स्वान् अमात्यांस्तथा गाश्च हिरण्यतुरगादिकम् ।
१११.४७/२बहु दत्त्वाथ विजयो हर्षेण महता युतः ॥ १११.४७॥
१११.४८/१तामादायाथ सचिवा वृद्धामात्यपुरोगमाः ।
१११.४८/२प्रतिष्ठानमथाभ्येत्य शूरसेनाय तां स्नुषाम् ॥ १११.४८॥
१११.४९/१न्यवेदयंस्तथोचुस्ते विजयस्य वचो बहु ।
१११.४९/२भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥ १११.४९॥
१११.५०/१निवेद्य शूरसेनाय कृतकृत्या बभूविरे ।
१११.५०/२विजयस्य तु येऽमात्या भोगवत्या सहागताः ॥ १११.५०॥
१११.५१/१तान् पूजयित्वा राजासौ बहुमानपुरःसरम् ।
१११.५१/२विजयाय यथा प्रीतिस्तथा कृत्वा व्यसर्जयत् ॥ १११.५१॥
१११.५२/१विजयस्य सुता बाला रूपयौवनशालिनी ।
१११.५२/२श्वश्रूश्वशुरयोर्नित्यं शुश्रूषन्ती सुमध्यमा ॥ १११.५२॥
१११.५३/१भोगवत्याश्च यो भर्ता महासर्पोऽतिभीषणः ।
१११.५३/२एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥ १११.५३॥
१११.५४/१सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले ।
१११.५४/२स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥ १११.५४॥
१११.५५/१मम भार्या राजपुत्री किं मां नैवोपसर्पति ।
१११.५५/२तत् पुत्रवचनं श्रुत्वा सर्पमातेदमब्रवीत् ॥ १११.५५॥
१११.५६/१राजपत्न्युवाच । धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद ।
१११.५६/२तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥ १११.५६॥
१११.५७/१ब्रह्मोवाच । धात्रिका च तथेत्युक्त्वा गत्वा भोगवतीं तदा ।
१११.५७/२रहोगता उवाचेदं विनीतवद् अपूर्ववत् ॥ १११.५७॥
१११.५८/१धात्रिकोवाच । जानेऽहं सुभगे भद्रे भर्तारं तव दैवतम् ।
१११.५८/२न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥ १११.५८॥
१११.५९/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा भोगवत्यब्रवीद् इदम् ॥ १११.५९॥
१११.६०/१भोगवत्युवाच । मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् ।
१११.६०/२किं पुनर्देवजातिस्तु भर्ता पुण्येन लभ्यते ॥ १११.६०॥
१११.६१/१ब्रह्मोवाच । भोगवत्यास्तु तद् वाक्यं सा च सर्वं
न्यवेदयत् ।
१११.६१/२सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥ १११.६१॥
१११.६२/१रुरोद राजा तद्वाक्यात् स्मृत्वा तां कर्मणो गतिम् ।
१११.६२/२भोगवत्यपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥ १११.६२॥
१११.६३/१भोगवत्युवाच । कान्तं दर्शय भद्रं ते वृथा
याति वयो मम ॥ १११.६३॥
१११.६४/१ब्रह्मोवाच । ततः सा दर्शयामास सर्पं तमतिभीषणम् ।
१११.६४/२सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥ १११.६४॥
१११.६५/१तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् ।
१११.६५/२कृताञ्जलिपुटा वाक्यमवदत् कान्तमञ्जसा ॥ १११.६५॥
१११.६६/१भोगवत्युवाच । धन्यास्म्यनुगृहीतास्मि यस्या मे दैवतं
पतिः ॥ १११.६६॥
१११.६७/१ब्रह्मोवाच । इत्युक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः ।
१११.६७/२खेलयामास तन्वङ्गी गीतैश्चैवाङ्गसंगमैः ॥ १११.६७॥
१११.६८/१सुगन्धकुसुमैः पानैस्तोषयामास तं पतिम् ।
१११.६८/२तस्याश्चैव प्रसादेन सर्पस्याभूत् स्मृतिर्मुने ।
१११.६८/३स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पोऽब्रवीत् प्रियाम् ॥ १११.६८॥
१११.६९/१सर्प उवाच । राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये ।
१११.६९/२सोवाच दैवविहितं कोऽतिक्रमितुमीश्वरः ।
१११.६९/३पतिरेव गतिः स्त्रीणां सर्वदैव विशेषतः ॥ १११.६९॥
१११.७०/१ब्रह्मोवाच । श्रुत्वेति हृष्टस्तामाह नागः प्रहसिताननः ॥ १११.७०॥
१११.७१/१सर्प उवाच । तुष्टोऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम् ।
१११.७१/२तव प्रसादाच्चार्वङ्गि सर्वस्मृतिरभूद् इयम् ॥ १११.७१॥
१११.७२/१शप्तोऽहं देवदेवेन कुपितेन पिनाकिना ।
१११.७२/२महेश्वरकरे नागः शेषपुत्रो महाबलः ॥ १११.७२॥
१११.७३/१सोऽहं पतिस्त्वं च भार्या नाम्ना भोगवती पुरा ।
१११.७३/२उमावाक्याज्जहासोच्चैः शम्भुः प्रीतो रहोगतः ॥ १११.७३॥
१११.७४/१ममापि चागतं भद्रे हास्यं तद्देवसंनिधौ ।
१११.७४/२ततस्तु कुपितः शम्भुः प्रादाच्छापं ममेदृशम् ॥ १११.७४॥
१११.७५/१शिव उवाच । मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवान्
इति ॥ १११.७५॥
१११.७६/१सर्प उवाच । ततः प्रसादितः शम्भुस्त्वया भद्रे मया सह ।
१११.७६/२ततश्चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥ १११.७६॥
१११.७७/१कुर्वतो ज्ञानमाधास्ये यदा सर्पाकृतेस्तव ।
१११.७७/२तदा विशापो भविता भोगवत्याः प्रसादतः ॥ १११.७७॥
१११.७८/१तस्माद् इदं ममापन्नं तव चापि शुभानने ।
१११.७८/२तस्मान् नीत्वा गौतमीं मां पूजां कुरु मया सह ॥ १११.७८॥
१११.७९/१ततो विशापो भविता आवां यावः शिवं पुनः ।
१११.७९/२सर्वेषां सर्वदार्तानां शिव एव परा गतिः ॥ १११.७९॥
१११.८०/१ब्रह्मोवाच । तच्छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ ।
१११.८०/२ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥ १११.८०॥
१११.८१/१ततः प्रसन्नो भगवान् दिव्यरूपं ददौ मुने ।
१११.८१/२आपृच्छ्य पितरौ सर्पो भार्यया गन्तुमुद्यतः ।
१११.८१/३शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥ १११.८१॥
१११.८२/१पितोवाच । युवराज्यधरो ज्येष्ठः पुत्र एको भवान् इति ।
१११.८२/२तस्माद् राज्यमशेषेण कृत्वोत्पाद्य सुतान् बहून् ।
१११.८२/३याते मयि परं धाम ततो याहि शिवं पुरम् ॥ १११.८२॥
१११.८३/१ब्रह्मोवाच । एतच्छ्रुत्वा पितृवचस्तथेत्याह स नागराट् ।
१११.८३/२कामरूपमवाप्याथ भार्यया सह सुव्रतः ॥ १११.८३॥
१११.८४/१पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् ।
१११.८४/२याते पितरि स्वर्लोकं पुत्रान् स्थाप्य स्वके पदे ॥ १११.८४॥
१११.८५/१भार्यामात्यादिसहितस्ततः शिवपुरं ययौ ।
१११.८५/२ततः प्रभृति तत् तीर्थं नागतीर्थमिति श्रुतम् ॥ १११.८५॥
१११.८६/१यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः ।
१११.८६/२तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १११.८६॥
११२.१/१ब्रह्मोवाच । मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
११२.१/२आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणाद् अपि ॥ ११२.१॥
११२.२/१देवानामसुराणां च संगरोऽभूत् सुदारुणः ।
११२.२/२नाशक्नुवंस्तदा जेतुं देवा दानवसंगरम् ॥ ११२.२॥
११२.३/१तदाहमगमं देवैस्तिष्ठन्तं शूलपाणिनम् ।
११२.३/२अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः ॥ ११२.३॥
११२.४/१सम्मन्त्र्य देवैरसुरैश्च सर्वैर्।
११२.४/२यदाहृतं सम्मथितुं समुद्रम् ।
११२.४/३यत् कालकूटं समभून् महेश ।
११२.४/४तत् त्वां विना को ग्रसितुं समर्थः ॥ ११२.४॥
११२.५/१पुष्पप्रहारेण जगत्त्रयं यः ।
११२.५/२स्वाधीनमापादयितुं समर्थः ।
११२.५/३मारो हरेऽप्यन्यसुरादिवन्द्यो ।
११२.५/४वितायमानो विलयं प्रयातः ॥ ११२.५॥
११२.६/१विमथ्य वारीशमनङ्गशत्रो ।
११२.६/२यद् उत्तमं तत् तु दिवौकसेभ्यः ।
११२.६/३दत्त्वा विषं संहरन् नीलकण्ठ ।
११२.६/४को वा धर्तुं त्वाम् ऋते वै समर्थः ॥ ११२.६॥
११२.७/१ततश्च तुष्टो भगवान् आदिकर्ता त्रिलोचनः ॥ ११२.७॥
११२.८/१शिव उवाच । दास्येऽहं यद् अभीष्टं वो ब्रुवन्तु
सुरसत्तमाः ॥ ११२.८॥
११२.९/१देवा ऊचुः । दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज ।
११२.९/२जहि शत्रून् सुरान् पाहि नाथवन्तस्त्वया प्रभो ॥ ११२.९॥
११२.१०/१निष्कारणः सुहृच्छम्भो नाभविष्यद् भवान् यदि ।
११२.१०/२तदाकरिष्यन् किमिव दुःखार्ताः सर्वदेहिनः ॥ ११२.१०॥
११२.११/१ब्रह्मोवाच । इत्युक्तस्तत्क्षणात् प्रायाद् यत्र ते देवशत्रवः ।
११२.११/२तत्र तद् युद्धमभवच्छंकरेण सुरद्विषाम् ॥ ११२.११॥
११२.१२/१ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः ।
११२.१२/२ललाटाद् व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः ॥ ११२.१२॥
११२.१३/१स संहरन् दैत्यगणांस्तामसीं मूर्तिमाश्रितः ।
११२.१३/२तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद् भुवं ययुः ॥ ११२.१३॥
११२.१४/१स संहरन् सर्वदैत्यांस्तदागच्छद् भुवं हरः ।
११२.१४/२इतश्चेतश्च भीतास्तेऽधावन् सर्वां महीमिमाम् ॥ ११२.१४॥
११२.१५/१तथैव कोपाद् रुद्रोऽपि शत्रूंस्तान् अनुधावति ।
११२.१५/२तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः ॥ ११२.१५॥
११२.१६/१यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरो मुने ।
११२.१६/२तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥ ११२.१६॥
११२.१७/१प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरान् इति ।
११२.१७/२ततः प्रोवाच भगवान् सर्वैः सुरगणैर्वृतः ॥ ११२.१७॥
११२.१८/१शिव उवाच । स्वर्गाद् भुवमनुप्राप्ता राक्षसास्ते रसातलम् ।
११२.१८/२अनुप्राप्तास्ततः सर्वाः शृण्वन्तु मम भाषितम् ॥ ११२.१८॥
११२.१९/१यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः ।
११२.१९/२रसातलमनुप्राप्ता इदानीं मद्भयाद् द्विषः ।
११२.१९/३भवत्योऽप्यनुगच्छन्तु रसातलमनु द्विषः ॥ ११२.१९॥
११२.२०/१ब्रह्मोवाच । ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः ।
११२.२०/२तान् हत्वा मातरः सर्वान् देवारीन् अतिभीषणान् ॥ ११२.२०॥
११२.२१/१पुनर्देवान् उपाजग्मुः पथा तेनैव मातरः ।
११२.२१/२गताश्च मातरो यावद् यावच्च पुनरागताः ॥ ११२.२१॥
११२.२२/१तावद् देवाः स्थिता आसन् गौतमीतीरमाश्रिताः ।
११२.२२/२प्रस्थानात् तत्र मातृणां सुराणां च प्रतिष्ठितेः ॥ ११२.२२॥
११२.२३/१प्रतिष्ठानं तु तत् क्षेत्रं पुण्यं विजयवर्धनम् ।
११२.२३/२मातृणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक् पृथक् ॥ ११२.२३॥
११२.२४/१तत्र तत्र बिलान्यासन् रसातलगतानि च ।
११२.२४/२सुरास्ताभ्यो वरान् प्रोचुर्लोके पूजां यथा शिवः ॥ ११२.२४॥
११२.२५/१प्राप्नोति तद्वन् मातृभ्यः पूजा भवतु सर्वदा ।
११२.२५/२इत्युक्त्वान्तर्दधुर्देवा आसंस्तत्रैव मातरः ॥ ११२.२५॥
११२.२६/१यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः ।
११२.२६/२सुराणामपि सेव्यानि किं पुनर्मानुषादिभिः ॥ ११२.२६॥
११२.२७/१तेषु स्नानमथो दानं पितृणां चैव तर्पणम् ।
११२.२७/२सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा ॥ ११२.२७॥
११२.२८/१यस्त्विदं शृणुयान् नित्यं स्मरेद् अपि पठेत् तथा ।
११२.२८/२आख्यानं मातृतीर्थानामायुष्मान् स सुखी भवेत् ॥ ११२.२८॥
११३.१/१ब्रह्मोवाच । इदमप्यपरं तीर्थं देवानामपि दुर्लभम् ।
११३.१/२ब्रह्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ ११३.१॥
११३.२/१स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् ।
११३.२/२दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु ॥ ११३.२॥
११३.३/१मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् ।
११३.३/२तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह ॥ ११३.३॥
११३.४/१हे दैत्याः किं पलायन्ते न भयं वोऽस्तु सत्वरम् ।
११३.४/२आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति ॥ ११३.४॥
११३.५/१निवारयन्तं मामेवं भक्षणायोद्यतं तथा ।
११३.५/२तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन् ॥ ११३.५॥
११३.६/१त्राहि विष्णो जगन्नाथ ब्रह्मणोऽस्य मुखं लुन ।
११३.६/२चक्रधृग् विबुधान् आह *च्छेद्मि चक्रेण वै शिरः ॥ ११३.६॥
११३.७/१किं तु तच्छिन्नमेवेदं संहरेत् सचराचरम् ।
११३.७/२मन्त्रं ब्रूमोऽत्र विबुधाः श्रूयतां सर्वमेव हि ॥ ११३.७॥
११३.८/१त्रिनेत्रः कशिरश्छेत्ता स च धत्ते न संशयः ।
११३.८/२मया च शम्भुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च ॥ ११३.८॥
११३.९/१यागः क्षणी दृष्टफलेऽसमर्थः ।
११३.९/२स नैव कर्तुः फलतीति मत्वा ।
११३.९/३फलस्य दाने प्रतिभूर्जटीति ।
११३.९/४निश्चित्य लोकः प्रतिकर्म यातः ॥ ११३.९॥
११३.१०/१ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये ।
११३.१०/२लोकानामुपकारार्थं तथेत्याह सुरान् प्रति ॥ ११३.१०॥
११३.११/१तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् ।
११३.११/२निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत् ॥ ११३.११॥
११३.१२/१तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा ।
११३.१२/२रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत् ॥ ११३.१२॥
११३.१३/१शोषं यास्ये क्षणाद् एव पुनश्चोचुः शिवं सुराः ।
११३.१३/२त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया ॥ ११३.१३॥
११३.१४/१अच्छेदे जगतां नाशश्छेदे दोषश्च तादृशः ।
११३.१४/२एवं विमृश्य सोमेशो दधार कशिरस्तदा ॥ ११३.१४॥
११३.१५/१तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् ।
११३.१५/२अस्तुवञ् जगतामीशं प्रणयाद् भक्तितः सुराः ॥ ११३.१५॥
११३.१६/१देवेष्वमित्रं कशिरोऽतिभीमम् ।
११३.१६/२तान् भक्षणायोपगतं निकृत्य ।
११३.१६/३नखाग्रसूच्या शकलेन्दुमौलिस्- ।
११३.१६/४त्यागेऽपि दोषात् कृपयानुधत्ते ॥ ११३.१६॥
११३.१७/१तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणोऽन्तिके ।
११३.१७/२तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वातिदैवतम् ॥ ११३.१७॥
११३.१८/१ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
११३.१८/२अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम् ॥ ११३.१८॥
११३.१९/१शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् ।
११३.१९/२यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः ॥ ११३.१९॥
११३.२०/१रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः ।
११३.२०/२देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम् ॥ ११३.२०॥
११३.२१/१सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् ।
११३.२१/२तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥ ११३.२१॥
११३.२२/१महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः ।
११३.२२/२क्षेत्रेऽविमुक्ते संस्थाप्य देवतानां हितं कृतम् ॥ ११३.२२॥
११३.२३/१ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे ।
११३.२३/२क्षेत्रेऽविमुक्ते तस्यैव स्थापितं योऽनुपश्यति ।
११३.२३/३कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत् ॥ ११३.२३॥
११४.१/१ब्रह्मोवाच । अविघ्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् ।
११४.१/२तत्रापि वृत्तमाख्यास्ये शृणु नारद भक्तितः ॥ ११४.१॥
११४.२/१देवसत्त्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे ।
११४.२/२समाप्तिर्नैव सत्त्रस्य संजाता विघ्नदोषतः ॥ ११४.२॥
११४.३/१ततः सुरगणाः सर्वे मामवोचन् हरिं तदा ।
११४.३/२ततो ध्यानगतोऽहं तान् अवोचं वीक्ष्य कारणम् ॥ ११४.३॥
११४.४/१विनायककृतैर्विघ्नैर्नैतत् सत्त्रं समाप्यते ।
११४.४/२तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥ ११४.४॥
११४.५/१तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे ।
११४.५/२अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम् ॥ ११४.५॥
११४.६/१देवा ऊचुः । यः सर्वकार्येषु सदा सुराणाम् ।
११४.६/२अपीशविष्ण्वम्बुजसम्भवानाम् ।
११४.६/३पूज्यो नमस्यः परिचिन्तनीयस्- ।
११४.६/४तं विघ्नराजं शरणं व्रजामः ॥ ११४.६॥
११४.७/१न विघ्नराजेन समोऽस्ति कश्चिद् ।
११४.७/२देवो मनोवाञ्छितसम्प्रदाता ।
११४.७/३निश्चित्य चैतत् त्रिपुरान्तकोऽपि ।
११४.७/४तं पूजयामास वधे पुराणाम् ॥ ११४.७॥
११४.८/१करोतु सोऽस्माकमविघ्नमस्मिन् ।
११४.८/२महाक्रतौ सत्वरमाम्बिकेयः ।
११४.८/३ध्यातेन येनाखिलदेहभाजाम् ।
११४.८/४पूर्णा भविष्यन्ति मनोभिलाषाः ॥ ११४.८॥
११४.९/१महोत्सवोऽभूद् अखिलस्य देव्या ।
११४.९/२जातः सुतश्चिन्तितमात्र एव ।
११४.९/३अतोऽवदन् सुरसंघाः कृतार्थाः ।
११४.९/४सद्योजातं विघ्नराजं नमन्तः ॥ ११४.९॥
११४.१०/१यो मातुरुत्सङ्गगतोऽथ मात्रा ।
११४.१०/२निवार्यमाणोऽपि बलाच्च चन्द्रम् ।
११४.१०/३संगोपयामास पितुर्जटासु ।
११४.१०/४गणाधिनाथस्य विनोद एषः ॥ ११४.१०॥
११४.११/१पपौ स्तनं मातुरथापि तृप्तो ।
११४.११/२यो भ्रातृमात्सर्यकषायबुद्धिः ।
११४.११/३लम्बोदरस्त्वं भव विघ्नराजो ।
११४.११/४लम्बोदरं नाम चकार शम्भुः ॥ ११४.११॥
११४.१२/१संवेष्टितो देवगणैर्महेशः ।
११४.१२/२प्रवर्ततां नृत्यमितीत्युवाच ।
११४.१२/३संतोषितो नूपुररावमात्राद् ।
११४.१२/४गणेश्वरत्वेऽभिषिषेच पुत्रम् ॥ ११४.१२॥
११४.१३/१यो विघ्नपाशं च करेण बिभ्रत् ।
११४.१३/२स्कन्धे कुठारं च तथा परेण ।
११४.१३/३अपूजितो विघ्नमथोऽपि मातुः ।
११४.१३/४करोति को विघ्नपतेः समोऽन्यः ॥ ११४.१३॥
११४.१४/१धर्मार्थकामादिषु पूर्वपूज्यो ।
११४.१४/२देवासुरैः पूज्यत एव नित्यम् ।
११४.१४/३यस्यार्चनं नैव विनाशमस्ति ।
११४.१४/४तं पूर्वपूज्यं प्रथमं नमामि ॥ ११४.१४॥
११४.१५/१यस्यार्चनात् प्रार्थनयानुरूपाम् ।
११४.१५/२दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ।
११४.१५/३स्वतन्त्रसामर्थ्यकृतातिगर्वम् ।
११४.१५/४भ्रातृप्रियं त्वाखुरथं तमीडे ॥ ११४.१५॥
११४.१६/१यो मातरं सरसैर्नृत्यगीतैस्- ।
११४.१६/२तथाभिलाषैरखिलैर्विनोदैः ।
११४.१६/३संतोषयामास तदातितुष्टम् ।
११४.१६/४तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१६॥
११४.१७/१सुरोपकारैरसुरैश्च युद्धैः ।
११४.१७/२स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः ।
११४.१७/३पितृप्रसादेन सदा समृद्धम् ।
११४.१७/४तं श्रीगणेशं शरणं प्रपद्ये ॥ ११४.१७॥
११४.१८/१जये पुराणामकरोत् प्रतीपम् ।
११४.१८/२पित्रापि हर्षात् प्रतिपूजितो यः ।
११४.१८/३निर्विघ्नतां चापि पुनश्चकार ।
११४.१८/४तस्मै गणेशाय नमस्करोमि ॥ ११४.१८॥
११४.१९/१ब्रह्मोवाच । इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान् पुनः ॥ ११४.१९॥
११४.२०/१गणेश उवाच । इतो निर्विघ्नता सत्त्रे मत्तः स्याद्
असुरारिणः ॥ ११४.२०॥
११४.२१/१ब्रह्मोवाच । देवसत्त्रे निवृत्ते तु गणेशः प्राह तान्
सुरान् ॥ ११४.२१॥
११४.२२/१गणेश उवाच । स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः ।
११४.२२/२तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥ ११४.२२॥
११४.२३/१अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः ।
११४.२३/२तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम् ॥ ११४.२३॥
११४.२४/१ब्रह्मोवाच । तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि ।
११४.२४/२निवृत्ते तु मखे तस्मिन् सुरा जग्मुः स्वमालयम् ॥ ११४.२४॥
११४.२५/१ततः प्रभृति तत् तीर्थमविघ्नमिति गद्यते ।
११४.२५/२सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥ ११४.२५॥
११५.१/१ब्रह्मोवाच । शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् ।
११५.१/२तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम् ॥ ११५.१॥
११५.२/१शेषो नाम महानागो रसातलपतिः प्रभुः ।
११५.२/२सर्वनागैः परिवृतो रसातलमथाभ्यगात् ॥ ११५.२॥
११५.३/१राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् ।
११५.३/२तैर्निरस्तो भोगिपतिर्मामुवाचाथ विह्वलः ॥ ११५.३॥
११५.४/१शेष उवाच । रसातलं त्वया दत्तं राक्षसानां ममापि च ।
११५.४/२ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः ॥ ११५.४॥
११५.५/१ततोऽहमब्रवं नागं गौतमीं याहि पन्नग ।
११५.५/२तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥ ११५.५॥
११५.६/१नान्योऽस्ति लोकत्रितये मनोरथसमर्पकः ।
११५.६/२मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः ।
११५.६/३कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥ ११५.६॥
११५.७/१शेष उवाच । नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने ।
११५.७/२आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥ ११५.७॥
११५.८/१नमः सहस्रशिरसे नमः संहारकारिणे ।
११५.८/२सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ ११५.८॥
११५.९/१सर्वदा सर्वरूपाय कालरूपाय ते नमः ।
११५.९/२पाहि शंकर सर्वेश पाहि सोमेश सर्वग ।
११५.९/३जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥ ११५.९॥
११५.१०/१ब्रह्मोवाच । ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान् ।
११५.१०/२विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥ ११५.१०॥
११५.११/१शेषाय प्रददौ शूलं जह्यनेनारिपुंगवान् ।
११५.११/२ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥ ११५.११॥
११५.१२/१रसातलमथो गत्वा निजघान रिपून् रणे ।
११५.१२/२निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥ ११५.१२॥
११५.१३/१न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः ।
११५.१३/२पथा येन समायातो देवं द्रष्टुं स नागराट् ॥ ११५.१३॥
११५.१४/१रसातलाद् यत्र देवो बिलं तत्र व्यजायत ।
११५.१४/२तस्माद् बिलतलाद् यातं गाङ्गं वार्यतिपुण्यदम् ॥ ११५.१४॥
११५.१५/१तद् वारि गङ्गामगमद् गङ्गायाः संगमस्ततः ।
११५.१५/२देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम् ॥ ११५.१५॥
११५.१६/१नागस्तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः ।
११५.१६/२सोष्णं तद् अभवद् वारि गङ्गायास्तत्र संगमः ॥ ११५.१६॥
११५.१७/१देवदेवं समाराध्य नागः प्रीतो महायशाः ।
११५.१७/२रसातलं ततोऽभीष्टं शिवात् प्राप्य तलं ययौ ॥ ११५.१७॥
११५.१८/१ततः प्रभृति तत् तीर्थं नागतीर्थमुदाहृतम् ।
११५.१८/२सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥ ११५.१८॥
११५.१९/१आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम् ।
११५.१९/२शृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत् ॥ ११५.१९॥
११५.२०/१तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः ।
११५.२०/२एकविंशतितीर्थानामुभयोस्तत्र तीरयोः ।
११५.२०/३शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम् ॥ ११५.२०॥
११६.१/१ब्रह्मोवाच । महानलमिति ख्यातं वडवानलमुच्यते ।
११६.१/२महानलो यत्र देवो वडवा यत्र सा नदी ॥ ११६.१॥
११६.२/१तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् ।
११६.२/२पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥ ११६.२॥
११६.३/१शमितारं च ऋषयो मृत्युं चक्रुस्तपस्विनः ।
११६.३/२वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥ ११६.३॥
११६.४/१न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम् ।
११६.४/२विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥ ११६.४॥
११६.५/१ततस्त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते ।
११६.५/२मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा ॥ ११६.५॥
११६.६/१देवा ऊचुः । गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम् ।
११६.६/२ब्रह्मोवाच । इति देववचः श्रुत्वा प्रोचुस्ते राक्षसाः सुरान् ॥ ११६.६॥
११६.७/१असुरा ऊचुः । विध्वंसयामस्तं यज्ञमस्माकं किं फलं ततः ।
११६.७/२प्रवर्तते विना हेतुं न कोऽपि क्वापि जातुचित् ॥ ११६.७॥
११६.८/१ब्रह्मोवाच । देवा अप्यसुरान् ऊचुर्यज्ञार्धं भवतामपि ।
११६.८/२भवेद् एव ततो यान्तु ऋषीणां सत्त्रमुत्तमम् ॥ ११६.८॥
११६.९/१ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते ।
११६.९/२जग्मुस्तत्र विनाशाय देववाक्याद् विशेषतः ॥ ११६.९॥
११६.१०/१तज्ज्ञात्वा ऋषयो मृत्युमाहुः किं कुर्महे वयम् ।
११६.१०/२आगता देववचनाद् राक्षसा यज्ञनाशिनः ॥ ११६.१०॥
११६.११/१मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः ।
११६.११/२सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥ ११६.११॥
११६.१२/१अग्निमात्रमुपादाय त्यक्त्वा पात्रादिकं तु यत् ।
११६.१२/२क्रतुनिष्पत्तये जग्मुर्गौतमीं प्रति सत्वराः ॥ ११६.१२॥
११६.१३/१तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे ।
११६.१३/२कृताञ्जलिपुटास्ते तु तुष्टुवुस्त्रिदशेश्वरम् ॥ ११६.१३॥
११६.१४/१ऋषय ऊचुः । यो लीलया विश्वमिदं चकार ।
११६.१४/२धाता विधाता भुवनत्रयस्य ।
११६.१४/३यो विश्वरूपः सदसत्परो यः ।
११६.१४/४सोमेश्वरं तं शरणं व्रजामः ॥ ११६.१४॥
११६.१५/१मृत्युरुवाच । इच्छामात्रेण यः सर्वं हन्ति पाति करोति च ।
११६.१५/२तमहं त्रिदशेशानं शरणं यामि शंकरम् ॥ ११६.१५॥
११६.१६/१महानलं महाकायं महानागविभूषणम् ।
११६.१६/२महामूर्तिधरं देवं शरणं यामि शंकरम् ॥ ११६.१६॥
११६.१७/१ब्रह्मोवाच । ततः प्रोवाच भगवान् मृत्यो का प्रीतिरस्तु
ते ॥ ११६.१७॥
११६.१८/१मृत्युरुवाच । राक्षसेभ्यो भयं घोरमापन्नं त्रिदशेश्वर ।
११६.१८/२यज्ञमस्मांश्च रक्षस्व यावत् सत्त्रं समाप्यते ॥ ११६.१८॥
११६.१९/१ब्रह्मोवाच । तथा चकार भगवांस्त्रिनेत्रो वृषभध्वजः ।
११६.१९/२शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ ॥ ११६.१९॥
११६.२०/१हविषां भागधेयाय आजग्मुरमराः क्रमात् ।
११६.२०/२तान् अवोचन् मुनिगणाः संक्षुब्धा मृत्युना सह ॥ ११६.२०॥
११६.२१/१ऋषय ऊचुः । अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः ।
११६.२१/२तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥ ११६.२१॥
११६.२२/१ब्रह्मोवाच । ततः प्रभृति देवानां राक्षसा वैरिणोऽभवन् ।
११६.२२/२कृत्यां च वडवां तत्र देवाश्च ऋषयोऽमलाः ॥ ११६.२२॥
११६.२३/१मृत्योर्भार्या भव त्वं तामित्युक्त्वा तेऽभ्यषेचयन् ।
११६.२३/२अभिषेकोदकं यत् तु सा नदी वडवाभवत् ॥ ११६.२३॥
११६.२४/१मृत्युना स्थापितं लिङ्गं महानलमिति श्रुतम् ।
११६.२४/२ततः प्रभृति तत् तीर्थं वडवासंगमं विदुः ॥ ११६.२४॥
११६.२५/१महानलो यत्र देवस्तत् तीर्थं भुक्तिमुक्तिदम् ।
११६.२५/२सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् ।
११६.२५/३उभयोस्तीरयोस्तत्र स्मरणाद् अघघातिनाम् ॥ ११६.२५॥
११७.१/१ब्रह्मोवाच । आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ।
११७.१/२तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ ११७.१॥
११७.२/१दत्त इत्यपि विख्यातः सोऽत्रिपुत्रो हरप्रियः ।
११७.२/२दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः ।
११७.२/३स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥ ११७.२॥
११७.३/१दत्त उवाच । ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि
क्व यामि च ॥ ११७.३॥
११७.४/१ब्रह्मोवाच । तच्छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा
वचनमब्रवीत् ॥ ११७.४॥
११७.५/१अत्रिरुवाच । गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् ।
११७.५/२स तु प्रीतो यदैव स्यात् तदा ज्ञानमवाप्स्यसि ॥ ११७.५॥
११७.६/१ब्रह्मोवाच । तथेत्युक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर्यतः ।
११७.६/२कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शंकरम् ॥ ११७.६॥
११७.७/१दत्त उवाच । संसारकूपे पतितोऽस्मि दैवान् ।
११७.७/२मोहेन गुप्तो भवदुःखपङ्के ।
११७.७/३अज्ञाननाम्ना तमसावृतोऽहम् ।
११७.७/४परं न विन्दामि सुराधिनाथ ॥ ११७.७॥
११७.८/१भिन्नस्त्रिशूलेन बलीयसाहम् ।
११७.८/२पापेन चिन्ताक्षुरपाटितश्च ।
११७.८/३तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापैः ।
११७.८/४श्रान्तोऽस्मि संतारय सोमनाथ ॥ ११७.८॥
११७.९/१बद्धोऽस्मि दारिद्र्यमयैश्च बन्धैर्।
११७.९/२हतोऽस्मि रोगानलतीव्रतापैः ।
११७.९/३क्रान्तोऽस्म्यहं मृत्युभुजंगमेन ।
११७.९/४भीतो भृशं किं करवाणि शम्भो ॥ ११७.९॥
११७.१०/१भवाभवाभ्यामतिपीडितोऽहम् ।
११७.१०/२तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ।
११७.१०/३ईदृक्षया जरया चाभिभूतः ।
११७.१०/४पश्यावस्थां कृपया मेऽद्य नाथ ॥ ११७.१०॥
११७.११/१कामेन कोपेन च मत्सरेण ।
११७.११/२दम्भेन दर्पादिभिरप्यनेकैः ।
११७.११/३एकैकशः कष्टगतोऽस्मि विद्धस्- ।
११७.११/४त्वं नाथवद् वारय नाथ शत्रून् ॥ ११७.११॥
११७.१२/१कस्यापि कश्चित् पतितस्य पुंसो ।
११७.१२/२दुःखप्रणोदी भवतीति सत्यम् ।
११७.१२/३विना भवन्तं मम सोमनाथ ।
११७.१२/४कुत्रापि कारुण्यवचोऽपि नास्ति ॥ ११७.१२॥
११७.१३/१तावत् स कोपो भयमोहदुःखान्य्।
११७.१३/२अज्ञानदारिद्र्यरुजस्तथैव ।
११७.१३/३कामादयो मृत्युरपीह यावन् ।
११७.१३/४नमः शिवायेति न वच्मि वाक्यम् ॥ ११७.१३॥
११७.१४/१न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर्।
११७.१४/२नाहं विवेकी करुणा कुतो मे ।
११७.१४/३दातासि तेनाशु शरण्य चित्ते ।
११७.१४/४निधेहि सोमेति पदं मदीये ॥ ११७.१४॥
११७.१५/१याचे न चाहं सुरभूपतित्वम् ।
११७.१५/२हृत्पद्ममध्ये मम सोमनाथ ।
११७.१५/३श्रीसोमपादाम्बुजसंनिधानम् ।
११७.१५/४याचे विचार्यैव च तत् कुरुष्व ॥ ११७.१५॥
११७.१६/१यथा तवाहं विदितोऽस्मि पापस्- ।
११७.१६/२तथापि विज्ञापनमाशृणुष्व ।
११७.१६/३संश्रूयते यत्र वचः शिवेति ।
११७.१६/४तत्र स्थितिः स्यान् मम सोमनाथ ॥ ११७.१६॥
११७.१७/१गौरीपते शंकर सोमनाथ ।
११७.१७/२विश्वेश कारुण्यनिधेऽखिलात्मन् ।
११७.१७/३संस्तूयते यत्र सदेति तत्र ।
११७.१७/४केषामपि स्यात् कृतिनां निवासः ॥ ११७.१७॥
११७.१८/१ब्रह्मोवाच । इत्यात्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः ।
११७.१८/२वरदोऽस्मीति तं प्राह योगिनं विश्वकृद् भवः ॥ ११७.१८॥
११७.१९/१आत्रेय उवाच । आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि ।
११७.१९/२तीर्थस्यापि च माहात्म्यं वरोऽयं त्रिदशार्चित ॥ ११७.१९॥
११७.२०/१ब्रह्मोवाच । एवमस्त्विति तं शम्भुरुक्त्वा चान्तरधीयत ।
११७.२०/२ततः प्रभृति तत् तीर्थमात्मतीर्थं विदुर्बुधाः ।
११७.२०/३तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद ॥ ११७.२०॥
११८.१/१ब्रह्मोवाच । अश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् ।
११८.१/२उत्तरे मन्दतीर्थं तु तत्र व्युष्टिमितः शृणु ॥ ११८.१॥
११८.२/१पुरा त्वगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः ।
११८.२/२देवैस्तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥ ११८.२॥
११८.३/१स शनैर्विन्ध्यमभ्यागात् सहस्रमुनिभिर्वृतः ।
११८.३/२तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥ ११८.३॥
११८.४/१स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर्वृतम् ।
११८.४/२अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥ ११८.४॥
११८.५/१कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः ।
११८.५/२इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥ ११८.५॥
११८.६/१अगस्त्य उवाच । अहं यामि नगश्रेष्ठ मुनिभिस्तत्त्वदर्शिभिः ।
११८.६/२तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥ ११८.६॥
११८.७/१देहि मार्गं नगपते आतिथ्यं देहि याचते ।
११८.७/२यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि ॥ ११८.७॥
११८.८/१नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः ।
११८.८/२आक्रामन् दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥ ११८.८॥
११८.९/१शनैः स गौतमीमागात् सत्त्रयागाय दीक्षितः ।
११८.९/२यावत् संवत्सरं सत्त्रमकरोद् ऋषिभिर्वृतः ॥ ११८.९॥
११८.१०/१कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ ।
११८.१०/२अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥ ११८.१०॥
११८.११/१अश्वत्थोऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् ।
११८.११/२तावुभावन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥ ११८.११॥
११८.१२/१कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ ।
११८.१२/२अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥ ११८.१२॥
११८.१३/१उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन ।
११८.१३/२आलभन्ते च येऽश्वत्थं तांस्तान् अश्नात्यसौ तरुः ॥ ११८.१३॥
११८.१४/१पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः ।
११८.१४/२तस्माद् अद्यापि विप्रेषु सामगोऽतीव निष्कृपः ॥ ११८.१४॥
११८.१५/१क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाविमौ ।
११८.१५/२इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥ ११८.१५॥
११८.१६/१सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् ।
११८.१६/२गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥ ११८.१६॥
११८.१७/१सौरिर्मुनिगणान् आह पूर्णे तपसि मे द्विजाः ।
११८.१७/२राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥ ११८.१७॥
११८.१८/१पुनः प्रोचुर्मुनिगणा दास्यामस्ते तपो महत् ।
११८.१८/२इत्युक्तो ब्राह्मणैः सौरिः कृतमित्याह तान् अपि ॥ ११८.१८॥
११८.१९/१सौरिर्ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् ।
११८.१९/२राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥ ११८.१९॥
११८.२०/१प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् ।
११८.२०/२नित्यवद् राक्षसः पापो भक्षयामास मायया ॥ ११८.२०॥
११८.२१/१तस्य कायं समाविश्य चक्षुषान्त्राण्यपश्यत ।
११८.२१/२दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥ ११८.२१॥
११८.२२/१भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा ।
११८.२२/२अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम् ॥ ११८.२२॥
११८.२३/१राक्षसं पापनिलयमेक एव तमभ्यगात् ।
११८.२३/२अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥ ११८.२३॥
११८.२४/१पिप्पलः पूर्ववच्चापि भक्षयामास भानुजम् ।
११८.२४/२स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥ ११८.२४॥
११८.२५/१तेनालोकितमात्रोऽसौ राक्षसो भस्मसाद् अभूत् ।
११८.२५/२उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥ ११८.२५॥
११८.२६/१मुनयो जातसंहर्षाः सर्व एव तपस्विनः ।
११८.२६/२ततः प्रसन्ना ह्यभवन्न् ऋषयोऽगस्त्यपूर्वकाः ॥ ११८.२६॥
११८.२७/१वरान् ददुर्यथाकामं सौरये मन्दगामिने ।
११८.२७/२स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली ॥ ११८.२७॥
११८.२८/१सौरिरुवाच । मद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् ।
११८.२८/२तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥ ११८.२८॥
११८.२९/१तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः ।
११८.२९/२तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥ ११८.२९॥
११८.३०/१मन्दवारे तु येऽश्वत्थं प्रातरुत्थाय मानवाः ।
११८.३०/२आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥ ११८.३०॥
११८.३१/१ब्रह्मोवाच । ततः प्रभृति तत् तीर्थमश्वत्थं पिप्पलं विदुः ।
११८.३१/२तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम् ॥ ११८.३१॥
११८.३२/१याज्ञिकं चापि तत् तीर्थं सामगं तीर्थमेव च ।
११८.३२/२इत्याद्यष्टोत्तराण्यासन् सहस्राण्यथ षोडश ।
११८.३२/३तेषु स्नानं च दानं च सत्त्रयागफलप्रदम् ॥ ११८.३२॥
११९.१/१ब्रह्मोवाच । सोमतीर्थमिति ख्यातं तद् अप्युक्तं महात्मभिः ।
११९.१/२तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ ११९.१॥
११९.२/१जगतां मातरः पूर्वमोषध्यो जीवसम्मताः ।
११९.२/२ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः ॥ ११९.२॥
११९.३/१आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च ।
११९.३/२आभिरेव धृतं सर्वं त्रैलोक्यं सचराचरम् ॥ ११९.३॥
११९.४/१अशेषरोगोपशमो भवत्याभिरसंशयम् ।
११९.४/२अन्नमेताभिरेव स्याद् अशेषप्राणरक्षणम् ।
११९.४/३अत्रौषध्यो जगद्वन्द्या मामूचुरनहंकृताः ॥ ११९.४॥
११९.५/१ओषध्य ऊचुः । अस्माकं त्वं पतिं देहि राजानं सुरसत्तम ॥ ११९.५॥
११९.६/१ब्रह्मोवाच । तच्छ्रुत्वा वचनं तासां मयोक्ता ओषधीरिदम् ।
११९.६/२पतिं प्राप्स्यथ सर्वाश्च राजानं प्रीतिवर्धनम् ॥ ११९.६॥
११९.७/१राजानमिति तच्छ्रुत्वा ता मामूचुः पुनर्मुने ।
११९.७/२गन्तव्यं क्व पुनश्चोक्ता गौतमीं यान्तु मातरः ॥ ११९.७॥
११९.८/१तुष्टायामथ तस्यां वो राजा स्याल्लोकपूजितः ।
११९.८/२ताश्च गत्वा मुनिश्रेष्ठ तुष्टुवुर्गौतमीं नदीम् ॥ ११९.८॥
११९.९/१ओषध्य ऊचुः । किं वाकरिष्यन् भववर्तिनो जना ।
११९.९/२नानाघसंघाभिभवाच्च दुःखिताः ।
११९.९/३न चागमिष्यद् भवती भुवं चेत् ।
११९.९/४पुण्योदके गौतमि शम्भुकान्ते ॥ ११९.९॥
११९.१०/१को वेत्ति भाग्यं नरदेहभाजाम् ।
११९.१०/२महीगतानां सरितामधीशे ।
११९.१०/३एषां महापातकसंघहन्त्री ।
११९.१०/४त्वमम्ब गङ्गे सुलभा सदैव ॥ ११९.१०॥
११९.११/१न ते विभूतिं ननु वेत्ति कोऽपि ।
११९.११/२त्रैलोक्यवन्द्ये जगदम्ब गङ्गे ।
११९.११/३गौरीसमालिङ्गितविग्रहोऽपि ।
११९.११/४धत्ते स्मरारिः शिरसापि यत् त्वाम् ॥ ११९.११॥
११९.१२/१नमोऽस्तु ते मातरभीष्टदायिनि ।
११९.१२/२नमोऽस्तु ते ब्रह्ममयेऽघनाशिनि ।
११९.१२/३नमोऽस्तु ते विष्णुपदाब्जनिःसृते ।
११९.१२/४नमोऽस्तु ते शम्भुजटाविनिःसृते ॥ ११९.१२॥
११९.१३/१ब्रह्मोवाच । इत्येवं स्तुवतामीशा किं ददामीत्यवोचत ॥ ११९.१३॥
११९.१४/१ओषध्य ऊचुः । पतिं देहि जगन्माता राजानमतितेजसम् ॥ ११९.१४॥
११९.१५/१ब्रह्मोवाच । तदोवाच नदी गङ्गा ओषधीस्ता इदं वचः ॥ ११९.१५॥
११९.१६/१गङ्गोवाच । अहं चामृतरूपास्मि ओषध्यो मातरोऽमृताः ।
११९.१६/२तादृशं चामृतात्मानं पतिं सोमं ददामि वः ॥ ११९.१६॥
११९.१७/१ब्रह्मोवाच । देवाश्च ऋषयो वाक्यं मेनिरे सोम एव च ।
११९.१७/२ओषध्यश्चापि तद् वाक्यं ततो जग्मुः स्वमालयम् ॥ ११९.१७॥
११९.१८/१यत्र चापुर्महौषध्यो राजानममृतात्मकम् ।
११९.१८/२सोमं समस्तसंताप+ ।पापसंघनिवारकम् ॥ ११९.१८॥
११९.१९/१सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् ।
११९.१९/२तत्र स्नानेन दानेन पितरः स्वर्गमाप्नुयुः ॥ ११९.१९॥
११९.२०/१य इदं शृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् ।
११९.२०/२दीर्घमायुरवाप्नोति स पुत्री धनवान् भवेत् ॥ ११९.२०॥
१२०.१/१ब्रह्मोवाच । धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ।
१२०.१/२सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १२०.१॥
१२०.२/१ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः ।
१२०.२/२ऊचुः सर्वस्य लोकस्य गङ्गायाश्चेप्सितं वचः ॥ १२०.२॥
१२०.३/१ओषध्य ऊचुः । वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः ।
१२०.३/२भूमिं सस्यवतीं कश्चिन् मातरं मातृसम्मिताम् ॥ १२०.३॥
१२०.४/१गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् ।
१२०.४/२भूमिं सस्यवतीं गाश्च ओषधीश्च मुदान्वितः ॥ १२०.४॥
१२०.५/१विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः ।
१२०.५/२सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात् ॥ १२०.५॥
१२०.६/१ओषध्यः सोमराजन्याः सोमश्चाप्योषधीपतिः ।
१२०.६/२इति ज्ञात्वा ब्रह्मविद ओषधीर्यः प्रदास्यति ॥ १२०.६॥
१२०.७/१सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ।
१२०.७/२ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ १२०.७॥
१२०.८/१ओषध्य ऊचुः । योऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि ।
१२०.८/२त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम् ॥ १२०.८॥
१२०.९/१ओषधयः संवदन्ते सोमेन सह राज्ञा ।
१२०.९/२योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.९॥
१२०.१०/१वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च ।
१२०.१०/२योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.१०॥
१२०.११/१अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः ।
१२०.११/२उपास्तिरस्ति सास्माकं तं राजन् पारयामसि ॥ १२०.११॥
१२०.१२/१स्थावरं जङ्गमं किंचिद् अस्माभिर्व्यापृतं जगत् ।
१२०.१२/२योऽस्मान् ददाति विप्रेभ्यस्तं राजन् पारयामसि ॥ १२०.१२॥
१२०.१३/१हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते ।
१२०.१३/२तद्गरीयश्च यो दद्यात् तं राजन् पारयामसि ॥ १२०.१३॥
१२०.१४/१इत्येतां वैदिकीं गाथां यः शृणोति स्मरेत वा ।
१२०.१४/२पठते भक्तिमापन्नस्तं राजन् पारयामसि ॥ १२०.१४॥
१२०.१५/१ब्रह्मोवाच । यत्रैषा पठिता गाथा सोमेन सह राज्ञा ।
१२०.१५/२गङ्गातीरे चौषधीभिर्धान्यतीर्थं तद् उच्यते ॥ १२०.१५॥
१२०.१६/१ततः प्रभृति तत् तीर्थमौषध्यं सौम्यमेव च ।
१२०.१६/२अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ १२०.१६॥
१२०.१७/१एषु स्नानं जपो होमो दानं च पितृतर्पणम् ।
१२०.१७/२अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते ॥ १२०.१७॥
१२०.१८/१षट्शताधिकसाहस्रं तीर्थानां तीरयोर्द्वयोः ।
१२०.१८/२सर्वपापनिहन्तृणां सर्वसम्पद्विवर्धनम् ॥ १२०.१८॥
१२१.१/१ब्रह्मोवाच । विदर्भासंगमं पुण्यं रेवतीसंगमं तथा ।
१२१.१/२तत्र यद् वृत्तमाख्यास्ये यत् पुराणविदो विदुः ॥ १२१.१॥
१२१.२/१भरद्वाज इति ख्यात ऋषिरासीत् तपोधिकः ।
१२१.२/२तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥ १२१.२॥
१२१.३/१तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् ।
१२१.३/२चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥ १२१.३॥
१२१.४/१कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम् ।
१२१.४/२न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा ॥ १२१.४॥
१२१.५/१अहो भूयान् न कस्यापि कन्या दुःखैककारणम् ।
१२१.५/२मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे ॥ १२१.५॥
१२१.६/१एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने ।
१२१.६/२द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम् ॥ १२१.६॥
१२१.७/१द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः ।
१२१.७/२नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥ १२१.७॥
१२१.८/१विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा ।
१२१.८/२तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥ १२१.८॥
१२१.९/१कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः ।
१२१.९/२तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम् ॥ १२१.९॥
१२१.१०/१भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम् ।
१२१.१०/२पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः ॥ १२१.१०॥
१२१.११/१सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् ।
१२१.११/२कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः ।
१२१.११/३अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ॥ १२१.११॥
१२१.१२/१कठ उवाच । अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम् ।
१२१.१२/२शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥ १२१.१२॥
१२१.१३/१ब्रह्मोवाच । तथेत्युक्त्वा भरद्वाजः प्रादाद् विद्यामशेषतः ।
१२१.१३/२प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत् ॥ १२१.१३॥
१२१.१४/१कठ उवाच । इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् ।
१२१.१४/२वदस्व दुर्लभं वापि गुरो तुभ्यं नमोऽस्तु ते ॥ १२१.१४॥
१२१.१५/१विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम् ।
१२१.१५/२न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम् ॥ १२१.१५॥
१२१.१६/१भरद्वाज उवाच । गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम् ।
१२१.१६/२अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम् ॥ १२१.१६॥
१२१.१७/१कठ उवाच । भ्रातृवत् पुत्रवच्चापि शिष्यः स्यात् तु गुरोः सदा ।
१२१.१७/२गुरुश्च पितृवच्च स्यात् सम्बन्धोऽत्र कथं भवेत् ॥ १२१.१७॥
१२१.१८/१भरद्वाज उवाच । मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा ।
१२१.१८/२सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥ १२१.१८॥
१२१.१९/१ब्रह्मोवाच । तथेत्युक्त्वा गुरोर्वाक्यात् कठो जग्राह पाणिना ।
१२१.१९/२रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस्त्वथ ॥ १२१.१९॥
१२१.२०/१तत्रैव पूजयामास देवेशं शंकरं तदा ।
१२१.२०/२रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती ॥ १२१.२०॥
१२१.२१/१सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते ।
१२१.२१/२अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम् ॥ १२१.२१॥
१२१.२२/१साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी ।
१२१.२२/२रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥ १२१.२२॥
१२१.२३/१पुनर्दर्भैश्च विविधैरभिषेकं चकार सः ।
१२१.२३/२पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी ॥ १२१.२३॥
१२१.२४/१श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः ।
१२१.२४/२सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२१.२४॥
१२१.२५/१तथा विदर्भागौतम्योः संगमे श्रद्धया मुने ।
१२१.२५/२स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥ १२१.२५॥
१२१.२६/१उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम् ।
१२१.२६/२सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥ १२१.२६॥
१२२.१/१ब्रह्मोवाच । पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
१२२.१/२तत्र स्नात्वा नरोऽज्ञानात् तथापि शुभमाप्नुयात् ॥ १२२.१॥
१२२.२/१पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना ।
१२२.२/२स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना ॥ १२२.२॥
१२२.३/१पुरा धन्वन्तरिर्नाम कल्पादावायुषः सुतः ।
१२२.३/२इष्ट्वा बहुविधैर्यज्ञैरश्वमेधपुरःसरैः ॥ १२२.३॥
१२२.४/१दत्त्वा दानान्यनेकानि भुक्त्वा भोगांश्च पुष्कलान् ।
१२२.४/२विज्ञाय भोगवैषम्यं परं वैराग्यमाश्रितः ॥ १२२.४॥
१२२.५/१गिरिशृङ्गेऽम्बुधेः पारे तथा गङ्गानदीतटे ।
१२२.५/२शिवविष्ण्वोर्गृहे वापि विशेषात् पुण्यसंगमे ॥ १२२.५॥
१२२.६/१तप्तं हुतं च जप्तं च सर्वमक्षयतां व्रजेत् ।
१२२.६/२धन्वन्तरिरिति ज्ञात्वा तत्र तेपे तपो महत् ॥ १२२.६॥
१२२.७/१ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः ।
१२२.७/२तपश्चकार विपुलं गङ्गासागरसंगमे ॥ १२२.७॥
१२२.८/१पुरा च निकृतो राज्ञा रणं हित्वा महासुरः ।
१२२.८/२सहस्रमेकं वर्षाणां समुद्रं प्राविशद् भयात् ॥ १२२.८॥
१२२.९/१धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते ।
१२२.९/२विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात् ॥ १२२.९॥
१२२.१०/१तपस्यन्तं तमो नाम बलवान् असुरो मुने ।
१२२.१०/२गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर्यतः ॥ १२२.१०॥
१२२.११/१जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः ।
१२२.११/२तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२२.११॥
१२२.१२/१नाशितो बहुशोऽनेन राज्ञा बलवता त्वहम् ।
१२२.१२/२तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२२.१२॥
१२२.१३/१मायया प्रमदारूपं कृत्वा राजानमभ्यगात् ।
१२२.१३/२नृत्यगीतवती सुभ्रूर्हसन्ती चारुदर्शना ॥ १२२.१३॥
१२२.१४/१तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् ।
१२२.१४/२शान्तामनुव्रतां भक्तां कृपया चाब्रवीन् नृपः ॥ १२२.१४॥
१२२.१५/१नृप उवाच । कासि त्वं कस्य हेतोर्वा वर्तसे गहने वने ।
१२२.१५/२कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥ १२२.१५॥
१२२.१६/१ब्रह्मोवाच । प्रमदा चापि तद्वाक्यं श्रुत्वा राजानमब्रवीत् ॥ १२२.१६॥
१२२.१७/१प्रमदोवाच । त्वयि तिष्ठति को लोके हेतुर्हर्षस्य मे भवेत् ।
१२२.१७/२अहमिन्द्रस्य या लक्ष्मीस्त्वां दृष्ट्वा कामसम्भृतम् ॥ १२२.१७॥
१२२.१८/१हर्षाच्चरामि पुरतो राजंस्तव पुनः पुनः ।
१२२.१८/२अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा ॥ १२२.१८॥
१२२.१९/१ब्रह्मोवाच । एतद् वचो निशम्याशु तपस्त्यक्त्वा सुदुष्करम् ।
१२२.१९/२तामेव मनसा ध्यायंस्तन्निष्ठस्तत्परायणः ॥ १२२.१९॥
१२२.२०/१तदेकशरणो राजा बभूव स यदा तमः ।
१२२.२०/२अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत् ॥ १२२.२०॥
१२२.२१/१एतस्मिन्न् अन्तरेऽहं वै वरान् दातुं समभ्यगाम् ।
१२२.२१/२तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम् ॥ १२२.२१॥
१२२.२२/१तमाश्वास्याथ विविधैर्हेतुभिर्नृपसत्तमम् ।
१२२.२२/२तव शत्रुस्तमो नाम कृत्वा तां तपसश्च्युतिम् ॥ १२२.२२॥
१२२.२३/१चरितार्थो गतो राजन् न त्वं शोचितुमर्हसि ।
१२२.२३/२आनन्दयन्ति प्रमदास्तापयन्ति च मानवम् ॥ १२२.२३॥
१२२.२४/१सर्वा एव विशेषेण किमु मायामयी तु सा ।
१२२.२४/२ततः कृताञ्जली राजा मामाह विगतभ्रमः ॥ १२२.२४॥
१२२.२५/१राजोवाच । किं करोमि कथं ब्रह्मंस्तपसः पारमाप्नुयाम् ॥ १२२.२५॥
१२२.२६/१ब्रह्मोवाच । ततस्तस्योत्तरं प्रादां देवदेवं जनार्दनम् ।
१२२.२६/२स्तुहि सर्वप्रयत्नेन ततः सिद्धिमवाप्स्यसि ॥ १२२.२६॥
१२२.२७/१स ह्यशेषजगत्स्रष्टा वेदवेद्यः पुरातनः ।
१२२.२७/२सर्वार्थसिद्धिदः पुंसां नान्योऽस्ति भुवनत्रये ॥ १२२.२७॥
१२२.२८/१स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः ।
१२२.२८/२कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥ १२२.२८॥
१२२.२९/१धन्वन्तरिरुवाच । जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत ।
१२२.२९/२जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥ १२२.२९॥
१२२.३०/१जय भूतपते नाथ जय पन्नगशायिने ।
१२२.३०/२जय सर्वग गोविन्द जय विश्वकृते नमः ॥ १२२.३०॥
१२२.३१/१जय विश्वभुजे देव जय विश्वधृते नमः ।
१२२.३१/२जयेश सदसत् त्वं वै जय माधव धर्मिणे ॥ १२२.३१॥
१२२.३२/१जय कामद काम त्वं जय राम गुणार्णव ।
१२२.३२/२जय पुष्टिद पुष्टीश जय कल्याणदायिने ॥ १२२.३२॥
१२२.३३/१जय भूतप भूतेश जय मानविधायिने ।
१२२.३३/२जय कर्मद कर्म त्वं जय पीताम्बरच्छद ॥ १२२.३३॥
१२२.३४/१जय सर्वेश सर्वस्त्वं जय मङ्गलरूपिणे ।
१२२.३४/२जय सत्त्वाधिनाथाय जय वेदविदे नमः ॥ १२२.३४॥
१२२.३५/१जय जन्मद जन्मिस्थ परमात्मन् नमोऽस्तु ते ।
१२२.३५/२जय मुक्तिद मुक्तिस्त्वं जय भुक्तिद केशव ॥ १२२.३५॥
१२२.३६/१जय लोकद लोकेश जय पापविनाशन ।
१२२.३६/२जय वत्सल भक्तानां जय चक्रधृते नमः ॥ १२२.३६॥
१२२.३७/१जय मानद मानस्त्वं जय लोकनमस्कृत ।
१२२.३७/२जय धर्मद धर्मस्त्वं जय संसारपारग ॥ १२२.३७॥
१२२.३८/१जय अन्नद अन्नं त्वं जय वाचस्पते नमः ।
१२२.३८/२जय शक्तिद शक्तिस्त्वं जय जैत्रवरप्रद ॥ १२२.३८॥
१२२.३९/१जय यज्ञद यज्ञस्त्वं जय पद्मदलेक्षण ।
१२२.३९/२जय दानद दानं त्वं जय कैटभसूदन ॥ १२२.३९॥
१२२.४०/१जय कीर्तिद कीर्तिस्त्वं जय मूर्तिद मूर्तिधृक् ।
१२२.४०/२जय सौख्यद सौख्यात्मञ् जय पावनपावन ॥ १२२.४०॥
१२२.४१/१जय शान्तिद शान्तिस्त्वं जय शंकरसम्भव ।
१२२.४१/२जय पानद पानस्त्वं जय ज्योतिःस्वरूपिणे ॥ १२२.४१॥
१२२.४२/१जय वामन वित्तेश जय धूमपताकिने ।
१२२.४२/२जय सर्वस्य जगतो दातृमूर्ते नमोऽस्तु ते ॥ १२२.४२॥
१२२.४३/१त्वमेव लोकत्रयवर्तिजीव+ ।
१२२.४३/२निकायसंक्लेशविनाशदक्ष ।
१२२.४३/३श्रीपुण्डरीकाक्ष कृपानिधे त्वम् ।
१२२.४३/४निधेहि पाणिं मम मूर्ध्नि विष्णो ॥ १२२.४३॥
१२२.४४/१ब्रह्मोवाच । एवं स्तुवन्तं भगवाञ् शङ्खचक्रगदाधरः ।
१२२.४४/२वरेण च्छन्दयामास सर्वकामसमृद्धिदः ॥ १२२.४४॥
१२२.४५/१धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः ।
१२२.४५/२वरदानाय देवेशं गोविन्दं संस्थितं पुरः ॥ १२२.४५॥
१२२.४६/१तमाह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् ।
१२२.४६/२तच्च दत्तं त्वया विष्णो प्राप्तोऽस्मि कृतकृत्यताम् ॥ १२२.४६॥
१२२.४७/१स्तुतः सम्पूजितो विष्णुस्तत्रैवान्तरधीयत ।
१२२.४७/२तथैव त्रिदशेशत्वमवाप नृपतिः क्रमात् ॥ १२२.४७॥
१२२.४८/१प्रागर्जितानेककर्म+ ।परिपाकवशात् ततः ।
१२२.४८/२त्रिःकृत्वो नाशमगमत् सहस्राक्षः स्वकात् पदात् ॥ १२२.४८॥
१२२.४९/१नहुषाद् वृत्रहत्यायाः सिन्धुसेनवधात् ततः ।
१२२.४९/२अहल्यायां च गमनाद् येन केन च हेतुना ॥ १२२.४९॥
१२२.५०/१स्मारं स्मारं तत् तद् इन्द्रश्चिन्तासंतापदुर्मनाः ।
१२२.५०/२ततः सुरपतिः प्राह वाचस्पतिमिदं वचः ॥ १२२.५०॥
१२२.५१/१इन्द्र उवाच । हेतुना केन वागीश भ्रष्टराज्यो भवाम्यहम् ।
१२२.५१/२मध्ये मध्ये पदभ्रंशाद् वरं निःश्रीकता नृणाम् ॥ १२२.५१॥
१२२.५२/१गहनां कर्मणां जीव+ ।गतिं को वेत्ति तत्त्वतः ।
१२२.५२/२रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते ॥ १२२.५२॥
१२२.५३/१ब्रह्मोवाच । बृहस्पतिर्हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् ।
१२२.५३/२स तु जानाति यद् भूतं भविष्यच्चापि वर्तनम् ॥ १२२.५३॥
१२२.५४/१स तु वक्ष्यति येनेदं जातं तच्च महामते ।
१२२.५४/२तावागत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् ।
१२२.५४/३कृताञ्जलिपुटो भूत्वा मामूचतुरिदं वचः ॥ १२२.५४॥
१२२.५५/१इन्द्रबृहस्पती ऊचतुः । भगवन् केन दोषेण शचीभर्ता उदारधीः ।
१२२.५५/२राज्यात् प्रभ्रश्यते नाथ संशयं छेत्तुमर्हसि ॥ १२२.५५॥
१२२.५६/१ब्रह्मोवाच । तदाहमब्रवं ब्रह्मंश्चिरं ध्यात्वा बृहस्पतिम् ।
१२२.५६/२खण्डधर्माख्यदोषेण तेन राज्यपदाच्च्युतः ॥ १२२.५६॥
१२२.५७/१देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् ।
१२२.५७/२यथावद्दक्षिणादानाद् असद्द्रव्यप्रदानतः ॥ १२२.५७॥
१२२.५८/१देवभूदेवतावज्ञा+ ।पातकाच्च विशेषतः ।
१२२.५८/२यत् खण्डत्वं स्वधर्मस्य देहिनामुपजायते ॥ १२२.५८॥
१२२.५९/१तेनातिमानसस्तापः पदहानिश्च दुस्त्यजा ।
१२२.५९/२कृतोऽपि धर्मोऽनिष्टाय जायते क्षुब्धचेतसा ॥ १२२.५९॥
१२२.६०/१कार्यस्य न भवेत् सिद्ध्यै तस्माद् अव्याकुलाय च ।
१२२.६०/२असम्पूर्णे स्वधर्मे हि किमनिष्टं न जायते ॥ १२२.६०॥
१२२.६१/१ताभ्यां यत् पूर्ववृत्तान्तं तद् अप्युक्तं मयानघ ।
१२२.६१/२आयुषस्तु सुतः श्रीमान् धन्वन्तरिरुदारधीः ॥ १२२.६१॥
१२२.६२/१तमसा च कृतं विघ्नं विष्णुना तच्च नाशितम् ।
१२२.६२/२पूर्वजन्मसु वृत्तान्तमित्यादि परिकीर्तितम् ॥ १२२.६२॥
१२२.६३/१तच्छ्रुत्वा विस्मितौ चोभौ मामेव पुनरूचतुः ॥ १२२.६३॥
१२२.६४/१इन्द्रबृहस्पती ऊचतुः । तद्दोषप्रतिबन्धस्तु केन
स्यात् सुरसत्तम ॥ १२२.६४॥
१२२.६५/१ब्रह्मोवाच । पुनर्ध्यात्वा ताववदं श्रूयतां दोषकारकम् ।
१२२.६५/२कारणं सर्वसिद्धीनां दुःखसंसारतारणम् ॥ १२२.६५॥
१२२.६६/१शरणं तप्तचित्तानां निर्वाणं जीवतामपि ।
१२२.६६/२गत्वा तु गौतमीं देवीं स्तूयेतां हरिशंकरौ ॥ १२२.६६॥
१२२.६७/१नोपायोऽन्योऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये ।
१२२.६७/२तदैव जग्मतुरुभौ गौतमीं मुनिसत्तम ।
१२२.६७/३स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर्मुदा ॥ १२२.६७॥
१२२.६८/१इन्द्र उवाच । नमो मत्स्याय कूर्माय वराहाय नमो नमः ।
१२२.६८/२नरसिंहाय देवाय वामनाय नमो नमः ॥ १२२.६८॥
१२२.६९/१नमोऽस्तु हयरूपाय त्रिविक्रम नमोऽस्तु ते ।
१२२.६९/२नमोऽस्तु बुद्धरूपाय रामरूपाय कल्किने ॥ १२२.६९॥
१२२.७०/१अनन्तायाच्युतायेश जामदग्न्याय ते नमः ।
१२२.७०/२वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥ १२२.७०॥
१२२.७१/१परमेशाय देवाय नमस्त्रैलोक्यरूपिणे ।
१२२.७१/२बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥ १२२.७१॥
१२२.७२/१लक्ष्मीवान् अस्यतो लक्ष्मीं बिभ्रद् वक्षसि चानघ ।
१२२.७२/२बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षकः ।
१२२.७२/३त्वामेव सुखिनं प्राप्य बहवः सुखिनोऽभवन् ॥ १२२.७२॥
१२२.७३/१तावन् निःश्रीकता पुंसां मालिन्यं दैन्यमेव वा ।
१२२.७३/२यावन् न यान्ति शरणं हरे त्वां करुणार्णवम् ॥ १२२.७३॥
१२२.७४/१बृहस्पतिरुवाच । सूक्ष्मं परं जोतिरनन्तरूपम् ।
१२२.७४/२ओंकारमात्रं प्रकृतेः परं यत् ।
१२२.७४/३चिद्रूपमानन्दमयं समस्तम् ।
१२२.७४/४एवं वदन्तीश मुमुक्षवस्त्वाम् ॥ १२२.७४॥
१२२.७५/१आराधयन्त्यत्र भवन्तमीशम् ।
१२२.७५/२महामखैः पञ्चभिरप्यकामाः ।
१२२.७५/३संसारसिन्धोः परमाप्तकामा ।
१२२.७५/४विशन्ति दिव्यं भुवनं वपुस्ते ॥ १२२.७५॥
१२२.७६/१सर्वेषु सत्त्वेषु समत्वबुद्ध्या ।
१२२.७६/२संवीक्ष्य षट्सूर्मिषु शान्तभावाः ।
१२२.७६/३ज्ञानेन ते कर्मफलानि हित्वा ।
१२२.७६/४ध्यानेन ते त्वां प्रविशन्ति शम्भो ॥ १२२.७६॥
१२२.७७/१न जातिधर्माणि न वेदशास्त्रम् ।
१२२.७७/२न ध्यानयोगो न समाधिधर्मः ।
१२२.७७/३रुद्रं शिवं शंकरं शान्तिचित्तम् ।
१२२.७७/४भक्त्या देवं सोममहं नमस्ये ॥ १२२.७७॥
१२२.७८/१मूर्खोऽपि शम्भो तव पादभक्त्या ।
१२२.७८/२समाप्नुयान् मुक्तिमयीं तनुं ते ।
१२२.७८/३ज्ञानेषु यज्ञेषु तपःसु चैव ।
१२२.७८/४ध्यानेषु होमेषु महाफलेषु ॥ १२२.७८॥
१२२.७९/१सम्पन्नमेतत् फलमुत्तमं यत् ।
१२२.७९/२सोमेश्वरे भक्तिरहर्निशं यत् ।
१२२.७९/३सर्वस्य जीवस्य सदा प्रियस्य ।
१२२.७९/४फलस्य दृष्टस्य तथा श्रुतस्य ॥ १२२.७९॥
१२२.८०/१स्वर्गस्य मोक्षस्य जगन्निवास ।
१२२.८०/२सोपानपङ्क्तिस्तव भक्तिरेषा ।
१२२.८०/३त्वत्पादसम्प्राप्तिफलाप्तये तु ।
१२२.८०/४सोपानपङ्क्तिं न वदन्ति धीराः ॥ १२२.८०॥
१२२.८१/१तस्माद् दयालो मम भक्तिरस्तु ।
१२२.८१/२नैवास्त्युपायस्तव रूपसेवा ।
१२२.८१/३आत्मीयमालोक्य महत्त्वमीश ।
१२२.८१/४पापेषु चास्मासु कुरु प्रसादम् ॥ १२२.८१॥
१२२.८२/१स्थूलं च सूक्ष्मं त्वमनादि नित्यम् ।
१२२.८२/२पिता च माता यद् असच्च सच्च ।
१२२.८२/३एवं स्तुतो यः श्रुतिभिः पुराणैर्।
१२२.८२/४नमामि सोमेश्वरमीशितारम् ॥ १२२.८२॥
१२२.८३/१ब्रह्मोवाच । ततः प्रीतौ हरिहरावूचतुस्त्रिदशेश्वरौ ॥ १२२.८३॥
१२२.८४/१हरिहरावूचतुः । व्रियतां यन् मनोभीष्टं यद् वरं
चातिदुर्लभम् ॥ १२२.८४॥
१२२.८५/१ब्रह्मोवाच । इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः ।
१२२.८५/२जायते भ्रश्यते चैव तत् पापमुपशाम्यताम् ॥ १२२.८५॥
१२२.८६/१यथा स्थिरोऽहं राज्ये स्यां सर्वं स्यान् निश्चलं मम ।
१२२.८६/२सुप्रीतौ यदि देवेशौ सर्वं स्यान् निश्चलं सदा ॥ १२२.८६॥
१२२.८७/१तथेति हरिवाक्यं तावभिनन्द्येदमूचतुः ।
१२२.८७/२परं प्रसादमापन्नौ तावालोक्य स्मिताननौ ॥ १२२.८७॥
१२२.८८/१निरपायनिराधार+ ंइर्विकारस्वरूपिणौ ।
१२२.८८/२शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदावुभौ ॥ १२२.८८॥
१२२.८९/१हरिहरावूचतुः । त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा ।
१२२.८९/२तस्यामनेन मन्त्रेण कुरुतां स्नानमादरात् ॥ १२२.८९॥
१२२.९०/१अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः ।
१२२.९०/२करोतु संस्मरन्न् आवां सम्पदां स्थैर्यसिद्धये ॥ १२२.९०॥
१२२.९१/१इह जन्मनि पूर्वस्मिन् यत् किंचित् सुकृतं कृतम् ।
१२२.९१/२तत् सर्वं पूर्णतामेतु गोदावरि नमोऽस्तु ते ॥ १२२.९१॥
१२२.९२/१एवं स्मृत्वा तु यः कश्चिद् गौतम्यां स्नानमाचरेत् ।
१२२.९२/२आवाभ्यां तु प्रसादेन धर्मः सम्पूर्णतामियात् ।
१२२.९२/३पूर्वजन्मकृताद् दोषात् स मुक्तः पुण्यवान् भवेत् ॥ १२२.९२॥
१२२.९३/१ब्रह्मोवाच । तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः ।
१२२.९३/२महाभिषेकमिन्द्रस्य चकार द्युसदां गुरुः ॥ १२२.९३॥
१२२.९४/१तेनाभूद् या नदी पुण्या मङ्गलेत्युदिता तु सा ।
१२२.९४/२तया च संगमः पुण्यो गङ्गायाः शुभदस्त्वसौ ॥ १२२.९४॥
१२२.९५/१इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षोऽभूज्जगन्मयः ।
१२२.९५/२त्रिलोकसम्मितां शक्रो भूमिं लेभे जगत्पतेः ॥ १२२.९५॥
१२२.९६/१तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च ।
१२२.९६/२त्रिलोकसम्मिता लब्धा तेन गौर्वज्रधारिणा ॥ १२२.९६॥
१२२.९७/१दत्ता च हरिणा तत्र गोविन्दस्तद् अभूद् धरिः ।
१२२.९७/२त्रैलोक्यराज्यं यत् प्राप्तं हरिणा च हरेर्मुने ॥ १२२.९७॥
१२२.९८/१निश्चलं येन संजातं देवदेवान् महेश्वरात् ।
१२२.९८/२बृहस्पतिर्देवगुरुर्यत्रास्तौषीन् महेश्वरम् ॥ १२२.९८॥
१२२.९९/१राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः ।
१२२.९९/२सिद्धेश्वरस्तत्र देवो लिङ्गं तु त्रिदशार्चितम् ॥ १२२.९९॥
१२२.१००/१ततः प्रभृति तत् तीर्थं गोविन्दमिति विश्रुतम् ।
१२२.१००/२मङ्गलासंगमं चैव पूर्णतीर्थं ततः परम् ॥ १२२.१००॥
१२२.१०१/१इन्द्रतीर्थमिति ख्यातं बार्हस्पत्यं च विश्रुतम् ।
१२२.१०१/२यत्र सिद्धेश्वरो देवो विष्णुर्गोविन्द एव च ॥ १२२.१०१॥
१२२.१०२/१तेषु स्नानं च दानं च यत् किंचित् सुकृतार्जनम् ।
१२२.१०२/२सर्वं तद् अक्षयं विद्यात् पितृणामतिवल्लभम् ॥ १२२.१०२॥
१२२.१०३/१शृणोति यश्चापि पठेद् यश्च स्मरति नित्यशः ।
१२२.१०३/२तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम् ॥ १२२.१०३॥
१२२.१०४/१सप्तत्रिंशत् सहस्राणि तीर्थानां तीरयोर्द्वयोः ।
१२२.१०४/२उभयोर्मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १२२.१०४॥
१२२.१०५/१न पूर्णतीर्थसदृशं तीर्थमस्ति महाफलम् ।
१२२.१०५/२निष्फलं तस्य जन्मादि यो न सेवेत तन् नरः ॥ १२२.१०५॥
१२३.१/१ब्रह्मोवाच । रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् ।
१२३.१/२तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १२३.१॥
१२३.२/१इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः ।
१२३.२/२बलवान् मतिमाञ् शूरो यथा शक्रः पुरंदरः ॥ १२३.२॥
१२३.३/१पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः ।
१२३.३/२तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥ १२३.३॥
१२३.४/१कौशल्या च सुमित्रा च कैकेयी च महामते ।
१२३.४/२एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥ १२३.४॥
१२३.५/१तस्मिन् राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने ।
१२३.५/२वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः ॥ १२३.५॥
१२३.६/१न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाधयः ।
१२३.६/२ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥ १२३.६॥
१२३.७/१आश्रमाणां तु सर्वेषामानन्दोऽभूत् पृथक् पृथक् ।
१२३.७/२तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥ १२३.७॥
१२३.८/१देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत् ।
१२३.८/२क्वापि तत्र जयं प्रापुर्देवाः क्वापि तथेतरे ॥ १२३.८॥
१२३.९/१एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् ।
१२३.९/२अभून् नारद तत्राहमवदं दैत्यदानवान् ॥ १२३.९॥
१२३.१०/१देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् ।
१२३.१०/२पुनश्च संगरस्तेषां बभूव सुमहान् मिथः ॥ १२३.१०॥
१२३.११/१विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् ।
१२३.११/२तावूचतुरुभौ देवान् असुरान् दैत्यदानवान् ॥ १२३.११॥
१२३.१२/१तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् ।
१२३.१२/२तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥ १२३.१२॥
१२३.१३/१ययुस्तु राक्षसान् देवाः पुनस्ते मत्सरान्विताः ।
१२३.१३/२देवानां दानवानां च संगरोऽभूत् सुदारुणः ॥ १२३.१३॥
१२३.१४/१न तत्र देवा जेतारो नैव दैत्याश्च दानवाः ।
१२३.१४/२संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी ॥ १२३.१४॥
१२३.१५/१आकाशवाग् उवाच । येषां दशरथो राजा ते जेतारो न
चेतरे ॥ १२३.१५॥
१२३.१६/१ब्रह्मोवाच । इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ ।
१२३.१६/२तत्र वायुस्त्वरन् प्राप्तो राजानमवदत् तदा ॥ १२३.१६॥
१२३.१७/१वायुरुवाच । आगन्तव्यं त्वया राजन् देवदानवसंगरे ।
१२३.१७/२यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥ १२३.१७॥
१२३.१८/१तस्मात् त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥ १२३.१८॥
१२३.१९/१ब्रह्मोवाच । तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः ।
१२३.१९/२आगम्यते मया सत्यं गच्छ वायो यथासुखम् ॥ १२३.१९॥
१२३.२०/१गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति ।
१२३.२०/२तेऽप्यूचुर्भगवन्न् अस्मत्+ ।साहाय्यं कर्तुमर्हसि ॥ १२३.२०॥
१२३.२१/१राजन् दशरथ श्रीमन् विजयस्त्वयि संस्थितः ।
१२३.२१/२तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥ १२३.२१॥
१२३.२२/१ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा ।
१२३.२२/२प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥ १२३.२२॥
१२३.२३/१स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् ।
१२३.२३/२युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥ १२३.२३॥
१२३.२४/१पश्यत्सु देवसंघेषु नमुचेर्भ्रातरस्तदा ।
१२३.२४/२विविधुर्निशितैर्बाणैरथाक्षं नृपतेस्तथा ॥ १२३.२४॥
१२३.२५/१भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् ।
१२३.२५/२राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद ॥ १२३.२५॥
१२३.२६/१न ज्ञापितं तया राज्ञे स्वयमालोक्य सुव्रता ।
१२३.२६/२भग्नमक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम् ॥ १२३.२६॥
१२३.२७/१अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् ।
१२३.२७/२रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥ १२३.२७॥
१२३.२८/१जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् ।
१२३.२८/२ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥ १२३.२८॥
१२३.२९/१स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् ।
१२३.२९/२कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः ॥ १२३.२९॥
१२३.३०/१ततस्तस्यै वरान् प्रादात् त्रींस्तु नारद सा अपि ।
१२३.३०/२अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥ १२३.३०॥
१२३.३१/१कैकेय्युवाच । त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा
अमी ॥ १२३.३१॥
१२३.३२/१ब्रह्मोवाच । विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह ।
१२३.३२/२रथेन विजयी राजा ययौ स्वनगरं सुखी ॥ १२३.३२॥
१२३.३३/१योषितां किमदेयं हि प्रियाणामुचितागमे ।
१२३.३३/२स कदाचिद् दशरथो मृगयाशीलिभिर्वृतः ॥ १२३.३३॥
१२३.३४/१अटन्न् अरण्ये शर्वर्यां वारिबन्धमथाकरोत् ।
१२३.३४/२सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥ १२३.३४॥
१२३.३५/१इति जानन्न् अपि च तच्चकार तु विधेर्वशात् ।
१२३.३५/२गर्तं प्रविश्य पानार्थमागतान् निशितैः शरैः ॥ १२३.३५॥
१२३.३६/१मृगान् हन्ति महाबाहुः शृणु कालविपर्ययम् ।
१२३.३६/२गर्तं प्रविष्टे नृपतौ तस्मिन्न् एव नगोत्तमे ॥ १२३.३६॥
१२३.३७/१वृद्धो वैश्रवणो नाम न शृणोति न पश्यति ।
१२३.३७/२तस्य भार्या तथाभूता तावब्रूतां तदा सुतम् ॥ १२३.३७॥
१२३.३८/१मातापितरावूचतुः । आवां तृषार्तौ रात्रिश्च कृष्णा
चापि प्रवर्तते ।
१२३.३८/२वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक ॥ १२३.३८॥
१२३.३९/१अन्धानां बधिराणां च वृद्धानां धिक् च जीवितम् ।
१२३.३९/२जराजर्जरदेहानां धिग् धिक् पुत्रक जीवितम् ॥ १२३.३९॥
१२३.४०/१तावत् पुम्भिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः ।
१२३.४०/२यावद् आज्ञाप्रतिहता तीर्थादावन्यथा मृतिः ॥ १२३.४०॥
१२३.४१/१ब्रह्मोवाच । इत्येतद् वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः ।
१२३.४१/२पुत्रः प्रोवाच तद् दुःखं गिरा मधुरया हरन् ॥ १२३.४१॥
१२३.४२/१पुत्र उवाच । मयि जीवति किं नाम युवयोर्दुःखमीदृशम् ।
१२३.४२/२न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम् ॥ १२३.४२॥
१२३.४३/१तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥ १२३.४३॥
१२३.४४/१ब्रह्मोवाच । इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः ।
१२३.४४/२तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥ १२३.४४॥
१२३.४५/१हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः ।
१२३.४५/२स ऋषिर्न तु राजानं जानाति नृपतिर्द्विजम् ॥ १२३.४५॥
१२३.४६/१उभौ सरभसौ तत्र द्विजो वारि समाविशत् ।
१२३.४६/२सत्वरं कलशे न्युब्जे वारि गृह्णन्तमाशुगैः ॥ १२३.४६॥
१२३.४७/१द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः ।
१२३.४७/२वनद्विपोऽपि भूपानामवध्यस्तद् विदन्न् अपि ॥ १२३.४७॥
१२३.४८/१विव्याध तं नृपः कुर्यान् न किं किं विधिवञ्चितः ।
१२३.४८/२स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत् ॥ १२३.४८॥
१२३.४९/१द्विज उवाच । केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे ।
१२३.४९/२मैत्रो ब्राह्मण इत्युक्तो नापराधोऽस्ति कश्चन ॥ १२३.४९॥
१२३.५०/१ब्रह्मोवाच । तद् एतद् वचनं श्रुत्वा मुनेरार्तस्य भूपतिः ।
१२३.५०/२निश्चेष्टश्च निरुत्साहो शनैस्तं देशमभ्यगात् ॥ १२३.५०॥
१२३.५१/१तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा ।
१२३.५१/२असावप्यभवत् तत्र सशल्य इव मूर्च्छितः ॥ १२३.५१॥
१२३.५२/१आत्मानमात्मना कृत्वा स्थिरं राजाब्रवीद् इदम् ॥ १२३.५२॥
१२३.५३/१राजोवाच । को भवान् द्विजशार्दूल किमर्थमिह चागतः ।
१२३.५३/२वद पापकृते मह्यं वद मे निष्कृतिं पराम् ॥ १२३.५३॥
१२३.५४/१ब्रह्महा वर्णिभिः किंतु श्वपचैरपि जातुचित् ।
१२३.५४/२न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥ १२३.५४॥
१२३.५५/१ब्रह्मोवाच । तद् राजवचनं श्रुत्वा मुनिपुत्रोऽब्रवीद्
वचः ॥ १२३.५५॥
१२३.५६/१मुनिपुत्र उवाच । उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किंचन ।
१२३.५६/२स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥ १२३.५६॥
१२३.५७/१आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम ।
१२३.५७/२तयोः शुश्रूषकः कः स्याद् अन्धयोरेकपुत्रयोः ॥ १२३.५७॥
१२३.५८/१विना मया महारण्ये कथं तौ जीवयिष्यतः ।
१२३.५८/२ममाभाग्यमहो कीदृक् पितृशुश्रूषणे क्षतिः ॥ १२३.५८॥
१२३.५९/१जाता मेऽद्य विना प्राणैर्हा विधे किं कृतं त्वया ।
१२३.५९/२तथापि गच्छ तत्र त्वं गृहीतकलशस्त्वरन् ॥ १२३.५९॥
१२३.६०/१ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः ॥ १२३.६०॥
१२३.६१/१ब्रह्मोवाच । इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने ।
१२३.६१/२विसृज्य सशरं चापमादाय कलशं नृपः ॥ १२३.६१॥
१२३.६२/१तत्रागात् स तु वेगेन यत्र वृद्धौ महावने ।
१२३.६२/२वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः ॥ १२३.६२॥
१२३.६३/१वृद्धावूचतुः । उद्विग्नः कुपितो वा स्याद् अथवा भक्षितः कथम् ।
१२३.६३/२न प्राप्तश्चावयोर्यष्टिः किं कुर्मः का गतिर्भवेत् ॥ १२३.६३॥
१२३.६४/१न कोऽपि तादृशः पुत्रो विद्यते सचराचरे ।
१२३.६४/२यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः ॥ १२३.६४॥
१२३.६५/१वज्राद् अपि कठोरं वा जीवितं तमपश्यतोः ।
१२३.६५/२शीघ्रं न यान्ति यत् प्राणास्तदेकायत्तजीवयोः ॥ १२३.६५॥
१२३.६६/१ब्रह्मोवाच । एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने ।
१२३.६६/२तदा दशरथो राजा शनैस्तं देशमभ्यगात् ॥ १२३.६६॥
१२३.६७/१पादसंचारशब्देन मेनाते सुतमागतम् ॥ १२३.६७॥
१२३.६८/१वृद्धावूचतुः । कुतो वत्स चिरात् प्राप्तस्त्वं दृष्टिस्त्वं परायणम् ।
१२३.६८/२न ब्रूषे किंतु रुष्टोऽसि वृद्धयोरन्धयोः सुतः ॥ १२३.६८॥
१२३.६९/१ब्रह्मोवाच । सशल्य इव दुःखार्तः शोचन् दुष्कृतमात्मनः ।
१२३.६९/२स भीत इव राजेन्द्रस्तावुवाचाथ नारद ॥ १२३.६९॥
१२३.७०/१उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम् ।
१२३.७०/२नायं वक्ता सुतोऽस्माकं को भवांस्तत् पुरा वद ॥ १२३.७०॥
१२३.७१/१पश्चात् पिबावः पानीयं ततो राजाब्रवीच्च तौ ॥ १२३.७१॥
१२३.७२/१राजोवाच । तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥ १२३.७२॥
१२३.७३/१ब्रह्मोवाच । तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा ।
१२३.७३/२आचचक्षे ततो राजा सर्वमेव यथातथम् ॥ १२३.७३॥
१२३.७४/१ततस्तु पतितौ वृद्धौ तत्रावां नय मा स्पृश ।
१२३.७४/२ब्रह्मघ्नस्पर्शनं पापं न कदाचिद् विनश्यति ॥ १२३.७४॥
१२३.७५/१निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः ।
१२३.७५/२यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः ॥ १२३.७५॥
१२३.७६/१वृद्धावूचतुः । यथा पुत्रवियोगेन मृत्युर्नौ विहितस्तथा ।
१२३.७६/२त्वं चापि पाप पुत्रस्य वियोगान् मृत्युमाप्स्यसि ॥ १२३.७६॥
१२३.७७/१ब्रह्मोवाच । एवं तु जल्पतोर्ब्रह्मन् गताः प्राणास्ततो नृपः ।
१२३.७७/२अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम् ॥ १२३.७७॥
१२३.७८/१ततो जगाम नगरं दुःखितो नृपतिर्मुने ।
१२३.७८/२वसिष्ठाय च तत् सर्वं न्यवेदयद् अशेषतः ॥ १२३.७८॥
१२३.७९/१नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः ।
१२३.७९/२वसिष्ठोऽपि द्विजश्रेष्ठैः सम्मन्त्र्याह च निष्कृतिम् ॥ १२३.७९॥
१२३.८०/१वसिष्ठ उवाच । गालवं वामदेवं च जाबालिमथ कश्यपम् ।
१२३.८०/२एतान् अन्यान् समाहूय हयमेधाय यत्नतः ॥ १२३.८०॥
१२३.८१/१यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः ॥ १२३.८१॥
१२३.८२/१ब्रह्मोवाच । अकरोद् धयमेधांश्च राजा दशरथो द्विजैः ।
१२३.८२/२एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥ १२३.८२॥
१२३.८३/१आकाशवाण्युवाच । पूतं शरीरमभवद् राज्ञो दशरथस्य हि ।
१२३.८३/२व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः ।
१२३.८३/३ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति ॥ १२३.८३॥
१२३.८४/१ब्रह्मोवाच । ततो बहुतिथे काले ऋष्यशृङ्गान् मुनीश्वरात् ।
१२३.८४/२देवानां कार्यसिद्ध्यर्थं सुता आसन् सुरोपमाः ॥ १२३.८४॥
१२३.८५/१कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः ।
१२३.८५/२शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः ॥ १२३.८५॥
१२३.८६/१ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः ।
१२३.८६/२तं राजानम् ऋषिः प्राप्य विश्वामित्रः प्रजापतिः ॥ १२३.८६॥
१२३.८७/१रामं च लक्ष्मणं चापि अयाचत महामते ।
१२३.८७/२यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥ १२३.८७॥
१२३.८८/१चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत ॥ १२३.८८॥
१२३.८९/१राजोवाच । महता दैवयोगेन कथंचिद् वार्धके मुने ।
१२३.८९/२जातावानन्दसंदोह+ ।दायकौ मम बालकौ ॥ १२३.८९॥
१२३.९०/१सशरीरमिदं राज्यं दास्ये नैव सुताविमौ ॥ १२३.९०॥
१२३.९१/१ब्रह्मोवाच । वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति ॥ १२३.९१॥
१२३.९२/१वसिष्ठ उवाच । रघवः प्रार्थनाभङ्गं न राजन्
क्वापि शिक्षिताः ॥ १२३.९२॥
१२३.९३/१ब्रह्मोवाच । रामं च लक्ष्मणं चैव कथंचिद्
अवदन् नृपः ॥ १२३.९३॥
१२३.९४/१राजोवाच । विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम् ॥ १२३.९४॥
१२३.९५/१ब्रह्मोवाच । वदन्न् इति सुतौ सोष्णं निश्वसन् ग्लपिताधरः ।
१२३.९५/२पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत् ॥ १२३.९५॥
१२३.९६/१तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः ।
१२३.९६/२जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥ १२३.९६॥
१२३.९७/१ततः प्रहृष्टः स मुनिर्मुदा प्रादात् तदोभयोः ।
१२३.९७/२माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥ १२३.९७॥
१२३.९८/१शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् ।
१२३.९८/२अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥ १२३.९८॥
१२३.९९/१सर्वविद्यामथावाप्य उभौ तौ रामलक्ष्मणौ ।
१२३.९९/२वनौकसां हितार्थाय जघ्नतुस्ताटकां वने ॥ १२३.९९॥
१२३.१००/१अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः ।
१२३.१००/२यज्ञविध्वंसनायाताञ् जघ्नतुस्तत्र राक्षसान् ॥ १२३.१००॥
१२३.१०१/१कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम् ।
१२३.१०१/२ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥ १२३.१०१॥
१२३.१०२/१पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात् ।
१२३.१०२/२चित्रामदर्शयत् तत्र राजमध्ये नृपात्मजः ॥ १२३.१०२॥
१२३.१०३/१रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम् ।
१२३.१०३/२तत्प्रीतो जनकः प्रादात् सीतां लक्ष्मीमयोनिजाम् ॥ १२३.१०३॥
१२३.१०४/१तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च ।
१२३.१०४/२शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः ॥ १२३.१०४॥
१२३.१०५/१राजा दशरथः श्रीमान् विवाहमकरोन् मुने ।
१२३.१०५/२ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥ १२३.१०५॥
१२३.१०६/१नृपतौ सर्वलोकानामनुमत्या गुरोरपि ।
१२३.१०६/२मन्थरात्मकदुर्दैव+ ।प्रेरिता मत्सराकुला ॥ १२३.१०६॥
१२३.१०७/१कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा ।
१२३.१०७/२भरतस्य च तद् राज्यं राजा नैव च दत्तवान् ॥ १२३.१०७॥
१२३.१०८/१पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम् ।
१२३.१०८/२विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥ १२३.१०८॥
१२३.१०९/१सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः ।
१२३.१०९/२तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते ॥ १२३.१०९॥
१२३.११०/१समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते ।
१२३.११०/२तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥ १२३.११०॥
१२३.१११/१दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् ।
१२३.१११/२तदा दशरथो राजा प्राणांस्तत्याज दुःखितः ॥ १२३.१११॥
१२३.११२/१कृतकर्मविपाकेन राजा नीतो यमानुगैः ।
१२३.११२/२तस्मै राज्ञे महाप्राज्ञ यावत् स्थावरजङ्गमे ॥ १२३.११२॥
१२३.११३/१यमसद्मन्यनेकानि तामिस्रादीनि नारद ।
१२३.११३/२नरकाण्यथ घोराणि भीषणानि बहूनि च ॥ १२३.११३॥
१२३.११४/१तत्र क्षिप्तस्तदा राजा नरकेषु पृथक् पृथक् ।
१२३.११४/२पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा ॥ १२३.११४॥
१२३.११५/१शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते ।
१२३.११५/२एवमादिषु घोरेषु नरकेषु स पच्यते ॥ १२३.११५॥
१२३.११६/१रामोऽपि गच्छन्न् अध्वानं चित्रकूटमथागमत् ।
१२३.११६/२तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥ १२३.११६॥
१२३.११७/१पुनः स दक्षिणामाशामाक्रामद् दण्डकं वनम् ।
१२३.११७/२विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम् ॥ १२३.११७॥
१२३.११८/१प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् ।
१२३.११८/२तद्भयाद् ऋषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान् ॥ १२३.११८॥
१२३.११९/१विचरन् दण्डकारण्ये ऋषिसेव्यमथाकरोत् ।
१२३.११९/२तत्रेदं वृत्तमाख्यास्ये शृणु नारद यत्नतः ॥ १२३.११९॥
१२३.१२०/१तावच्छनैस्त्वगाद् रामो यावद् योजनपञ्चकम् ।
१२३.१२०/२गौतमीं समनुप्राप्तो राजापि नरके स्थितः ॥ १२३.१२०॥
१२३.१२१/१यमः स्वकिंकरान् आह रामो दशरथात्मजः ।
१२३.१२१/२गौतमीमभितो याति पितरं तस्य धीमतः ॥ १२३.१२१॥
१२३.१२२/१आकर्षन्त्वथ राजानं नरकान् नात्र संशयः ।
१२३.१२२/२उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम् ॥ १२३.१२२॥
१२३.१२३/१रामस्तावत् तस्य पिता नरके नैव पच्यताम् ।
१२३.१२३/२यद् एतन् मद्वचः पुण्यं न कुर्युर्यदि दूतकाः ॥ १२३.१२३॥
१२३.१२४/१ततश्च नरके घोरे यूयं सर्वे निमज्जथ ।
१२३.१२४/२या काप्युक्ता परा शक्तिः शिवस्य समवायिनी ॥ १२३.१२४॥
१२३.१२५/१तामेव गौतमीं सन्तो वदन्त्यम्भःस्वरूपिणीम् ।
१२३.१२५/२हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥ १२३.१२५॥
१२३.१२६/१निस्तीर्यते न केनापि तद् अतिक्रमजं त्वघम् ।
१२३.१२६/२पापिनोऽप्यात्मजः कश्चिद् यश्च गङ्गामनुस्मरेत् ॥ १२३.१२६॥
१२३.१२७/१सोऽनेकदुर्गनिरयान् निर्गतो मुक्ततां व्रजेत् ।
१२३.१२७/२किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः ॥ १२३.१२७॥
१२३.१२८/१यस्यासौ नरके पक्तुं न कैरपि हि शक्यते ।
१२३.१२८/२दक्षिणाशापतेर्वाक्यं निशम्य यमकिंकराः ॥ १२३.१२८॥
१२३.१२९/१नरके पच्यमानं तमयोध्याधिपतिं नृपम् ।
१२३.१२९/२उत्तार्य घोरनरकाद् वचनं चेदमब्रुवन् ॥ १२३.१२९॥
१२३.१३०/१यमकिंकरा ऊचुः । धन्योऽसि नृपशार्दूल यस्य पुत्रः स तादृशः ।
१२३.१३०/२इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥ १२३.१३०॥
१२३.१३१/१ब्रह्मोवाच । स विश्रान्तः शनै राजा किंकरान्
वाक्यमब्रवीत् ॥ १२३.१३१॥
१२३.१३२/१राजोवाच । नरकेष्वथ घोरेषु पच्यमानः पुनः पुनः ।
१२३.१३२/२कथं त्वाकर्षितः शीघ्रं तन् मे वक्तुमिहार्हथ ॥ १२३.१३२॥
१२३.१३३/१ब्रह्मोवाच । तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत् ॥ १२३.१३३॥
१२३.१३४/१यमदूत उवाच । वेदशास्त्रपुराणादावेतद् गोप्यं प्रयत्नतः ।
१२३.१३४/२प्रकाश्यते तद् अपि ते सामर्थ्यं पुत्रतीर्थयोः ॥ १२३.१३४॥
१२३.१३५/१रामस्तव सुतः श्रीमान् गौतमीतीरमागतः ।
१२३.१३५/२तस्मात् त्वं नरकाद् घोराद् आकृष्टोऽसि नरोत्तम ॥ १२३.१३५॥
१२३.१३६/१यदि त्वां तत्र गौतम्यां स्मरेद् रामः सलक्ष्मणः ।
१२३.१३६/२स्नानं कृत्वाथ पिण्डादि ते दद्यात् स नृपोत्तम ।
१२३.१३६/३ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥ १२३.१३६॥
१२३.१३७/१राजोवाच । तत्र गत्वा भवद्वाक्यमाख्यास्ये स्वसुतौ प्रति ।
१२३.१३७/२भवन्त एव शरणमनुज्ञां दातुमर्हथ ॥ १२३.१३७॥
१२३.१३८/१ब्रह्मोवाच । तद् राजवचनं श्रुत्वा कृपया यमकिंकराः ।
१२३.१३८/२आज्ञां च प्रददुस्तस्मै राजा प्रागात् सुतौ प्रति ॥ १२३.१३८॥
१२३.१३९/१भीषणं यातनादेहमापन्नो निःश्वसन् मुहुः ।
१२३.१३९/२निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन् ॥ १२३.१३९॥
१२३.१४०/१स्वेच्छया विहरन् गङ्गामाससाद च राघवः ।
१२३.१४०/२गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च ॥ १२३.१४०॥
१२३.१४१/१सीतया सह वैदेह्या सस्नौ चैव यथाविधि ।
१२३.१४१/२नैव तत्राभवद् भोज्यं भक्ष्यं वा गौतमीतटे ॥ १२३.१४१॥
१२३.१४२/१तद्दिने तत्र वसतां गौतमीतीरवासिनाम् ।
१२३.१४२/२तद् दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत् ॥ १२३.१४२॥
१२३.१४३/१लक्ष्मण उवाच । पुत्रौ दशरथस्यावां तवापि बलमीदृशम् ।
१२३.१४३/२नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम् ॥ १२३.१४३॥
१२३.१४४/१राम उवाच । भ्रातर्यद् विहितं कर्म नैव तच्चान्यथा भवेत् ।
१२३.१४४/२पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः ॥ १२३.१४४॥
१२३.१४५/१सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ।
१२३.१४५/२अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न ॥ १२३.१४५॥
१२३.१४६/१ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः ।
१२३.१४६/२स्नात्वा देवान् अथाभ्यर्च्य होतव्यश्च हुताशनः ।
१२३.१४६/३ततः स्वसमये देवो विधास्यत्यशनं तु नौ ॥ १२३.१४६॥
१२३.१४७/१ब्रह्मोवाच । भ्रात्रोः संजल्पतोरेवं पश्यतोः कर्मणो गतिम् ।
१२३.१४७/२शनैर्दशरथो राजा तं देशमुपजग्मिवान् ॥ १२३.१४७॥
१२३.१४८/१तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
१२३.१४८/२धनुराकृष्य कोपेन रक्षस्त्वं दानवोऽथवा ॥ १२३.१४८॥
१२३.१४९/१आसन्नं च पुनर्दृष्ट्वा याहि याह्यत्र पुण्यभाक् ।
१२३.१४९/२रामो दाशरथी राजा धर्मभाक् पश्य वर्तते ॥ १२३.१४९॥
१२३.१५०/१गुरुभक्तः सत्यसंधो देवब्राह्मणसेवकः ।
१२३.१५०/२त्रैलोक्यरक्षादक्षोऽसौ वर्तते यत्र राघवः ॥ १२३.१५०॥
१२३.१५१/१न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम् ।
१२३.१५१/२यदि प्रविशसे पाप ततो वधमवाप्स्यसि ॥ १२३.१५१॥
१२३.१५२/१तत् पुत्रवचनं श्रुत्वा शनैराहूय वाचया ।
१२३.१५२/२उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः ।
१२३.१५२/३मुहुरन्तर्विनिध्यायन् गतिं दुष्कृतकर्मणः ॥ १२३.१५२॥
१२३.१५३/१राजोवाच । अहं दशरथो राजा पुत्रौ मे शृणुतं वचः ।
१२३.१५३/२तिसृभिर्ब्रह्महत्याभिर्वृतोऽहं दुःखमागतः ।
१२३.१५३/३छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥ १२३.१५३॥
१२३.१५४/१ब्रह्मोवाच । ततः कृताञ्जली रामः सीतया लक्ष्मणेन च ।
१२३.१५४/२भूमौ प्रणेमुस्ते सर्वे वचनं चैतद् अब्रुवन् ॥ १२३.१५४॥
१२३.१५५/१सीतारामलक्ष्मणा ऊचुः । कस्येदं कर्मणस्तात फलं
नृपतिसत्तम ॥ १२३.१५५॥
१२३.१५६/१ब्रह्मोवाच । स च प्राह यथावृत्तं ब्रह्महत्यात्रयं
तथा ॥ १२३.१५६॥
१२३.१५७/१राजोवाच । निष्कृतिर्ब्रह्महन्तृणां पुत्रौ क्वापि न
विद्यते ॥ १२३.१५७॥
१२३.१५८/१ब्रह्मोवाच । ततो दुःखेन महता *आवृताः सर्वे भुवं गताः ।
१२३.१५८/२राजानं वनवासं च मातरं पितरं तथा ॥ १२३.१५८॥
१२३.१५९/१दुःखागमं कर्मगतिं नरके पातनं तथा ।
१२३.१५९/२एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः ।
१२३.१५९/३विसंज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत् ॥ १२३.१५९॥
१२३.१६०/१सीतोवाच । न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे ।
१२३.१६०/२चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम् ॥ १२३.१६०॥
१२३.१६१/१शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते ।
१२३.१६१/२व्यामोहमाप्नुवन्तीह न कदाचिद् विचक्षणाः ॥ १२३.१६१॥
१२३.१६२/१किमनेनात्र दुःखेन निष्फलेन जनेश्वर ।
१२३.१६२/२देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा ॥ १२३.१६२॥
१२३.१६३/१पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः ।
१२३.१६३/२अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम् ॥ १२३.१६३॥
१२३.१६४/१आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् ।
१२३.१६४/२द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरां भवान् ॥ १२३.१६४॥
१२३.१६५/१ब्रह्मोवाच । एतद् धर्मयुतं वाक्यं सीतया भाषितं दृढम् ।
१२३.१६५/२तथेति चाहतुरुभौ ततो दशरथोऽब्रवीत् ॥ १२३.१६५॥
१२३.१६६/१दशरथ उवाच । त्वं हि ब्रह्मविदः कन्या जनकस्य त्वयोनिजा ।
१२३.१६६/२भार्या रामस्य किं चित्रं यद् युक्तमनुभाषसे ॥ १२३.१६६॥
१२३.१६७/१न कोऽपि भवतां किंतु श्रमः स्वल्पोऽपि विद्यते ।
१२३.१६७/२गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥ १२३.१६७॥
१२३.१६८/१तिसृभिर्ब्रह्महत्याभिर्मुक्तो यामि त्रिविष्टपम् ।
१२३.१६८/२त्वया जनकसम्भूते स्वकुलोचितमीरितम् ॥ १२३.१६८॥
१२३.१६९/१प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः ।
१२३.१६९/२गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १२३.१६९॥
१२३.१७०/१ब्रह्मोवाच । तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा ।
१२३.१७०/२नैवापश्यद् भक्ष्यभोज्यं ततो लक्ष्मणमब्रवीत् ॥ १२३.१७०॥
१२३.१७१/१लक्ष्मणः प्राह विनयाद् इङ्गुद्याश्च फलानि च ।
१२३.१७१/२सन्ति तेषां च पिण्याकमानीतं तत्क्षणाद् इव ॥ १२३.१७१॥
१२३.१७२/१पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः ।
१२३.१७२/२मनः कुर्वंस्ततो रामो मन्दोऽभूद् दुःखितस्तदा ॥ १२३.१७२॥
१२३.१७३/१दैवी वाग् अभवत् तत्र दुःखं त्यज नृपात्मज ।
१२३.१७३/२राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किंचनो भवान् ॥ १२३.१७३॥
१२३.१७४/१अशठो धर्मनिरतो न शोचितुमिहार्हसि ।
१२३.१७४/२वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥ १२३.१७४॥
१२३.१७५/१श्रूयते सर्वशास्त्रेषु यद् राम शृणु यत्नतः ।
१२३.१७५/२यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ॥ १२३.१७५॥
१२३.१७६/१पिण्डे निपतिते भूमौ नापश्यत् पितरं तदा ।
१२३.१७६/२शवं च पतितं यत्र शवतीर्थमनुत्तमम् ॥ १२३.१७६॥
१२३.१७७/१महापातकसंघात+ ।विघातकृद् अनुस्मृतिः ।
१२३.१७७/२तत्रागच्छंल्लोकपाला रुद्रादित्यास्तथाश्विनौ ॥ १२३.१७७॥
१२३.१७८/१स्वं स्वं विमानमारूढास्तेषां मध्येऽतिदीप्तिमान् ।
१२३.१७८/२विमानवरमारूढः स्तूयमानश्च किंनरैः ॥ १२३.१७८॥
१२३.१७९/१आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता ।
१२३.१७९/२तमदृष्ट्वा स्वपितरं देवान् दृष्ट्वा विमानिनः ॥ १२३.१७९॥
१२३.१८०/१कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत ।
१२३.१८०/२इति दिव्याभवद् वाणी रामं सम्बोध्य सीतया ॥ १२३.१८०॥
१२३.१८१/१तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः ।
१२३.१८१/२वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम् ॥ १२३.१८१॥
१२३.१८२/१देवा ऊचुः । धन्योऽसि कृतकृत्योऽसि राम स्वर्गं गतः पिता ।
१२३.१८२/२नानानिरयसंघातात् पूर्वजान् उद्धरेत् तु यः ॥ १२३.१८२॥
१२३.१८३/१स धन्योऽलंकृतं तेन कृतिना भुवनत्रयम् ।
१२३.१८३/२एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥ १२३.१८३॥
१२३.१८४/१सर्वसम्पत्तियुक्तोऽपि पापी दग्धद्रुमोपमः ।
१२३.१८४/२निष्किंचनोऽपि सुकृती दृश्यते चन्द्रमौलिवत् ॥ १२३.१८४॥
१२३.१८५/१ब्रह्मोवाच । दृष्ट्वाब्रवीत् सुतं राजा
आशीर्भिरभिनन्द्य च ॥ १२३.१८५॥
१२३.१८६/१राजोवाच । कृतकृत्योऽसि भद्रं ते तारितोऽहं त्वयानघ ।
१२३.१८६/२धन्यः स पुत्रो लोकेऽस्मिन् पितृणां यस्तु तारकः ॥ १२३.१८६॥
१२३.१८७/१ब्रह्मोवाच । ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये ।
१२३.१८७/२रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् ।
१२३.१८७/३ततस्तद्वचनं श्रुत्वा रामस्तान् अब्रवीत् सुरान् ॥ १२३.१८७॥
१२३.१८८/१राम उवाच । गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते ॥ १२३.१८८॥
१२३.१८९/१देवा ऊचुः । नदी न गङ्गया तुल्या न त्वया सदृशः सुतः ।
१२३.१८९/२न शिवेन समो देवो न तारेण समो मनुः ॥ १२३.१८९॥
१२३.१९०/१त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम् ।
१२३.१९०/२तारिताः पितरो राम त्वया पुत्रेण मानद ।
१२३.१९०/३गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥ १२३.१९०॥
१२३.१९१/१ब्रह्मोवाच । तद् देववचनाद् धृष्टः सीतया लक्ष्मणाग्रजः ।
१२३.१९१/२तद् दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत् ॥ १२३.१९१॥
१२३.१९२/१राम उवाच । अहो गङ्गाप्रभावोऽयं त्रैलोक्ये नोपमीयते ।
१२३.१९२/२वयं धन्या यतो गङ्गा दृष्टास्माभिस्त्रिपावनी ॥ १२३.१९२॥
१२३.१९३/१ब्रह्मोवाच । हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् ।
१२३.१९३/२तं षोडशभिरीशानमुपचारैः प्रयत्नतः ॥ १२३.१९३॥
१२३.१९४/१सम्पूज्यावरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम् ।
१२३.१९४/२कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव शंकरम् ॥ १२३.१९४॥
१२३.१९५/१राम उवाच । नमामि शम्भुं पुरुषं पुराणम् ।
१२३.१९५/२नमामि सर्वज्ञमपारभावम् ।
१२३.१९५/३नमामि रुद्रं प्रभुमक्षयं तम् ।
१२३.१९५/४नमामि शर्वं शिरसा नमामि ॥ १२३.१९५॥
१२३.१९६/१नमामि देवं परमव्ययं तम् ।
१२३.१९६/२उमापतिं लोकगुरुं नमामि ।
१२३.१९६/३नमामि दारिद्र्यविदारणं तम् ।
१२३.१९६/४नमामि रोगापहरं नमामि ॥ १२३.१९६॥
१२३.१९७/१नमामि कल्याणमचिन्त्यरूपम् ।
१२३.१९७/२नमामि विश्वोद्भवबीजरूपम् ।
१२३.१९७/३नमामि विश्वस्थितिकारणं तम् ।
१२३.१९७/४नमामि संहारकरं नमामि ॥ १२३.१९७॥
१२३.१९८/१नमामि गौरीप्रियमव्ययं तम् ।
१२३.१९८/२नमामि नित्यं क्षरमक्षरं तम् ।
१२३.१९८/३नमामि चिद्रूपममेयभावम् ।
१२३.१९८/४त्रिलोचनं तं शिरसा नमामि ॥ १२३.१९८॥
१२३.१९९/१नमामि कारुण्यकरं भवस्य ।
१२३.१९९/२भयंकरं वापि सदा नमामि ।
१२३.१९९/३नमामि दातारमभीप्सितानाम् ।
१२३.१९९/४नमामि सोमेशमुमेशमादौ ॥ १२३.१९९॥
१२३.२००/१नमामि वेदत्रयलोचनं तम् ।
१२३.२००/२नमामि मूर्तित्रयवर्जितं तम् ।
१२३.२००/३नमामि पुण्यं सदसद्व्यतीतम् ।
१२३.२००/४नमामि तं पापहरं नमामि ॥ १२३.२००॥
१२३.२०१/१नमामि विश्वस्य हिते रतं तम् ।
१२३.२०१/२नमामि रूपाणि बहूनि धत्ते ।
१२३.२०१/३यो विश्वगोप्ता सदसत्प्रणेता ।
१२३.२०१/४नमामि तं विश्वपतिं नमामि ॥ १२३.२०१॥
१२३.२०२/१यज्ञेश्वरं सम्प्रति हव्यकव्यम् ।
१२३.२०२/२तथा गतिं लोकसदाशिवो यः ।
१२३.२०२/३आराधितो यश्च ददाति सर्वम् ।
१२३.२०२/४नमामि दानप्रियमिष्टदेवम् ॥ १२३.२०२॥
१२३.२०३/१नमामि सोमेश्वरमस्वतन्त्रम् ।
१२३.२०३/२उमापतिं तं विजयं नमामि ।
१२३.२०३/३नमामि विघ्नेश्वरनन्दिनाथम् ।
१२३.२०३/४पुत्रप्रियं तं शिरसा नमामि ॥ १२३.२०३॥
१२३.२०४/१नमामि देवं भवदुःखशोक+ ।
१२३.२०४/२विनाशनं चन्द्रधरं नमामि ।
१२३.२०४/३नमामि गङ्गाधरमीशमीड्यम् ।
१२३.२०४/४उमाधवं देववरं नमामि ॥ १२३.२०४॥
१२३.२०५/१नमाम्यजादीशपुरंदरादि+ ।
१२३.२०५/२सुरासुरैरर्चितपादपद्मम् ।
१२३.२०५/३नमामि देवीमुखवादनानाम् ।
१२३.२०५/४ईक्षार्थमक्षित्रितयं य ऐच्छत् ॥ १२३.२०५॥
१२३.२०६/१पञ्चामृतैर्गन्धसुधूपदीपैर्।
१२३.२०६/२विचित्रपुष्पैर्विविधैश्च मन्त्रैः ।
१२३.२०६/३अन्नप्रकारैः सकलोपचारैः ।
१२३.२०६/४सम्पूजितं सोममहं नमामि ॥ १२३.२०६॥
१२३.२०७/१ब्रह्मोवाच । ततः स भगवान् आह रामं शम्भुः सलक्ष्मणम् ।
१२३.२०७/२वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम् ॥ १२३.२०७॥
१२३.२०८/१राम उवाच । स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम ।
१२३.२०८/२तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥ १२३.२०८॥
१२३.२०९/१येषां च पितरः शम्भो पतिता नरकार्णवे ।
१२३.२०९/२तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम् ॥ १२३.२०९॥
१२३.२१०/१जन्मप्रभृति पापानि मनोवाक्कायिकं त्वघम् ।
१२३.२१०/२अत्र तु स्नानमात्रेण तत् सद्यो नाशमाप्नुयात् ॥ १२३.२१०॥
१२३.२११/१अत्र ये भक्तितः शम्भो ददत्यर्थिभ्य अण्वपि ।
१२३.२११/२सर्वं तद् अक्षयं शम्भो दातृणां फलकृद् भवेत् ॥ १२३.२११॥
१२३.२१२/१ब्रह्मोवाच । एवमस्त्विति तं रामं शंकरो हृषितोऽब्रवीत् ।
१२३.२१२/२गते तस्मिन् सुरश्रेष्ठे रामोऽप्यनुचरैः सह ॥ १२३.२१२॥
१२३.२१३/१गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात् ।
१२३.२१३/२ततः प्रभृति तत् तीर्थं रामतीर्थमुदाहृतम् ॥ १२३.२१३॥
१२३.२१४/१दयालोरपतत् तत्र लक्ष्मणस्य कराच्छरः ।
१२३.२१४/२तद् बाणतीर्थमभवत् सर्वापद्विनिवारणम् ॥ १२३.२१४॥
१२३.२१५/१यत्र सौमित्रिणा स्नानं शंकरस्यार्चनं कृतम् ।
१२३.२१५/२तत् तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम् ॥ १२३.२१५॥
१२३.२१६/१नानाविधाशेषपाप+ ।संघनिर्मूलनक्षमम् ।
१२३.२१६/२यद् अङ्घ्रिसंगाद् अभवद् गङ्गा त्रैलोक्यपावनी ॥ १२३.२१६॥
१२३.२१७/१स यत्र स्नानमकरोत् तद् वैशिष्ट्यं किमुच्यते ।
१२३.२१७/२तद् रामतीर्थसदृशं तीर्थं क्वापि न विद्यते ॥ १२३.२१७॥
१२४.१/१ब्रह्मोवाच । पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तद् उच्यते ।
१२४.१/२सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेरपि ॥ १२४.१॥
१२४.२/१तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद ।
१२४.२/२दितेः पुत्राश्च दनुजाः परिक्षीणा यदाभवन् ।
१२४.२/३अदितेस्तु सुता ज्येष्ठाः सर्वभावेन नारद ॥ १२४.२॥
१२४.३/१तदा दितिः पुत्रवियोगदुःखात् ।
१२४.३/२संस्पर्धमाना दनुमाजगाम ॥ १२४.३॥
१२४.४/१दितिरुवाच । क्षीणाः सुता आवयोरेव भद्रे ।
१२४.४/२किं कुर्महे कर्म लोके गरीयः ।
१२४.४/३पश्यादितेर्वंशमभिन्नमुत्तमम् ।
१२४.४/४सौराज्ययुक्तं यशसा जयश्रिया ॥ १२४.४॥
१२४.५/१जितारिमभ्युन्नतकीर्तिधर्मम् ।
१२४.५/२मच्चित्तसंहर्षविनाशदक्षम् ।
१२४.५/३समानभर्तृत्वसमानधर्मे ।
१२४.५/४समानगोत्रेऽपि समानरूपे ॥ १२४.५॥
१२४.६/१न जीवयेयं श्रियमुन्नतिं च ।
१२४.६/२जीर्णास्मि दृष्ट्वा त्वदितिप्रसूतान् ।
१२४.६/३कामप्यवस्थामनुयामि दुःस्था ।
<124।6/4>ऽदितेर्विलोक्याथ परां समृद्धिम् ।
१२४.६/५दावप्रवेशोऽपि सुखाय नूनम् ।
१२४.६/६स्वप्नेऽप्यवेक्ष्या न सपत्नलक्ष्मीः ॥ १२४.६॥
१२४.७/१ब्रह्मोवाच । एवं ब्रुवाणामतिदीनवक्त्राम् ।
१२४.७/२विनिश्वसन्तीं परमेष्ठिपुत्रः ।
१२४.७/३कृताभिपूजो विगतश्रमस्ताम् ।
१२४.७/४स सान्त्वयन्न् आह मनोभिरामाम् ॥ १२४.७॥
१२४.८/१परमेष्ठिपुत्र उवाच । खेदो न कार्यः समभीप्सितं यत् ।
१२४.८/२तत् प्राप्यते पुण्यत एव भद्रे ।
१२४.८/३तत्साधनं वेत्ति महानुभावः ।
१२४.८/४प्रजापतिस्ते स तु वक्ष्यतीति ॥ १२४.८॥
१२४.९/१साध्व्येतत् सर्वभावेन प्रश्रयावनता सती ॥ १२४.९॥
१२४.१०/१ब्रह्मोवाच । एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥ १२४.१०॥
१२४.११/१दनुरुवाच । भर्तारं कश्यपं भद्रे तोषयस्व निजैर्गुणैः ।
१२४.११/२तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि ॥ १२४.११॥
१२४.१२/१ब्रह्मोवाच । तथेत्युक्त्वा सर्वभावैस्तोषयामास कश्यपम् ।
१२४.१२/२दितिं प्रोवाच भगवान् कश्यपोऽथ प्रजापतिः ॥ १२४.१२॥
१२४.१३/१कश्यप उवाच । किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥ १२४.१३॥
१२४.१४/१ब्रह्मोवाच । दितिरप्याह भर्तारं पुत्रं बहुगुणान्वितम् ।
१२४.१४/२जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ १२४.१४॥
१२४.१५/१येन जातेन लोकेऽस्मिन् भवेयं वीरपुत्रिणी ।
१२४.१५/२तं वरेयं सुरपितरित्याह विनयान्विता ॥ १२४.१५॥
१२४.१६/१कश्यप उवाच । उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् ।
१२४.१६/२तत आगत्य ते गर्भमाधास्ये यन् मनोगतम् ।
१२४.१६/३निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥ १२४.१६॥
१२४.१७/१ब्रह्मोवाच । भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा ।
१२४.१७/२उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥ १२४.१७॥
१२४.१८/१तीर्थसेवापात्रदान+ ।व्रतचर्यादिवर्जिताः ।
१२४.१८/२कथमासादयिष्यन्ति प्राणिनोऽत्र मनोरथान् ॥ १२४.१८॥
१२४.१९/१ततश्चीर्णे व्रते तस्यां दित्यां गर्भमधारयत् ।
१२४.१९/२पुनः कान्तामथोवाच कश्यपस्तां दितिं रहः ॥ १२४.१९॥
१२४.२०/१कश्यप उवाच । न प्राप्नुवन्ति यत्कामान् मुनयोऽपि तपस्स्थिताः ।
१२४.२०/२यथाविहितकर्माङ्ग+ ऽवज्ञया तच्छुचिस्मिते ॥ १२४.२०॥
१२४.२१/१निन्दितं च न कर्तव्यं संध्ययोरुभयोरपि ।
१२४.२१/२न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥ १२४.२१॥
१२४.२२/१भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा ।
१२४.२२/२संध्याकाले न कर्तव्यं भूतसंघसमाकुले ॥ १२४.२२॥
१२४.२३/१सान्तर्धानं सदा कार्यं हसितं तु विशेषतः ।
१२४.२३/२गृहान्तदेशे संध्यासु न स्थातव्यं कदाचन ॥ १२४.२३॥
१२४.२४/१मुशलोलूखलादीनि शूर्पपीठपिधानकम् ।
१२४.२४/२नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥ १२४.२४॥
१२४.२५/१उदक्षीर्षं तु शयनं न संध्यासु विशेषतः ।
१२४.२५/२वक्तव्यं नानृतं किंचिन् नान्यगेहाटनं तथा ॥ १२४.२५॥
१२४.२६/१कान्ताद् अन्यो न वीक्ष्यस्तु प्रयत्नेन नरः क्वचित् ।
१२४.२६/२इत्यादिनियमैर्युक्ता यदि त्वमनुवर्तसे ।
१२४.२६/३ततस्ते भविता पुत्रस्त्रैलोक्यैश्वर्यभाजनम् ॥ १२४.२६॥
१२४.२७/१ब्रह्मोवाच । तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् ।
१२४.२७/२गतश्च कश्यपो ब्रह्मन्न् इतश्चेतः सुरान् प्रति ॥ १२४.२७॥
१२४.२८/१दितेर्गर्भोऽपि ववृधे बलवान् पुण्यसम्भवः ।
१२४.२८/२एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥ १२४.२८॥
१२४.२९/१इन्द्रस्य सख्यमभवन् मयेन प्रीतिपूर्वकम् ।
१२४.२९/२मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥ १२४.२९॥
१२४.३०/१दितेर्दनोरभिप्रायं व्रतं गर्भस्य वर्धनम् ।
१२४.३०/२तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥ १२४.३०॥
१२४.३१/१विश्वासैकगृहं मित्रमपायत्रासवर्जितम् ।
१२४.३१/२अर्जितं सुकृतं नाना+ ।विधं चेत् तद् अवाप्यते ॥ १२४.३१॥
१२४.३२/१नारद उवाच । नमुचेश्च प्रियो भ्राता मयो दैत्यो महाबलः ।
१२४.३२/२भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत् सुरेश्वर ॥ १२४.३२॥
१२४.३३/१ब्रह्मोवाच । दैत्यानामधिपश्चासीद् बलवान् नमुचिः पुरा ।
१२४.३३/२इन्द्रेण वैरमभवद् भीषणं लोमहर्षणम् ॥ १२४.३३॥
१२४.३४/१युद्धं हित्वा कदाचिद् भो गच्छन्तं तु शतक्रतुम् ।
१२४.३४/२दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतोऽन्वगात् ॥ १२४.३४॥
१२४.३५/१तमायान्तमभिप्रेक्ष्य शचीभर्ता भयातुरः ।
१२४.३५/२ऐरावतं गजं त्यक्त्वा इन्द्रः फेनमथाविशत् ॥ १२४.३५॥
१२४.३६/१स वज्रपाणिस्तरसा फेनेनैवाहनद् रिपुम् ।
१२४.३६/२नमुचिर्नाशमगमत् तस्य भ्राता मयोऽनुजः ॥ १२४.३६॥
१२४.३७/१भ्रातृहन्तृविनाशाय तपस्तेपे मयो महत् ।
१२४.३७/२मायां च विविधामाप देवानामतिभीषणाम् ॥ १२४.३७॥
१२४.३८/१वरांश्चावाप्य तपसा विष्णोर्लोकपरायणात् ।
१२४.३८/२दानशौण्डः प्रियालापी तदाभवद् असौ मयः ॥ १२४.३८॥
१२४.३९/१अग्नींश्च ब्राह्मणान् पूज्य जेतुमिन्द्रं कृतक्षणः ।
१२४.३९/२दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः ॥ १२४.३९॥
१२४.४०/१विदित्वा मघवा वायोर्मयं मायाविनं रिपुम् ।
१२४.४०/२उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तमभ्यगात् ।
१२४.४०/३शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः ॥ १२४.४०॥
१२४.४१/१इन्द्र उवाच । देहि दैत्यपते मह्यमर्थिनेऽपेक्षितं वरम् ।
१२४.४१/२त्वां श्रुत्वा दातृतिलकमागतोऽहं द्विजोत्तमः ॥ १२४.४१॥
१२४.४२/१ब्रह्मोवाच । मयोऽपि ब्राह्मणं मत्वाऽवदद् दत्तं मया तव ।
१२४.४२/२विचारयन्ति कृतिनो बह्वल्पं वा पुरोऽर्थिनि ॥ १२४.४२॥
१२४.४३/१इत्युक्ते तु हरिः प्राह सख्यमिच्छे ह्यहं त्वया ।
१२४.४३/२इन्द्रं मयः पुनः प्राह किमनेन द्विजोत्तम ॥ १२४.४३॥
१२४.४४/१न त्वया मम वैरं भोः स्वस्तीत्याह हरिर्मयम् ।
१२४.४४/२तत्त्वं वदेति स हरिर्दैत्येनोक्तः स्वकं वपुः ॥ १२४.४४॥
१२४.४५/१दर्शयामास दैत्याय सहस्राक्षं यद् उच्यते ।
१२४.४५/२ततः सविस्मयो दैत्यो मयो हरिमुवाच ह ॥ १२४.४५॥
१२४.४६/१मय उवाच । किमिदं वज्रपाणिस्त्वं तवायोग्या कृतिः सखे ॥ १२४.४६॥
१२४.४७/१ब्रह्मोवाच । परिष्वज्य विहस्याथ वृत्तमित्यब्रवीद् धरिः ।
१२४.४७/२केनापि साधयन्त्यत्र पण्डिताश्च समीहितम् ॥ १२४.४७॥
१२४.४८/१ततः प्रभृति शक्रस्य मयेन महती ह्यभूत् ।
१२४.४८/२सुप्रीतिर्मुनिशार्दूल मयो हरिहितः सदा ॥ १२४.४८॥
१२४.४९/१इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् ।
१२४.४९/२किं मे कृत्यमिति प्राह मयं मायाविनं हरिः ॥ १२४.४९॥
१२४.५०/१हरये च मयो मायां प्रादात् प्रीत्या तथा हरिः ।
१२४.५०/२प्राप्तः सम्प्रीतिमान् आह किं कृत्यं मय तद् वद ॥ १२४.५०॥
१२४.५१/१मय उवाच । अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः ।
१२४.५१/२तस्याः शुश्रूषणं कुर्वन्न् आस्स्व तत्र कियन्ति च ॥ १२४.५१॥
१२४.५२/१अहानि मघवंस्तस्या गर्भमाविश्य वज्रधृक् ।
१२४.५२/२वर्धमानं च तं छिन्धि यावद् वश्योऽथवा मृतिम् ।
१२४.५२/३प्राप्नोति तावद् वज्रेण ततो न भविता रिपुः ॥ १२४.५२॥
१२४.५३/१ब्रह्मोवाच । तथेत्युक्त्वा मयं पूज्य मघवान् एक एव हि ।
१२४.५३/२विनीतवत् तदा प्रायाद् दितिं मातरमञ्जसा ।
१२४.५३/३शुश्रूषमाणस्तां देवीं शक्रो दैतेयमातरम् ।
१२४.५३/४सा न जानाति तच्चित्तं शक्रस्य द्विषतो दितिः ॥ १२४.५३॥
१२४.५४/१गर्भे स्थितं तु यद् भूतं देवेन्द्रस्य विचेष्टितम् ।
१२४.५४/२अमोघं तन् मुनेस्तेजः कश्यपस्य दुरासदम् ॥ १२४.५४॥
१२४.५५/१ततः प्रगृह्य कुलिशं सहस्राक्षः पुरंदरः ।
१२४.५५/२अन्तःप्रवेशकामोऽसौ बहुकालं समावसन् ॥ १२४.५५॥
१२४.५६/१संध्योदक्षीर्षनिद्रां तामवेक्ष्य कुलिशायुधः ।
१२४.५६/२इदमन्तरमित्युक्त्वा दित्याः कुक्षिं समाविशत् ॥ १२४.५६॥
१२४.५७/१अन्तर्वर्ति च यद् भूतमिन्द्रं दृष्ट्वा धृतायुधम् ।
१२४.५७/२हन्तुकामं तदोवाच पुनः पुनरभीतवत् ॥ १२४.५७॥
१२४.५८/१गर्भस्थ उवाच । किं मां न रक्षसे वज्रिन् भ्रातरं
त्वं जिघांससि ।
१२४.५८/२नारणे मारणाद् अन्यत् पातकं विद्यते महत् ॥ १२४.५८॥
१२४.५९/१ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते ।
१२४.५९/२मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति ॥ १२४.५९॥
१२४.६०/१शतक्रतुः सहस्राक्षः शचीभर्ता पुरंदरः ।
१२४.६०/२वज्रपाणिः सुरेन्द्रस्त्वं ते न युक्तं भवेत् प्रभो ॥ १२४.६०॥
१२४.६१/१अथवा युद्धकामस्त्वं मम निष्क्रमणं यथा ।
१२४.६१/२तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर ॥ १२४.६१॥
१२४.६२/१कुमार्गे न प्रवर्तन्ते महान्तोऽपि विपद्गताः ।
१२४.६२/२अविद्यश्चाप्यशस्त्रश्च नैव चायुधसंग्रहः ॥ १२४.६२॥
१२४.६३/१त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे ।
१२४.६३/२कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥ १२४.६३॥
१२४.६४/१हत्वा वा किं तु जायेत यशो वा पुण्यमेव वा ।
१२४.६४/२वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम् ॥ १२४.६४॥
१२४.६५/१यदि वा युद्धभक्तिस्ते मयि भ्रातरसंशयम् ।
१२४.६५/२ततो मुष्टिं पुरस्कृत्य वज्रिणेऽसौ व्यवस्थितः ॥ १२४.६५॥
१२४.६६/१बालघाती ब्रह्मघाती तथा विश्वासघातकः ।
१२४.६६/२एवम्भूतं फलं शक्र कस्मान् मां हन्तुमुद्यतः ॥ १२४.६६॥
१२४.६७/१यस्याज्ञया सर्वमिदं वर्तते सचराचरम् ।
१२४.६७/२स हन्ता बालकं मां वै किं यशः किं तु पौरुषम् ॥ १२४.६७॥
१२४.६८/१ब्रह्मोवाच । एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः ।
१२४.६८/२क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥ १२४.६८॥
१२४.६९/१न ममार ततो दुःखाद् आहुस्ते भ्रातरो वयम् ।
१२४.६९/२पुनश्चिच्छेद तान् खण्डान् मा वधीरिति चाब्रुवन् ॥ १२४.६९॥
१२४.७०/१विश्वस्तान् मातृगर्भस्थान् निजभ्रातृञ् शतक्रतो ।
१२४.७०/२द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥ १२४.७०॥
१२४.७१/१एवं तु खण्डितं खण्डं हस्तपादादिजीववत् ।
१२४.७१/२निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥ १२४.७१॥
१२४.७२/१एकवद् बहुरूपाणि गर्भस्थानि शुभानि च ।
१२४.७२/२रुदन्ति बहुरूपाणि मा रुतेत्यब्रवीद् धरिः ॥ १२४.७२॥
१२४.७३/१ततस्ते मरुतो जाता बलवन्तो महौजसः ।
१२४.७३/२गर्भस्था एव तेऽन्योन्यमूचुः शक्रं गतभ्रमाः ॥ १२४.७३॥
१२४.७४/१अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता ।
१२४.७४/२अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥ १२४.७४॥
१२४.७५/१अस्मान् उपरि सस्नेहं मनस्ते विद्महे मुने ।
१२४.७५/२न यत् करोति श्वपचः प्रवृत्तस्तत्र वज्रधृक् ॥ १२४.७५॥
१२४.७६/१इत्येतद् वचनं श्रुत्वा अगस्त्योऽगात् ससम्भ्रमः ।
१२४.७६/२दितिं सम्बोधयामास व्यथितां गर्भवेदनात् ॥ १२४.७६॥
१२४.७७/१तत्रागस्त्यः शचीकान्तमशपत् कुपितो भृशम् ॥ १२४.७७॥
१२४.७८/१अगस्त्य उवाच । संग्रामे रिपवः पृष्ठं पश्येयुस्ते सदा हरे ।
१२४.७८/२जीवतामेव मरणमेतद् एव हि मानिनाम् ।
१२४.७८/३पृष्ठं पलायमानानां यत् पश्यन्त्यहिता रणे ॥ १२४.७८॥
१२४.७९/१ब्रह्मोवाच । सापि तं गर्भसंस्थं च शशापेन्द्रं
रुषा दितिः ॥ १२४.७९॥
१२४.८०/१दितिरुवाच । न पौरुषं कृतं तस्माच्छापोऽयं भविता तव ।
१२४.८०/२स्त्रीभिः परिभवं प्राप्य राज्यात् प्रभ्रश्यसे हरे ॥ १२४.८०॥
१२४.८१/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र कश्यपो वै प्रजापतिः ।
१२४.८१/२प्रायाच्च व्यथितोऽगस्त्याच्छ्रुत्वा शक्रविचेष्टितम् ।
१२४.८१/३गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥ १२४.८१॥
१२४.८२/१शक्र उवाच । अगस्त्याच्च दितेश्चैव बिभेमि क्रमितुं
बहिः ॥ १२४.८२॥
१२४.८३/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे प्राप्य कश्यपोऽपि प्रजापतिः ।
१२४.८३/२पुत्रकर्म च तद् दृष्ट्वा गर्भान्तःस्थितिमेव च ।
१२४.८३/३दितिशापमगस्त्यस्य श्रुत्वासौ दुःखितोऽभवत् ॥ १२४.८३॥
१२४.८४/१कश्यप उवाच । निर्गच्छ शक्र पुत्रैतत् पापं किं कृतवान् असि ।
१२४.८४/२न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥ १२४.८४॥
१२४.८५/१ब्रह्मोवाच । स निर्गतो वज्रपाणिः सव्रीडोऽधोमुखोऽब्रवीत् ।
१२४.८५/२तन्मूर्तिरेव वदति सदसच्चेष्टितं नृणाम् ॥ १२४.८५॥
१२४.८६/१शक्र उवाच । यद् उक्तमत्र श्रेयः स्यात्
तत्कर्ताहमसंशयम् ॥ १२४.८६॥
१२४.८७/१ब्रह्मोवाच । ततो ममान्तिकं प्रायाल्लोकपालैः स कश्यपः ।
१२४.८७/२सर्वं वृत्तमथोवाच पुनः पप्रच्छ मां सुरैः ॥ १२४.८७॥
१२४.८८/१दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् ।
१२४.८८/२गर्भस्थानां च सर्वेषामिन्द्रेण सह मित्रताम् ॥ १२४.८८॥
१२४.८९/१तेषामारोग्यतां चापि शचीभर्तुरदोषताम् ।
१२४.८९/२अगस्त्यदत्तशापस्य विशापत्वमपि क्रमात् ॥ १२४.८९॥
१२४.९०/१ततोऽहमब्रवं वाक्यं कश्यपं विनयान्वितम् ।
१२४.९०/२प्रजापते कश्यप त्वं वसुभिर्लोकपालकैः ॥ १२४.९०॥
१२४.९१/१इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद ।
१२४.९१/२तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥ १२४.९१॥
१२४.९२/१ततः शिवप्रसादेन सर्वं श्रेयो भवेद् इति ।
१२४.९२/२तथेत्युक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥ १२४.९२॥
१२४.९३/१स्नात्वा तुष्टाव देवेशमेभिरेव पदक्रमैः ।
१२४.९३/२सर्वदुःखापनोदाय द्वयमेव प्रकीर्तितम् ।
१२४.९३/३गौतमी वा पुण्यनदी शिवो वा करुणाकरः ॥ १२४.९३॥
१२४.९४/१कश्यप उवाच । पाहि शंकर देवेश पाहि लोकनमस्कृत ।
१२४.९४/२पाहि पावन वागीश पाहि पन्नगभूषण ॥ १२४.९४॥
१२४.९५/१पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण ।
१२४.९५/२पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर ॥ १२४.९५॥
१२४.९६/१पाहि त्रिपुरहन् नाथ पाहि सोमार्धभूषण ।
१२४.९६/२पाहि यज्ञेश सोमेश पाह्यभीष्टप्रदायक ॥ १२४.९६॥
१२४.९७/१पाहि कारुण्यनिलय पाहि मङ्गलदायक ।
१२४.९७/२पाहि प्रभव सर्वस्य पाहि पालक वासव ॥ १२४.९७॥
१२४.९८/१पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत ।
१२४.९८/२पाहि विश्वेश सिद्धेश पाहि पूर्ण नमोऽस्तु ते ॥ १२४.९८॥
१२४.९९/१घोरसंसारकान्तार+ ।संचारोद्विग्नचेतसाम् ।
१२४.९९/२शरीरिणां कृपासिन्धो त्वमेव शरणं शिव ॥ १२४.९९॥
१२४.१००/१ब्रह्मोवाच । एवं संस्तुवतस्तस्य पुरतोऽभूद् वृषध्वजः ।
१२४.१००/२वरेण च्छन्दयामास कश्यपं तं प्रजापतिम् ॥ १२४.१००॥
१२४.१०१/१कश्यपोऽपि शिवं प्राह विनीतवद् इदं वचः ।
१२४.१०१/२स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥ १२४.१०१॥
१२४.१०२/१शापं नाशं च पुत्राणां परस्परममित्रताम् ।
१२४.१०२/२पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च ।
१२४.१०२/३ततो वृषाकपिः प्राह दितिं चागस्त्यमेव च ॥ १२४.१०२॥
१२४.१०३/१शिव उवाच । मरुतो ये भवत्पुत्राः पञ्चाशच्चैकवर्जिताः ।
१२४.१०३/२सर्वे भवेयुः सुभगा भवेयुर्यज्ञभागिनः ॥ १२४.१०३॥
१२४.१०४/१इन्द्रेण सहिता नित्यं वर्तयेयुर्मुदान्विताः ॥ १२४.१०४॥
१२४.१०५/१इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् ।
१२४.१०५/२आदौ तु मरुतस्तत्र भवेयुर्नात्र संशयः ॥ १२४.१०५॥
१२४.१०६/१मरुद्भिः सहितं शक्रं न जयेयुः कदाचन ।
१२४.१०६/२जेता भवेत् सर्वदैव सुखं तिष्ठ प्रजापते ॥ १२४.१०६॥
१२४.१०७/१अद्यप्रभृति ये कुर्युरनयाद् भ्रातृघातनम् ।
१२४.१०७/२वंशच्छेदो विपत्तिश्च नित्यं तेषां भविष्यति ॥ १२४.१०७॥
१२४.१०८/१ब्रह्मोवाच । अगस्त्यम् ऋषिशार्दूलं शम्भुरप्याह
यत्नतः ॥ १२४.१०८॥
१२४.१०९/१शम्भुरुवाच । न कुर्यास्त्वं च कोपं च शचीभर्तरि वै मुने ।
१२४.१०९/२शमं व्रज महाप्राज्ञ मरुतस्त्वमरा भवन् ॥ १२४.१०९॥
१२४.११०/१ब्रह्मोवाच । दितिं चापि शिवः प्राह प्रसन्नो
वृषभध्वजः ॥ १२४.११०॥
१२४.१११/१शिव उवाच । एको भूयान् मम सुतस्त्रैलोक्यैश्वर्यमण्डितः ।
१२४.१११/२इत्येवं चिन्तयन्ती त्वं तपसे नियताभवः ॥ १२४.१११॥
१२४.११२/१तद् एतत् सफलं तेऽद्य पुत्रा बहुगुणाः शुभाः ।
१२४.११२/२अभवन् बलिनः शूरास्तस्माज्जहि मनोरुजम् ।
१२४.११२/३अन्यान् अपि वरान् सुभ्रूर्याचस्व गतसम्भ्रमा ॥ १२४.११२॥
१२४.११३/१ब्रह्मोवाच । तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः ।
१२४.११३/२कृताञ्जलिपुटा नत्वा शम्भुं वाक्यमथाब्रवीत् ॥ १२४.११३॥
१२४.११४/१दितिरुवाच । लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम् ।
१२४.११४/२विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित ॥ १२४.११४॥
१२४.११५/१तत्रापि रूपसम्पत्ति+ ।शौर्यविक्रमवान् भवेत् ।
१२४.११५/२एकोऽपि तनयः किंतु बहवश्चेत् किमुच्यते ॥ १२४.११५॥
१२४.११६/१मत्पुत्रास्ते प्रभावाच्च जेतारो बलिनो ध्रुवम् ।
१२४.११६/२इन्द्रस्य भ्रातरः सत्यं पुत्राश्चैव प्रजापतेः ॥ १२४.११६॥
१२४.११७/१अगस्त्यस्य प्रसादाच्च गङ्गायाश्च प्रसादतः ।
१२४.११७/२यत्र देव प्रसादस्ते तच्छुभं कोऽत्र संशयः ॥ १२४.११७॥
१२४.११८/१कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्यहम् ।
१२४.११८/२शृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥ १२४.११८॥
१२४.११९/१ब्रह्मोवाच । वदेत्युक्ता जगद्धात्रा दितिर्नम्राब्रवीद् इदम् ॥ १२४.११९॥
१२४.१२०/१दितिरुवाच । संततिप्रापणं लोके दुर्लभं सुरवन्दित ।
१२४.१२०/२विशेषेण प्रियं मातुः पुत्रश्चेत् किं नु वर्ण्यते ॥ १२४.१२०॥
१२४.१२१/१स चापि गुणवाञ् श्रीमान् आयुष्मान् यदि जायते ।
१२४.१२१/२किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥ १२४.१२१॥
१२४.१२२/१सर्वेषामपि भूतानामिहामुत्र फलैषिणाम् ।
१२४.१२२/२गुणवत्पुत्रसम्प्राप्तिरभीष्टा सर्वदैव च ।
१२४.१२२/३तस्माद् आप्लवनाद् अत्र क्रियतां समनुग्रहः ॥ १२४.१२२॥
१२४.१२३/१शंकर उवाच । महापापफलं चेदं यद् एतद् अनपत्यता ।
१२४.१२३/२स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥ १२४.१२३॥
१२४.१२४/१तद् अत्र स्नानमात्रेण तद्दोषो नाशमाप्नुयात् ।
१२४.१२४/२स्नात्वा तत्र फलं दद्यात् स्तोत्रमेतच्च यः पठेत् ॥ १२४.१२४॥
१२४.१२५/१स तु पुत्रमवाप्नोति त्रिमासस्नानदानतः ।
१२४.१२५/२अपुत्रिणी त्वत्र स्नानं कृत्वा पुत्रमवाप्नुयात् ॥ १२४.१२५॥
१२४.१२६/१ऋतुस्नाता तु या काचित् तत्र स्नाता सुतांल्लभेत् ।
१२४.१२६/२त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस्त्विह ॥ १२४.१२६॥
१२४.१२७/१फलैः स्नात्वा तु मां पश्येत् स्तोत्रेण स्तौति मां तथा ।
१२४.१२७/२तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥ १२४.१२७॥
१२४.१२८/१पितृदोषैश्च ये पुत्रं न लभन्ते दिते शृणु ।
१२४.१२८/२धनापहारदोषैश्च तत्रैषा निष्कृतिः परा ॥ १२४.१२८॥
१२४.१२९/१तत्रैषां पिण्डदानेन पितृणां प्रीणनेन च ।
१२४.१२९/२किंचित् सुवर्णदानेन ततः पुत्रो भवेद् ध्रुवम् ॥ १२४.१२९॥
१२४.१३०/१ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः ।
१२४.१३०/२श्राद्धकर्मविहीनाश्च तेषां वंशो न वर्धते ॥ १२४.१३०॥
१२४.१३१/१दोषिणां तु परेतानां गतिरेषा भवेद् इति ।
१२४.१३१/२संततिर्जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥ १२४.१३१॥
१२४.१३२/१संगमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् ।
१२४.१३२/२अनाद्यपारमजरं चित्सदानन्दविग्रहम् ॥ १२४.१३२॥
१२४.१३३/१देवर्षिसिद्धगन्धर्व+ ।योगीश्वरनिषेवितम् ।
१२४.१३३/२लिङ्गात्मकं महादेवं ज्योतिर्मयमनामयम् ॥ १२४.१३३॥
१२४.१३४/१पूजयित्वोपचारैश्च नित्यं भक्त्या यतव्रतः ।
१२४.१३४/२स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥ १२४.१३४॥
१२४.१३५/१यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् ।
१२४.१३५/२यः करोत्यत्र गङ्गायां स पुत्रशतमाप्नुयात् ॥ १२४.१३५॥
१२४.१३६/१सम्प्राप्य सकलान् कामान् अन्ते शिवपुरं व्रजेत् ।
१२४.१३६/२स्तोत्रेणानेन यः कश्चिद् यत्र क्वापि स्तवीति माम् ।
१२४.१३६/३षण्मासात् पुत्रमाप्नोति अपि वन्ध्याप्यशङ्कितम् ॥ १२४.१३६॥
१२४.१३७/१ब्रह्मोवाच । ततः प्रभृति तत् तीर्थं पुत्रतीर्थमुदाहृतम् ।
१२४.१३७/२तत्र तु स्नानदानाद्यैः सर्वकामान् अवाप्नुयात् ॥ १२४.१३७॥
१२४.१३८/१मरुद्भिः सह मैत्र्येण मित्रतीर्थं तद् उच्यते ।
१२४.१३८/२निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तद् उच्यते ॥ १२४.१३८॥
१२४.१३९/१ऐन्द्रीं श्रियं यत्र लेभे तत् तीर्थं कमलाभिधम् ।
१२४.१३९/२एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥ १२४.१३९॥
१२४.१४०/१सर्वं भविष्यतीत्युक्त्वा शिवश्चान्तरधीयत ।
१२४.१४०/२कृतकृत्याश्च ते जग्मुः सर्व एव यथागतम् ।
१२४.१४०/३तीर्थानां पुण्यदं तत्र लक्षमेकं प्रकीर्तितम् ॥ १२४.१४०॥
१२५.१/१ब्रह्मोवाच । यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
१२५.१/२दृष्टादृष्टेष्टदं सर्व+ ।देवर्षिगणसेवितम् ॥ १२५.१॥
१२५.२/१तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ।
१२५.२/२अनुह्राद इति ख्यातः कपोतो बलवान् अभूत् ॥ १२५.२॥
१२५.३/१तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी ।
१२५.३/२मृत्योः पौत्रो ह्यनुह्रादो दौहित्री हेतिरेव च ॥ १२५.३॥
१२५.४/१कालेनाथ तयोः पुत्राः पौत्राश्चैव बभूविरे ।
१२५.४/२तस्य शत्रुश्च बलवान् उलूको नाम पक्षिराट् ॥ १२५.४॥
१२५.५/१तस्य पुत्राश्च पौत्राश्च आग्नेयास्ते बलोत्कटाः ।
१२५.५/२तयोश्च वैरमभवद् बहुकालं द्विजन्मनोः ॥ १२५.५॥
१२५.६/१गङ्गाया उत्तरे तीरे कपोतस्याश्रमोऽभवत् ।
१२५.६/२तस्याश्च दक्षिणे कूल उलूको नाम पक्षिराट् ॥ १२५.६॥
१२५.७/१वासं चक्रे तत्र पुत्रैः पौत्रैश्च द्विजसत्तम ।
१२५.७/२तयोश्च युद्धमभवद् बहुकालं विरुद्धयोः ॥ १२५.७॥
१२५.८/१पुत्रैः पौत्रैश्च वृतयोर्बलिनोर्बलिभिः सह ।
१२५.८/२उलूको वा कपोतो वा नैवाप्नोति जयाजयौ ॥ १२५.८॥
१२५.९/१कपोतो यममाराध्य मृत्युं पैतामहं तथा ।
१२५.९/२याम्यमस्त्रमवाप्याथ सर्वेभ्योऽप्यधिकोऽभवत् ॥ १२५.९॥
१२५.१०/१तथोलूकोऽग्निमाराध्य बलवान् अभवद् भृशम् ।
१२५.१०/२वरैरुन्मत्तयोर्युद्धमभवच्चातिभीषणम् ॥ १२५.१०॥
१२५.११/१तत्राग्नेयमुलूकोऽपि कपोतायास्त्रमाक्षिपत् ।
१२५.११/२कपोतोऽप्यथ पाशान् वै याम्यान् आक्षिप्य शत्रवे ॥ १२५.११॥
१२५.१२/१उलूकायाथ दण्डं च मृत्युपाशान् अवासृजत् ।
१२५.१२/२पुनस्तद् अभवद् युद्धं पुराडिबकयोर्यथा ॥ १२५.१२॥
१२५.१३/१हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तमन्तिके ।
१२५.१३/२पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला ॥ १२५.१३॥
१२५.१४/१अग्निना वेष्ट्यमानांश्च पुत्रान् दृष्ट्वा विशेषतः ।
१२५.१४/२सा गत्वा ज्वलनं हेतिस्तुष्टाव विविधोक्तिभिः ॥ १२५.१४॥
१२५.१५/१हेतिरुवाच । रूपं न दानं न परोक्षमस्ति ।
१२५.१५/२यस्यात्मभूतं च पदार्थजातम् ।
१२५.१५/३अश्नन्ति हव्यानि च येन देवाः ।
१२५.१५/४स्वाहापतिं यज्ञभुजं नमस्ये ॥ १२५.१५॥
१२५.१६/१मुखभूतं च देवानां देवानां हव्यवाहनम् ।
१२५.१६/२होतारं चापि देवानां देवानां दूतमेव च ॥ १२५.१६॥
१२५.१७/१तं देवं शरणं यामि आदिदेवं विभावसुम् ।
१२५.१७/२अन्तः स्थितः प्राणरूपो बहिश्चान्नप्रदो हि यः ।
१२५.१७/३यो यज्ञसाधनं यामि शरणं तं धनंजयम् ॥ १२५.१७॥
१२५.१८/१अग्निरुवाच । अमोघमेतद् अस्त्रं मे न्यस्तं युद्धे कपोतकि ।
१२५.१८/२यत्र विश्रमयेद् अस्त्रं तन् मे ब्रूहि पतिव्रते ॥ १२५.१८॥
१२५.१९/१कपोत्युवाच । मयि विश्रम्यतामस्त्रं न पुत्रे न च भर्तरि ।
१२५.१९/२सत्यवाग् भव हव्येश जातवेदो नमोऽस्तु ते ॥ १२५.१९॥
१२५.२०/१जातवेदा उवाच । तुष्टोऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते ।
१२५.२०/२तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्यहम् ॥ १२५.२०॥
१२५.२१/१आग्नेयमेतद् अस्त्रं मे न भर्तारं सुतान् अपि ।
१२५.२१/२न त्वां दहेत् ततो याहि सुखेन त्वं कपोतकि ॥ १२५.२१॥
१२५.२२/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र उलूकी ददृशे पतिम् ।
१२५.२२/२वेष्ट्यमानं याम्यपाशैर्यमदण्डेन ताडितम् ।
१२५.२२/३उलूकी दुःखिता भूत्वा यमं प्रायाद् भयातुरा ॥ १२५.२२॥
१२५.२३/१उलूक्युवाच । त्वद्भीता अनुद्रवन्ते जनास्- ।
१२५.२३/२त्वद्भीता ब्रह्मचर्यं चरन्ति ।
१२५.२३/३त्वद्भीताः साधु चरन्ति धीरास्- ।
१२५.२३/४त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ १२५.२३॥
१२५.२४/१त्वद्भीता अनाशकमाचरन्ति ।
१२५.२४/२ग्रामाद् अरण्यमभि यच्चरन्ति ।
१२५.२४/३त्वद्भीताः सौम्यतामाश्रयन्ते ।
१२५.२४/४त्वद्भीताः सोमपानं भजन्ते ।
१२५.२४/५त्वद्भीताश्चान्नगोदाननिष्ठास्- ।
१२५.२४/६त्वद्भीता ब्रह्मवादं वदन्ति ॥ १२५.२४॥
१२५.२५/१ब्रह्मोवाच । एवं ब्रुवत्यां तस्यां तामाह दक्षिणदिक्पतिः ॥ १२५.२५॥
१२५.२६/१यम उवाच । वरं वरय भद्रं ते दास्येऽहं मनसः
प्रियम् ॥ १२५.२६॥
१२५.२७/१ब्रह्मोवाच । यमस्येति वचः श्रुत्वा सा तमाह पतिव्रता ॥ १२५.२७॥
१२५.२८/१उलूक्युवाच । भर्ता मे वेष्टितः पाशैर्दण्डेनाभिहतस्तव ।
१२५.२८/२तस्माद् रक्ष सुरश्रेष्ठ पुत्रान् भर्तारमेव च ॥ १२५.२८॥
१२५.२९/१ब्रह्मोवाच । तद्वाक्यात् कृपया युक्तो यमः प्राह पुनः
पुनः ॥ १२५.२९॥
१२५.३०/१यम उवाच । पाशानां चापि दण्डस्य स्थानं वद
शुभानने ॥ १२५.३०॥
१२५.३१/१ब्रह्मोवाच । सा प्रोवाच यमं देवं मयि पाशास्त्वयेरिताः ।
१२५.३१/२आविशन्तु जगन्नाथ दण्डो मय्येव संविशेत् ।
१२५.३१/३ततः प्रोवाच भगवान् यमस्तां कृपया पुनः ॥ १२५.३१॥
१२५.३२/१यम उवाच । तव भर्ता च पुत्राश्च सर्वे जीवन्तु
विज्वराः ॥ १२५.३२॥
१२५.३३/१ब्रह्मोवाच । न्यवारयद् यमः पाशान् आग्नेयास्त्रं तु हव्यवाट् ।
१२५.३३/२कपोतोलूकयोश्चापि प्रीतिं वै चक्रतुः सुरौ ।
१२५.३३/३आहतुश्च द्विजन्मानौ व्रियतां वर ईप्सितः ॥ १२५.३३॥
१२५.३४/१पक्षिणावूचतुः । भवतोर्दर्शनं लब्धं वैरव्याजेन दुष्करम् ।
१२५.३४/२वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ ॥ १२५.३४॥
१२५.३५/१अथ देयो वरोऽस्माकं भवद्भ्यां प्रीतिपूर्वकम् ।
१२५.३५/२नात्मार्थमनुयाचावो दीयमानं वरं शुभम् ॥ १२५.३५॥
१२५.३६/१आत्मार्थं यस्तु याचेत स शोच्यो हि सुरेश्वरौ ।
१२५.३६/२जीवितं सफलं तस्य यः परार्थोद्यतः सदा ॥ १२५.३६॥
१२५.३७/१अग्निरापो रविः पृथ्वी धान्यानि विविधानि च ।
१२५.३७/२परार्थं वर्तनं तेषां सतां चापि विशेषतः ॥ १२५.३७॥
१२५.३८/१ब्रह्मादयोऽपि हि यतो युज्यन्ते मृत्युना सह ।
१२५.३८/२एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः ॥ १२५.३८॥
१२५.३९/१जन्मना सह यत् पुंसां विहितं परमेष्ठिना ।
१२५.३९/२कदाचिन् नान्यथा तद् वै वृथा क्लिश्यन्ति जन्तवः ॥ १२५.३९॥
१२५.४०/१तस्माद् याचावहे किंचिद् धिताय जगतां शुभम् ।
१२५.४०/२गुणदायि तु सर्वेषां तद् युवामनुमन्यताम् ॥ १२५.४०॥
१२५.४१/१ब्रह्मोवाच । तावाहतुरुभौ देवौ पक्षिणौ लोकविश्रुतौ ।
१२५.४१/२धर्मस्य यशसोऽवाप्त्ये लोकानां हितकाम्यया ॥ १२५.४१॥
१२५.४२/१पक्षिणावूचतुः । आवाभ्यामाश्रमौ तीर्थे गङ्गाया उभये तटे ।
१२५.४२/२भवेतां जगतां नाथावेष एव परो वरः ॥ १२५.४२॥
१२५.४३/१स्नानं दानं जपो होमः पितृणां चापि पूजनम् ।
१२५.४३/२सुकृती दुष्कृती वापि यः करोति यथा तथा ।
१२५.४३/३सर्वं तद् अक्षयं पुण्यं स्याद् इत्येष परो वरः ॥ १२५.४३॥
१२५.४४/१देवावूचतुः । एवमस्तु तथा चान्यत् सुप्रीतौ तु ब्रवावहै ॥ १२५.४४॥
१२५.४५/१यम उवाच । उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये ।
१२५.४५/२तेषां सप्तसु वंशेषु नाकाले मृत्युमाप्नुयात् ॥ १२५.४५॥
१२५.४६/१पुरुषो भाजनं च स्यात् सर्वदा सर्वसम्पदाम् ।
१२५.४६/२यस्त्विदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान् ॥ १२५.४६॥
१२५.४७/१अष्टाशीतिसहस्रैश्च व्याधिभिर्न स बाध्यते ।
१२५.४७/२अस्मिंस्तीर्थे द्विजश्रेष्ठौ त्रिमासाद् गुर्विणी सती ॥ १२५.४७॥
१२५.४८/१अर्वाग्वन्ध्या च षण्मासात् सप्ताहं स्नानमाचरेत् ।
१२५.४८/२वीरसूः सा भवेन् नारी शतायुः स सुतो भवेत् ॥ १२५.४८॥
१२५.४९/१लक्ष्मीवान् मतिमाञ् शूरः पुत्रपौत्रविवर्धनः ।
१२५.४९/२तत्र पिण्डादिदानेन पितरो मुक्तिमाप्नुयुः ।
१२५.४९/३मनोवाक्कायजात् पापात् स्नानान् मुक्तो भवेन् नरः ॥ १२५.४९॥
१२५.५०/१ब्रह्मोवाच । यमवाक्याद् अनु तथा हव्यवाड् आह पक्षिणौ ॥ १२५.५०॥
१२५.५१/१अग्निरुवाच । मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः ।
१२५.५१/२तेषामारोग्यमैश्वर्यं लक्ष्मीं रूपं ददाम्यहम् ॥ १२५.५१॥
१२५.५२/१इदं स्तोत्रं तु यः कश्चिद् यत्र क्वापि पठेन् नरः ।
१२५.५२/२नैवाग्नितो भयं तस्य लिखितेऽपि गृहे स्थिते ॥ १२५.५२॥
१२५.५३/१स्नानं दानं च यः कुर्याद् अग्नितीर्थे शुचिर्नरः ।
१२५.५३/२अग्निष्टोमफलं तस्य भवेद् एव न संशयः ॥ १२५.५३॥
१२५.५४/१ब्रह्मोवाच । ततः प्रभृति तत् तीर्थं याम्यमाग्नेयमेव च ।
१२५.५४/२कपोतं च तथोलूकं हेत्युलूकं विदुर्बुधाः ॥ १२५.५४॥
१२५.५५/१तत्र त्रीणि सहस्राणि तावन्त्येव शतानि च ।
१२५.५५/२पुनर्नवतितीर्थानि प्रत्येकं मुक्तिभाजनम् ॥ १२५.५५॥
१२५.५६/१तेषु स्नानेन दानेन प्रेतीभूताश्च ये नराः ।
१२५.५६/२पूतास्ते पुत्रवित्ताढ्या आक्रमेयुर्दिवं शुभाः ॥ १२५.५६॥
१२६.१/१ब्रह्मोवाच । तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् ।
१२६.१/२सर्वकामप्रदं पुण्यं पितृणां प्रीतिवर्धनम् ॥ १२६.१॥
१२६.२/१तस्मिंस्तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम् ।
१२६.२/२अपामग्नेश्च संवादम् ऋषीणां च परस्परम् ॥ १२६.२॥
१२६.३/१अपो ज्येष्ठतमाः केचिन् मेनिरेऽग्निं तथापरे ।
१२६.३/२एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥ १२६.३॥
१२६.४/१विनाग्निं जीवनं क्व स्याज्जीवभूतो यतोऽनलः ।
१२६.४/२आत्मभूतो हव्यभूतश्चाग्निना जायतेऽखिलम् ॥ १२६.४॥
१२६.५/१अग्निना ध्रियते लोको ह्यग्निर्ज्योतिर्मयं जगत् ।
१२६.५/२तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत् ॥ १२६.५॥
१२६.६/१अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि ।
१२६.६/२विनाग्निना किंचिद् अस्ति यस्य धाम जगत्त्रयम् ॥ १२६.६॥
१२६.७/१तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् ।
१२६.७/२योषित्क्षेत्रेऽर्पितं बीजं पुरुषेण यथा तथा ॥ १२६.७॥
१२६.८/१तस्य देहादिका शक्तिः कृशानोरेव नान्यथा ।
१२६.८/२देवानां हि मुखं वह्निस्तस्मान् नातः परं विदुः ॥ १२६.८॥
१२६.९/१अपरे तु ह्यपां ज्यैष्ठ्यं मेनिरे वेदवादिनः ।
१२६.९/२अद्भिः सम्पत्स्यते ह्यन्नं शुचिरद्भिः प्रजायते ॥ १२६.९॥
१२६.१०/१अद्भिरेव धृतं सर्वमापो वै मातरः स्मृताः ।
१२६.१०/२त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥ १२६.१०॥
१२६.११/१उत्पन्नममृतं ह्यद्भ्यस्ताभ्यश्चौषधिसम्भवः ।
१२६.११/२अग्निर्ज्येष्ठ इति प्राहुरापो ज्येष्ठतमाः परे ॥ १२६.११॥
१२६.१२/१एवं मीमांसमानास्ते ऋषयो वेदवादिनः ।
१२६.१२/२विरुद्धवादिनो मां च समभ्येत्येदमब्रुवन् ॥ १२६.१२॥
१२६.१३/१ऋषय ऊचुः । अग्नेरपां वद ज्यैष्ठ्यं त्रैलोक्यस्य
भवान् प्रभुः ॥ १२६.१३॥
१२६.१४/१ब्रह्मोवाच । अहमप्यब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् ।
१२६.१४/२उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥ १२६.१४॥
१२६.१५/१उभाभ्यां जायते हव्यं कव्यं चामृतमेव च ।
१२६.१५/२उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥ १२६.१५॥
१२६.१६/१नानयोश्च विशेषोऽस्ति ततो ज्यैष्ठ्यं समं मतम् ।
१२६.१६/२ततो मद्वचनाज्ज्यैष्ठ्यमुभयोर्नैव कस्यचित् ॥ १२६.१६॥
१२६.१७/१ज्यैष्ठ्यमन्यतरस्येति मेनिरे ऋषिसत्तमाः ।
१२६.१७/२न तृप्ता मम वाक्येन जग्मुर्वायुं तपस्विनः ॥ १२६.१७॥
१२६.१८/१मुनय ऊचुः । कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं
त्वयि स्थितम् ॥ १२६.१८॥
१२६.१९/१ब्रह्मोवाच । वायुराहानलो ज्येष्ठः सर्वमग्नौ प्रतिष्ठितम् ।
१२६.१९/२नेत्युक्त्वान्योन्यम् ऋषयो जग्मुस्तेऽपि वसुंधराम् ॥ १२६.१९॥
१२६.२०/१मुनय ऊचुः । सत्यं भूमे वद ज्यैष्ठ्यमाधारासि चराचरे ॥ १२६.२०॥
१२६.२१/१ब्रह्मोवाच । भूमिरप्याह विनयाद् आगतांस्तान् ऋषीन् इदम् ॥ १२६.२१॥
१२६.२२/१भूमिरुवाच । ममाप्याधारभूताः स्युरापो देव्यः सनातनाः ।
१२६.२२/२अद्भ्यस्तु जायते सर्वं ज्यैष्ठ्यमप्सु प्रतिष्ठितम् ॥ १२६.२२॥
१२६.२३/१ब्रह्मोवाच । नेत्युक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम् ।
१२६.२३/२तुष्टुवुर्विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥ १२६.२३॥
१२६.२४/१ऋषय ऊचुः । यो वेद सर्वं भुवनं भविष्यद् ।
१२६.२४/२यज्जायमानं च गुहानिविष्टम् ।
१२६.२४/३लोकत्रयं चित्रविचित्ररूपम् ।
१२६.२४/४अन्ते समस्तं च यमाविवेश ॥ १२६.२४॥
१२६.२५/१यद् अक्षरं शाश्वतमप्रमेयम् ।
१२६.२५/२यं वेदवेद्यम् ऋषयो वदन्ति ।
१२६.२५/३यमाश्रिताः स्वेप्सितमाप्नुवन्ति ।
१२६.२५/४तद् वस्तु सत्यं शरणं व्रजामः ॥ १२६.२५॥
१२६.२६/१भूतं महाभूतजगत्प्रधानम् ।
१२६.२६/२न विन्दते योगिनो विष्णुरूपम् ।
१२६.२६/३तद् वक्तुमेते ऋषयोऽत्र याताः ।
१२६.२६/४सत्यं वदस्वेह जगन्निवास ॥ १२६.२६॥
१२६.२७/१त्वमन्तरात्माखिलदेहभाजाम् ।
१२६.२७/२त्वमेव सर्वं त्वयि सर्वमीश ।
१२६.२७/३तथापि जानन्ति न केअपि कुत्रापि ।
१२६.२७/४अहो भवन्तं प्रकृतिप्रभावात् ।
१२६.२७/५अन्तर्बहिः सर्वत एव सन्तम् ।
१२६.२७/६विश्वात्मना सम्परिवर्तमानम् ॥ १२६.२७॥
१२६.२८/१ब्रह्मोवाच । ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी ॥ १२६.२८॥
१२६.२९/१दैवी वाग् उवाच । उभावाराध्य तपसा भक्त्या च नियमेन च ।
१२६.२९/२यस्य स्यात् प्रथमं सिद्धिस्तद् भूतं ज्येष्ठमुच्यते ॥ १२६.२९॥
१२६.३०/१ब्रह्मोवाच । तथेत्य्तथा ययुः सर्वे ऋषयो लोकपूजिताः ।
१२६.३०/२श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यमाश्रिताः ॥ १२६.३०॥
१२६.३१/१सर्वलोकैकजननीं भुवनत्रयपावनीम् ।
१२६.३१/२गौतमीमगमन् सर्वे तपस्तप्तुं यतव्रताः ॥ १२६.३१॥
१२६.३२/१अब्दैवतं तथाग्निं च पूजनायोद्यतास्तदा ।
१२६.३२/२अग्नेश्च पूजका ये च अपां वै पूजने स्थिताः ।
१२६.३२/३तत्र वाग् अब्रवीद् दैवी वेदमाता सरस्वती ॥ १२६.३२॥
१२६.३३/१दैवी वाग् उवाच । अग्नेरापस्तथा योनिरद्भिः शौचमवाप्यते ।
१२६.३३/२अग्नेश्च पूजका ये च विनाद्भिः पूजनं कथम् ॥ १२६.३३॥
१२६.३४/१अप्सु जातासु सर्वत्र कर्मण्यधिकृतो भवेत् ।
१२६.३४/२तावत् कर्मण्यनर्होऽयमशुचिर्मलिनो नरः ॥ १२६.३४॥
१२६.३५/१न मग्नः श्रद्धया यावद् अप्सु शीतासु वेदवित् ।
१२६.३५/२तस्माद् आपो वरिष्ठाः स्युर्मातृभूता यतः स्मृताः ।
१२६.३५/३तस्माज्ज्यैष्ठ्यमपामेव जनन्योऽग्नेर्विशेषतः ॥ १२६.३५॥
१२६.३६/१ब्रह्मोवाच । एतद् वचः शुश्रुवुस्ते ऋषयो वेदवादिनः ।
१२६.३६/२निश्चयं च ततश्चक्रुर्भवेज्ज्यैष्ठ्यमपामिति ॥ १२६.३६॥
१२६.३७/१यत्र तीर्थे वृत्तमिदम् ऋषिसत्त्रे च नारद ।
१२६.३७/२तपस्तीर्थं तु तत् प्रोक्तं सत्त्रतीर्थं तद् उच्यते ॥ १२६.३७॥
१२६.३८/१अग्नितीर्थं च तत् प्रोक्तं तथा सारस्वतं विदुः ।
१२६.३८/२तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ १२६.३८॥
१२६.३९/१चतुर्दश शतान्यत्र तीर्थानां पुण्यदायिनाम् ।
१२६.३९/२तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥ १२६.३९॥
१२६.४०/१कृतं संदेहहरणम् ऋषीणां यत्र भाषया ।
१२६.४०/२सरस्वत्यभवत् तत्र गङ्गया संगता नदी ।
१२६.४०/३माहात्म्यं तस्य को वक्तुं संगमस्य क्षमो नरः ॥ १२६.४०॥
१२७.१/१ब्रह्मोवाच । देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
१२७.१/२तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ १२७.१॥
१२७.२/१आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः ।
१२७.२/२तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा ॥ १२७.२॥
१२७.३/१तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः ।
१२७.३/२धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥ १२७.३॥
१२७.४/१तस्य भार्या रूपवती सुप्रभेत्यभिविश्रुता ।
१२७.४/२आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः ॥ १२७.४॥
१२७.५/१पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः ।
१२७.५/२सरस्वत्यास्ततस्तीरे हयमेधाय यत्नवान् ॥ १२७.५॥
१२७.६/१ऋत्विग्भिरृषिमुख्यैश्च वेदशास्त्रपरायणैः ।
१२७.६/२दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥ १२७.६॥
१२७.७/१मिथुर्दानवराट् शूरः पापबुद्धिः प्रतापवान् ।
१२७.७/२मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥ १२७.७॥
१२७.८/१आदाय वेगात् स प्रागाद् रसातलतलं मुने ।
१२७.८/२नीते तस्मिन् नृपवरे यज्ञे नष्टे ततोऽमराः ॥ १२७.८॥
१२७.९/१ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः ।
१२७.९/२पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः ॥ १२७.९॥
१२७.१०/१बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च ।
१२७.१०/२दृष्ट्वा सविस्मयो भूत्वा दुःखितोऽतीव चाभवत् ॥ १२७.१०॥
१२७.११/१स मातरं तु पप्रच्छ पिता मे क्व गतोऽम्बिके ।
१२७.११/२पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥ १२७.११॥
१२७.१२/१धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् ।
१२७.१२/२न वक्षि यदि मे मातर्जलमग्निमथाविशे ॥ १२७.१२॥
१२७.१३/१पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः ।
१२७.१३/२दानवेन तलं नीतो राज्ञा सह पिता तव ॥ १२७.१३॥
१२७.१४/१देवापिरुवाच । क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि ।
१२७.१४/२केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥ १२७.१४॥
१२७.१५/१मातोवाच । दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् ।
१२७.१५/२राजानं तं मिथुर्दैत्यो नीतवान् स रसातलम् ।
१२७.१५/३पश्यत्सु देवसंघेषु वह्निब्राह्मणसंनिधौ ॥ १२७.१५॥
१२७.१६/१ब्रह्मोवाच । तन् मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत् ।
१२७.१६/२देवान् पश्येऽथवाग्निं वा ऋत्विजो वासुरांस्तथा ॥ १२७.१६॥
१२७.१७/१एतेष्वेव पितान्वेष्यो नान्यत्रेति मतिर्मम ।
१२७.१७/२इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम् ॥ १२७.१७॥
१२७.१८/१देवापिरुवाच । तपसा ब्रह्मचर्येण व्रतेन नियमेन च ।
१२७.१८/२आनेतव्या मया सर्वे नीता ये च रसातलम् ॥ १२७.१८॥
१२७.१९/१जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् ।
१२७.१९/२नराधमेन किं तेन जीवता वा मृतेन वा ॥ १२७.१९॥
१२७.२०/१त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा ।
१२७.२०/२माता मम त्वया पाल्या राजन् यावन् ममागतिः ।
१२७.२०/३भवेच्च कृतकार्यस्य अनुजानीहि मां भर ॥ १२७.२०॥
१२७.२१/१ब्रह्मोवाच । भरेणोक्तः स देवापिः सर्वं निश्चित्य
यत्नतः ॥ १२७.२१॥
१२७.२२/१भर उवाच । सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां
भज ॥ १२७.२२॥
१२७.२३/१ब्रह्मोवाच । ततो देवापिरमर+ ।राजाङ्घ्रिध्यानतत्परः ।
१२७.२३/२ऋत्विजोऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक् ।
१२७.२३/३कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत् ॥ १२७.२३॥
१२७.२४/१देवापिरुवाच । भवद्भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः ।
१२७.२४/२पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥ १२७.२४॥
१२७.२५/१भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् ।
१२७.२५/२राजादयस्तेन नीतास्तन् न युक्ततमं भवेत् ॥ १२७.२५॥
१२७.२६/१अथाप्येतद् अहं मन्ये भवन्तस्तान् अरोगिणः ।
१२७.२६/२दातुमर्हन्ति तान् सर्वान् अन्यथा शापमर्हथ ॥ १२७.२६॥
१२७.२७/१ऋत्विज ऊचुः । मखेऽग्निः प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम् ।
१२७.२७/२तस्माद् वयं न जानीमो ह्यग्नीनां परिचारकाः ॥ १२७.२७॥
१२७.२८/१स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥ १२७.२८॥
१२७.२९/१ब्रह्मोवाच । ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम् ।
१२७.२९/२पूजयित्वा यथान्यायमग्नये तन् न्यवेदयत् ॥ १२७.२९॥
१२७.३०/१अग्निरुवाच । यथर्त्विजस्तथा चाहं देवानां परिचारकः ।
१२७.३०/२हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते ॥ १२७.३०॥
१२७.३१/१देवापिरुवाच । देवान् आहूय यत्नेन हविर्भागान् पृथक् पृथक् ।
१२७.३१/२दास्येऽहमेष दोषो मे तस्माद् याहि सुरान् प्रति ॥ १२७.३१॥
१२७.३२/१ब्रह्मोवाच । देवापिः स सुरान् प्राप्य नत्वा तेभ्यः पृथक् पृथक् ।
१२७.३२/२ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥ १२७.३२॥
१२७.३३/१देवा ऊचुः । आहूता वैदिकैर्मन्त्रैरृत्विग्भिश्च यथाक्रमम् ।
१२७.३३/२भोक्ष्यामहे हविर्भागान् न स्वतन्त्रा द्विजोत्तम ॥ १२७.३३॥
१२७.३४/१तस्माद् वेदानुगा नित्यं वयं वेदेन चोदिताः ।
१२७.३४/२परतन्त्रास्ततो विप्र वेदेभ्यस्तन् निवेदय ॥ १२७.३४॥
१२७.३५/१ब्रह्मोवाच । स देवापिः शुचिर्भूत्वा वेदान् आहूय यत्नतः ।
१२७.३५/२ध्यानेन तपसा युक्तो वेदाश्चापि पुरोऽभवन् ॥ १२७.३५॥
१२७.३६/१वेदान् उवाच देवापिर्नमस्य तु पुनः पुनः ।
१२७.३६/२ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥ १२७.३६॥
१२७.३७/१वेदा ऊचुः । परतन्त्रा वयं तात ईश्वरस्य वशानुगाः ।
१२७.३७/२अशेषजगदाधारो निराधारो निरञ्जनः ॥ १२७.३७॥
१२७.३८/१सर्वशक्त्यैकसदनं निधानं सर्वसम्पदाम् ।
१२७.३८/२स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥ १२७.३८॥
१२७.३९/१वयं शब्दमया ब्रह्मन् वदामो विद्म एव च ।
१२७.३९/२अस्माकमेतत् कृत्यं स्याद् वदामो यत् तु पृच्छसि ॥ १२७.३९॥
१२७.४०/१केन नीतास्तस्य नाम तत्पुरं तद्बलं तथा ।
१२७.४०/२भक्षिताः किं तु नो नष्टा एतज्जानीमहे वयम् ॥ १२७.४०॥
१२७.४१/१यथा च तव सामर्थ्यं यमाराध्य च यत्र च ।
१२७.४१/२स्याद् इत्येतच्च जानीमो यथा प्राप्स्यसि तान् पुरः ॥ १२७.४१॥
१२७.४२/१ब्रह्मोवाच । एतच्छ्रुत्वावदद् वेदान् विचार्य सुचिरं हृदि ॥ १२७.४२॥
१२७.४३/१देवापिरुवाच । वेदा वदन्त्वेतद् एव सर्वमेव यथार्थतः ।
१२७.४३/२सर्वान् प्राप्स्ये तलं नीतान् अलं तेभ्यो नमोऽस्तु वः ॥ १२७.४३॥
१२७.४४/१वेदा ऊचुः । गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् ।
१२७.४४/२सुप्रसन्नस्तवाभीष्टं दास्यत्येव कृपाकरः ॥ १२७.४४॥
१२७.४५/१भवेद् देवः शिवः प्रीतः स्तुतः सत्यं महामते ।
१२७.४५/२आर्ष्टिषेणश्च नृपतिस्तस्य जाया जया सती ॥ १२७.४५॥
१२७.४६/१पिता तवाप्युपमन्युस्तले तिष्ठन्त्यरोगिणः ।
१२७.४६/२वरदानान् महेशस्य मिथुं हत्वा च राक्षसम् ।
१२७.४६/३यशः प्राप्स्यसि धर्मं च एतच्छक्यं न चेतरत् ॥ १२७.४६॥
१२७.४७/१ब्रह्मोवाच । तद् वेदवचनाद् बालो देवापिर्गौतमीं गतः ।
१२७.४७/२स्नात्वा कृतक्षणो विप्रस्तुष्टाव च महेश्वरम् ॥ १२७.४७॥
१२७.४८/१देवापिरुवाच । बालोऽहं देवदेवेश गुरूणां त्वं गुरुर्मम ।
१२७.४८/२न मे शक्तिस्त्वत्स्तवने तुभ्यं शम्भो नमोऽस्तु ते ॥ १२७.४८॥
१२७.४९/१न त्वां जानन्ति निगमा न देवा मुनयो न च ।
१२७.४९/२न ब्रह्मा नापि वैकुण्ठो योऽसि सोऽसि नमोऽस्तु ते ॥ १२७.४९॥
१२७.५०/१येऽनाथा ये च कृपणा ये दरिद्राश्च रोगिणः ।
१२७.५०/२पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर ॥ १२७.५०॥
१२७.५१/१तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः ।
१२७.५१/२त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥ १२७.५१॥
१२७.५२/१याचितारश्च दातारस्तेभ्यो यद् यन् मनीषितम् ।
१२७.५२/२भवतीति न चित्रं स्यात् त्वं विपर्ययकारकः ॥ १२७.५२॥
१२७.५३/१येऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे ।
१२७.५३/२शिवेति वचनान् नाथ तान् पासि त्वं जगद्गुरो ॥ १२७.५३॥
१२७.५४/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य पुरः प्राह त्रिलोचनः ॥ १२७.५४॥
१२७.५५/१शिव उवाच । वरं ब्रूह्यथ देवापे अलं दैन्येन बालक ॥ १२७.५५॥
१२७.५६/१देवापिरुवाच । राजानं राजपत्नीं च पितरं च गुरुं मम ।
१२७.५६/२प्राप्तुमिच्छे जगन्नाथ निधनं च रिपोर्मम ॥ १२७.५६॥
१२७.५७/१ब्रह्मोवाच । देवापिवचनं श्रुत्वा तथेत्याहाखिलेश्वरः ।
१२७.५७/२देवापेः सर्वमभवद् आज्ञया शंकरस्य तत् ॥ १२७.५७॥
१२७.५८/१पुनरप्याह तं शम्भुर्देवापिकरुणाकरः ।
१२७.५८/२नन्दिनं प्रेषयामास शम्भुः शूलेन नारद ॥ १२७.५८॥
१२७.५९/१रसातलं मिथुं नन्दी हत्वा चासुरपुंगवान् ।
१२७.५९/२तत्पित्रादीन् समानीय तस्मै तान् स न्यवेदयत् ॥ १२७.५९॥
१२७.६०/१हयमेधश्च तत्रासीद् आर्ष्टिषेणस्य धीमतः ।
१२७.६०/२अग्निश्च ऋत्विजो देवा वेदाश्च ऋषयोऽब्रुवन् ॥ १२७.६०॥
१२७.६१/१अग्न्यादय ऊचुः । यत्र साक्षाद् अभूच्छम्भुर्देवापे भक्तवत्सलः ।
१२७.६१/२देवदेवो जगन्नाथो देवतीर्थमभूच्च तत् ॥ १२७.६१॥
१२७.६२/१सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् ।
१२७.६२/२पुण्यदं तीर्थमेतत् स्यात् तव कीर्तिश्च शाश्वती ॥ १२७.६२॥
१२७.६३/१ब्रह्मोवाच । अश्वमेधे निवृत्ते तु सुरास्तेभ्यो वरान् ददुः ।
१२७.६३/२स्नात्वा कृतार्था गङ्गायां ततस्ते दिवमाक्रमन् ॥ १२७.६३॥
१२७.६४/१ततः प्रभृति तत्रासंस्तीर्थानि दश पञ्च च ।
१२७.६४/२सहस्राणि शतान्यष्टावुभयोरपि तीरयोः ।
१२७.६४/३तेषु स्नानं च दानं च ह्यतीव फलदं विदुः ॥ १२७.६४॥
१२८.१/१ब्रह्मोवाच । तपोवनमिति ख्यातं नन्दिनीसंगमं तथा ।
१२८.१/२सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ १२८.१॥
१२८.२/१शार्दूलं चेति विख्यातं तेषां वृत्तमिदं शृणु ।
१२८.२/२यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥ १२८.२॥
१२८.३/१अग्निर्होता पुरा त्वासीद् देवानां हव्यवाहनः ।
१२८.३/२भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम् ॥ १२८.३॥
१२८.४/१सानपत्या पुरा चासीत् पुत्रार्थं तप आविशत् ।
१२८.४/२तपश्चरन्तीं विपुलं तोषयन्तीं हुताशनम् ।
१२८.४/३स भर्ता हुतभुक् प्राह भार्यां स्वाहामनिन्दिताम् ॥ १२८.४॥
१२८.५/१अग्निरुवाच । अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥ १२८.५॥
१२८.६/१ब्रह्मोवाच । एतच्छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसोऽभवत् ।
१२८.६/२स्त्रीणामभीष्टदं नान्यद् भर्तृवाक्यं विना क्वचित् ॥ १२८.६॥
१२८.७/१ततः कतिपये काले तारकाद् भय आगते ।
१२८.७/२अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते ॥ १२८.७॥
१२८.८/१महेश्वरे भवान्या च त्रस्ता देवाः समागताः ।
१२८.८/२देवानां कार्यसिद्ध्यर्थमग्निं प्रोचुर्दिवौकसः ॥ १२८.८॥
१२८.९/१देवा ऊचुः । देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् ।
१२८.९/२तारकाद् भयमुत्पन्नं शम्भवे त्वं निवेदय ॥ १२८.९॥
१२८.१०/१अग्निरुवाच । न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः ।
१२८.१०/२सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥ १२८.१०॥
१२८.११/१एकान्तस्थितयोः स्वैरं जल्पतोर्यः सरागयोः ।
१२८.११/२दम्पत्योः शृणुयाद् वाक्यं निरयात् तस्य नोद्धृतिः ॥ १२८.११॥
१२८.१२/१स स्वाम्यखिललोकानां महाकालस्त्रिशूलवान् ।
१२८.१२/२निरीक्षणीयः केन स्याद् भवान्या रहसि स्थितः ॥ १२८.१२॥
१२८.१३/१देवा ऊचुः । महाभये चानुगते न्यायः कोऽन्वत्र वर्ण्यते ।
१२८.१३/२तारकाद् भय उत्पन्ने गच्छ त्वं तारको भवान् ॥ १२८.१३॥
१२८.१४/१महाभयाब्धौ साधूनां यत् परार्थाय जीवितम् ।
१२८.१४/२रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥ १२८.१४॥
१२८.१५/१विश्राव्य देववचनं शम्भुमागच्छ सत्वरः ।
१२८.१५/२ततो दास्यामहे पूजामुभयोर्लोकयोः कवे ॥ १२८.१५॥
१२८.१६/१ब्रह्मोवाच । शुको भूत्वा जगामाशु देववाक्याद् धुताशनः ।
१२८.१६/२यत्रासीज्जगतां नाथो रममाणस्तदोमया ॥ १२८.१६॥
१२८.१७/१स भीतवद् अथ प्रायाच्छुको भूत्वा तदानलः ।
१२८.१७/२नाशकद् द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥ १२८.१७॥
१२८.१८/१ततो गवाक्षदेशे तु तस्थौ धुन्वन्न् अधोमुखः ।
१२८.१८/२तं दृष्ट्वा प्रहसञ् शम्भुरुमां प्राह रहोगतः ॥ १२८.१८॥
१२८.१९/१शम्भुरुवाच । पश्य देवि शुकं प्राप्तं देववाक्याद्
धुताशनम् ॥ १२८.१९॥
१२८.२०/१ब्रह्मोवाच । लज्जिता चावदद् देवमलं देवेति पार्वती ।
१२८.२०/२पुरश्चरन्तं देवेशो ह्यग्निं तं द्विजरूपिणम् ॥ १२८.२०॥
१२८.२१/१आहूय बहुशश्चापि ज्ञातोऽस्यग्नेऽत्र मा वद ।
१२८.२१/२विदारयस्व स्वमुखं गृहाणेदं नयस्व तत् ॥ १२८.२१॥
१२८.२२/१इत्युक्त्वा तस्य चास्येऽग्ने रेतः स प्राक्षिपद् बहु ।
१२८.२२/२रेतोगर्भस्तदा चाग्निर्गन्तुं नैव च शक्तवान् ॥ १२८.२२॥
१२८.२३/१सुरनद्यास्ततस्तीरं श्रान्तोऽग्निरुपतस्थिवान् ।
१२८.२३/२कृत्तिकासु च तद् रेतः प्रक्षेपात् कार्त्तिकोऽभवत् ॥ १२८.२३॥
१२८.२४/१अवशिष्टं च यत् किंचिद् अग्नेर्देहे च शाम्भवम् ।
१२८.२४/२तद् एव रेतो वह्निस्तु स्वभार्यायां द्विधाक्षिपत् ॥ १२८.२४॥
१२८.२५/१स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः ।
१२८.२५/२पुरा साश्वासिता तेन संततिस्ते भविष्यति ॥ १२८.२५॥
१२८.२६/१तद् वह्निनाथ संस्मृत्य तत् क्षिप्तं शाम्भवं महः ।
१२८.२६/२तद् अग्ने रेतसस्तस्यां जज्ञे मिथुनमुत्तमम् ॥ १२८.२६॥
१२८.२७/१सुवर्णश्च सुवर्णा च रूपेणाप्रतिमं भुवि ।
१२८.२७/२अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥ १२८.२७॥
१२८.२८/१अग्निः प्रीत्या सुवर्णां तां प्रादाद् धर्माय धीमते ।
१२८.२८/२सुवर्णस्याथ पुत्रस्य संकल्पामकरोत् प्रियाम् ।
१२८.२८/३एवं पुत्रस्य पुत्र्याश्च विवाहमकरोत् कविः ॥ १२८.२८॥
१२८.२९/१अन्योन्यरेतोव्यतिषङ्गदोषाद् ।
१२८.२९/२अग्नेरपत्यमुभयं तथैव ।
१२८.२९/३पुत्रः सुवर्णो बहुरूपरूपी ।
१२८.२९/४रूपाणि कृत्वा सुरसत्तमानाम् ॥ १२८.२९॥
१२८.३०/१इन्द्रस्य वायोर्धनदस्य भार्याम् ।
१२८.३०/२जलेश्वरस्यापि मुनीश्वराणाम् ।
१२८.३०/३भार्यास्तु गच्छत्यनिशं सुवर्णो ।
१२८.३०/४यस्याः प्रियं यच्च वपुः स कृत्वा ॥ १२८.३०॥
१२८.३१/१याति क्वचिच्चापि कवेस्तनूजस्- ।
१२८.३१/२तद्भर्तृरूपं च पतिव्रतासु ।
१२८.३१/३कृत्वानिशं ताभिरुदारभावः ।
१२८.३१/४कुर्वन् कृतार्थं मदनं स रेमे ॥ १२८.३१॥
१२८.३२/१कृत्वा गता क्वापि चैवं सुवर्णा ।
१२८.३२/२धर्मस्य भार्यापि सुवर्णनाम्नी ।
१२८.३२/३स्वाहासुता स्वैरिणी सा बभूव ।
१२८.३२/४यस्यापि यस्यापि मनोगता या ॥ १२८.३२॥
१२८.३३/१भार्यास्वरूपा सैव भूत्वा सुवर्णा ।
१२८.३३/२रेमे पतीन् मानुषान् आसुरांश्च ।
१२८.३३/३देवान् ऋषीन् पितृरूपांस्तथान्यान् ।
१२८.३३/४रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ॥ १२८.३३॥
१२८.३४/१याभिप्रेता यस्य देवस्य भार्या ।
१२८.३४/२तद्रूपा सा रमते तेन सार्धम् ।
१२८.३४/३नानाभेदैः करणैश्चाप्यनेकैर्।
१२८.३४/४आकर्षन्ती तन्मनः कामसिद्धिम् ॥ १२८.३४॥
१२८.३५/१एवं सुवर्णस्य निरीक्ष्य चेष्टाम् ।
१२८.३५/२अग्नेः सूनोः पुत्रिकायास्तथाग्नेः ।
१२८.३५/३सर्वे च शेपुः कुपितास्तदाग्नेः ।
१२८.३५/४पुत्रं च पुत्रीं च सुरासुरास्ते ॥ १२८.३५॥
१२८.३६/१सुरासुरा ऊचुः । कृतं यद् एतद् व्यभिचाररूपम् ।
१२८.३६/२यच्छद्मना वर्तनं पापरूपम् ।
१२८.३६/३तस्मात् सुतस्ते व्यभिचारवांश्च ।
१२८.३६/४सर्वत्र गामी जायतां हव्यवाह ॥ १२८.३६॥
१२८.३७/१तथा सुवर्णापि न चैकनिष्ठा ।
१२८.३७/२भूयाद् अग्ने नैकतृप्ता बहूंश्च ।
१२८.३७/३नानाजातीन् निन्दितान् देहभाजो ।
१२८.३७/४भजित्री स्याद् एष दोषश्च पुत्र्याः ॥ १२८.३७॥
१२८.३८/१ब्रह्मोवाच । इत्येतच्छापवचनं श्रुत्वाग्निरतिभीतवत् ।
१२८.३८/२मामभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः ॥ १२८.३८॥
१२८.३९/१तदाहमब्रवं वह्ने गौतमीं गच्छ शंकरम् ।
१२८.३९/२स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः ॥ १२८.३९॥
१२८.४०/१माहेश्वरेण वीर्येण तव देहस्थितेन च ।
१२८.४०/२एवंविधं त्वपत्यं ते जातं वह्ने ततो भवान् ॥ १२८.४०॥
१२८.४१/१निवेदयस्व देवाय देवानां शापमीदृशम् ।
१२८.४१/२स्वापत्यरक्षणायासौ शम्भुः श्रेयः करिष्यति ॥ १२८.४१॥
१२८.४२/१स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच्छिवः ।
१२८.४२/२ततस्त्वपत्यविषये प्रियान् कामान् अवाप्स्यसि ॥ १२८.४२॥
१२८.४३/१ततो मद्वचनाद् अग्निर्गङ्गां गत्वा महेश्वरम् ।
१२८.४३/२तुष्टाव नियतो वाक्यैः स्तुतिभिर्वेदसम्मितैः ॥ १२८.४३॥
१२८.४४/१अग्निरुवाच । विश्वस्य जगतो धाता विश्वमूर्तिर्निरञ्जनः ।
१२८.४४/२आदिकर्ता स्वयम्भूश्च तं नमामि जगत्पतिम् ॥ १२८.४४॥
१२८.४५/१योऽग्निर्भूत्वा संहरति स्रष्टा वै जलरूपतः ।
१२८.४५/२सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम् ॥ १२८.४५॥
१२८.४६/१ब्रह्मोवाच । ततः प्रसन्नो भगवान् अनन्तः शम्भुरव्ययः ।
१२८.४६/२वरेण च्छन्दयामास पावकं सुरपूजितम् ॥ १२८.४६॥
१२८.४७/१स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् ।
१२८.४७/२तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः ॥ १२८.४७॥
१२८.४८/१तथा सुवर्णा पुत्री च तस्माद् एव जगत्प्रभो ।
१२८.४८/२अन्योन्यवीर्यसङ्गाच्च तद्दोषाद् उभयं त्विदम् ॥ १२८.४८॥
१२८.४९/१व्यभिचारात् सदोषं च अपत्यमभवच्छिव ।
१२८.४९/२शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो ॥ १२८.४९॥
१२८.५०/१तदग्निवचनाच्छम्भुः प्रोवाचेदं शुभोदयम् ॥ १२८.५०॥
१२८.५१/१शम्भुरुवाच । मद्वीर्याद् अभवत् त्वत्तः सुवर्णो भूरिविक्रमः ।
१२८.५१/२समग्रा ऋद्धयः सर्वाः सुवर्णेऽस्मिन् समाहिताः ॥ १२८.५१॥
१२८.५२/१भविष्यन्ति न संदेहो वह्ने शृणु वचो मम ।
१२८.५२/२त्रयाणामपि लोकानां पावनः स भविष्यति ॥ १२८.५२॥
१२८.५३/१स एव चामृतं लोके स एव सुरवल्लभः ।
१२८.५३/२स एव भुक्तिमुक्ती च स एव मखदक्षिणा ॥ १२८.५३॥
१२८.५४/१स एव रूपं सर्वस्य गुरूणामप्यसौ गुरुः ।
१२८.५४/२वीर्यं श्रेष्ठतमं विद्याद् वीर्यं मत्तो यद् उत्तमम् ॥ १२८.५४॥
१२८.५५/१विशेषतस्त्वयि क्षिप्तं तस्य का स्याद् विचारणा ।
१२८.५५/२हीनं तेन विना सर्वं सम्पूर्णास्तेन सम्पदः ॥ १२८.५५॥
१२८.५६/१जीवन्तोऽपि मृताः सर्वे सुवर्णेन विना नराः ।
१२८.५६/२निर्गुणोऽपि धनी मान्यः सगुणोऽप्यधनो नहि ॥ १२८.५६॥
१२८.५७/१तस्मान् नातः परं किंचित् सुवर्णाद् धि भविष्यति ।
१२८.५७/२तथा चैषा सुवर्णापि स्याद् उत्कृष्टापि चञ्चला ॥ १२८.५७॥
१२८.५८/१अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति ।
१२८.५८/२तपसा जपहोमैश्च येयं प्राप्या जगत्त्रये ॥ १२८.५८॥
१२८.५९/१तस्याः प्रभावं प्राशस्त्यमग्ने किंचिच्च कीर्त्यते ।
१२८.५९/२सर्वत्र या तु संतिष्ठेद् आयातु विचरिष्यति ॥ १२८.५९॥
१२८.६०/१सुवर्णा कमला साक्षात् पवित्रा च भविष्यति ।
१२८.६०/२अद्य प्रभृत्यात्मजयोस्तथा स्वैरं विचेष्टतोः ॥ १२८.६०॥
१२८.६१/१तथापि चैतयोः पुण्यं न भूतं न भविष्यति ॥ १२८.६१॥
१२८.६२/१ब्रह्मोवाच । एवमुक्त्वा ततः शम्भुः साक्षात् तत्राभवच्छिवः ।
१२८.६२/२लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया ॥ १२८.६२॥
१२८.६३/१वरान् प्राप्य सुताभ्यां स अग्निस्तुष्टोऽभवत् ततः ।
१२८.६३/२स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा ॥ १२८.६३॥
१२८.६४/१वर्तयामास पुत्रोऽपि वह्नेः संकल्पया मुदा ।
१२८.६४/२एतस्मिन्न् अन्तरे स्वर्णामग्नेर्दुहितरं मुने ॥ १२८.६४॥
१२८.६५/१परिभूय च धर्मं तं शार्दूलो दानवेश्वरः ।
१२८.६५/२अहरद् भाग्यसौभाग्य+ ।विलासवसतिं छलात् ॥ १२८.६५॥
१२८.६६/१नीता रसातलं तेन सुवर्णा लोकविश्रुता ।
१२८.६६/२जामाताग्नेः स धर्मश्च अग्निश्चैव स हव्यवाट् ॥ १२८.६६॥
१२८.६७/१विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः ।
१२८.६७/२कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे ॥ १२८.६७॥
१२८.६८/१ततश्चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः ।
१२८.६८/२सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी ॥ १२८.६८॥
१२८.६९/१महेश्वरसुता चैव अग्नेश्चैव तथा प्रिया ।
१२८.६९/२महेश्वराय तां विष्णुर्दर्शयामास नारद ॥ १२८.६९॥
१२८.७०/१प्रीतोऽभवन् महेशोऽपि सस्वजे तां पुनः पुनः ।
१२८.७०/२चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत् ॥ १२८.७०॥
१२८.७१/१चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद् विदुः ।
१२८.७१/२यत्र नीता सुवर्णा सा विष्णुना शंकरान्तिकम् ॥ १२८.७१॥
१२८.७२/१तत् तीर्थं शांकरं ज्ञेयं वैष्णवं सिद्धमेव तु ।
१२८.७२/२यत्रानन्दमनुप्राप्तो ह्यग्निर्धर्मश्च शाश्वतः ॥ १२८.७२॥
१२८.७३/१आनन्दाश्रूणि न्यपतन् यत्राग्नेर्मुनिसत्तम ।
१२८.७३/२आनन्देति नदी जाता तथा वै नन्दिनीति च ॥ १२८.७३॥
१२८.७४/१तस्याश्च संगमः पुण्यो गङ्गायां तत्र वै शिवः ।
१२८.७४/२तत्रैव संगमे साक्षात् सुवर्णाद्यापि संस्थिता ॥ १२८.७४॥
१२८.७५/१दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता ।
१२८.७५/२अम्बिका जगदाधारा शिवा कात्यायनीश्वरी ॥ १२८.७५॥
१२८.७६/१भक्ताभीष्टप्रदा नित्यमलंकृत्योभयं तटम् ।
१२८.७६/२तपस्तेपे यत्र चाग्निस्तत् तीर्थं तु तपोवनम् ॥ १२८.७६॥
१२८.७७/१एवमादीनि तीर्थानि तीरयोरुभयोर्मुने ।
१२८.७७/२तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ १२८.७७॥
१२८.७८/१उत्तरे चैव पारे च सहस्राणि चतुर्दश ।
१२८.७८/२दक्षिणे च तथा पारे सहस्राण्यथ षोडश ॥ १२८.७८॥
१२८.७९/१तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै ।
१२८.७९/२नामानि च पृथक् सन्ति संक्षेपात् तन् मयोच्यते ॥ १२८.७९॥
१२८.८०/१एतानि यश्च शृणुयाद् यश्च वा पठति स्मरेत् ।
१२८.८०/२सर्वेषु तत्र काम्येषु परिपूर्णो भवेन् नरः ॥ १२८.८०॥
१२८.८१/१एतद् वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् ।
१२८.८१/२लक्ष्मीवाञ् जायते नित्यं धर्मवांश्च विशेषतः ॥ १२८.८१॥
१२८.८२/१अब्जकात् पश्चिमे तीर्थं तच्छार्दूलमुदाहृतम् ।
१२८.८२/२वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्यधिकं भवेत् ॥ १२८.८२॥
१२८.८३/१तत्र स्नात्वा पितृन् देवान् वन्दते तर्पयत्यपि ।
१२८.८३/२सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ १२८.८३॥
१२८.८४/१तपोवनाच्च शार्दूलान् मध्ये तीर्थान्यशेषतः ।
१२८.८४/२तस्यैकैकस्य माहात्म्यं न केनाप्यत्र वर्ण्यते ॥ १२८.८४॥
१२९.१/१ब्रह्मोवाच । इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् ।
१२९.१/२फेनायाः संगमो यत्र हनूमतं तथैव च ॥ १२९.१॥
१२९.२/१अब्जकं चापि यत् प्रोक्तं यत्र देवस्त्रिविक्रमः ।
१२९.२/२तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥ १२९.२॥
१२९.३/१तत्र वृत्तान्यथाख्यास्ये गङ्गाया दक्षिणे तटे ।
१२९.३/२इन्द्रेश्वरं चोत्तरे च शृणु भक्त्या यतव्रतः ॥ १२९.३॥
१२९.४/१नमुचिर्बलवान् आसीद् इन्द्रशत्रुर्मदोत्कटः ।
१२९.४/२तस्येन्द्रेणाभवद् युद्धं फेनेनेन्द्रोऽहरच्छिरः ॥ १२९.४॥
१२९.५/१अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक् ।
१२९.५/२शिरश्छित्त्वा तच्च फेनं गङ्गाया दक्षिणे तटे ॥ १२९.५॥
१२९.६/१न्यपतद् भूमिं भित्त्वा तु रसातलमथाविशत् ।
१२९.६/२रसातलभवं गाङ्गं वारि यद् विश्वपावनम् ॥ १२९.६॥
१२९.७/१वज्रादिष्टेन मार्गेण व्यगमद् भूमिमण्डलम् ।
१२९.७/२तज्जलं फेननाम्ना तु नदी फेनेति गद्यते ॥ १२९.७॥
१२९.८/१तस्यास्तु संगमः पुण्यो गङ्गया लोकविश्रुतः ।
१२९.८/२सर्वपापक्षयकरो गङ्गायमुनयोरिव ॥ १२९.८॥
१२९.९/१हनूमदुपमाता वै यत्राप्लवनमात्रतः ।
१२९.९/२मार्जारत्वाद् अभून् मुक्ता विष्णुगङ्गाप्रसादतः ॥ १२९.९॥
१२९.१०/१मार्जारं चेति तत् तीर्थं पुरा प्रोक्तं मया तव ।
१२९.१०/२हनूमतं च तत् प्रोक्तं तत्राख्यानं पुरोदितम् ॥ १२९.१०॥
१२९.११/१वृषाकपं चाब्जकं च तत्रेदं प्रयतः शृणु ।
१२९.११/२हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥ १२९.११॥
१२९.१२/१तपस्तप्त्वा सुरैः सर्वैरजेयोऽभूत् सुदारुणः ।
१२९.१२/२तस्यापि बलवान् पुत्रो देवानां दुर्जयः सदा ॥ १२९.१२॥
१२९.१३/१महाशनिरिति ख्यातस्तस्य भार्या पराजिता ।
१२९.१३/२तेनेन्द्रस्याभवद् युद्धं बहुकालं निरन्तरम् ॥ १२९.१३॥
१२९.१४/१महाशनिर्महावीर्यः सततं रणमूर्धनि ।
१२९.१४/२जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥ १२९.१४॥
१२९.१५/१बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा ।
१२९.१५/२विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥ १२९.१५॥
१२९.१६/१महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः ।
१२९.१६/२शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत् ॥ १२९.१६॥
१२९.१७/१महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात् ।
१२९.१७/२वरुणोऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः ॥ १२९.१७॥
१२९.१८/१उदधिं स्वालयं प्रादाद् वरुणस्तु महाशनेः ।
१२९.१८/२तयोश्च सख्यमभवद् वरुणस्य महाशनेः ॥ १२९.१८॥
१२९.१९/१वारुणी चापि या कन्या सा प्रियाभून् महाशनेः ।
१२९.१९/२वीर्येण यशसा चापि शौर्येण च बलेन च ॥ १२९.१९॥
१२९.२०/१महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते ।
१२९.२०/२निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥ १२९.२०॥
१२९.२१/१देवा ऊचुः । विष्णुरेवेन्द्रदाता स्याद् दैत्यहन्ता स एव च ।
१२९.२१/२मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति ॥ १२९.२१॥
१२९.२२/१ब्रह्मोवाच । एवं सम्मन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन् ।
१२९.२२/२ममावध्यो महादैत्यो महाशनिरिति ब्रुवन् ॥ १२९.२२॥
१२९.२३/१प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा ।
१२९.२३/२केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥ १२९.२३॥
१२९.२४/१तथा त्वयैतत् कर्तव्यं यथायाति पुरंदरः ।
१२९.२४/२तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने ॥ १२९.२४॥
१२९.२५/१सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् ।
१२९.२५/२अतिसम्मानितस्तेन जामात्रा वरुणः प्रभुः ॥ १२९.२५॥
१२९.२६/१पप्रच्छागमनं दैत्यो विनयाच्छ्वशुरं तदा ।
१२९.२६/२वरुणः प्राह तं दैत्यं यद् आगमनकारणम् ॥ १२९.२६॥
१२९.२७/१वरुण उवाच । इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा ।
१२९.२७/२बद्धं रसातलस्थं तं देवानामधिपं सखे ॥ १२९.२७॥
१२९.२८/१अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् ।
१२९.२८/२बद्ध्वा विमोक्षणं शत्रोर्महते यशसे सताम् ॥ १२९.२८॥
१२९.२९/१ब्रह्मोवाच । तथेत्युक्त्वा कथंचित् स दैत्येशो वरुणाय तम् ।
१२९.२९/२प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम् ॥ १२९.२९॥
१२९.३०/१स दैत्यमध्येऽतिविराजमानो ।
१२९.३०/२हरिं तदोवाच जलेशसंनिधौ ।
१२९.३०/३सम्पूज्य चैवाथ महोपचारैर्।
१२९.३०/४महाशनिर्मघवन्तं बभाषे ॥ १२९.३०॥
१२९.३१/१महाशनिरुवाच । केन त्वमिन्द्रोऽद्य कृतोऽसि केन ।
१२९.३१/२वीर्यं तवेदृग् बहु भाषसे च ।
१२९.३१/३त्वं संगरे शत्रुभिर्बाध्यसे च ।
१२९.३१/४तथापि चेन्द्रो भवसीति चित्रम् ॥ १२९.३१॥
१२९.३२/१अथापि बद्धा पुरुषेण काचित् ।
१२९.३२/२तस्याः पतिस्तां मोचयतीति युक्तम् ।
१२९.३२/३स्त्रियोऽस्वतन्त्राः पुरुषप्रधानास्- ।
१२९.३२/४त्वं वै पुमान् भविता शक्र साधो ॥ १२९.३२॥
१२९.३३/१बद्धो मया संगरे वाहनेन ।
१२९.३३/२क्वाप्यस्त्रं ते वज्रमुद्दामशक्ति ।
१२९.३३/३चिन्तारत्नं नन्दनं योषितस्ता ।
१२९.३३/४यशो बलं देवराजोपभोग्यम् ।
१२९.३३/५सर्वं हि त्वा किं तु मुक्तो जलेशाद् ।
१२९.३३/६आकाङ्क्षसे जीवितं धिक् तवेदम् ॥ १२९.३३॥
१२९.३४/१तज्जीवनं यत् तु यशोनिधानम् ।
१२९.३४/२स एव मृत्युर्यशसो यद् विरोधि ।
१२९.३४/३एवं जानञ् शक्र कथं जलेशान् ।
१२९.३४/४मुक्तिं प्राप्तो नैव लज्जां भजेथाः ॥ १२९.३४॥
१२९.३५/१त्रिविष्टपस्थः परिवेष्टितः सन् ।
१२९.३५/२सर्वैः सुरैः कान्तया वीज्यमानः ।
१२९.३५/३संस्तूयमानश्च तथाप्सरोभिर्।
१२९.३५/४नूनं लज्जा ते बिभेतीति मन्ये ॥ १२९.३५॥
१२९.३६/१त्वं वृत्रहा नमुचेश्चापि हन्ता ।
१२९.३६/२पुरां भेत्ता गोत्रभिद् वज्रबाहुः ।
१२९.३६/३एवं सुरास्त्वां परिपूजयन्तीत्य्।
१२९.३६/४अतो जिष्णो सर्वमेतत् त्यजस्व ॥ १२९.३६॥
१२९.३७/१विकारमाप्याप्यहितोद्भवं ये ।
१२९.३७/२जीवन्ति लोकान् अनुसंविशन्ति ।
१२९.३७/३भवादृशां दुश्च्यवनाब्जजन्मा ।
१२९.३७/४कथं न हृद्भेदमवाप कर्ता ॥ १२९.३७॥
१२९.३८/१ब्रह्मोवाच । एवमुक्त्वा तु दैत्येशो वरुणाय महात्मने ।
१२९.३८/२प्रादाद् इन्द्रं पुनश्चेदं वचनं तद् अभाषत ॥ १२९.३८॥
१२९.३९/१महाशनिरुवाच । अद्य प्रभृत्यसौ शिष्य इन्द्रः स्याद् वरुणो गुरुः ।
१२९.३९/२श्वशुरो मम येन त्वं मुक्तिमाप्तोऽसि वासव ॥ १२९.३९॥
१२९.४०/१तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति ।
१२९.४०/२नो चेद् बद्ध्वा पुनस्त्वां वै क्षेप्स्ये चैव रसातलम् ॥ १२९.४०॥
१२९.४१/१ब्रह्मोवाच । एवं निर्भर्त्स्य तं शक्रं हसंश्चापि पुनः पुनः ।
१२९.४१/२अब्रवीद् गच्छ गच्छेति वरुणं चानुमन्य तु ॥ १२९.४१॥
१२९.४२/१स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः ।
१२९.४२/२पौलोम्यां प्राह तत् सर्वं यत् तच्छत्रुपराभवम् ॥ १२९.४२॥
१२९.४३/१इन्द्र उवाच । एवमुक्तः कृतश्चैव शत्रुणाहं वरानने ।
१२९.४३/२निर्वापयामि येन स्वमात्मानं सुभगे वद ॥ १२९.४३॥
१२९.४४/१इन्द्राण्युवाच । दानवानामथोद्भूतिं शक्र मायां पराभवम् ।
१२९.४४/२वरदानं तथा मृत्युं जानेऽहं बलसूदन ॥ १२९.४४॥
१२९.४५/१तस्माद् यस्मात् तस्य मृत्युरथवापि पराभवः ।
१२९.४५/२जायेत शृणु तत् सर्वं वक्ष्येऽहं प्रीतये तव ॥ १२९.४५॥
१२९.४६/१हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली ।
१२९.४६/२तस्मान् मम स्यात् स भ्राता वरदानाच्च दर्पितः ॥ १२९.४६॥
१२९.४७/१ब्रह्माणं तोषयामास तपसा नियमेन च ।
१२९.४७/२ईदृशं बलमापन्नं तपसा किं न सिध्यति ॥ १२९.४७॥
१२९.४८/१तस्मात् त्वया चित्तरागो विस्मयो वा कथंचन ।
१२९.४८/२न कार्यः शृणु तत्रेदं कार्यं यत् तु क्रमागतम् ॥ १२९.४८॥
१२९.४९/१ब्रह्मोवाच । एवमुक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता ॥ १२९.४९॥
१२९.५०/१इन्द्राण्युवाच । नासाध्यमस्ति तपसो नासाध्यं यज्ञकर्मणः ।
१२९.५०/२नासाध्यं लोकनाथस्य विष्णोर्भक्त्या हरस्य च ॥ १२९.५०॥
१२९.५१/१पुनश्चेदं मया कान्त श्रुतमस्त्यतिशोभनम् ।
१२९.५१/२स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप ॥ १२९.५१॥
१२९.५२/१तस्माद् भूमेस्तथा चापां नासाध्यं विद्यते प्रभो ।
१२९.५२/२तपो वा यज्ञकर्मादि ताभ्यामेव यतो भवेत् ॥ १२९.५२॥
१२९.५३/१तत्रापि तीर्थभूता तु या भूमिस्तां व्रजेद् भवान् ।
१२९.५३/२तत्र विष्णुं शिवं पूज्य सर्वान् कामान् अवाप्स्यसि ॥ १२९.५३॥
१२९.५४/१श्रुतमस्ति पुनश्चेदं स्त्रियो याश्च पतिव्रताः ।
१२९.५४/२ता एव सर्वं जानन्ति धृतं ताभिश्चराचरम् ॥ १२९.५४॥
१२९.५५/१पृथिव्यां सारभूतं स्यात् तन्मध्ये दण्डकं वनम् ।
१२९.५५/२तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो ॥ १२९.५५॥
१२९.५६/१विष्णुं वा जगतामीशं दीनार्तार्तिहरं विभुम् ।
१२९.५६/२अनाथानामिह नृणां मज्जतां दुःखसागरे ॥ १२९.५६॥
१२९.५७/१हरो हरिर्वा गङ्गा वा क्वाप्यन्यच्छरणं नहि ।
१२९.५७/२तस्मात् सर्वप्रयत्नेन तोषयैतान् समाहितः ॥ १२९.५७॥
१२९.५८/१भक्त्या स्तोत्रैश्च तपसा कुरु चैव मया सह ।
१२९.५८/२ततः प्राप्स्यसि कल्याणमीशविष्णुप्रसादजम् ॥ १२९.५८॥
१२९.५९/१अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः ।
१२९.५९/२ज्ञात्वा शतगुणं तत् स्याद् भार्यया च तद् अक्षयम् ॥ १२९.५९॥
१२९.६०/१पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी ।
१२९.६०/२स्वल्पानामपि कार्याणां नहि सिद्धिस्तया विना ॥ १२९.६०॥
१२९.६१/१एकेन यत् कृतं कर्म तस्माद् अर्धफलं भवेत् ।
१२९.६१/२जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत् ॥ १२९.६१॥
१२९.६२/१तस्माद् एतत् सुविदितमर्धो जाया इति श्रुतेः ।
१२९.६२/२श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी ॥ १२९.६२॥
१२९.६३/१अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी ।
१२९.६३/२तस्माद् गच्छ मया तत्र कुरु पुण्यं महाफलम् ॥ १२९.६३॥
१२९.६४/१ततः शत्रून् निहत्याजौ महत् सुखमवाप्स्यसि ॥ १२९.६४॥
१२९.६५/१ब्रह्मोवाच । तथेत्युक्त्वा स गुरुणा भार्यया च शतक्रतुः ।
१२९.६५/२ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम् ॥ १२९.६५॥
१२९.६६/१दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान् हरिः ।
१२९.६६/२तपः कर्तुं मनश्चक्रे देवदेवाय शम्भवे ॥ १२९.६६॥
१२९.६७/१गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः ।
१२९.६७/२शिवैकशरणो भूत्वा स्तोत्रं चेदं ततोऽब्रवीत् ॥ १२९.६७॥
१२९.६८/१इन्द्र उवाच । स्वमायया यो ह्यखिलं चराचरम् ।
१२९.६८/२सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
१२९.६८/३एकः स्वतन्त्रोऽद्वयचित् सुखात्मकः ।
१२९.६८/४स नः प्रसन्नोऽस्तु पिनाकपाणिः ॥ १२९.६८॥
१२९.६९/१न यस्य तत्त्वं सनकादयोऽपि ।
१२९.६९/२जानन्ति वेदान्तरहस्यविज्ञाः ।
१२९.६९/३स पार्वतीशः सकलाभिलाष+ ।
१२९.६९/४दाता प्रसन्नोऽस्तु ममान्धकारिः ॥ १२९.६९॥
१२९.७०/१सृष्ट्वा स्वयम्भूर्भगवान् विरिञ्चिम् ।
१२९.७०/२भयंकरं चास्य शिरोऽन्वपश्यत् ।
१२९.७०/३छित्त्वा नखाग्रैर्नखसक्तमेतच् ।
१२९.७०/४चिक्षेप तस्माद् अभवत् त्रिवर्गः ॥ १२९.७०॥
१२९.७१/१पापं दरिद्रं त्वथ लोभयाच्ञे ।
१२९.७१/२मोहो विपच्चेति ततोऽप्यनन्तम् ।
१२९.७१/३जातप्रभावं भवदुःखरूपम् ।
१२९.७१/४बभूव तैर्व्याप्तमिदं समस्तम् ॥ १२९.७१॥
१२९.७२/१अवेक्ष्य सर्वं चकितः सुरेशो ।
१२९.७२/२देवीमवोचज्जगद् अस्तमेति ।
१२९.७२/३त्वं पाहि लोकेश्वरि लोकमातर्।
१२९.७२/४उमे शरण्ये सुभगे सुभद्रे ॥ १२९.७२॥
१२९.७३/१जगत्प्रतिष्ठे वरदे जय त्वम् ।
१२९.७३/२भुक्तिः समाधिः परमा च मुक्तिः ।
१२९.७३/३स्वाहा स्वधा स्वस्तिरनादिसिद्धिर्।
१२९.७३/४गीर्बुद्धिरासीरजरामरे त्वम् ॥ १२९.७३॥
१२९.७४/१विद्यादिरूपेण जगत्त्रये त्वम् ।
१२९.७४/२रक्षां करोष्येव मदाज्ञया च ।
१२९.७४/३त्वयैव सृष्टं भुवनत्रयं स्याद् ।
१२९.७४/४यतः प्रकृत्यैव तथैव चित्रम् ॥ १२९.७४॥
१२९.७५/१इत्येवमुक्ता दयिता हरेण ।
१२९.७५/२संश्लेषसंलापपरा बभूव ।
१२९.७५/३श्रान्ता भवस्यार्धतनौ सुलग्ना ।
१२९.७५/४चिक्षेप च स्वेदजलं कराग्रैः ॥ १२९.७५॥
१२९.७६/१तस्माद् बभूव प्रथमं स धर्मो ।
१२९.७६/२लक्ष्मीरथो दानमथो सुवृष्टिः ।
१२९.७६/३सत्त्वं सुसम्पन्नधरं सरांसि ।
१२९.७६/४धान्यानि पुष्पाणि फलानि चैव ॥ १२९.७६॥
१२९.७७/१सौभाग्यवस्तूनि वपुः सुवेषः ।
१२९.७७/२शृङ्गारभाजीनि महौषधानि ।
१२९.७७/३नृत्यानि गीतान्यमृतं पुराणम् ।
१२९.७७/४श्रुतिस्मृती नीतिरथान्नपाने ॥ १२९.७७॥
१२९.७८/१शस्त्राणि शास्त्राणि गृहोपयोग्यान्य्।
१२९.७८/२अस्त्राणि तीर्थानि च काननानि ।
१२९.७८/३इष्टानि पूर्तानि च मङ्गलानि ।
१२९.७८/४यानानि शुभ्राभरणासनानि ॥ १२९.७८॥
१२९.७९/१भवाङ्गसंसर्गसुसम्प्रहास+ ।
१२९.७९/२सुस्वेदसंलापरहःप्रकारैः ।
१२९.७९/३तथैव जातं सचराचरं च ।
१२९.७९/४अपापकं देवि ततश्च जातम् ॥ १२९.७९॥
१२९.८०/१सुखं प्रभूतं च शुभं च नित्यम् ।
१२९.८०/२विराजि चैतत् तव देवि भावात् ।
१२९.८०/३तस्मात् तु मां रक्ष जगज्जनित्रि ।
१२९.८०/४भीतं भयेभ्यो जगतां प्रधाने ॥ १२९.८०॥
१२९.८१/१एके तर्कैर्विमुह्यन्ति लीयन्ते तत्र चापरे ।
१२९.८१/२शिवशक्त्योस्तदाद्वैतं सुन्दरं नौमि विग्रहम् ॥ १२९.८१॥
१२९.८२/१ब्रह्मोवाच । एवं तु स्तुवतस्तस्य पुरस्ताद् अभवच्छिवः ॥ १२९.८२॥
१२९.८३/१शिव उवाच । किमभीष्टं वरयसे हरे वद परायणम् ॥ १२९.८३॥
१२९.८४/१इन्द्र उवाच । बलवान् मे रिपुश्चासीद् दर्शनैश्च शनिर्यथा ।
१२९.८४/२तेन बद्धस्तलं नीतः परिभूतस्त्वनेकधा ॥ १२९.८४॥
१२९.८५/१वाक्सायकैस्तथा विद्धस्तद्वधाय त्वियं कृतिः ।
१२९.८५/२तदर्थं जगतामीश येन जेष्ये रिपुं प्रभो ॥ १२९.८५॥
१२९.८६/१तद् एव देहि वीर्यं मे यच्चान्यद् रिपुनाशनम् ।
१२९.८६/२जातः पराभवो यस्मात् तद्विनाशे कृते सति ।
१२९.८६/३पुनर्जातमहं मन्ये वरं कीर्तिर्जयश्रियोः ॥ १२९.८६॥
१२९.८७/१ब्रह्मोवाच । स शिवः शक्रमाहेदं न मयैकेन ते रिपुः ।
१२९.८७/२वधमाप्नोति तस्मात् त्वं विष्णुमप्यव्ययं हरिम् ॥ १२९.८७॥
१२९.८८/१आराधयस्व पौलोम्या सह देवं जनार्दनम् ।
१२९.८८/२लोकत्रयैकशरणं नारायणमनन्यधीः ॥ १२९.८८॥
१२९.८९/१ततः प्राप्स्यसि तस्माच्च मत्तश्चापि प्रियं हरे ।
१२९.८९/२पुनश्चोवाच भगवान् आदिकर्ता महेश्वरः ॥ १२९.८९॥
१२९.९०/१मन्त्राभ्यासस्तपो वापि योगाभ्यसनमेव च ।
१२९.९०/२संगमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः ॥ १२९.९०॥
१२९.९१/१किं पुनः संगमे विप्र गौतमीसिन्धुफेनयोः ।
१२९.९१/२गिरीणां गह्वरे यद् वा सरितामथ संगमे ॥ १२९.९१॥
१२९.९२/१विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया ।
१२९.९२/२गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः ॥ १२९.९२॥
१२९.९३/१आस्ते तस्याप्यहं तोषमगमं बलसूदन ।
१२९.९३/२तेन त्वं भार्यया चैव तोषयस्व गदाधरम् ॥ १२९.९३॥
१२९.९४/१ब्रह्मोवाच । आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे ।
१२९.९४/२तुष्टाव देवं प्रयतः स्नात्वा पुण्येऽथ संगमे ॥ १२९.९४॥
१२९.९५/१फेनायाश्चैव गङ्गायास्तत्र देवं जनार्दनम् ।
१२९.९५/२वैदिकैर्विविधैर्मन्त्रैस्तपसातोषयत् तदा ॥ १२९.९५॥
१२९.९६/१ततस्तुष्टोऽभवद् विष्णुः किं देयं चेत्यभाषत ।
१२९.९६/२देहि मे शत्रुहन्तारमित्याह भगवान् हरिः ॥ १२९.९६॥
१२९.९७/१दत्तमित्येव जानीहि तमुवाच जनार्दनः ।
१२९.९७/२तत्राभवच्छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः ॥ १२९.९७॥
१२९.९८/१अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् ।
१२९.९८/२चक्रपाणिः शूलधरः स गत्वा तु रसातलम् ॥ १२९.९८॥
१२९.९९/१निजघान तदा दैत्यमिन्द्रशत्रुं महाशनिम् ।
१२९.९९/२सखाभवत् स चेन्द्रस्य अब्जकः स वृषाकपिः ॥ १२९.९९॥
१२९.१००/१दिविस्थोऽपि सदा चेन्द्रस्तमन्वेति वृषाकपिम् ।
१२९.१००/२कुपिता प्रणयेनाभूद् अन्यासक्तं विलोक्य तम् ।
१२९.१००/३शचीं तां सान्त्वयन्न् आह शतमन्युर्हसन्न् इदम् ॥ १२९.१००॥
१२९.१०१/१इन्द्र उवाच । नाहमिन्द्राणि शरणम् ऋते सख्युर्वृषाकपेः ।
१२९.१०१/२वारि वापि हविर्यस्य अग्नेः प्रियकरं सदा ॥ १२९.१०१॥
१२९.१०२/१नाहमन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे ।
१२९.१०२/२तस्मान् नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि ॥ १२९.१०२॥
१२९.१०३/१पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी ।
१२९.१०३/२सापत्या च कुलीना च त्वत्तोऽन्या का प्रिया मम ॥ १२९.१०३॥
१२९.१०४/१तस्मात् तवोपदेशेन गङ्गां प्राप्य महानदीम् ।
१२९.१०४/२प्रसादाद् देवदेवस्य विष्णोर्वै चक्रपाणिनः ॥ १२९.१०४॥
१२९.१०५/१तथा शिवस्य देवस्य प्रसादाच्च वृषाकपेः ।
१२९.१०५/२जलोद्भवाच्च मे मित्राद् अब्जकाल्लोकविश्रुतात् ॥ १२९.१०५॥
१२९.१०६/१उत्तीर्णदुःखः सुभगे इत इन्द्रोऽहमच्युतः ।
१२९.१०६/२किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी ॥ १२९.१०६॥
१२९.१०७/१दुष्करा तत्र नो मुक्तिः किंत्वर्थादित्रयं शुभे ।
१२९.१०७/२जायैव परमं मित्रं लोकद्वयहितैषिणी ॥ १२९.१०७॥
१२९.१०८/१सा चेत् कुलीना प्रियभाषिणी च ।
१२९.१०८/२पतिव्रता रूपवती गुणाढ्या ।
१२९.१०८/३सम्पत्सु चापत्सु समानरूपा ।
१२९.१०८/४तया ह्यसाध्यं किमिह त्रिलोक्याम् ॥ १२९.१०८॥
१२९.१०९/१तस्मात् तव धिया कान्ते ममेदं शुभमागतम् ।
१२९.१०९/२इतस्तवोदितं चैव कर्तव्यं नान्यद् अस्ति मे ॥ १२९.१०९॥
१२९.११०/१परलोके च धर्मे च सत्पुत्रसदृशं न च ।
१२९.११०/२आर्तस्य पुरुषस्येह भार्यावद् भेषजं नहि ॥ १२९.११०॥
१२९.१११/१निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये ।
१२९.१११/२गङ्गया सदृशं नास्ति शृणु चान्यद् वरानने ॥ १२९.१११॥
१२९.११२/१धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये ।
१२९.११२/२शिवविष्ण्वोरनन्यत्व+ ।ज्ञानान् नास्त्यत्र मुक्तये ॥ १२९.११२॥
१२९.११३/१तस्मात् तव धिया साध्वि सर्वमेतन् मनोगतम् ।
१२९.११३/२अवाप्तं च शिवाद् विष्णोर्गङ्गायाश्च प्रसादतः ॥ १२९.११३॥
१२९.११४/१इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात् पुनः ।
१२९.११४/२वृषाकपिर्मम सखा यो जातस्त्वप्सु भामिनि ॥ १२९.११४॥
१२९.११५/१त्वं च प्रियसखी नित्यं नान्यत् प्रियतरं मम ।
१२९.११५/२तीर्थानां गौतमी गङ्गा देवानां हरिशंकरौ ॥ १२९.११५॥
१२९.११६/१तस्माद् एभ्यः प्रसादेन सर्वं चेप्सितमाप्तवान् ।
१२९.११६/२मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम् ॥ १२९.११६॥
१२९.११७/१तस्माद् एतद् धि याचिष्ये देवान् सर्वान् अनुक्रमात् ।
१२९.११७/२अनुमन्यन्तु ऋषयो गङ्गा च हरिशंकरौ ॥ १२९.११७॥
१२९.११८/१इन्द्रेश्वरे चाब्जके च उभयोस्तीरयोः सुराः ।
१२९.११८/२एकत्र शंकरो देवो ह्यपरत्र जनार्दनः ॥ १२९.११८॥
१२९.११९/१पावयन् दण्डकारण्यं साक्षाद् विष्णुस्त्रिविक्रमः ।
१२९.११९/२अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च ॥ १२९.११९॥
१२९.१२०/१अत्र तु स्नानमात्रेण सर्वे ते मुक्तिमाप्नुयुः ।
१२९.१२०/२पापिष्ठाः पापतो मुक्तिमाप्नुयुर्ये च धर्मिणः ॥ १२९.१२०॥
१२९.१२१/१तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः ।
१२९.१२१/२अत्र किंचिच्च ये दद्युरर्थिभ्यस्तिलमात्रकम् ॥ १२९.१२१॥
१२९.१२२/१दातृभ्यो ह्यक्षयं तत् स्यात् कामदं मोक्षदं तथा ।
१२९.१२२/२धन्यं यशस्यमायुष्यमारोग्यं पुण्यवर्धनम् ॥ १२९.१२२॥
१२९.१२३/१आख्यानं विष्णुशम्भ्वोश्च ज्ञात्वा स्नानाच्च मुक्तिदम् ।
१२९.१२३/२अस्य तीर्थस्य माहात्म्यं ये शृण्वन्ति पठन्ति च ॥ १२९.१२३॥
१२९.१२४/१पुण्यभाजो भवेयुस्ते तेभ्योऽत्रैव स्मृतिर्भवेत् ।
१२९.१२४/२शिवविष्ण्वोरशेषाघ+ ।संघविच्छेदकारिणी ।
१२९.१२४/३यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः ॥ १२९.१२४॥
१२९.१२५/१ब्रह्मोवाच । भविष्यत्येवमेवेति तं देवा ऋषयोऽब्रुवन् ।
१२९.१२५/२गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम् ॥ १२९.१२५॥
१२९.१२६/१देवर्षिसिद्धसेव्यानां सहस्राण्यथ सप्त वै ।
१२९.१२६/२तथैव दक्षिणे तीरे तीर्थान्येकादशैव तु ॥ १२९.१२६॥
१२९.१२७/१अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः ।
१२९.१२७/२विश्रामस्थानमीशस्य विष्णोर्ब्रह्मण एव च ॥ १२९.१२७॥
१३०.१/१ब्रह्मोवाच । आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
१३०.१/२स्मरणाद् अप्यशेषाघ+ ।संघविध्वंसनक्षमम् ॥ १३०.१॥
१३०.२/१आपस्तम्बो महाप्राज्ञो मुनिरासीन् महायशाः ।
१३०.२/२तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा ॥ १३०.२॥
१३०.३/१तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् ।
१३०.३/२तस्याश्रममनुप्राप्तो ह्यगस्त्यो मुनिसत्तमः ॥ १३०.३॥
१३०.४/१तमगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः ।
१३०.४/२शिष्यैरनुगतो धीमांस्तं प्रष्टुमुपचक्रमे ॥ १३०.४॥
१३०.५/१आपस्तम्ब उवाच । त्रयाणां को नु पूज्यः स्याद् देवानां मुनिसत्तम ।
१३०.५/२भुक्तिर्मुक्तिश्च कस्माद् वा स्याद् अनादिश्च को भवेत् ॥ १३०.५॥
१३०.६/१अनन्तश्चापि को विप्र देवानामपि दैवतम् ।
१३०.६/२यज्ञैः क इज्यते देवः को वेदेष्वनुगीयते ।
१३०.६/३एतं मे संशयं छेत्तुं वदागस्त्य महामुने ॥ १३०.६॥
१३०.७/१अगस्त्य उवाच । धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते ।
१३०.७/२तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥ १३०.७॥
१३०.८/१वेदेन गीयते यस्तु पुरुषः स परात् परः ।
१३०.८/२मृतोऽपरः स विज्ञेयो ह्यमृतः पर उच्यते ॥ १३०.८॥
१३०.९/१योऽमूर्तः स परो ज्ञेयो ह्यपरो मूर्त उच्यते ।
१३०.९/२गुणाभिव्याप्तिभेदेन मूर्तोऽसौ त्रिविधो भवेत् ॥ १३०.९॥
१३०.१०/१ब्रह्मा विष्णुः शिवश्चेति एक एव त्रिधोच्यते ।
१३०.१०/२त्रयाणामपि देवानां वेद्यमेकं परं हि तत् ॥ १३०.१०॥
१३०.११/१एकस्य बहुधा व्याप्तिर्गुणकर्मविभेदतः ।
१३०.११/२लोकानामुपकारार्थमाकृतित्रितयं भवेत् ॥ १३०.११॥
१३०.१२/१यस्तत्त्वं वेत्ति परमं स च विद्वान् न चेतरः ।
१३०.१२/२तत्र यो भेदमाचष्टे लिङ्गभेदी स उच्यते ॥ १३०.१२॥
१३०.१३/१प्रायश्चित्तं न तस्यास्ति यश्चैषां व्याहरेद् भिदम् ।
१३०.१३/२त्रयाणामपि देवानां मूर्तिभेदः पृथक् पृथक् ॥ १३०.१३॥
१३०.१४/१वेदाः प्रमाणं सर्वत्र साकारेषु पृथक् पृथक् ।
१३०.१४/२निराकारं च यत् त्वेकं तत् तेभ्यः परमं मतम् ॥ १३०.१४॥
१३०.१५/१आपस्तम्ब उवाच । नानेन निर्णयः कश्चिन् मयात्र विदितो भवेत् ।
१३०.१५/२तत्राप्यत्र रहस्यं यत् तद् विमृश्याशु कीर्त्यताम् ।
१३०.१५/३निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम् ॥ १३०.१५॥
१३०.१६/१ब्रह्मोवाच । एतद् आकर्ण्य भगवान् अगस्त्यो वाक्यमब्रवीत् ॥ १३०.१६॥
१३०.१७/१अगस्त्य उवाच । यद्यप्येषां न भेदोऽस्ति देवानां तु परस्परम् ।
१३०.१७/२तथापि सर्वसिद्धिः स्याच्छिवाद् एव सुखात्मनः ॥ १३०.१७॥
१३०.१८/१प्रपञ्चस्य निमित्तं यत् तज्ज्योतिश्च परं शिवः ।
१३०.१८/२तमेव साधय हरं भक्त्या परमया मुने ।
१३०.१८/३गौतम्यां सकलाघौघ+ ।संहर्ता दण्डके वने ॥ १३०.१८॥
१३०.१९/१ब्रह्मोवाच । एतच्छ्रुत्वा मुनेर्वाक्यं परां प्रीतिमुपागतः ।
१३०.१९/२भुक्तिदो मुक्तिदः पुंसां साकारोऽथ निराकृतिः ॥ १३०.१९॥
१३०.२०/१सृष्ट्याकारस्ततः शक्तः पालनाकार एव च ।
१३०.२०/२दाता च हन्ति सर्वं यो यस्माद् एतत् समाप्यते ॥ १३०.२०॥
१३०.२१/१अगस्त्य उवाच । ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा ।
१३०.२१/२रुद्राकृतिर्निहन्त्री सा सर्ववेदेषु पठ्यते ॥ १३०.२१॥
१३०.२२/१ब्रह्मोवाच । आपस्तम्बस्तदा गङ्गां गत्वा स्नात्वा यतव्रतः ।
१३०.२२/२तुष्टाव शंकरं देवं स्तोत्रेणानेन नारद ॥ १३०.२२॥
१३०.२३/१आपस्तम्ब उवाच । काष्ठेषु वह्निः कुसुमेषु गन्धो ।
१३०.२३/२बीजेषु वृक्षादि दृषत्सु हेम ।
१३०.२३/३भूतेषु सर्वेषु तथास्ति यो वै ।
१३०.२३/४तं सोमनाथं शरणं व्रजामि ॥ १३०.२३॥
१३०.२४/१यो लीलया विश्वमिदं चकार ।
१३०.२४/२धाता विधाता भुवनत्रयस्य ।
१३०.२४/३यो विश्वरूपः सदसत्परो यः ।
१३०.२४/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२४॥
१३०.२५/१यं स्मृत्य दारिद्र्यमहाभिशाप+ ।
१३०.२५/२रोगादिभिर्न स्पृश्यते शरीरी ।
१३०.२५/३यमाश्रिताश्चेप्सितमाप्नुवन्ति ।
१३०.२५/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२५॥
१३०.२६/१येन त्रयीधर्ममवेक्ष्य पूर्वम् ।
१३०.२६/२ब्रह्मादयस्तत्र समीहिताश्च ।
१३०.२६/३एवं द्विधा येन कृतं शरीरम् ।
१३०.२६/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२६॥
१३०.२७/१यस्मै नमो गच्छति मन्त्रपूतम् ।
१३०.२७/२हुतं हविर्या च कृता च पूजा ।
१३०.२७/३दत्तं हविर्येन सुरा भजन्ते ।
१३०.२७/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२७॥
१३०.२८/१यस्मात् परं नान्यद् अस्ति प्रशस्तम् ।
१३०.२८/२यस्मात् परं नैव सुसूक्ष्ममन्यत् ।
१३०.२८/३यस्मात् परं नो महतां महच्च ।
१३०.२८/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२८॥
१३०.२९/१यस्याज्ञया विश्वमिदं विचित्रम् ।
१३०.२९/२अचिन्त्यरूपं विविधं महच्च ।
१३०.२९/३एकक्रियं यद्वद् अनुप्रयाति ।
१३०.२९/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.२९॥
१३०.३०/१यस्मिन् विभूतिः सकलाधिपत्यम् ।
१३०.३०/२कर्तृत्वदातृत्वमहत्त्वमेव ।
१३०.३०/३प्रीतिर्यशः सौख्यमनादिधर्मः ।
१३०.३०/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३०॥
१३०.३१/१नित्यं शरण्यः सकलस्य पूज्यो ।
१३०.३१/२नित्यं प्रियो यः शरणागतस्य ।
१३०.३१/३नित्यं शिवो यः सकलस्य रूपम् ।
१३०.३१/४सोमेश्वरं तं शरणं व्रजामि ॥ १३०.३१॥
१३०.३२/१ब्रह्मोवाच । ततः प्रसन्नो भगवान् आह नारद तं मुनिम् ।
१३०.३२/२आत्मार्थं च परार्थं च आपस्तम्बोऽब्रवीच्छिवम् ॥ १३०.३२॥
१३०.३३/१सर्वान् कामान् आप्नुयुस्ते ये स्नात्वा देवमीश्वरम् ।
१३०.३३/२पश्येयुर्जगतामीशमस्त्वित्याह शिवो मुनिम् ॥ १३०.३३॥
१३०.३४/१ततः प्रभृति तत् तीर्थमापस्तम्बमुदाहृतम् ।
१३०.३४/२अनाद्यविद्यातिमिर+ ।व्रातनिर्मूलनक्षमम् ॥ १३०.३४॥
१३१.१/१ब्रह्मोवाच । यमतीर्थमिति ख्यातं पितृणां प्रीतिवर्धनम् ।
१३१.१/२अशेषपापशमनं तत्र वृत्तमिदं शृणु ॥ १३१.१॥
१३१.२/१तत्राख्यानमिदं त्वासीद् इतिहासं पुरातनम् ।
१३१.२/२सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥ १३१.२॥
१३१.३/१तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु ।
१३१.३/२गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥ १३१.३॥
१३१.४/१गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् ।
१३१.४/२रक्षन्तीमनुजग्मुस्ते राक्षसा दैत्यदानवाः ॥ १३१.४॥
१३१.५/१रक्षन्तीं तां महाप्राज्ञाः श्वानयोर्मातरं शुनीम् ।
१३१.५/२प्रलोभयित्वा विविधैर्वाक्यैर्दानैश्च यत्नतः ॥ १३१.५॥
१३१.६/१हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः ।
१३१.६/२तत आगत्य सा देवान् इदमाह क्रमाच्छुनी ॥ १३१.६॥
१३१.७/१सरमोवाच । मां बद्ध्वा राक्षसैः पाशैस्ताडयित्वा प्रहारकैः ।
१३१.७/२नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥ १३१.७॥
१३१.८/१ब्रह्मोवाच । तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः ॥ १३१.८॥
१३१.९/१बृहस्पतिरुवाच । इयं विकृतरूपास्ते अस्याः पापं च लक्षये ।
१३१.९/२अस्या मतेन ता गावो नीता नान्येन हेतुना ।
१३१.९/३पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥ १३१.९॥
१३१.१०/१ब्रह्मोवाच । तद् गुरोर्वचनाच्छक्रः पदा तां प्राहरच्छुनीम् ।
१३१.१०/२पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे ॥ १३१.१०॥
१३१.११/१पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि ।
१३१.११/२राक्षसैश्च तदा दत्तं तस्मान् नीतास्तु गा मम ॥ १३१.११॥
१३१.१२/१सरमोवाच । नापराधोऽस्ति मे नाथ न चान्यस्यापि कस्यचित् ।
१३१.१२/२नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर ।
१३१.१२/३तस्माद् रुष्टोऽसि किं नाथ रिपवो बलिनस्तु ते ॥ १३१.१२॥
१३१.१३/१ब्रह्मोवाच । ततो ध्यात्वा देवगुरुर्ज्ञात्वा तस्या विचेष्टितम् ।
१३१.१३/२सत्यं शक्र त्वियं दुष्टा रिपूणां पक्षकारिणी ॥ १३१.१३॥
१३१.१४/१ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव ।
१३१.१४/२मर्त्यलोके पापभूता अज्ञानात् पापकारिणी ॥ १३१.१४॥
१३१.१५/१तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत ।
१३१.१५/२यथा शप्ता मघवता पापात् सा ह्यतिभीषणा ॥ १३१.१५॥
१३१.१६/१गावो या राक्षसैर्नीतास्तासामानयनाय च ।
१३१.१६/२यत्नं कुर्वन् सुरपतिर्विष्णवे तन् न्यवेदयत् ॥ १३१.१६॥
१३१.१७/१विष्णुर्दैत्यांश्च दनुजान् गोहर्तृंश्चैव राक्षसान् ।
१३१.१७/२हन्तुं प्रयत्नमकरोज्जगृहे च महद् धनुः ॥ १३१.१७॥
१३१.१८/१शार्ङ्गं यल्लोकविख्यातं दैत्यनाशनमेव च ।
१३१.१८/२जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥ १३१.१८॥
१३१.१९/१यत्र वै दण्डकारण्ये शार्ङ्गपाणिर्जगत्प्रभुः ।
१३१.१९/२तत्रस्थान् दैत्यदनुजान् राक्षसांश्च बलीयसः ॥ १३१.१९॥
१३१.२०/१पुनर्जघ्ने स वै विष्णुर्गा यैर्नीताश्च राक्षसैः ।
१३१.२०/२तत्र वै दण्डकारण्ये शार्ङ्गपाणिरिति श्रुतः ॥ १३१.२०॥
१३१.२१/१युध्यमानस्ततो विष्णुर्दितिजै राक्षसैः सह ।
१३१.२१/२ते जग्मुर्दक्षिणामाशां विष्णोस्त्रासान् महामुने ॥ १३१.२१॥
१३१.२२/१अन्वगच्छत् ततो विष्णुस्तान् एव परमेश्वरः ।
१३१.२२/२गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर्मनोजवैः ॥ १३१.२२॥
१३१.२३/१बाणैस्तान् व्याहनद् विष्णुर्गङ्गाया उत्तरे तटे ।
१३१.२३/२देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥ १३१.२३॥
१३१.२४/१शार्ङ्गमुक्तैर्महावेगैः सुस्वनैश्च सुमन्त्रितैः ।
१३१.२४/२क्षयं प्राप्ता विष्णुबाणैस्ततस्ते देवशत्रवः ॥ १३१.२४॥
१३१.२५/१गावो लब्धा यत्र देवैर्बाणतीर्थं तद् उच्यते ।
१३१.२५/२वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥ १३१.२५॥
१३१.२६/१पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे ।
१३१.२६/२प्रद्रुतास्ते सुराः सर्वे गङ्गायां संन्यवेशयन् ॥ १३१.२६॥
१३१.२७/१तन्मध्ये कारयामासुर्द्वीपं चैवाश्रयं गवाम् ।
१३१.२७/२तैर्गोभिस्तत्र गङ्गायां सुरयज्ञो व्यजायत ॥ १३१.२७॥
१३१.२८/१यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः ।
१३१.२८/२देवानां यजनं तच्च सर्वकामप्रदं शुभम् ॥ १३१.२८॥
१३१.२९/१स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर्महाद्युते ।
१३१.२९/२असारापारसंसार+ ।सागरोत्तरणे तरिः ॥ १३१.२९॥
१३१.३०/१विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी ।
१३१.३०/२गोरक्षं तु ततस्तीर्थं गङ्गाया दक्षिणे तटे ॥ १३१.३०॥
१३१.३१/१तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ ।
१३१.३१/२मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥ १३१.३१॥
१३१.३२/१निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् ।
१३१.३२/२विशापकरणं चापि पप्रच्छतुरुभौ यमम् ॥ १३१.३२॥
१३१.३३/१स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् ।
१३१.३३/२श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥ १३१.३३॥
१३१.३४/१लोकत्रयैकपावन्यां गौतम्यां दण्डके वने ।
१३१.३४/२श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥ १३१.३४॥
१३१.३५/१ब्रह्माणं चैव विष्णुं च मामीशं च यथाक्रमम् ।
१३१.३५/२स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिमवाप्स्यतः ॥ १३१.३५॥
१३१.३६/१तत् पितुर्वचनं श्रुत्वा यमः प्रीतमनास्तदा ।
१३१.३६/२तयोश्च प्रीतये प्रायाद् देवतर्पणयोर्यमः ॥ १३१.३६॥
१३१.३७/१गौतम्यामघहारिण्यां सुसमाहितमानसः ।
१३१.३७/२तथैव तोषयामास गङ्गायां सुरसत्तमान् ॥ १३१.३७॥
१३१.३८/१श्वभ्यां च सहितः श्रीमान् दक्षिणाशापतिः प्रभुः ।
१३१.३८/२ब्रह्माणं तोषयामास भानुं वै दक्षिणे तटे ॥ १३१.३८॥
१३१.३९/१ईशानमुत्तरे विष्णुं स्वयं धर्मः प्रतापवान् ।
१३१.३९/२दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् ।
१३१.३९/३वरान् अयाचत बहूंल्लोकानामुपकारकान् ॥ १३१.३९॥
१३१.४०/१यम उवाच । एषु स्नानं तु ये कुर्युर्ब्रह्मविष्णुमहेश्वराः ।
१३१.४०/२आत्मार्थं च परार्थं च ते कामान् आप्नुयुः शुभान् ॥ १३१.४०॥
१३१.४१/१बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै ।
१३१.४१/२तेभ्यो दारिद्र्यदुःखानि न भवेयुर्युगे युगे ॥ १३१.४१॥
१३१.४२/१गोतीर्थे ब्रह्मतीर्थे वा यस्तु स्नात्वा यतव्रतः ।
१३१.४२/२ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥ १३१.४२॥
१३१.४३/१यः कुर्यात् तेन पृथिवी सप्तद्वीपा वसुंधरा ।
१३१.४३/२प्रदक्षिणीकृता तत्र किंचिद् दत्त्वा वसु द्विजम् ॥ १३१.४३॥
१३१.४४/१तद् देवयजनं प्राप्य किंचिद् धुत्वा हुताशने ।
१३१.४४/२अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥ १३१.४४॥
१३१.४५/१यः सकृत् तत्र पठति गायत्रीं वेदमातरम् ।
१३१.४५/२अधीतास्तेन वेदा वै निष्कामो मुक्तिभाजनम् ॥ १३१.४५॥
१३१.४६/१स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः ।
१३१.४६/२पूजयित्वा यथान्यायं सर्वान् कामान् अवाप्नुयात् ॥ १३१.४६॥
१३१.४७/१ब्रह्मविष्णुमहेशानां शक्तिर्माता त्रयीमयी ।
१३१.४७/२सर्वान् कामान् अवाप्नोति पुत्रवान् धनवान् भवेत् ॥ १३१.४७॥
१३१.४८/१आदित्यं भक्तितो यस्तु दक्षिणे नियतो नरः ।
१३१.४८/२स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥ १३१.४८॥
१३१.४९/१कूले यश्चोत्तरे चैव गङ्गाया दैत्यसूदनम् ।
१३१.४९/२स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥ १३१.४९॥
१३१.५०/१यमेश्वरं ततो यस्तु यमतीर्थे तु पूजितम् ।
१३१.५०/२स्नातः पश्यति युक्तात्मा स करोत्यचिरेण हि ॥ १३१.५०॥
१३१.५१/१पितृणामक्षयं पुण्यं फलदं कीर्तिवर्धनम् ।
१३१.५१/२तत्र स्नानेन दानेन जपेन स्तवनेन च ।
१३१.५१/३अपि दुष्कृतकर्माणः पितरो मोक्षमाप्नुयुः ॥ १३१.५१॥
१३१.५२/१ब्रह्मोवाच । इत्याद्यष्ट सहस्राणि तीर्थानि त्रीणि नारद ।
१३१.५२/२तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ १३१.५२॥
१३१.५३/१एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् ।
१३१.५३/२श्रवणात् पितृभिः सार्धं पठनात् स्वकुलैः सह ॥ १३१.५३॥
१३१.५४/१तेषामप्यतिपापानि नाशं यान्ति ममाज्ञया ।
१३१.५४/२तत्र स्नानादि यः कृत्वा किंचिद् दत्त्वा यतात्मवान् ॥ १३१.५४॥
१३१.५५/१पितृणां पिण्डदानादि कृत्वा नत्वा सुरान् इमान् ।
१३१.५५/२धनं धान्यं यशो वीर्यमायुरारोग्यसम्पदः ॥ १३१.५५॥
१३१.५६/१पुत्रान् पौत्रान् प्रियां भार्यां लब्ध्वा चान्यन् मनीषितम् ।
१३१.५६/२अवियुक्तः प्रीतमना बन्धुभिश्चातिमानितः ॥ १३१.५६॥
१३१.५७/१नरकस्थान् अपि पितृंस्तारयित्वा कुलानि च ।
१३१.५७/२पावयित्वा प्रियैर्युक्तो ह्यन्ते विष्णुं शिवं स्मरेत् ।
१३१.५७/३ततो मुक्तिपदं गच्छेद् देवानां वचनं यथा ॥ १३१.५७॥
१३२.१/१ब्रह्मोवाच । यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम् ।
१३२.१/२तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.१॥
१३२.२/१यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः ।
१३२.२/२तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥ १३२.२॥
१३२.३/१विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी ।
१३२.३/२ऋषीणां सत्त्रमगमद् गौतमीतीरवर्तिनाम् ॥ १३२.३॥
१३२.४/१दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता ।
१३२.४/२या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम् ॥ १३२.४॥
१३२.५/१विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव ।
१३२.५/२ततो नद्यभवत् तत्र यक्षिणीति सुविश्रुता ॥ १३२.५॥
१३२.६/१ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम् ।
१३२.६/२संगम्य चैव गौतम्या तां विशापामथाकरोत् ॥ १३२.६॥
१३२.७/१ततः प्रभृति तत् तीर्थं यक्षिणीसंगमं स्मृतम् ।
१३२.७/२तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात् ॥ १३२.७॥
१३२.८/१विश्वावसोः प्रसन्नोऽभूद् यत्र शम्भुः शिवान्वितः ।
१३२.८/२शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥ १३२.८॥
१३२.९/१सर्वपापौघहरणं सर्वदुर्गतिनाशनम् ।
१३२.९/२सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने ।
१३२.९/३तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥ १३२.९॥
१३३.१/१ब्रह्मोवाच । शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
१३३.१/२यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥ १३३.१॥
१३३.२/१भरद्वाज इति ख्यातो मुनिः परमधार्मिकः ।
१३३.२/२तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ १३३.२॥
१३३.३/१गौतमीतीरमध्यास्ते पतिव्रतपरायणा ।
१३३.३/२अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत् ॥ १३३.३॥
१३३.४/१पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत ।
१३३.४/२पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ १३३.४॥
१३३.५/१यज्ञं मे ह्यत्र को हंसि कोपात् त्वमिति तं मुनिः ।
१३३.५/२प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः ।
१३३.५/३तद् ऋषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ १३३.५॥
१३३.६/१राक्षस उवाच । हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् ।
१३३.६/२संध्यासुतोऽहं ज्येष्ठश्च सुतः प्राचीनबर्हिषः ॥ १३३.६॥
१३३.७/१ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् ।
१३३.७/२ममानुजः कलिश्चापि बलवान् अतिभीषणः ॥ १३३.७॥
१३३.८/१अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः ।
१३३.८/२अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ १३३.८॥
१३३.९/१भरद्वाज उवाच । रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः ।
१३३.९/२जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ १३३.९॥
१३३.१०/१यज्ञघ्न उवाच । भरद्वाज निबोधेदं वाक्यं मम समासतः ।
१३३.१०/२ब्रह्मणाहं पुरा शप्तो देवदानवसंनिधौ ॥ १३३.१०॥
१३३.११/१ततः प्रसादितो देवो मया लोकपितामहः ।
१३३.११/२अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ १३३.११॥
१३३.१२/१तदा विशापो भविता हव्यघ्न त्वं न चान्यथा ।
१३३.१२/२एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ १३३.१२॥
१३३.१३/१ब्रह्मोवाच । भरद्वाजः पुनः प्राह सखा मेऽसि महामते ।
१३३.१३/२मखसंरक्षणं येन स्यान् मे वद करोमि तत् ॥ १३३.१३॥
१३३.१४/१सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् ।
१३३.१४/२अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम् ॥ १३३.१४॥
१३३.१५/१प्रीत्या यदि प्रसन्नोऽसि सुलभं यद् वदस्व तत् ।
१३३.१५/२तद् ऋषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ १३३.१५॥
१३३.१६/१रक्ष उवाच । अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते ।
१३३.१६/२अमृतं गोभवं चाज्यममृतं सोम एव च ॥ १३३.१६॥
१३३.१७/१एतैर्मामभिषिञ्चस्व अथवैतैस्तथा त्रिभिः ।
१३३.१७/२गङ्गाया वारिणाज्येन हिरण्येन तथैव च ।
१३३.१७/३सर्वेभ्योऽप्यधिकं दिव्यममृतं गौतमीजलम् ॥ १३३.१७॥
१३३.१८/१ब्रह्मोवाच । एतद् आकर्ण्य स ऋषिः परं संतोषमागतः ।
१३३.१८/२पाणावादाय गङ्गायाः सलिलामृतमादरात् ॥ १३३.१८॥
१३३.१९/१तेनाकरोद् ऋषी रक्षो ह्यभिषिक्तं तदा मखे ।
१३३.१९/२पुनश्च यूपे च पशावृत्विक्षु मखमण्डले ॥ १३३.१९॥
१३३.२०/१सर्वमेवाभवच्छुक्लमभिषेकान् महात्मनः ।
१३३.२०/२तद् रक्षोऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ १३३.२०॥
१३३.२१/१यः पुरा कृष्णरूपोऽभूत् स तु शुक्लोऽभवत् क्षणात् ।
१३३.२१/२यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ १३३.२१॥
१३३.२२/१ऋत्विजोऽपि विसृज्याथ यूपं गङ्गोदकेऽक्षिपत् ।
१३३.२२/२गङ्गामध्ये तद् धि यूपमद्याप्यास्ते महामते ॥ १३३.२२॥
१३३.२३/१अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् ।
१३३.२३/२तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह ॥ १३३.२३॥
१३३.२४/१रक्ष उवाच । अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः ।
१३३.२४/२तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ १३३.२४॥
१३३.२५/१कुर्युस्तेषामभीष्टानि भवेयुर्यत् फलं मखे ।
१३३.२५/२स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने ॥ १३३.२५॥
१३३.२६/१ततः प्रभृति तत् तीर्थं शुक्लतीर्थमिति स्मृतम् ।
१३३.२६/२गौतम्यां दण्डकारण्ये स्वर्गद्वारमपावृतम् ॥ १३३.२६॥
१३३.२७/१उभयोस्तीरयोः सप्त सहस्राण्यपराणि च ।
१३३.२७/२तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १३३.२७॥
१३४.१/१ब्रह्मोवाच । चक्रतीर्थमिति ख्यातं स्मरणात् पापनाशनम् ।
१३४.१/२तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १३४.१॥
१३४.२/१ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने ।
१३४.२/२गौतम्यास्तीरमाश्रित्य सत्त्रयज्ञमुपासते ॥ १३४.२॥
१३४.३/१तत्र विघ्न उपक्रान्ते रक्षोभिरतिभीषणे ।
१३४.३/२मामभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥ १३४.३॥
१३४.४/१तदाहं प्रमदारूपं माययासृज्य नारद ।
१३४.४/२यस्याश्च दर्शनाद् एव नाशं यान्त्यथ राक्षसाः ॥ १३४.४॥
१३४.५/१एवमुक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने ।
१३४.५/२मद्वाक्याद् ऋषयो मायामादाय पुनरागमन् ॥ १३४.५॥
१३४.६/१अजैका या समाख्याता कृष्णलोहितरूपिणी ।
१३४.६/२मुक्तकेशीत्यभिधया सास्तेऽद्यापि स्वरूपिणी ॥ १३४.६॥
१३४.७/१लोकत्रितयसम्मोह+ ।दायिनी कामरूपिणी ।
१३४.७/२तद्बलात् स्वस्थमनसः सर्वे च मुनिपुंगवः ॥ १३४.७॥
१३४.८/१गौतमीं सरितां श्रेष्ठां पुनर्यज्ञाय दीक्षिताः ।
१३४.८/२पुनस्तन्मखनाशाय राक्षसाः समुपागमन् ॥ १३४.८॥
१३४.९/१यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुंगवाः ।
१३४.९/२ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥ १३४.९॥
१३४.१०/१माहेश्वरी महामाया प्रभावेणातिदर्पिता ।
१३४.१०/२तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥ १३४.१०॥
१३४.११/१मायारूपां तु प्रमदां भक्षयामास नारद ।
१३४.११/२तद् अद्भुतमतीवासीत् तन्मायाबलदर्शिनाम् ॥ १३४.११॥
१३४.१२/१मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः ।
१३४.१२/२प्रादाद् विष्णुश्चक्रमथो मुनीनां रक्षणाय तु ॥ १३४.१२॥
१३४.१३/१चक्रं तद् राक्षसान् आजौ दैत्यांश्च दनुजांस्तथा ।
१३४.१३/२चिच्छेद तद्भयाद् एव मृता राक्षसपुंगवाः ॥ १३४.१३॥
१३४.१४/१ऋषिभिस्तन् महासत्त्रं सम्पूर्णमभवत् तदा ।
१३४.१४/२विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥ १३४.१४॥
१३४.१५/१ततः प्रभृति तत् तीर्थं चक्रतीर्थमुदाहृतम् ।
१३४.१५/२तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥ १३४.१५॥
१३४.१६/१तत्र पञ्च शतान्यासंस्तीर्थानां पापहारिणाम् ।
१३४.१६/२तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥ १३४.१६॥
१३५.१/१ब्रह्मोवाच । वाणीसंगममाख्यातं यत्र वागीश्वरो हरः ।
१३५.१/२तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ १३५.१॥
१३५.२/१तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् ।
१३५.२/२ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम् ॥ १३५.२॥
१३५.३/१तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत् किल ।
१३५.३/२तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा ॥ १३५.३॥
१३५.४/१अहमस्मि महांस्तत्र अहमस्मीति वै मिथः ।
१३५.४/२दैवी वाक् तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति ॥ १३५.४॥
१३५.५/१स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुमर्हथः ।
१३५.५/२तद्वाक्याद् विष्णुरगमद् अधोऽहं चोर्ध्वमेव च ॥ १३५.५॥
१३५.६/१ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत् ।
१३५.६/२अप्राप्यान्तमहं प्रायां दूराद् दूरतरं मुने ॥ १३५.६॥
१३५.७/१ततः श्रान्तो निवृत्तोऽहं द्रष्टुमीशं तु तं प्रभुम् ।
१३५.७/२तदैवं मम धीरासीद् दृष्टश्चान्तो मया भृशम् ॥ १३५.७॥
१३५.८/१अस्य देवस्य तद् विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत् ।
१३५.८/२पुनश्चापि मम त्वेवं मतिरासीन् महामते ॥ १३५.८॥
१३५.९/१सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितोऽप्यनृतं वचः ।
१३५.९/२नानाविधेषु पापेषु नानृतात् पातकं परम् ॥ १३५.९॥
१३५.१०/१सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति ।
१३५.१०/२ततोऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥ १३५.१०॥
१३५.११/१कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा ।
१३५.११/२अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥ १३५.११॥
१३५.१२/१अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन ।
१३५.१२/२ममेति वदतः पार्श्वे उभौ तौ हरिशंकरौ ॥ १३५.१२॥
१३५.१३/१एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव ।
१३५.१३/२तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि ।
१३५.१३/३ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ॥ १३५.१३॥
१३५.१४/१हरिहरावूचतुः । दुष्टे त्वं निम्नगा भूया नानृताद्
अस्ति पातकम् ॥ १३५.१४॥
१३५.१५/१ब्रह्मोवाच । ततः सा विह्वला भूत्वा नदीभावमुपागता ।
१३५.१५/२तद् दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा ॥ १३५.१५॥
१३५.१६/१यस्माद् असत्यमुक्तासि ब्रह्मवाचि स्थिता सती ।
१३५.१६/२तस्माद् अदृश्या त्वं भूयाः पापरूपास्यसंशयम् ॥ १३५.१६॥
१३५.१७/१एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा ।
१३५.१७/२विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥ १३५.१७॥
१३५.१८/१ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ ।
१३५.१८/२प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः ॥ १३५.१८॥
१३५.१९/१हरिहरावूचतुः । गङ्गया संगता भद्रे यदा त्वं लोकपावनी ।
१३५.१९/२तदा पुनर्वपुस्ते स्यात् पवित्रं हि सुशोभने ॥ १३५.१९॥
१३५.२०/१ब्रह्मोवाच । तथेत्युक्त्वा सापि देवी गङ्गया संगताभवत् ।
१३५.२०/२भागीरथी गौतमी च ततश्चापि स्वकं वपुः ॥ १३५.२०॥
१३५.२१/१देवी सा व्यगमद् ब्रह्मन् देवानामपि दुर्लभम् ।
१३५.२१/२गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥ १३५.२१॥
१३५.२२/१भागीरथ्यां सैव देवी सरस्वत्यभिधीयते ।
१३५.२२/२उभयत्रापि विख्यातः संगमो लोकपूजितः ॥ १३५.२२॥
१३५.२३/१सरस्वतीसंगमश्च वाणीसंगम एव च ।
१३५.२३/२गौतम्या संगता देवी वाणी वाचा सरस्वती ॥ १३५.२३॥
१३५.२४/१सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् ।
१३५.२४/२देवेश्वरं पूजयित्वा विशापमगमद् यतः ॥ १३५.२४॥
१३५.२५/१ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः ।
१३५.२५/२तस्मात् तत्र शुचिर्भूत्वा स्नात्वा तत्र च संगमे ॥ १३५.२५॥
१३५.२६/१वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात् ।
१३५.२६/२दानहोमादिकं किंचिद् उपवासादिकां क्रियाम् ॥ १३५.२६॥
१३५.२७/१यः कुर्यात् संगमे पुण्ये संसारे न भवेत् पुनः ।
१३५.२७/२एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः ।
१३५.२७/३नानाजन्मार्जिताशेष+ ।पापक्षयविधायिनाम् ॥ १३५.२७॥
१३६.१/१ब्रह्मोवाच । विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं शृणु ।
१३६.१/२मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ १३६.१॥
१३६.२/१तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी ।
१३६.२/२पिता ऋषिस्तथा वृद्धो मुद्गलो लोकविश्रुतः ॥ १३६.२॥
१३६.३/१तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा ।
१३६.३/२स मौद्गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥ १३६.३॥
१३६.४/१नित्यमेव त्विदं कर्म तस्यासीन् मुनिसत्तम ।
१३६.४/२गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥ १३६.४॥
१३६.५/१गुरूदितेन मार्गेण स्वमानससरोरुहे ।
१३६.५/२आवाहनं नित्यमेव विष्णोश्चक्रे स मौद्गलिः ॥ १३६.५॥
१३६.६/१तेनाहूतस्त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः ।
१३६.६/२वैनतेयमथारुह्य शङ्खचक्रगदाधरः ॥ १३६.६॥
१३६.७/१पूजितस्तेन ऋषिणा स मौद्गल्येन यत्नतः ।
१३६.७/२प्रब्रूते च कथाश्चित्रा मौद्गल्याय जगत्प्रभुः ॥ १३६.७॥
१३६.८/१ततोऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् ।
१३६.८/२याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः ॥ १३६.८॥
१३६.९/१एवमुक्तः स देवेन विष्णुना याति स द्विजः ।
१३६.९/२जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥ १३६.९॥
१३६.१०/१मौद्गल्योऽपि तथाभ्येत्य किंचिद् आदाय नित्यशः ।
१३६.१०/२स्वमेव भवनं विद्वान् भार्यायै स्वार्जितं धनम् ॥ १३६.१०॥
१३६.११/१ददाति स महाविष्णु+ ॅहरणाब्जपरायणः ।
१३६.११/२मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥ १३६.११॥
१३६.१२/१शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः ।
१३६.१२/२सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥ १३६.१२॥
१३६.१३/१दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता ।
१३६.१३/२भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥ १३६.१३॥
१३६.१४/१विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः ।
१३६.१४/२एवं बहुतिथे काले व्यतीते चातिविस्मिता ।
१३६.१४/३मौद्गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥ १३६.१४॥
१३६.१५/१जाबालोवाच । यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितः ।
१३६.१५/२तथापि कष्टमस्माकं कस्माद् इति जगत्प्रभुम् ॥ १३६.१५॥
१३६.१६/१तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुरेति च ।
१३६.१६/२यस्मिंश्च स्मृतमात्रे तु जराजन्मरुजो मृतिः ।
१३६.१६/३नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम् ॥ १३६.१६॥
१३६.१७/१ब्रह्मोवाच । तथेत्युक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् ।
१३६.१७/२पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥ १३६.१७॥
१३६.१८/१मौद्गल्य उवाच । त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् ।
१३६.१८/२नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥ १३६.१८॥
१३६.१९/१श्रीविष्णुरुवाच । स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा ।
१३६.१९/२न कोऽपि कस्यचित् किंचित् करोत्यत्र हिताहिते ॥ १३६.१९॥
१३६.२०/१यादृशं चोप्यते बीजं फलं भवति तादृशम् ।
१३६.२०/२रसालः स्यान् न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥ १३६.२०॥
१३६.२१/१न कृता गौतमीसेवा नार्चितौ हरिशंकरौ ।
१३६.२१/२न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥ १३६.२१॥
१३६.२२/१त्वया न दत्तं किंचिच्च ब्राह्मणेभ्यो ममापि च ।
१३६.२२/२यद् दीयते तद् एवेह परस्मिंश्चोपतिष्ठति ॥ १३६.२२॥
१३६.२३/१मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् ।
१३६.२३/२करोति तस्मात् पूतात्मा शरीरस्य च शोषणात् ॥ १३६.२३॥
१३६.२४/१विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् ।
१३६.२४/२सत्कर्माचरणाच्छुद्धो विरक्तः स्यात् ततो नरः ॥ १३६.२४॥
१३६.२५/१ततोऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् ।
१३६.२५/२सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥ १३६.२५॥
१३६.२६/१भुक्तिर्दानादिना सर्व+ ।भूतदुःखनिबर्हणात् ।
१३६.२६/२अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥ १३६.२६॥
१३६.२७/१मौद्गल्य उवाच । भक्त्या मुक्तिः कथं भूयाद् भुक्तेर्मुक्तिः सुदुर्लभा ।
१३६.२७/२जाता चेद् देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥ १३६.२७॥
१३६.२८/१भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥ १३६.२८॥
१३६.२९/१विष्णुरुवाच । एतद् एवान्तरं ब्रह्मन् दीयते मामनुस्मरन् ।
१३६.२९/२ब्राह्मणायाथवार्थिभ्यस्तद् एवाक्षयतां व्रजेत् ॥ १३६.२९॥
१३६.३०/१मामध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् ।
१३६.३०/२तत् पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥ १३६.३०॥
१३६.३१/१तस्माद् देहि महाबुद्धे भोज्यं किंचिन् मम ध्रुवम् ।
१३६.३१/२अथवा विप्रमुख्याय गौतमीतीरमाश्रितः ॥ १३६.३१॥
१३६.३२/१ब्रह्मोवाच । मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते ।
१३६.३२/२नान्यत् किंचन देहादि यत् तत् त्वयि समर्पितम् ॥ १३६.३२॥
१३६.३३/१ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः ।
१३६.३३/२इहानयस्व कणिशं ममायं चार्पयिष्यति ॥ १३६.३३॥
१३६.३४/१ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान् ।
१३६.३४/२आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट् ॥ १३६.३४॥
१३६.३५/१विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः ।
१३६.३५/२एतस्मिन्न् अन्तरे विष्णुर्विश्वकर्माणमब्रवीत् ॥ १३६.३५॥
१३६.३६/१विष्णुरुवाच । यावच्चास्य कुले सप्त पुरुषास्तावद् एव तु ।
१३६.३६/२भवितारो महाबुद्धे तावत् कामा मनीषिताः ।
१३६.३६/३गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च ॥ १३६.३६॥
१३६.३७/१ब्रह्मोवाच । यच्च किंचिन् मनःप्रीत्यै लोके भवति भूषणम् ।
१३६.३७/२तत् सर्वमाप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥ १३६.३७॥
१३६.३८/१गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस्ततो ययौ ।
१३६.३८/२आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिरभाषत ॥ १३६.३८॥
१३६.३९/१ऋषिरुवाच । अहो दानप्रभावोऽयमहो विष्णोरनुस्मृतिः ।
१३६.३९/२अहो गङ्गाप्रभावश्च कैर्विचार्यो महान् अयम् ॥ १३६.३९॥
१३६.४०/१ब्रह्मोवाच । मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः ।
१३६.४०/२पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिमवाप च ॥ १३६.४०॥
१३६.४१/१ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा ।
१३६.४१/२तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥ १३६.४१॥
१३६.४२/१तत्र श्रुतिः स्मृतिर्वापि तीर्थस्य स्यात् कथंचन ।
१३६.४२/२तस्य विष्णुर्भवेत् प्रीतः पापैर्मुक्तः सुखी भवेत् ॥ १३६.४२॥
१३६.४३/१एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः ।
१३६.४३/२सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥ १३६.४३॥
१३७.१/१ब्रह्मोवाच । लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् ।
१३७.१/२अलक्ष्मीनाशनं पुण्यमाख्यानं शृणु नारद ॥ १३७.१॥
१३७.२/१संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया ।
१३७.२/२परस्परविरोधिन्यावुभे विश्वं समीयतुः ॥ १३७.२॥
१३७.३/१ताभ्यामव्यापृतं वस्तु तन् नास्ति भुवनत्रये ।
१३७.३/२मम ज्यैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः ।
१३७.३/३अहं पूर्वं समुद्भूता इत्याह श्रियमोजसा ॥ १३७.३॥
१३७.४/१श्रीलक्ष्मीरुवाच । कुलं शीलं जीवितं वा देहिनामहमेव तु ।
१३७.४/२मया विना देहभाजो जीवन्तोऽपि मृता इव ॥ १३७.४॥
१३७.५/१ब्रह्मोवाच । दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम् ।
१३७.५/२मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचोऽब्रवीत् ॥ १३७.५॥
१३७.६/१कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च ।
१३७.६/२यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.६॥
१३७.७/१न भयोद्भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता ।
१३७.७/२यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ १३७.७॥
१३७.८/१दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत ॥ १३७.८॥
१३७.९/१लक्ष्मीरुवाच । अलंकृतो मया जन्तुः सर्वो भवति पूजितः ।
१३७.९/२निर्धनः शिवतुल्योऽपि सर्वैरप्यभिभूयते ॥ १३७.९॥
१३७.१०/१देहीति वचनद्वारा देहस्थाः पञ्च देवताः ।
१३७.१०/२सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥ १३७.१०॥
१३७.११/१तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् ।
१३७.११/२अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥ १३७.११॥
१३७.१२/१तावत् सर्वोत्तमो जन्तुस्तावत् सर्वगुणालयः ।
१३७.१२/२नमस्यः सर्वलोकानां यावन् नार्थयते परम् ॥ १३७.१२॥
१३७.१३/१कष्टमेतन् महापापं निर्धनत्वं शरीरिणाम् ।
१३७.१३/२न मानयति नो वक्ति न स्पृशत्यधनं जनः ॥ १३७.१३॥
१३७.१४/१अहमेव ततः श्रेष्ठा दरिद्रे शृणु मे वचः ॥ १३७.१४॥
१३७.१५/१ब्रह्मोवाच । तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत् ॥ १३७.१५॥
१३७.१६/१दरिद्रोवाच । वक्तुं न लक्ष्मीर्ज्येष्ठाहमिति वै लज्जसे मुहुः ।
१३७.१६/२पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥ १३७.१६॥
१३७.१७/१विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् ।
१३७.१७/२सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥ १३७.१७॥
१३७.१८/१न तथा जायते पुंसां सुरया दारुणो मदः ।
१३७.१८/२त्वत्संनिधानमात्रेण यथा वै विदुषामपि ॥ १३७.१८॥
१३७.१९/१सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु ।
१३७.१९/२अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥ १३७.१९॥
१३७.२०/१शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च ।
१३७.२०/२सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥ १३७.२०॥
१३७.२१/१सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु ।
१३७.२१/२निवसामि सदा लक्ष्मीस्तस्माज्ज्यैष्ठ्यं मयि स्थितम् ॥ १३७.२१॥
१३७.२२/१ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु ।
१३७.२२/२निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं शृणु ते स्थितिम् ॥ १३७.२२॥
१३७.२३/१राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च ।
१३७.२३/२पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥ १३७.२३॥
१३७.२४/१अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा ।
१३७.२४/२मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे ॥ १३७.२४॥
१३७.२५/१ब्रह्मोवाच । एवं विवदमाने ते जग्मतुर्मामुभे अपि ।
१३७.२५/२तयोर्वाक्यमुपश्रुत्य मयोक्ते ते उभे अपि ॥ १३७.२५॥
१३७.२६/१मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः ।
१३७.२६/२स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥ १३७.२६॥
१३७.२७/१विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः ।
१३७.२७/२तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥ १३७.२७॥
१३७.२८/१सैव सर्वार्तिसंहर्त्री सैव संदेहकर्तरी ।
१३७.२८/२ते मद्वाक्याद् भुवं गत्वा भूम्या च सहिते अपि ॥ १३७.२८॥
१३७.२९/१अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम् ।
१३७.२९/२भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम् ॥ १३७.२९॥
१३७.३०/१सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम् ।
१३७.३०/२दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत् तदा ॥ १३७.३०॥
१३७.३१/१शृण्वत्सु लोकपालेषु शृण्वत्यां भुवि नारद ।
१३७.३१/२शृण्वतीष्वप्सु सा गङ्गा दरिद्रां वाक्यमब्रवीत् ।
१३७.३१/३सम्प्रशस्य तथा लक्ष्मीं गौतमी वाक्यमब्रवीत् ॥ १३७.३१॥
१३७.३२/१गौतम्युवाच । ब्रह्मश्रीश्च तपःश्रीश्च यज्ञश्रीः कीर्तिसंज्ञिता ।
१३७.३२/२धनश्रीश्च यशश्रीश्च विद्या प्रज्ञा सरस्वती ॥ १३७.३२॥
१३७.३३/१भुक्तिश्रीश्चाथ मुक्तिश्च स्मृतिर्लज्जा धृतिः क्षमा ।
१३७.३३/२सिद्धिस्तुष्टिस्तथा पुष्टिः शान्तिरापस्तथा मही ॥ १३७.३३॥
१३७.३४/१अहंशक्तिरथौषध्यः श्रुतिः शुद्धिर्विभावरी ।
१३७.३४/२द्यौर्ज्योत्स्ना आशिषः स्वस्तिर्व्याप्तिर्माया उषा शिवा ॥ १३७.३४॥
१३७.३५/१यत् किंचिद् विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् ।
१३७.३५/२ब्राह्मणेष्वथ धीरेषु क्षमावत्स्वथ साधुषु ॥ १३७.३५॥
१३७.३६/१विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु ।
१३७.३६/२यद् यद् रम्यं सुन्दरं वा तत् तल्लक्ष्मीविजृम्भितम् ॥ १३७.३६॥
१३७.३७/१किमत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् ।
१३७.३७/२यस्मिन् कस्मिंश्च यत् किंचिद् उत्कृष्टं परिदृश्यते ॥ १३७.३७॥
१३७.३८/१लक्ष्मीमयं तु तत् सर्वं तया हीनं न किंचन ।
१३७.३८/२अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे ॥ १३७.३८॥
१३७.३९/१गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यमब्रवीत् ।
१३७.३९/२ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्यभूत् ॥ १३७.३९॥
१३७.४०/१तावद् दरिद्राभिभवो गङ्गा यावन् न सेव्यते ।
१३७.४०/२ततः प्रभृति तत् तीर्थमलक्ष्मीनाशनं शुभम् ॥ १३७.४०॥
१३७.४१/१तत्र स्नानेन दानेन लक्ष्मीवान् पुण्यवान् भवेत् ।
१३७.४१/२तीर्थानां षट् सहस्राणि तस्मिंस्तीर्थे महामते ।
१३७.४१/३देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम् ॥ १३७.४१॥
१३८.१/१ब्रह्मोवाच । भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
१३८.१/२तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥ १३८.१॥
१३८.२/१शर्यातिरिति विख्यातो राजा परमधार्मिकः ।
१३८.२/२तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥ १३८.२॥
१३८.३/१मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः ।
१३८.३/२पुरोधास्तस्य नृपतेर्ब्रह्मर्षिः शमिनां प्रभुः ॥ १३८.३॥
१३८.४/१दिशो विजेतुं स जगाम राजा ।
१३८.४/२पुरोधसा तेन नृपप्रवीरः ।
१३८.४/३पुरोधसं प्राह महानुभावम् ।
१३८.४/४जित्वा दिशश्चाध्वनि संनिविष्टः ॥ १३८.४॥
१३८.५/१पप्रच्छेदं केन खेदं गतोऽसि ।
१३८.५/२हेतुं वदस्वेति महानुभाव ।
१३८.५/३त्वमेव राज्ये मम सर्वमान्यः ।
१३८.५/४समस्तविद्यानिरवद्यबोधः ॥ १३८.५॥
१३८.६/१विधूतपापः परितापशून्यः ।
१३८.६/२किमन्यचेता इव लक्ष्यसे त्वम् ।
१३८.६/३जितेयमुर्वी विजिता नरेन्द्रा ।
१३८.६/४हर्षस्य हेतौ महतीह जाते ॥ १३८.६॥
१३८.७/१किं त्वं कृशो मे वद सत्यमेव ।
१३८.७/२द्विजातिवर्यातिमहानुभाव ।
१३८.७/३सम्बोध्य शर्यातिमुवाच विप्रश् ।
१३८.७/४छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥ १३८.७॥
१३८.८/१मधुच्छन्दा उवाच । शृणु भूपाल मद्वाक्यं भार्यया यद् उदीरितम् ।
१३८.८/२स्थिते यामे वयं यामो यामिनी चार्धगामिनी ॥ १३८.८॥
१३८.९/१स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते ।
१३८.९/२स्मृत्वा तत् कामिनीवाक्यं शोषं याति कलेवरम् ।
१३८.९/३विकारे स्मरसंजाते जीवातुर्नलिनानना ॥ १३८.९॥
१३८.१०/१ब्रह्मोवाच । विहस्य चाब्रवीद् राजा पुरोधसमरिंदमः ॥ १३८.१०॥
१३८.११/१राजोवाच । त्वं गुरुर्मम मित्रं च किमात्मानं विडम्बसे ।
१३८.११/२किमनेन महाप्राज्ञ मम वाक्येन मानद ।
१३८.११/३क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम् ॥ १३८.११॥
१३८.१२/१ब्रह्मोवाच । एतद् आकर्ण्य मतिमान् मधुच्छन्दा वचोऽब्रवीत् ॥ १३८.१२॥
१३८.१३/१मधुच्छन्दा उवाच । यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ।
१३८.१३/२न चेदं दूषणं राजन् भूषणं चातिमन्यताम् ॥ १३८.१३॥
१३८.१४/१ब्रह्मोवाच । आजगाम स्वकं देशं महत्या सेनया वृतः ।
१३८.१४/२परीक्षार्थं च तत्प्रेम पुर्यां वार्त्तामदीदिशत् ॥ १३८.१४॥
१३८.१५/१दिशो विजेतुं शर्यातौ याते राक्षसपुंगवः ।
१३८.१५/२हत्वा रसातलं यातो राजानं सपुरोधसम् ॥ १३८.१५॥
१३८.१६/१राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम ।
१३८.१६/२वार्त्तां श्रुत्वा दूतमुखान् मधुच्छन्दःप्रिया पुनः ॥ १३८.१६॥
१३८.१७/१तदैवाभूद् गतप्राणा तद् विचित्रमिवाभवत् ।
१३८.१७/२तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥ १३८.१७॥
१३८.१८/१यत् कृतं राजपत्नीभिः प्रियया च पुरोधसः ।
१३८.१८/२विस्मितो दुःखितो राजा पुनर्दूतान् अभाषत ॥ १३८.१८॥
१३८.१९/१राजोवाच । शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत् कलेवरम् ।
१३८.१९/२रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा ॥ १३८.१९॥
१३८.२०/१ब्रह्मोवाच । इति चिन्तातुरे राज्ञि वाग् उवाचाशरीरिणी ॥ १३८.२०॥
१३८.२१/१आकाशवाग् उवाच । विधास्यत्यखिलं गङ्गा राजंस्तव समीहितम् ।
१३८.२१/२सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥ १३८.२१॥
१३८.२२/१ब्रह्मोवाच । एतच्छ्रुत्वा स शर्यातिर्गौतमीतटमाश्रितः ।
१३८.२२/२ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितृन् द्विजान् ॥ १३८.२२॥
१३८.२३/१पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् ।
१३८.२३/२अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः ॥ १३८.२३॥
१३८.२४/१एतत् सर्वं न जानाति राज्ञः कृत्यं पुरोहितः ।
१३८.२४/२गते तस्मिन् गुरौ राजा वैश्वामित्रे महात्मनि ॥ १३८.२४॥
१३८.२५/१सर्वं बलं प्रेषयित्वा गङ्गातीरेऽग्निमाविशत् ।
१३८.२५/२इत्युक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरान् अपि ॥ १३८.२५॥
१३८.२६/१यदि दत्तं यदि हुतं यदि त्राता प्रजा मया ।
१३८.२६/२तेन सत्येन सा साध्वी ममायुष्येण जीवतु ॥ १३८.२६॥
१३८.२७/१इत्युक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे ।
१३८.२७/२तदैव जीविता भार्या राज्ञस्तस्य पुरोधसः ॥ १३८.२७॥
१३८.२८/१अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् ।
१३८.२८/२पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥ १३८.२८॥
१३८.२९/१तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः ।
१३८.२९/२आत्मनश्च पुनः कृत्यमस्मरन् नृपतेर्गुरुः ॥ १३८.२९॥
१३८.३०/१अहमप्यग्निमावेक्ष्य उत यास्ये प्रियान्तिकम् ।
१३८.३०/२अथवेह तपस्तप्स्ये ततो निश्चयवान् द्विजः ॥ १३८.३०॥
१३८.३१/१एतद् एवात्मनः कृत्यं मन्ये सुकृतमेव च ।
१३८.३१/२जीवयामि च राजानं ततो यामि प्रियां पुनः ॥ १३८.३१॥
१३८.३२/१एतद् एव शुभं मे स्यात् ततस्तुष्टाव भास्करम् ।
१३८.३२/२न ह्यन्यः कोऽपि देवोऽस्ति सर्वाभीष्टप्रदो रवेः ॥ १३८.३२॥
१३८.३३/१मधुच्छन्दा उवाच । नमोऽस्तु तस्मै सूर्याय मुक्तयेऽमिततेजसे ।
१३८.३३/२छन्दोमयाय देवाय ओंकारार्थाय ते नमः ॥ १३८.३३॥
१३८.३४/१विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये ।
१३८.३४/२स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे ॥ १३८.३४॥
१३८.३५/१ब्रह्मोवाच । ततः प्रसन्नः सूर्योऽभूद् वरयस्वेत्यभाषत ॥ १३८.३५॥
१३८.३६/१मधुच्छन्दा उवाच । राजानं देहि देवेश भार्यां च प्रियवादिनीम् ।
१३८.३६/२आत्मनश्च शुभान् पुत्रान् राज्ञश्चैव शुभान् वरान् ॥ १३८.३६॥
१३८.३७/१ब्रह्मोवाच । ततः प्रादाज्जगन्नाथः शर्यातिं रत्नभूषितम् ।
१३८.३७/२तां च भार्यां वरान् अन्यान् सर्वं क्षेममयं तथा ॥ १३८.३७॥
१३८.३८/१ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा ।
१३८.३८/२ययौ सुखी स्वकं देशं तत् तु तीर्थं शुभं स्मृतम् ॥ १३८.३८॥
१३८.३९/१तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ।
१३८.३९/२ततः प्रभृति तत् तीर्थं भानुतीर्थमुदाहृतम् ॥ १३८.३९॥
१३८.४०/१मृतसंजीवनं चैव शार्यातं चेति विश्रुतम् ।
१३८.४०/२माधुच्छन्दसमाख्यातं स्मरणात् पापनुन् मुने ॥ १३८.४०॥
१३८.४१/१तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।
१३८.४१/२मृतसंजीवनं तत् स्याद् आयुरारोग्यवर्धनम् ॥ १३८.४१॥
१३९.१/१ब्रह्मोवाच । खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे ।
१३९.१/२तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः ॥ १३९.१॥
१३९.२/१तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः ।
१३९.२/२पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥ १३९.२॥
१३९.३/१कुटुम्बभारात् परितो ह्यर्थार्थी परिधावति ।
१३९.३/२न किमप्याससादासौ ततो वैराग्यमास्थितः ॥ १३९.३॥
१३९.४/१अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे ।
१३९.४/२न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम् ॥ १३९.४॥
१३९.५/१इति संचिन्तयामास तदासौ निःश्वसन् मुहुः ।
१३९.५/२क्रमागतं धनं नास्ति पोष्याश्च बहवो मम ॥ १३९.५॥
१३९.६/१मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् ।
१३९.६/२स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥ १३९.६॥
१३९.७/१न लेभे तद् धनं वृत्तेर्विरागमगमत् तदा ।
१३९.७/२सेवा निषिद्धा या काचिद् गहना दुष्करं तपः ॥ १३९.७॥
१३९.८/१बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते ।
१३९.८/२त्वयापकृतमज्ञानात् तस्मात् तृष्णे नमोऽस्तु ते ॥ १३९.८॥
१३९.९/१एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् ।
१३९.९/२इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत् ॥ १३९.९॥
१३९.१०/१पैलूष उवाच । ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् ।
१३९.१०/२छेद्मीमां केन हे तात तमुपायं वद प्रभो ॥ १३९.१०॥
१३९.११/१कवष उवाच । ईश्वराज्ज्ञानमन्विच्छेद् इत्येषा वैदिकी श्रुतिः ।
१३९.११/२तस्माद् आराधयेशानं ततो ज्ञानमवाप्स्यसि ॥ १३९.११॥
१३९.१२/१ब्रह्मोवाच । तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत् ।
१३९.१२/२ततस्तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये ।
१३९.१२/३प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः ॥ १३९.१२॥
१३९.१३/१पैलूष उवाच । क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः ।
१३९.१३/२ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात् ॥ १३९.१३॥
१३९.१४/१तृष्णा बहुविधा माया बन्धनी पापकारिणी ।
१३९.१४/२छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥ १३९.१४॥
१३९.१५/१सङ्गस्तु परमोऽधर्मो देवादीनामिति श्रुतिः ।
१३९.१५/२असङ्गस्यात्मनो ह्यस्य सङ्गोऽयं परमो रिपुः ॥ १३९.१५॥
१३९.१६/१छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात् ।
१३९.१६/२संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥ १३९.१६॥
१३९.१७/१छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात् ।
१३९.१७/२पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम् ।
१३९.१७/३पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिमवाप्नुयात् ॥ १३९.१७॥
१३९.१८/१ब्रह्मोवाच । ततो ज्ञानमवाप्यासौ गङ्गातीरं समाश्रितः ।
१३९.१८/२ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः ॥ १३९.१८॥
१३९.१९/१ततः प्रभृति तत् तीर्थं खड्गतीर्थमिति स्मृतम् ।
१३९.१९/२ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥ १३९.१९॥
१३९.२०/१इत्यादिषट्सहस्राणि तीर्थान्याहुर्महर्षयः ।
१३९.२०/२अशेषपापतापौघ+ अराणीष्टप्रदानि च ॥ १३९.२०॥
१४०.१/१ब्रह्मोवाच । आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् ।
१४०.१/२तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १४०.१॥
१४०.२/१गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः ।
१४०.२/२अन्वारेभेऽथ सत्त्राणि ऋत्विग्भिर्मुनिभिर्वृतः ॥ १४०.२॥
१४०.३/१तस्य होताभवत् त्वग्निर्हव्यवाहन एव च ।
१४०.३/२एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः ॥ १४०.३॥
१४०.४/१कृत्वैश्वर्यमगाद् विप्रः सर्वत्र गतिमेव च ।
१४०.४/२इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥ १४०.४॥
१४०.५/१स्वेच्छया याति विप्रेन्द्रः प्रभावात् तपसः शुभात् ।
१४०.५/२स कदाचिद् दिवं गत्वा इन्द्रलोकमगात् पुनः ॥ १४०.५॥
१४०.६/१तत्रापश्यत् सहस्राक्षं सुरैः परिवृतं शुभैः ।
१४०.६/२स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम् ।
१४०.६/३शृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम् ॥ १४०.६॥
१४०.७/१उपोपविष्टैः सुरनायकैस्तैः ।
१४०.७/२सम्पूज्यमानं महदासनस्थम् ।
१४०.७/३जयन्तमङ्के विनिधाय सूनुम् ।
१४०.७/४शच्या युतं प्राप्तरतिं महिष्ठम् ॥ १४०.७॥
१४०.८/१सतां शरण्यं वरदं महेन्द्रम् ।
१४०.८/२समीक्ष्य विप्राधिपतिर्महात्मा ।
१४०.८/३विमोहितोऽसौ मुनिरिन्द्रलक्ष्म्या ।
१४०.८/४समीहयामास तद् इन्द्रराज्यम् ॥ १४०.८॥
१४०.९/१सम्पूजितो देवगणैर्यथावत् ।
१४०.९/२स्वमाश्रमं वै पुनराजगाम ।
१४०.९/३समीक्ष्य तां शक्रपुरीं सुरम्याम् ।
१४०.९/४रत्नैर्युतां पुण्यगुणैः सुपूर्णाम् ॥ १४०.९॥
१४०.१०/१स्वमाश्रमं निष्प्रभहेमवर्ज्यम् ।
१४०.१०/२समीक्ष्य विप्रो विरमं जगाम ।
१४०.१०/३समीहमानः सुरराज्यमाशु ।
१४०.१०/४प्रियां तदोवाच महात्रिपुत्रः ॥ १४०.१०॥
१४०.११/१आत्रेय उवाच । भोक्तुं न शक्तोऽस्मि फलानि मूलान्य्।
१४०.११/२अनुत्तमान्यप्यतिसंस्कृतानि ।
१४०.११/३स्मृत्वामृतं पुण्यतमं च तत्र ।
१४०.११/४भक्ष्यं च भोज्यं च वरासनानि ।
१४०.११/५स्तुतिं च दानं च सभां शुभां च ।
१४०.११/६अस्त्रं च वासांसि पुरीं वनानि ॥ १४०.११॥
१४०.१२/१ब्रह्मोवाच । ततो महात्मा तपसः प्रभावात् ।
१४०.१२/२त्वष्टारमाहूय वचो बभाषे ॥ १४०.१२॥
१४०.१३/१आत्रेय उवाच । इच्छेयमिन्द्रत्वमहं महात्मन् ।
१४०.१३/२कुरुष्व शीघ्रं पदमैन्द्रमत्र ।
१४०.१३/३ब्रूषेऽन्यथा चेन् मदुदीरितं त्वम् ।
१४०.१३/४भस्मीकरोम्येव न संशयोऽत्र ॥ १४०.१३॥
१४०.१४/१ब्रह्मोवाच । तदत्रिवाक्यात् त्वरितः प्रजानाम् ।
१४०.१४/२स्रष्टा विभुर्विश्वकर्मा तदैव ।
१४०.१४/३चकार मेरुं च पुरीं सुराणाम् ।
१४०.१४/४कल्पद्रुमान् कल्पलतां च धेनुम् ॥ १४०.१४॥
१४०.१५/१चकार वज्रादिविभूषितानि ।
१४०.१५/२गृहाणि शुभ्राण्यतिचित्रितानि ।
१४०.१५/३चकार सर्वावयवानवद्याम् ।
१४०.१५/४शचीं स्मरस्येव विहारशालाम् ॥ १४०.१५॥
१४०.१६/१सभां सुधर्माणमहो क्षणेन ।
१४०.१६/२तथा चकाराप्सरसो मनोज्ञाः ।
१४०.१६/३चकार चोच्चैःश्रवसं गजं च ।
१४०.१६/४वज्रादि चास्त्राणि सुरान् अशेषान् ॥ १४०.१६॥
१४०.१७/१निवार्यमाणः प्रिययात्रिपुत्रः ।
१४०.१७/२शचीसमामात्मवधूं चकार ।
१४०.१७/३तदात्रिपुत्रोऽत्रिमुखैः समेतो ।
१४०.१७/४वज्रादिरूपं च चकार चास्त्रम् ॥ १४०.१७॥
१४०.१८/१नृत्यादि गीतादि च सर्वमेव ।
१४०.१८/२चकार शक्रस्य पुरे च दृष्टम् ।
१४०.१८/३तत् सर्वमासाद्य तदा मुनीन्द्रः ।
१४०.१८/४प्रहृष्टचेताः सुतरां बभूव ॥ १४०.१८॥
१४०.१९/१आपातरम्येष्वपि कस्य नाम ।
१४०.१९/२भवत्यपेक्षा नहि गोचरेषु ।
१४०.१९/३श्रुत्वा च दैत्या दनुजाः समेता ।
१४०.१९/४रक्षांसि कोपेन युतानि सद्यः ॥ १४०.१९॥
१४०.२०/१स्वर्गं परित्यज्य कुतो हरिर्भुवम् ।
१४०.२०/२समागतो न्वेष मिथः सुखाय ।
१४०.२०/३तस्माद् वयं याम इतो नु योद्धुम् ।
१४०.२०/४वृत्रस्य हन्तारमदीर्घसत्त्रम् ॥ १४०.२०॥
१४०.२१/१ततः समागत्य तदात्रिपुत्रम् ।
१४०.२१/२संवेष्टयामासुरथासुरास्ते ।
१४०.२१/३संवेष्टयित्वा पुरमत्रिपुत्र+ ।
१४०.२१/४कृतं तथा चेन्द्रपुराभिधानम् ।
१४०.२१/५तैर्वध्यमानः शस्त्रपातैर्महद्भिस्- ।
१४०.२१/६ततो भीतो वाक्यमिदं जगाद ॥ १४०.२१॥
१४०.२२/१आत्रेय उवाच । यो जात एव प्रथमो मनस्वान् ।
१४०.२२/२देवो देवान् क्रतुना पर्यभूषत् ।
१४०.२२/३यस्य शुष्माद् रोदसी अभ्यसेताम् ।
१४०.२२/४नृम्णस्य मह्ना स जनास इन्द्रः ॥ १४०.२२॥
१४०.२३/१ब्रह्मोवाच । इत्यादिसूक्तेन रिपून् उवाच ।
१४०.२३/२हरिं च तुष्टाव तदात्रिपुत्रः ॥ १४०.२३॥
१४०.२४/१आत्रेय उवाच । नाहं हरिर्नैव शची मदीया ।
१४०.२४/२नेयं पुरी नैव वनं तद् ऐन्द्रम् ।
१४०.२४/३स एव चेन्द्रो वृत्रहन्ता स वज्री ।
१४०.२४/४सहस्राक्षो गोत्रभिद् वज्रबाहुः ॥ १४०.२४॥
१४०.२५/१अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः ।
१४०.२५/२समाविष्टो गौतमीतीरसंस्थः ।
१४०.२५/३यत्रायत्यां नाद्य वा सौख्यहेतुस्- ।
१४०.२५/४तच्चाकार्षं कर्म दुर्दैवयोगात् ॥ १४०.२५॥
१४०.२६/१असुरा ऊचुः । संहरस्वेदमात्रेय यद् इन्द्रस्य विडम्बनम् ।
१४०.२६/२क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम ॥ १४०.२६॥
१४०.२७/१ब्रह्मोवाच । तदात्रेयोऽब्रवीद् वाक्यं यथा वक्ष्यन्ति मामिह ।
१४०.२७/२करोम्येव महाभागाः सत्येनाग्निं समालभे ॥ १४०.२७॥
१४०.२८/१एवमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत् ॥ १४०.२८॥
१४०.२९/१आत्रेय उवाच । यत् कृतं त्वत्र मत्प्रीत्यै ऐन्द्रं
त्वष्टः पदं त्वया ।
१४०.२९/२संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥ १४०.२९॥
१४०.३०/१पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः ।
१४०.३०/२वृक्षांश्च वारि यत्रासीन् न मे दिव्यैः प्रयोजनम् ।
१४०.३०/३सर्वमक्रममायातं न सुखाय मनीषिणाम् ॥ १४०.३०॥
१४०.३१/१ब्रह्मोवाच । तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा ।
१४०.३१/२दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम् ॥ १४०.३१॥
१४०.३२/१त्वष्टा चापि ययौ स्थानं स्वकं सम्प्रहसन्न् इव ।
१४०.३२/२आत्रेयोऽपि तदा शिष्यैः संवृतः सह भार्यया ॥ १४०.३२॥
१४०.३३/१गौतमीतीरमाश्रित्य तपोनिष्ठोऽखिलैर्वृतः ।
१४०.३३/२वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत् ॥ १४०.३३॥
१४०.३४/१आत्रेय उवाच । अहो मोहस्य महिमा ममापि भ्रान्तचित्तता ।
१४०.३४/२किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम् ॥ १४०.३४॥
१४०.३५/१ब्रह्मोवाच । एवं वदन्तमात्रेयं लज्जितं प्राब्रुवन् सुराः ॥ १४०.३५॥
१४०.३६/१सुरा ऊचुः । लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा ।
१४०.३६/२आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा ॥ १४०.३६॥
१४०.३७/१इन्द्रास्ते भवितारो वै स्मरणात् सुखभागिनः ।
१४०.३७/२तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः ॥ १४०.३७॥
१४०.३८/१अन्विन्द्रात्रेयदैतेय+ ंआमभिः कीर्तितानि च ।
१४०.३८/२तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ १४०.३८॥
१४०.३९/१ब्रह्मोवाच । इत्युक्त्वा विबुधा याताः संतुष्टश्चाभवन्
मुनिः ॥ १४०.३९॥
१४१.१/१ब्रह्मोवाच । कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
१४१.१/२तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम् ॥ १४१.१॥
१४१.२/१कपिलो नाम तत्त्वज्ञो मुनिरासीन् महायशाः ।
१४१.२/२क्रूरश्चापि प्रसन्नश्च तपोव्रतपरायणः ॥ १४१.२॥
१४१.३/१तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरमाश्रितम् ।
१४१.३/२तमागत्य महात्मानं वामदेवादयोऽब्रुवन् ॥ १४१.३॥
१४१.४/१हत्वा वेनं ब्रह्मशापैर्नष्टधर्मे त्वराजके ।
१४१.४/२कपिलं सिद्धमाचार्यमूचुर्मुनिगणास्तदा ॥ १४१.४॥
१४१.५/१मुनिगणा ऊचुः । गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ १४१.५॥
१४१.६/१ब्रह्मोवाच । ततोऽब्रवीन् मुनिर्ध्यात्वा कपिलस्त्वागतान् मुनीन् ॥ १४१.६॥
१४१.७/१कपिल उवाच । वेनस्योरुर्विमथ्योऽभूत् ततः कश्चिद्
भविष्यति ॥ १४१.७॥
१४१.८/१ब्रह्मोवाच । तथैव चक्रुर्मुनयो वेनस्योरुं विमथ्य वै ।
१४१.८/२तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ १४१.८॥
१४१.९/१तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् ।
१४१.९/२निषादः सोऽभवत् तस्मान् निषादाश्चाभवंस्ततः ॥ १४१.९॥
१४१.१०/१वेनबाहुं ममन्थुस्ते दक्षिणं धर्मसंहितम् ।
१४१.१०/२ततः पृथुस्वरश्चैव सर्वलक्षणलक्षितः ॥ १४१.१०॥
१४१.११/१राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः ।
१४१.११/२तमागत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान् ॥ १४१.११॥
१४१.१२/१तस्मै ददुस्तथास्त्राणि मन्त्राणि गुणवन्ति च ।
१४१.१२/२ततोऽब्रुवन् मुनिगणास्तं पृथुं कपिलेन च ॥ १४१.१२॥
१४१.१३/१मुनय ऊचुः । आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीरपि ॥ १४१.१३॥
१४१.१४/१ब्रह्मोवाच । ततः स धनुरादाय भुवमाह नृपोत्तमः ॥ १४१.१४॥
१४१.१५/१पृथुरुवाच । ओषधीर्देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ १४१.१५॥
१४१.१६/१ब्रह्मोवाच । तमुवाच मही भीता पृथुं तं
पृथुलोचनम् ॥ १४१.१६॥
१४१.१७/१मह्युवाच । मयि जीर्णा महौषध्यः कथं दातुमहं क्षमा ॥ १४१.१७॥
१४१.१८/१ब्रह्मोवाच । ततः सकोपो नृपतिस्तामाह पृथिवीं पुनः ॥ १४१.१८॥
१४१.१९/१पृथुरुवाच । नो चेद् ददास्यद्य त्वां वै हत्वा दास्ये
महौषधीः ॥ १४१.१९॥
१४१.२०/१भूमिरुवाच । कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम ।
१४१.२०/२विना मया कथं चेमाः प्रजाः संधारयिष्यसि ॥ १४१.२०॥
१४१.२१/१पृथुरुवाच । यत्रोपकारोऽनेकानामेकनाशे भविष्यति ।
१४१.२१/२न दोषस्तत्र पृथिवि तपसा धारये प्रजाः ॥ १४१.२१॥
१४१.२२/१न दोषमत्र पश्यामि नाचक्षेऽनर्थकं वचः ।
१४१.२२/२यस्मिन् निपातिते सौख्यं बहूनामुपजायते ।
१४१.२२/३मुनयस्तद्वधं प्राहुरश्वमेधशताधिकम् ॥ १४१.२२॥
१४१.२३/१ब्रह्मोवाच । ततो देवाश्च ऋषयः सान्त्वयित्वा नृपोत्तमम् ।
१४१.२३/२महीं च मातरं देवीमूचुः सुरगणास्तदा ॥ १४१.२३॥
१४१.२४/१देवा ऊचुः । भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः ।
१४१.२४/२देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः ।
१४१.२४/३प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति ॥ १४१.२४॥
१४१.२५/१ब्रह्मोवाच । ततो गोरूपमास्थाय भूम्यासीत् कपिलान्तिके ।
१४१.२५/२दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ १४१.२५॥
१४१.२६/१यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः ।
१४१.२६/२महीं गोरूपमापन्नां नर्मदायां महामुने ॥ १४१.२६॥
१४१.२७/१सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः ।
१४१.२७/२महानदीषु सर्वासु दुदुहेऽसौ पयो महत् ॥ १४१.२७॥
१४१.२८/१सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी ।
१४१.२८/२गौतम्या संगता चाभूत् तद् अद्भुतमिवाभवत् ॥ १४१.२८॥
१४१.२९/१ततः प्रभृति तत् तीर्थं कपिलासंगमं विदुः ।
१४१.२९/२तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ १४१.२९॥
१४१.३०/१तीर्थान्याहुर्मुनिगणाः स्मरणाद् अपि नारद ।
१४१.३०/२पावनानि जगत्यस्मिंस्तानि सर्वाण्यनुक्रमात् ॥ १४१.३०॥
१४२.१/१ब्रह्मोवाच । देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
१४२.१/२तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १४२.१॥
१४२.२/१पुरा कृतयुगस्यादौ देवदानवसंगरे ।
१४२.२/२प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥ १४२.२॥
१४२.३/१तस्याः पुत्रो महादैत्यो राहुर्नाम महाबलः ।
१४२.३/२अमृते तु समुत्पन्ने सैंहिकेये च भेदिते ॥ १४२.३॥
१४२.४/१तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः ।
१४२.४/२पितरं घातितं श्रुत्वा तपस्तेपेऽतिदुःखितः ॥ १४२.४॥
१४२.५/१तपस्यन्तं राहुसुतं गौतमीतीरमाश्रितम् ।
१४२.५/२देवाश्च ऋषयः सर्वे तमूचुरतिभीतवत् ॥ १४२.५॥
१४२.६/१देवर्षय ऊचुः । तपो जहि महाबाहो यत् ते मनसि संस्थितम् ।
१४२.६/२सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः ।
१४२.६/३शिवगङ्गाप्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ १४२.६॥
१४२.७/१मेघहास उवाच । परिभूतः पिता पूज्यो युष्माभिर्मम दैवतम् ।
१४२.७/२तस्यापि मम चात्यन्तं प्रीतिश्च क्रियते यदि ॥ १४२.७॥
१४२.८/१भवद्भिस्तपसोऽस्माच्च अहं वैरान् निवर्तये ।
१४२.८/२वैरनिर्यातनं कार्यं पुत्रेण पितुरादरात् ।
१४२.८/३प्रार्थयन्ते भवन्तश्चेत् पूर्णास्तन् मे मनोरथाः ॥ १४२.८॥
१४२.९/१ब्रह्मोवाच । ततः सुरगणाः सर्वे राहुं चक्रुर्ग्रहानुगम् ।
१४२.९/२तं चापि मेघहासं ते चक्रू राक्षसपुंगवम् ॥ १४२.९॥
१४२.१०/१ततोऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः ।
१४२.१०/२पुनश्चाह सुरान् दैत्यो मम ख्यातिर्यथा भवेत् ॥ १४२.१०॥
१४२.११/१तीर्थस्यास्य प्रभावश्च दातव्य इति मे मतिः ।
१४२.११/२तथेत्युक्त्वा ददुर्देवाः सर्वमेव मनोगतम् ॥ १४२.११॥
१४२.१२/१दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थमुच्यते ।
१४२.१२/२देवा यतोऽभवन् सर्वे तत्र स्थाने महामते ॥ १४२.१२॥
१४२.१३/१देवस्थानं तु तत् तीर्थं देवानामपि दुर्लभम् ।
१४२.१३/२यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥ १४२.१३॥
१४२.१४/१तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद ।
१४२.१४/२तेषु स्नानं च दानं च महापातकनाशनम् ॥ १४२.१४॥
१४३.१/१ब्रह्मोवाच । सिद्धतीर्थमिति ख्यातं यत्र सिद्धेश्वरो हरः ।
१४३.१/२तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ १४३.१॥
१४३.२/१पुलस्त्यवंशसम्भूतो रावणो लोकरावणः ।
१४३.२/२दिशो विजित्य सर्वाश्च सोमलोकमजीगमत् ॥ १४३.२॥
१४३.३/१सोमेन सह योत्स्यन्तं दशास्यमहमब्रवम् ।
१४३.३/२मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन ॥ १४३.३॥
१४३.४/१इत्युक्त्वाष्टोत्तरं मन्त्रं शतनामभिरन्वितम् ।
१४३.४/२शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥ १४३.४॥
१४३.५/१निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् ।
१४३.५/२शरणं शिव एवात्र संसारेऽन्यो न कश्चन ॥ १४३.५॥
१४३.६/१ततो निवृत्तः स ह मन्त्रियुक्तस्- ।
१४३.६/२तत् सोमलोकाज्जयमाप्य रक्षः ।
१४३.६/३स पुष्पकारूढगतिः सगर्वो ।
१४३.६/४लोकान् पुनः प्राप जवाद् दशास्यः ॥ १४३.६॥
१४३.७/१स प्रेक्षमाणो देवमन्तरिक्षम् ।
१४३.७/२भुवं च नागांश्च गजांश्च विप्रान् ।
१४३.७/३आलोकयामास नगं महान्तम् ।
१४३.७/४कैलासमावास उमापतेर्यः ॥ १४३.७॥
१४३.८/१दृष्ट्वा स्मयोत्फुल्लदृग् अद्रिराजम् ।
१४३.८/२स मन्त्रिणौ रावण इत्युवाच ॥ १४३.८॥
१४३.९/१रावण उवाच । को वा गिरावत्र वसेन् महात्मा ।
१४३.९/२गिरिं नयाम्येनमथाधि भूमेः ।
१४३.९/३लङ्कागतोऽयं गिरिराशु शोभाम् ।
१४३.९/४लङ्कापि सत्यं श्रियमातनोति ॥ १४३.९॥
१४३.१०/१ब्रह्मोवाच । इत्थं वचो राक्षसमन्त्रिणौ तौ ।
१४३.१०/२निशम्य रक्षोधिपतेश्च भावम् ।
१४३.१०/३न युक्तमित्यूचतुरिष्टबुद्ध्या ।
१४३.१०/४निशाचरस्तद्वचनं न मेने ॥ १४३.१०॥
१४३.११/१संस्थाप्य तत् पुष्पकमाशु रक्षः ।
१४३.११/२पुप्लाव कैलासगिरेश्च मूले ।
१४३.११/३हिन्दोलयामास गिरिं दशास्यो ।
१४३.११/४ज्ञात्वा भवः कृत्यमिदं चकार ॥ १४३.११॥
१४३.१२/१जित्वा दिगीशांश्च सगर्वितस्य ।
१४३.१२/२कैलासमान्दोलयतः सुरारेः ।
१४३.१२/३अङ्गुष्ठकृत्यैव रसातलादि+ ।
१४३.१२/४लोकांश्च यातस्य दशाननस्य ॥ १४३.१२॥
१४३.१३/१आलूनकायस्य गिरं निशम्य ।
१४३.१३/२विहस्य देव्या सह दत्तमिष्टम् ।
१४३.१३/३तस्मै प्रसन्नः कुपितोऽपि शम्भुर्।
१४३.१३/४अयुक्तदातेति न संशयोऽत्र ॥ १४३.१३॥
१४३.१४/१ततोऽयमावाप्य वरान् सुवीरो ।
१४३.१४/२भवप्रसादात् कुसुमं जगाम ।
१४३.१४/३गच्छन् स लङ्कां भवपूजनाय ।
१४३.१४/४गङ्गामगाच्छम्भुजटाप्रसूताम् ॥ १४३.१४॥
१४३.१५/१सम्पूजयित्वा विविधैश्च मन्त्रैर्।
१४३.१५/२गङ्गाजलैः शम्भुमदीनसत्त्वः ।
१४३.१५/३असिं स लेभे शशिखण्डभूषात् ।
१४३.१५/४सिद्धिं च सर्वर्द्धिमभीप्सितां च ॥ १४३.१५॥
१४३.१६/१मद्दत्तमन्त्रं शशिरक्षणाय ।
१४३.१६/२स साधयामास भवं प्रपूज्य ।
१४३.१६/३सिद्धे तु मन्त्रे पुनरेव लङ्काम् ।
१४३.१६/४अयात् स रक्षोधिपतिः स तुष्टः ॥ १४३.१६॥
१४३.१७/१ततः प्रभृत्येतद् अतिप्रभावम् ।
१४३.१७/२तीर्थं महासिद्धिदमिष्टदं च ।
१४३.१७/३समस्तपापौघविनाशनं च ।
१४३.१७/४सिद्धैरशेषैः परिसेवितं च ॥ १४३.१७॥
१४४.१/१ब्रह्मोवाच । परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् ।
१४४.१/२तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम् ॥ १४४.१॥
१४४.२/१अत्रिराराधयामास ब्रह्मविष्णुमहेश्वरान् ।
१४४.२/२तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥ १४४.२॥
१४४.३/१तथा चैका रूपवती कन्या मम भवेत् सुराः ।
१४४.३/२तथा पुत्रत्वमापुस्ते ब्रह्मविष्णुमहेश्वराः ॥ १४४.३॥
१४४.४/१कन्यां च जनयामास शुभात्रेयीति नामतः ।
१४४.४/२दत्तः सोमोऽथ दुर्वासाः पुत्रास्तस्य महात्मनः ॥ १४४.४॥
१४४.५/१अग्नेरङ्गिरसो जातो ह्यङ्गारैरङ्गिरा यतः ।
१४४.५/२तस्माद् अङ्गिरसे प्रादाद् आत्रेयीमतिरोचिषम् ॥ १४४.५॥
१४४.६/१अग्नेः प्रभावात् परुषमात्रेयीं सर्वदावदत् ।
१४४.६/२आत्रेय्यपि च शुश्रूषां कुर्वती सर्वदाभवत् ॥ १४४.६॥
१४४.७/१तस्यामाङ्गिरसा जाता महाबलपराक्रमाः ।
१४४.७/२अङ्गिराः परुषं वादीद् आत्रेयीं नित्यमेव च ॥ १४४.७॥
१४४.८/१पुत्रास्त्वाङ्गिरसा नित्यं पितरं शमयन्ति ते ।
१४४.८/२सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् ।
१४४.८/३कृताञ्जलिपुटा दीना प्राब्रवीच्छ्वशुरं गुरुम् ॥ १४४.८॥
१४४.९/१आत्रेय्युवाच । अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै ।
१४४.९/२शुश्रूषणपरा नित्यं पुत्राणां भर्तुरेव च ॥ १४४.९॥
१४४.१०/१पतिर्मां परुषं वक्ति वृथैवोद्वीक्षते रुषा ।
१४४.१०/२प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥ १४४.१०॥
१४४.११/१ज्वलन उवाच । अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्यङ्गिरा ऋषिः ।
१४४.११/२यथा शान्तो भवेद् भद्रे तथा नीतिर्विधीयताम् ॥ १४४.११॥
१४४.१२/१आग्नेयोऽग्निं समायातो तव भर्ता वरानने ।
१४४.१२/२तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥ १४४.१२॥
१४४.१३/१आत्रेय्युवाच । सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् ।
१४४.१३/२भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥ १४४.१३॥
१४४.१४/१इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥ १४४.१४॥
१४४.१५/१ज्वलन उवाच । अग्निस्त्वप्सु शरीरेषु स्थावरे जङ्गमे तथा ।
१४४.१५/२तव भर्तुरहं धाम नित्यं च जनको मतः ॥ १४४.१५॥
१४४.१६/१योऽहं सोऽहमिति ज्ञात्वा न चिन्तां कर्तुमर्हसि ।
१४४.१६/२किं चापो मातरो देव्यो ह्यग्निः श्वशुर इत्यपि ।
१४४.१६/३इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥ १४४.१६॥
१४४.१७/१स्नुषोवाच । आपो जनन्य इति यद् बभाषे ।
१४४.१७/२अग्नेरहं तव पुत्रस्य भार्या ।
१४४.१७/३कथं भूत्वा जननी चापि भार्या ।
१४४.१७/४विरुद्धमेतज्जलरूपेण नाथ ॥ १४४.१७॥
१४४.१८/१ज्वलन उवाच । आदौ तु पत्नी भरणात् तु भार्या ।
१४४.१८/२जनेस्तु जाया स्वगुणैः कलत्रम् ।
१४४.१८/३इत्यादिरूपाणि बिभर्षि भद्रे ।
१४४.१८/४कुरुष्व वाक्यं मदुदीरितं यत् ॥ १४४.१८॥
१४४.१९/१योऽस्यां प्रजातः स तु पुत्र एव ।
१४४.१९/२सा तस्य मातैव न संशयोऽत्र ।
१४४.१९/३तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः ।
१४४.१९/४सा नैव योषित् तनयेऽभिजाते ॥ १४४.१९॥
१४४.२०/१ब्रह्मोवाच । श्वशुरस्य तु तद् वाक्यं श्रुत्वात्रेयी तदैव तत् ।
१४४.२०/२आग्नेयं रूपमापन्नमम्भसाप्लावयत् पतिम् ॥ १४४.२०॥
१४४.२१/१उभौ तौ दम्पती ब्रह्मन् संगतौ गाङ्गवारिणा ।
१४४.२१/२शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः ॥ १४४.२१॥
१४४.२२/१लक्ष्म्या युक्तो यथा विष्णुरुमया शंकरो यथा ।
१४४.२२/२रोहिण्या च यथा चन्द्रस्तथाभून् मिथुनं तदा ॥ १४४.२२॥
१४४.२३/१भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः ।
१४४.२३/२परुष्णी चेति विख्याता गङ्गया संगता नदी ॥ १४४.२३॥
१४४.२४/१गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् ।
१४४.२४/२तत्र चाङ्गिरसाश्चक्रुर्यज्ञांश्च बहुदक्षिणान् ॥ १४४.२४॥
१४४.२५/१तत्र त्रीणि सहस्राणि तीर्थान्याहुः पुराणगाः ।
१४४.२५/२उभयोस्तीरयोस्तात पृथग् यागफलं विदुः ॥ १४४.२५॥
१४४.२६/१तेषु स्नानं च दानं च वाजपेयाधिकं मतम् ।
१४४.२६/२विशेषतस्तु गङ्गायाः परुष्ण्या सह संगमे ॥ १४४.२६॥
१४४.२७/१स्नानदानादिभिः पुण्यं यत् तद् वक्तुं न शक्यते ॥ १४४.२७॥
१४५.१/१ब्रह्मोवाच । मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् ।
१४५.१/२सर्वक्रतुफलं पुण्यमघौघविनिवारणम् ॥ १४५.१॥
१४५.२/१तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ।
१४५.२/२मार्कण्डेयो भरद्वाजो वसिष्ठोऽत्रिश्च गौतमः ॥ १४५.२॥
१४५.३/१याज्ञवल्क्यश्च जाबालिर्मुनयोऽन्येऽपि नारद ।
१४५.३/२एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥ १४५.३॥
१४५.४/१पुराणन्यायमीमांसा+ ।कथासु परिनिष्ठिताः ।
१४५.४/२मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति ॥ १४५.४॥
१४५.५/१केचिज्ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम् ।
१४५.५/२एवं विवदमानास्ते मामूचुरुभयं मतम् ॥ १४५.५॥
१४५.६/१मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम् ।
१४५.६/२तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः ॥ १४५.६॥
१४५.७/१पुनर्विवदमानास्ते शंकरं प्रष्टुमुद्यताः ।
१४५.७/२गङ्गायां च भवं पूज्य तमेवार्थं शशंसिरे ॥ १४५.७॥
१४५.८/१कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः ।
१४५.८/२क्रियारूपं च तज्ज्ञानं क्रिया सैव तद् उच्यते ॥ १४५.८॥
१४५.९/१तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः ।
१४५.९/२कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन ॥ १४५.९॥
१४५.१०/१विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम् ।
१४५.१०/२सर्वं कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते ॥ १४५.१०॥
१४५.११/१कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम् ।
१४५.११/२ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥ १४५.११॥
१४५.१२/१चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः ।
१४५.१२/२मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डमुच्यते ॥ १४५.१२॥
१४५.१३/१तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे ।
१४५.१३/२पितृणां पावनं पुण्यं स्मरणाद् अपि सर्वदा ॥ १४५.१३॥
१४५.१४/१तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः ।
१४५.१४/२वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत् ॥ १४५.१४॥
१४६.१/१ब्रह्मोवाच । यायातमपरं तीर्थं यत्र कालञ्जरः शिवः ।
१४६.१/२सर्वपापप्रशमनं तद्वृत्तमुच्यते मया ॥ १४६.१॥
१४६.२/१ययातिर्नाहुषो राजा साक्षाद् इन्द्र इवापरः ।
१४६.२/२तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम् ॥ १४६.२॥
१४६.३/१ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा ।
१४६.३/२शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः ॥ १४६.३॥
१४६.४/१ब्राह्मण्यपि महाप्राज्ञा देवयानी सुमध्यमा ।
१४६.४/२ययातेरभवद् भार्या सा तु शुक्रप्रसादतः ॥ १४६.४॥
१४६.५/१शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा ।
१४६.५/२देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥ १४६.५॥
१४६.६/१यदुं च तुर्वसुं चैव देवपुत्रसमावुभौ ।
१४६.६/२शर्मिष्ठा च नृपाल्लेभे त्रीन् पुत्रान् देवसंनिभान् ॥ १४६.६॥
१४६.७/१द्रुह्युं चानुं च पूरुं च ययातेर्नृपसत्तमात् ।
१४६.७/२देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः ॥ १४६.७॥
१४६.८/१शर्मिष्ठायास्तु तनयाः शक्राग्निवरुणप्रभाः ।
१४६.८/२देवयानी कदाचित् तु पितरं प्राह दुःखिता ॥ १४६.८॥
१४६.९/१देवयान्युवाच । मम त्वपत्यद्वितयमभाग्याया भृगूद्वह ।
१४६.९/२मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥ १४६.९॥
१४६.१०/१तद् एतद् अनुमृश्यायं दुःखमत्यन्तमागता ।
१४६.१०/२मरिष्ये दानवगुरो ययातिकृतविप्रियात् ।
१४६.१०/३मानभङ्गाद् वरं तात मरणं हि मनस्विनाम् ॥ १४६.१०॥
१४६.११/१ब्रह्मोवाच । तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् ।
१४६.११/२कुपितोऽभ्याययौ शीघ्रं ययातिमिदमब्रवीत् ॥ १४६.११॥
१४६.१२/१शुक्र उवाच । यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि ।
१४६.१२/२रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि ॥ १४६.१२॥
१४६.१३/१न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः ।
१४६.१३/२स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥ १४६.१३॥
१४६.१४/१वृद्धत्वमेव मरणं जीवतामपि देहिनाम् ।
१४६.१४/२तस्माच्छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥ १४६.१४॥
१४६.१५/१ब्रह्मोवाच । एतच्छ्रुत्वा ययातिस्तु शापं शुक्रस्य धीमतः ।
१४६.१५/२कृताञ्जलिपुटो राजा ययातिः शुक्रमब्रवीत् ॥ १४६.१५॥
१४६.१६/१ययातिरुवाच । नापराध्ये न संकुप्ये नैवाधर्मं प्रवर्तये ।
१४६.१६/२अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥ १४६.१६॥
१४६.१७/१धर्ममेव चरन्तं वै कथं मां शप्तवान् असि ।
१४६.१७/२देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किंचन ॥ १४६.१७॥
१४६.१८/१तस्मान् न मम विप्रेन्द्र शापं दातुं त्वमर्हसि ।
१४६.१८/२विद्वांसोऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः ।
१४६.१८/३तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥ १४६.१८॥
१४६.१९/१ब्रह्मोवाच । ययातिवाक्याच्छुक्रोऽपि सस्मार सुतया कृतम् ।
१४६.१९/२असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥ १४६.१९॥
१४६.२०/१गतकोपोऽहमित्युक्त्वा काव्यो राजानमब्रवीत् ॥ १४६.२०॥
१४६.२१/१शुक्र उवाच । ज्ञातं मयानयाकारि विप्रियं न वदेऽनृतम् ।
१४६.२१/२शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप ॥ १४६.२१॥
१४६.२२/१यस्मै पुत्राय संदातुं जरामिच्छसि मानद ।
१४६.२२/२तस्य सा यात्वियं राजञ् जरा पुत्राय मद्वरात् ॥ १४६.२२॥
१४६.२३/१ब्रह्मोवाच । पुनर्ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥ १४६.२३॥
१४६.२४/१ययातिरुवाच । यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः ।
१४६.२४/२स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम् ॥ १४६.२४॥
१४६.२५/१यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् ।
१४६.२५/२तं शपेयमनुज्ञात्र दातव्यैव त्वया गुरो ॥ १४६.२५॥
१४६.२६/१ब्रह्मोवाच । एवमस्त्विति राजानमुवाच भृगुनन्दनः ।
१४६.२६/२ततो ययातिः स्वं पुत्रमाहूयेदं वचोऽब्रवीत् ॥ १४६.२६॥
१४६.२७/१ययातिरुवाच । यदो गृहाण मे शापाज्जरां जातां सुतो भवान् ।
१४६.२७/२ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः ।
१४६.२७/३पुत्री तेनैव जनको यस्तदाज्ञावशे स्थितः ॥ १४६.२७॥
१४६.२८/१ब्रह्मोवाच । नेत्युवाच यदुस्तातं ययातिं भूरिदक्षिणम् ।
१४६.२८/२ययातिश्च यदुं शप्त्वा तुर्वसुं काममब्रवीत् ॥ १४६.२८॥
१४६.२९/१नागृह्णात् तुर्वसुश्चापि पित्रा दत्तां जरां तदा ।
१४६.२९/२तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम ॥ १४६.२९॥
१४६.३०/१द्रुह्युश्च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् ।
१४६.३०/२अनुमप्यब्रवीद् राजा गृहाणेमां जरां मम ॥ १४६.३०॥
१४६.३१/१अनुर्नेति तदोवाच शप्त्वा तं पूरुमब्रवीत् ।
१४६.३१/२अभिनन्द्य तदा पूरुर्जरां तां जगृहे पितुः ॥ १४६.३१॥
१४६.३२/१सहस्रमेकं वर्षाणां यावत् प्रीतोऽभवत् पिता ।
१४६.३२/२यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥ १४६.३२॥
१४६.३३/१पुत्रयौवनसंतुष्टो ययातिर्बुभुजे सुखम् ।
१४६.३३/२ततस्तृप्तोऽभवद् राजा सर्वभोगेषु नाहुषः ।
१४६.३३/३ततो हर्षात् समाहूय पूरुं पुत्रमथाब्रवीत् ॥ १४६.३३॥
१४६.३४/१ययातिरुवाच । तृप्तोऽस्मि सर्वभोगेषु यौवनेन तवानघ ।
१४६.३४/२गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥ १४६.३४॥
१४६.३५/१ब्रह्मोवाच । नेत्युवाच तदा पूरुर्जरया क्षीयते मया ।
१४६.३५/२विकारास्तात भावानां दुर्निवाराः शरीरिणाम् ॥ १४६.३५॥
१४६.३६/१बलात् कालागता सह्या जराप्यखिलदेहिभिः ।
१४६.३६/२सा चेद् गुरूपकाराय गृहीता त्यज्यते कथम् ॥ १४६.३६॥
१४६.३७/१स्वीकृतत्यागपापाद् धि देहिनां मरणं वरम् ।
१४६.३७/२अथवा तु जरां राजंस्तपसा नाशयाम्यहम् ॥ १४६.३७॥
१४६.३८/१ब्रह्मोवाच । एवमुक्त्वा तु पितरं ययौ गङ्गामनुत्तमाम् ।
१४६.३८/२गौतम्या दक्षिणे पारे ततस्तेपे तपो महत् ॥ १४६.३८॥
१४६.३९/१ततः प्रीतोऽभवद् देवः कालेन महता शिवः ।
१४६.३९/२लोकातीतमहोदार+ ।गुणसन्मणिभूषितम् ।
१४६.३९/३किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥ १४६.३९॥
१४६.४०/१पूरुरुवाच । शापप्राप्तां जरां नाथ पितुर्मम सुराधिप ।
१४६.४०/२तां नाशयस्व देवेश पितृशप्तांश्च कोपतः ।
१४६.४०/३मद्भ्रातृञ् शापतो मुक्तान् कुरुष्व सुरपूजित ॥ १४६.४०॥
१४६.४१/१ब्रह्मोवाच । तथेत्युक्त्वा जगन्नाथः शापाज्जातां जरां तथा ।
१४६.४१/२अनाशयज्जगन्नाथो भ्रातृंश्चक्रे विशापिनः ॥ १४६.४१॥
१४६.४२/१ततः प्रभृति तत् तीर्थं जरारोगविनाशनम् ।
१४६.४२/२अकालजजरादीनां स्मरणाद् अपि नाशनम् ॥ १४६.४२॥
१४६.४३/१तन्नाम्ना चापि विख्यातं कालञ्जरमुदाहृतम् ।
१४६.४३/२यायातं नाहुषं पौरं शौक्रं शार्मिष्ठमेव च ॥ १४६.४३॥
१४६.४४/१एवमादीनि तीर्थानि तत्राष्टोत्तरमेव च ।
१४६.४४/२शतं विद्यान् महाबुद्धे सर्वसिद्धिकरं तथा ॥ १४६.४४॥
१४६.४५/१तेषु स्नानं च दानं च श्रवणं पठनं तथा ।
१४६.४५/२सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥ १४६.४५॥
१४७.१/१ब्रह्मोवाच । अप्सरोयुगमाख्यातमप्सरासंगमं ततः ।
१४७.१/२तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत् ॥ १४७.१॥
१४७.२/१मुक्तो भवत्यसंदेहं तत्र स्नानादिना नरः ।
१४७.२/२स्त्री सती संगमे तस्मिन्न् ऋतुस्नाता च नारद ॥ १४७.२॥
१४७.३/१वन्ध्यापि जनयेत् पुत्रं त्रिमासात् पतिना सह ।
१४७.३/२स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥ १४७.३॥
१४७.४/१अप्सरोयुगमाख्यातं तीर्थं येन च हेतुना ।
१४७.४/२तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः ॥ १४७.४॥
१४७.५/१स्पर्धासीन् महती ब्रह्मन् विश्वामित्रवसिष्ठयोः ।
१४७.५/२तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥ १४७.५॥
१४७.६/१गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका ।
१४७.६/२तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया ॥ १४७.६॥
१४७.७/१तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् ।
१४७.७/२कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥ १४७.७॥
१४७.८/१तस्यां गतायां सस्मार गाधिपुत्रोऽखिलं कृतम् ।
१४७.८/२तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥ १४७.८॥
१४७.९/१जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः ।
१४७.९/२तपस्यन्तं तदोवाच पुनरिन्द्रः सहस्रदृक् ॥ १४७.९॥
१४७.१०/१उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् ।
१४७.१०/२नैवेत्यूचुर्भयत्रस्ताः पुनराह शचीपतिः ॥ १४७.१०॥
१४७.११/१गम्भीरां चातिगम्भीरामुभे ये गर्विते तदा ।
१४७.११/२ते ऊचतुरुभे देवं सहस्राक्षं पुरंदरम् ॥ १४७.११॥
१४७.१२/१गम्भीरातिगम्भीरे ऊचतुः । आवां गत्वा तपस्यन्तं
गाधिपुत्रं महाद्युतिम् ।
१४७.१२/२च्यावयावो नृत्यगीतै रूपयौवनसम्पदा ॥ १४७.१२॥
१४७.१३/१यासामपाङ्गे हसिते वाचि विभ्रमसम्पदि ।
१४७.१३/२नित्यं वसति पञ्चेषुस्ताभिः कोऽत्र न जीयते ॥ १४७.१३॥
१४७.१४/१ब्रह्मोवाच । तथेत्युक्ते सहस्राक्षे ते आगत्य महानदीम् ।
१४७.१४/२ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥ १४७.१४॥
१४७.१५/१मृत्योरपि दुराधर्षं भूमिस्थमिव धूर्जटिम् ।
१४७.१५/२सहस्रमेकं वर्षाणामीक्षितुं न च शक्नुतः ॥ १४७.१५॥
१४७.१६/१दूरे स्थिते नृत्यगीत+ ॅहाटुकाररते तदा ।
१४७.१६/२विलोक्य मुनिशार्दूलस्ततः कोपाकुलोऽभवत् ॥ १४७.१६॥
१४७.१७/१प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते ।
१४७.१७/२निस्पृहोऽपि महाबाहुस्तमिन्द्रं प्रहसन्न् इव ॥ १४७.१७॥
१४७.१८/१आभ्यां मुक्तः सहस्राक्षो ह्यप्सरोभ्यां ब्रुवन्न् इव ।
१४७.१८/२शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥ १४७.१८॥
१४७.१९/१द्रवितुं मां समायाते यतस्त्विह ततो लघु ।
१४७.१९/२ततः प्रसादितस्ताभ्यां शापमोक्षं चकार सः ॥ १४७.१९॥
१४७.२०/१भवेतां दिव्यरूपे वां गङ्गया संगते यदा ।
१४७.२०/२तच्छापात् ते नदीरूपे तत्क्षणात् सम्बभूवतुः ॥ १४७.२०॥
१४७.२१/१अप्सरोयुगमाख्यातं नदीद्वयमतोऽभवत् ।
१४७.२१/२ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसंगमः ॥ १४७.२१॥
१४७.२२/१सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः ।
१४७.२२/२तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥ १४७.२२॥
१४७.२३/१तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥ १४७.२३॥
१४८.१/१ब्रह्मोवाच । कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे ।
१४८.१/२यस्यानुस्मरणाद् एव सर्वपापैः प्रमुच्यते ॥ १४८.१॥
१४८.२/१यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् ।
१४८.२/२कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥ १४८.२॥
१४८.३/१तत्र व्युष्टिं प्रवक्ष्यामि शृणु नारद तन्मनाः ।
१४८.३/२कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥ १४८.३॥
१४८.४/१काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः ।
१४८.४/२इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः ॥ १४८.४॥
१४८.५/१कुर्वन्न् आस्ते स गौतम्यास्तीरस्थो लोकपूजितः ।
१४८.५/२प्रातःकाले सभार्योऽसौ जुह्वद् अग्नौ समाहितः ॥ १४८.५॥
१४८.६/१सर्वदास्ते कदाचित् तु हवनाय समुद्यतः ।
१४८.६/२एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥ १४८.६॥
१४८.७/१आहुत्यन्तरदानाय हविर्द्रव्यं करेऽग्रहीत् ।
१४८.७/२एतस्मिन्न् अन्तरे वह्निरुपशान्तोऽभवत् तदा ॥ १४८.७॥
१४८.८/१ततश्चिन्तापरः काण्वः कर्तव्यं किं भवेद् इति ।
१४८.८/२अन्तर्विचारयामास विषादं परमं गतः ॥ १४८.८॥
१४८.९/१आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः ।
१४८.९/२अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा ॥ १४८.९॥
१४८.१०/१क्व होष्यं स्याद् द्वितीयं तु आहुत्यन्तरमेव च ।
१४८.१०/२एवं मीमांसमाने तु दैवी वाग् अब्रवीत् तदा ॥ १४८.१०॥
१४८.११/१अग्न्यन्तरं नैव तेऽत्र उपादेयं भविष्यति ।
१४८.११/२यानि तत्र भविष्यन्ति शकलानि समीपतः ॥ १४८.११॥
१४८.१२/१अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् ।
१४८.१२/२नेत्युवाच तदा काण्वः सैव वाग् अब्रवीत् पुनः ॥ १४८.१२॥
१४८.१३/१अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु ।
१४८.१३/२पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥ १४८.१३॥
१४८.१४/१पित्रे देयं सुते दद्यात् कोटिप्रीतिगुणं भवेत् ।
१४८.१४/२दैवी वाग् अब्रवीद् एवं ततः सर्वे महर्षयः ॥ १४८.१४॥
१४८.१५/१निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम् ।
१४८.१५/२एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत् ॥ १४८.१५॥
१४८.१६/१अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत् ।
१४८.१६/२तथा नान्येन केनापि जगत्येतद् धि विश्रुतम् ॥ १४८.१६॥
१४८.१७/१सुप्रसिद्धं जगत्येतत् सर्वलोकेषु पूजितम् ।
१४८.१७/२तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत ॥ १४८.१७॥
१४८.१८/१मनोग्लानिनिवृत्तिश्च जायते च महत् सुखम् ।
१४८.१८/२पुनरप्याह सा वाणी काण्वेऽस्मिंस्तीर्थ उत्तमे ॥ १४८.१८॥
१४८.१९/१अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः ।
१४८.१९/२लोकत्रयाश्रयाशेष+ ।तीर्थेभ्योऽपि महाफलम् ॥ १४८.१९॥
१४८.२०/१स्नानदानादिकं किंचिद् भक्त्या कुर्वन् समाहितः ।
१४८.२०/२फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने ॥ १४८.२०॥
१४८.२१/१यत् किंचित् क्रियते चात्र स्नानदानादिकं नरैः ।
१४८.२१/२सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः ॥ १४८.२१॥
१४८.२२/१यत्रैतद् वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम् ।
१४८.२२/२वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥ १४८.२२॥
१४८.२३/१कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते ।
१४८.२३/२वाचस्पतिप्रभृतिभिरथवान्यैः सुरैरपि ॥ १४८.२३॥
१४८.२४/१यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा ।
१४८.२४/२गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥ १४८.२४॥
१४८.२५/१कोटितीर्थे द्विजाग्र्याय गामेकां यः प्रयच्छति ।
१४८.२५/२तस्य तीर्थस्य माहात्म्याद् गोकोटिफलमश्नुते ॥ १४८.२५॥
१४८.२६/१तस्मिंस्तीर्थे शुचिर्भूत्वा भूमिदानं करोति यः ।
१४८.२६/२श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम् ॥ १४८.२६॥
१४८.२७/१सर्वत्र गौतमीतीरे पितृणां दानमुत्तमम् ।
१४८.२७/२विशेषतः कोटितीर्थे तद् अनन्तफलप्रदम् ।
१४८.२७/३अत्रैकन्यूनपञ्चाशत् तीर्थानि मुनयो विदुः ॥ १४८.२७॥
१४९.१/१ब्रह्मोवाच । नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे ।
१४९.१/२तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ १४९.१॥
१४९.२/१हिरण्यकशिपुः पूर्वमभवद् बलिनां वरः ।
१४९.२/२तपसा विक्रमेणापि देवानामपराजितः ॥ १४९.२॥
१४९.३/१हरिभक्तात्मजद्वेष+ ।कलुषीकृतमानसः ।
१४९.३/२आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन् ॥ १४९.३॥
१४९.४/१तं हत्वा नरसिंहस्तत्+ ।सैन्यमद्रावयत् तदा ।
१४९.४/२सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः ॥ १४९.४॥
१४९.५/१रसातलस्थाञ् शत्रूंश्च जित्वा स्वर्लोकमीयिवान् ।
१४९.५/२तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान् ॥ १४९.५॥
१४९.६/१समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः ।
१४९.६/२नानारूपधरान् दैत्यान् निजघान मृगाकृतिः ॥ १४९.६॥
१४९.७/१आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकमुपागतान् ।
१४९.७/२वज्रपाताधिकनखः समुद्धूतमहासटः ॥ १४९.७॥
१४९.८/१दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः ।
१४९.८/२महानादैर्वीक्षितैश्च प्रलयानलसंनिभैः ॥ १४९.८॥
१४९.९/१चपेटैरङ्गविक्षेपैरसुरान् पर्यचूर्णयत् ।
१४९.९/२एवं हत्वा बहुविधान् गौतमीमगमद् धरिः ॥ १४९.९॥
१४९.१०/१स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् ।
१४९.१०/२तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥ १४९.१०॥
१४९.११/१देवानां दुर्जयो योद्धा बलेन महतावृतः ।
१४९.११/२तेनाभवन् महारौद्रं भीषणं लोमहर्षणम् ॥ १४९.११॥
१४९.१२/१शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना ।
१४९.१२/२निजघान हरिः श्रीमांस्तं रिपुं ह्युत्तरे तटे ॥ १४९.१२॥
१४९.१३/१गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् ।
१४९.१३/२स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥ १४९.१३॥
१४९.१४/१सर्वरक्षाकरं नित्यं जरामरणवारणम् ।
१४९.१४/२यथा सुराणां सर्वेषां न कोऽपि हरिणा समः ॥ १४९.१४॥
१४९.१५/१तीर्थानामप्यशेषाणां तथा तत् तीर्थमुत्तमम् ।
१४९.१५/२तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम् ॥ १४९.१५॥
१४९.१६/१स्वर्गे मर्त्ये तले वापि तस्य किंचिन् न दुर्लभम् ।
१४९.१६/२इत्याद्यष्टौ मुने तत्र महातीर्थानि नारद ॥ १४९.१६॥
१४९.१७/१पृथक् पृथक् तीर्थकोटि+ ।फलमाहुर्मनीषिणः ।
१४९.१७/२अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसंक्षयः ॥ १४९.१७॥
१४९.१८/१भवेत् साक्षान् नृसिंहोऽसौ सर्वदा यत्र संस्थितः ।
१४९.१८/२तत् तीर्थसेवासंजातं फलं कैरिह वर्ण्यते ॥ १४९.१८॥
१४९.१९/१यथा न देवो नृहरेरधिकः क्वापि वर्तते ।
१४९.१९/२तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥ १४९.१९॥
१५०.१/१ब्रह्मोवाच । पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे ।
१५०.१/२पिशाचत्वात् पुरा विप्रो मुक्तिमाप महामते ॥ १५०.१॥
१५०.२/१सुयवस्यात्मजो लोके जीगर्तिरिति विश्रुतः ।
१५०.२/२कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥ १५०.२॥
१५०.३/१मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् ।
१५०.३/२विक्रीतवान् क्षत्रियाय वधाय बहुलैर्धनैः ॥ १५०.३॥
१५०.४/१किं नामापद्गतः पापं नाचरत्यपि पण्डितः ।
१५०.४/२शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥ १५०.४॥
१५०.५/१विदारणार्थं च धनं जगृहे ब्राह्मणाधमः ।
१५०.५/२ततोऽप्रतिसमाधेय+ ंअहारोगनिपीडितः ॥ १५०.५॥
१५०.६/१स मृतः कालपर्याये नरकेष्वथ पातितः ।
१५०.६/२भोगाद् ऋते न क्षयोऽस्ति प्राक्तनानामिहांहसाम् ॥ १५०.६॥
१५०.७/१किंकरैर्यमवाक्येन बहुयोन्यन्तरं गतः ।
१५०.७/२ततः पिशाचो ह्यभवद् दारुणो दारुणाकृतिः ॥ १५०.७॥
१५०.८/१शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा ।
१५०.८/२ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः ॥ १५०.८॥
१५०.९/१कन्यापुत्रमहीवाजि+ ।गवां विक्रयकारिणः ।
१५०.९/२नरकान् न निवर्तन्ते यावद् आभूतसम्प्लवम् ॥ १५०.९॥
१५०.१०/१स्वकृताघविपाकेन दारुणैर्यमकिंकरैः ।
१५०.१०/२संघाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन् ॥ १५०.१०॥
१५०.११/१पथि गच्छन् कदाचित् स जीगर्तेर्मध्यमः सुतः ।
१५०.११/२शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः ॥ १५०.११॥
१५०.१२/१पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा ।
१५०.१२/२पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम् ॥ १५०.१२॥
१५०.१३/१शुनःशेपस्तदोवाच को भवान् अतिदुःखितः ।
१५०.१३/२जीगर्तिरब्रवीद् दुःखाच्छुनःशेपपिता ह्यहम् ॥ १५०.१३॥
१५०.१४/१पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम् ।
१५०.१४/२नरकेष्वथ पक्वश्च पुनः प्राप्तोऽन्तरालकम् ।
१५०.१४/३ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः ॥ १५०.१४॥
१५०.१५/१जीगर्तिपुत्रस्तमुवाच दुःखात् ।
१५०.१५/२सोऽहं सुतस्ते मम दोषेण तात ।
१५०.१५/३विक्रीत्वा मां नरकान् एवमाप्तस्- ।
१५०.१५/४ततः करिष्ये स्वर्गतं त्वामिदानीम् ॥ १५०.१५॥
१५०.१६/१एवं प्रतिज्ञाय स गाधिपुत्र+ ।
१५०.१६/२पुत्रत्वमाप्तोऽथ मुनिप्रवीरः ।
१५०.१६/३गङ्गामभिध्याय पितुश्च लोकान् ।
१५०.१६/४अनुत्तमान् ईहमानो जगाम ॥ १५०.१६॥
१५०.१७/१अशेषदुःखानलधूपितानाम् ।
१५०.१७/२निमज्जतां मोहमहासमुद्रे ।
१५०.१७/३शरीरिणां नान्यद् अहो त्रिलोक्याम् ।
१५०.१७/४आलम्बनं विष्णुपदीं विहाय ॥ १५०.१७॥
१५०.१८/१एवं विनिश्चित्य मुनिर्महात्मा ।
१५०.१८/२समुद्दिधीर्षुः पितरं स दुर्गतेः ।
१५०.१८/३शुचिस्ततो गौतमीमाशु गत्वा ।
१५०.१८/४तत्र स्नात्वा संस्मरञ् छम्भुविष्णू ॥ १५०.१८॥
१५०.१९/१ददौ जलं प्रेतरूपाय पित्रे ।
१५०.१९/२पिशाचरूपाय सुदुःखिताय ।
१५०.१९/३तद्दानमात्रेण तदैव पूतो ।
१५०.१९/४जीगर्तिरावाप वपुः सुपुण्यम् ॥ १५०.१९॥
१५०.२०/१विमानयुक्तः सुरसंघजुष्टम् ।
१५०.२०/२विष्णोः पदं प्राप सुतप्रभावात् ।
१५०.२०/३गङ्गाप्रभावाच्च हरेश्च शम्भोर्।
१५०.२०/४विधातुरर्कायुततुल्यतेजाः ॥ १५०.२०॥
१५०.२१/१ततः प्रभृत्येतद् अतिप्रसिद्धम् ।
१५०.२१/२पैशाचनाशं च महागदं च ।
१५०.२१/३महान्ति पापानि च नाशमाशु ।
१५०.२१/४प्रयान्ति यस्य स्मरणेन पुंसाम् ॥ १५०.२१॥
१५०.२२/१तीर्थस्य चेदं गदितं तवाद्य ।
१५०.२२/२माहात्म्यमेतत् त्रिशतानि यत्र ।
१५०.२२/३तीर्थान्यथान्यानि भवन्ति भुक्ति+ ।
१५०.२२/४मुक्तिप्रदायीनि किमन्यद् अत्र ॥ १५०.२२॥
१५०.२३/१सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम् ।
१५०.२३/२तीर्थानां मुनिजुष्टानां स्मरणाद् अप्यभीष्टदम् ॥ १५०.२३॥
१५१.१/१ब्रह्मोवाच । निम्नभेदमिति ख्यातं सर्वपापप्रणाशनम् ।
१५१.१/२गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥ १५१.१॥
१५१.२/१यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् ।
१५१.२/२वेदद्वीपश्च तत्रैव दर्शनाद् वेदविद् भवेत् ॥ १५१.२॥
१५१.३/१उर्वशीं चकमे राजा ऐलः परमधार्मिकः ।
१५१.३/२को न मोहमुपायाति विलोक्य मदिरेक्षणाम् ॥ १५१.३॥
१५१.४/१सा प्रायाद् यत्र राजासौ घृतं स्तोकं समश्नुते ।
१५१.४/२आनग्नदर्शनात् कृत्वा तस्याः कालावधिं नृपः ॥ १५१.४॥
१५१.५/१तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् ।
१५१.५/२सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः ॥ १५१.५॥
१५१.६/१विलोक्य तं विवसनं तदैवासौ विनिर्गता ।
१५१.६/२विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥ १५१.६॥
१५१.७/१ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् ।
१५१.७/२एतस्मिन्न् अन्तरे राजा युद्धायागाद् रिपून् प्रति ॥ १५१.७॥
१५१.८/१ताञ् जित्वा पुनरप्यागाद् देवलोकं सुपूजितम् ।
१५१.८/२स चागत्य महाराजो वसिष्ठाच्च पुरोधसः ॥ १५१.८॥
१५१.९/१उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः ।
१५१.९/२न जुहोति न चाश्नाति न शृणोति न पश्यति ॥ १५१.९॥
१५१.१०/१एतस्मिन्न् अन्तरे तत्र मृतावस्थं नृपोत्तमम् ।
१५१.१०/२बोधयामास वाक्यैश्च हेतुभूतैः पुरोहितः ॥ १५१.१०॥
१५१.११/१वसिष्ठ उवाच । सा मृताद्य महाराज मा व्यथस्व महामते ।
१५१.११/२एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युराशुगाः ॥ १५१.११॥
१५१.१२/१न वै स्त्रैणानि जानीषे हृदयानि महामते ।
१५१.१२/२शालावृकाणां यादृंशि तस्मात् त्वं भूप मा शुचः ॥ १५१.१२॥
१५१.१३/१को नाम लोके राजेन्द्र कामिनीभिर्न वञ्चितः ।
१५१.१३/२वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥ १५१.१३॥
१५१.१४/१इति स्वाभाविकं यासां ताः कथं सुखहेतवः ।
१५१.१४/२कालेन को न निहतः कोऽर्थी गौरवमागतः ॥ १५१.१४॥
१५१.१५/१श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः ।
१५१.१५/२स्वप्नमायोपमा राजन् मदविप्लुतचेतसः ॥ १५१.१५॥
१५१.१६/१सुखाय योषितः कस्य ज्ञात्वैतद् विज्वरो भव ।
१५१.१६/२विहाय शंकरं विष्णुं गौतमीं वा महामते ।
१५१.१६/३दुःखिनां शरणं नान्यद् विद्यते भुवनत्रये ॥ १५१.१६॥
१५१.१७/१ब्रह्मोवाच । एतच्छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः ।
१५१.१७/२गौतम्या मध्यसंस्थोऽसावैलः परमधार्मिकः ॥ १५१.१७॥
१५१.१८/१तत्र चाराधयामास शिवं देवं जनार्दनम् ।
१५१.१८/२ब्रह्माणं भास्करं गङ्गां देवान् अन्यांश्च यत्नतः ॥ १५१.१८॥
१५१.१९/१यो विपन्नो न तीर्थानि देवताश्च न सेवते ।
१५१.१९/२स कालवशगो जन्तुः कां दशामनुयास्यति ॥ १५१.१९॥
१५१.२०/१तदीश्वरैकशरणो गौतमीसेवनोत्सुकः ।
१५१.२०/२परां श्रद्धामुपगतः संसारास्थापराङ्मुखः ॥ १५१.२०॥
१५१.२१/१ईजे यज्ञांश्च बहुलान् ऋत्विग्भिर्बहुदक्षिणान् ।
१५१.२१/२वेदद्वीपोऽभवत् तेन यज्ञद्वीपः स उच्यते ॥ १५१.२१॥
१५१.२२/१पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी ।
१५१.२२/२तस्य दीपस्य यः कुर्यात् प्रदक्षिणमथो नरः ॥ १५१.२२॥
१५१.२३/१प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा ।
१५१.२३/२वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥ १५१.२३॥
१५१.२४/१सुकृती तत्र यः कुर्याद् वेदयज्ञफलं लभेत् ।
१५१.२४/२ऐलतीर्थं तु तज्ज्ञेयं तद् एव च पुरूरवम् ॥ १५१.२४॥
१५१.२५/१वासिष्ठं चापि तत् तु स्यान् निम्नभेदं तद् उच्यते ।
१५१.२५/२ऐले राज्ञि न किंचित् स्यान् निम्नं सर्वेषु कर्मसु ॥ १५१.२५॥
१५१.२६/१यद् एतन् निम्नमुर्वश्यां सर्वभावेन वर्तनम् ।
१५१.२६/२तच्चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥ १५१.२६॥
१५१.२७/१निम्नभेदमभूत् तेन दृष्टादृष्टेष्टसिद्धिदम् ।
१५१.२७/२तत्र सप्त शतान्याहुस्तीर्थानि गुणवन्ति च ॥ १५१.२७॥
१५१.२८/१तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।
१५१.२८/२स्नानं कृत्वा निम्नभेदे यः पश्यति सुरान् इमान् ॥ १५१.२८॥
१५१.२९/१इह चामुत्र वा निम्नं न किंचित् तस्य विद्यते ।
१५१.२९/२सर्वोन्नतिमवाप्यासौ मोदते दिवि शक्रवत् ॥ १५१.२९॥
१५२.१/१ब्रह्मोवाच । नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः ।
१५२.१/२तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १५२.१॥
१५२.२/१अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः ।
१५२.२/२सर्वान् वेदांश्च विधिवद् धनुर्वेदं यथाविधि ॥ १५२.२॥
१५२.३/१अधीत्य जीवात् सर्वाश्च विद्याश्चान्या महामते ।
१५२.३/२गुरुपूजां करोमीति जीवमाह स चन्द्रमाः ।
१५२.३/३बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥ १५२.३॥
१५२.४/१बृहस्पतिरुवाच । मम प्रिया तु जानीते तारा रतिसमप्रभा ॥ १५२.४॥
१५२.५/१ब्रह्मोवाच । प्रष्टुं तां च तदा प्रायाद् अन्तर्वेश्म स चन्द्रमाः ।
१५२.५/२तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥ १५२.५॥
१५२.६/१स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा ।
१५२.६/२तावद् धैर्यनिधिर्ज्ञानी मतिमान् विजितेन्द्रियः ॥ १५२.६॥
१५२.७/१यावन् न कामिनीनेत्र+ ।वागुराभिर्निबध्यते ।
१५२.७/२विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम् ॥ १५२.७॥
१५२.८/१विलोक्य न मनो याति कस्य कामेषु वश्यताम् ।
१५२.८/२अत एवान्यपुरुष+ ।दर्शनं न कदाचन ॥ १५२.८॥
१५२.९/१कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः ।
१५२.९/२विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः ॥ १५२.९॥
१५२.१०/१दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिरुदारधीः ।
१५२.१०/२शशाप कोपाच्चाक्षिप्य वाग्भिर्विप्रियकारिभिः ॥ १५२.१०॥
१५२.११/१पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः ।
१५२.११/२युयुधे तेन जीवोऽपि देवश्चन्द्रमसा रुषा ॥ १५२.११॥
१५२.१२/१न शापैर्हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः ।
१५२.१२/२बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी ॥ १५२.१२॥
१५२.१३/१तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे ।
१५२.१३/२बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥ १५२.१३॥
१५२.१४/१न जीयेत तदा देवैर्न कोपैः शापमन्त्रकैः ।
१५२.१४/२न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः ॥ १५२.१४॥
१५२.१५/१यदा भार्यां न लेभेऽसौ गुरुः सर्वप्रयत्नतः ।
१५२.१५/२सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत् ॥ १५२.१५॥
१५२.१६/१अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
१५२.१६/२स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १५२.१६॥
१५२.१७/१साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम् ।
१५२.१७/२वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥ १५२.१७॥
१५२.१८/१एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् ।
१५२.१८/२तमागतं कविर्ज्ञात्वा सम्मानेनाभ्यनन्दयत् ॥ १५२.१८॥
१५२.१९/१उपविष्टं सुविश्रान्तं पूजितं च यथाविधि ।
१५२.१९/२पर्यपृच्छद् दैत्यगुरुस्तदागमनकारणम् ॥ १५२.१९॥
१५२.२०/१गृहागतस्य विमुखाः शत्रवोऽप्युत्तमा नहि ।
१५२.२०/२तस्मै स विस्तरेणाह भार्याहरणमादितः ॥ १५२.२०॥
१५२.२१/१बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः ।
१५२.२१/२अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद ।
१५२.२१/३अतिक्रममिमं श्रुत्वा कोपात् कविरथाब्रवीत् ॥ १५२.२१॥
१५२.२२/१शुक्र उवाच । तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे ।
१५२.२२/२यदानये प्रियां भ्रातस्तव भार्यां परार्दिताम् ॥ १५२.२२॥
१५२.२३/१तामानीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् ।
१५२.२३/२पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर ॥ १५२.२३॥
१५२.२४/१ब्रह्मोवाच । एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह ।
१५२.२४/२शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥ १५२.२४॥
१५२.२५/१वरान् अवाप्य विविधाञ् शंकराद् भावपूजितात् ।
१५२.२५/२शिवप्रसादात् किं नाम देहिनामिह दुर्लभम् ॥ १५२.२५॥
१५२.२६/१जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः ।
१५२.२६/२वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः ॥ १५२.२६॥
१५२.२७/१यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् ।
१५२.२७/२कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रुषा कविः ॥ १५२.२७॥
१५२.२८/१कविशापप्रदग्धोऽभूत् तदैव मृगलाञ्छनः ।
१५२.२८/२प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥ १५२.२८॥
१५२.२९/१तत्याज तां स चन्द्रोऽपि तां तारां जगृहे कविः ।
१५२.२९/२शुक्रोऽपि देवान् आहूय ऋषीन् पितृगणांस्तथा ॥ १५२.२९॥
१५२.३०/१नदीर्नदांश्च विविधान् ओषधीश्च पतिव्रताः ।
१५२.३०/२ततः सम्प्रष्टुमारेभे तारावृत्तविनिष्क्रयम् ॥ १५२.३०॥
१५२.३१/१ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस्त्वियम् ।
१५२.३१/२स्नानं करोतु जीवेन तारा पूता भविष्यति ॥ १५२.३१॥
१५२.३२/१रहस्यमेतत् परमं न कथ्यं यस्य कस्यचित् ।
१५२.३२/२सर्वास्वपि दशास्वेह शरणं गौतमी नृणाम् ॥ १५२.३२॥
१५२.३३/१तथाकरोच्चैव तारा भर्त्रा स्नानं यथाविधि ।
१५२.३३/२पुष्पवृष्टिरभूत् तत्र जयशब्दो व्यवर्तत ॥ १५२.३३॥
१५२.३४/१पुनर्वै देवा अददुः पुनर्मनुष्या उत ।
१५२.३४/२राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥ १५२.३४॥
१५२.३५/१पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् ।
१५२.३५/२सर्वं क्षेममभूत् तत्र तस्मात् तीर्थं महामुने ॥ १५२.३५॥
१५२.३६/१पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् ।
१५२.३६/२सर्वं क्षेममभूत् तत्र तस्मात् तीर्थं महामुने ।
१५२.३६/३तद् अभूत् सकलाघौघ+ ।ध्वंसनं सर्वकामदम् ।
१५२.३६/४आनन्दं क्षेममभवत् सुराणामसुरारिणाम् ॥ १५२.३६॥
१५२.३७/१बृहस्पतेश्च शुक्रस्य तारायाश्च विशेषतः ।
१५२.३७/२परमानन्दमापन्नो गुरुर्गङ्गामभाषत ॥ १५२.३७॥
१५२.३८/१गुरुरुवाच । त्वं गौतमि सदा पूज्या सर्वेषामपि मुक्तिदा ।
१५२.३८/२विशेषतस्तु सिंहस्थे मयि त्रैलोक्यपावनी ॥ १५२.३८॥
१५२.३९/१भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता ।
१५२.३९/२यानि कानि च तीर्थानि स्वर्गमृत्युरसातले ।
१५२.३९/३त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थितेऽम्बिके ॥ १५२.३९॥
१५२.४०/१ब्रह्मोवाच । धन्यं यशस्यमायुष्यमारोग्यश्रीविवर्धनम् ।
१५२.४०/२सौभाग्यैश्वर्यजननं तीर्थमानन्दनामकम् ॥ १५२.४०॥
१५२.४१/१तत्र पञ्च सहस्राणि तीर्थान्याह स गौतमः ।
१५२.४१/२स्मरणात् पठनाद् वापि इष्टैः संयुज्यते सदा ॥ १५२.४१॥
१५२.४२/१शिवस्यात्र निविष्टस्य नन्दी गङ्गातटेऽनिशम् ।
१५२.४२/२साक्षाच्चरत्यसौ धर्मस्तस्मान् नन्दीतटं स्मृतम् ।
१५२.४२/३आनन्दमपि तत् तीर्थं सर्वानन्दविवर्धनात् ॥ १५२.४२॥
१५३.१/१ब्रह्मोवाच । भावतीर्थमिति प्रोक्तं यत्र साक्षाद् भवः स्थितः ।
१५३.१/२अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥ १५३.१॥
१५३.२/१तत्रेमां शृणु वक्ष्यामि कथां पुण्यतमां शुभाम् ।
१५३.२/२सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरंधरः ॥ १५३.२॥
१५३.३/१प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः ।
१५३.३/२तिस्रः कोट्योऽर्धकोटिश्च वर्षाणां राज्य आस्थितः ॥ १५३.३॥
१५३.४/१तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः ।
१५३.४/२भवेयं प्रियया वापि पुत्रैर्वा प्रियवस्तुभिः ॥ १५३.४॥
१५३.५/१वियुज्येयं ततो राज्यं त्यक्ष्येऽहं नात्र संशयः ।
१५३.५/२विवेकिनां कुलीनानामिदमेवोचितं नृणाम् ॥ १५३.५॥
१५३.६/१स्थीयते विजने क्वापि विरक्तैर्विभवक्षये ।
१५३.६/२तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥ १५३.६॥
१५३.७/१नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् ।
१५३.७/२तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते ॥ १५३.७॥
१५३.८/१ततः पुत्रार्थमकरोद् यज्ञं राजा महामतिः ।
१५३.८/२ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम् ॥ १५३.८॥
१५३.९/१गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः ।
१५३.९/२पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥ १५३.९॥
१५३.१०/१भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् ।
१५३.१०/२ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥ १५३.१०॥
१५३.११/१चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः ।
१५३.११/२येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥ १५३.११॥
१५३.१२/१किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके ।
१५३.१२/२यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः ॥ १५३.१२॥
१५३.१३/१प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत ।
१५३.१३/२महापापमहारोग+ ंअहाव्यसनिनां नृणाम् ॥ १५३.१३॥
१५३.१४/१नानाविपद्गणार्तानां सर्वाभिमतलब्धये ।
१५३.१४/२प्रादाज्ज्यैष्ठ्यं भवश्चापि भावतीर्थं तद् उच्यते ॥ १५३.१४॥
१५३.१५/१तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ।
१५३.१५/२भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः ॥ १५३.१५॥
१५३.१६/१महिमा गौतमीतीरे भावतीर्थं तद् उच्यते ।
१५३.१६/२तत्र सप्तति तीर्थानि पुण्यान्यखिलदानि च ॥ १५३.१६॥
१५४.१/१ब्रह्मोवाच । सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः ।
१५४.१/२यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ १५४.१॥
१५४.२/१पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे ।
१५४.२/२लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः ॥ १५४.२॥
१५४.३/१वैदेहीं च समासाद्य रामो वचनमब्रवीत् ।
१५४.३/२पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥ १५४.३॥
१५४.४/१अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ ।
१५४.४/२एहि वैदेहि शुद्धासि अङ्कमारोढुमर्हसि ॥ १५४.४॥
१५४.५/१नेत्युवाच तदा श्रीमान् अङ्गदो हनुमांस्तथा ।
१५४.५/२अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥ १५४.५॥
१५४.६/१तत्र शुद्धिमवाप्याथ पुनर्भ्रातृषु मातृषु ।
१५४.६/२लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥ १५४.६॥
१५४.७/१अयोध्यायां सुपुण्येऽह्नि अङ्कमारोढुमर्हसि ।
१५४.७/२अस्याश्चरित्रविषये संदेहः कस्य जायते ॥ १५४.७॥
१५४.८/१लोकापवादस्तद् अपि निरस्यः स्वजनेषु हि ।
१५४.८/२तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः ॥ १५४.८॥
१५४.९/१रामश्च जाम्बवांश्चैव तामाह्वयन् नृपात्मजाम् ।
१५४.९/२स्वस्तीत्युक्ता देवताभी राज्ञोऽङ्कं चारुरोह सा ॥ १५४.९॥
१५४.१०/१मुदितास्ते ययुः शीघ्रं पुष्पकेण विराजता ।
१५४.१०/२अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥ १५४.१०॥
१५४.११/१मुदितास्तेऽभवन् सर्वे सदा रामानुवर्तिनः ।
१५४.११/२ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥ १५४.११॥
१५४.१२/१वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम् ।
१५४.१२/२मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः ॥ १५४.१२॥
१५४.१३/१वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः ।
१५४.१३/२तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन् ॥ १५४.१३॥
१५४.१४/१नोल्लङ्घ्याज्ञा गुरूणामित्यसौ तद् अकरोद् भिया ।
१५४.१४/२ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥ १५४.१४॥
१५४.१५/१रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः ।
१५४.१५/२तत्रैवाजग्मतुरुभौ रामपुत्रौ यशस्विनौ ॥ १५४.१५॥
१५४.१६/१लवः कुशश्च विख्यातौ नारदाविव गायकौ ।
१५४.१६/२रामायणं समग्रं तद् गन्धर्वाविव सुस्वरौ ॥ १५४.१६॥
१५४.१७/१रामस्य चरितं सर्वं गायमानौ समीयतुः ।
१५४.१७/२यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा ॥ १५४.१७॥
१५४.१८/१रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति ।
१५४.१८/२तावानीय ततः पुत्रावभिषिच्य यथाक्रमम् ॥ १५४.१८॥
१५४.१९/१अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः ।
१५४.१९/२संसारदुःखखिन्नानामगतीनां शरीरिणाम् ॥ १५४.१९॥
१५४.२०/१पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम् ।
१५४.२०/२मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥ १५४.२०॥
१५४.२१/१किमप्यन्तर्ध्यायति च निःश्वसत्यपि वै मुहुः ।
१५४.२१/२एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥ १५४.२१॥
१५४.२२/१सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा ।
१५४.२२/२अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥ १५४.२२॥
१५४.२३/१ते चागत्य नृपं प्राप्ताः सिंहासनमुपस्थितम् ।
१५४.२३/२सीतामदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः ॥ १५४.२३॥
१५४.२४/१क्व गतायोनिजा माता एको रामोऽत्र दृश्यते ।
१५४.२४/२रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः ॥ १५४.२४॥
१५४.२५/१पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि ।
१५४.२५/२अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥ १५४.२५॥
१५४.२६/१उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम् ।
१५४.२६/२मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः ॥ १५४.२६॥
१५४.२७/१रामस्तौ पृष्ठतोऽभ्येत्य अयोध्यावासिभिः सह ।
१५४.२७/२आगत्य गौतमीं तत्रऽकुर्वंस्ते परमं तपः ॥ १५४.२७॥
१५४.२८/१स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम् ।
१५४.२८/२संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥ १५४.२८॥
१५४.२९/१लोकत्रयपतिः साक्षाद् रामोऽनुजसमन्वितः ।
१५४.२९/२प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥ १५४.२९॥
१५४.३०/१परितापं जहौ सर्वं सहस्रपरिवारितः ।
१५४.३०/२यत्र चासीत् स वृत्तान्तः सहस्रकुण्डमुच्यते ॥ १५४.३०॥
१५४.३१/१दशापराणि तीर्थानि तत्र सर्वार्थदानि च ।
१५४.३१/२तत्र स्नानं च दानं च सहस्रफलदायकम् ॥ १५४.३१॥
१५४.३२/१यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः ।
१५४.३२/२सर्वापत्तारकं होममकारयद् अघान्तकम् ॥ १५४.३२॥
१५४.३३/१सहस्रसंख्यायुक्तेषु कुण्डेषु वसुधारया ।
१५४.३३/२सर्वान् अपेक्षितान् कामान् अवापासौ महातपाः ॥ १५४.३३॥
१५४.३४/१गौतम्याः सरिदम्बायाः प्रसादाद् राक्षसान्तकः ।
१५४.३४/२सहस्रकुण्डाभिधं तद् अभूत् तीर्थं महाफलम् ॥ १५४.३४॥
१५५.१/१ब्रह्मोवाच । कपिलतीर्थमाख्यातं तद् एवाङ्गिरसं स्मृतम् ।
१५५.१/२तद् एवादित्यमाख्यातं सैंहिकेयं तद् उच्यते ॥ १५५.१॥
१५५.२/१गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम ।
१५५.२/२अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः ॥ १५५.२॥
१५५.३/१अङ्गिरोभ्यस्तदादित्यास्तपसेऽङ्गिरसो ययुः ।
१५५.३/२सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत् ॥ १५५.३॥
१५५.४/१तत्रसुस्ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् ।
१५५.४/२विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीमिति ॥ १५५.४॥
१५५.५/१आदित्यान् अनुगत्वाथ वाचमङ्गिरसोऽब्रुवन् ।
१५५.५/२भुवं गृह्णन्तु या दत्ता नेत्यादित्यास्तदाब्रुवन् ॥ १५५.५॥
१५५.६/१निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः ।
१५५.६/२स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ॥ १५५.६॥
१५५.७/१षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।
१५५.७/२भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित् ॥ १५५.७॥
१५५.८/१पापमस्ति महारौद्रं न स्वीकुर्मः पुनस्तु ताम् ।
१५५.८/२एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥ १५५.८॥
१५५.९/१तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् ।
१५५.९/२तथेत्युक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥ १५५.९॥
१५५.१०/१गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः ।
१५५.१०/२भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस्तिष्ठति मूर्तिमान् ॥ १५५.१०॥
१५५.११/१कपिलासंगमं तच्च सर्वाघौघविनाशनम् ।
१५५.११/२तत्राभवद् दानतोयाद् आपगा कपिलाभिधा ॥ १५५.११॥
१५५.१२/१सस्यवत्या अपि भुवो दानाद् गोदानमुत्तमम् ।
१५५.१२/२लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥ १५५.१२॥
१५५.१३/१यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् ।
१५५.१३/२पुण्यदं तत्र तीर्थानां शतमुक्तं मनीषिभिः ॥ १५५.१३॥
१५५.१४/१तत्र स्नानेन दानेन भूमिदानफलं लभेत् ।
१५५.१४/२संगता गङ्गया तच्च कपिलासंगमं विदुः ॥ १५५.१४॥
१५६.१/१ब्रह्मोवाच । शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः ।
१५६.१/२तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥ १५६.१॥
१५६.२/१तत्रेदं वृत्तमाख्यास्ये भुक्तिमुक्तिप्रदायकम् ।
१५६.२/२पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः ॥ १५६.२॥
१५६.३/१ब्रह्माण्डागारसम्भूता राक्षसा बहुरूपिणः ।
१५६.३/२ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥ १५६.३॥
१५६.४/१तदाहमब्रवं विष्णुं रक्षणाय जगद्गुरुम् ।
१५६.४/२स विष्णुस्तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥ १५६.४॥
१५६.५/१छित्त्वा चक्रेण रक्षांसि शङ्खमापूरयत् तदा ।
१५६.५/२निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरमेव च ॥ १५६.५॥
१५६.६/१ततो हर्षप्रकर्षेण शङ्खमापूरयद् धरिः ।
१५६.६/२ततो रक्षांसि सर्वाणि ह्यनीनशुरशेषतः ॥ १५६.६॥
१५६.७/१यत्रैतद् वृत्तमखिलं विष्णुशङ्खप्रभावतः ।
१५६.७/२शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम् ॥ १५६.७॥
१५६.८/१सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम् ।
१५६.८/२आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥ १५६.८॥
१५६.९/१स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात् ।
१५६.९/२तीर्थानामयुतं तत्र सर्वपापनुदं मुने ॥ १५६.९॥
१५६.१०/१तीर्थान्ययुतसंख्यानि सर्वपापहराणि च ।
१५६.१०/२येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥ १५६.१०॥
१५६.११/१पापक्षयप्रतिनिधिर्नैतेभ्योऽस्त्यपरः क्वचित् ॥ १५६.११॥
१५७.१/१ब्रह्मोवाच । किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् ।
१५७.१/२सर्वपापप्रशमनं यत्र संनिहितो भवः ॥ १५७.१॥
१५७.२/१तस्य स्वरूपं वक्ष्यामि यत्नेन शृणु नारद ।
१५७.२/२पुरा दाशरथी रामो रावणं लोकरावणम् ॥ १५७.२॥
१५७.३/१किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि ।
१५७.३/२सपुत्रं सबलं हत्वा सीतामादाय शत्रुहा ॥ १५७.३॥
१५७.४/१भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः ।
१५७.४/२विभीषणेन बलिना देवैः प्रत्यागतो नृपः ॥ १५७.४॥
१५७.५/१कृतस्वस्त्ययनः श्रीमान् पुष्पकेण विराजितः ।
१५७.५/२यद् आसीद् धनराजस्य कामगेनाशुगामिना ॥ १५७.५॥
१५७.६/१अयोध्यामगमन् सर्वे गच्छन् गङ्गामपश्यत ।
१५७.६/२रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥ १५७.६॥
१५७.७/१गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् ।
१५७.७/२मनोनयनसंताप+ ंइवारणपरायणाम् ॥ १५७.७॥
१५७.८/१तां दृष्ट्वा नृपतिः श्रीमान् गङ्गातीरमथाविशत् ।
१५७.८/२तां दृष्ट्वा प्राह नृपतिर्हर्षगद्गदया गिरा ।
१५७.८/३हरीन् सर्वान् अथामन्त्र्य हनुमत्प्रमुखान् मुने ॥ १५७.८॥
१५७.९/१राम उवाच । अस्याः प्रभावाद् धरयो योऽसौ मम पिता प्रभुः ।
१५७.९/२सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १५७.९॥
१५७.१०/१इयं जनित्री सकलस्य जन्तोर्।
१५७.१०/२भुक्तिप्रदा मुक्तिमथापि दद्यात् ।
१५७.१०/३पापानि हन्याद् अपि दारुणानि ।
१५७.१०/४कान्यानयास्त्यत्र नदी समाना ॥ १५७.१०॥
१५७.११/१हतानि शश्वद् दुरितानि चैव ।
१५७.११/२अस्याः प्रभावाद् अरयः सखायः ।
१५७.११/३विभीषणो मैत्रमुपैति नित्यम् ।
१५७.११/४सीता च लब्धा हनुमांश्च बन्धुः ॥ १५७.११॥
१५७.१२/१लङ्का च भग्ना सगणं हि रक्षो ।
१५७.१२/२हतं हि यस्याः परिसेवनेन ।
१५७.१२/३यां गौतमो देववरं प्रपूज्य ।
१५७.१२/४शिवं शरण्यं सजटामवाप ॥ १५७.१२॥
१५७.१३/१सेयं जनित्री सकलेप्सितानाम् ।
१५७.१३/२अमङ्गलानामपि संनिहन्त्री ।
१५७.१३/३जगत्पवित्रीकरणैकदक्षा ।
१५७.१३/४दृष्टाद्य साक्षात् सरितां सवित्री ॥ १५७.१३॥
१५७.१४/१कायेन वाचा मनसा सदैनाम् ।
१५७.१४/२व्रजामि गङ्गां शरणं शरण्याम् ॥ १५७.१४॥
१५७.१५/१ब्रह्मोवाच । एतत् समाकर्ण्य वचो नृपस्य ।
१५७.१५/२तत्राप्लवन् हरयः सर्व एव ।
१५७.१५/३पूजां चक्रुर्विधिवत् ते पृथक् च ।
१५७.१५/४पुष्पैरनेकैः सर्वलोकोपहारैः ॥ १५७.१५॥
१५७.१६/१सम्पूज्य शर्वं नृपतिर्यथावत् ।
१५७.१६/२स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः ।
१५७.१६/३ते वानरा मुदिताः सर्व एव ।
१५७.१६/४नृत्यं च गीतं च तथैव चक्रुः ॥ १५७.१६॥
१५७.१७/१सुखोषितस्तां रजनीं महात्मा ।
१५७.१७/२प्रियानुयुक्तः संवृतः प्रेमवद्भिः ।
१५७.१७/३दुःखं जहौ सर्वममित्रसम्भवम् ।
१५७.१७/४किं नाप्यते गौतमीसेवनेन ॥ १५७.१७॥
१५७.१८/१सविस्मयः पश्यति भृत्यवर्गम् ।
१५७.१८/२गोदावरीं स्तौति च सम्प्रहृष्टः ।
१५७.१८/३सम्मानयन् भृत्यगणं समग्रम् ।
१५७.१८/४अवाप रामः कमपि प्रमोदम् ।
१५७.१८/५पुनः प्रभाते विमले तु सूर्ये ।
१५७.१८/६विभीषणो दाशरथिं बभाषे ॥ १५७.१८॥
१५७.१९/१विभीषण उवाच । नाद्यापि तृप्तास्तु भवाम तीर्थे ।
१५७.१९/२कंचिच्च कालं निवसाम चात्र ।
१५७.१९/३वत्स्याम चात्रैव पराश्चतस्रो ।
१५७.१९/४रात्रीरथो याम वृतास्त्वयोध्याम् ॥ १५७.१९॥
१५७.२०/१ब्रह्मोवाच । तस्याथ वाक्यं हरयोऽनुमेनिरे ।
१५७.२०/२तथैव रात्रीरपराश्चतस्रः ।
१५७.२०/३सम्पूज्य देवं सकलेश्वरं तम् ।
१५७.२०/४भ्रातृप्रियं तीर्थमथो जगाम ॥ १५७.२०॥
१५७.२१/१सिद्धेश्वरं नाम जगत्प्रसिद्धम् ।
१५७.२१/२यस्य प्रभावात् प्रबलो दशास्यः ।
१५७.२१/३एवं तु पञ्चाहमथोषिरे ते ।
१५७.२१/४स्वं स्वं प्रतिष्ठापितलिङ्गमर्च्य ॥ १५७.२१॥
१५७.२२/१शुश्रूषणं तत्र करोति वायोः ।
१५७.२२/२सुतोऽनुगामी हनुमान् नृपस्य ।
१५७.२२/३गच्छन् नृपेन्द्रो हनुमन्तमाह ।
१५७.२२/४लिङ्गानि सर्वाणि विसर्जयस्व ॥ १५७.२२॥
१५७.२३/१मत्स्थापितान्युत्तममन्त्रविद्भिस्- ।
१५७.२३/२तथेतरैः शंकरकिंकरैश्च ।
१५७.२३/३नोद्वास्य पूजां परशंकरेण ।
१५७.२३/४बाह्यं समायोज्यमहो भवस्य ॥ १५७.२३॥
१५७.२४/१तिष्ठन्ति सुस्थास्तदनादरेण ।
१५७.२४/२ते खड्गपत्त्रादिषु सम्भवन्ति ।
१५७.२४/३येऽश्रद्दधानाः शिवलिङ्गपूजाम् ।
१५७.२४/४विधाय कृत्यं न समाचरन्ति ॥ १५७.२४॥
१५७.२५/१यथोचितं ते यमकिंकरैर्हि ।
१५७.२५/२पच्यन्त एवाखिलदुर्गतीषु ।
१५७.२५/३रामाज्ञया वायुसुतो जगाम ।
१५७.२५/४दोर्भ्यां न चोत्पाटयितुं शशाक ॥ १५७.२५॥
१५७.२६/१ततः स्वपुच्छेन ग्रहीतुकामः ।
१५७.२६/२संवेष्ट्य लिङ्गं तु विसृष्टकामः ।
१५७.२६/३नैवाशकत् तन् महद् अद्भुतं स्यात् ।
१५७.२६/४कपीश्वराणां नृपतेस्तथैव ॥ १५७.२६॥
१५७.२७/१कश्चालयेल्लब्धमहानुभावम् ।
१५७.२७/२महेशलिङ्गं पुरुषो मनस्वी ।
१५७.२७/३तन् निश्चलं प्रेक्ष्य महानुभावो ।
१५७.२७/४नृपप्रवीरः सहसा जगाम ॥ १५७.२७॥
१५७.२८/१विप्रान् अथामन्त्र्य विधाय पूजाम् ।
१५७.२८/२प्रदक्षिणीकृत्य च रामचन्द्रः ।
१५७.२८/३शुद्धातिशुद्धेन हृदाखिलैस्तैर्।
१५७.२८/४लिङ्गानि सर्वाणि ननाम रामः ॥ १५७.२८॥
१५७.२९/१किष्किन्धवासिप्रवरैरशेषैः ।
१५७.२९/२संसेवितं तीर्थमतो बभूव ।
१५७.२९/३अत्राप्लवाद् एव महान्ति पापान्य्।
१५७.२९/४अपि क्षयं यान्ति न संशयोऽत्र ॥ १५७.२९॥
१५७.३०/१पुनश्च गङ्गां प्रणनाम भक्त्या ।
१५७.३०/२प्रसीद मातर्मम गौतमीति ।
१५७.३०/३जल्पन् मुहुर्विस्मितचित्तवृत्तिर्।
१५७.३०/४विलोकयन् प्रणमन् गौतमीं ताम् ॥ १५७.३०॥
१५७.३१/१ततः प्रभृत्येतद् अतीव पुण्यम् ।
१५७.३१/२किष्किन्धतीर्थं विबुधा वदन्ति ।
१५७.३१/३पठेत् स्मरेद् वापि शृणोति भक्त्या ।
१५७.३१/४पापापहं किं पुनः स्नानदानैः ॥ १५७.३१॥
१५८.१/१ब्रह्मोवाच । व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् ।
१५८.१/२नातः परतरं किंचित् पावनं सर्वसिद्धिदम् ॥ १५८.१॥
१५८.२/१दश मे मानसाः पुत्राः स्रष्टारो जगतामपि ।
१५८.२/२अन्तं जिज्ञासवस्ते वै पृथिव्या जग्मुरोजसा ॥ १५८.२॥
१५८.३/१पुनः सृष्टाः पुनस्तेऽपि यातास्तान् समवेक्षितुम् ।
१५८.३/२नैव तेऽपि समायाता ये गतास्ते गता गताः ॥ १५८.३॥
१५८.४/१तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने ।
१५८.४/२वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ १५८.४॥
१५८.५/१तेऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः ।
१५८.५/२तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥ १५८.५॥
१५८.६/१सर्वेभ्यो ह्यधिका माता गुरुभ्यो गौरवेण हि ।
१५८.६/२तदा नारद कोपेन सा शशाप तदात्मजान् ॥ १५८.६॥
१५८.७/१मातोवाच । मामनादृत्य ये पुत्राः प्रवृत्ताश्चरितुं तपः ।
१५८.७/२सर्वैरपि प्रकारैस्तन् न तेषां सिद्धिमेष्यति ॥ १५८.७॥
१५८.८/१ब्रह्मोवाच । नानादेशांश्च चिन्वानास्तपःसिद्धिं न यान्ति च ।
१५८.८/२विघ्नमन्वेति तान् सर्वान् इतश्चेतश्च धावतः ॥ १५८.८॥
१५८.९/१क्वापि तद् राक्षसैर्विघ्नं क्वापि तन् मानुषैरभूत् ।
१५८.९/२प्रमदाभिः क्वचिच्चापि क्वापि तद्देहदोषतः ॥ १५८.९॥
१५८.१०/१एवं तु भ्रममाणास्ते ययुः सर्वे तपोनिधिम् ।
१५८.१०/२अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥ १५८.१०॥
१५८.११/१नमस्कृत्वा ह्याङ्गिरसा ह्यग्निवंशसमुद्भवाः ।
१५८.११/२दक्षिणाशापतिं शान्तं विनीताः प्रष्टुमुद्यताः ॥ १५८.११॥
१५८.१२/१आङ्गिरसा ऊचुः । भगवन् केन दोषेण तपोऽस्माकं न सिध्यति ।
१५८.१२/२नानाविधैरप्युपायैः कुर्वतां च पुनः पुनः ॥ १५८.१२॥
१५८.१३/१किं कुर्मः कः प्रकारोऽत्र तपस्येव भवाम किम् ।
१५८.१३/२उपायं ब्रूहि विप्रेन्द्र ज्येष्ठोऽसि तपसा ध्रुवम् ॥ १५८.१३॥
१५८.१४/१ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः ।
१५८.१४/२शान्तोऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा ॥ १५८.१४॥
१५८.१५/१अक्रोधनश्च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम् ।
१५८.१५/२साहंकारा दयाहीना गुरुसेवाविवर्जिताः ।
१५८.१५/३असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥ १५८.१५॥
१५८.१६/१ब्रह्मोवाच । अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा
शनैः शनैः ॥ १५८.१६॥
१५८.१७/१अगस्त्य उवाच । शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः ।
१५८.१७/२न पर्याप्तं तपश्चाभूत् स्मरध्वं स्मयकारणम् ॥ १५८.१७॥
१५८.१८/१ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखमेधते ।
१५८.१८/२ये गताः पुनरन्वेष्टुं ते च त्वाङ्गिरसोऽभवन् ॥ १५८.१८॥
१५८.१९/१ते यूयं च पुनः काले याता याताः शनैः शनैः ।
१५८.१९/२प्रजापतेरप्यधिका भवितारो न संशयः ॥ १५८.१९॥
१५८.२०/१इतो यान्तु तपस्तप्तुं गङ्गां त्रैलोक्यपावनीम् ।
१५८.२०/२नोपायोऽन्योऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥ १५८.२०॥
१५८.२१/१तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ ।
१५८.२१/२स च्छेदयिष्यत्यखिलं संशयं वो महामतिः ।
१५८.२१/३न सिद्धिः क्वापि केषांचिद् विना सद्गुरुणा यतः ॥ १५८.२१॥
१५८.२२/१ब्रह्मोवाच । ते तमूचुर्मुनिवरं ज्ञानदः कोऽभिधीयते ।
१५८.२२/२ब्रह्मा विष्णुर्महेशो वा आदित्यो वापि चन्द्रमाः ॥ १५८.२२॥
१५८.२३/१अग्निश्च वरुणः कः स्याज्ज्ञानदो मुनिसत्तम ।
१५८.२३/२अगस्त्यः पुनरप्याह ज्ञानदः श्रूयतामयम् ॥ १५८.२३॥
१५८.२४/१या आपः सोऽग्निरित्युक्तो योऽग्निः सूर्यः स उच्यते ।
१५८.२४/२यश्च सूर्यः स वै विष्णुर्यश्च विष्णुः स भास्करः ॥ १५८.२४॥
१५८.२५/१यश्च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वमेव तत् ।
१५८.२५/२यस्य सर्वं तु तज्ज्ञानं ज्ञानदः सोऽत्र कीर्त्यते ॥ १५८.२५॥
१५८.२६/१देशिकप्रेरकव्याख्या+ ।कृदुपाध्यायदेहदाः ।
१५८.२६/२गुरवः सन्ति बहवस्तेषां ज्ञानप्रदो महान् ॥ १५८.२६॥
१५८.२७/१तद् एव ज्ञानमत्रोक्तं येन भेदो विहन्यते ।
१५८.२७/२एक एवाद्वयः शम्भुरिन्द्रमित्राग्निनामभिः ।
१५८.२७/३वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥ १५८.२७॥
१५८.२८/१ब्रह्मोवाच । एतच्छ्रुत्वा मुनेर्वाक्यं गाथा गायन्त एव ते ।
१५८.२८/२जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश्च दक्षिणाम् ॥ १५८.२८॥
१५८.२९/१अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि ।
१५८.२९/२आसनेषु विशेषेण ह्यासीनास्तत्त्वचिन्तकाः ॥ १५८.२९॥
१५८.३०/१तेषां सर्वे सुरगणाः प्रीतिमन्तोऽभवन् मुने ।
१५८.३०/२स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना ॥ १५८.३०॥
१५८.३१/१अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च ।
१५८.३१/२लोकानामुपकारार्थं धर्मकामार्थसिद्धये ॥ १५८.३१॥
१५८.३२/१पुराणस्मृतिवेदार्थ+ ।धर्मशास्त्रार्थनिश्चये ।
१५८.३२/२स्रष्टृत्वं जगतामिष्टं तादृग्रूपा भविष्यथ ॥ १५८.३२॥
१५८.३३/१प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् ।
१५८.३३/२यदा ह्यधर्मो भविता वेदानां च पराभवः ॥ १५८.३३॥
१५८.३४/१वेदानां व्यसनं तेभ्यो भाविव्यासास्ततस्तु ते ।
१५८.३४/२यदा यदा तु धर्मस्य ग्लानिर्वेदस्य दृश्यते ॥ १५८.३४॥
१५८.३५/१तदा तदा तु ते व्यासा भविष्यन्त्युपकारिणः ।
१५८.३५/२तेषां यत् तपसः स्थानं गङ्गायास्तीरमुत्तमम् ॥ १५८.३५॥
१५८.३६/१तत्र तत्र शिवो विष्णुरहमादित्य एव च ।
१५८.३६/२अग्निरापः सर्वमिति तत्र संनिहितं सदा ॥ १५८.३६॥
१५८.३७/१नैतेभ्यः पावनं किंचिन् नैतेभ्यस्त्वधिकं क्वचित् ।
१५८.३७/२तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥ १५८.३७॥
१५८.३८/१सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक् ।
१५८.३८/२विशेषतस्तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥ १५८.३८॥
१५८.३९/१सर्वैर्देवैरनुवृतस्तदनुग्रहकारकः ।
१५८.३९/२धर्मव्यासास्तु ते ज्ञेया वेदव्यासास्तथैव च ॥ १५८.३९॥
१५८.४०/१तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये ।
१५८.४०/२पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम् ।
१५८.४०/३सर्वसिद्धिप्रदं पुंसां व्यासतीर्थमनुत्तमम् ॥ १५८.४०॥
१५९.१/१ब्रह्मोवाच । वञ्जरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
१५९.१/२ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥ १५९.१॥
१५९.२/१दासत्वमगमत् पूर्वं नागानां गरुडः खगः ।
१५९.२/२मातृदास्यात् तदा दुःख+ ।परिसंतप्तमानसः ।
१५९.२/३कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥ १५९.२॥
१५९.३/१गरुड उवाच । त एव धन्या लोकेऽस्मिन् कृतपुण्यास्त एव हि ।
१५९.३/२नान्यसेवा कृता यैस्तु न येषां व्यसनागमः ॥ १५९.३॥
१५९.४/१सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च ।
१५९.४/२स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान् ॥ १५९.४॥
१५९.५/१ब्रह्मोवाच । इति चिन्तासमाविष्टो जननीमेत्य दुःखितः ।
१५९.५/२पर्यपृच्छद् अमेयात्मा वैनतेयोऽथ मातरम् ॥ १५९.५॥
१५९.६/१गरुड उवाच । कस्यापराधान् मातस्त्वं पितुर्वा मम वान्यतः ।
१५९.६/२दासीत्वमाप्ता वद तत्+ ।कारणं मम पृच्छतः ॥ १५९.६॥
१५९.७/१ब्रह्मोवाच । साब्रवीत् पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥ १५९.७॥
१५९.८/१विनतोवाच । नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः ।
१५९.८/२यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम् ॥ १५९.८॥
१५९.९/१कद्रूश्चापि तथैवाहं सा मया संयुता ययौ ।
१५९.९/२कद्र्वा ममाभवद् वादश्छद्मनाहं तया जिता ॥ १५९.९॥
१५९.१०/१विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते ।
१५९.१०/२एवं दासीत्वमगमं कद्र्वाः कश्यपनन्दन ।
१५९.१०/३यदा दासी तु जाताहं दासोऽभूस्त्वं द्विजन्मज ॥ १५९.१०॥
१५९.११/१ब्रह्मोवाच । तूष्णीं तदा बभूवासौ गरुडोऽतीव दुःखितः ।
१५९.११/२न किंचिद् ऊचे जननीं चिन्तयन् भवितव्यताम् ॥ १५९.११॥
१५९.१२/१कद्रूः कदाचित् सा प्राह पुत्राणां हितमिच्छती ।
१५९.१२/२आत्मनो भूतिमिच्छन्ती विनतां खगमातरम् ॥ १५९.१२॥
१५९.१३/१कद्रूरुवाच । पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः ।
१५९.१३/२अहो लोकत्रयेऽप्यस्मिन् धन्यासि बत दास्यपि ॥ १५९.१३॥
१५९.१४/१ब्रह्मोवाच । स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥ १५९.१४॥
१५९.१५/१विनतोवाच । तव पुत्रास्तु किमिति रविं द्रष्टुं न
यान्ति च ॥ १५९.१५॥
१५९.१६/१कद्रूरुवाच । पुत्रान् मदीयान् सुभगे नय नागालयं प्रति ।
१५९.१६/२समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः ॥ १५९.१६॥
१५९.१७/१ब्रह्मोवाच । सुपर्णस्त्ववहन् नागान् कद्रूं च विनता तथा ।
१५९.१७/२ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥ १५९.१७॥
१५९.१८/१सुराणां नेतु निलयं गरुडो मत्सुतान् इति ।
१५९.१८/२पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥ १५९.१८॥
१५९.१९/१सर्पमातोवाच । पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम् ।
१५९.१९/२नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम ।
१५९.१९/३हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलमन्वहम् ॥ १५९.१९॥
१५९.२०/१ब्रह्मोवाच । सा वेपमाना विनता दीना कद्रूमभाषत ॥ १५९.२०॥
१५९.२१/१विनतोवाच । नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् ।
१५९.२१/२दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते ॥ १५९.२१॥
१५९.२२/१ब्रह्मोवाच । विनता स्वसुतं प्राह विहगानामधीश्वरम् ।
१५९.२२/२नमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः ॥ १५९.२२॥
१५९.२३/१भास्वन्तमित्युवाचेयं मां सर्पजननी हठात् ।
१५९.२३/२तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः ॥ १५९.२३॥
१५९.२४/१तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् ।
१५९.२४/२शनैः शनैरुपगमद् यत्र देवो दिवाकरः ।
१५९.२४/३ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः ॥ १५९.२४॥
१५९.२५/१सर्पा ऊचुः । निवर्तस्व महाप्राज्ञ पतंगाय नमो नमः ।
१५९.२५/२अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा ।
१५९.२५/३यामस्त्वया वा गरुड विहाय त्वामथापि वा ॥ १५९.२५॥
१५९.२६/१ब्रह्मोवाच । एवं नागैरुच्यमान आदित्यं दर्शयामि वः ।
१५९.२६/२इत्युक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः ॥ १५९.२६॥
१५९.२७/१दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति ।
१५९.२७/२बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥ १५९.२७॥
१५९.२८/१पुत्राणामार्तसंनादं पतितानां महीतले ।
१५९.२८/२आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला ॥ १५९.२८॥
१५९.२९/१उवाच विनतां कद्रूस्तव पुत्रोऽतिदुष्कृतम् ।
१५९.२९/२कृतवान् अतिदुर्मेधा येषां शान्तिर्न विद्यते ॥ १५९.२९॥
१५९.३०/१नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः ।
१५९.३०/२स काश्यपो बृहत्तेजा यद्यत्र स्याद् अनामयम् ॥ १५९.३०॥
१५९.३१/१भवेच्चैवं कथं शान्तिः पुत्राणां मम भामिनि ।
१५९.३१/२कद्र्वास्तद् वचनं श्रुत्वा विनता ह्यतिभीतवत् ॥ १५९.३१॥
१५९.३२/१पुत्रमाह महात्मानं गरुडं विहगाधिपम् ॥ १५९.३२॥
१५९.३३/१विनतोवाच । नेदं युक्ततरं पुत्र भूषणं विनयेन हि ।
१५९.३३/२वर्तितुं युक्तमित्युक्तं वैपरीत्यं न युज्यते ॥ १५९.३३॥
१५९.३४/१नामित्रेष्वपि कर्तव्यं सद्भिर्जिह्मं कदाचन ।
१५९.३४/२श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते ॥ १५९.३४॥
१५९.३५/१कुर्वन्त्यनिष्टं कपटैस्त एव मम पुत्रक ।
१५९.३५/२प्रसह्य कर्तुं ये साक्षाद् अशक्ताः पुरुषाधमाः ॥ १५९.३५॥
१५९.३६/१ब्रह्मोवाच । विनता च ततः प्राह कद्रूं तां सर्पमातरम् ॥ १५९.३६॥
१५९.३७/१विनतोवाच । किं कृत्वा शान्तिरभ्येति पुत्राणां ते करोमि तत् ।
१५९.३७/२जरया तु गृहीतास्ते वद शान्तिं करोमि तत् ॥ १५९.३७॥
१५९.३८/१ब्रह्मोवाच । कद्रूरप्याह विनतां रसातलगतं पयः ।
१५९.३८/२तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति ॥ १५९.३८॥
१५९.३९/१कद्र्वास्तद् वचनं श्रुत्वा रसातलगतं पयः ।
१५९.३९/२क्षणेनैव समानीय नागांस्तान् अभ्यषेचयत् ।
१५९.३९/३ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥ १५९.३९॥
१५९.४०/१गरुड उवाच । मेघाश्चाप्यत्र वर्षन्तु
त्रैलोक्यस्योपकारिणः ॥ १५९.४०॥
१५९.४१/१ब्रह्मोवाच । तथा ववर्ष पर्जन्यो नागानामभवच्छिवम् ।
१५९.४१/२रसातलभवं गाङ्गं नागसंजीवनं पयः ॥ १५९.४१॥
१५९.४२/१जराशोकविनाशार्थमानीतं गरुडेन यत् ।
१५९.४२/२यत्राभिषेचिता नागास्तन् नागालयमुच्यते ॥ १५९.४२॥
१५९.४३/१गरुडेन यतो वारि आनीतं तद् रसातलात् ।
१५९.४३/२तद् गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम् ॥ १५९.४३॥
१५९.४४/१जराया वारणं यस्मान् नागानामभवच्छिवम् ।
१५९.४४/२रसातलभवं गाङ्गं नागसंजीवनं यतः ॥ १५९.४४॥
१५९.४५/१जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे ।
१५९.४५/२साक्षाद् अमृतसंवाहा वञ्जरा साभवन् नदी ॥ १५९.४५॥
१५९.४६/१जरादारिद्र्यसंताप+ आरिणी क्लेशवारिणी ।
१५९.४६/२रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥ १५९.४६॥
१५९.४७/१तयोश्च संगमो यः स्यात् किं पुनस्तत्र वर्ण्यते ।
१५९.४७/२यस्यानुस्मरणाद् एव नाशं यान्त्यघसंचयाः ॥ १५९.४७॥
१५९.४८/१तत्र च स्नानदानानां फलं को वक्तुमीश्वरः ।
१५९.४८/२सपादं तत्र तीर्थानां लक्षमाहुर्मनीषिणः ॥ १५९.४८॥
१५९.४९/१सर्वसम्पत्तिदातृणां सर्वपापौघहारिणाम् ।
१५९.४९/२वञ्जरासंगमसमं तीर्थं क्वापि न विद्यते ।
१५९.४९/३यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥ १५९.४९॥
१६०.१/१ब्रह्मोवाच । देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् ।
१६०.१/२भुक्तिमुक्तिप्रदं नृणां पितृणां तृप्तिकारकम् ॥ १६०.१॥
१६०.२/१तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद ।
१६०.२/२देवानामसुराणां च स्पर्धाभूद् धनहेतवे ॥ १६०.२॥
१६०.३/१स्वर्गः सुराणामभवद् असुराणामिलाभवत् ।
१६०.३/२कर्मभूमिमवष्टभ्य असुराः सर्वतोऽभवन् ॥ १६०.३॥
१६०.४/१देवानां यज्ञभागांश्च दातृन् घ्नन्त्यसुरास्ततः ।
१६०.४/२ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः ॥ १६०.४॥
१६०.५/१व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन् ।
१६०.५/२मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात् ॥ १६०.५॥
१६०.६/१भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च ।
१६०.६/२तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः ॥ १६०.६॥
१६०.७/१दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः ।
१६०.७/२एकीभूत्वा ययुस्तेऽपि जयिनो युद्धकाङ्क्षिणः ॥ १६०.७॥
१६०.८/१अहिर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः ।
१६०.८/२एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥ १६०.८॥
१६०.९/१अग्निरिन्द्रोऽथ वरुणस्त्वष्टा पूषा तथाश्विनौ ।
१६०.९/२मरुतो लोकपालाश्च नानायुद्धविशारदाः ॥ १६०.९॥
१६०.१०/१ते दानवाः सर्व एव याम्यां वै दिशि संगरे ।
१६०.१०/२अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥ १६०.१०॥
१६०.११/१त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् ।
१६०.११/२तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥ १६०.११॥
१६०.१२/१सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः ।
१६०.१२/२मलयस्यापि देशोऽसौ देवारीणामभूत् तदा ॥ १६०.१२॥
१६०.१३/१देवानां गौतमीतीरे तत्र संनिहितः शिवः ।
१६०.१३/२इति तेषां समायोगो देवानामभवत् किल ॥ १६०.१३॥
१६०.१४/१देवाः स्वरथमारूढास्तत्र तत्र समागमन् ।
१६०.१४/२गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥ १६०.१४॥
१६०.१५/१प्रसन्नाभीष्टदा या स्यात् पितृणामखिलस्य तु ।
१६०.१५/२ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् ।
१६०.१५/३अभयं चिन्तयामासुस्ते सर्वेऽथ परस्परम् ॥ १६०.१५॥
१६०.१६/१देवा ऊचुः । अत्राप्युपायः कोऽस्माकं निर्जितानां परैर्हठात् ।
१६०.१६/२एकमेवात्र नः श्रेयो विजयो वाथवा मृतिः ।
१६०.१६/३सपत्नैरभिभूतानां जीवितं धिङ् मनस्विनाम् ॥ १६०.१६॥
१६०.१७/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी ॥ १६०.१७॥
१६०.१८/१आकाशवाग् उवाच । क्लेशेनालं सुरगणा गौतमीमाशु गच्छत ।
१६०.१८/२भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥ १६०.१८॥
१६०.१९/१गोदावर्यास्तयोश्चैव प्रसादात् किं तु दुष्करम् ॥ १६०.१९॥
१६०.२०/१ब्रह्मोवाच । प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम् ।
१६०.२०/२अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥ १६०.२०॥
१६०.२१/१यत्र देवागमो जातस्तत् तीर्थं तेन विश्रुतम् ।
१६०.२१/२देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥ १६०.२१॥
१६०.२२/१तत्राशीतिसहस्राणि शिवलिङ्गानि नारद ।
१६०.२२/२देवागमः पर्वतोऽसौ प्रिय इत्यपि कथ्यते ।
१६०.२२/३ततः प्रभृति तत् तीर्थं देवप्रियमतो विदुः ॥ १६०.२२॥
१६१.१/१ब्रह्मोवाच । कुशतर्पणमाख्यातं प्रणीतासंगमं तथा ।
१६१.१/२तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ १६१.१॥
१६१.२/१तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् ।
१६१.२/२विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥ १६१.२॥
१६१.३/१यदङ्घ्रिभ्योऽभवन् नद्यो गोदाभीमरथीमुखाः ।
१६१.३/२यत्राभवत् तद् विरजमेकवीरा च यत्र सा ॥ १६१.३॥
१६१.४/१न तस्य महिमा कैश्चिद् अपि शक्योऽनुवर्णितुम् ।
१६१.४/२तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः ॥ १६१.४॥
१६१.५/१गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् ।
१६१.५/२यन् न जानन्ति मुनयो देवाश्च पितरोऽसुराः ॥ १६१.५॥
१६१.६/१तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् ।
१६१.६/२परः स पुरुषो ज्ञेयो ह्यव्यक्तोऽक्षर एव तु ॥ १६१.६॥
१६१.७/१अपरश्च क्षरस्तस्मात् प्रकृत्यन्वित एव च ।
१६१.७/२निराकारात् सावयवः पुरुषः समजायत ॥ १६१.७॥
१६१.८/१तस्माद् आपः समुद्भूता अद्भ्यश्च पुरुषस्तथा ।
१६१.८/२ताभ्यामब्जं समुद्भूतं तत्राहमभवं मुने ॥ १६१.८॥
१६१.९/१पृथिवी वायुराकाश आपो ज्योतिस्तथैव च ।
१६१.९/२एते मत्तः पूर्वतरा एकदैवाभवन् मुने ॥ १६१.९॥
१६१.१०/१एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् ।
१६१.१०/२नैव वेदास्तदा चासन् नाहं द्रष्टास्मि किंचन ॥ १६१.१०॥
१६१.११/१यस्माद् अहं समुद्भूतो न पश्येयं तमप्यथ ।
१६१.११/२तूष्णीं स्थिते मयि तदा अश्रौषं वाचमुत्तमाम् ॥ १६१.११॥
१६१.१२/१आकाशवाग् उवाच । ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य
चरस्य च ॥ १६१.१२॥
१६१.१३/१ब्रह्मोवाच । ततोऽहमब्रवं वाचं परुषां तत्र नारद ।
१६१.१३/२कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥ १६१.१३॥
१६१.१४/१सैव वाग् अब्रवीद् दैवी प्रकृतिर्याभिधीयते ।
१६१.१४/२विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥ १६१.१४॥
१६१.१५/१आकाशवाग् उवाच । यज्ञं कुरु ततः शक्तिस्ते भवित्री न संशयः ।
१६१.१५/२यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन् सनातनी ॥ १६१.१५॥
१६१.१६/१किं यज्वनामसाध्यं स्याद् इह लोके परत्र च ॥ १६१.१६॥
१६१.१७/१ब्रह्मोवाच । पुनस्तामब्रवं देवीं क्व वा केनेति तद् वद ।
१६१.१७/२यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥ १६१.१७॥
१६१.१८/१आकाशवाग् उवाच । ओंकारभूता या देवी मातृकल्पा जगन्मयी ।
१६१.१८/२कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥ १६१.१८॥
१६१.१९/१स एव साधनं ते स्यात् तेन तं यज सुव्रत ।
१६१.१९/२यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥ १६१.१९॥
१६१.२०/१हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते ॥ १६१.२०॥
१६१.२१/१ब्रह्मोवाच । पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते ।
१६१.२१/२तदा नारद नैवासीद् भागीरथ्यथ नर्मदा ॥ १६१.२१॥
१६१.२२/१यमुना नैव तापी सा सरस्वत्यथ गौतमी ।
१६१.२२/२समुद्रो वा नदः कश्चिन् न सरः सरितोऽमलाः ।
१६१.२२/३सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः ॥ १६१.२२॥
१६१.२३/१दैवी वाग् उवाच । सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः ।
१६१.२३/२दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे ।
१६१.२३/३सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥ १६१.२३॥
१६१.२४/१ब्रह्मोवाच । तत् तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् ।
१६१.२४/२तं प्रदेशमथागत्य स्थातव्यं क्वेत्यचिन्तयम् ।
१६१.२४/३ततो मामब्रवीत् सैव विष्णोर्वाण्यशरीरिणी ॥ १६१.२४॥
१६१.२५/१आकाशवाग् उवाच । इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि ।
१६१.२५/२संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥ १६१.२५॥
१६१.२६/१कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम ।
१६१.२६/२यद् वदन्त्यखिला वेदा विधे तत् तत् समाचर ॥ १६१.२६॥
१६१.२७/१ब्रह्मोवाच । इतिहासपुराणानि यद् अन्यच्छब्दगोचरम् ।
१६१.२७/२स्वतो मुखे मम प्रायाद् अभूच्च स्मृतिगोचरम् ॥ १६१.२७॥
१६१.२८/१वेदार्थश्च मया सर्वो ज्ञातोऽसौ तत्क्षणेन च ।
१६१.२८/२ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम् ॥ १६१.२८॥
१६१.२९/१यज्ञोपकरणं सर्वं तद् उक्तं च त्वकल्पयम् ।
१६१.२९/२तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम् ॥ १६१.२९॥
१६१.३०/१अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान् ।
१६१.३०/२दीक्षितो विप्रदेशोऽसौ मन्नाम्ना तु प्रकीर्तितः ॥ १६१.३०॥
१६१.३१/१मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः ।
१६१.३१/२चतुरशीतिपर्यन्तं योजनानि महामुने ॥ १६१.३१॥
१६१.३२/१मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः ।
१६१.३२/२तत्र मध्ये वेदिका स्याद् गार्हपत्योऽस्य दक्षिणे ॥ १६१.३२॥
१६१.३३/१तत्र चाहवनीयस्य एवमग्नींस्त्वकल्पयम् ।
१६१.३३/२विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात् ॥ १६१.३३॥
१६१.३४/१शरीरमात्मनोऽहं वै द्वेधा चाकरवं मुने ।
१६१.३४/२पूर्वार्धेन ततः पत्नी ममाभूद् यज्ञसिद्धये ॥ १६१.३४॥
१६१.३५/१उत्तरेण त्वहं तद्वद् अर्धो जाया इति श्रुतेः ।
१६१.३५/२कालं वसन्तमुत्कृष्टमाज्यरूपेण नारद ॥ १६१.३५॥
१६१.३६/१अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद् धविः ।
१६१.३६/२ऋतुं च प्रावृषं पुत्र तदा बर्हिरकल्पयम् ॥ १६१.३६॥
१६१.३७/१छन्दांसि सप्त वै तत्र तदा परिधयोऽभवन् ।
१६१.३७/२कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥ १६१.३७॥
१६१.३८/१योऽनादिश्च त्वनन्तश्च स्वयं कालोऽभवत् तदा ।
१६१.३८/२यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥ १६१.३८॥
१६१.३९/१सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत् पशुः ।
१६१.३९/२ततोऽहमब्रवं वाचं वैष्णवीमशरीरिणीम् ॥ १६१.३९॥
१६१.४०/१विनैव पशुना नायं यज्ञः परिसमाप्यते ।
१६१.४०/२ततो मामवदद् देवी सैव नित्याशरीरिणी ॥ १६१.४०॥
१६१.४१/१आकाशवाग् उवाच । पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं
परम् ॥ १६१.४१॥
१६१.४२/१ब्रह्मोवाच । तथेत्युक्त्वा स्तूयमाने देवदेवे जनार्दने ।
१६१.४२/२मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥ १६१.४२॥
१६१.४३/१सा च मामब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु ।
१६१.४३/२तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥ १६१.४३॥
१६१.४४/१कालयूपस्य पार्श्वे तं गुणपाशैर्निवेशितम् ।
१६१.४४/२बर्हिस्थितमहं प्रौक्षं पुरुषं जातमग्रतः ॥ १६१.४४॥
१६१.४५/१एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वमभूद् इदम् ।
१६१.४५/२ब्राह्मणास्तु मुखात् तस्यऽभवन् बाह्वोश्च क्षत्रियाः ॥ १६१.४५॥
१६१.४६/१मुखाद् इन्द्रस्तथाग्निश्च श्वसनः प्राणतोऽभवत् ।
१६१.४६/२दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गोऽभवत् तदा ॥ १६१.४६॥
१६१.४७/१मनसश्चन्द्रमा जातः सूर्योऽभूच्चक्षुषस्तथा ।
१६१.४७/२अन्तरिक्षं तथा नाभेरूरुभ्यां विश एव च ॥ १६१.४७॥
१६१.४८/१पद्भ्यां शूद्रश्च संजातस्तथा भूमिरजायत ।
१६१.४८/२ऋषयो रोमकूपेभ्य ओषध्यः केशतोऽभवन् ॥ १६१.४८॥
१६१.४९/१ग्राम्यारण्याश्च पशवो नखेभ्यः सर्वतोऽभवन् ।
१६१.४९/२कृमिकीटपतंगादि पायूपस्थाद् अजायत ॥ १६१.४९॥
१६१.५०/१स्थावरं जङ्गमं किंचिद् दृश्यादृश्यं च किंचन ।
१६१.५०/२तस्मात् सर्वमभूद् देवा मत्तश्चाप्यभवन् पुनः ।
१६१.५०/३एतस्मिन्न् अन्तरे सैव विष्णोर्वाग् अब्रवीच्च माम् ॥ १६१.५०॥
१६१.५१/१आकाशवाग् उवाच । सर्वं सम्पूर्णमभवत् सृष्टिर्जाता तथेप्सिता ।
१६१.५१/२इदानीं जुहुधि ह्यग्नौ पात्राणि च समानि च ॥ १६१.५१॥
१६१.५२/१विसर्जय तथा यूपं प्रणीतां च कुशांस्तथा ।
१६१.५२/२ऋत्विग्रूपं यज्ञरूपमुद्देश्यं ध्येयमेव च ॥ १६१.५२॥
१६१.५३/१स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय ॥ १६१.५३॥
१६१.५४/१ब्रह्मोवाच । तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु ।
१६१.५४/२गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥ १६१.५४॥
१६१.५५/१पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस्तदा ।
१६१.५५/२तत्र तत्र जगद्योनिमनुसंधाय पूरुषम् ॥ १६१.५५॥
१६१.५६/१मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः ।
१६१.५६/२लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ ॥ १६१.५६॥
१६१.५७/१शुक्लरूपधरो विष्णुर्भवेद् आहवनीयके ।
१६१.५७/२श्यामो विष्णुर्दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥ १६१.५७॥
१६१.५८/१सर्वकालं तेषु विष्णुरतो देशेषु संस्थितः ।
१६१.५८/२न तेन रहितं किंचिद् विष्णुना विश्वयोनिना ॥ १६१.५८॥
१६१.५९/१प्रणीतायाः प्रणयनं मन्त्रैश्चाकरवं ततः ।
१६१.५९/२प्रणीतोदकमप्येतत् प्रणीतेति नदी शुभा ॥ १६१.५९॥
१६१.६०/१व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैरथ ।
१६१.६०/२मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥ १६१.६०॥
१६१.६१/१पतितास्तत्र तीर्थानि जातानि गुणवन्ति च ।
१६१.६१/२संजाता मुनिशार्दूल स्नानात् क्रतुफलप्रदा ॥ १६१.६१॥
१६१.६२/१यालंकृता सर्वकालं देवदेवेन शार्ङ्गिणा ।
१६१.६२/२सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥ १६१.६२॥
१६१.६३/१सम्मार्जिताः कुशा यत्र पतिता भूतले शुभे ।
१६१.६३/२कुशतर्पणमाख्यातं बहुपुण्यफलप्रदम् ॥ १६१.६३॥
१६१.६४/१कुशैश्च तर्पिताः सर्वे कुशतर्पणमुच्यते ।
१६१.६४/२पश्चाच्च संगता तत्र गौतमी कारणान्तरात् ॥ १६१.६४॥
१६१.६५/१प्रणीतायां महाबुद्धे प्रणीतासंगमोऽभवत् ।
१६१.६५/२कुशतर्पणदेशे तु तत् तीर्थं कुशतर्पणम् ॥ १६१.६५॥
१६१.६६/१तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे ।
१६१.६६/२विसृष्टो लोकपूज्योऽसौ विष्णोरासीत् समाश्रयः ॥ १६१.६६॥
१६१.६७/१अक्षयश्चाभवच्छ्रीमान् अक्षयोऽसौ वटोऽभवत् ।
१६१.६७/२नित्यश्च कालरूपोऽसौ स्मरणात् क्रतुपुण्यदः ॥ १६१.६७॥
१६१.६८/१मद्देवयजनं चेदं दण्डकारण्यमुच्यते ।
१६१.६८/२सम्पूर्णे तु क्रतौ विष्णुर्मया भक्त्या प्रसादितः ॥ १६१.६८॥
१६१.६९/१यो विराड् उच्यते वेदे यस्मान् मूर्तमजायत ।
१६१.६९/२यस्माच्च मम चोत्पत्तिर्यस्येदं विकृतं जगत् ॥ १६१.६९॥
१६१.७०/१तमहं देवदेवेशमभिवन्द्य व्यसर्जयम् ।
१६१.७०/२योजनानि चतुर्विंशन् मद्देवयजनं शुभम् ॥ १६१.७०॥
१६१.७१/१तस्माद् अद्यापि कुण्डानि सन्ति च त्रीणि नारद ।
१६१.७१/२यज्ञेश्वरस्वरूपाणि विष्णोर्वै चक्रपाणिनः ॥ १६१.७१॥
१६१.७२/१ततः प्रभृति चाख्यातं मद्देवयजनं च तत् ।
१६१.७२/२तत्रस्थः कृमिकीटादिः सोऽप्यन्ते मुक्तिभाजनम् ॥ १६१.७२॥
१६१.७३/१धर्मबीजं मुक्तिबीजं दण्डकारण्यमुच्यते ।
१६१.७३/२विशेषाद् गौतमीश्लिष्टो देशः पुण्यतमोऽभवत् ॥ १६१.७३॥
१६१.७४/१प्रणीतासंगमे चापि कुशतर्पण एव वा ।
१६१.७४/२स्नानदानादि यः कुर्यात् स गच्छेत् परमं पदम् ॥ १६१.७४॥
१६१.७५/१स्मरणं पठनं वापि श्रवणं चापि भक्तितः ।
१६१.७५/२सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥ १६१.७५॥
१६१.७६/१उभयोस्तीरयोस्तत्र तीर्थान्याहुर्मनीषिणः ।
१६१.७६/२षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥ १६१.७६॥
१६१.७७/१वाराणस्या अपि मुने कुशतर्पणमुत्तमम् ।
१६१.७७/२नानेन सदृशं तीर्थं विद्यते सचराचरे ॥ १६१.७७॥
१६१.७८/१ब्रह्महत्यादिपापानां स्मरणाद् अपि नाशनम् ।
१६१.७८/२तीर्थमेतन् मुने प्रोक्तं स्वर्गद्वारं महीतले ॥ १६१.७८॥
१६२.१/१ब्रह्मोवाच । मन्युतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ।
१६२.१/२सर्वकामप्रदं नृणां स्मरणाद् अघनाशनम् ॥ १६२.१॥
१६२.२/१तस्य प्रभावं वक्ष्यामि शृणुष्वावहितो मुने ।
१६२.२/२देवानां दानवानां च संगरोऽभून् मिथः पुरा ॥ १६२.२॥
१६२.३/१तत्राजयन् नैव सुरा दानवा जयिनोऽभवन् ।
१६२.३/२पराङ्मुखाः सुरगणाः संगराद् गतचेतसः ॥ १६२.३॥
१६२.४/१मामभ्येत्य समूचुस्ते देहि नोऽभयकारणम् ।
१६२.४/२तान् अहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥ १६२.४॥
१६२.५/१तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् ।
१६२.५/२अनपायनिरायास+ ।सहजानन्दसुन्दरम् ॥ १६२.५॥
१६२.६/१लप्स्यते सर्वविबुधा जयहेतुर्महेश्वरात् ।
१६२.६/२तथेत्युक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥ १६२.६॥
१६२.७/१तपोऽतप्यन्त केचिद् वै ननृतुश्च तथापरे ।
१६२.७/२अस्नापयंश्च केचिच्चऽपूजयंश्च तथापरे ॥ १६२.७॥
१६२.८/१ततः प्रसन्नो भगवाञ् शूलपाणिर्महेश्वरः ।
१६२.८/२देवान् अथाब्रवीत् तुष्टो व्रियतां यद् अभीप्सितम् ॥ १६२.८॥
१६२.९/१देवा ऊचुः सुरपतिं विजयाय ददस्व नः ।
१६२.९/२पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम् ॥ १६२.९॥
१६२.१०/१यद्बाहुबलमाश्रित्य भवामः सुखिनो वयम् ।
१६२.१०/२तथेत्युवाच भगवान् देवान् प्रति महेश्वरः ॥ १६२.१०॥
१६२.११/१आत्मनस्तेजसा कश्चिन् निर्मितः परमेष्ठिना ।
१६२.११/२मन्युनामानमत्युग्रं देवसैन्यपुरोगमम् ॥ १६२.११॥
१६२.१२/१तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वमालयम् ।
१६२.१२/२मन्युना सह चाभ्येत्य पुनर्युद्धाय तस्थिरे ॥ १६२.१२॥
१६२.१३/१युद्धे स्थित्वा तु दनुजैर्दैतेयैश्च महाबलैः ।
१६२.१३/२विबुधा जातसंनद्धा मन्युमूचुः पुरः स्थिताः ॥ १६२.१३॥
१६२.१४/१देवा ऊचुः । सामर्थ्यं तव पश्यामः पश्चाद् योत्स्यामहे परैः ।
१६२.१४/२तस्माद् दर्शय चात्मानं मन्योऽस्माकं युयुत्सताम् ॥ १६२.१४॥
१६२.१५/१ब्रह्मोवाच । तद् देववचनं श्रुत्वा मन्युराह स्मयन्न् इव ॥ १६२.१५॥
१६२.१६/१मन्युरुवाच । जनिता मम देवेशः सर्वज्ञः सर्वदृक् प्रभुः ।
१६२.१६/२यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥ १६२.१६॥
१६२.१७/१नैव कश्चिच्च तं वेत्ति यः सर्वं वेत्ति सर्वदा ।
१६२.१७/२अमूर्तं मूर्तमप्येतद् वेत्ति कर्ता जगन्मयः ॥ १६२.१७॥
१६२.१८/१परोऽसौ भगवान् साक्षात् तथा दिव्यन्तरिक्षगः ।
१६२.१८/२कस्तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥ १६२.१८॥
१६२.१९/१एवंविधाद् अहं जातो मां कथं वेत्तुमर्हथ ।
१६२.१९/२अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत ॥ १६२.१९॥
१६२.२०/१ब्रह्मोवाच । इत्युक्त्वा दर्शयामास मन्यू रूपं स्वकं महत् ।
१६२.२०/२तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः ॥ १६२.२०॥
१६२.२१/१तेजसा सम्भृतं रूपं यतः सर्वं तद् उच्यते ।
१६२.२१/२पौरुषं पुरुषेष्वेव अहंकारश्च जन्तुषु ॥ १६२.२१॥
१६२.२२/१क्रोधः सर्वस्य यो भीम उपसंहारकृद् भवेत् ।
१६२.२२/२तं शंकरप्रतिनिधिं ज्वलन्तं निजतेजसा ॥ १६२.२२॥
१६२.२३/१सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः ।
१६२.२३/२वित्रेसुर्दैत्यदनुजाः कृताञ्जलिपुटाः सुराः ॥ १६२.२३॥
१६२.२४/१भूत्वा मन्युमथोचुस्ते त्वं सेनानीः प्रभो भव ।
१६२.२४/२त्वया दत्तमिदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥ १६२.२४॥
१६२.२५/१तस्मात् सर्वेषु कार्येषु जेता त्वं जयवर्धनः ।
१६२.२५/२त्वमिन्द्रस्त्वं च वरुणो लोकपालास्त्वमेव च ॥ १६२.२५॥
१६२.२६/१अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै ।
१६२.२६/२मन्युः प्रोवाच तान् सर्वान् विना मत्तो न किंचन ॥ १६२.२६॥
१६२.२७/१सर्वेष्वन्तः प्रविष्टोऽहं न मां जानाति कश्चन ।
१६२.२७/२स एव भगवान् मन्युस्ततो जातः पृथक् पृथक् ॥ १६२.२७॥
१६२.२८/१स एव रुद्ररूपी स्याद् रुद्रो मन्युः शिवोऽभवत् ।
१६२.२८/२स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना ॥ १६२.२८॥
१६२.२९/१तमवाप्य सुराः सर्वे जयमापुश्च संगरे ।
१६२.२९/२जयो मन्युश्च शौर्यं च ईशतेजःसमुद्भवम् ॥ १६२.२९॥
१६२.३०/१मन्युना जयमाप्याथ कृत्वा दैत्यैश्च संगमम् ।
१६२.३०/२यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥ १६२.३०॥
१६२.३१/१यत्र वै गौतमीतीरे शिवमाराध्य ते सुराः ।
१६२.३१/२मन्युमापुर्जयं चैव मन्युतीर्थं तद् उच्यते ॥ १६२.३१॥
१६२.३२/१उत्पत्तिं च तथा मन्योर्यो नरः प्रयतः स्मरेत् ।
१६२.३२/२विजयो जायते तस्य न कैश्चित् परिभूयते ॥ १६२.३२॥
१६२.३३/१न मन्युतीर्थसदृशं पावनं हि महामुने ।
१६२.३३/२यत्र साक्षान् मन्युरूपी सर्वदा शंकरः स्थितः ।
१६२.३३/३तत्र स्नानं च दानं च स्मरणं सर्वकामदम् ॥ १६२.३३॥
१६३.१/१ब्रह्मोवाच । सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् ।
१६३.१/२भुक्तिमुक्तिप्रदं नृणां सर्वपापप्रणाशनम् ॥ १६३.१॥
१६३.२/१सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् ।
१६३.२/२तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद ॥ १६३.२॥
१६३.३/१पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः ।
१६३.३/२शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥ १६३.३॥
१६३.४/१शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः ।
१६३.४/२तस्मिञ् शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम् ॥ १६३.४॥
१६३.५/१तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम् ।
१६३.५/२सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥ १६३.५॥
१६३.६/१अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् ।
१६३.६/२ऋषिगन्धर्वसुमनः+ ।सेविते तत्र पर्वते ॥ १६३.६॥
१६३.७/१तस्मिन् गिरौ महापुण्ये देवद्विजभयंकरः ।
१६३.७/२यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः ॥ १६३.७॥
१६३.८/१कामरूपी विचरति नानारूपधरो वने ।
१६३.८/२क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक् ॥ १६३.८॥
१६३.९/१कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् ।
१६३.९/२कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः ॥ १६३.९॥
१६३.१०/१कदाचिद् बालरूपेण एवं चरति पापकृत् ।
१६३.१०/२यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः ॥ १६३.१०॥
१६३.११/१तमायाति महापापी परशू राक्षसाधमः ।
१६३.११/२शुचिष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च ॥ १६३.११॥
१६३.१२/१नेतुं हन्तुं प्रवृत्तोऽपि न शशाक स पापकृत् ।
१६३.१२/२स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः ॥ १६३.१२॥
१६३.१३/१भोक्तुकामः किलायातस्तत्रायात् परशुर्मुने ।
१६३.१३/२ब्रह्मरूपधरो भूत्वा शिथिलः पलितोऽबली ।
१६३.१३/३कन्यामादाय कांचिच्च शाकल्यं वाक्यमब्रवीत् ॥ १६३.१३॥
१६३.१४/१परशुरुवाच । भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज ।
१६३.१४/२आतिथ्यकाले सम्प्राप्तं कृतकृत्योऽसि मानद ॥ १६३.१४॥
१६३.१५/१त एव धन्या लोकेऽस्मिन् येषामतिथयो गृहात् ।
१६३.१५/२पूर्णाभिलाषा निर्यान्ति जीवन्तोऽपि मृताः परे ॥ १६३.१५॥
१६३.१६/१भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् ।
१६३.१६/२अतिथिभ्यस्तु यो दद्याद् दत्ता तेन वसुंधरा ॥ १६३.१६॥
१६३.१७/१ब्रह्मोवाच । एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत् ।
१६३.१७/२आसने चोपवेश्याथा+ ।ज्ञानात् तं परशुं द्विजम् ॥ १६३.१७॥
१६३.१८/१यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ ।
१६३.१८/२आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत् ॥ १६३.१८॥
१६३.१९/१परशुरुवाच । दूराद् अभ्यागतं श्रान्तमनुगच्छन्ति देवताः ।
१६३.१९/२तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः ॥ १६३.१९॥
१६३.२०/१अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ ।
१६३.२०/२अपवादी हरेत् पापमतिथिः स्वर्गसंक्रमः ॥ १६३.२०॥
१६३.२१/१अभ्यागतं पथि श्रान्तं सावज्ञं योऽभिवीक्षते ।
१६३.२१/२तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः ॥ १६३.२१॥
१६३.२२/१तस्माद् अभ्यागतः श्रान्तो याचेऽहं त्वां द्विजोत्तम ।
१६३.२२/२दास्यसे यदि मे कामं तद् भोक्ष्येऽहं न चान्यथा ॥ १६३.२२॥
१६३.२३/१ब्रह्मोवाच । दत्तमित्येव शाकल्यो भुङ्क्ष्वेत्येवाह राक्षसम् ।
१६३.२३/२ततः प्रोवाच परशुरहं राक्षससत्तमः ॥ १६३.२३॥
१६३.२४/१नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः ।
१६३.२४/२बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥ १६३.२४॥
१६३.२५/१शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा ।
१६३.२५/२तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥ १६३.२५॥
१६३.२६/१ब्रह्मोवाच । श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत् ॥ १६३.२६॥
१६३.२७/१शाकल्य उवाच । ये महाकुलसम्भूता विज्ञातसकलागमाः ।
१६३.२७/२तत् प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम् ॥ १६३.२७॥
१६३.२८/१यथोचितं कुरु सखे तथापि शृणु मे वचः ।
१६३.२८/२निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः ॥ १६३.२८॥
१६३.२९/१ब्राह्मणोऽहं वज्रतनुः सर्वतो रक्षको हरिः ।
१६३.२९/२पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥ १६३.२९॥
१६३.३०/१बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् ।
१६३.३०/२हृदयं रक्षतात् कृष्णो ह्यङ्गुली रक्षतान् मृगः ॥ १६३.३०॥
१६३.३१/१मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः ।
१६३.३१/२श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद् भवः ।
१६३.३१/३नानापत्स्वेकशरणं देवो नारायणः स्वयम् ॥ १६३.३१॥
१६३.३२/१ब्रह्मोवाच । एवमुक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् ।
१६३.३२/२मां राक्षसेन्द्र परशो त्वमिदानीमतन्द्रितः ॥ १६३.३२॥
१६३.३३/१राक्षसस्तस्य वचनाद् भक्षणाय समुद्यतः ।
१६३.३३/२नास्त्येव हृदये नूनं पापिनां करुणाकणः ॥ १६३.३३॥
१६३.३४/१दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा ।
१६३.३४/२ब्राह्मणं तं निरीक्ष्यैवं परशुर्वाक्यमब्रवीत् ॥ १६३.३४॥
१६३.३५/१परशुरुवाच । शङ्खचक्रगदापाणिं त्वां पश्येऽहं द्विजोत्तम ।
१६३.३५/२सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥ १६३.३५॥
१६३.३६/१सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् ।
१६३.३६/२त्वामद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥ १६३.३६॥
१६३.३७/१तस्मात् प्रसादये विप्र त्वमेव शरणं भव ।
१६३.३७/२ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्यघनिष्कृतिम् ॥ १६३.३७॥
१६३.३८/१महतां दर्शनं ब्रह्मञ् जायते नहि निष्फलम् ।
१६३.३८/२द्वेषाद् अज्ञानतो वापि प्रसङ्गाद् वा प्रमादतः ॥ १६३.३८॥
१६३.३९/१अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥ १६३.३९॥
१६३.४०/१ब्रह्मोवाच । एतद् वाक्यं समाकर्ण्य राक्षसेन समीरितम् ।
१६३.४०/२शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥ १६३.४०॥
१६३.४१/१तवाचिराद् दैत्यपते ततः स्तुहि जनार्दनम् ।
१६३.४१/२मनोरथफलप्राप्तौ नान्यन् नारायणस्तुतेः ॥ १६३.४१॥
१६३.४२/१किंचिद् अप्यस्ति लोकेऽस्मिन् कारणं शृणु राक्षस ।
१६३.४२/२प्रसन्ना तव सा देवी मद्वाक्याच्च भविष्यति ॥ १६३.४२॥
१६३.४३/१ब्रह्मोवाच । तथेत्युक्त्वा स परशुर्गङ्गां त्रैलोक्यपावनीम् ।
१६३.४३/२स्नात्वा शुचिर्यतमना गङ्गामभिमुखः स्थितः ॥ १६३.४३॥
१६३.४४/१तत्रापश्यद् दिव्यरूपां दिव्यगन्धानुलेपनाम् ।
१६३.४४/२सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥ १६३.४४॥
१६३.४५/१जगज्जाड्यहरां विश्व+ ।जननीं भुवनेश्वरीम् ।
१६३.४५/२तामुवाच विनीतात्मा परशुर्गतकल्मषः ॥ १६३.४५॥
१६३.४६/१परशुरुवाच । गुरुः शाकल्य इत्याह माकान्तं स्तुहि विध्वजम् ।
१६३.४६/२तव प्रसादात् सा शक्तिर्यथा मे स्यात् तथा कुरु ॥ १६३.४६॥
१६३.४७/१ब्रह्मोवाच । तथास्त्विति च सा प्राह परशुं श्रीसरस्वती ।
१६३.४७/२सरस्वत्याः प्रसादेन परशुस्तं जनार्दनम् ॥ १६३.४७॥
१६३.४८/१तुष्टाव विविधैर्वाक्यैस्ततस्तुष्टोऽभवद् धरिः ।
१६३.४८/२वरं प्रादाद् राक्षसाय कृपासिन्धुर्जनार्दनः ॥ १६३.४८॥
१६३.४९/१जनार्दन उवाच । यद् यन् मनोगतं रक्षस्तत् तत् सर्वं
भविष्यति ॥ १६३.४९॥
१६३.५०/१ब्रह्मोवाच । शाकल्यस्य प्रसादेन गौतम्याश्च प्रसादतः ।
१६३.५०/२सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥ १६३.५०॥
१६३.५१/१पापिष्ठोऽपि तदा रक्षः परशुर्दिवमेयिवान् ।
१६३.५१/२सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच्छार्ङ्गधन्वनः ॥ १६३.५१॥
१६३.५२/१ततः प्रभृति तत् तीर्थं सारस्वतमिति श्रुतम् ।
१६३.५२/२तत्र स्नानेन दानेन विष्णुलोके महीयते ॥ १६३.५२॥
१६३.५३/१वाग्जवैष्णवशाकल्य+ ।परशुप्रभवाणि हि ।
१६३.५३/२बहून्यभूवंस्तीर्थानि तस्मिन् वै श्वेतपर्वते ॥ १६३.५३॥
१६४.१/१ब्रह्मोवाच । चिच्चिकातीर्थमित्युक्तं सर्वरोगविनाशनम् ।
१६४.१/२सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ १६४.१॥
१६४.२/१तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे ।
१६४.२/२गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥ १६४.२॥
१६४.३/१चिच्चिकः पक्षिराट् तत्र भेरुण्डो योऽभिधीयते ।
१६४.३/२सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥ १६४.३॥
१६४.४/१नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः ।
१६४.४/२सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते ॥ १६४.४॥
१६४.५/१सिद्धचारणगन्धर्व+ ।किंनरामरसंकुले ।
१६४.५/२तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम् ॥ १६४.५॥
१६४.६/१रोगार्तिक्षुत्तृषाचिन्ता+ ंअरणानां न भाजनम् ।
१६४.६/२एवं गुणान्विते शैले नानामुनिगणावृते ॥ १६४.६॥
१६४.७/१पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः ।
१६४.७/२क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः ॥ १६४.७॥
१६४.८/१बलेन महता युक्तः सपुरोधा वनं ययौ ।
१६४.८/२रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः ॥ १६४.८॥
१६४.९/१स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः ।
१६४.९/२एवं भ्रमन् कदाचित् स श्रान्तो द्रुममुपागतः ॥ १६४.९॥
१६४.१०/१गौतमीतीरसम्भूतं नानापक्षिगणैर्वृतम् ।
१६४.१०/२आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम् ॥ १६४.१०॥
१६४.११/१तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः ।
१६४.११/२स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥ १६४.११॥
१६४.१२/१तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् ।
१६४.१२/२चिन्ताविष्टं तथा श्रान्तं तमपृच्छन् नृपोत्तमः ॥ १६४.१२॥
१६४.१३/१राजोवाच । को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे ।
१६४.१३/२नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखमागतः ॥ १६४.१३॥
१६४.१४/१ब्रह्मोवाच । ततः प्रोवाच नृपतिं पवमानं शनैः शनैः ।
१६४.१४/२समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः ॥ १६४.१४॥
१६४.१५/१चिच्चिक उवाच । मत्तो भयं न चान्येषां मम वान्योपपादितम् ।
१६४.१५/२नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥ १६४.१५॥
१६४.१६/१पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम् ।
१६४.१६/२न लभामि सुखं किंचिन् न तृप्यामि कदाचन ।
१६४.१६/३निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥ १६४.१६॥
१६४.१७/१ब्रह्मोवाच । द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥ १६४.१७॥
१६४.१८/१राजोवाच । को भवान् किं कृतं पापं कस्माच्छून्यश्च पर्वतः ।
१६४.१८/२एकेनास्येन तृप्यन्ति प्राणिनोऽत्र नगोत्तमे ॥ १६४.१८॥
१६४.१९/१किमुतास्यद्वयेन त्वं न तृप्तिमुपयास्यसि ।
१६४.१९/२किं वा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा ॥ १६४.१९॥
१६४.२०/१तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥ १६४.२०॥
१६४.२१/१ब्रह्मोवाच । राजानं तं द्विजः प्राह निःश्वसन्न् अथ
चिच्चिकः ॥ १६४.२१॥
१६४.२२/१चिच्चिक उवाच । वक्ष्येऽहं त्वां पूर्ववृत्तं
पवमान शृणुष्व तत् ।
१६४.२२/२अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥ १६४.२२॥
१६४.२३/१कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः ।
१६४.२३/२वदे पुरस्तथा पृष्ठे अन्यद् अन्यच्च जन्तुषु ॥ १६४.२३॥
१६४.२४/१परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः ।
१६४.२४/२कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥ १६४.२४॥
१६४.२५/१मित्रस्वामिगुरुद्रोही दम्भाचारोऽतिनिर्घृणः ।
१६४.२५/२मनसा कर्मणा वाचा तापयामि जनान् बहून् ॥ १६४.२५॥
१६४.२६/१अयमेव विनोदो मे सदा यत् परहिंसनम् ।
१६४.२६/२युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥ १६४.२६॥
१६४.२७/१करोमि निर्विचारोऽहं विद्वत्सेवापराङ्मुखः ।
१६४.२७/२न मया सदृशः कश्चित् पातकी भवनत्रये ॥ १६४.२७॥
१६४.२८/१तेनाहं द्विमुखो जातस्तापनाद् दुःखभाग्यहम् ।
१६४.२८/२तस्माद् दुःखेन संतप्तः शून्योऽयं पर्वतो मम ॥ १६४.२८॥
१६४.२९/१अन्यच्च शृणु भूपाल वाक्यं धर्मार्थसंहितम् ।
१६४.२९/२ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते ॥ १६४.२९॥
१६४.३०/१क्षत्रियः संगरं गत्वा अथवान्यत्र संगरात् ।
१६४.३०/२पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥ १६४.३०॥
१६४.३१/१अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् ।
१६४.३१/२तं यदि क्षत्रियो हन्यात् स तु स्याद् ब्रह्मघातकः ॥ १६४.३१॥
१६४.३२/१अधीतं विस्मरति यस्त्वं करोति तथोत्तमम् ।
१६४.३२/२अनादरं च गुरुषु तमाहुर्ब्रह्मघातकम् ॥ १६४.३२॥
१६४.३३/१प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च ।
१६४.३३/२अन्यद् धृदि वचस्यन्यत् करोत्यन्यत् सदैव यः ॥ १६४.३३॥
१६४.३४/१गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः ।
१६४.३४/२मिथ्या विनीतः पापात्मा स तु स्याद् ब्रह्मघातकः ॥ १६४.३४॥
१६४.३५/१देवं वेदमथाध्यात्मं धर्मब्राह्मणसंगतिम् ।
१६४.३५/२एतान् निन्दति यो द्वेषात् स तु स्याद् ब्रह्मघातकः ॥ १६४.३५॥
१६४.३६/१एवं भूतोऽप्यहं राजन् दम्भार्थं लज्जया तथा ।
१६४.३६/२सद्वृत्त इव वर्तेऽहं तस्माद् राजन् द्विजोऽभवम् ॥ १६४.३६॥
१६४.३७/१एवं भूतोऽपि सत्कर्म किंचित् कर्तास्मि कुत्रचित् ।
१६४.३७/२तेनाहं कर्मणा राजन् स्वतः स्मर्ता पुरा कृतम् ॥ १६४.३७॥
१६४.३८/१ब्रह्मोवाच । तच्चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः ।
१६४.३८/२कर्मणा केन ते मुक्तिरित्याह नृपतिर्द्विजम् ॥ १६४.३८॥
१६४.३९/१इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥ १६४.३९॥
१६४.४०/१चिच्चिक उवाच । अस्मिन्न् एव नगश्रेष्ठे गौतम्या उत्तरे तटे ।
१६४.४०/२गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥ १६४.४०॥
१६४.४१/१तद् धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् ।
१६४.४१/२सर्वकामप्रदं चेति महद्भिर्मुनिभिः श्रुतम् ॥ १६४.४१॥
१६४.४२/१न गौतम्यास्तथा विष्णोरपरं क्लेशनाशनम् ।
१६४.४२/२सर्वभावेन तत् तीर्थं पश्येयमिति मे मतिः ॥ १६४.४२॥
१६४.४३/१मत्कृतेन प्रयत्नेन नैतच्छक्यं कदाचन ।
१६४.४३/२कथमाकाङ्क्षितप्राप्तिर्भवेद् दुष्कृतकर्मणाम् ॥ १६४.४३॥
१६४.४४/१सप्रयत्नोऽप्यहं वीर न पश्ये तत् सुदुष्करम् ।
१६४.४४/२तस्मात् तव प्रसादाच्च पश्येयं हि गदाधरम् ॥ १६४.४४॥
१६४.४५/१अविज्ञापितदुःखज्ञं करुणावरुणालयम् ।
१६४.४५/२यस्मिन् दृष्टे भवक्लेशा न दृश्यन्ते पुनर्नरैः ॥ १६४.४५॥
१६४.४६/१दृष्ट्वैव तं दिवं यास्ये प्रसादात् तव सुव्रत ॥ १६४.४६॥
१६४.४७/१ब्रह्मोवाच । एवमुक्तः स नृपतिश्चिच्चिकेन द्विजन्मना ।
१६४.४७/२दर्शयामास तं देवं तां च गङ्गां द्विजन्मने ॥ १६४.४७॥
१६४.४८/१ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम् ॥ १६४.४८॥
१६४.४९/१चिच्चिक उवाच । गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः ।
१६४.४९/२न पश्यत्युच्यते तावद् इहामुत्रापि पातकी ॥ १६४.४९॥
१६४.५०/१तस्मात् सर्वागसमपि मामुद्धर सरिद्वरे ।
१६४.५०/२संसारे देहिनामन्या न गतिः कापि कुत्रचित् ।
१६४.५०/३त्वां विना विष्णुचरण+ ।सरोरुहसमुद्भवे ॥ १६४.५०॥
१६४.५१/१ब्रह्मोवाच । इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः ।
१६४.५१/२स्नानं चक्रे स्मरन्न् अन्तर्गङ्गे त्रायस्व मामिति ॥ १६४.५१॥
१६४.५२/१गदाधरं ततो नत्वा पश्यत्सु नगवासिषु ।
१६४.५२/२पवमानाभ्यनुज्ञातस्तदैव दिवमाक्रमत् ॥ १६४.५२॥
१६४.५३/१पवमानः स्वनगरं प्रययौ सानुगस्ततः ।
१६४.५३/२ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम् ॥ १६४.५३॥
१६४.५४/१गदाधरं कोटितीर्थमिति वेदविदो विदुः ।
१६४.५४/२कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम् ॥ १६४.५४॥
१६५.१/१ब्रह्मोवाच । भद्रतीर्थमिति प्रोक्तं सर्वानिष्टनिवारणम् ।
१६५.१/२सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥ १६५.१॥
१६५.२/१आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता ।
१६५.२/२छायापि भार्या सवितुस्तस्याः पुत्रः शनैश्चरः ॥ १६५.२॥
१६५.३/१तस्य स्वसा विष्टिरिति भीषणा पापरूपिणी ।
१६५.३/२तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥ १६५.३॥
१६५.४/१यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः ।
१६५.४/२तच्छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया ।
१६५.४/३एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥ १६५.४॥
१६५.६/१विष्टिरुवाच । बालामेव पिता यस्तु दद्यात् कन्यां सुरूपिणे ।
१६५.६/२स कृतार्थो भवेल्लोके न चेद् दुष्कृतवान् पिता ॥ १६५.६॥
१६५.७/१चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः ।
१६५.७/२तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥ १६५.७॥
१६५.८/१श्रीमते विदुषे यूने कुलीनाय यशस्विने ।
१६५.८/२उदाराय सनाथाय कन्या देया वराय वै ॥ १६५.८॥
१६५.९/१एतच्चेद् अन्यथा कुर्यात् पिता स निरयी सदा ।
१६५.९/२धर्मस्य साधनं कन्या विदुषामपि भास्कर ॥ १६५.९॥
१६५.१०/१नरकस्येव मूर्खाणां कामोपहतचेतसाम् ।
१६५.१०/२एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥ १६५.१०॥
१६५.११/१स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता ।
१६५.११/२विक्रीणीते यश्च कन्यामश्वं वा गां तिलान् अपि ॥ १६५.११॥
१६५.१२/१न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर्भवेत् ।
१६५.१२/२विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥ १६५.१२॥
१६५.१३/१तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते ।
१६५.१३/२यावल्लज्जां न जानाति यावत् क्रीडति पांशुभिः ॥ १६५.१३॥
१६५.१४/१तावत् कन्या प्रदातव्या नो चेत् पित्रोरधोगतिः ।
१६५.१४/२पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः ॥ १६५.१४॥
१६५.१५/१आत्मनः सुखितां लोके को न कुर्यात् करोति च ।
१६५.१५/२यत् कन्यायां पिता कुर्याद् दानं पूजनमीक्षणम् ॥ १६५.१५॥
१६५.१६/१यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम् ।
१६५.१६/२यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते ॥ १६५.१६॥
१६५.१७/१पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे ।
१६५.१७/२करोति यः कन्यकानां स सम्पद्भाजनं भवेत् ॥ १६५.१७॥
१६५.१८/१ब्रह्मोवाच । एवं तां वादिनीं कन्यां विष्टिं प्रोवाच
भास्करः ॥ १६५.१८॥
१६५.१९/१सूर्य उवाच । किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम् ।
१६५.१९/२कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥ १६५.१९॥
१६५.२०/१मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च ।
१६५.२०/२अस्मासु सर्वमप्यस्ति विना तव गुणैः शुभे ।
१६५.२०/३किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम् ॥ १६५.२०॥
१६५.२१/१ब्रह्मोवाच । एवमुक्त्वा पुनस्तां च विष्टिं प्रोवाच भास्करः ॥ १६५.२१॥
१६५.२२/१सूर्य उवाच । यस्मै कस्मै च दातव्या त्वं वै यद्यनुमन्यसे ।
१६५.२२/२दीयसेऽद्य मया विष्टे अनुजानीहि मां ततः ॥ १६५.२२॥
१६५.२३/१ब्रह्मोवाच । पितरं प्राह सा विष्टिर्भर्ता पुत्रा धनं सुखम् ।
१६५.२३/२आयू रूपं च सम्प्रीतिर्जायते प्राक्तनानुगम् ॥ १६५.२३॥
१६५.२४/१यत् पुरा विहितं कर्म प्राणिना साध्वसाधु वा ।
१६५.२४/२फलं तदनुरोधेन प्राप्यतेऽपि भवान्तरे ॥ १६५.२४॥
१६५.२५/१स्वदोष एव तत् पित्रा परिहर्तव्य आदरात् ।
१६५.२५/२तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा ॥ १६५.२५॥
१६५.२६/१तस्मात् तद्दानसम्बन्धं स्ववंशानुगतं पिता ।
१६५.२६/२करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति ॥ १६५.२६॥
१६५.२७/१ब्रह्मोवाच । तच्छ्रुत्वा दुहितुर्वाक्यं त्वष्टुः पुत्राय भीषणाम् ।
१६५.२७/२विश्वरूपाय तां प्रादाद् विष्टिं लोकभयंकरीम् ॥ १६५.२७॥
१६५.२८/१विश्वरूपोऽपि तद्वच्च भीषणो भीषणाकृतिः ।
१६५.२८/२एवं मिथः संचरतोः शीलरूपसमानयोः ॥ १६५.२८॥
१६५.२९/१प्रीतिः कदाचिद् वैषम्यं दम्पत्योरभवन् मिथः ।
१६५.२९/२गण्डो नामाभवत् पुत्रो ह्यतिगण्डस्तथैव च ॥ १६५.२९॥
१६५.३०/१रक्ताक्षः क्रोधनश्चैव व्ययो दुर्मुख एव च ।
१६५.३०/२तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक् ॥ १६५.३०॥
१६५.३१/१सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः ।
१६५.३१/२स कदाचिद् यमगृहं द्रष्टुं मातुलमभ्यगात् ॥ १६५.३१॥
१६५.३२/१स ददर्श बहूञ् जन्तून् स्वर्गस्थान् इव दुःखिनः ।
१६५.३२/२स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥ १६५.३२॥
१६५.३३/१हर्षण उवाच । क इमे सुखिनस्तात पच्यन्ते नरके च के ॥ १६५.३३॥
१६५.३४/१ब्रह्मोवाच । एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् ।
१६५.३४/२तत्कर्मणां गतिं सर्वामशेषेण न्यवेदयत् ॥ १६५.३४॥
१६५.३५/१यम उवाच । विहितस्य न कुर्वन्ति ये कदाचिद् अतिक्रमम् ।
१६५.३५/२न ते पश्यन्ति निरयं कदाचिद् अपि मानवाः ॥ १६५.३५॥
१६५.३६/१न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् ।
१६५.३६/२विहितातिक्रमं कुर्युर्ये ते नरकगामिनः ॥ १६५.३६॥
१६५.३७/१ब्रह्मोवाच । स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनरब्रवीत् ॥ १६५.३७॥
१६५.३८/१हर्षण उवाच । पिता त्वाष्ट्रो भीषणश्च माता विष्टिश्च भीषणा ।
१६५.३८/२भ्रातरश्च महात्मानो येन ते शान्तबुद्धयः ॥ १६५.३८॥
१६५.३९/१सुरूपाश्च भविष्यन्ति निर्दोषा मङ्गलप्रदाः ।
१६५.३९/२तन् मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम ॥ १६५.३९॥
१६५.४०/१अन्यथा तान् न गच्छेयमित्युक्तः प्राह धर्मराट् ।
१६५.४०/२हर्षणं शुद्धबुद्धिं तं हर्षणोऽसि न संशयः ॥ १६५.४०॥
१६५.४१/१बहवः स्युः सुताः केचिन् नैव ते कुलतन्तवः ।
१६५.४१/२एक एव सुतः कश्चिद् येन तद् ध्रियते कुलम् ॥ १६५.४१॥
१६५.४२/१कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः ।
१६५.४२/२यः पूर्वजान् उद्धरति स पुत्रस्त्वितरो गदः ॥ १६५.४२॥
१६५.४३/१यस्मात् त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् ।
१६५.४३/२तस्मात् त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥ १६५.४३॥
१६५.४४/१स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा ।
१६५.४४/२स तु प्रीतो यदि भवेत् सर्वमिष्टं प्रदास्यति ॥ १६५.४४॥
१६५.४५/१ब्रह्मोवाच । इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ ।
१६५.४५/२शुचिस्तुष्टाव देवेशं हरिं प्रीतोऽभवद् धरिः ॥ १६५.४५॥
१६५.४६/१हर्षणाय ततः प्रादात् कुलभद्रं ततस्तु सः ।
१६५.४६/२सर्वाभद्रप्रशमन+ ।पूर्वकं भद्रमस्तु ते ॥ १६५.४६॥
१६५.४७/१तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस्तथा सुताः ।
१६५.४७/२ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते ॥ १६५.४७॥
१६५.४८/१सर्वमङ्गलदं पुंसां तत्र भद्रपतिर्हरिः ।
१६५.४८/२तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् ।
१६५.४८/३मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः ॥ १६५.४८॥
१६६.१/१ब्रह्मोवाच । पतत्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् ।
१६६.१/२तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १६६.१॥
१६६.२/१बभूवतुः कश्यपस्य सुतावरुणावीश्वरौ ।
१६६.२/२सम्पातिश्च जटायुश्च सम्भवेतां तदन्वये ॥ १६६.२॥
१६६.३/१तार्क्ष्यप्रजापतेः पुत्रावरुणो गरुडस्तथा ।
१६६.३/२तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः ॥ १६६.३॥
१६६.४/१जटायुरिति विख्यातो ह्यपरः सोदरोऽनुजः ।
१६६.४/२अन्योन्यस्पर्धया युक्तावुन्मत्तौ स्वबलेन तौ ॥ १६६.४॥
१६६.५/१संजग्मतुर्दिनकरं नमस्कर्तुं विहायसि ।
१६६.५/२यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥ १६६.५॥
१६६.६/१दग्धपक्षावुभौ श्रान्तौ पतितौ गिरिमूर्धनि ।
१६६.६/२बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥ १६६.६॥
१६६.७/१तावद् दुःखाभिभूतोऽसावरुणः प्राह भास्करम् ।
१६६.७/२तौ दृष्ट्वा त्वरुणः सूर्य्ऽम् प्राहेदं पतितौ भुवि ।
१६६.७/३आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः ॥ १६६.७॥
१६६.८/१ब्रह्मोवाच । तथेत्युक्त्वा दिनकरो जीवयामास तौ खगौ ।
१६६.८/२गरुडोऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥ १६६.८॥
१६६.९/१आगत्याश्वासयामास सुखं चक्रे च नारद ।
१६६.९/२सर्व एव तदा जग्मुर्गङ्गां तापापनुत्तये ॥ १६६.९॥
१६६.१०/१जटायुश्चारुणश्चैव सम्पातिर्गरुडस्तथा ।
१६६.१०/२सूर्यो विष्णुस्तत् प्रययौ तत् तीर्थं बहुपुण्यदम् ॥ १६६.१०॥
१६६.११/१पतत्रितीर्थमाख्यातं विषघ्नं सर्वकामदम् ।
१६६.११/२स्वयं सूर्यस्तथा विष्णुः सुपर्णेनारुणेन च ॥ १६६.११॥
१६६.१२/१आसते गौतमीतीरे तथैव वृषभध्वजः ।
१६६.१२/२त्रयाणामपि देवानां स्थितेस्तत् तीर्थमुत्तमम् ॥ १६६.१२॥
१६६.१३/१तत्र स्नात्वा शुचिर्भूत्वा नमस्कुर्यात् सुरान् इमान् ।
१६६.१३/२आधिव्याधिविनिर्मुक्तः स परं सौख्यमाप्नुयात् ॥ १६६.१३॥
१६७.१/१ब्रह्मोवाच । विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः ।
१६७.१/२तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम् ॥ १६७.१॥
१६७.२/१अन्तर्वेद्यां द्विजः कश्चिद् ब्राह्मणो वेदपारगः ।
१६७.२/२तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥ १६७.२॥
१६७.३/१तेषां कनीयान् यो भ्राता शान्तो गुणगणैर्वृतः ।
१६७.३/२आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥ १६७.३॥
१६७.४/१विवाहाय पिता तस्मै आसन्दिवाय यत्नवान् ।
१६७.४/२एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥ १६७.४॥
१६७.५/१अविष्णुस्मरणं सौम्य+ ।शिरस्कमसमाहितम् ।
१६७.५/२आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥ १६७.५॥
१६७.६/१तमादायागमच्छीघ्रं गौतम्या दक्षिणे तटे ।
१६७.६/२श्रीगिरेरुत्तरे पारे बहुब्राह्मणसेवितम् ॥ १६७.६॥
१६७.७/१नगरं धर्मनिलयं लक्ष्म्या निलयमेव च ।
१६७.७/२तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥ १६७.७॥
१६७.८/१तस्यामितक्षेमसुभिक्षयुक्तम् ।
१६७.८/२निशावसाने द्विजपुत्रयुक्ता ।
१६७.८/३सा राक्षसी तत् पुरमाससाद ।
१६७.८/४मनोज्ञरूपाणि बिभर्ति नित्यम् ॥ १६७.८॥
१६७.९/१सा कामरूपेण चरत्यशेषाम् ।
१६७.९/२महीमिमां तेन समं द्विजेन ।
१६७.९/३गोदावरीदक्षिणतीरभागे ।
१६७.९/४वृद्धाकृतिस्तं द्विजमाह भीमा ॥ १६७.९॥
१६७.१०/१राक्षस्युवाच । एषा तु गङ्गा द्विजमुख्य संध्या ।
१६७.१०/२उपास्यतां विप्रवरैः समेत्य ।
१६७.१०/३यथोचितं विप्रवरास्तु काले ।
१६७.१०/४नोपासते यत्नत एव संध्याम् ॥ १६७.१०॥
१६७.११/१नीचास्त एवाभिहिताः सुरेशैर्।
१६७.११/२अन्त्यावसायिप्रवरास्त एते ।
१६७.११/३अहं जनित्री तव चेति वाच्यम् ।
१६७.११/४नो चेद् इदानीं त्वमुपैषि नाशम् ॥ १६७.११॥
१६७.१२/१मद्वाक्यकर्तासि यदि द्विजेन्द्र ।
१६७.१२/२सुखं करिष्ये तव यत् प्रियं च ।
१६७.१२/३पुनश्च देशं निलयं गुरूंश्च ।
१६७.१२/४सम्प्रापयिष्ये ननु सत्यमेतत् ॥ १६७.१२॥
१६७.१३/१ब्रह्मोवाच । स प्राह का त्वं द्विजपुंगवोऽपि ।
१६७.१३/२सोवाच तं राक्षसी कामरूपा ।
१६७.१३/३विश्वासयन्ती शपथैरनेकैस्- ।
१६७.१३/४तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥ १६७.१३॥
१६७.१४/१कङ्कालिनी नाम जगत्प्रसिद्धा ।
१६७.१४/२विप्रोऽपि तामाह निवेदितं यत् ।
१६७.१४/३तद् एव कर्तास्मि न संशयोऽत्र ।
१६७.१४/४यत् तत् प्रियं वच्मि करोमि चैव ॥ १६७.१४॥
१६७.१५/१ब्रह्मोवाच । तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी ।
१६७.१५/२वृद्धा तथापि चार्वङ्गी दिव्यालंकारभूषणा ॥ १६७.१५॥
१६७.१६/१द्विजमादाय सर्वत्र मत्सुतोऽयं गुणाकरः ।
१६७.१६/२एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥ १६७.१६॥
१६७.१७/१तं विप्रं रूपसौभाग्य+ ।वयोविद्याविभूषितम् ।
१६७.१७/२तां च वृद्धां गुणोपेतामस्य मातेति मेनिरे ॥ १६७.१७॥
१६७.१८/१तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् ।
१६७.१८/२राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये ॥ १६७.१८॥
१६७.१९/१सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्यचिन्तयत् ।
१६७.१९/२स द्विजोऽपि गुणैर्युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥ १६७.१९॥
१६७.२०/१द्विज उवाच । मामियं भक्षयेद् एव राक्षसी पापरूपिणी ।
१६७.२०/२किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा ॥ १६७.२०॥
१६७.२१/१महत् संकटमापन्नं रक्षयिष्यति कोऽत्र माम् ।
१६७.२१/२भार्या ममेयं कल्याणी गुणरूपवयोयुता ।
१६७.२१/३एनामप्यशुभाकस्माद् भक्षयिष्यति राक्षसी ॥ १६७.२१॥
१६७.२२/१ब्रह्मोवाच । एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी ।
१६७.२२/२वृद्धाप्यतिदुराधर्षा सा गता कुत्रचित् तदा ॥ १६७.२२॥
१६७.२३/१प्रश्रयावनता भूत्वा बाला चापि पतिव्रता ।
१६७.२३/२भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥ १६७.२३॥
१६७.२४/१भार्योवाच । कस्मात् ते दुःखमापन्नं स्वामिंस्तत्त्वं
वदस्व मे ॥ १६७.२४॥
१६७.२५/१ब्रह्मोवाच । शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् ।
१६७.२५/२किमकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥ १६७.२५॥
१६७.२६/१भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥
१६७.२६॥
१६७.२७/१भार्योवाच । अनात्मनः सर्वतोऽपि भयमस्ति गृहेष्वपि ।
१६७.२७/२कुतो भयं ह्यात्मवतां किं पुनर्गौतमीतटे ॥ १६७.२७॥
१६७.२८/१वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् ।
१६७.२८/२अत्र स्नात्वा शुचिर्भूत्वा स्तुहि देवमनामयम् ॥ १६७.२८॥
१६७.२९/१ब्रह्मोवाच । एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः ।
१६७.२९/२तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥ १६७.२९॥
१६७.३०/१द्विज उवाच । त्वमन्तरात्मा जगतोऽस्य नाथ ।
१६७.३०/२त्वमेव कर्तास्य मुकुन्द हर्ता ।
१६७.३०/३त्वं पालकः पालयसे न दीनम् ।
१६७.३०/४अनाथबन्धो नरसिंह कस्मात् ॥ १६७.३०॥
१६७.३१/१श्रुत्वैतत् प्रार्थनं तस्य जगच्छोकनिवारणः ।
१६७.३१/२नारायणोऽपि तां पापां निजघान स राक्षसीम् ॥ १६७.३१॥
१६७.३२/१सुदर्शनेन चक्रेण सहस्रारेण भास्वता ।
१६७.३२/२तस्मै प्रादाद् वरान् इष्टान् प्रापयच्च गुरुं प्रभुः ॥ १६७.३२॥
१६७.३३/१ततः प्रभृति तत् तीर्थं विप्रं नारायणं विदुः ।
१६७.३३/२स्नानदानेन पूजाद्यैर्यत्र सिध्यति वाञ्छितम् ॥ १६७.३३॥
१६८.१/१ब्रह्मोवाच । भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा ।
१६८.१/२ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ १६८.१॥
१६८.२/१अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः ।
१६८.२/२हयमेधेन पुण्येन यष्टुमारब्धवान् सुरान् ॥ १६८.२॥
१६८.३/१तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः ।
१६८.३/२क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥ १६८.३॥
१६८.४/१ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् ।
१६८.४/२भूपतौ दीक्षिते दाता को भवेत् को नु याचते ॥ १६८.४॥
१६८.५/१याच्ञेयमखिलाशर्म+ ।जननी पापरूपिणी ।
१६८.५/२केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः ॥ १६८.५॥
१६८.६/१एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् ।
१६८.६/२तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥ १६८.६॥
१६८.७/१वसिष्ठ उवाच । राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति ।
१६८.७/२देहि मे देव सवितर्यजनं देवतोचितम् ॥ १६८.७॥
१६८.८/१दैवं क्षत्रमसि ब्रह्मन् भूतनाथ नमोऽस्तु ते ।
१६८.८/२याचितः सविता राज्ञा देवानां यजनं शुभम् ॥ १६८.८॥
१६८.९/१ददात्येव ततो राजन् प्रार्थयेशं दिवाकरम् ॥ १६८.९॥
१६८.१०/१ब्रह्मोवाच । तथेत्युक्त्वाभिष्टुतोऽपि देवदेवं दिवाकरम् ।
१६८.१०/२श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम् ॥ १६८.१०॥
१६८.११/१राजोवाच । देवानां यजनं देहि सवितस्ते नमोऽस्तु ते ॥ १६८.११॥
१६८.१२/१ब्रह्मोवाच । क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः ।
१६८.१२/२सविता देवदेवेशो ददामीत्यभ्यभाषत ॥ १६८.१२॥
१६८.१३/१एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन ।
१६८.१३/२तथा वाजिमखे सत्त्रे ब्राह्मणैर्वेदपारगैः ॥ १६८.१३॥
१६८.१४/१प्रारब्धेऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः ।
१६८.१४/२देवानां यजनं दातुं भानुतीर्थं तद् उच्यते ॥ १६८.१४॥
१६८.१५/१तं देवक्रतुमुत्कृष्टं हयमेधं सुरैर्युतम् ।
१६८.१५/२दैत्याश्च दनुजाश्चैव तथान्ये यज्ञघातकाः ॥ १६८.१५॥
१६८.१६/१ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव ।
१६८.१६/२तेऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः ॥ १६८.१६॥
१६८.१७/१चमसानि च पात्राणि सोमं चषालमेव च ।
१६८.१७/२सोमपानं हविस्त्यागम् ऋत्विजो भूपतिं तथा ॥ १६८.१७॥
१६८.१८/१निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथासुराः ।
१६८.१८/२तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥ १६८.१८॥
१६८.१९/१विश्वरूपोऽपि पितरं प्राह दैत्या इमे इति ।
१६८.१९/२तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम् ॥ १६८.१९॥
१६८.२०/१त्वष्टोवाच । गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः ।
१६८.२०/२ये निन्दन्ति मखं पुण्यं चमसं सोममेव च ॥ १६८.२०॥
१६८.२१/१मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत ॥ १६८.२१॥
१६८.२२/१ब्रह्मोवाच । तथा चक्रुः सुरगणास्त्वष्टा चापि तथाकरोत् ।
१६८.२२/२भस्मीभूतास्ततः सर्वे कांदिशीकास्ततोऽभवन् ॥ १६८.२२॥
१६८.२३/१हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत् ।
१६८.२३/२ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास्ततः ॥ १६८.२३॥
१६८.२४/१यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः ।
१६८.२४/२त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम् ॥ १६८.२४॥
१६८.२५/१त्वष्टुर्वाक्याच्च्युतान् दैत्यान् निजघान यमस्तदा ।
१६८.२५/२कालदण्डेन चक्रेण कालपाशेन मन्युना ॥ १६८.२५॥
१६८.२६/१यत्र ते निहता दैत्यास्तत् तीर्थं याम्यमुच्यते ।
१६८.२६/२यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥ १६८.२६॥
१६८.२७/१धाराभिः शरमानाभिरखण्डाभिर्महाध्वरे ।
१६८.२७/२यत्राभवद् धव्यवाहस्तृप्तस्तस्य ह्यभिष्टुतः ॥ १६८.२७॥
१६८.२८/१अग्नितीर्थं तद् आख्यातमश्वमेधफलप्रदम् ।
१६८.२८/२इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम् ॥ १६८.२८॥
१६८.२९/१त्वं संराड् भविता राजन्न् उभयोरपि लोकयोः ।
१६८.२९/२सखा मम प्रियो नित्यं भविता नात्र संशयः ॥ १६८.२९॥
१६८.३०/१स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् ।
१६८.३०/२कुर्यात् पितृणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥ १६८.३०॥
१६८.३१/१माहेश्वरं तु तत् तीर्थं पूजितोऽभिष्टुतः शिवः ।
१६८.३१/२भक्तियुक्तेन विप्रैश्च सर्वकर्मविशारदैः ॥ १६८.३१॥
१६८.३२/१वैदिकैर्लौकिकैश्चैव मन्त्रैः पूज्यं महेश्वरम् ।
१६८.३२/२नृत्यैर्गीतैस्तथा वाद्यैरमृतैः पञ्चसम्भवैः ॥ १६८.३२॥
१६८.३३/१उपचारैश्च बहुभिर्दण्डपातप्रदक्षिणैः ।
१६८.३३/२धूपैर्दीपैश्च नैवेद्यैः पुष्पैर्गन्धैः सुगन्धिभिः ॥ १६८.३३॥
१६८.३४/१पूजयामास देवेशं विष्णुं शम्भुं धियैकया ।
१६८.३४/२ततः प्रसन्नौ देवेशौ वरान् ददतुरोजसा ॥ १६८.३४॥
१६८.३५/१अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि ।
१६८.३५/२माहात्म्यमस्य तीर्थस्य तथा ददतुरुत्तमम् ॥ १६८.३५॥
१६८.३६/१ततःप्रभृति तत् तीर्थं शैवं वैष्णवमुच्यते ।
१६८.३६/२तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥ १६८.३६॥
१६८.३७/१इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा ।
१६८.३७/२विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥ १६८.३७॥
१६८.३८/१भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् ।
१६८.३८/२तत्र तीर्थे महापुण्यं तीर्थानां शतमत्र हि ॥ १६८.३८॥
१६९.१/१ब्रह्मोवाच । भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् ।
१६९.१/२महादेवपदाम्भोज+ ।युगभक्तिप्रदायकम् ॥ १६९.१॥
१६९.२/१तत्राप्येवंविधां पुण्यां कथां शृणु महामते ।
१६९.२/२गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥ १६९.२॥
१६९.३/१आदिकेश इति ख्यात ऋषिभिः परिपूजितः ।
१६९.३/२महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥ १६९.३॥
१६९.४/१सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः ।
१६९.४/२तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥ १६९.४॥
१६९.५/१तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् ।
१६९.५/२नित्यं पूजयते भक्त्या प्राप्ते मध्यंदिने रवौ ॥ १६९.५॥
१६९.६/१भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः ।
१६९.६/२याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः ॥ १६९.६॥
१६९.७/१तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः ।
१६९.७/२अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम् ॥ १६९.७॥
१६९.८/१मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः ।
१६९.८/२न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥ १६९.८॥
१६९.९/१आदिकेशं समागत्य न्यस्य मांसं ततो बहिः ।
१६९.९/२गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥ १६९.९॥
१६९.१०/१यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः ।
१६९.१०/२अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥ १६९.१०॥
१६९.११/१आदिकेशं समागत्य वेदेनार्चितमोजसा ।
१६९.११/२पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥ १६९.११॥
१६९.१२/१स्नापयित्वा शिवं देवमर्चयित्वा तु पत्त्रकैः ।
१६९.१२/२कल्पयित्वा तु तन् मांसं शिवो मे प्रीयतामिति ॥ १६९.१२॥
१६९.१३/१नैव किंचित् स जानाति शिवभक्तिं विना शुभाम् ।
१६९.१३/२ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥ १६९.१३॥
१६९.१४/१करोत्येतादृग् आगत्य *आगत्य प्रत्यहमेव सः ।
१६९.१४/२तथापीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥ १६९.१४॥
१६९.१५/१यावन् नायात्यसौ भिल्लः शिवस्तावन् न सौख्यभाक् ।
१६९.१५/२भक्तानुकम्पितां शम्भोर्मानातीतां तु वेत्ति कः ॥ १६९.१५॥
१६९.१६/१सम्पूजयत्यादिकेशमुमया प्रत्यहं शिवम् ।
१६९.१६/२एवं बहुतिथे काले याते वेदश्चुकोप ह ॥ १६९.१६॥
१६९.१७/१पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् ।
१६९.१७/२को नु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥ १६९.१७॥
१६९.१८/१गुरुदेवद्विजस्वामि+ ।द्रोही वध्यो मुनेरपि ।
१६९.१८/२सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन् नरः ॥ १६९.१८॥
१६९.१९/१एवं निश्चित्य मेधावी वेदः सिन्धोस्तथानुजः ।
१६९.१९/२कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः ॥ १६९.१९॥
१६९.२०/१पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः ।
१६९.२०/२कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥ १६९.२०॥
१६९.२१/१मांसेन तरुपत्त्रैश्च स च वध्यो भवेन् मम ।
१६९.२१/२एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा ॥ १६९.२१॥
१६९.२२/१तं पश्येयमहं पापं पूजाकर्तारमीश्वरे ।
१६९.२२/२एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा ॥ १६९.२२॥
१६९.२३/१नित्यवत् पूजयन्तं तमादिकेशस्तदाब्रवीत् ॥ १६९.२३॥
१६९.२४/१आदिकेश उवाच । भो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः ।
१६९.२४/२चिराय कथमायातस्त्वां विना तात दुःखितः ।
१६९.२४/३न विन्दामि सुखं किंचित् समाश्वसिहि पुत्रक ॥ १६९.२४॥
१६९.२५/१ब्रह्मोवाच । तमेवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु ।
१६९.२५/२चुकोप विस्मयाविष्टो न च किंचिद् उवाच ह ॥ १६९.२५॥
१६९.२६/१व्याधश्च नित्यवत् पूजां कृत्वा स्वभवनं ययौ ।
१६९.२६/२वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥ १६९.२६॥
१६९.२७/१वेद उवाच । अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः ।
१६९.२७/२प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥ १६९.२७॥
१६९.२८/१हीनजातिरकिंचिज्ज्ञो गुरुक्रमविवर्जितः ।
१६९.२८/२सदानुचितकारी चा+ ंइर्जिताखिलगोगणः ॥ १६९.२८॥
१६९.२९/१तस्यात्मानं दर्शितवान् न मां किंचन वक्ष्यसि ।
१६९.२९/२पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥ १६९.२९॥
१६९.३०/१त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः ।
१६९.३०/२व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥ १६९.३०॥
१६९.३१/१तस्य प्रसन्नो भगवान् न ममेति महाद्भुतम् ।
१६९.३१/२शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः ॥ १६९.३१॥
१६९.३२/१मृदोः कोऽपि भवेत् प्रीतः कोऽपि तद्वद् दुरात्मनः ।
१६९.३२/२तस्माद् अहं मूर्ध्नि शिलां पातयेयमसंशयम् ॥ १६९.३२॥
१६९.३३/१ब्रह्मोवाच । इत्युक्तवति वै वेदे विहस्येशोऽब्रवीद् इदम् ॥ १६९.३३॥
१६९.३४/१आदिकेश उवाच । श्वः प्रतीक्षस्व पश्चान् मे शिलां
पातय मूर्धनि ॥ १६९.३४॥
१६९.३५/१ब्रह्मोवाच । तथेत्युक्त्वा स वेदोऽपि शिलां संत्यज्य बाहुना ।
१६९.३५/२उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह ॥ १६९.३५॥
१६९.३६/१ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च ।
१६९.३६/२वेदोऽपि नित्यवत् पूजां कुर्वन् पश्यति मस्तके ॥ १६९.३६॥
१६९.३७/१लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् ।
१६९.३७/२वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि ॥ १६९.३७॥
१६९.३८/१महोत्पातो भवेत् कस्य सूचयेद् इत्यचिन्तयत् ।
१६९.३८/२मृद्भिश्च गोमयेनापि कुशैस्तं गाङ्गवारिभिः ॥ १६९.३८॥
१६९.३९/१प्रक्षालयित्वा तां पूजां कृतवान् नित्यवत् तदा ।
१६९.३९/२एतस्मिन्न् अन्तरे प्रायाद् व्याधो विगतकल्मषः ॥ १६९.३९॥
१६९.४०/१मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके ।
१६९.४०/२शंकरस्यादिकेशस्य ददृशेऽन्तर्गतस्तदा ॥ १६९.४०॥
१६९.४१/१दृष्ट्वैव किमिदं चित्रमित्युक्त्वा निशितैः शरैः ।
१६९.४१/२आत्मानं भेदयामास शतधा च सहस्रधा ॥ १६९.४१॥
१६९.४२/१स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः ।
१६९.४२/२मुहुर्निनिन्द चात्मानं मयि जीवत्यभूद् इदम् ॥ १६९.४२॥
१६९.४३/१कष्टमापतितं कीदृग् अहो दुर्विधिवैशसात् ।
१६९.४३/२तत् कर्म तस्य संवीक्ष्य महादेवोऽतिविस्मितः ।
१६९.४३/३ततः प्रोवाच भगवान् वेदं वेदविदां वरम् ॥ १६९.४३॥
१६९.४४/१आदिकेश उवाच । पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् ।
१६९.४४/२त्वं तु मृद्भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवान् असि ॥ १६९.४४॥
१६९.४५/१अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः ।
१६९.४५/२भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते ।
१६९.४५/३तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम ॥ १६९.४५॥
१६९.४६/१ब्रह्मोवाच । वरेण च्छन्दयामास व्याधं देवो महेश्वरः ।
१६९.४६/२व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत् ॥ १६९.४६॥
१६९.४७/१तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थमुच्यताम् ।
१६९.४७/२सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम् ॥ १६९.४७॥
१६९.४८/१ब्रह्मोवाच । तथेत्युवाच देवेशस्ततस्तत् तीर्थमुत्तमम् ।
१६९.४८/२भिल्लतीर्थं समस्ताघ+ ।संघविच्छेदकारणम् ॥ १६९.४८॥
१६९.४९/१श्रीमहादेवचरण+ ंअहाभक्तिविधायकम् ।
१६९.४९/२अभवत् स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम् ।
१६९.४९/३वेदस्यापि वरान् प्रादाच्छिवो नानाविधान् बहून् ॥ १६९.४९॥
१७०.१/१ब्रह्मोवाच । चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् ।
१७०.१/२यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ १७०.१॥
१७०.२/१पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते ।
१७०.२/२यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥ १७०.२॥
१७०.३/१तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः ।
१७०.३/२तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥ १७०.३॥
१७०.४/१तस्य मातुर्मनोदोषाद् विपरीतोऽभवद् द्विजः ।
१७०.४/२सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते ॥ १७०.४॥
१७०.५/१तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः ।
१७०.५/२श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः ॥ १७०.५॥
१७०.६/१कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम् ।
१७०.६/२प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥ १७०.६॥
१७०.७/१गौतम उवाच । गच्छामो धनमादातुं पर्वतान् उदधीन् अपि ।
१७०.७/२यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः ।
१७०.७/३धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम् ॥ १७०.७॥
१७०.८/१ब्रह्मोवाच । कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम् ।
१७०.८/२बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम ।
१७०.८/३द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा ॥ १७०.८॥
१७०.९/१गौतम उवाच । धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते ।
१७०.९/२उत्कर्षप्राप्तिरेवैषां सखे श्लाघ्या शरीरिणाम् ॥ १७०.९॥
१७०.१०/१स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः ।
१७०.१०/२परदत्तार्थसंतुष्टाः कष्टजीविन एव ते ॥ १७०.१०॥
१७०.११/१स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते ।
१७०.११/२यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल ॥ १७०.११॥
१७०.१२/१स्वबाहुबलमाश्रित्य योऽर्थान् अर्जयते सुतः ।
१७०.१२/२स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥ १७०.१२॥
१७०.१३/१स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे ।
१७०.१३/२तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः ॥ १७०.१३॥
१७०.१४/१ब्रह्मोवाच । एतच्छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः ।
१७०.१४/२तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः ॥ १७०.१४॥
१७०.१५/१आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् ।
१७०.१५/२धनेनैतेन देशांश्च परिभ्रम्य यथासुखम् ॥ १७०.१५॥
१७०.१६/१धनान्यादाय वित्तानि पुनरेष्यामहे गृहम् ।
१७०.१६/२सत्यमेव वणिग् वक्ति स तु विप्रः प्रतारकः ॥ १७०.१६॥
१७०.१७/१पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम् ।
१७०.१७/२तौ परस्परमामन्त्र्य मातापित्रोरजानतोः ॥ १७०.१७॥
१७०.१८/१देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ ।
१७०.१८/२वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति ॥ १७०.१८॥
१७०.१९/१ब्राह्मण उवाच । येन केनाप्युपायेन तद् धनं हि समाहरे ।
१७०.१९/२अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥ १७०.१९॥
१७०.२०/१इष्टप्रदात्र्यः कामस्य देवता इव योषितः ।
१७०.२०/२मनोहरास्तत्र तत्र सन्ति किं क्रियते मया ॥ १७०.२०॥
१७०.२१/१धनमाहृत्य यत्नेन योषिद्भ्यो यदि दीयते ।
१७०.२१/२भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत् ॥ १७०.२१॥
१७०.२२/१नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलंकृतः ।
१७०.२२/२भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तमागतम् ॥ १७०.२२॥
१७०.२३/१ब्रह्मोवाच । एवं चिन्तयमानोऽसौ गौतमः प्रहसन्न् इव ।
१७०.२३/२मणिकुण्डलमाहेदमधर्माद् एव जन्तवः ॥ १७०.२३॥
१७०.२४/१वृद्धिं सुखमभीष्टानि प्राप्नुवन्ति न संशयः ।
१७०.२४/२धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥ १७०.२४॥
१७०.२५/१तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना ॥ १७०.२५॥
१७०.२६/१ब्रह्मोवाच । नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् ।
१७०.२६/२पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च ।
१७०.२६/३यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति ॥ १७०.२६॥
१७०.२७/१ब्रह्मोवाच । एवं विवदतोस्तत्र सम्परायस्तयोरभूत् ।
१७०.२७/२यस्य पक्षो भवेज्ज्यायान् स परार्थमवाप्नुयात् ॥ १७०.२७॥
१७०.२८/१पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्यधर्मिणः ।
१७०.२८/२वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत् ॥ १७०.२८॥
१७०.२९/१एवं विवदमानौ तावूचतुः सकलाञ् जनान् ।
१७०.२९/२धर्मस्य वाप्यधर्मस्य प्राबल्यमनयोर्भुवि ॥ १७०.२९॥
१७०.३०/१तद् वदन्तु यथावृत्तमेवमूचतुरोजसा ।
१७०.३०/२एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः ॥ १७०.३०॥
१७०.३१/१तैर्दुःखमनुभूयते पापिष्ठाः सुखिनो जनाः ।
१७०.३१/२सम्पराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥ १७०.३१॥
१७०.३२/१मणिमान् धर्मविच्छ्रेष्ठः पुनर्धर्मं प्रशंसति ।
१७०.३२/२मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि ।
१७०.३२/३ब्रह्मोवाच । तथेति चेत्याह वैश्यो ब्राह्मणः पुनरब्रवीत् ॥ १७०.३२॥
१७०.३३/१ब्राह्मण उवाच । जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे ।
१७०.३३/२मयैव विजितो धर्मो यथेष्टचरणात्मना ॥ १७०.३३॥
१७०.३४/१ब्रह्मोवाच । तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित
ऊचिवान् ॥ १७०.३४॥
१७०.३५/१वैश्य उवाच । पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।
१७०.३५/२तथैव तान् सखे मन्ये येषां धर्मो न विद्यते ॥ १७०.३५॥
१७०.३६/१चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते ।
१७०.३६/२पश्चाद् अर्थश्च कामश्च स धर्मो मयि तिष्ठति ।
१७०.३६/३कथं ब्रूषे द्विजश्रेष्ठ मया विजितमित्यदः ॥ १७०.३६॥
१७०.३७/१ब्रह्मोवाच । द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः ।
१७०.३७/२तथेति मन्यते वैश्यस्तौ गत्वा पुनरूचतुः ॥ १७०.३७॥
१७०.३८/१पूर्ववल्लौकिकान् गत्वा जितमित्यब्रवीद् द्विजः ।
१७०.३८/२करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे ।
१७०.३८/३आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत् ॥ १७०.३८॥
१७०.३९/१वैश्य उवाच । धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि ।
१७०.३९/२माता पिता सुहृद् बन्धुर्धर्म एव शरीरिणाम् ॥ १७०.३९॥
१७०.४०/१ब्रह्मोवाच । एवं विवदमानौ तावर्थवान् ब्राह्मणोऽभवत् ।
१७०.४०/२विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च ॥ १७०.४०॥
१७०.४१/१एवं भ्रमन्तौ सम्प्राप्तौ गङ्गां योगेश्वरं हरिम् ।
१७०.४१/२यदृच्छया मुनिश्रेष्ठ मिथस्तावूचतुः पुनः ॥ १७०.४१॥
१७०.४२/१वैश्यो गङ्गां तु योगेशं धर्ममेव प्रशंसति ।
१७०.४२/२अतिकोपाद् द्विजो वैश्यमाक्षिपन् पुनरब्रवीत् ॥ १७०.४२॥
१७०.४३/१ब्राह्मण उवाच । गतं धनं करौ छिन्नाववशिष्टोऽसुभिर्भवान् ।
१७०.४३/२त्वमन्यथा यदि ब्रूष आहरिष्येऽसिना शिरः ॥ १७०.४३॥
१७०.४४/१ब्रह्मोवाच । विहस्य पुनराहेदं वैश्यो गौतममञ्जसा ॥ १७०.४४॥
१७०.४५/१वैश्य उवाच । धर्ममेव परं मन्ये यथेच्छसि तथा कुरु ।
१७०.४५/२ब्राह्मणांश्च गुरून् देवान् वेदान् धर्मं जनार्दनम् ॥ १७०.४५॥
१७०.४६/१यस्तु निन्दयते पापो नासौ स्पृश्योऽथ पापकृत् ।
१७०.४६/२उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥ १७०.४६॥
१७०.४७/१ब्रह्मोवाच । ततः प्राह स कोपेन धर्मं यद्यनुशंससि ।
१७०.४७/२आवयोः प्राणयोरत्र पणः स्याद् इति वै मुने ॥ १७०.४७॥
१७०.४८/१एवमुक्ते गौतमेन तथेत्याह वणिक् तदा ।
१७०.४८/२पुनरप्यूचतुरुभौ लोकांल्लोकास्तथोचिरे ॥ १७०.४८॥
१७०.४९/१योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे ।
१७०.४९/२तं निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत् ॥ १७०.४९॥
१७०.५०/१विप्र उवाच । गतोऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया ।
१७०.५०/२गतं धनं गतं चक्षुश्छेदितौ करपल्लवौ ।
१७०.५०/३पृष्टोऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥ १७०.५०॥
१७०.५१/१ब्रह्मोवाच । तस्मिन् प्रयाते वैश्योऽसौ चिन्तयामास चेतसि ।
१७०.५१/२हा कष्टं मे किमभवद् धर्मैकमनसो हरे ॥ १७०.५१॥
१७०.५२/१स कुण्डलो वणिक्ष्रेष्ठो निर्धनो गतबाहुकः ।
१७०.५२/२गतनेत्रः शुचं प्राप्तो धर्ममेवानुसंस्मरन् ॥ १७०.५२॥
१७०.५३/१एवं बहुविधां चिन्तां कुर्वन्न् आस्ते महीतले ।
१७०.५३/२निश्चेष्टोऽथ निरुत्साहः पतितः शोकसागरे ॥ १७०.५३॥
१७०.५४/१दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले ।
१७०.५४/२एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः ॥ १७०.५४॥
१७०.५५/१स तु योगेश्वरं देवं पूजयित्वा यथाविधि ।
१७०.५५/२स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर्वृतः ॥ १७०.५५॥
१७०.५६/१विभीषणस्य हि सुतो विभीषण इवापरः ।
१७०.५६/२वैभीषणिरिति ख्यातस्तमपश्यद् उवाच ह ॥ १७०.५६॥
१७०.५७/१वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् ।
१७०.५७/२पित्रे निवेदयामास लङ्केशाय महात्मने ।
१७०.५७/३स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम् ॥ १७०.५७॥
१७०.५८/१विभीषण उवाच । श्रीमान् रामो मम गुरुस्तस्य मान्यः सखा मम ।
१७०.५८/२हनुमान् इति विख्यातस्तेनानीतो गिरिर्महान् ॥ १७०.५८॥
१७०.५९/१पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयोऽचलः ।
१७०.५९/२जाते कार्ये तमादाय हिमवन्तमथागमत् ॥ १७०.५९॥
१७०.६०/१विशल्यकरणी चेति मृतसंजीवनीति च ।
१७०.६०/२तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥ १७०.६०॥
१७०.६१/१निवेदयित्वा तत् साध्यं तस्मिन् वृत्ते समागतः ।
१७०.६१/२पुनर्गिरिं समादाय आगच्छद् देवपर्वतम् ॥ १७०.६१॥
१७०.६२/१तामानीयास्य हृदये निवेशय हरिं स्मरन् ।
१७०.६२/२ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः ॥ १७०.६२॥
१७०.६३/१गच्छतस्तस्य वेगेन विशल्यकरणी पुनः ।
१७०.६३/२अपतद् गौतमीतीरे यत्र योगेश्वरो हरिः ॥ १७०.६३॥
१७०.६४/१वैभीषणिरुवाच । तामोषधीं मम पितर्दर्शयाशु विलम्ब मा ।
१७०.६४/२परार्तिशमनाद् अन्यच्छ्रेयो न भुवनत्रये ॥ १७०.६४॥
१७०.६५/१ब्रह्मोवाच । विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत् ।
१७०.६५/२इषे त्वेत्यस्य वृक्षस्य शाखां चिच्छेद तत्सुतः ।
१७०.६५/३वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः ॥ १७०.६५॥
१७०.६६/१विभीषण उवाच । यत्रापतन् नगे चास्मिन् स वृक्षस्तु प्रतापवान् ।
१७०.६६/२तस्य शाखां समादाय हृदयेऽस्य निवेशय ।
१७०.६६/३तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात् ॥ १७०.६६॥
१७०.६७/१ब्रह्मोवाच । एतच्छ्रुत्वा पितुर्वाक्यं वैभीषणिरुदारधीः ।
१७०.६७/२तथा चकार वै सम्यक् काष्ठखण्डं न्यवेशयत् ॥ १७०.६७॥
१७०.६८/१हृदये स तु वैश्योऽपि सचक्षुः सकरोऽभवत् ।
१७०.६८/२मणिमन्त्रौषधीनां हि वीर्यं कोऽपि न बुध्यते ॥ १७०.६८॥
१७०.६९/१तद् एव काष्ठमादाय धर्ममेवानुसंस्मरन् ।
१७०.६९/२स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥ १७०.६९॥
१७०.७०/१नमस्कृत्वा पुनरगात् काष्ठखण्डेन वैश्यकः ।
१७०.७०/२परिभ्रमन् नृपपुरं महापुरमिति श्रुतम् ॥ १७०.७०॥
१७०.७१/१महाराज इति ख्यातस्तत्र राजा महाबलः ।
१७०.७१/२तस्य नास्ति सुतः कश्चित् पुत्रिका नष्टलोचना ॥ १७०.७१॥
१७०.७२/१सैव तस्य सुता पुत्रस्तस्यापि व्रतमीदृशम् ।
१७०.७२/२देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत् ॥ १७०.७२॥
१७०.७३/१वैश्यो वा शूद्रयोनिर्वा सगुणो निर्गुणोऽपि वा ।
१७०.७३/२तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥ १७०.७३॥
१७०.७४/१राज्येन सह देयेयमिति राजा ह्यघोषयत् ।
१७०.७४/२अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत् ॥ १७०.७४॥
१७०.७५/१वैश्य उवाच । अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥ १७०.७५॥
१७०.७६/१ब्रह्मोवाच । तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् ।
१७०.७६/२तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा ॥ १७०.७६॥
१७०.७७/१ततः सविस्मयो राजा को भवान् इति चाब्रवीत् ।
१७०.७७/२वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः ॥ १७०.७७॥
१७०.७८/१वैश्य उवाच । ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा ।
१७०.७८/२दानप्रभावाद् यज्ञैश्च विविधैर्भूरिदक्षिणैः ।
१७०.७८/३दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम् ॥ १७०.७८॥
१७०.७९/१ब्रह्मोवाच । एतद् वैश्यवचः श्रुत्वा विस्मितोऽभून् महीपतिः ॥ १७०.७९॥
१७०.८०/१राजोवाच । अहो महानुभावोऽयं प्रायो वृन्दारको भवेत् ।
१७०.८०/२अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम् ।
१७०.८०/३तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम् ॥ १७०.८०॥
१७०.८१/१ब्रह्मोवाच । इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान् ।
१७०.८१/२विहारार्थं गतः स्वैरं परं खेदमुपागतः ॥ १७०.८१॥
१७०.८२/१न मित्रेण विना राज्यं न मित्रेण विना सुखम् ।
१७०.८२/२तमेव सततं विप्रं चिन्तयन् वैश्यनन्दनः ॥ १७०.८२॥
१७०.८३/१एतद् एव सुजातानां लक्षणं भुवि देहिनाम् ।
१७०.८३/२कृपार्द्रं यन् मनो नित्यं तेषामप्यहितेषु हि ॥ १७०.८३॥
१७०.८४/१महानृपो वनं प्रायात् स राजा मणिकुण्डलः ।
१७०.८४/२तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम् ॥ १७०.८४॥
१७०.८५/१हृतस्वं द्यूतकैः पापैरपश्यन् मणिकुण्डलः ।
१७०.८५/२तमादाय द्विजं मित्रं पूजयामास धर्मवित् ॥ १७०.८५॥
१७०.८६/१धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् ।
१७०.८६/२स्नापयामास गङ्गायां तं सर्वाघनिवृत्तये ॥ १७०.८६॥
१७०.८७/१तेन विप्रेण सर्वैस्तैः स्वकीयैर्गोत्रजैर्वृतः ।
१७०.८७/२वैश्यैः स्वदेशसम्भूतैर्ब्राह्मणस्य तु बान्धवैः ॥ १७०.८७॥
१७०.८८/१वृद्धकौशिकमुख्यैश्च तस्मिन् योगेश्वरान्तिके ।
१७०.८८/२यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गमुपेयिवान् ॥ १७०.८८॥
१७०.८९/१ततः प्रभृति तत् तीर्थं मृतसंजीवनं विदुः ।
१७०.८९/२चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम् ।
१७०.८९/३मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥ १७०.८९॥
१७१.१/१ब्रह्मोवाच । उर्वशीतीर्थमाख्यातमश्वमेधफलप्रदम् ।
१७१.१/२स्नानदानमहादेव+ ।वासुदेवार्चनादिभिः ॥ १७१.१॥
१७१.२/१महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः ।
१७१.२/२प्रमतिर्नाम राजासीत् सार्वभौमः प्रतापवान् ॥ १७१.२॥
१७१.३/१रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर्वृतम् ।
१७१.३/२तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद ॥ १७१.३॥
१७१.४/१जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः ।
१७१.४/२तं हसन्तमथालक्ष्य हरिः प्रमतिमब्रवीत् ॥ १७१.४॥
१७१.५/१इन्द्र उवाच । देवालये महाबुद्धे मरुद्भिः क्रीडितैरलम् ।
१७१.५/२दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥ १७१.५॥
१७१.६/१ब्रह्मोवाच । सकषायं हरिवचो निशम्य प्रमतिर्नृपः ।
१७१.६/२तथेत्युवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे ।
१७१.६/३तच्छ्रुत्वा प्रमतेर्वाक्यं सुरराण् नृपमब्रवीत् ॥ १७१.६॥
१७१.७/१इन्द्र उवाच । उर्वश्येव पणोऽस्माकं प्राप्या या निखिलैर्मखैः ॥ १७१.७॥
१७१.८/१ब्रह्मोवाच । एतच्छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः ।
१७१.८/२उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे ॥ १७१.८॥
१७१.९/१यद् ब्रवीषि सुरेशान तन् मन्येऽहं शतक्रतो ।
१७१.९/२प्राहेन्द्रं प्रमतिस्तद्वन् निष्कृत्यै दक्षिणं करम् ।
१७१.९/३सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥ १७१.९॥
१७१.१०/१ब्रह्मोवाच । तावेवं संविदं कृत्वा देवनायोपतस्थतुः ।
१७१.१०/२प्रमतिर्जितवांस्तत्र उर्वशीं दैवतस्त्रियम् ।
१७१.१०/३तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम् ॥ १७१.१०॥
१७१.११/१प्रमतिरुवाच । निष्कृत्यै पुनरन्यन् मे पश्चाद् दीव्ये
त्वया विभो ॥ १७१.११॥
१७१.१२/१इन्द्र उवाच । देवयोग्यमथो वज्रं जैत्रं सरथमुत्तमम् ।
१७१.१२/२दीव्येऽहं तेन नृपते करेणाप्यविचारयन् ॥ १७१.१२॥
१७१.१३/१ब्रह्मोवाच । स गृहीत्वा तदा पाशान् अन्यांश्च मणिभूषितान् ।
१७१.१३/२जितमित्यब्रवीच्छक्रं प्रमतिः प्रहसंस्तदा ॥ १७१.१३॥
१७१.१४/१एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस्तत्र नारद ।
१७१.१४/२विश्वावसुरिति ख्यातो गन्धर्वाणां महेश्वरः ॥ १७१.१४॥
१७१.१५/१विश्वावसुरुवाच । गन्धर्वविद्यया राजंस्तया दीव्यामहे त्वया ।
१७१.१५/२तथेत्युक्त्वा स नृपतिर्जितमित्यब्रवीत् तदा ॥ १७१.१५॥
१७१.१६/१तौ जित्वा नृपतिर्मौर्ख्याद् देवेन्द्रं प्राह कश्मलम् ॥ १७१.१६॥
१७१.१७/१प्रमतिरुवाच । रणे वा देवने वापि न त्वं जेता कथंचन ।
१७१.१७/२महेन्द्र सततं तस्माद् अस्मदाराधको भव ।
१७१.१७/३वद केन प्रकारेण जाता देवेन्द्रता तव ॥ १७१.१७॥
१७१.१८/१ब्रह्मोवाच । तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव ।
१७१.१८/२उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि ।
१७१.१८/३वर्तेय सर्वभावेन न मां धिक्कर्तुमर्हसि ॥ १७१.१८॥
१७१.१९/१ब्रह्मोवाच । ततस्तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः ।
१७१.१९/२त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥ १७१.१९॥
१७१.२०/१एतच्छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस्तदा ।
१७१.२०/२चित्रसेन इति ख्यातः सुतो विश्वावसोर्बली ॥ १७१.२०॥
१७१.२१/१चित्रसेन उवाच । दीव्येऽहं वै त्वया राजन् सर्वेणानेन भूपते ।
१७१.२१/२राज्येन जीवितेनापि मदीयेन तवापि च ॥ १७१.२१॥
१७१.२२/१ब्रह्मोवाच । तथेत्युक्त्वा पुनरुभौ चित्रसेननृपोत्तमौ ।
१७१.२२/२दीव्येतामभिसंरब्धौ चित्रसेनोऽजयत् तदा ॥ १७१.२२॥
१७१.२३/१गान्धर्वैस्तं महापाशैर्बबन्ध नृपतिं तदा ।
१७१.२३/२चित्रसेनोऽजयत् सर्वमुर्वशीमुख्यतः पणैः ॥ १७१.२३॥
१७१.२४/१राज्यं कोशं बलं चैव यद् अन्यद् वसु किंचन ।
१७१.२४/२चित्रसेनस्य तज्जातं यद् आसीत् प्रमतेर्धनम् ॥ १७१.२४॥
१७१.२५/१तस्य पुत्रो बाल एव पुरोधसमुवाच ह ।
१७१.२५/२वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसमोजसा ॥ १७१.२५॥
१७१.२६/१प्रमतिपुत्र उवाच । किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः ।
१७१.२६/२कथमेष्यति स्वं स्थानं कथं पाशैर्विमोक्ष्यते ॥ १७१.२६॥
१७१.२७/१ब्रह्मोवाच । सुमतेर्वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः ।
१७१.२७/२मधुच्छन्दा जगादेदं प्रमतेर्वर्तनं तदा ॥ १७१.२७॥
१७१.२८/१मधुच्छन्दा उवाच । देवलोके तव पिता बद्ध आस्ते महामते ।
१७१.२८/२कैतवैर्बहुदोषैश्च भ्रष्टराज्यो बभूव ह ॥ १७१.२८॥
१७१.२९/१यो याति कैतवसभां स चापि क्लेशभाग् भवेत् ।
१७१.२९/२द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥ १७१.२९॥
१७१.३०/१पापिनामेव जायन्ते सदा पापात्मकानि हि ।
१७१.३०/२एकैकमप्यनर्थाय पापाय नरकाय च ॥ १७१.३०॥
१७१.३१/१यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः ।
१७१.३१/२कुलीनाः कलुषीभूताः किं पुनः कितवो जनः ॥ १७१.३१॥
१७१.३२/१कितवस्य तु या जाया तप्यते नित्यमेव सा ।
१७१.३२/२स चापि कितवः पापो योषितं वीक्ष्य तप्यते ॥ १७१.३२॥
१७१.३३/१तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् ।
१७१.३३/२अहो संसारचक्रेऽस्मिन् मया तुल्यो न पातकी ॥ १७१.३३॥
१७१.३४/१न किंचिद् अपि यस्यास्ते लोके विषयजं सुखम् ।
१७१.३४/२लोकद्वयेऽपि न सुखी कितवः कोऽपि दृश्यते ॥ १७१.३४॥
१७१.३५/१विभाति च तथा नित्यं लज्जया दग्धमानसः ।
१७१.३५/२गतधर्मो निरानन्दो ग्रस्तगर्वस्तथाटति ॥ १७१.३५॥
१७१.३६/१अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् ।
१७१.३६/२कृषिगोरक्ष्यवाणिज्यमपि कुर्यान् न कैतवम् ॥ १७१.३६॥
१७१.३७/१यस्तु कैतववृत्त्या हि धनमाहर्तुमिच्छति ।
१७१.३७/२धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात् ॥ १७१.३७॥
१७१.३८/१वेदेऽपि दूषितं कर्म तव पित्रा तदादृतम् ।
१७१.३८/२तस्मात् किं कुर्महे वत्स यद् उक्तं ते विधीयते ॥ १७१.३८॥
१७१.३९/१विधातृविहितं मार्गं को नु वात्येति पण्डितः ॥ १७१.३९॥
१७१.४०/१ब्रह्मोवाच । एतत् पुरोधसो वाक्यं श्रुत्वा सुमतिरब्रवीत् ॥ १७१.४०॥
१७१.४१/१सुमतिरुवाच । किं कृत्वा प्रमतिस्तातः पुना राज्यमवाप्नुयात् ॥ १७१.४१॥
१७१.४२/१ब्रह्मोवाच । पुनर्ध्यात्वा मधुच्छन्दाः सुमतिं चेदमब्रवीत् ॥ १७१.४२॥
१७१.४३/१मधुच्छन्दा उवाच । गौतमीं याहि वत्स त्वं तत्र पूजय शंकरम् ।
१७१.४३/२अदितिं वरुणं विष्णुं ततः पाशाद् विमोक्ष्यते ॥ १७१.४३॥
१७१.४४/१ब्रह्मोवाच । तथेत्युक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् ।
१७१.४४/२पूजयामास शम्भुं च तपस्तेपे यतव्रतः ॥ १७१.४४॥
१७१.४५/१सहस्रमेकं वर्षाणां बद्धं पितरमात्मनः ।
१७१.४५/२मोचयामास देवेभ्यः पुना राज्यमवाप सः ॥ १७१.४५॥
१७१.४६/१शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात् स्वकात् ।
१७१.४६/२अवाप्य विद्यां गान्धर्वीं प्रियश्चासीच्छतक्रतोः ॥ १७१.४६॥
१७१.४७/१शाम्भवं वैष्णवं चैव उर्वशीतीर्थमेव च ।
१७१.४७/२ततःप्रभृति तत् तीर्थं कैतवं चेति विश्रुतम् ॥ १७१.४७॥
१७१.४८/१शिवविष्णुसरिन्मातु+ ।प्रसादाद् आप्यते न किम् ।
१७१.४८/२तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् ।
१७१.४८/३पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम् ॥ १७१.४८॥
१७२.१/१ब्रह्मोवाच । सामुद्रं तीर्थमाख्यातं सर्वतीर्थफलप्रदम् ।
१७२.१/२तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ १७२.१॥
१७२.२/१विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी ।
१७२.२/२लोकानामुपकारार्थं प्रायात् पूर्वार्णवं प्रति ॥ १७२.२॥
१७२.३/१आगच्छन्ती देवनदी कमण्डलुधृता मया ।
१७२.३/२शिरसा च धृता देवी शम्भुना परमात्मना ॥ १७२.३॥
१७२.४/१विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना ।
१७२.४/२आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम् ॥ १७२.४॥
१७२.५/१गुरोर्गुरुतमां सिन्धुर्दृष्ट्वा कृत्यमचिन्तयत् ।
१७२.५/२या वन्द्या जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता ॥ १७२.५॥
१७२.६/१तामहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् ।
१७२.६/२आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते ॥ १७२.६॥
१७२.७/१न तस्य कोऽपि त्रातास्ति पापिनो लोकयोर्द्वयोः ।
१७२.७/२एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः ।
१७२.७/३कृताञ्जलिपुटो गङ्गामाहेदं सरिताम्पतिः ॥ १७२.७॥
१७२.८/१सिन्धुरुवाच । रसातलगतं वारि पृथिव्यां यन् नभस्तले ।
१७२.८/२तन् मामेवात्र विशतु नाहं वक्ष्यामि किंचन ॥ १७२.८॥
१७२.९/१मयि रत्नानि पीयूषं पर्वता राक्षसासुराः ।
१७२.९/२एतान् अप्यखिलान् अन्यान् भीमान् संधारयाम्यहम् ॥ १७२.९॥
१७२.१०/१ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा ।
१७२.१०/२ममाशक्यं न किमपि विद्यते सचराचरे ॥ १७२.१०॥
१७२.११/१महत्यभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् ।
१७२.११/२स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥ १७२.११॥
१७२.१२/१न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् ।
१७२.१२/२किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम् ॥ १७२.१२॥
१७२.१३/१ब्रवीमि देवि गङ्गे मां त्वं साम्यात् संगता भव ।
१७२.१३/२नैकरूपामहं शक्तः संगन्तुं बहुधा यदि ॥ १७२.१३॥
१७२.१४/१सङ्गमेष्यसि देवि त्वं संगच्छेऽहं न चान्यथा ।
१७२.१४/२गङ्गे समेष्यसि यदि बहुधा तद् विचारये ॥ १७२.१४॥
१७२.१५/१ब्रह्मोवाच । तमेवंवादिनं सिन्धुमपामीशं तदाब्रवीत् ।
१७२.१५/२गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम ॥ १७२.१५॥
१७२.१६/१सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः ।
१७२.१६/२भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम् ॥ १७२.१६॥
१७२.१७/१अल्पभूता भविष्यामि ततः स्यां तव संगता ।
१७२.१७/२तथेत्युक्त्वा सप्तर्षीणां भार्याभिरृषिभिर्वृतः ॥ १७२.१७॥
१७२.१८/१आनयामास तां देवी सप्तधा सा व्यभज्यत ।
१७२.१८/२सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥ १७२.१८॥
१७२.१९/१सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततोऽभवन् ।
१७२.१९/२तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥ १७२.१९॥
१७२.२०/१स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत् ।
१७२.२०/२नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये ।
१७२.२०/३पापहानौ भुक्तिमुक्ति+ ।प्राप्तौ च मनसो मुदे ॥ १७२.२०॥
१७३.१/१ब्रह्मोवाच । ऋषिसत्त्रमिति ख्यातम् ऋषयः सप्त नारद ।
१७३.१/२निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥ १७३.१॥
१७३.२/१तत्रेदं वृत्तमाख्यास्ये देवर्षिपितृबृंहितम् ।
१७३.२/२शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥ १७३.२॥
१७३.३/१सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद ।
१७३.३/२वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा ॥ १७३.३॥
१७३.४/१वामदेव्यपरा ज्ञेया गौतमी मध्यतः शुभा ।
१७३.४/२भारद्वाजी स्मृता चान्या आत्रेयी चेत्यथापरा ॥ १७३.४॥
१७३.५/१जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा ।
१७३.५/२तैः सर्वैरृषिभिस्तत्र यष्टुमिष्टैर्महात्मभिः ॥ १७३.५॥
१७३.६/१निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः ।
१७३.६/२एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः ॥ १७३.६॥
१७३.७/१विश्वरूप इति ख्यातो मुनीनां सत्त्रमभ्यगात् ।
१७३.७/२ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि ।
१७३.७/३विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात् ॥ १७३.७॥
१७३.८/१विश्वरूप उवाच । ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना ।
१७३.८/२यथा स्याद् बलवान् पुत्रो देवानामपि दुर्धरः ।
१७३.८/३यज्ञैर्वा तपसा वापि मुनयो वक्तुमर्हथ ॥ १७३.८॥
१७३.९/१ब्रह्मोवाच । तत्र प्राह महाबुद्धिर्विश्वामित्रो महामनाः ॥ १७३.९॥
१७३.१०/१विश्वामित्र उवाच । कर्मणा तात लभ्यन्ते फलानि विविधानि च ।
१७३.१०/२त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥ १७३.१०॥
१७३.११/१ततश्च कारणं कर्ता ततश्चान्यत् प्रकीर्तितम् ।
१७३.११/२उपादानं तथा बीजं न च कर्म विदुर्बुधाः ॥ १७३.११॥
१७३.१२/१कर्मणां कारणत्वं च कारणे पुष्कले सति ।
१७३.१२/२भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम् ॥ १७३.१२॥
१७३.१३/१कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् ।
१७३.१३/२कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते ॥ १७३.१३॥
१७३.१४/१तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् ।
१७३.१४/२यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः ॥ १७३.१४॥
१७३.१५/१तद्भावनानुरूपेण फलनिष्पत्तिरुच्यते ।
१७३.१५/२करोति कर्म विधिवद् विना भावनया यदि ॥ १७३.१५॥
१७३.१६/१अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः ।
१७३.१६/२तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥ १७३.१६॥
१७३.१७/१कर्मणस्त्वनुरूपेण फलं दास्यन्ति भावतः ।
१७३.१७/२तस्माद् भावानुरूपेण कर्म वै दास्यते फलम् ॥ १७३.१७॥
१७३.१८/१भावस्तु त्रिविधो ज्ञेयः सात्त्विको राजसस्तथा ।
१७३.१८/२तामसस्तु तथा ज्ञेयः फलं कर्मानुसारतः ॥ १७३.१८॥
१७३.१९/१भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः ।
१७३.१९/२तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः ॥ १७३.१९॥
१७३.२०/१पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम् ।
१७३.२०/२फलं ददाति फलिनां फले यदि प्रवर्तते ॥ १७३.२०॥
१७३.२१/१कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः ।
१७३.२१/२तद् एव चोपदानादि सत्त्वादिगुणभेदतः ॥ १७३.२१॥
१७३.२२/१भावात् प्रारभते तद्वद् भावैः फलमवाप्यते ।
१७३.२२/२धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥ १७३.२२॥
१७३.२३/१भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम् ।
१७३.२३/२स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥ १७३.२३॥
१७३.२४/१फलानि विविधान्याशु करोति समतानुगम् ।
१७३.२४/२एक एव पदार्थोऽसौ भावैर्भेदः प्रदृश्यते ॥ १७३.२४॥
१७३.२५/१क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते ।
१७३.२५/२यथाभावं कर्म कुरु यथेप्सितमवाप्स्यसि ॥ १७३.२५॥
१७३.२६/१ब्रह्मोवाच । एतच्छ्रुत्वा ऋषेर्वाक्यं विश्वामित्रस्य धीमतः ।
१७३.२६/२तपस्तप्त्वा बहुकालं तामसं भावमाश्रितः ॥ १७३.२६॥
१७३.२७/१विश्वरूपः कर्म भीमं चकार सुरभीषणम् ।
१७३.२७/२पश्यत्सु ऋषिमुख्येषु वार्यमाणोऽपि नित्यशः ॥ १७३.२७॥
१७३.२८/१आत्मकोपानुसारेण भीमं कर्म तथाकरोत् ।
१७३.२८/२भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥ १७३.२८॥
१७३.२९/१भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् ।
१७३.२९/२एवं तपन्तमालक्ष्य वाग् उवाचाशरीरिणी ॥ १७३.२९॥
१७३.३०/१जटाजूटं विनात्मानं न च वृत्रो व्यजीयत ।
१७३.३०/२वृथात्मानं विश्वरूपो जुहुयाज्जातवेदसि ॥ १७३.३०॥
१७३.३१/१स एवेन्द्रः स वरुणः स च स्यात् सर्वमेव च ।
१७३.३१/२त्यक्त्वात्मानं जटामात्रं हुतवान् वृजिनोद्भवः ॥ १७३.३१॥
१७३.३२/१वृत्र इत्युच्यते वेदे स चापि वृजिनोऽभवत् ।
१७३.३२/२भीमस्य महिमानं को जानाति जगदीशितुः ॥ १७३.३२॥
१७३.३३/१सृजत्यशेषमपि यो न च सङ्गेन लिप्यते ।
१७३.३३/२विररामेति संकीर्त्य सा वाण्येनं मुनीश्वराः ॥ १७३.३३॥
१७३.३४/१भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वमथाश्रमम् ।
१७३.३४/२विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥ १७३.३४॥
१७३.३५/१भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह ।
१७३.३५/२तस्माद् भीमेश्वरो देवः पुराणे परिपठ्यते ।
१७३.३५/३तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः ॥ १७३.३५॥
१७३.३६/१इति पठति शृणोति यश्च भक्त्या ।
१७३.३६/२विबुधपतिं शिवमत्र भीमरूपम् ।
१७३.३६/३जगति विदितमशेषपापहारि+ ।
१७३.३६/४स्मृतिपदशरणेन मुक्तिदश्च ॥ १७३.३६॥
१७३.३७/१गोदावरी तावद् अशेषपाप+ ।
१७३.३७/२समूहहन्त्री परमार्थदात्री ।
१७३.३७/३सदैव सर्वत्र विशेषतस्तु ।
१७३.३७/४यत्राम्बुराशिं समनुप्रविष्टा ॥ १७३.३७॥
१७३.३८/१स्नात्वा तु तस्मिन् सुकृती शरीरी ।
१७३.३८/२गोदावरीवारिधिसंगमे यः ।
१७३.३८/३उद्धृत्य तीव्रान् निरयाद् अशेषात् ।
१७३.३८/४स पूर्वजान् याति पुरं पुरारेः ॥ १७३.३८॥
१७३.३९/१वेदान्तवेद्यं यद् उपासितव्यम् ।
१७३.३९/२तद् ब्रह्म साक्षात् खलु भीमनाथः ।
१७३.३९/३दृष्टे हि तस्मिन् न पुनर्विशन्ति ।
१७३.३९/४शरीरिणः संस्मृतिमुग्रदुःखाम् ॥ १७३.३९॥
१७४.१/१ब्रह्मोवाच । सा संगता पूर्वमपाम्पतिं तम् ।
१७४.१/२गङ्गा सुराणामपि वन्दनीया ।
१७४.१/३देवैश्च सर्वैरनुगम्यमाना ।
१७४.१/४संस्तूयमाना मुनिभिर्मरुद्भिः ॥ १७४.१॥
१७४.२/१वसिष्ठजाबालिसयाज्ञवल्क्य+ ।
१७४.२/२क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः ।
१७४.२/३शातातपः शौनकदेवरात+ ।
१७४.२/४भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ १७४.२॥
१७४.३/१सुधूतपापा मनुगौतमादयः ।
१७४.३/२सकौशिकास्तुम्बरुपर्वताद्याः ।
१७४.३/३अगस्त्यमार्कण्डसपिप्पलाद्याः ।
१७४.३/४सगालवा योगपरायणाश्च ॥ १७४.३॥
१७४.४/१सवामदेवाङ्गिरसोऽथ भार्गवाः ।
१७४.४/२स्मृतिप्रवीणाः श्रुतिभिर्मनोज्ञाः ।
१७४.४/३सर्वे पुराणार्थविदो बहुज्ञास्- ।
१७४.४/४ते गौतमीं देवनदीं तु गत्वा ॥ १७४.४॥
१७४.५/१स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर्।
१७४.५/२हृद्यैश्च तुष्टैर्मुदितैर्मनोभिः ।
१७४.५/३तां संगतां वीक्ष्य शिवो हरिश्च ।
१७४.५/४आत्मानमादर्शयतां मुनिभ्यः ॥ १७४.५॥
१७४.६/१तथामरास्तौ पितृभिश्च दृष्टौ ।
१७४.६/२स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ १७४.६॥
१७४.७/१आदित्या वसवो रुद्रा मरुतो लोकपालकाः ।
१७४.७/२कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशंकरौ ॥ १७४.७॥
१७४.८/१संगमेषु प्रसिद्धेषु नित्यं सप्तसु नारद ।
१७४.८/२समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ १७४.८॥
१७४.९/१गौतमेश्वर आख्यातो यत्र देवो महेश्वरः ।
१७४.९/२नित्यं संनिहितस्तत्र माधवो रमया सह ॥ १७४.९॥
१७४.१०/१ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः ।
१७४.१०/२लोकानामुपकारार्थमात्मनः कारणान्तरे ॥ १७४.१०॥
१७४.११/१चक्रपाणिरिति ख्यातः स्तुतो देवैर्मया सह ।
१७४.११/२तत्र संनिहितो विष्णुर्देवैः सह मरुद्गणैः ॥ १७४.११॥
१७४.१२/१ऐन्द्रतीर्थमिति ख्यातं तद् एव हयमूर्धकम् ।
१७४.१२/२हयमूर्धा तत्र विष्णुस्तन्मूर्धनि सुरा अपि ।
१७४.१२/३सोमतीर्थमिति ख्यातं यत्र सोमेश्वरः शिवः ॥ १७४.१२॥
१७४.१३/१इन्द्रस्य सोमश्रवसो देवैश्च ऋषिभिस्तथा ।
१७४.१३/२प्रार्थितः सोम एवादाविन्द्रायेन्दो परिस्रव ॥ १७४.१३॥
१७४.१४/१सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
१७४.१४/२देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न ।
१७४.१४/३इन्द्रायेन्दो परिस्रव ॥ १७४.१४॥
१७४.१५/१यत् ते राजञ् छृतं हविस्तेन सोमाभिरक्ष नः ।
१७४.१५/२अरातीवा मा नस्तारीन् मो च नः किंचनाममद् ।
१७४.१५/३इन्द्रायेन्दो परिस्रव ॥ १७४.१५॥
१७४.१६/१ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
१७४.१६/२सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर्।
१७४.१६/३इन्द्रायेन्दो परिस्रव ॥ १७४.१६॥
१७४.१७/१कारुरहं ततो भिषग् उपलप्रक्षिणी नना ।
१७४.१७/२नानाधियो वसूयवोऽनु गा इव तस्थिम ।
१७४.१७/३इन्द्रायेन्दो परिस्रव ॥ १७४.१७॥
१७४.१८/१एवमुक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे ।
१७४.१८/२तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ १७४.१८॥
१७४.१९/१तत् सोमतीर्थमाख्यातमाग्नेयं पुरतस्तु तत् ।
१७४.१९/२अग्निरिष्ट्वा महायज्ञैर्मामाराध्य मनीषितम् ॥ १७४.१९॥
१७४.२०/१सम्प्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः ।
१७४.२०/२स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस्तथा ॥ १७४.२०॥
१७४.२१/१तस्माद् आग्नेयमाख्यातमादित्यं तदनन्तरम् ।
१७४.२१/२यत्रादित्यो वेदमयो नित्यमेति उपासितुम् ॥ १७४.२१॥
१७४.२२/१रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम् ।
१७४.२२/२नमस्कार्यस्तत्र सदा मध्याह्ने सकलो जनः ॥ १७४.२२॥
१७४.२३/१रूपेण केन सविता समायातीत्यनिश्चयात् ।
१७४.२३/२तस्माद् आदित्यमाख्यातं बार्हस्पत्यमनन्तरम् ॥ १७४.२३॥
१७४.२४/१बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह ।
१७४.२४/२ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः ॥ १७४.२४॥
१७४.२५/१तत्तीर्थस्मरणाद् एव ग्रहशान्तिर्भविष्यति ।
१७४.२५/२तस्माद् अप्यपरं तीर्थमिन्द्रगोपे नगोत्तमे ॥ १७४.२५॥
१७४.२६/१प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे ।
१७४.२६/२हिमालयेन तत् तीर्थमद्रितीर्थं तद् उच्यते ॥ १७४.२६॥
१७४.२७/१तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् ।
१७४.२७/२एवं सा गौतमी गङ्गा ब्रह्माद्रेश्च विनिःसृता ॥ १७४.२७॥
१७४.२८/१यावत् सागरगा देवी तत्र तीर्थानि कानिचित् ।
१७४.२८/२संक्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ १७४.२८॥
१७४.२९/१वेदे पुराणे ऋषिभिः प्रसिद्धा ।
१७४.२९/२या गौतमी लोकनमस्कृता च ।
१७४.२९/३वक्तुं कथं तामतिसुप्रभावाम् ।
१७४.२९/४अशेषतो नारद कस्य शक्तिः ॥ १७४.२९॥
१७४.३०/१भक्त्या प्रवृत्तस्य यथाकथंचिन् ।
१७४.३०/२नैवापराधोऽस्ति न संशयोऽत्र ।
१७४.३०/३तस्माच्च दिङ्मात्रमतिप्रयासात् ।
१७४.३०/४संसूचितं लोकहिताय तस्याः ॥ १७४.३०॥
१७४.३१/१कस्तस्याः प्रतितीर्थं तु प्रभावं वक्तुमीश्वरः ।
१७४.३१/२अपि लक्ष्मीपतिर्विष्णुरलं सोमेश्वरः शिवः ॥ १७४.३१॥
१७४.३२/१क्वचित् कस्मिंश्च तीर्थानि कालयोगे भवन्ति हि ।
१७४.३२/२गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥ १७४.३२॥
१७४.३३/१सर्वत्र सर्वदा पुण्या को न्वस्या गुणकीर्तनम् ।
१७४.३३/२वक्तुं शक्तस्ततस्तस्यै नम इत्येव युज्यते ॥ १७४.३३॥
१७५.१/१नारद उवाच । त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ।
१७५.१/२ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ १७५.१॥
१७५.२/१आदिमध्यावसाने च उभयोस्तीरयोरपि ।
१७५.२/२या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम ।
१७५.२/३पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥ १७५.२॥
१७५.३/१ब्रह्मोवाच । कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा ।
१७५.३/२महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥ १७५.३॥
१७५.४/१ब्रह्मतेजःप्रभावेण शिवमाराध्य यत्नतः ।
१७५.४/२ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥ १७५.४॥
१७५.५/१आगत्य संगता देवी सर्वतीर्थमयी नृणाम् ।
१७५.५/२ईप्सितानां तथा दात्री प्रभावोऽस्या विशिष्यते ॥ १७५.५॥
१७५.६/१एतस्या नाधिकं मन्ये किंचित् तीर्थं जगत्त्रये ।
१७५.६/२अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम् ॥ १७५.६॥
१७५.७/१अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन् न शक्यते ।
१७५.७/२भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥ १७५.७॥
१७५.८/१तस्याः परतरं तीर्थं न स्याद् इति मतिर्मम ।
१७५.८/२अन्यतीर्थेन साधर्म्यं न युज्येत कथंचन ॥ १७५.८॥
१७५.९/१श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम् ।
१७५.९/२सर्वेषां न मतिः कस्मात् तत्रैवोपरतिं गता ।
१७५.९/३इति भाति विचित्रं मे मुने खलु जगत्त्रये ॥ १७५.९॥
१७५.१०/१नारद उवाच । धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः ।
१७५.१०/२छन्दांसि सरहस्यानि पुराणस्मृतयोऽपि च ॥ १७५.१०॥
१७५.११/१धर्मशास्त्राणि यच्चान्यत् तव वाक्ये प्रतिष्ठितम् ।
१७५.११/२तीर्थानामथ दानानां यज्ञानां तपसां तथा ॥ १७५.११॥
१७५.१२/१देवतामन्त्रसेवानामधिकं किं वद प्रभो ।
१७५.१२/२यद् ब्रूषे भगवन् भक्त्या तथा भाव्यं न चान्यथा ॥ १७५.१२॥
१७५.१३/१एतं मे संशयं ब्रह्मन् वाक्यात् त्वं छेत्तुमर्हसि ।
१७५.१३/२इष्टं मनोगतं श्रुत्वा तस्माद् विस्मयमागतः ॥ १७५.१३॥
१७५.१४/१ब्रह्मोवाच । शृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम् ।
१७५.१४/२चतुर्विधानि तीर्थानि तावन्त्येव युगानि च ॥ १७५.१४॥
१७५.१५/१गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः ।
१७५.१५/२वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः ॥ १७५.१५॥
१७५.१६/१पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा ।
१७५.१६/२गुणा ह्यपि तु चत्वारः समत्वेनेति नारद ॥ १७५.१६॥
१७५.१७/१सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः ।
१७५.१७/२साध्यसाधनभावेन स एव बहुधा मतः ॥ १७५.१७॥
१७५.१८/१तस्याश्रयश्च द्विविधो देशः कालश्च सर्वदा ।
१७५.१८/२कालाश्रयश्च यो धर्मो हीयते वर्धते सदा ॥ १७५.१८॥
१७५.१९/१युगानामनुरूपेण पादः पादोऽस्य हीयते ।
१७५.१९/२धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥ १७५.१९॥
१७५.२०/१कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः ।
१७५.२०/२युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥ १७५.२०॥
१७५.२१/१उभयत्र विहीने च धर्मस्य स्याद् अभावता ।
१७५.२१/२तस्माद् देशाश्रितो धर्मश्चतुष्पात् सुप्रतिष्ठितः ॥ १७५.२१॥
१७५.२२/१स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति ।
१७५.२२/२कृते देशं च कालं च धर्मोऽवष्टभ्य तिष्ठति ॥ १७५.२२॥
१७५.२३/१त्रेतायां पादहीनेन स तु पादः प्रदेशतः ।
१७५.२३/२द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥ १७५.२३॥
१७५.२४/१कलौ पादेन चैकेन धर्मश्चलति संकटम् ।
१७५.२४/२एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते ॥ १७५.२४॥
१७५.२५/१युगानामनुभावेन जातिभेदाश्च संस्थिताः ।
१७५.२५/२गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः ॥ १७५.२५॥
१७५.२६/१गुणानामनुभावेन उद्भवाभिभवौ तथा ।
१७५.२६/२तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥ १७५.२६॥
१७५.२७/१तादृग्रूपप्रवृत्त्या तु तद् एव च विशिष्यते ।
१७५.२७/२कालोऽभिव्यञ्जकः प्रोक्तो देशोऽभिव्यङ्ग्य उच्यते ॥ १७५.२७॥
१७५.२८/१यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा ।
१७५.२८/२तद् एव व्यञ्जनं ब्रह्मंस्तस्मान् नास्त्यत्र संशयः ॥ १७५.२८॥
१७५.२९/१युगानुरूपा मूर्तिः स्याद् देवानां वैदिकी तथा ।
१७५.२९/२कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु ॥ १७५.२९॥
१७५.३०/१त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते ।
१७५.३०/२द्विदैवत्यं युगेऽन्यस्मिन् द्वापरे चैकदैविकम् ॥ १७५.३०॥
१७५.३१/१कलौ न किंचिद् विज्ञेयमथान्यद् अपि तच्छृणु ।
१७५.३१/२दैवं कृतयुगे तीर्थं त्रेतायामासुरं विदुः ॥ १७५.३१॥
१७५.३२/१आर्षं च द्वापरे प्रोक्तं कलौ मानुषमुच्यते ।
१७५.३२/२अथान्यद् अपि वक्ष्यामि शृणु नारद कारणम् ॥ १७५.३२॥
१७५.३३/१गौतम्यां यत् त्वया पृष्टं तत् ते वक्ष्यामि विस्तरात् ।
१७५.३३/२यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने ॥ १७५.३३॥
१७५.३४/१तदा प्रभृति सा गङ्गा शम्भोः प्रियतराभवत् ।
१७५.३४/२तद् देवस्य मतं ज्ञात्वा गजवक्त्रमुवाच सा ॥ १७५.३४॥
१७५.३५/१उमा लोकत्रयेशाना माता च जगतो हिता ।
१७५.३५/२शान्ता श्रुतिरिति ख्याता भुक्तिमुक्तिप्रदायिनी ॥ १७५.३५॥
१७५.३६/१ब्रह्मोवाच । तन् मातुर्वचनं श्रुत्वा
गजवक्त्रोऽभ्यभाषत ॥ १७५.३६॥
१७५.३७/१गजवक्त्र उवाच । किं कृत्यं शाधि मां
मातस्तत्कर्ताहमसंशयम् ॥ १७५.३७॥
१७५.३८/१ब्रह्मोवाच । उमा सुतमुवाचेदं महेश्वरजटास्थिता ।
१७५.३८/२त्वयावतार्यतां गङ्गा सत्यमीशप्रिया सती ॥ १७५.३८॥
१७५.३९/१पुनश्चेशस्तत्र चित्रमध्यास्ते सर्वदा सुत ।
१७५.३९/२शिवो यत्र सुरास्तत्र तत्र वेदाः सनातनाः ॥ १७५.३९॥
१७५.४०/१तत्रैव ऋषयः सर्वे मनुष्याः पितरस्तथा ।
१७५.४०/२तस्मान् निवर्तयेशानं देवदेवं महेश्वरम् ॥ १७५.४०॥
१७५.४१/१तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि ।
१७५.४१/२निवृत्तास्ते भविष्यन्ति शृणु चेदं वचो मम ।
१७५.४१/३निवर्तय ततस्तस्याः सर्वभावेन शंकरम् ॥ १७५.४१॥
१७५.४२/१ब्रह्मोवाच । मातुस्तद् वचनं श्रुत्वा पुनराह गणेश्वरः ॥ १७५.४२॥
१७५.४३/१गणेश्वर उवाच । नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् ।
१७५.४३/२अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम् ॥ १७५.४३॥
१७५.४४/१न शक्या जगतां मातरथान्यच्चापि कारणम् ।
१७५.४४/२गङ्गावतारिता पूर्वं गौतमेन महात्मना ॥ १७५.४४॥
१७५.४५/१ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा ।
१७५.४५/२सामोपायेन तद्वाक्यात् पूज्येन ब्रह्मतेजसा ॥ १७५.४५॥
१७५.४६/१आराधयित्वा देवेशं तपोभिः स्तुतिभिर्भवम् ।
१७५.४६/२तुष्टेन शंकरेणेदमुक्तोऽसौ गौतमस्तदा ॥ १७५.४६॥
१७५.४७/१शंकर उवाच । वरान् वरय पुण्यांश्च प्रियांश्च मनसेप्सितान् ।
१७५.४७/२यद् यद् इच्छसि तत् सर्वं दाता तेऽद्य महामते ॥ १७५.४७॥
१७५.४८/१ब्रह्मोवाच । एवमुक्तः शिवेनासौ गौतमो मयि शृण्वति ।
१७५.४८/२इदमेव तदोवाच सजटां देहि शंकर ।
१७५.४८/३गङ्गां मे याचते पुण्यां किमन्येन वरेण मे ॥ १७५.४८॥
१७५.४९/१ब्रह्मोवाच । पुनः प्रोवाच तं शम्भुः सर्वलोकोपकारकः ॥ १७५.४९॥
१७५.५०/१शम्भुरुवाच । उक्तं न चात्मनः किंचित् तस्माद्
याचस्व दुष्करम् ॥ १७५.५०॥
१७५.५१/१ब्रह्मोवाच । गौतमोऽदीनसत्त्वस्तं भवमाह कृताञ्जलिः ॥ १७५.५१॥
१७५.५२/१गौतम उवाच । एतद् एव च सर्वेषां दुष्करं तव दर्शनम् ।
१७५.५२/२मया तद् अद्य सम्प्राप्तं कृपया तव शंकर ॥ १७५.५२॥
१७५.५३/१स्मरणाद् एव ते पद्भ्यां कृतकृत्या मनीषिणः ।
१७५.५३/२भवन्ति किं पुनः साक्षात् त्वयि दृष्टे महेश्वरे ॥ १७५.५३॥
१७५.५४/१ब्रह्मोवाच । एवमुक्ते गौतमेन भवो हर्षसमन्वितः ।
१७५.५४/२त्रयाणामुपकारार्थं लोकानां याचितं त्वया ॥ १७५.५४॥
१७५.५५/१न चात्मनो महाबुद्धे याचेत्याह शिवो द्विजम् ।
१७५.५५/२एवं प्रोक्तः पुनर्विप्रो ध्यात्वा प्राह शिवं तथा ॥ १७५.५५॥
१७५.५६/१विनीतवद् अदीनात्मा शिवभक्तिसमन्वितः ।
१७५.५६/२सर्वलोकोपकाराय पुनर्याचितवान् इदम् ।
१७५.५६/३शृण्वत्सु लोकपालेषु जगादेदं स गौतमः ॥ १७५.५६॥
१७५.५७/१गौतम उवाच । यावत् सागरगा देवी निसृष्टा ब्रह्मणो गिरेः ।
१७५.५७/२सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज ॥ १७५.५७॥
१७५.५८/१फलेप्सूनां फलं दाता त्वमेव जगतः प्रभो ।
१७५.५८/२तीर्थान्यन्यानि देवेश क्वापि क्वापि शुभानि च ॥ १७५.५८॥
१७५.५९/१यत्र ते संनिधिर्नित्यं तद् एव शुभदं विदुः ।
१७५.५९/२यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता ।
१७५.५९/३सर्वत्र तव सांनिध्यात् सर्वतीर्थानि शंकर ॥ १७५.५९॥
१७५.६०/१ब्रह्मोवाच । तद् गौतमवचः श्रुत्वा
पुनर्हर्षाच्छिवोऽब्रवीत् ॥ १७५.६०॥
१७५.६१/१शिव उवाच । यत्र क्वापि च यत् किंचिद् यो वा भवति भक्तितः ।
१७५.६१/२यात्रां स्नानमथो दानं पितृणां वापि तर्पणम् ॥ १७५.६१॥
१७५.६२/१श्रवणं पठनं वापि स्मरणं वापि गौतम ।
१७५.६२/२यः करोति नरो भक्त्या गोदावर्या यतव्रतः ॥ १७५.६२॥
१७५.६३/१सप्तद्वीपवती पृथ्वी सशैलवनकानना ।
१७५.६३/२सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता ॥ १७५.६३॥
१७५.६४/१दत्त्वा भवति यो धर्मः स भवेद् गौतमीस्मृतेः ।
१७५.६४/२एवंविधा इला विप्र गोदानाद् याभिधीयते ॥ १७५.६४॥
१७५.६५/१चन्द्रसूर्यग्रहे काले मत्सांनिध्ये यतव्रतः ।
१७५.६५/२भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः ॥ १७५.६५॥
१७५.६६/१गाः सुन्दराः सवत्साश्च संगमे लोकविश्रुते ।
१७५.६६/२यो ददाति द्विजश्रेष्ठ तत्र यत् पुण्यमाप्नुयात् ॥ १७५.६६॥
१७५.६७/१तस्माद् वरं पुण्यमेति स्नानदानादिना नरः ।
१७५.६७/२गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः ॥ १७५.६७॥
१७५.६८/१तस्माद् गोदावरी गङ्गा त्वया नीता भविष्यति ।
१७५.६८/२सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी ॥ १७५.६८॥
१७५.६९/१गणेश्वर उवाच । एतच्छ्रुतं मया मातर्वदतो गौतमं शिवात् ।
१७५.६९/२एतस्मात् कारणाच्छम्भुर्गङ्गायां नियतः स्थितः ॥ १७५.६९॥
१७५.७०/१को निवर्तयितुं शक्तस्तमम्ब करुणोदधिम् ।
१७५.७०/२अथापि मातरेतत् स्यान् मानुषा विघ्नपाशकैः ॥ १७५.७०॥
१७५.७१/१विनिबद्धा न गच्छन्ति गोदामप्यन्तिकस्थिताम् ।
१७५.७१/२न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न ॥ १७५.७१॥
१७५.७२/१तथा मातः करिष्यामि तव संतोषहेतवे ।
१७५.७२/२संनिरोद्धुमथो क्लेशस्तव वाक्यं क्षमस्व मे ॥ १७५.७२॥
१७५.७३/१ब्रह्मोवाच । ततः प्रभृति विघ्नेशो मानुषान् प्रति किंचन ।
१७५.७३/२विघ्नमाचरते यस्तु तमुपास्य प्रवर्तते ॥ १७५.७३॥
१७५.७४/१अथो विघ्नमनादृत्य गौतमीं याति भक्तितः ।
१७५.७४/२स कृतार्थो भवेल्लोके न कृत्यमवशिष्यते ॥ १७५.७४॥
१७५.७५/१विघ्नान्यनेकानि भवन्ति गेहान् ।
१७५.७५/२निर्गन्तुकामस्य नराधमस्य ।
१७५.७५/३निधाय तन्मूर्ध्नि पदं प्रयाति ।
१७५.७५/४गङ्गां न किं तेन फलं प्रलब्धम् ॥ १७५.७५॥
१७५.७६/१अस्याः प्रभावं को ब्रूयाद् अपि साक्षात् सदाशिवः ।
१७५.७६/२संक्षेपेण मया प्रोक्तमितिहासपदानुगम् ॥ १७५.७६॥
१७५.७७/१धर्मार्थकाममोक्षाणां साधनं यच्चराचरे ।
१७५.७७/२तद् अत्र विद्यते सर्वमितिहासे सविस्तरे ॥ १७५.७७॥
१७५.७८/१वेदोदितं श्रुतिसकलरहस्यमुक्तम् ।
१७५.७८/२सत्कारणं समभिधानमिदं सदैव ।
१७५.७८/३सम्यक् च दृष्टं जगतां हिताय ।
१७५.७८/४प्रोक्तं पुराणं बहुधर्मयुक्तम् ॥ १७५.७८॥
१७५.७९/१अस्य श्लोकं पदं वापि भक्तितः शृणुयात् पठेत् ।
१७५.७९/२गङ्गा गङ्गेति वा वाक्यं स तु पुण्यमवाप्नुयात् ॥ १७५.७९॥
१७५.८०/१कलिकलङ्कविनाशनदक्षमिदम् ।
१७५.८०/२सकलसिद्धिकरं शुभदं शिवम् ।
१७५.८०/३जगति पूज्यमभीष्टफलप्रदम् ।
१७५.८०/४गाङ्गमेतद् उदीरितमुत्तमम् ॥ १७५.८०॥
१७५.८१/१साधु गौतम भद्रं ते कोऽन्योऽस्ति सदृशस्त्वया ।
१७५.८१/२य एनां गौतमीं गङ्गां दण्डकारण्यमाप्नुयात् ॥ १७५.८१॥
१७५.८२/१गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि ।
१७५.८२/२मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १७५.८२॥
१७५.८३/१तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये ।
१७५.८३/२तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ ॥ १७५.८३॥
१७५.८४/१षष्टिर्वर्षसहस्राणि भागीरथ्यवगाहनम् ।
१७५.८४/२सकृद् गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ ॥ १७५.८४॥
१७५.८५/१इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया ।
१७५.८५/२सर्वेषां सर्वदा नृणां स्नानान् मुक्तिं प्रदास्यति ॥ १७५.८५॥
१७५.८६/१अश्वमेधसहस्राणि वाजपेयशतानि च ।
१७५.८६/२कृत्वा यत् फलमाप्नोति तद् अस्य श्रवणाद् भवेत् ॥ १७५.८६॥
१७५.८७/१यस्यैतत् तिष्ठति गृहे पुराणं ब्रह्मणोदितम् ।
१७५.८७/२न भयं विद्यते तस्य कलिकालस्य नारद ॥ १७५.८७॥
१७५.८८/१यस्य कस्यापि नाख्येयं पुराणमिदमुत्तमम् ।
१७५.८८/२श्रद्दधानाय शान्ताय वैष्णवाय महात्मने ॥ १७५.८८॥
१७५.८९/१इदं कीर्त्यं भुक्तिमुक्ति+ ।दायकं पापनाशकम् ।
१७५.८९/२एतच्छ्रवणमात्रेण कृतकृत्यो भवेन् नरः ॥ १७५.८९॥
१७५.९०/१लिखित्वा पुस्तकमिदं ब्राह्मणाय प्रयच्छति ।
१७५.९०/२सर्वपापविनिर्मुक्तः पुनर्गर्भं न संविशेत् ॥ १७५.९०॥
१७६.१/१मुनय ऊचुः । नहि नस्तृप्तिरस्तीह शृण्वतां भगवत्कथाम् ।
१७६.१/२पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥ १७६.१॥
१७६.२/१अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया ।
१७६.२/२श्रोतुमिच्छामहे देव विस्तरेण वदस्व नः ॥ १७६.२॥
१७६.३/१ब्रह्मोवाच । प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम् ।
१७६.३/२अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥ १७६.३॥
१७६.४/१आदिकल्पे पुरा विप्रास्त्वहमव्यक्तजन्मवान् ।
१७६.४/२विश्वकर्माणमाहूय वचनं प्रोक्तवान् इदम् ॥ १७६.४॥
१७६.५/१वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् ।
१७६.५/२प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥ १७६.५॥
१७६.६/१यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः ।
१७६.६/२येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम् ॥ १७६.६॥
१७६.७/१त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् ।
१७६.७/२वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥ १७६.७॥
१७६.८/१मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् ।
१७६.८/२चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥ १७६.८॥
१७६.९/१सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् ।
१७६.९/२श्रीवत्सलक्ष्मसंयुक्तामत्युग्रां प्रतिमोत्तमाम् ॥ १७६.९॥
१७६.१०/१वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् ।
१७६.१०/२पीतवस्त्रां सुपीनांसां कुण्डलाभ्यामलंकृताम् ॥ १७६.१०॥
१७६.११/१एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस्तदा स्वयम् ।
१७६.११/२प्रतिष्ठाकालमासाद्य मयासौ निर्मिता पुरा ॥ १७६.११॥
१७६.१२/१तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह ।
१७६.१२/२जगाम ब्रह्मसदनमारुह्य गजमुत्तमम् ॥ १७६.१२॥
१७६.१३/१प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः ।
१७६.१३/२प्रतिमां तां समाराध्य स्वपुरं पुनरागमत् ॥ १७६.१३॥
१७६.१४/१तां समाराध्य सुचिरं यतवाक्कायमानसः ।
१७६.१४/२वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च ॥ १७६.१४॥
१७६.१५/१निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम् ।
१७६.१५/२द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥ १७६.१५॥
१७६.१६/१बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् ।
१७६.१६/२दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ १७६.१६॥
१७६.१७/१चचार व्रतमत्युग्रं तपः परमदुश्चरम् ।
१७६.१७/२तपसा तेन तुष्टोऽहं वरं तस्मै प्रदत्तवान् ॥ १७६.१७॥
१७६.१८/१अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् ।
१७६.१८/२शापप्रहरणैरुग्रैरवध्यो यमकिंकरैः ॥ १७६.१८॥
१७६.१९/१वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान् ।
१७६.१९/२धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥ १७६.१९॥
१७६.२०/१संग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः ।
१७६.२०/२देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥ १७६.२०॥
१७६.२१/१राक्षसस्तत्सुतो नाम मेघनादः प्रलब्धवान् ।
१७६.२१/२अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥ १७६.२१॥
१७६.२२/१ददर्शाञ्जनसंकाशां रावणस्तु बलान्वितः ।
१७६.२२/२प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥ १७६.२२॥
१७६.२३/१श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् ।
१७६.२३/२वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥ १७६.२३॥
१७६.२४/१शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् ।
१७६.२४/२सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥ १७६.२४॥
१७६.२५/१विहाय रत्नसंघांश्च प्रतिमां शुभलक्षणाम् ।
१७६.२५/२पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम् ॥ १७६.२५॥
१७६.२६/१पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः ।
१७६.२६/२रावणस्यानुजो मन्त्री नारायणपरायणः ॥ १७६.२६॥
१७६.२७/१दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् ।
१७६.२७/२रोमाञ्चिततनुर्भूत्वा विस्मयं समपद्यत ॥ १७६.२७॥
१७६.२८/१प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना ।
१७६.२८/२अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १७६.२८॥
१७६.२९/१इत्युक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर्मुहुः ।
१७६.२९/२ज्येष्ठं भ्रातरमासाद्य कृताञ्जलिरभाषत ॥ १७६.२९॥
१७६.३०/१राजन् प्रतिमया त्वं मे प्रसादं कर्तुमर्हसि ।
१७६.३०/२यामाराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥ १७६.३०॥
१७६.३१/१भ्रातुर्वचनमाकर्ण्य रावणस्तं तदाब्रवीत् ।
१७६.३१/२गृहाण प्रतिमां वीर त्वनया किं करोम्यहम् ॥ १७६.३१॥
१७६.३२/१स्वयम्भुवं समाराध्य त्रैलोक्यं विजये त्वहम् ।
१७६.३२/२नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥ १७६.३२॥
१७६.३३/१विभीषणो महाबुद्धिस्तदा तां प्रतिमां शुभाम् ।
१७६.३३/२शतमष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥ १७६.३३॥
१७६.३४/१अजरामरणं प्राप्तमणिमादिगुणैर्युतम् ।
१७६.३४/२राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान् ॥ १७६.३४॥
१७६.३५/१मुनय ऊचुः । अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् ।
१७६.३५/२अनन्तवासुदेवस्य सम्भवं भुवि दुर्लभम् ॥ १७६.३५॥
१७६.३६/१श्रोतुमिच्छामहे देव विस्तरेण यथातथम् ।
१७६.३६/२तस्य देवस्य माहात्म्यं वक्तुमर्हस्यशेषतः ॥ १७६.३६॥
१७६.३७/१ब्रह्मोवाच । तदा स राक्षसः क्रूरो देवगन्धर्वकिंनरान् ।
१७६.३७/२लोकपालान् समनुजान् मुनिसिद्धांश्च पापकृत् ॥ १७६.३७॥
१७६.३८/१विजित्य समरे सर्वान् आजहार तदङ्गनाः ।
१७६.३८/२संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः ॥ १७६.३८॥
१७६.३९/१शङ्कितो मृगरूपेण सौवर्णेन च रावणः ।
१७६.३९/२ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥ १७६.३९॥
१७६.४०/१रावणस्य वधार्थाय हत्वा वालिं मनोजवम् ।
१७६.४०/२अभिषिक्तश्च सुग्रीवो युवराजोऽङ्गदस्तथा ॥ १७६.४०॥
१७६.४१/१हनुमान् नलनीलश्च जाम्बवान् पनसस्तथा ।
१७६.४१/२गवयश्च गवाक्षश्च पाठीनः परमौजसः ॥ १७६.४१॥
१७६.४२/१एतैश्चान्यैश्च बहुभिर्वानरैः समहाबलैः ।
१७६.४२/२समावृतो महाघोरै रामो राजीवलोचनः ॥ १७६.४२॥
१७६.४३/१गिरीणां सर्वसंघातैः सेतुं बद्ध्वा महोदधौ ।
१७६.४३/२बलेन महता रामः समुत्तीर्य महोदधिम् ॥ १७६.४३॥
१७६.४४/१संग्राममतुलं चक्रे रक्षोगणसमन्वितः ।
१७६.४४/२यमहस्तं प्रहस्तं च निकुम्भं कुम्भमेव च ॥ १७६.४४॥
१७६.४५/१नरान्तकं महावीर्यं तथा चैव यमान्तकम् ।
१७६.४५/२मालाढ्यं मालिकाढ्यं च हत्वा रामस्तु वीर्यवान् ॥ १७६.४५॥
१७६.४६/१पुनरिन्द्रजितं हत्वा कुम्भकर्णं सरावणम् ।
१७६.४६/२वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे ॥ १७६.४६॥
१७६.४७/१वासुदेवं समादाय यानं पुष्पकमारुहत् ।
१७६.४७/२लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम् ॥ १७६.४७॥
१७६.४८/१कनिष्ठं भरतं स्नेहाच्छत्रुघ्नं भक्तवत्सलः ।
१७६.४८/२अभिषिच्य तदा रामः सर्वराज्येऽधिराजवत् ॥ १७६.४८॥
१७६.४९/१पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः ।
१७६.४९/२दश वर्षसहस्राणि दश वर्षशतानि च ॥ १७६.४९॥
१७६.५०/१भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः ।
१७६.५०/२राज्यमासाद्य सुगतिं वैष्णवं पदमाविशत् ॥ १७६.५०॥
१७६.५१/१तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् ।
१७६.५१/२धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥ १७६.५१॥
१७६.५२/१द्वापरं युगमासाद्य यदा देवो जगत्पतिः ।
१७६.५२/२धरण्याश्चानुरोधेन भावशैथिल्यकारणात् ॥ १७६.५२॥
१७६.५३/१अवतीर्णः स भगवान् वसुदेवकुले प्रभुः ।
१७६.५३/२कंसादीनां वधार्थाय संकर्षणसहायवान् ॥ १७६.५३॥
१७६.५४/१तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् ।
१७६.५४/२सर्वलोकहितार्थाय कस्यचित् कारणान्तरे ॥ १७६.५४॥
१७६.५५/१तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे ।
१७६.५५/२उज्जहार स्वयं तोयात् समुद्रः सरितां पतिः ॥ १७६.५५॥
१७६.५६/१तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः ।
१७६.५६/२आस्ते स देवो देवानां सर्वकामफलप्रदः ॥ १७६.५६॥
१७६.५७/१ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् ।
१७६.५७/२वाङ्मनःकर्मभिर्नित्यं ते यान्ति परमं पदम् ॥ १७६.५७॥
१७६.५८/१दृष्ट्वानन्तं सकृद् भक्त्या सम्पूज्य प्रणिपत्य च ।
१७६.५८/२राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥ १७६.५८॥
१७६.५९/१सर्वकामसमृद्धेन कामगेन सुवर्चसा ।
१७६.५९/२विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ १७६.५९॥
१७६.६०/१त्रिःसप्तकुलमुद्धृत्य दिव्यस्त्रीगणसेवितः ।
१७६.६०/२उपगीयमानो गन्धर्वैर्नरो विष्णुपुरं व्रजेत् ॥ १७६.६०॥
१७६.६१/१तत्र भुक्त्वा वरान् भोगाञ् जरामरणवर्जितः ।
१७६.६१/२दिव्यरूपधरः श्रीमान् यावद् आभूतसम्प्लवम् ॥ १७६.६१॥
१७६.६२/१पुण्यक्षयाद् इहायातश्चतुर्वेदी द्विजोत्तमः ।
१७६.६२/२वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ १७६.६२॥
१७६.६३/१एवं मया त्वनन्तोऽसौ कीर्तितो मुनिसत्तमाः ।
१७६.६३/२कः शक्नोति गुणान् वक्तुं तस्य वर्षशतैरपि ॥ १७६.६३॥
१७७.१/१ब्रह्मोवाच । एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् ।
१७७.१/२भुक्तिमुक्तिप्रदं नृणां मया प्रोक्तं सुदुर्लभम् ॥ १७७.१॥
१७७.२/१यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः ।
१७७.२/२पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥ १७७.२॥
१७७.३/१ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् ।
१७७.३/२संकर्षणं सुभद्रां च धन्यास्ते नात्र संशयः ॥ १७७.३॥
१७७.४/१त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ।
१७७.४/२ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः ॥ १७७.४॥
१७७.५/१कृष्णे रताः कृष्णमनुस्मरन्ति ।
१७७.५/२रात्रौ च कृष्णं पुनरुत्थिता ये ।
१७७.५/३ते भिन्नदेहाः प्रविशन्ति कृष्णम् ।
१७७.५/४हविर्यथा मन्त्रहुतं हुताशम् ॥ १७७.५॥
१७७.६/१तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः ।
१७७.६/२तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ १७७.६॥
१७७.७/१शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः ।
१७७.७/२हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥ १७७.७॥
१७७.८/१सर्वकालेऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् ।
१७७.८/२रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ १७७.८॥
१७७.९/१आस्ते यश्चतुरो मासान् वार्षिकान् पुरुषोत्तमे ।
१७७.९/२पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥ १७७.९॥
१७७.१०/१ये सर्वकालं तत्रैव निवसन्ति मनीषिणः ।
१७७.१०/२जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥ १७७.१०॥
१७७.११/१तपस्तप्त्वान्यतीर्थेषु वर्षाणामयुतं नरः ।
१७७.११/२यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे ॥ १७७.११॥
१७७.१२/१तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम् ।
१७७.१२/२तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१२॥
१७७.१३/१सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम् ।
१७७.१३/२तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ १७७.१३॥
१७७.१४/१सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च ।
१७७.१४/२तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥ १७७.१४॥
१७७.१५/१यस्तु नानाविधैर्यज्ञैर्यत् फलं लभते नरः ।
१७७.१५/२तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥ १७७.१५॥
१७७.१६/१देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे ।
१७७.१६/२कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः ॥ १७७.१६॥
१७७.१७/१वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम् ।
१७७.१७/२ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥ १७७.१७॥
१७७.१८/१अनिच्छन्न् अपि यस्तत्र प्राणांस्त्यजति मानवः ।
१७७.१८/२सोऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.१८॥
१७७.१९/१कृमिकीटपतंगाद्यास्तिर्यग्योनिगताश्च ये ।
१७७.१९/२तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥ १७७.१९॥
१७७.२०/१भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः ।
१७७.२०/२पुरुषाख्येन यत् प्राप्तमन्यतीर्थफलादिकम् ॥ १७७.२०॥
१७७.२१/१सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् ।
१७७.२१/२पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान् ॥ १७७.२१॥
१७७.२२/१प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः ।
१७७.२२/२तस्माद् वेदे पुराणे च लोकेऽस्मिन् पुरुषोत्तमः ॥ १७७.२२॥
१७७.२३/१योऽसौ पुराणे वेदान्ते परमात्मेत्युदाहृतः ।
१७७.२३/२आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥ १७७.२३॥
१७७.२४/१पाथे श्मशाने गृहमण्डपे वा ।
१७७.२४/२रथ्याप्रदेशेष्वपि यत्र कुत्र ।
१७७.२४/३इच्छन्न् अनिच्छन्न् अपि तत्र देहम् ।
१७७.२४/४संत्यज्य मोक्षं लभते मनुष्यः ॥ १७७.२४॥
१७७.२५/१तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः ।
१७७.२५/२देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः ॥ १७७.२५॥
१७७.२६/१पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति ।
१७७.२६/२त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥ १७७.२६॥
१७७.२७/१गुणानामेकदेशोऽयं मया क्षेत्रस्य कीर्तितः ।
१७७.२७/२कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैरपि ॥ १७७.२७॥
१७७.२८/१यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम् ।
१७७.२८/२तस्मिन् क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः ॥ १७७.२८॥
१७७.२९/१व्यास उवाच । ते तस्य वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ।
१७७.२९/२निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥ १७७.२९॥
१७७.३०/१तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः ।
१७७.३०/२पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ ॥ १७७.३०॥
१७८.१/१व्यास उवाच । तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे ।
१७८.१/२धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ १७८.१॥
१७८.२/१कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः ।
१७८.२/२सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः ॥ १७८.२॥
१७८.३/१जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः ।
१७८.३/२अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम् ॥ १७८.३॥
१७८.४/१अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः ।
१७८.४/२सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥ १७८.४॥
१७८.५/१मुनय ऊचुः । कोऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् ।
१७८.५/२श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम ॥ १७८.५॥
१७८.६/१व्यास उवाच । शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् ।
१७८.६/२प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम् ॥ १७८.६॥
१७८.७/१पवित्रे गोमतीतीरे विजने सुमनोहरे ।
१७८.७/२कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥ १७८.७॥
१७८.८/१नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ।
१७८.८/२नानापक्षिरुते रम्ये नानामृगगणान्विते ॥ १७८.८॥
१७८.९/१तत्राश्रमपदं कण्डोर्बभूव मुनिसत्तमाः ।
१७८.९/२सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥ १७८.९॥
१७८.१०/१तपस्तेपे मुनिस्तत्र सुमहत् परमाद्भुतम् ।
१७८.१०/२व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः ॥ १७८.१०॥
१७८.११/१ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः ।
१७८.११/२आर्द्रवासास्तु हेमन्ते स तेपे सुमहत् तपः ॥ १७८.११॥
१७८.१२/१दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः ।
१७८.१२/२बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १७८.१२॥
१७८.१३/१भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः ।
१७८.१३/२कण्डुः संतापयामास त्रैलोक्यं तपसो बलात् ॥ १७८.१३॥
१७८.१४/१अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः ।
१७८.१४/२इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम् ॥ १७८.१४॥
१७८.१५/१मन्त्रयामासुरव्यग्राः शक्रेण सहितास्तदा ।
१७८.१५/२भयात् तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः ॥ १७८.१५॥
१७८.१६/१ज्ञात्वा तेषामभिप्रायं शक्रस्त्रिभुवनेश्वरः ।
१७८.१६/२प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥ १७८.१६॥
१७८.१७/१सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् ।
१७८.१७/२सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः ॥ १७८.१७॥
१७८.१८/१शक्र उवाच । प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः ।
१७८.१८/२विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥ १७८.१८॥
१७८.१९/१प्रम्लोचोवाच । तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो ।
१७८.१९/२किंतु शङ्का ममैवात्र जीवितस्य च संशयः ॥ १७८.१९॥
१७८.२०/१बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् ।
१७८.२०/२अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥ १७८.२०॥
१७८.२१/१ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् ।
१७८.२१/२कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥ १७८.२१॥
१७८.२२/१उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला ।
१७८.२२/२विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा ॥ १७८.२२॥
१७८.२३/१अलम्बुषा मिश्रकेशी शशिलेखा च वामना ।
१७८.२३/२अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः ॥ १७८.२३॥
१७८.२४/१सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः ।
१७८.२४/२कामप्रधानकुशलास्तास्तत्र संनियोजय ॥ १७८.२४॥
१७८.२५/१ब्रह्मोवाच । तस्यास्तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः ।
१७८.२५/२तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे ॥ १७८.२५॥
१७८.२६/१कामं वसन्तं वायुं च सहायार्थे ददामि ते ।
१७८.२६/२तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥ १७८.२६॥
१७८.२७/१शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना ।
१७८.२७/२जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥ १७८.२७॥
१७८.२८/१गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम् ।
१७८.२८/२मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम् ॥ १७८.२८॥
१७८.२९/१अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् ।
१७८.२९/२सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥ १७८.२९॥
१७८.३०/१पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् ।
१७८.३०/२श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान् ॥ १७८.३०॥
१७८.३१/१सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ।
१७८.३१/२अपश्यत् पादपांश्चैव विहंगैरनुनादितान् ॥ १७८.३१॥
१७८.३२/१आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान् ।
१७८.३२/२अथ बिल्वांस्तथा जीवान् दाडिमान् बीजपूरकान् ॥ १७८.३२॥
१७८.३३/१पनसांल्लकुचान् नीपाञ् शिरीषान् सुमनोहरान् ।
१७८.३३/२पारावतांस्तथा कोलान् अरिमेदाम्लवेतसान् ॥ १७८.३३॥
१७८.३४/१भल्लातकान् आमलकाञ् शतपर्णांश्च किंशुकान् ।
१७८.३४/२इङ्गुदान् करवीरांश्च हरीतकीविभीतकान् ॥ १७८.३४॥
१७८.३५/१एतान् अन्यांश्च सा वृक्षान् ददर्श पृथुलोचना ।
१७८.३५/२तथैवाशोकपुंनाग+ ।केतकीबकुलान् अथ ॥ १७८.३५॥
१७८.३६/१पारिजातान् कोविदारान् मन्दारेन्दीवरांस्तथा ।
१७८.३६/२पाटलाः पुष्पिता रम्या देवदारुद्रुमांस्तथा ॥ १७८.३६॥
१७८.३७/१शालांस्तालांस्तमालांश्च निचुलांल्लोमकांस्तथा ।
१७८.३७/२अन्यांश्च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान् ॥ १७८.३७॥
१७८.३८/१चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः ।
१७८.३८/२कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ १७८.३८॥
१७८.३९/१प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः ।
१७८.३९/२श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥ १७८.३९॥
१७८.४०/१सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
१७८.४०/२कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ १७८.४०॥
१७८.४१/१कह्लारैः कमलैश्चैव आचितानि समन्ततः ।
१७८.४१/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ १७८.४१॥
१७८.४२/१कारण्डवैर्बकैर्हंसैः कूर्मैर्मद्गुभिरेव च ।
१७८.४२/२एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ १७८.४२॥
१७८.४३/१क्रमेणैव तथा सा तु वनं बभ्राम तैः सह ।
१७८.४३/२एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम् ॥ १७८.४३॥
१७८.४४/१विस्मयोत्फुल्लनयना सा बभूव वराङ्गना ।
१७८.४४/२प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥ १७८.४४॥
१७८.४५/१प्रम्लोचोवाच । कुरुध्वं मम साहाय्यं यूयं सर्वे
पृथक् पृथक् ॥ १७८.४५॥
१७८.४६/१ब्रह्मोवाच । एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः ।
१७८.४६/२प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ १७८.४६॥
१७८.४७/१अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
१७८.४७/२स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ १७८.४७॥
१७८.४८/१ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।
१७८.४८/२तथाप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥ १७८.४८॥
१७८.४९/१इत्युक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः ।
१७८.४९/२मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥ १७८.४९॥
१७८.५०/१सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता ।
१७८.५०/२स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः ॥ १७८.५०॥
१७८.५१/१ततो वसन्तः सहसा बलं समकरोत् तदा ।
१७८.५१/२कोकिलारावमधुरमकालिकमनोहरम् ॥ १७८.५१॥
१७८.५२/१ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः ।
१७८.५२/२पुष्पान् उच्चावचान् मेध्यान् पातयंश्च शनैः शनैः ॥ १७८.५२॥
१७८.५३/१पुष्पबाणधरश्चैव गत्वा तस्य समीपतः ।
१७८.५३/२मुनेश्च क्षोभयामास कामस्तस्यापि मानसम् ॥ १७८.५३॥
१७८.५४/१ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः ।
१७८.५४/२जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः ॥ १७८.५४॥
१७८.५५/१दृष्ट्वा तामाह संदृष्टो विस्मयोत्फुल्ललोचनः ।
१७८.५५/२भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥ १७८.५५॥
१७८.५६/१ऋषिरुवाच । कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि ।
१७८.५६/२मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥ १७८.५६॥
१७८.५७/१प्रम्लोचोवाच । तव कर्मकरा चाहं पुष्पार्थमहमागता ।
१७८.५७/२आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया ॥ १७८.५७॥
१७८.५८/१व्यास उवाच । श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः ।
१७८.५८/२आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम् ॥ १७८.५८॥
१७८.५९/१ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः ।
१७८.५९/२जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम् ॥ १७८.५९॥
१७८.६०/१शशंसुश्च हरिं गत्वा तस्यास्तस्य च चेष्टितम् ।
१७८.६०/२श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसोऽभवन् ॥ १७८.६०॥
१७८.६१/१स च कण्डुस्तया सार्धं प्रविशन्न् एव चाश्रमम् ।
१७८.६१/२आत्मनः परमं रूपं चकार मदनाकृति ॥ १७८.६१॥
१७८.६२/१रूपयौवनसम्पन्नमतीव सुमनोहरम् ।
१७८.६२/२दिव्यालंकारसंयुक्तं षोडशवत्सराकृति ॥ १७८.६२॥
१७८.६३/१दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् ।
१७८.६३/२सर्वोपभोगसम्पन्नं सहसा तपसो बलात् ॥ १७८.६३॥
१७८.६४/१दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयमागता ।
१७८.६४/२अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताभवत् ॥ १७८.६४॥
१७८.६५/१स्नानं संध्यां जपं होमं स्वाध्यायं देवतार्चनम् ।
१७८.६५/२व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः ॥ १७८.६५॥
१७८.६६/१त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम् ।
१७८.६६/२मन्मथाविष्टहृदयो न बुबोध तपःक्षयम् ॥ १७८.६६॥
१७८.६७/१संध्यारात्रिदिवापक्ष+ ंआसर्त्वयनहायनम् ।
१७८.६७/२न बुबोध गतं कालं विषयासक्तमानसः ॥ १७८.६७॥
१७८.६८/१सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः ।
१७८.६८/२वरयामास सुश्रोणिः प्रलापकुशला तदा ॥ १७८.६८॥
१७८.६९/१एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम् ।
१७८.६९/२अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥ १७८.६९॥
१७८.७०/१सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम् ।
१७८.७०/२प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वमर्हसि ॥ १७८.७०॥
१७८.७१/१तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
१७८.७१/२दिनानि कतिचिद् भद्रे स्थीयतामित्यभाषत ॥ १७८.७१॥
१७८.७२/१एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
१७८.७२/२बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना ॥ १७८.७२॥
१७८.७३/१अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
१७८.७३/२उक्तस्तयेति स पुनः स्थीयतामित्यभाषत ॥ १७८.७३॥
१७८.७४/१पुनर्गते वर्षशते साधिके सा शुभानना ।
१७८.७४/२याम्यहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥ १७८.७४॥
१७८.७५/१उक्तस्तयैवं स मुनिः पुनराहायतेक्षणाम् ।
१७८.७५/२इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि ॥ १७८.७५॥
१७८.७६/१तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः ।
१७८.७६/२शतद्वयं किंचिद् ऊनं वर्षाणां समतिष्ठत ॥ १७८.७६॥
१७८.७७/१गमनाय महाभागो देवराजनिवेशनम् ।
१७८.७७/२प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १७८.७७॥
१७८.७८/१तस्य शापभयाद् भीरुर्दाक्षिण्येन च दक्षिणा ।
१७८.७८/२प्रोक्ता प्रणयभङ्गार्ति+ ।वेदिनी न जहौ मुनिम् ॥ १७८.७८॥
१७८.७९/१तया च रमतस्तस्य परमर्षेरहर्निशम् ।
१७८.७९/२नवं नवमभूत् प्रेम मन्मथासक्तचेतसः ॥ १७८.७९॥
१७८.८०/१एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः ।
१७८.८०/२निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १७८.८०॥
१७८.८१/१इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
१७८.८१/२संध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥ १७८.८१॥
१७८.८२/१ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् ।
१७८.८२/२किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ।
१७८.८२/३गतमेतन् न कुरुते विस्मयं कस्य कथ्यते ॥ १७८.८२॥
१७८.८३/१मुनिरुवाच । प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
१७८.८३/२मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम् ॥ १७८.८३॥
१७८.८४/१इयं च वर्तते संध्या परिणाममहो गतम् ।
१७८.८४/२अवहासः किमर्थोऽयं सद्भावः कथ्यतां मम ॥ १७८.८४॥
१७८.८५/१प्रम्लोचोवाच । प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन् न मे मृषा ।
१७८.८५/२किंत्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १७८.८५॥
१७८.८६/१ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
१७८.८६/२कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा ॥ १७८.८६॥
१७८.८७/१प्रम्लोचोवाच । सप्तोत्तराण्यतीतानि नववर्षशतानि च ।
१७८.८७/२मासाश्च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥ १७८.८७॥
१७८.८८/१ऋषिरुवाच । सत्यं भीरु वदस्येतत् परिहासोऽथवा शुभे ।
१७८.८८/२दिनमेकमहं मन्ये त्वया सार्धमिहोषितम् ॥ १७८.८८॥
१७८.८९/१प्रम्लोचोवाच । वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके ।
१७८.८९/२विशेषाद् अद्य भवता पृष्टा मार्गानुगामिना ॥ १७८.८९॥
१७८.९०/१व्यास उवाच । निशम्य तद् वचस्तस्याः स मुनिर्द्विजसत्तमाः ।
१७८.९०/२धिग् धिङ् मामित्यनाचारं विनिन्द्यात्मानमात्मना ॥ १७८.९०॥
१७८.९१/१मुनिरुवाच । तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
१७८.९१/२हृतो विवेकः केनापि योषिन् मोहाय निर्मिता ॥ १७८.९१॥
१७८.९२/१ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
१७८.९२/२गतिरेषा कृता येन धिक् तं काममहाग्रहम् ॥ १७८.९२॥
१७८.९३/१व्रतानि सर्ववेदाश्च कारणान्यखिलानि च ।
१७८.९३/२नरकग्राममार्गेण कामेनाद्य हतानि मे ॥ १७८.९३॥
१७८.९४/१विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना ।
१७८.९४/२तामप्सरसमासीनामिदं वचनमब्रवीत् ।
१७८.९४/३ऋषिरुवाच । गच्छ पापे यथाकामं यत् कार्यं तत् त्वया कृतम् ।
१७८.९४/४देवराजस्य यत् क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १७८.९४॥
१७८.९५/१न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना ।
१७८.९५/२सतां साप्तपदं मैत्र्यमुषितोऽहं त्वया सह ॥ १७८.९५॥
१७८.९६/१अथवा तव दोषः कः किं वा कुर्यामहं तव ।
१७८.९६/२ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १७८.९६॥
१७८.९७/१यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः ।
१७८.९७/२त्वया दृष्टिमहामोह+ ंअनुनाहं जुगुप्सितः ॥ १७८.९७॥
१७८.९८/१व्यास उवाच । यावद् इत्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् ।
१७८.९८/२तावत् स्खलत्स्वेदजला सा बभूवातिवेपथुः ॥ १७८.९८॥
१७८.९९/१प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् ।
१७८.९९/२गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १७८.९९॥
१७८.१००/१सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
१७८.१००/२आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १७८.१००॥
१७८.१०१/१वृक्षाद् वृक्षं ययौ बाला उदग्रारुणपल्लवैः ।
१७८.१०१/२निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥ १७८.१०१॥
१७८.१०२/१ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
१७८.१०२/२निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः ॥ १७८.१०२॥
१७८.१०३/१तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः ।
१७८.१०३/२सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः ॥ १७८.१०३॥
१७८.१०४/१मारिषा नाम कन्याभूद् वृक्षाणां चारुलोचना ।
१७८.१०४/२प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥ १७८.१०४॥
१७८.१०५/१स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
१७८.१०५/२पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ ॥ १७८.१०५॥
१७८.१०६/१ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् ।
१७८.१०६/२दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम् ॥ १७८.१०६॥
१७८.१०७/१सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् ।
१७८.१०७/२नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥ १७८.१०७॥
१७८.१०८/१सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम् ।
१७८.१०८/२सर्वसौख्यप्रदं नृणां धन्यं सर्वगुणाकरम् ॥ १७८.१०८॥
१७८.१०९/१भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा ।
१७८.१०९/२गन्धर्वैः किंनरैर्यक्षैस्तथान्यैर्मोक्षकाङ्क्षिभिः ॥ १७८.१०९॥
१७८.११०/१ददर्श च हरिं तत्र देवैः सर्वैरलंकृतम् ।
१७८.११०/२ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम् ॥ १७८.११०॥
१७८.१११/१दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् ।
१७८.१११/२कृतकृत्यमिवात्मानं मेने स मुनिसत्तमः ॥ १७८.१११॥
१७८.११२/१तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः ।
१७८.११२/२ब्रह्मपारमयं कुर्वञ् जपमेकाग्रमानसः ।
१७८.११२/३ऊर्ध्वबाहुर्महायोगी स्थित्वासौ मुनिसत्तमः ॥ १७८.११२॥
१७८.११३/१मुनय ऊचुः । ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम् ।
१७८.११३/२जपता कण्डुना देवो येनाराध्यत केशवः ॥ १७८.११३॥
१७८.११४/१व्यास उवाच । पारं परं विष्णुरपारपारः ।
१७८.११४/२परः परेभ्यः परमात्मरूपः ।
१७८.११४/३स ब्रह्मपारः परपारभूतः ।
१७८.११४/४परः पराणामपि पारपारः ॥ १७८.११४॥
१७८.११५/१स कारणं कारणसंश्रितोऽपि ।
१७८.११५/२तस्यापि हेतुः परहेतुहेतुः ।
१७८.११५/३कार्योऽपि चैष सह कर्मकर्तृ+ ।
१७८.११५/४रूपैरनेकैरवतीह सर्वम् ॥ १७८.११५॥
१७८.११६/१ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ।
१७८.११६/२ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
१७८.११६/३ब्रह्माव्ययं नित्यमजं स विष्णुर्।
१७८.११६/४अपक्षयाद्यैरखिलैरसङ्गः ॥ १७८.११६॥
१७८.११७/१ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
१७८.११७/२तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ १७८.११७॥
१७८.११८/१व्यास उवाच । श्रुत्वा तस्य मुनेर्जाप्यं ब्रह्मपारं द्विजोत्तमाः ।
१७८.११८/२भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥ १७८.११८॥
१७८.११९/१प्रीत्या स परया देवस्तदासौ भक्तवत्सलः ।
१७८.११९/२गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥ १७८.११९॥
१७८.१२०/१मेघगम्भीरया वाचा दिशः संनादयन्न् इव ।
१७८.१२०/२आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥ १७८.१२०॥
१७८.१२१/१श्रीभगवान् उवाच । मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते ।
१७८.१२१/२वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ॥ १७८.१२१॥
१७८.१२२/१श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः ।
१७८.१२२/२चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम् ॥ १७८.१२२॥
१७८.१२३/१अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् ।
१७८.१२३/२शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥ १७८.१२३॥
१७८.१२४/१चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम् ।
१७८.१२४/२श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥ १७८.१२४॥
१७८.१२५/१सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् ।
१७८.१२५/२दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥ १७८.१२५॥
१७८.१२६/१ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः ।
१७८.१२६/२दण्डवत् प्रणिपत्योर्व्यां प्रणाममकरोत् तदा ॥ १७८.१२६॥
१७८.१२७/१अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
१७८.१२७/२इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे ॥ १७८.१२७॥
१७८.१२८/१कण्डुरुवाच । नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते ।
१७८.१२८/२जगद्बीज जगद्धाम जगत्साक्षिन् नमोऽस्तु ते ॥ १७८.१२८॥
१७८.१२९/१अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम ।
१७८.१२९/२पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥ १७८.१२९॥
१७८.१३०/१हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन ।
१७८.१३०/२भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते ॥ १७८.१३०॥
१७८.१३१/१अनाद्यन्तामृताजेय जय त्वं जयतां वर ।
१७८.१३१/२अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥ १७८.१३१॥
१७८.१३२/१पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित ।
१७८.१३२/२दुःखार्तिनाशन हरे जलशायिन् नमोऽस्तु ते ॥ १७८.१३२॥
१७८.१३३/१भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल ।
१७८.१३३/२भूताधिवास भूतात्मन् भूतगर्भ नमोऽस्तु ते ॥ १७८.१३३॥
१७८.१३४/१यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद ।
१७८.१३४/२यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥ १७८.१३४॥
१७८.१३५/१क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी ।
१७८.१३५/२क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥ १७८.१३५॥
१७८.१३६/१गुणालय गुणावास गुणाश्रय गुणावह ।
१७८.१३६/२गुणभोक्तृ गुणाराम गुणत्यागिन् नमोऽस्तु ते ॥ १७८.१३६॥
१७८.१३७/१त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः ।
१७८.१३७/२त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥ १७८.१३७॥
१७८.१३८/१त्वं भूतकृत् त्वमव्यक्तस्त्वं भवो भूतभृद् भवान् ।
१७८.१३८/२त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥ १७८.१३८॥
१७८.१३९/१त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः ।
१७८.१३९/२त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥ १७८.१३९॥
१७८.१४०/१त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शम्भुस्त्वं वृषाकृतिः ।
१७८.१४०/२त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥ १७८.१४०॥
१७८.१४१/१त्वं विश्वजेता त्वं शर्म त्वं शरण्यस्त्वमक्षरम् ।
१७८.१४१/२त्वं शम्भुस्त्वं स्वयम्भूश्च त्वं ज्येष्ठस्त्वं
परायणः ॥ १७८.१४१॥
१७८.१४२/१त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा ।
१७८.१४२/२त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥ १७८.१४२॥
१७८.१४३/१त्वम् ऋग् यजुः साम चैव त्वमात्मा सम्मतो भवान् ।
१७८.१४३/२त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥ १७८.१४३॥
१७८.१४४/१त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः ।
१७८.१४४/२त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥ १७८.१४४॥
१७८.१४५/१त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा ।
१७८.१४५/२त्वमहस्त्वं तथा रात्रिस्त्वामाहुर्वत्सरं बुधाः ॥ १७८.१४५॥
१७८.१४६/१त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः ।
१७८.१४६/२त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान् स्त्री नपुंसकः ॥ १७८.१४६॥
१७८.१४७/१त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणुस्त्वं शुचिश्रवाः ।
१७८.१४७/२त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः ॥ १७८.१४७॥
१७८.१४८/१त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः ।
१७८.१४८/२त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥ १७८.१४८॥
१७८.१४९/१त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः ।
१७८.१४९/२त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥ १७८.१४९॥
१७८.१५०/१त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् ।
१७८.१५०/२त्वं संग्रहस्त्वं सुमहत् त्वं धृतात्मा त्वमच्युतः ॥ १७८.१५०॥
१७८.१५१/१त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः ।
१७८.१५१/२त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥ १७८.१५१॥
१७८.१५२/१त्वं गुरुस्त्वं गुरुतमस्त्वं वामस्त्वं प्रदक्षिणः ।
१७८.१५२/२त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥ १७८.१५२॥
१७८.१५३/१हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः ।
१७८.१५३/२अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥ १७८.१५३॥
१७८.१५४/१त्वं च संकर्षणो देवस्त्वं कर्ता त्वं सनातनः ।
१७८.१५४/२त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥ १७८.१५४॥
१७८.१५५/१त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः ।
१७८.१५५/२सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥ १७८.१५५॥
१७८.१५६/१सहस्रपादस्त्वं देवस्त्वं विराट् त्वं सुरप्रभुः ।
१७८.१५६/२त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ १७८.१५६॥
१७८.१५७/१यद् भूतं तत् त्वमेवोक्तः पुरुषः शक्र उत्तमः ।
१७८.१५७/२यद् भाव्यं तत् त्वमीशानस्त्वम् ऋतस्त्वं तथामृतः ॥ १७८.१५७॥
१७८.१५८/१त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः ।
१७८.१५८/२त्वं ज्यायान् पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥ १७८.१५८॥
१७८.१५९/१विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि ।
१७८.१५९/२नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥ १७८.१५९॥
१७८.१६०/१भागद्वयं च भूसंस्थं चतुर्भागोऽप्यभूद् इह ।
१७८.१६०/२त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम् ॥ १७८.१६०॥
१७८.१६१/१त्वत्तो विराट् समुत्पन्नो जगतो हृदि यः पुमान् ।
१७८.१६१/२सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥ १७८.१६१॥
१७८.१६२/१त्वत्तः सुराणामाहारः पृषदाज्यमजायत ।
१७८.१६२/२ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥ १७८.१६२॥
१७८.१६३/१ध्येयध्यानपरस्त्वं च कृतवान् असि चौषधीः ।
१७८.१६३/२त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ १७८.१६३॥
१७८.१६४/१जङ्गमाजङ्गमं सर्वं जगद् एतच्चराचरम् ।
१७८.१६४/२त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ १७८.१६४॥
१७८.१६५/१अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा ।
१७८.१६५/२देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ १७८.१६५॥
१७८.१६६/१त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते ।
१७८.१६६/२नमस्ते भगवन् विष्णो नमस्ते पुरुषोत्तम ॥ १७८.१६६॥
१७८.१६७/१नमस्ते सर्वलोकेश नमस्ते कमलालय ।
१७८.१६७/२गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥ १७८.१६७॥
१७८.१६८/१वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम ।
१७८.१६८/२जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥ १७८.१६८॥
१७८.१६९/१नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते ।
१७८.१६९/२गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥ १७८.१६९॥
१७८.१७०/१जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते ।
१७८.१७०/२दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥ १७८.१७०॥
१७८.१७१/१नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण ।
१७८.१७१/२कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥ १७८.१७१॥
१७८.१७२/१नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत ।
१७८.१७२/२समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ १७८.१७२॥
१७८.१७३/१अश्वशीर्ष महाघोण महापुरुषविग्रह ।
१७८.१७३/२मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥ १७८.१७३॥
१७८.१७४/१महाकमठभोगाय पृथिव्युद्धरणाय च ।
१७८.१७४/२विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ १७८.१७४॥
१७८.१७५/१नमो महावराहाय पृथिव्युद्धारकारिणे ।
१७८.१७५/२नमश्चादिवराहाय विश्वरूपाय वेधसे ॥ १७८.१७५॥
१७८.१७६/१नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च ।
१७८.१७६/२परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ १७८.१७६॥
१७८.१७७/१तस्मै नमः कारणकारणाय ।
१७८.१७७/२योगीन्द्रवृत्तनिलयाय सुदुर्विदाय ।
१७८.१७७/३क्षीरार्णवाश्रितमहाहिसुतल्पगाय ।
१७८.१७७/४तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ १७८.१७७॥
१७८.१७८/१व्यास उवाच । इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः ।
१७८.१७८/२क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि ॥ १७८.१७८॥
१७८.१७९/१कण्डुरुवाच । संसारेऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे ।
१७८.१७९/२अनित्ये दुःखबहुले कदलीदलसंनिभे ॥ १७८.१७९॥
१७८.१८०/१निराश्रये निरालम्बे जलबुद्बुदचञ्चले ।
१७८.१८०/२सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥ १७८.१८०॥
१७८.१८१/१भ्रमामि सुचिरं कालं मायया मोहितस्तव ।
१७८.१८१/२न चान्तमभिगच्छामि विषयासक्तमानसः ॥ १७८.१८१॥
१७८.१८२/१त्वामहं चाद्य देवेश संसारभयपीडितः ।
१७८.१८२/२गतोऽस्मि शरणं कृष्ण मामुद्धर भवार्णवात् ॥ १७८.१८२॥
१७८.१८३/१गन्तुमिच्छामि परमं पदं यत् ते सनातनम् ।
१७८.१८३/२प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम् ॥ १७८.१८३॥
१७८.१८४/१श्रीभगवान् उवाच । भक्तोऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः ।
१७८.१८४/२मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम् ॥ १७८.१८४॥
१७८.१८५/१मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः ।
१७८.१८५/२प्राप्नुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम ॥ १७८.१८५॥
१७८.१८६/१श्वपाकोऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः ।
१७८.१८६/२प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा ॥ १७८.१८६॥
१७८.१८७/१व्यास उवाच । एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः ।
१७८.१८७/२दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत ॥ १७८.१८७॥
१७८.१८८/१गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः ।
१७८.१८८/२सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः ॥ १७८.१८८॥
१७८.१८९/१सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः ।
१७८.१८९/२एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम् ॥ १७८.१८९॥
१७८.१९०/१निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् ।
१७८.१९०/२अवाप परमं मोक्षं सुराणामपि दुर्लभम् ॥ १७८.१९०॥
१७८.१९१/१यः पठेच्छृणुयाद् वापि कथां कण्डोर्महात्मनः ।
१७८.१९१/२विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १७८.१९१॥
१७८.१९२/१एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता ।
१७८.१९२/२मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥ १७८.१९२॥
१७८.१९३/१ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदम् ।
१७८.१९३/२भक्त्या श्रीपुरुषोत्तमाख्यमजरं संसारदुःखापहम् ॥ १७८.१९३॥
१७८.१९४/१ते भुक्त्वा मनुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखम् ।
१७८.१९४/२पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम् ॥ १७८.१९४॥
१७९.१/१लोमहर्षण उवाच । व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः ।
१७९.१/२प्रीता बभूवुः संहृष्टा विस्मिताश्च पुनः पुनः ॥ १७९.१॥
१७९.२/१मुनय ऊचुः । अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः ।
१७९.२/२तद्वच्छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥ १७९.२॥
१७९.३/१विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यमुत्तमम् ।
१७९.३/२पुरुषाख्यस्य क्षेत्रस्य प्रीतिश्च वदतां वर ॥ १७९.३॥
१७९.४/१चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते ।
१७९.४/२त्वदृते संशयस्यास्य *च्छेत्ता नान्योऽस्ति भूतले ॥ १७९.४॥
१७९.५/१उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले ।
१७९.५/२भद्रायाश्चैव कार्त्स्न्येन पृच्छामस्त्वां महामुने ॥ १७९.५॥
१७९.६/१किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणावुभौ ।
१७९.६/२वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥ १७९.६॥
१७९.७/१निःसारे मृत्युलोकेऽस्मिन् दुःखप्रायेऽतिचञ्चले ।
१७९.७/२जलबुद्बुदसंकाशे भैरवे लोमहर्षणे ॥ १७९.७॥
१७९.८/१विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम् ।
१७९.८/२कथं घोरतरं तेषां गर्भवासमरोचत ॥ १७९.८॥
१७९.९/१यानि कर्माणि चक्रुस्ते समुत्पन्ना महीतले ।
१७९.९/२विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥ १७९.९॥
१७९.१०/१समग्रं चरितं तेषामद्भुतं चातिमानुषम् ।
१७९.१०/२कथं स भगवान् देवः सुरेशः सुरसत्तमः ॥ १७९.१०॥
१७९.११/१वसुदेवकुले धीमान् वासुदेवत्वमागतः ।
१७९.११/२अमरैश्चावृतं पुण्यं पुण्यकृद्भिरलंकृतम् ॥ १७९.११॥
१७९.१२/१देवलोकं किमुत्सृज्य मर्त्यलोक इहागतः ।
१७९.१२/२देवमानुषयोर्नेता द्योर्भुवः प्रभवोऽव्ययः ॥ १७९.१२॥
१७९.१३/१किमर्थं दिव्यमात्मानं मानुषेषु न्ययोजयत् ।
१७९.१३/२यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ॥ १७९.१३॥
१७९.१४/१स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः ।
१७९.१४/२गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥ १७९.१४॥
१७९.१५/१स कथं गां गतो विष्णुर्गोपत्वमकरोत् प्रभुः ।
१७९.१५/२महाभूतानि भूतात्मा यो दधार चकार च ॥ १७९.१५॥
१७९.१६/१श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ।
१७९.१६/२येन लोकान् क्रमैर्जित्वा त्रिभिर्वै त्रिदशेप्सया ॥ १७९.१६॥
१७९.१७/१स्थापिता जगतो मार्गास्त्रिवर्गाश्चाभवंस्त्रयः ।
१७९.१७/२योऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः ॥ १७९.१७॥
१७९.१८/१लोकमेकार्णवं चक्रे दृश्यादृश्येन चात्मना ।
१७९.१८/२यः पुराणः पुराणात्मा वाराहं रूपमास्थितः ॥ १७९.१८॥
१७९.१९/१विषाणाग्रेण वसुधामुज्जहारारिसूदनः ।
१७९.१९/२यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् ॥ १७९.१९॥
१७९.२०/१ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ।
१७९.२०/२येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः ॥ १७९.२०॥
१७९.२१/१पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ।
१७९.२१/२यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ॥ १७९.२१॥
१७९.२२/१पातालस्थोऽर्णवरसं पपौ तोयमयं हरिः ।
१७९.२२/२सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥ १७९.२२॥
१७९.२३/१सहस्रशिरसं देवं यमाहुर्वै युगे युगे ।
१७९.२३/२नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥ १७९.२३॥
१७९.२४/१एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् ।
१७९.२४/२येन ते निहता दैत्याः संग्रामे तारकामये ॥ १७९.२४॥
१७९.२५/१येन देवमयं कृत्वा सर्वायुधधरं वपुः ।
१७९.२५/२गुहासंस्थेन चोत्सिक्तः कालनेमिर्निपातितः ॥ १७९.२५॥
१७९.२६/१उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ ।
१७९.२६/२यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ १७९.२६॥
१७९.२७/१सुरारणी गर्भमधत्त दिव्यम् ।
१७९.२७/२तपःप्रकर्षाद् अदितिः पुराणम् ।
१७९.२७/३शक्रं च यो दैत्यगणावरुद्धम् ।
१७९.२७/४गर्भावधानेन कृतं चकार ॥ १७९.२७॥
१७९.२८/१पदानि यो योगमयानि कृत्वा ।
१७९.२८/२चकार दैत्यान् सलिलेशयस्थान् ।
१७९.२८/३कृत्वा च देवांस्त्रिदशेश्वरांस्तु ।
१७९.२८/४चक्रे सुरेशं पुरुहूतमेव ॥ १७९.२८॥
१७९.२९/१गार्हपत्येन विधिना अन्वाहार्येण कर्मणा ।
१७९.२९/२अग्निमाहवनीयं च वेदं दीक्षां समिद् ध्रुवम् ॥ १७९.२९॥
१७९.३०/१प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च ।
१७९.३०/२अवाक्पाणिस्तु यश्चक्रे हव्यभागभुजस्तथा ॥ १७९.३०॥
१७९.३१/१हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितृन् अथ ।
१७९.३१/२भोगार्थे यज्ञविधिनाऽयोजयद् यज्ञकर्मणि ॥ १७९.३१॥
१७९.३२/१पात्राणि दक्षिणां दीक्षां चरूंश्चोलूखलानि च ।
१७९.३२/२यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि ॥ १७९.३२॥
१७९.३३/१यज्ञियानि च द्रव्याणि चमसांश्च तथापरान् ।
१७९.३३/२सदस्यान् यजमानांश्च मेधादींश्च क्रतूत्तमान् ॥ १७९.३३॥
१७९.३४/१विबभाज पुरा यस्तु पारमेष्ठ्येन कर्मणा ।
१७९.३४/२युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात् ॥ १७९.३४॥
१७९.३५/१क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च ।
१७९.३५/२मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा ॥ १७९.३५॥
१७९.३६/१ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु ।
१७९.३६/२आयुःक्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥ १७९.३६॥
१७९.३७/१त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकास्त्रयः ।
१७९.३७/२त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः ॥ १७९.३७॥
१७९.३८/१सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा ।
१७९.३८/२सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥ १७९.३८॥
१७९.३९/१नृणामिन्द्रियपूर्वेण योगेन रमते च यः ।
१७९.३९/२गतागताभ्यां योगेन य एव विधिरीश्वरः ॥ १७९.३९॥
१७९.४०/१यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् ।
१७९.४०/२चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ १७९.४०॥
१७९.४१/१चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः ।
१७९.४१/२दिगन्तरं नभो भूमिर्वायुर्वापि विभावसुः ॥ १७९.४१॥
१७९.४२/१चन्द्रसूर्यमयं ज्योतिर्युगेशः क्षणदाचरः ।
१७९.४२/२यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ॥ १७९.४२॥
१७९.४३/१यं परं प्राहुरपरं यः परः परमात्मवान् ।
१७९.४३/२आदित्यानां तु यो देवो यश्च दैत्यान्तको विभुः ॥ १७९.४३॥
१७९.४४/१युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।
१७९.४४/२सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ १७९.४४॥
१७९.४५/१वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।
१७९.४५/२सोमभूतश्च सौम्यानामग्निभूतोऽग्निवर्चसाम् ॥ १७९.४५॥
१७९.४६/१यः शक्राणामीशभूतस्तपोभूतस्तपस्विनाम् ।
१७९.४६/२विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ॥ १७९.४६॥
१७९.४७/१विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि ।
१७९.४७/२आकाशप्रभवो वायुर्वायोः प्राणाद् धुताशनः ॥ १७९.४७॥
१७९.४८/१दिवो हुताशनः प्राणः प्राणोऽग्निर्मधुसूदनः ।
१७९.४८/२रसाच्छोणितसम्भूतिः शोणितान् मांसमुच्यते ॥ १७९.४८॥
१७९.४९/१मांसात् तु मेदसो जन्म मेदसोऽस्थि निरुच्यते ।
१७९.४९/२अस्थ्नो मज्जा समभवन् मज्जातः शुक्रसम्भवः ॥ १७९.४९॥
१७९.५०/१शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा ।
१७९.५०/२तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते ॥ १७९.५०॥
१७९.५१/१गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते ।
१७९.५१/२शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम् ॥ १७९.५१॥
१७९.५२/१भावा रसानुगाश्चैषां बीजे च शशिपावकौ ।
१७९.५२/२कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥ १७९.५२॥
१७९.५३/१कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ।
१७९.५३/२देहस्य मध्ये हृदयं स्थानं तन् मनसः स्मृतम् ॥ १७९.५३॥
१७९.५४/१नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः ।
१७९.५४/२मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ १७९.५४॥
१७९.५५/१पित्तमग्निः स्मृतं त्वेवमग्निसोमात्मकं जगत् ।
१७९.५५/२एवं प्रवर्तिते गर्भे वर्धितेऽर्बुदसंनिभे ॥ १७९.५५॥
१७९.५६/१वायुः प्रवेशं संचक्रे संगतः परमात्मनः ।
१७९.५६/२स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥ १७९.५६॥
१७९.५७/१प्राणापानौ समानश्च उदानो व्यान एव च ।
१७९.५७/२प्राणोऽस्य परमात्मानं वर्धयन् परिवर्तते ॥ १७९.५७॥
१७९.५८/१अपानः पश्चिमं कायमुदानोऽर्धं शरीरिणः ।
१७९.५८/२व्यानस्तु व्याप्यते येन समानः संनिवर्तते ॥ १७९.५८॥
१७९.५९/१भूतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा ।
१७९.५९/२पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १७९.५९॥
१७९.६०/१तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे ।
१७९.६०/२पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ॥ १७९.६०॥
१७९.६१/१छिद्राण्याकाशयोनीनि जलात् स्रावः प्रवर्तते ।
१७९.६१/२ज्योतिश्चक्षूंषि तेजश्च आत्मा तेषां मनः स्मृतम् ॥ १७९.६१॥
१७९.६२/१ग्रामाश्च विषयाश्चैव यस्य वीर्यात् प्रवर्तिताः ।
१७९.६२/२इत्येतान् पुरुषः सर्वान् सृजंल्लोकान् सनातनः ॥ १७९.६२॥
१७९.६३/१नैधनेऽस्मिन् कथं लोके नरत्वं विष्णुरागतः ।
१७९.६३/२एष नः संशयो ब्रह्मन्न् एष नो विस्मयो महान् ॥ १७९.६३॥
१७९.६४/१कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ।
१७९.६४/२आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ॥ १७९.६४॥
१७९.६५/१विष्णोरुत्पत्तिमाश्चर्यं कथयस्व महामुने ।
१७९.६५/२प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ॥ १७९.६५॥
१७९.६६/१कर्मणाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् ।
१७९.६६/२कथं स देवो देवानामार्तिहा पुरुषोत्तमः ॥ १७९.६६॥
१७९.६७/१सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ।
१७९.६७/२सर्गस्थित्यन्तकृद् देवः सर्वलोकसुखावहः ॥ १७९.६७॥
१७९.६८/१अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः ।
१७९.६८/२निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ १७९.६८॥
१७९.६९/१सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ।
१७९.६९/२अविकारी विभुर्नित्यः परमात्मा सनातनः ॥ १७९.६९॥
१७९.७०/१अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।
१७९.७०/२विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥ १७९.७०॥
१७९.७१/१वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ।
१७९.७१/२ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥ १७९.७१॥
१७९.७२/१समतीतां भविष्यं च श्रोतुमिच्छा प्रवर्तते ।
१७९.७२/२अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः ॥ १७९.७२॥
१७९.७३/१नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ।
१७९.७३/२एष नारायणो भूत्वा हरिरासीत् सनातनः ॥ १७९.७३॥
१७९.७४/१ब्रह्मा शक्रश्च रुद्रश्च धर्मः शुक्रो बृहस्पतिः ।
१७९.७४/२प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः ॥ १७९.७४॥
१७९.७५/१सोऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ।
१७९.७५/२एवं स भगवान् विष्णुः सर्वलोकमहेश्वरः ।
१७९.७५/३किमर्थं मर्त्यलोकेऽस्मिन् यातो यदुकुले हरिः ॥ १७९.७५॥
१८०.१/१व्यास उवाच । नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे ।
१८०.१/२पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १८०.१॥
१८०.२/१चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च ।
१८०.२/२वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥ १८०.२॥
१८०.३/१यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च ।
१८०.३/२यस्माद् अणुतरं नास्ति यस्मान् नास्ति बृहत्तरम् ॥ १८०.३॥
१८०.४/१येन विश्वमिदं व्याप्तमजेन सचराचरम् ।
१८०.४/२आविर्भावतिरोभाव+ ।दृष्टादृष्टविलक्षणम् ॥ १८०.४॥
१८०.५/१वदन्ति यत् सृष्टमिति तथैवाप्युपसंहृतम् ।
१८०.५/२ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ॥ १८०.५॥
१८०.६/१अविकाराय शुद्धाय नित्याय परमात्मने ।
१८०.६/२सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥ १८०.६॥
१८०.७/१नमो हिरण्यगर्भाय हरये शंकराय च ।
१८०.७/२वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ १८०.७॥
१८०.८/१एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
१८०.८/२अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १८०.८॥
१८०.९/१सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
१८०.९/२मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १८०.९॥
१८०.१०/१आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
१८०.१०/२प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १८०.१०॥
१८०.११/१ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।
१८०.११/२तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १८०.११॥
१८०.१२/१विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् ।
१८०.१२/२अनादिं जगतामीशमजमक्षयमव्ययम् ॥ १८०.१२॥
१८०.१३/१कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः ।
१८०.१३/२पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १८०.१३॥
१८०.१४/१ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम् ।
१८०.१४/२प्रणिपत्य तथेशानमेकार्णवविनिर्गतम् ॥ १८०.१४॥
१८०.१५/१यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् ।
१८०.१५/२प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणोऽव्यक्तजन्मनः ॥ १८०.१५॥
१८०.१६/१येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः ।
१८०.१६/२आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ १८०.१६॥
१८०.१७/१अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
१८०.१७/२स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ॥ १८०.१७॥
१८०.१८/१चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा ।
१८०.१८/२एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥ १८०.१८॥
१८०.१९/१ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा ।
१८०.१९/२दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥ १८०.१९॥
१८०.२०/१वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते ।
१८०.२०/२रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ॥ १८०.२०॥
१८०.२१/१आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ।
१८०.२१/२द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः ॥ १८०.२१॥
१८०.२२/१तामसी सा समाख्याता तिर्यक्त्वं समुपागता ।
१८०.२२/२तृतीया कर्म कुरुते प्रजापालनतत्परा ॥ १८०.२२॥
१८०.२३/१सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ।
१८०.२३/२चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥ १८०.२३॥
१८०.२४/१रजस्तस्या गुणः सर्गं सा करोति सदैव हि ।
१८०.२४/२या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ॥ १८०.२४॥
१८०.२५/१सा तु धर्मव्यवस्थानं करोति नियतं भुवि ।
१८०.२५/२प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः ॥ १८०.२५॥
१८०.२६/१पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् ।
१८०.२६/२यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥ १८०.२६॥
१८०.२७/१अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ।
१८०.२७/२भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥ १८०.२७॥
१८०.२८/१एकया दंष्ट्रयोत्खाता नलिनीव वसुंधरा ।
१८०.२८/२कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः ॥ १८०.२८॥
१८०.२९/१विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः ।
१८०.२९/२वामनं रूपमास्थाय बलिं संयम्य मायया ॥ १८०.२९॥
१८०.३०/१त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् ।
१८०.३०/२भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥ १८०.३०॥
१८०.३१/१जघान क्षत्रियान् रामः पितुर्वधमनुस्मरन् ।
१८०.३१/२तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान् ॥ १८०.३१॥
१८०.३२/१योगमष्टाङ्गमाचख्यावलर्काय महात्मने ।
१८०.३२/२रामो दाशरथिर्भूत्वा स तु देवः प्रतापवान् ॥ १८०.३२॥
१८०.३३/१जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम् ।
१८०.३३/२यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः ॥ १८०.३३॥
१८०.३४/१सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः ।
१८०.३४/२योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः ॥ १८०.३४॥
१८०.३५/१त्रैलोक्यमुदरे कृत्वा जगत् स्थावरजङ्गमम् ।
१८०.३५/२जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः ॥ १८०.३५॥
१८०.३६/१तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् ।
१८०.३६/२मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम् ॥ १८०.३६॥
१८०.३७/१यत्र ब्रह्मा समुत्पन्नो देवदेवश्चतुर्मुखः ।
१८०.३७/२तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ ॥ १८०.३७॥
१८०.३८/१महाबलौ महावीर्यौ ब्रह्माणं हन्तुमुद्यतौ ।
१८०.३८/२जघान तौ दुराधर्षौ उत्थाय शयनोदधेः ॥ १८०.३८॥
१८०.३९/१एवमादींस्तथैवान्यान् असंख्यातुमिहोत्सहे ।
१८०.३९/२अवतारो ह्यजस्येह माथुरः साम्प्रतस्त्वयम् ॥ १८०.३९॥
१८०.४०/१इति सा सात्त्विकी मूर्तिरवतारं करोति च ।
१८०.४०/२प्रद्युम्नेति समाख्याता रक्षाकर्मण्यवस्थिता ॥ १८०.४०॥
१८०.४१/१देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता ।
१८०.४१/२गृह्णाति तत्स्वभावश्च वासुदेवेच्छया सदा ॥ १८०.४१॥
१८०.४२/१ददात्यभिमतान् कामान् पूजिता सा द्विजोत्तमाः ।
१८०.४२/२एवं मया समाख्यातः कृतकृत्योऽपि यः प्रभुः ।
१८०.४२/३मानुषत्वं गतो विष्णुः शृणुध्वं चोत्तरं पुनः ॥ १८०.४२॥
१८१.१/१व्यास उवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
१८१.१/२अवतारं हरेश्चात्र भारावतरणेच्छया ॥ १८१.१॥
१८१.२/१यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः ।
१८१.२/२धर्मश्च ह्रासमभ्येति तदा देवो जनार्दनः ॥ १८१.२॥
१८१.३/१अवतारं करोत्यत्र द्विधा कृत्वात्मनस्तनुम् ।
१८१.३/२साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥ १८१.३॥
१८१.४/१दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् ।
१८१.४/२प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे ॥ १८१.४॥
१८१.५/१पुरा किल मही विप्रा भूरिभारावपीडिता ।
१८१.५/२जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ १८१.५॥
१८१.६/१सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी ।
१८१.६/२कथयामास तत् सर्वं खेदात् करुणभाषिणी ॥ १८१.६॥
१८१.७/१धरण्युवाच । अग्निः सुवर्णस्य गुरुर्गवां सूर्योऽपरो गुरुः ।
१८१.७/२ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥ १८१.७॥
१८१.८/१तत्साम्प्रतमिमे दैत्याः कालनेमिपुरोगमाः ।
१८१.८/२मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः ॥ १८१.८॥
१८१.९/१कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
१८१.९/२उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः ॥ १८१.९॥
१८१.१०/१अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा ।
१८१.१०/२सुन्दोऽसुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ १८१.१०॥
१८१.११/१तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
१८१.११/२समुत्पन्ना दुरात्मानस्तान् न संख्यातुमुत्सहे ॥ १८१.११॥
१८१.१२/१अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः ।
१८१.१२/२महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥ १८१.१२॥
१८१.१३/१तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः ।
१८१.१३/२विभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ १८१.१३॥
१८१.१४/१क्रियतां तन् महाभागा मम भारावतारणम् ।
१८१.१४/२यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ १८१.१४॥
१८१.१५/१व्यास उवाच । इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः ।
१८१.१५/२भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥ १८१.१५॥
१८१.१६/१ब्रह्मोवाच । यद् आह वसुधा सर्वं सत्यमेतद् दिवौकसः ।
१८१.१६/२अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥ १८१.१६॥
१८१.१७/१विभूतयस्तु यास्तस्य तासामेव परस्परम् ।
१८१.१७/२आधिक्यं न्यूनता बाध्य+ ।बाधकत्वेन वर्तते ॥ १८१.१७॥
१८१.१८/१तद् आगच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
१८१.१८/२तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ १८१.१८॥
१८१.१९/१सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
१८१.१९/२स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ १८१.१९॥
१८१.२०/१व्यास उवाच । इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः ।
१८१.२०/२समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥ १८१.२०॥
१८१.२१/१ब्रह्मोवाच । नमो नमस्तेऽस्तु सहस्रमूर्ते ।
१८१.२१/२सहस्रबाहो बहुवक्त्रपाद ।
१८१.२१/३नमो नमस्ते जगतः प्रवृत्ति+ ।
१८१.२१/४विनाशसंस्थानपराप्रमेय ॥ १८१.२१॥
१८१.२२/१सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणम् ।
१८१.२२/२गरीयसामप्यतिगौरवात्मन् ।
१८१.२२/३प्रधानबुद्धीन्द्रियवाक्प्रधान+ ।
१८१.२२/४मूलापरात्मन् भगवन् प्रसीद ॥ १८१.२२॥
१८१.२३/१एषा मही देव महीप्रसूतैर्।
१८१.२३/२महासुरैः पीडितशैलबन्धा ।
१८१.२३/३परायणं त्वां जगतामुपैति ।
१८१.२३/४भारावतारार्थमपारपारम् ॥ १८१.२३॥
१८१.२४/१एते वयं वृत्ररिपुस्तथायम् ।
१८१.२४/२नासत्यदस्रौ वरुणस्तथैषः ।
१८१.२४/३इमे च रुद्रा वसवः ससूर्याः ।
१८१.२४/४समीरणाग्निप्रमुखास्तथान्ये ॥ १८१.२४॥
१८१.२५/१सुराः समस्ताः सुरनाथ कार्यम् ।
१८१.२५/२एभिर्मया यच्च तद् ईश सर्वम् ।
१८१.२५/३आज्ञापयाज्ञां प्रतिपालयन्तस्- ।
१८१.२५/४तवैव तिष्ठाम सदास्तदोषाः ॥ १८१.२५॥
१८१.२६/१व्यास उवाच । एवं संस्तूयमानस्तु भगवान् परमेश्वरः ।
१८१.२६/२उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥ १८१.२६॥
१८१.२७/१उवाच च सुरान् एतौ मत्केशौ वसुधातले ।
१८१.२७/२अवतीर्य भुवो भार+ ।क्लेशहानिं करिष्यतः ॥ १८१.२७॥
१८१.२८/१सुराश्च सकलाः स्वांशैरवतीर्य महीतले ।
१८१.२८/२कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ १८१.२८॥
१८१.२९/१ततः क्षयमशेषास्ते दैतेया धरणीतले ।
१८१.२९/२प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः ॥ १८१.२९॥
१८१.३०/१वसुदेवस्य या पत्नी देवकी देवतोपमा ।
१८१.३०/२तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः ॥ १८१.३०॥
१८१.३१/१अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
१८१.३१/२कालनेमिसमुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ १८१.३१॥
१८१.३२/१अदृश्याय ततस्तेऽपि प्रणिपत्य महात्मने ।
१८१.३२/२मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ १८१.३२॥
१८१.३३/१कंसाय चाष्टमो गर्भो देवक्या धरणीतले ।
१८१.३३/२भविष्यतीत्याचचक्षे भगवान् नारदो मुनिः ॥ १८१.३३॥
१८१.३४/१कंसोऽपि तद् उपश्रुत्य नारदात् कुपितस्ततः ।
१८१.३४/२देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ १८१.३४॥
१८१.३५/१जातं जातं च कंसाय तेनैवोक्तं यथा पुरा ।
१८१.३५/२तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विजाः ॥ १८१.३५॥
१८१.३६/१हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः ।
१८१.३६/२विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत् ॥ १८१.३६॥
१८१.३७/१योगनिद्रा महामाया वैष्णवी मोहितं यया ।
१८१.३७/२अविद्यया जगत् सर्वं तामाह भगवान् हरिः ॥ १८१.३७॥
१८१.३८/१विष्णुरुवाच । गच्छ निद्रे ममादेशात् पातालतलसंश्रयान् ।
१८१.३८/२एकैकश्येन षड्गर्भान् देवकीजठरे नय ॥ १८१.३८॥
१८१.३९/१हतेषु तेषु कंसेन शेषाख्योऽंशस्ततोऽनघः ।
१८१.३९/२अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति ॥ १८१.३९॥
१८१.४०/१गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता ।
१८१.४०/२तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम् ॥ १८१.४०॥
१८१.४१/१सप्तमो भोजराजस्य भयाद् रोधोपरोधतः ।
१८१.४१/२देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ १८१.४१॥
१८१.४२/१गर्भसंकर्षणात् सोऽथ लोके संकर्षणेति वै ।
१८१.४२/२संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ १८१.४२॥
१८१.४३/१ततोऽहं सम्भविष्यामि देवकीजठरे शुभे ।
१८१.४३/२गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥ १८१.४३॥
१८१.४४/१प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
१८१.४४/२उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि ॥ १८१.४४॥
१८१.४५/१यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
१८१.४५/२मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥ १८१.४५॥
१८१.४६/१कंसश्च त्वामुपादाय देवि शैलशिलातले ।
१८१.४६/२प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥ १८१.४६॥
१८१.४७/१ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात् ।
१८१.४७/२प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ १८१.४७॥
१८१.४८/१ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः ।
१८१.४८/२स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ १८१.४८॥
१८१.४९/१त्वं भूतिः संनतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः ।
१८१.४९/२लज्जा पुष्टिरुषा या च काचिद् अन्या त्वमेव सा ॥ १८१.४९॥
१८१.५०/१ये त्वामार्येति दुर्गेति वेदगर्भेऽम्बिकेति च ।
१८१.५०/२भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥ १८१.५०॥
१८१.५१/१प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः ।
१८१.५१/२तेषां हि वाञ्छितं सर्वं मत्प्रसादाद् भविष्यति ॥ १८१.५१॥
१८१.५२/१सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता ।
१८१.५२/२नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि ॥ १८१.५२॥
१८१.५३/१ते सर्वे सर्वदा भद्रा मत्प्रसादाद् असंशयम् ।
१८१.५३/२असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥ १८१.५३॥
१८२.१/१व्यास उवाच । यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा ।
१८२.१/२षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १८२.१॥
१८२.२/१सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः ।
१८२.२/२लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥ १८२.२॥
१८२.३/१योगनिद्रा यशोदायास्तस्मिन्न् एव ततो दिने ।
१८२.३/२सम्भूता जठरे तद्वद् यथोक्तं परमेष्ठिना ॥ १८२.३॥
१८२.४/१ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः ।
१८२.४/२विष्णोरंशे महीं यात ऋतवोऽप्यभवञ् शुभाः ॥ १८२.४॥
१८२.५/१नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्यतितेजसा ।
१८२.५/२जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ १८२.५॥
१८२.६/१अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
१८२.६/२बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ १८२.६॥
१८२.७/१देवा ऊचुः । त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च ।
१८२.७/२त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ १८२.७॥
१८२.८/१प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु ।
१८२.८/२प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥ १८२.८॥
१८२.९/१व्यास उवाच । एवं संस्तूयमाना सा देवैर्देवमधारयत् ।
१८२.९/२गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥ १८२.९॥
१८२.१०/१ततोऽखिलजगत्पद्म+ ।बोधायाच्युतभानुना ।
१८२.१०/२देवक्याः पूर्वसंध्यायामाविर्भूतं महात्मना ॥ १८२.१०॥
१८२.११/१मध्यरात्रेऽखिलाधारे जायमाने जनार्दने ।
१८२.११/२मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः ॥ १८२.११॥
१८२.१२/१फुल्लेन्दीवरपत्त्राभं चतुर्बाहुमुदीक्ष्य तम् ।
१८२.१२/२श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ १८२.१२॥
१८२.१३/१अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः ।
१८२.१३/२विज्ञापयामास तदा कंसाद् भीतो द्विजोत्तमाः ॥ १८२.१३॥
१८२.१४/१वसुदेव उवाच । ज्ञातोऽसि देवदेवेश शङ्खचक्रगदाधर ।
१८२.१४/२दिव्यं रूपमिदं देव प्रसादेनोपसंहर ॥ १८२.१४॥
१८२.१५/१अद्यैव देव कंसोऽयं कुरुते मम यातनाम् ।
१८२.१५/२अवतीर्णमिति ज्ञात्वा त्वामस्मिन् मन्दिरे मम ॥ १८२.१५॥
१८२.१६/१देवक्युवाच । योऽनन्तरूपोऽखिलविश्वरूपो ।
१८२.१६/२गर्भेऽपि लोकान् वपुषा बिभर्ति ।
१८२.१६/३प्रसीदतामेष स देवदेवः ।
१८२.१६/४स्वमाययाविष्कृतबालरूपः ॥ १८२.१६॥
१८२.१७/१उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् ।
१८२.१७/२जानातु मावतारं ते कंसोऽयं दितिजान्तक ॥ १८२.१७॥
१८२.१८/१श्रीभगवान् उवाच । स्तुतोऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते ।
१८२.१८/२सफलं देवि संजातं जातोऽहं यत् तवोदरात् ॥ १८२.१८॥
१८२.१९/१व्यास उवाच । इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः ।
१८२.१९/२वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥ १८२.१९॥
१८२.२०/१मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया ।
१८२.२०/२मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १८२.२०॥
१८२.२१/१वर्षतां जलदानां च तत् तोयमुल्बणं निशि ।
१८२.२१/२संछाद्य तं ययौ शेषः फणैरानकदुन्दुभिम् ॥ १८२.२१॥
१८२.२२/१यमुनां चातिगम्भीरां नानावर्तशताकुलाम् ।
१८२.२२/२वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ ॥ १८२.२२॥
१८२.२३/१कंसस्य करमादाय तत्रैवाभ्यागतांस्तटे ।
१८२.२३/२नन्दादीन् गोपवृद्धांश्च यमुनायां ददर्श सः ॥ १८२.२३॥
१८२.२४/१तस्मिन् काले यशोदापि मोहिता योगनिद्रया ।
१८२.२४/२तामेव कन्यां मुनयः प्रासूत मोहिते जने ॥ १८२.२४॥
१८२.२५/१वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् ।
१८२.२५/२यशोदाशयने तूर्णमाजगामामितद्युतिः ॥ १८२.२५॥
१८२.२६/१ददर्श च विबुद्ध्वा सा यशोदा जातमात्मजम् ।
१८२.२६/२नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥ १८२.२६॥
१८२.२७/१आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् ।
१८२.२७/२देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ १८२.२७॥
१८२.२८/१ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
१८२.२८/२कंसमावेदयामासुर्देवकीप्रसवं द्विजाः ॥ १८२.२८॥
१८२.२९/१कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् ।
१८२.२९/२मुञ्च मुञ्चेति देवक्या *आसन्नकण्ठं निवारितः ॥ १८२.२९॥
१८२.३०/१चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् ।
१८२.३०/२अवाप रूपं च महत् सायुधाष्टमहाभुजम् ।
१८२.३०/३प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥ १८२.३०॥
१८२.३१/१योगमायोवाच । किं मयाक्षिप्तया कंस जातो यस्त्वां हनिष्यति ।
१८२.३१/२सर्वस्वभूतो देवानामासीन् मृत्युः पुरा स ते ।
१८२.३१/३तद् एतत् सम्प्रधार्याशु क्रियतां हितमात्मनः ॥ १८२.३१॥
१८२.३२/१व्यास उवाच । इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
१८२.३२/२पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ १८२.३२॥
१८३.१/१व्यास उवाच । कंसस्त्वथोद्विग्नमनाः प्राह सर्वान् महासुरान् ।
१८३.१/२प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान् ॥ १८३.१॥
१८३.२/१कंस उवाच । हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने ।
१८३.२/२अरिष्टाद्यैस्तथा चान्यैः श्रूयतां वचनं मम ॥ १८३.२॥
१८३.३/१मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः ।
१८३.३/२मद्वीर्यतापितान् वीरान् न त्वेतान् गणयाम्यहम् ॥ १८३.३॥
१८३.४/१आश्चर्यं कन्यया चोक्तं जायते दैत्यपुंगवाः ।
१८३.४/२हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ १८३.४॥
१८३.५/१तथापि खलु दुष्टानां तेषामप्यधिकं मया ।
१८३.५/२अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ १८३.५॥
१८३.६/१उत्पन्नश्चापि मृत्युर्मे भूतभव्यभवत्प्रभुः ।
१८३.६/२इत्येतद् बालिका प्राह देवकीगर्भसम्भवा ॥ १८३.६॥
१८३.७/१तस्माद् बालेषु परमो यत्नः कार्यो महीतले ।
१८३.७/२यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ १८३.७॥
१८३.८/१व्यास उवाच । इत्याज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः ।
१८३.८/२उवाच वसुदेवं च देवकीमविरोधतः ॥ १८३.८॥
१८३.९/१कंस उवाच । युवयोर्घातिता गर्भा वृथैवैते मयाधुना ।
१८३.९/२कोऽप्यन्य एव नाशाय बालो मम समुद्गतः ॥ १८३.९॥
१८३.१०/१तद् अलं परितापेन नूनं यद् भाविनो हि ते ।
१८३.१०/२अर्भका युवयोः को वा आयुषोऽन्ते न हन्यते ॥ १८३.१०॥
१८३.११/१व्यास उवाच । इत्याश्वास्य विमुच्यैव कंसस्तौ परितोष्य च ।
१८३.११/२अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥ १८३.११॥
१८४.१/१व्यास उवाच । विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
१८४.१/२प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै ॥ १८४.१॥
१८४.२/१वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् ।
१८४.२/२वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ १८४.२॥
१८४.३/१दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः ।
१८४.३/२यदर्थमागतस्तस्मान् नात्र स्थेयं महात्मना ॥ १८४.३॥
१८४.४/१यदर्थमागतः कार्यं तन् निष्पन्नं किमास्यते ।
१८४.४/२भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ १८४.४॥
१८४.५/१ममापि बालकस्तत्र रोहिणीप्रसवो हि यः ।
१८४.५/२स रक्षणीयो भवता यथायं तनयो निजः ॥ १८४.५॥
१८४.६/१व्यास उवाच । इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
१८४.६/२शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥ १८४.६॥
१८४.७/१वसतां गोकुले तेषां पूतना बालघातिनी ।
१८४.७/२सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥ १८४.७॥
१८४.८/१यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति ।
१८४.८/२तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ १८४.८॥
१८४.९/१कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् ।
१८४.९/२गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥ १८४.९॥
१८४.१०/१सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना ।
१८४.१०/२पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १८४.१०॥
१८४.११/१तन्नादश्रुतिसंत्रासाद् विबुद्धास्ते व्रजौकसः ।
१८४.११/२ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥ १८४.११॥
१८४.१२/१आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः ।
१८४.१२/२गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥ १८४.१२॥
१८४.१३/१गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके ।
१८४.१३/२कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदमुदैरयत् ॥ १८४.१३॥
१८४.१४/१नन्दगोप उवाच । रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
१८४.१४/२यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज्जगत् ॥ १८४.१४॥
१८४.१५/१येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।
१८४.१५/२वराहरूपधृग् देवः स त्वां रक्षतु केशवः ॥ १८४.१५॥
१८४.१६/१गुह्यं स जठरं विष्णुर्जङ्घापादौ जनार्दनः ।
१८४.१६/२वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत् ॥ १८४.१६॥
१८४.१७/१त्रिविक्रमक्रमाक्रान्त+ ।त्रैलोक्यस्फुरदायुधः ।
१८४.१७/२शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥ १८४.१७॥
१८४.१८/१मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च ।
१८४.१८/२रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ १८४.१८॥
१८४.१९/१त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः ।
१८४.१९/२हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १८४.१९॥
१८४.२०/१व्यास उवाच । एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
१८४.२०/२शायितः शकटस्याधो बालपर्यङ्किकातले ॥ १८४.२०॥
१८४.२१/१ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् ।
१८४.२१/२मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ १८४.२१॥
१८४.२२/१कदाचिच्छकटस्याधः शयानो मधुसूदनः ।
१८४.२२/२चिक्षेप चरणावूर्ध्वं स्तनार्थी प्ररुरोद च ॥ १८४.२२॥
१८४.२३/१तस्य पादप्रहारेण शकटं परिवर्तितम् ।
१८४.२३/२विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै ॥ १८४.२३॥
१८४.२४/१ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः ।
१८४.२४/२आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥ १८४.२४॥
१८४.२५/१गोपाः केनेति जगदुः शकटं परिवर्तितम् ।
१८४.२५/२तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ १८४.२५॥
१८४.२६/१रुदता दृष्टमस्माभिः पादविक्षेपताडितम् ।
१८४.२६/२शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम् ॥ १८४.२६॥
१८४.२७/१ततः पुनरतीवासन् गोपा विस्मितचेतसः ।
१८४.२७/२नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥ १८४.२७॥
१८४.२८/१यशोदा विस्मयारूढा भग्नभाण्डकपालकम् ।
१८४.२८/२शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ १८४.२८॥
१८४.२९/१गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।
१८४.२९/२प्रच्छन्न एव गोपानां संस्कारमकरोत् तयोः ॥ १८४.२९॥
१८४.३०/१ज्येष्ठं च राममित्याह कृष्णं चैव तथापरम् ।
१८४.३०/२गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः ॥ १८४.३०॥
१८४.३१/१अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ ।
१८४.३१/२घृष्टजानुकरौ विप्रा बभूवतुरुभावपि ॥ १८४.३१॥
१८४.३२/१करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
१८४.३२/२न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥ १८४.३२॥
१८४.३३/१गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः ।
१८४.३३/२तदहर्जातगोवत्स+ ।पुच्छाकर्षणतत्परौ ॥ १८४.३३॥
१८४.३४/१यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
१८४.३४/२शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ १८४.३४॥
१८४.३५/१दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले ।
१८४.३५/२कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ १८४.३५॥
१८४.३६/१यशोदोवाच । यदि शक्तोऽसि गच्छ
त्वमतिचञ्चलचेष्टित ॥ १८४.३६॥
१८४.३७/१व्यास उवाच । इत्युक्त्वा च निजं कर्म सा चकार कुटुम्बिनी ।
१८४.३७/२व्यग्रायामथ तस्यां स कर्षमाण उलूखलम् ॥ १८४.३७॥
१८४.३८/१यमलार्जुनयोर्मध्ये जगाम कमलेक्षणः ।
१८४.३८/२कर्षता वृक्षयोर्मध्ये तिर्यग् एवमुलूखलम् ॥ १८४.३८॥
१८४.३९/१भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ।
१८४.३९/२ततः कटकटाशब्द+ ।समाकर्णनकातरः ॥ १८४.३९॥
१८४.४०/१आजगाम व्रजजनो ददृशे च महाद्रुमौ ।
१८४.४०/२भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले ॥ १८४.४०॥
१८४.४१/१ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् ।
१८४.४१/२तयोर्मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥ १८४.४१॥
१८४.४२/१ततश्च दामोदरतां स ययौ दामबन्धनात् ।
१८४.४२/२गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ॥ १८४.४२॥
१८४.४३/१मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ।
१८४.४३/२स्थानेनेह न नः कार्यं व्रजामोऽन्यन् महावनम् ॥ १८४.४३॥
१८४.४४/१उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ।
१८४.४४/२पूतनाया विनाशश्च शकटस्य विपर्ययः ॥ १८४.४४॥
१८४.४५/१विना वातादिदोषेण द्रुमयोः पतनं तथा ।
१८४.४५/२वृन्दावनमितः स्थानात् तस्माद् गच्छाम मा चिरम् ॥ १८४.४५॥
१८४.४६/१यावद् भौममहोत्पात+ ।दोषो नाभिभवेद् व्रजम् ।
१८४.४६/२इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ॥ १८४.४६॥
१८४.४७/१ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ।
१८४.४७/२ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ॥ १८४.४७॥
१८४.४८/१यूथशो वत्सपालीश्च कालयन्तो व्रजौकसः ।
१८४.४८/२सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा ॥ १८४.४८॥
१८४.४९/१काककाकीसमाकीर्णं व्रजस्थानमभूद् द्विजाः ।
१८४.४९/२वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ॥ १८४.४९॥
१८४.५०/१शुभेन मनसा ध्यातं गवां वृद्धिमभीप्सता ।
१८४.५०/२ततस्तत्रातिरुक्षेऽपि धर्मकाले द्विजोत्तमाः ॥ १८४.५०॥
१८४.५१/१प्रावृट्काल इवाभूच्च नवशष्पं समन्ततः ।
१८४.५१/२स समावासितः सर्वो व्रजो वृन्दावने ततः ॥ १८४.५१॥
१८४.५२/१शकटीवाटपर्यन्त+ ॅहन्द्रार्धाकारसंस्थितिः ।
१८४.५२/२वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥ १८४.५२॥
१८४.५३/१तत्र स्थितौ तौ च गोष्ठे चेरतुर्बाललीलया ।
१८४.५३/२बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ ॥ १८४.५३॥
१८४.५४/१गोपवेणुकृतातोद्य+ ।पत्त्रवाद्यकृतस्वनौ ।
१८४.५४/२काकपक्षधरौ बालौ कुमाराविव पावकौ ॥ १८४.५४॥
१८४.५५/१हसन्तौ च रमन्तौ च चेरतुस्तन् महद् वनम् ।
१८४.५५/२क्वचिद् धसन्तावन्योन्यं क्रीडमानौ तथा परैः ॥ १८४.५५॥
१८४.५६/१गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ।
१८४.५६/२कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥ १८४.५६॥
१८४.५७/१सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे ।
१८४.५७/२प्रावृट्कालस्ततोऽतीव मेघौघस्थगिताम्बरः ॥ १८४.५७॥
१८४.५८/१बभूव वारिधाराभिरैक्यं कुर्वन् दिशामिव ।
१८४.५८/२प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥ १८४.५८॥
१८४.५९/१यथा मारकते वासीत् पद्मरागविभूषिता ।
१८४.५९/२ऊहुरुन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥ १८४.५९॥
१८४.६०/१मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ।
१८४.६०/२विकाले च यथाकामं व्रजमेत्य महाबलौ ।
१८४.६०/३गोपैः समानैः सहितौ चिक्रीडातेऽमराविव ॥ १८४.६०॥
१८५.१/१व्यास उवाच । एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
१८५.१/२विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १८५.१॥
१८५.२/१स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् ।
१८५.२/२तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ १८५.२॥
१८५.३/१तस्यां चातिमहाभीमं विषाग्निकणदूषितम् ।
१८५.३/२ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ १८५.३॥
१८५.४/१विषाग्निना विसरता दग्धतीरमहातरुम् ।
१८५.४/२वाताहताम्बुविक्षेप+ ।स्पर्शदग्धविहंगमम् ॥ १८५.४॥
१८५.५/१तमतीव महारौद्रं मृत्युवक्त्रमिवापरम् ।
१८५.५/२विलोक्य चिन्तयामास भगवान् मधुसूदनः ॥ १८५.५॥
१८५.६/१अस्मिन् वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
१८५.६/२यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥ १८५.६॥
१८५.७/१तेनेयं दूषिता सर्वा यमुना सागरंगमा ।
१८५.७/२न नरैर्गोधनैर्वापि तृषार्तैरुपभुज्यते ॥ १८५.७॥
१८५.८/१तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया ।
१८५.८/२नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः ॥ १८५.८॥
१८५.९/१एतदर्थं नृलोकेऽस्मिन्न् अवतारो मया कृतः ।
१८५.९/२यद् एषामुत्पथस्थानां कार्या शास्तिर्दुरात्मनाम् ॥ १८५.९॥
१८५.१०/१तद् एतन् नातिदूरस्थं कदम्बमुरुशाखिनम् ।
१८५.१०/२अधिरुह्योत्पतिष्यामि ह्रदेऽस्मिञ् जीवनाशिनः ॥ १८५.१०॥
१८५.११/१व्यास उवाच । इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः ।
१८५.११/२निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥ १८५.११॥
१८५.१२/१तेनापि पतता तत्र क्षोभितः स महाह्रदः ।
१८५.१२/२अत्यर्थदूरजातांश्च तांश्चासिञ्चन् महीरुहान् ॥ १८५.१२॥
१८५.१३/१तेऽहिदुष्टविषज्वाला+ ।तप्ताम्बुतपनोक्षिताः ।
१८५.१३/२जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥ १८५.१३॥
१८५.१४/१आस्फोटयामास तदा कृष्णो नागह्रदं भुजैः ।
१८५.१४/२तच्छब्दश्रवणाच्चाथ नागराजोऽभ्युपागमत् ॥ १८५.१४॥
१८५.१५/१आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः ।
१८५.१५/२वृतो महाविषैश्चान्यैररुणैरनिलाशनैः ॥ १८५.१५॥
१८५.१६/१नागपत्न्यश्च शतशो हारिहारोपशोभिताः ।
१८५.१६/२प्रकम्पिततनूत्क्षेप+ ॅहलत्कुण्डलकान्तयः ॥ १८५.१६॥
१८५.१७/१ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ।
१८५.१७/२ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः ॥ १८५.१७॥
१८५.१८/१तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् ।
१८५.१८/२गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः ॥ १८५.१८॥
१८५.१९/१गोपा ऊचुः । एष कृष्णो गतो मोह+ ंअग्नो वै कालिये ह्रदे ।
१८५.१९/२भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम् ॥ १८५.१९॥
१८५.२०/१व्यास उवाच । एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः ।
१८५.२०/२गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ १८५.२०॥
१८५.२१/१हा हा क्वासाविति जनो गोपीनामतिविह्वलः ।
१८५.२१/२यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥ १८५.२१॥
१८५.२२/१नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः ।
१८५.२२/२त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥ १८५.२२॥
१८५.२३/१ददृशुश्चापि ते तत्र सर्पराजवशंगतम् ।
१८५.२३/२निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥ १८५.२३॥
१८५.२४/१नन्दगोपश्च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् ।
१८५.२४/२यशोदा च महाभागा बभूव मुनिसत्तमाः ॥ १८५.२४॥
१८५.२५/१गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः ।
१८५.२५/२प्रोचुश्च केशवं प्रीत्या भयकातरगद्गदम् ॥ १८५.२५॥
१८५.२६/१सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदे ।
१८५.२६/२नागराजस्य नो गन्तुमस्माकं युज्यते व्रजे ॥ १८५.२६॥
१८५.२७/१दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
१८५.२७/२विना दुग्धेन का गावो विना कृष्णेन को व्रजः ।
१८५.२७/३विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥ १८५.२७॥
१८५.२८/१व्यास उवाच । इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
१८५.२८/२उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः ॥ १८५.२८॥
१८५.२९/१नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
१८५.२९/२मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया ॥ १८५.२९॥
१८५.३०/१बलराम उवाच । किमयं देवदेवेश भावोऽयं मानुषस्त्वया ।
१८५.३०/२व्यज्यते स्वं तमात्मानं किमन्यं त्वं न वेत्सि यत् ॥ १८५.३०॥
१८५.३१/१त्वमस्य जगतो नाभिः सुराणामेव चाश्रयः ।
१८५.३१/२कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥ १८५.३१॥
१८५.३२/१अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
१८५.३२/२गोप्यश्च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे ॥ १८५.३२॥
१८५.३३/१दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् ।
१८५.३३/२तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥ १८५.३३॥
१८५.३४/१व्यास उवाच । इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसम्पुटः ।
१८५.३४/२आस्फाल्य मोचयामास स्वं देहं भोगबन्धनात् ॥ १८५.३४॥
१८५.३५/१आनाम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम् ।
१८५.३५/२आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥ १८५.३५॥
१८५.३६/१व्रणाः फणेऽभवंस्तस्य कृष्णस्याङ्घ्रिविकुट्टनैः ।
१८५.३६/२यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ १८५.३६॥
१८५.३७/१मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः ।
१८५.३७/२दण्डपातनिपातेन ववाम रुधिरं बहु ॥ १८५.३७॥
१८५.३८/१तं निर्भुग्नशिरोग्रीवमास्यप्रस्रुतशोणितम् ।
१८५.३८/२विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ १८५.३८॥
१८५.३९/१नागपत्न्य ऊचुः । ज्ञातोऽसि देवदेवेश सर्वेशस्त्वमनुत्तम ।
१८५.३९/२परं ज्योतिरचिन्त्यं यत् तदंशः परमेश्वरः ॥ १८५.३९॥
१८५.४०/१न समर्थाः सुर स्तोतुं यमनन्यभवं प्रभुम् ।
१८५.४०/२स्वरूपवर्णनं तस्य कथं योषित् करिष्यति ॥ १८५.४०॥
१८५.४१/१यस्याखिलमहीव्योम+ ।जलाग्निपवनात्मकम् ।
१८५.४१/२ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम् ॥ १८५.४१॥
१८५.४२/१ततः कुरु जगत्स्वामिन् प्रसादमवसीदतः ।
१८५.४२/२प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ १८५.४२॥
१८५.४३/१व्यास उवाच । इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः ।
१८५.४३/२प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ १८५.४३॥
१८५.४४/१कालीय उवाच । तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् ।
१८५.४४/२निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्वहम् ॥ १८५.४४॥
१८५.४५/१त्वं परस्त्वं परस्याद्यः परं त्वं तत्परात्मकम् ।
१८५.४५/२परस्मात् परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ १८५.४५॥
१८५.४६/१यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
१८५.४६/२स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ १८५.४६॥
१८५.४७/१यद्यन्यथा प्रवर्तेय देवदेव ततो मयि ।
१८५.४७/२न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ १८५.४७॥
१८५.४८/१तथापि यं जगत्स्वामी दण्डं पातितवान् मयि ।
१८५.४८/२स सोढोऽयं वरो दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥ १८५.४८॥
१८५.४९/१हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत ।
१८५.४९/२जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ १८५.४९॥
१८५.५०/१श्रीभगवान् उवाच । नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले ।
१८५.५०/२सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥ १८५.५०॥
१८५.५१/१मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे ।
१८५.५१/२गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ १८५.५१॥
१८५.५२/१व्यास उवाच । इत्युक्त्वा सर्पराजानं मुमोच भगवान् हरिः ।
१८५.५२/२प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ १८५.५२॥
१८५.५३/१पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः ।
१८५.५३/२समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ १८५.५३॥
१८५.५४/१गते सर्पे परिष्वज्य मृतं पुनरिवागतम् ।
१८५.५४/२गोपा मूर्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः ॥ १८५.५४॥
१८५.५५/१कृष्णमक्लिष्टकर्माणमन्ये विस्मितचेतसः ।
१८५.५५/२तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ १८५.५५॥
१८५.५६/१गीयमानोऽथ गोपीभिश्चरितैश्चारुचेष्टितैः ।
१८५.५६/२संस्तूयमानो गोपालैः कृष्णो व्रजमुपागमत् ॥ १८५.५६॥
१८६.१/१व्यास उवाच । गाः पालयन्तौ च पुनः सहितौ रामकेशवौ ।
१८६.१/२भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ १८६.१॥
१८६.२/१तच्च तालवनं नित्यं धेनुको नाम दानवः ।
१८६.२/२नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ १८६.२॥
१८६.३/१तत्र तालवनं रम्यं फलसम्पत्समन्वितम् ।
१८६.३/२दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रुवन् वचः ॥ १८६.३॥
१८६.४/१गोपा ऊचुः । हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते ।
१८६.४/२भूप्रदेशो यतस्तस्मात् त्यक्तानीमानि सन्ति वै ॥ १८६.४॥
१८६.५/१फलानि पश्य तालानां गन्धमोदयुतानि वै ।
१८६.५/२वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ १८६.५॥
१८६.६/१इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
१८६.६/२कृष्णश्च पातयामास भुवि तालफलानि वै ॥ १८६.६॥
१८६.७/१तालानां पततां शब्दमाकर्ण्यासुरराट् ततः ।
१८६.७/२आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः ॥ १८६.७॥
१८६.८/१पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली ।
१८६.८/२जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत ॥ १८६.८॥
१८६.९/१गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् ।
१८६.९/२तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि ॥ १८६.९॥
१८६.१०/१ततः फलान्यनेकानि तालाग्रान् निपतन् खरः ।
१८६.१०/२पृथिव्यां पातयामास महावातोऽम्बुदान् इव ॥ १८६.१०॥
१८६.११/१अन्यान् अप्यस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् ।
१८६.११/२कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ १८६.११॥
१८६.१२/१क्षणेनालंकृता पृथ्वी पक्वैस्तालफलैस्तदा ।
१८६.१२/२दैत्यगर्दभदेहैश्च मुनयः शुशुभेऽधिकम् ॥ १८६.१२॥
१८६.१३/१ततो गावो निराबाधास्तस्मिंस्तालवने द्विजाः ।
१८६.१३/२नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत् पुरा ॥ १८६.१३॥
१८७.१/१व्यास उवाच । तस्मिन् रासभदैतेये सानुजे विनिपातिते ।
१८७.१/२सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ १८७.१॥
१८७.२/१ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
१८७.२/२शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ १८७.२॥
१८७.३/१चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ।
१८७.३/२नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥ १८७.३॥
१८७.४/१सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ ।
१८७.४/२महेन्द्रायुधसंकाशौ श्वेतकृष्णाविवाम्बुदौ ॥ १८७.४॥
१८७.५/१चेरतुर्लोकसिद्धाभिः क्रीडाभिरितरेतरम् ।
१८७.५/२समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ १८७.५॥
१८७.६/१मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
१८७.६/२तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ १८७.६॥
१८७.७/१ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
१८७.७/२व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ १८७.७॥
१८७.८/१तल्लिप्सुरसुरस्तत्र उभयो रममाणयोः ।
१८७.८/२आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ १८७.८॥
१८७.९/१सोऽवगाहत निःशङ्कं तेषां मध्यममानुषः ।
१८७.९/२मानुषं रूपमास्थाय प्रलम्बो दानवोत्तमः ॥ १८७.९॥
१८७.१०/१तयोश्छिद्रान्तरप्रेप्सुरतिशीघ्रममन्यत ।
१८७.१०/२कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ १८७.१०॥
१८७.११/१हरिणा क्रीडनं नाम बालक्रीडनकं ततः ।
१८७.११/२प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥ १८७.११॥
१८७.१२/१श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः ।
१८७.१२/२गोपालैरपरैश्चान्ये गोपालाः सह पुप्लुवुः ॥ १८७.१२॥
१८७.१३/१श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः ।
१८७.१३/२जितवान् कृष्णपक्षीयैर्गोपैरन्यैः पराजिताः ॥ १८७.१३॥
१८७.१४/१ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै ।
१८७.१४/२पुनर्निवृत्तास्ते सर्वे ये ये तत्र पराजिताः ॥ १८७.१४॥
१८७.१५/१संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
१८७.१५/२न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥ १८७.१५॥
१८७.१६/१अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः ।
१८७.१६/२ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥ १८७.१६॥
१८७.१७/१संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
१८७.१७/२स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥ १८७.१७॥
१८७.१८/१रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ।
१८७.१८/२ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १८७.१८॥
१८७.१९/१बलराम उवाच । कृष्ण कृष्ण ह्रिये त्वेष पर्वतोदग्रमूर्तिना ।
१८७.१९/२केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ १८७.१९॥
१८७.२०/१यद् अत्र साम्प्रतं कार्यं मया मधुनिषूदन ।
१८७.२०/२तत् कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ १८७.२०॥
१८७.२१/१व्यास उवाच । तमाह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः ।
१८७.२१/२महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ १८७.२१॥
१८७.२२/१कृष्ण उवाच । किमयं मानुषो भावो व्यक्तमेवावलम्ब्यते ।
१८७.२२/२सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया ॥ १८७.२२॥
१८७.२३/१स्मराशेषजगदीश कारणं कारणाग्रज ।
१८७.२३/२आत्मानमेकं तद्वच्च जगत्येकार्णवे च यः ॥ १८७.२३॥
१८७.२४/१भवान् अहं च विश्वात्मन्न् एकमेव हि कारणम् ।
१८७.२४/२जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ १८७.२४॥
१८७.२५/१तत् स्मर्यताममेयात्मंस्त्वयात्मा जहि दानवम् ।
१८७.२५/२मानुष्यमेवमालम्ब्य बन्धूनां क्रियतां हितम् ॥ १८७.२५॥
१८७.२६/१व्यास उवाच । इति संस्मारितो विप्राः कृष्णेन सुमहात्मना ।
१८७.२६/२विहस्य पीडयामास प्रलम्बं बलवान् बलः ॥ १८७.२६॥
१८७.२७/१मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः ।
१८७.२७/२तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ १८७.२७॥
१८७.२८/१स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
१८७.२८/२निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ १८७.२८॥
१८७.२९/१प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
१८७.२९/२प्रहृष्टास्तुष्टुवुर्गोपाः साधु साध्विति चाब्रुवन् ॥ १८७.२९॥
१८७.३०/१संस्तूयमानो रामस्तु गोपैर्दैत्ये निपातिते ।
१८७.३०/२प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौ ॥ १८७.३०॥
१८७.३१/१व्यास उवाच । तयोर्विहरतोरेवं रामकेशवयोर्व्रजे ।
१८७.३१/२प्रावृड्व्यतीता विकसत्+ ।सरोजा चाभवच्छरत् ॥ १८७.३१॥
१८७.३२/१विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् ।
१८७.३२/२ददर्शेन्द्रोत्सवारम्भ+ ।प्रवृत्तान् व्रजवासिनः ॥ १८७.३२॥
१८७.३३/१कृष्णस्तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान् ।
१८७.३३/२कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः ॥ १८७.३३॥
१८७.३४/१कृष्ण उवाच । कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
१८७.३४/२प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ १८७.३४॥
१८७.३५/१नन्द उवाच । मेघानां पयसामीशो देवराजः शतक्रतुः ।
१८७.३५/२येन संचोदिता मेघा वर्षन्त्यम्बुमयं रसम् ॥ १८७.३५॥
१८७.३६/१तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः ।
१८७.३६/२वर्तयामोपभुञ्जानास्तर्पयामश्च देवताः ॥ १८७.३६॥
१८७.३७/१क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः ।
१८७.३७/२तेन संवर्धितैः सस्यैः पुष्टास्तुष्टा भवन्ति वै ॥ १८७.३७॥
१८७.३८/१नासस्या नानृणा भूमिर्न बुभुक्षार्दितो जनः ।
१८७.३८/२दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ १८७.३८॥
१८७.३९/१भौममेतत् पयो गोभिर्धत्ते सूर्यस्य वारिदः ।
१८७.३९/२पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥ १८७.३९॥
१८७.४०/१तस्मात् प्रावृषि राजानः शक्रं सर्वे मुदान्विताः ।
१८७.४०/२महे सुरेशमर्घन्ति वयमन्ये च देहिनः ॥ १८७.४०॥
१८७.४१/१व्यास उवाच । नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
१८७.४१/२कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ॥ १८७.४१॥
१८७.४२/१कृष्ण उवाच । न वयं कृषिकर्तारो वणिज्याजीविनो न च ।
१८७.४२/२गावोऽस्मद्दैवतं तात वयं वनचरा यतः ॥ १८७.४२॥
१८७.४३/१आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा ।
१८७.४३/२विद्याचतुष्टयं त्वेतद् वार्त्तामत्र शृणुष्व मे ॥ १८७.४३॥
१८७.४४/१कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।
१८७.४४/२विद्या ह्येता महाभागा वार्त्ता वृत्तित्रयाश्रया ॥ १८७.४४॥
१८७.४५/१कर्षकाणां कृषिर्वृत्तिः पण्यं तु पणजीविनाम् ।
१८७.४५/२अस्माकं गाः परा वृत्तिर्वार्त्ता भेदैरियं त्रिभिः ॥ १८७.४५॥
१८७.४६/१विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।
१८७.४६/२सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥ १८७.४६॥
१८७.४७/१योऽन्यस्याः फलमश्नन् वै पूजयत्यपरां नरः ।
१८७.४७/२इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥ १८७.४७॥
१८७.४८/१पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर्वनम् ।
१८७.४८/२वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ॥ १८७.४८॥
१८७.४९/१गिरियज्ञस्त्वयं तस्माद् गोयज्ञश्च प्रवर्त्यताम् ।
१८७.४९/२किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ १८७.४९॥
१८७.५०/१मन्त्रयज्ञपरा विप्राः सीरयज्ञाश्च कर्षकाः ।
१८७.५०/२गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ १८७.५०॥
१८७.५१/१तस्माद् गोवर्धनः शैलो भवद्भिर्विविधार्हणैः ।
१८७.५१/२अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥ १८७.५१॥
१८७.५२/१सर्वघोषस्य संदोहा गृह्यन्तां मा विचार्यताम् ।
१८७.५२/२भोज्यन्तां तेन वै विप्रास्तथान्ये चापि वाञ्छकाः ॥ १८७.५२॥
१८७.५३/१तमर्चितं कृते होमे भोजितेषु द्विजातिषु ।
१८७.५३/२शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ १८७.५३॥
१८७.५४/१एतन् मम मतं गोपाः सम्प्रीत्या क्रियते यदि ।
१८७.५४/२ततः कृता भवेत् प्रीतिर्गवामद्रेस्तथा मम ॥ १८७.५४॥
१८७.५५/१व्यास उवाच । इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः ।
१८७.५५/२प्रीत्युत्फुल्लमुखा विप्राः साधु साध्वित्यथाब्रुवन् ॥ १८७.५५॥
१८७.५६/१शोभनं ते मतं वत्स यद् एतद् भवतोदितम् ।
१८७.५६/२तत् करिष्याम्यहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ १८७.५६॥
१८७.५७/१तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः ।
१८७.५७/२दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ १८७.५७॥
१८७.५८/१द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः ।
१८७.५८/२गावः शैलं ततश्चक्रुरर्चितास्तं प्रदक्षिणम् ॥ १८७.५८॥
१८७.५९/१वृषभाश्चाभिनर्दन्तः सतोया जलदा इव ।
१८७.५९/२गिरिमूर्धनि गोविन्दः शैलोऽहमिति मूर्तिमान् ॥ १८७.५९॥
१८७.६०/१बुभुजेऽन्नं बहुविधं गोपवर्याहृतं द्विजाः ।
१८७.६०/२कृष्णस्तेनैव रूपेण गोपैः सह गिरेः शिरः ॥ १८७.६०॥
१८७.६१/१अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ।
१८७.६१/२अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् ।
१८७.६१/३कृत्वा गिरिमहं गोष्ठं निजमभ्याययुः पुनः ॥ १८७.६१॥
१८८.१/१व्यास उवाच । महे प्रतिहते शक्रो भृशं कोपसमन्वितः ।
१८८.१/२संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १८८.१॥
१८८.२/१इन्द्र उवाच । भो भो मेघा निशम्यैतद् वदतो वचनं मम ।
१८८.२/२आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ १८८.२॥
१८८.३/१नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् ।
१८८.३/२कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत् ॥ १८८.३॥
१८८.४/१आजीवो यः परं तेषां गोपत्वस्य च कारणम् ।
१८८.४/२ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम ॥ १८८.४॥
१८८.५/१अहमप्यद्रिशृङ्गाभं तुङ्गमारुह्य वारणम् ।
१८८.५/२साहाय्यं वः करिष्यामि वायूनां संगमेन च ॥ १८८.५॥
१८८.६/१व्यास उवाच । इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः ।
१८८.६/२वातवर्षं महाभीममभावाय गवां द्विजाः ॥ १८८.६॥
१८८.७/१ततः क्षणेन धरणी ककुभोऽम्बरमेव च ।
१८८.७/२एकं धारामहासार+ ।पूरणेनाभवद् द्विजाः ॥ १८८.७॥
१८८.८/१गावस्तु तेन पतता वर्षवातेन वेगिना ।
१८८.८/२धुताः प्राणाञ् जहुः सर्वास्तिर्यङ्मुखशिरोधराः ॥ १८८.८॥
१८८.९/१क्रोडेन वत्सान् आक्रम्य तस्थुरन्या द्विजोत्तमाः ।
१८८.९/२गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ १८८.९॥
१८८.१०/१वत्साश्च दीनवदनाः पवनाकम्पिकंधराः ।
१८८.१०/२त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवार्तकाः ॥ १८८.१०॥
१८८.११/१ततस्तद् गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
१८८.११/२अतीवार्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत् तदा ॥ १८८.११॥
१८८.१२/१एतत् कृतं महेन्द्रेण महभङ्गविरोधिना ।
१८८.१२/२तद् एतद् अखिलं गोष्ठं त्रातव्यमधुना मया ॥ १८८.१२॥
१८८.१३/१इममद्रिमहं वीर्याद् उत्पाट्योरुशिलातलम् ।
१८८.१३/२धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रमिवोपरि ॥ १८८.१३॥
१८८.१४/१व्यास उवाच । इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् ।
१८८.१४/२उत्पाट्यैककरेणैव धारयामास लीलया ॥ १८८.१४॥
१८८.१५/१गोपांश्चाह जगन्नाथः समुत्पाटितभूधरः ।
१८८.१५/२विशध्वमत्र सहिताः कृतं वर्षनिवारणम् ॥ १८८.१५॥
१८८.१६/१सुनिर्वातेषु देशेषु यथायोग्यमिहास्यताम् ।
१८८.१६/२प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥ १८८.१६॥
१८८.१७/१इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह ।
१८८.१७/२शकटारोपितैर्भाण्डैर्गोप्यश्चासारपीडिताः ॥ १८८.१७॥
१८८.१८/१कृष्णोऽपि तं दधारैवं शैलमत्यन्तनिश्चलम् ।
१८८.१८/२व्रजौकोवासिभिर्हर्ष+ ।विस्मिताक्षैर्निरीक्षितः ॥ १८८.१८॥
१८८.१९/१गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः ।
१८८.१९/२संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ १८८.१९॥
१८८.२०/१सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले ।
१८८.२०/२इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥ १८८.२०॥
१८८.२१/१ततो धृते महाशैले परित्राते च गोकुले ।
१८८.२१/२मिथ्याप्रतिज्ञो बलभिद् वारयामास तान् घनान् ॥ १८८.२१॥
१८८.२२/१व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते ।
१८८.२२/२निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत् ॥ १८८.२२॥
१८८.२३/१मुमोच कृष्णोऽपि तदा गोवर्धनमहागिरिम् ।
१८८.२३/२स्वस्थाने विस्मितमुखैर्दृष्टस्तैर्व्रजवासिभिः ॥ १८८.२३॥
१८८.२४/१व्यास उवाच । धृते गोवर्धने शैले परित्राते च गोकुले ।
१८८.२४/२रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ १८८.२४॥
१८८.२५/१सोऽधिरुह्य महानागमैरावतममित्रजित् ।
१८८.२५/२गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥ १८८.२५॥
१८८.२६/१चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम् ।
१८८.२६/२कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ १८८.२६॥
१८८.२७/१गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः ।
१८८.२७/२कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ॥ १८८.२७॥
१८८.२८/१अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम् ।
१८८.२८/२शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ॥ १८८.२८॥
१८८.२९/१इन्द्र उवाच । कृष्ण कृष्ण शृणुष्वेदं यदर्थमहमागतः ।
१८८.२९/२त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयान्यथा ॥ १८८.२९॥
१८८.३०/१भारावतरणार्धाय पृथिव्याः पृथिवीतलम् ।
१८८.३०/२अवतीर्णोऽखिलाधारस्त्वमेव परमेश्वर ॥ १८८.३०॥
१८८.३१/१महभङ्गविरुद्धेन मया गोकुलनाशकाः ।
१८८.३१/२समादिष्टा महामेघास्तैश्चैतत् कदनं कृतम् ॥ १८८.३१॥
१८८.३२/१त्रातास्तापात् त्वया गावः समुत्पाट्य महागिरिम् ।
१८८.३२/२तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥ १८८.३२॥
१८८.३३/१साधितं कृष्ण देवानामद्य मन्ये प्रयोजनम् ।
१८८.३३/२त्वयायमद्रिप्रवरः करेणैकेन चोद्धृतः ॥ १८८.३३॥
१८८.३४/१गोभिश्च नोदितः कृष्ण त्वत्समीपमिहागतः ।
१८८.३४/२त्वया त्राताभिरत्यर्थं युष्मत्कारणकारणात् ॥ १८८.३४॥
१८८.३५/१स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।
१८८.३५/२उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥ १८८.३५॥
१८८.३६/१अथोपवाह्याद् आदाय घण्टामैरावताद् गजात् ।
१८८.३६/२अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ १८८.३६॥
१८८.३७/१क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
१८८.३७/२प्रस्रवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुंधराम् ॥ १८८.३७॥
१८८.३८/१अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम् ।
१८८.३८/२प्रीत्या सप्रश्रयं कृष्णं पुनराह शचीपतिः ॥ १८८.३८॥
१८८.३९/१इन्द्र उवाच । गवामेतत् कृतं वाक्यात् तथान्यद् अपि मे शृणु ।
१८८.३९/२यद् ब्रवीमि महाभाग भारावतरणेच्छया ॥ १८८.३९॥
१८८.४०/१ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर ।
१८८.४०/२अवतीर्णोऽर्जुनो नाम स रक्ष्यो भवता सदा ॥ १८८.४०॥
१८८.४१/१भारावतरणे सख्यं स ते वीरः करिष्यति ।
१८८.४१/२स रक्षणीयो भवता यथात्मा मधुसूदन ॥ १८८.४१॥
१८८.४२/१श्रीभगवान् उवाच । जानामि भारते वंशे जातं पार्थं तवांशतः ।
१८८.४२/२तमहं पालयिष्यामि यावद् अस्मि महीतले ॥ १८८.४२॥
१८८.४३/१यावन् महीतले शक्र स्थास्याम्यहमरिंदम ।
१८८.४३/२न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति ॥ १८८.४३॥
१८८.४४/१कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथा परः ।
१८८.४४/२केशी कुवलयापीडो नरकाद्यास्तथापरे ॥ १८८.४४॥
१८८.४५/१हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
१८८.४५/२तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ १८८.४५॥
१८८.४६/१स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि ।
१८८.४६/२नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति ॥ १८८.४६॥
१८८.४७/१अर्जुनार्थे त्वहं सर्वान् युधिष्ठिरपुरोगमान् ।
१८८.४७/२निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान् ॥ १८८.४७॥
१८८.४८/१व्यास उवाच । इत्युक्तः सम्परिष्वज्य देवराजो जनार्दनम् ।
१८८.४८/२आरुह्यैरावतं नागं पुनरेव दिवं ययौ ॥ १८८.४८॥
१८८.४९/१कृष्णोऽपि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।
१८८.४९/२आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥ १८८.४९॥
१८९.१/१व्यास उवाच । गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
१८९.१/२ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १८९.१॥
१८९.२/१गोपा ऊचुः । वयमस्मान् महाभाग भवता महतो भयात् ।
१८९.२/२गावश्च भवता त्राता गिरिधारणकर्मणा ॥ १८९.२॥
१८९.३/१बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् ।
१८९.३/२दिव्यं च कर्म भवतः किमेतत् तात कथ्यताम् ॥ १८९.३॥
१८९.४/१कालियो दमितस्तोये प्रलम्बो विनिपातितः ।
१८९.४/२धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ १८९.४॥
१८९.५/१सत्यं सत्यं हरेः पादौ श्रयामोऽमितविक्रम ।
१८९.५/२यथा त्वद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ १८९.५॥
१८९.६/१देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
१८९.६/२किं चास्माकं विचारेण बान्धवोऽस्ति नमोऽस्तु ते ॥ १८९.६॥
१८९.७/१प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव ।
१८९.७/२कर्म चेदमशक्यं यत् समस्तैस्त्रिदशैरपि ॥ १८९.७॥
१८९.८/१बालत्वं चातिवीर्यं च जन्म चास्मास्वशोभनम् ।
१८९.८/२चिन्त्यमानममेयात्मञ् शङ्कां कृष्ण प्रयच्छति ॥ १८९.८॥
१८९.९/१व्यास उवाच । क्षणं भूत्वा त्वसौ तूष्णीं किंचित् प्रणयकोपवान् ।
१८९.९/२इत्येवमुक्तस्तैर्गोपैराह कृष्णो द्विजोत्तमाः ॥ १८९.९॥
१८९.१०/१श्रीकृष्ण उवाच । मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते ।
१८९.१०/२श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ १८९.१०॥
१८९.११/१यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
१८९.११/२तद् अर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि ॥ १८९.११॥
१८९.१२/१नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
१८९.१२/२अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथा ॥ १८९.१२॥
१८९.१३/१व्यास उवाच । इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो बलम् ।
१८९.१३/२ययुर्गोपा महाभागास्तस्मिन् प्रणयकोपिनि ॥ १८९.१३॥
१८९.१४/१कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् ।
१८९.१४/२तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ १८९.१४॥
१८९.१५/१वनराजीं तथा कूजद्+ ।भृङ्गमालामनोरमाम् ।
१८९.१५/२विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ १८९.१५॥
१८९.१६/१सह रामेण मधुरमतीव वनिताप्रियम् ।
१८९.१६/२जगौ कमलपादोऽसौ नाम तत्र कृतव्रतः ॥ १८९.१६॥
१८९.१७/१रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा ।
१८९.१७/२आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १८९.१७॥
१८९.१८/१शनैः शनैर्जगौ गोपी काचित् तस्य पदानुगा ।
१८९.१८/२दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ १८९.१८॥
१८९.१९/१काचित् कृष्णेति कृष्णेति चोक्त्वा लज्जामुपाययौ ।
१८९.१९/२ययौ च काचित् प्रेमान्धा तत्पार्श्वमविलज्जिता ॥ १८९.१९॥
१८९.२०/१काचिद् आवसथस्यान्तः स्थित्वा दृष्ट्वा बहिर्गुरुम् ।
१८९.२०/२तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ १८९.२०॥
१८९.२१/१गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् ।
१८९.२१/२मानयामास गोविन्दो रासारम्भरसोत्सुकः ॥ १८९.२१॥
१८९.२२/१गोप्यश्च वृन्दशः कृष्ण+ ॅहेष्टाभ्यायत्तमूर्तयः ।
१८९.२२/२अन्यदेशगते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ १८९.२२॥
१८९.२३/१बभ्रमुस्तास्ततो गोप्यः कृष्णदर्शनलालसाः ।
१८९.२३/२कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः ॥ १८९.२३॥
१८९.२४/१एवं नानाप्रकारासु कृष्णचेष्टासु तासु च ।
१८९.२४/२गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥ १८९.२४॥
१८९.२५/१निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने ।
१८९.२५/२यमुनातीरमागम्य जगुस्तच्चरितं द्विजाः ॥ १८९.२५॥
१८९.२६/१ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् ।
१८९.२६/२गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टकारिणम् ॥ १८९.२६॥
१८९.२७/१काचिद् आलोक्य गोविन्दमायान्तमतिहर्षिता ।
१८९.२७/२कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना ॥ १८९.२७॥
१८९.२८/१काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
१८९.२८/२विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ १८९.२८॥
१८९.२९/१काचिद् आलोक्य गोविन्दं निमीलितविलोचना ।
१८९.२९/२तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ १८९.२९॥
१८९.३०/१ततः कांचित् प्रियालापैः कांचिद् भ्रूभङ्गवीक्षितैः ।
१८९.३०/२निन्येऽनुनयमन्याश्च करस्पर्शेन माधवः ॥ १८९.३०॥
१८९.३१/१ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् ।
१८९.३१/२रराम रासगोष्ठीभिरुदारचरितो हरिः ॥ १८९.३१॥
१८९.३२/१रासमण्डलबद्धोऽपि कृष्णपार्श्वमनूद्गता ।
१८९.३२/२गोपीजनो न चैवाभूद् एकस्थानस्थिरात्मना ॥ १८९.३२॥
१८९.३३/१हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् ।
१८९.३३/२चकार च करस्पर्श+ ंइमीलितदृशं हरिः ॥ १८९.३३॥
१८९.३४/१ततः प्रववृते रम्या चलद्वलयनिस्वनैः ।
१८९.३४/२अनुयातशरत्काव्य+ ।गेयगीतिरनुक्रमाम् ॥ १८९.३४॥
१८९.३५/१कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् ।
१८९.३५/२जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः ॥ १८९.३५॥
१८९.३६/१परिवृत्ता श्रमेणैका चलद्वलयतापिनी ।
१८९.३६/२ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः ॥ १८९.३६॥
१८९.३७/१काचित् प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् ।
१८९.३७/२गोपी गीतस्तुतिव्याज+ ंइपुणा मधुसूदनम् ॥ १८९.३७॥
१८९.३८/१गोपीकपोलसंश्लेषमभिपद्य हरेर्भुजौ ।
१८९.३८/२पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ १८९.३८॥
१८९.३९/१रासगेयं जगौ कृष्णो यावत् तारतरध्वनिः ।
१८९.३९/२साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः ॥ १८९.३९॥
१८९.४०/१गतेऽनुगमनं चक्रुर्वलने सम्मुखं ययुः ।
१८९.४०/२प्रतिलोमानुलोमेन भेजुर्गोपाङ्गना हरिम् ॥ १८९.४०॥
१८९.४१/१स तदा सह गोपीभी रराम मधुसूदनः ।
१८९.४१/२स वर्षकोटिप्रतिमः क्षणस्तेन विनाभवत् ॥ १८९.४१॥
१८९.४२/१ता वार्यमाणाः पितृभिः पतिभिर्भ्रातृभिस्तथा ।
१८९.४२/२कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ १८९.४२॥
१८९.४३/१सोऽपि कैशोरकवया मानयन् मधुसूदनः ।
१८९.४३/२रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ॥ १८९.४३॥
१८९.४४/१तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
१८९.४४/२आत्मस्वरूपरूपोऽसौ व्याप्य सर्वमवस्थितः ॥ १८९.४४॥
१८९.४५/१यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् ।
१८९.४५/२वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ १८९.४५॥
१८९.४६/१व्यास उवाच । प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने ।
१८९.४६/२त्रासयन् समदो गोष्ठान् अरिष्टः समुपागतः ॥ १८९.४६॥
१८९.४७/१सतोयतोयदाकारस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
१८९.४७/२खुराग्रपातैरत्यर्थं दारयन् धरणीतलम् ॥ १८९.४७॥
१८९.४८/१लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः ।
१८९.४८/२संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः ॥ १८९.४८॥
१८९.४९/१उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः ।
१८९.४९/२विण्मूत्रालिप्तपृष्ठाङ्गो गवामुद्वेगकारकः ॥ १८९.४९॥
१८९.५०/१प्रलम्बकण्ठोऽभिमुखस्तरुघाताङ्किताननः ।
१८९.५०/२पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक् ॥ १८९.५०॥
१८९.५१/१सूदयंस्तरसा सर्वान् वनान्यटति यः सदा ।
१८९.५१/२ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ॥ १८९.५१॥
१८९.५२/१गोपा गोपस्त्रियश्चैव कृष्ण कृष्णेति चुक्रुशुः ।
१८९.५२/२सिंहनादं ततश्चक्रे तलशब्दं च केशवः ॥ १८९.५२॥
१८९.५३/१तच्छब्दश्रवणाच्चासौ दामोदरमुखं ययौ ।
१८९.५३/२अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ॥ १८९.५३॥
१८९.५४/१अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् ।
१८९.५४/२आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम् ॥ १८९.५४॥
१८९.५५/१न चचाल ततः स्थानाद् अवज्ञास्मितलीलया ।
१८९.५५/२आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः ॥ १८९.५५॥
१८९.५६/१जघान जानुना कुक्षौ विषाणग्रहणाचलम् ।
१८९.५६/२तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः ॥ १८९.५६॥
१८९.५७/१आपीडयद् अरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् ।
१८९.५७/२उत्पाट्य शृङ्गमेकं च तेनैवाताडयत् ततः ॥ १८९.५७॥
१८९.५८/१ममार स महादैत्यो मुखाच्छोणितमुद्वमन् ।
१८९.५८/२तुष्टुवुर्निहते तस्मिन् गोपा दैत्ये जनार्दनम् ।
१८९.५८/३जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥ १८९.५८॥
१९०.१/१व्यास उवाच । ककुद्मिनि हतेऽरिष्टे धेनुके च निपातिते ।
१९०.१/२प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १९०.१॥
१९०.२/१दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये ।
१९०.२/२हतायां पूतनायां च शकटे परिवर्तिते ॥ १९०.२॥
१९०.३/१कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
१९०.३/२यशोदादेवकीगर्भ+ ।परिवर्ताद्यशेषतः ॥ १९०.३॥
१९०.४/१श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात् ।
१९०.४/२वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥ १९०.४॥
१९०.५/१सोऽतिकोपाद् उपालभ्य सर्वयादवसंसदि ।
१९०.५/२जगर्हे यादवांश्चापि कार्यं चैतद् अचिन्तयत् ॥ १९०.५॥
१९०.६/१यावन् न बलमारूढौ बलकृष्णौ सुबालकौ ।
१९०.६/२तावद् एव मया वध्यावसाध्यौ रूढयौवनौ ॥ १९०.६॥
१९०.७/१चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः ।
१९०.७/२एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥ १९०.७॥
१९०.८/१धनुर्महमहायाग+ ।व्याजेनानीय तौ व्रजात् ।
१९०.८/२तथा तथा करिष्यामि यास्यतः संक्षयं यथा ॥ १९०.८॥
१९०.९/१व्यास उवाच । इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
१९०.९/२हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ॥ १९०.९॥
१९०.१०/१कंस उवाच । भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
१९०.१०/२इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १९०.१०॥
१९०.११/१वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ ।
१९०.११/२नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ १९०.११॥
१९०.१२/१धनुर्महमहायागश्चतुर्दश्यां भविष्यति ।
१९०.१२/२आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥ १९०.१२॥
१९०.१३/१चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
१९०.१३/२ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ १९०.१३॥
१९०.१४/१नागः कुवलयापीडो महामात्रप्रचोदितः ।
१९०.१४/२स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥ १९०.१४॥
१९०.१५/१तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
१९०.१५/२हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥ १९०.१५॥
१९०.१६/१ततः समस्तगोपानां गोधनान्यखिलान्यहम् ।
१९०.१६/२वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९०.१६॥
१९०.१७/१त्वाम् ऋते यादवाश्चेमे दुष्टा दानपते मम ।
१९०.१७/२एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात् ॥ १९०.१७॥
१९०.१८/१ततो निष्कण्टकं सर्वं राज्यमेतद् अयादवम् ।
१९०.१८/२प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम् ॥ १९०.१८॥
१९०.१९/१यथा च माहिषं सर्पिर्दधि चाप्युपहार्य वै ।
१९०.१९/२गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ॥ १९०.१९॥
१९०.२०/१व्यास उवाच । इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्विजाः ।
१९०.२०/२प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥ १९०.२०॥
१९०.२१/१तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः ।
१९०.२१/२निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥ १९०.२१॥
१९०.२२/१व्यास उवाच । केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
१९०.२२/२कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ १९०.२२॥
१९०.२३/१स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः ।
१९०.२३/२पुनर्विक्रान्तचन्द्रार्क+ ंआर्गो गोपान्तमागमत् ॥ १९०.२३॥
१९०.२४/१तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः ।
१९०.२४/२गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ १९०.२४॥
१९०.२५/१त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः ।
१९०.२५/२सतोयजलदध्वान+ ।गम्भीरमिदमुक्तवान् ॥ १९०.२५॥
१९०.२६/१गोविन्द उवाच । अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
१९०.२६/२भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ॥ १९०.२६॥
१९०.२७/१किमनेनाल्पसारेण ह्रेषितारोपकारिणा ।
१९०.२७/२दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ १९०.२७॥
१९०.२८/१एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृक् ।
१९०.२८/२पातयिष्यामि दशनान् वदनाद् अखिलांस्तव ॥ १९०.२८॥
१९०.२९/१व्यास उवाच । इत्युक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ ।
१९०.२९/२विवृतास्यश्च सोऽप्येनं दैतेयश्च उपाद्रवत् ॥ १९०.२९॥
१९०.३०/१बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः ।
१९०.३०/२प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ १९०.३०॥
१९०.३१/१केशिनो वदनं तेन विशता कृष्णबाहुना ।
१९०.३१/२शातिता दशनास्तस्य सिताभ्रावयवा इव ॥ १९०.३१॥
१९०.३२/१कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः ।
१९०.३२/२विनाशाय यथा व्याधिराप्तभूतैरुपेक्षितः ॥ १९०.३२॥
१९०.३३/१विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् ।
१९०.३३/२सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥ १९०.३३॥
१९०.३४/१जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
१९०.३४/२स्वेदार्द्रगात्रः श्रान्तश्च निर्यत्नः सोऽभवत् ततः ॥ १९०.३४॥
१९०.३५/१व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।
१९०.३५/२निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥ १९०.३५॥
१९०.३६/१द्विपादपृष्ठपुच्छार्ध+ ।श्रवणैकाक्षनासिके ।
१९०.३६/२केशिनस्ते द्विधा भूते शकले च विरेजतुः ॥ १९०.३६॥
१९०.३७/१हत्वा तु केशिनं कृष्णो मुदितैर्गोपकैर्वृतः ।
१९०.३७/२अनायस्ततनुः स्वस्थो हसंस्तत्रैव संस्थितः ॥ १९०.३७॥
१९०.३८/१ततो गोपाश्च गोप्यश्च हते केशिनि विस्मिताः ।
१९०.३८/२तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ १९०.३८॥
१९०.३९/१आययौ त्वरितो विप्रो नारदो जलदस्थितः ।
१९०.३९/२केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ १९०.३९॥
१९०.४०/१नारद उवाच । साधु साधु जगन्नाथ लीलयैव यद् अच्युत ।
१९०.४०/२निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥ १९०.४०॥
१९०.४१/१सुकर्माण्यवतारे तु कृतानि मधुसूदन ।
१९०.४१/२यानि वै विस्मितं चेतस्तोषमेतेन मे गतम् ॥ १९०.४१॥
१९०.४२/१तुरगस्यास्य शक्रोऽपि कृष्ण देवाश्च बिभ्यति ।
१९०.४२/२धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः ॥ १९०.४२॥
१९०.४३/१यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
१९०.४३/२तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥ १९०.४३॥
१९०.४४/१स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
१९०.४४/२परश्वोऽहं समेष्यामि त्वया केशिनिषूदन ॥ १९०.४४॥
१९०.४५/१उग्रसेनसुते कंसे सानुगे विनिपातिते ।
१९०.४५/२भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥ १९०.४५॥
१९०.४६/१तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् ।
१९०.४६/२द्रष्टव्यानि मया युष्मत्+ ।प्रणीतानि जनार्दन ॥ १९०.४६॥
१९०.४७/१सोऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् ।
१९०.४७/२त्वया सभाजितश्चाहं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ १९०.४७॥
१९०.४८/१व्यास उवाच । नारदे तु गते कृष्णः सह गोपैरविस्मितः ।
१९०.४८/२विवेश गोकुलं गोपी+ ंएत्रपानैकभाजनम् ॥ १९०.४८॥
१९१.१/१व्यास उवाच । अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
१९१.१/२कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले ॥ १९१.१॥
१९१.२/१चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
१९१.२/२योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ १९१.२॥
१९१.३/१अद्य मे सफलं जन्म सुप्रभाता च मे निशा ।
१९१.३/२यद् उन्निद्राब्जपत्त्राक्षं विष्णोर्द्रक्ष्याम्यहम् मुखम् ॥ १९१.३॥
१९१.४/१पापं हरति यत् पुंसां स्मृतं संकल्पनामयम् ।
१९१.४/२तत् पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ १९१.४॥
१९१.५/१निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च ।
१९१.५/२द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम् ॥ १९१.५॥
१९१.६/१यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
१९१.६/२इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ १९१.६॥
१९१.७/१इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
१९१.७/२अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ १९१.७॥
१९१.८/१न ब्रह्मा नेन्द्ररुद्राश्वि+ ।वस्वादित्यमरुद्गणाः ।
१९१.८/२यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः ॥ १९१.८॥
१९१.९/१सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः ।
१९१.९/२यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥ १९१.९॥
१९१.१०/१मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् ।
१९१.१०/२चकार योगतो योगं स मामालापयिष्यति ॥ १९१.१०॥
१९१.११/१साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् ।
१९१.११/२कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः ॥ १९१.११॥
१९१.१२/१योऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् ।
१९१.१२/२सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ १९१.१२॥
१९१.१३/१पितृबन्धुसुहृद्भ्रातृ+ ंआतृबन्धुमयीमिमाम् ।
१९१.१३/२यन्मायां नालमुद्धर्तुं जगत् तस्मै नमो नमः ॥ १९१.१३॥
१९१.१४/१तरन्त्यविद्यां विततां हृदि यस्मिन् निवेशिते ।
१९१.१४/२योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः ॥ १९१.१४॥
१९१.१५/१यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः ।
१९१.१५/२वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १९१.१५॥
१९१.१६/१तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम् ।
१९१.१६/२सदसत्त्वं स सत्त्वेन मय्यसौ यातु सौम्यताम् ॥ १९१.१६॥
१९१.१७/१स्मृते सकलकल्याण+ ।भाजनं यत्र जायते ।
१९१.१७/२पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥ १९१.१७॥
१९१.१८/१व्यास उवाच । इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः ।
१९१.१८/२अक्रूरो गोकुलं प्राप्तः किंचित् सूर्ये विराजति ॥ १९१.१८॥
१९१.१९/१स ददर्श तदा तत्र कृष्णमादोहने गवाम् ।
१९१.१९/२वत्समध्यगतं फुल्ल+ ंईलोत्पलदलच्छविम् ॥ १९१.१९॥
१९१.२०/१प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् ।
१९१.२०/२प्रलम्बबाहुमायाम+ ।तुङ्गोरस्थलमुन्नसम् ॥ १९१.२०॥
१९१.२१/१सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
१९१.२१/२तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ १९१.२१॥
१९१.२२/१बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
१९१.२२/२सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥ १९१.२२॥
१९१.२३/१हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः ।
१९१.२३/२तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ १९१.२३॥
१९१.२४/१प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् ।
१९१.२४/२मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ १९१.२४॥
१९१.२५/१तौ दृष्ट्वा विकसद्वक्त्र+ ।सरोजः स महामतिः ।
१९१.२५/२पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽभवद् द्विजाः ॥ १९१.२५॥
१९१.२६/१य एतत् परमं धाम एतत् तत् परमं पदम् ।
१९१.२६/२अभवद् वासुदेवोऽसौ द्विधा योऽयं व्यवस्थितः ॥ १९१.२६॥
१९१.२७/१साफल्यमक्ष्णोर्युगपन् ममास्तु ।
१९१.२७/२दृष्टे जगद्धातरि हासमुच्चैः ।
१९१.२७/३अप्यङ्गमेतद् भगवत्प्रसादाद् ।
१९१.२७/४दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात् ॥ १९१.२७॥
१९१.२८/१अद्यैव स्पृष्ट्वा मम हस्तपद्मम् ।
१९१.२८/२करिष्यति श्रीमदनन्तमूर्तिः ।
१९१.२८/३यस्याङ्गुलिस्पर्शहताखिलाघैर्।
१९१.२८/४अवाप्यते सिद्धिरनुत्तमा नरैः ॥ १९१.२८॥
१९१.२९/१तथाश्विरुद्रेन्द्रवसुप्रणीता ।
१९१.२९/२देवाः प्रयच्छन्ति वरं प्रहृष्टाः ।
१९१.२९/३चक्रं घ्नता दैत्यपतेर्हृतानि ।
१९१.२९/४दैत्याङ्गनानां नयनान्तराणि ॥ १९१.२९॥
१९१.३०/१यत्राम्बु विन्यस्य बलिर्मनोभ्याम् ।
१९१.३०/२अवाप भोगान् वसुधातलस्थः ।
१९१.३०/३तथामरेशस्त्रिदशाधिपत्यम् ।
१९१.३०/४मन्वन्तरं पूर्णमवाप शक्रः ॥ १९१.३०॥
१९१.३१/१अथेश मां कंसपरिग्रहेण ।
१९१.३१/२दोषास्पदीभूतमदोषयुक्तम् ।
१९१.३१/३कर्ता न मानोपहितं धिग् अस्तु ।
१९१.३१/४यस्मान् मनः साधुबहिष्कृतो यः ॥ १९१.३१॥
१९१.३२/१ज्ञानात्मकस्याखिलसत्त्वराशेर्।
१९१.३२/२व्यावृत्तदोषस्य सदास्फुटस्य ।
१९१.३२/३किं वा जगत्यत्र समस्तपुंसाम् ।
१९१.३२/४अज्ञातमस्यास्ति हृदि स्थितस्य ॥ १९१.३२॥
१९१.३३/१तस्माद् अहं भक्तिविनम्रगात्रो ।
१९१.३३/२व्रजामि विश्वेश्वरमीश्वराणाम् ।
१९१.३३/३अंशावतारं पुरुषोत्तमस्य ।
१९१.३३/४अनादिमध्यान्तमजस्य विष्णोः ॥ १९१.३३॥
१९२.१/१व्यास उवाच । चिन्तयन्न् इति गोविन्दमुपगम्य स यादवः ।
१९२.१/२अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ॥ १९२.१॥
१९२.२/१सोऽप्येनं ध्वजवज्राब्ज+ ।कृतचिह्नेन पाणिना ।
१९२.२/२संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ १९२.२॥
१९२.३/१कृतसंवदनौ तेन यथावद् बलकेशवौ ।
१९२.३/२ततः प्रविष्टौ सहसा तमादायात्ममन्दिरम् ॥ १९२.३॥
१९२.४/१सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः ।
१९२.४/२भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ॥ १९२.४॥
१९२.५/१यथा निर्भर्त्सितस्तेन कंसेनानकदुन्दुभिः ।
१९२.५/२यथा च देवकी देवी दानवेन दुरात्मना ॥ १९२.५॥
१९२.६/१उग्रसेने यथा कंसः स दुरात्मा च वर्तते ।
१९२.६/२यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः ॥ १९२.६॥
१९२.७/१तत् सर्वं विस्तराच्छ्रुत्वा भगवान् केशिसूदनः ।
१९२.७/२उवाचाखिलमेतत् तु ज्ञातं दानपते मया ॥ १९२.७॥
१९२.८/१करिष्ये च महाभाग यद् अत्रौपायिकं मतम् ।
१९२.८/२विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ॥ १९२.८॥
१९२.९/१अहं रामश्च मथुरां श्वो यास्यावः समं त्वया ।
१९२.९/२गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु ॥ १९२.९॥
१९२.१०/१निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
१९२.१०/२त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥ १९२.१०॥
१९२.११/१व्यास उवाच । समादिश्य ततो गोपान् अक्रूरोऽपि सकेशवः ।
१९२.११/२सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः ॥ १९२.११॥
१९२.१२/१ततः प्रभाते विमले रामकृष्णौ महाबलौ ।
१९२.१२/२अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १९२.१२॥
१९२.१३/१दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः ।
१९२.१३/२निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम् ॥ १९२.१३॥
१९२.१४/१मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
१९२.१४/२नागरस्त्रीकलालाप+ ंअधु श्रोत्रेण पास्यति ॥ १९२.१४॥
१९२.१५/१विलासिवाक्यजातेषु नागरीणां कृतास्पदम् ।
१९२.१५/२चित्तमस्य कथं ग्राम्य+ ।गोपगोपीषु यास्यति ॥ १९२.१५॥
१९२.१६/१सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
१९२.१६/२प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥ १९२.१६॥
१९२.१७/१भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
१९२.१७/२नागरीणामतीवैतत् कटाक्षेक्षितमेव तु ॥ १९२.१७॥
१९२.१८/१ग्राम्यो हरिरयं तासां विलासनिगडैर्यतः ।
१९२.१८/२भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ १९२.१८॥
१९२.१९/१एषो हि रथमारुह्य मथुरां याति केशवः ।
१९२.१९/२अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥ १९२.१९॥
१९२.२०/१किं न वेत्ति नृशंसोऽयमनुरागपरं जनम् ।
१९२.२०/२येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम् ॥ १९२.२०॥
१९२.२१/१एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
१९२.२१/२रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ १९२.२१॥
१९२.२२/१गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् ।
१९२.२२/२गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ १९२.२२॥
१९२.२३/१नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः ।
१९२.२३/२नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने ॥ १९२.२३॥
१९२.२४/१सुप्रभाताद्य रजनी मथुरावासियोषिताम् ।
१९२.२४/२यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥ १९२.२४॥
१९२.२५/१धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः ।
१९२.२५/२उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ १९२.२५॥
१९२.२६/१मथुरानगरीपौर+ ंअयनानां महोत्सवः ।
१९२.२६/२गोविन्दवदनालोकाद् अतीवाद्य भविष्यति ॥ १९२.२६॥
१९२.२७/१को नु स्वप्नः सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
१९२.२७/२विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम् ॥ १९२.२७॥
१९२.२८/१अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
१९२.२८/२उद्धृतान्यद्य नेत्राणि विधात्राकरुणात्मना ॥ १९२.२८॥
१९२.२९/१अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः ।
१९२.२९/२शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ १९२.२९॥
१९२.३०/१अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् ।
१९२.३०/२एवमार्तासु योषित्सु घृणा कस्य न जायते ॥ १९२.३०॥
१९२.३१/१हे हे कृष्ण रथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् ।
१९२.३१/२दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते ॥ १९२.३१॥
१९२.३२/१इत्येवमतिहार्देन गोपीजननिरीक्षितः ।
१९२.३२/२तत्याज व्रजभूभागं सह रामेण केशवः ॥ १९२.३२॥
१९२.३३/१गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
१९२.३३/२प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥ १९२.३३॥
१९२.३४/१अथाह कृष्णमक्रूरो भवद्भ्यां तावद् आस्यताम् ।
१९२.३४/२यावत् करोमि कालिन्द्यामाह्निकार्हणमम्भसि ॥ १९२.३४॥
१९२.३५/१तथेत्युक्ते ततः स्नातः स्वाचान्तः स महामतिः ।
१९२.३५/२दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले ॥ १९२.३५॥
१९२.३६/१फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
१९२.३६/२कुन्दामलाङ्गमुन्निद्र+ ।पद्मपत्त्रायतेक्षणम् ॥ १९२.३६॥
१९२.३७/१वृतं वासुकिडिम्भौघैर्महद्भिः पवनाशिभिः ।
१९२.३७/२संस्तूयमानमुद्गन्धि+ ।वनमालाविभूषितम् ॥ १९२.३७॥
१९२.३८/१दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
१९२.३८/२चारुकुण्डलिनं मत्तमन्तर्जलतले स्थितम् ॥ १९२.३८॥
१९२.३९/१तस्योत्सङ्गे घनश्याममाताम्रायतलोचनम् ।
१९२.३९/२चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ १९२.३९॥
१९२.४०/१पीते वसानं वसने चित्रमाल्यविभूषितम् ।
१९२.४०/२शक्रचापतडिन्माला+ ।विचित्रमिव तोयदम् ॥ १९२.४०॥
१९२.४१/१श्रीवत्सवक्षसं चारु+ ।केयूरमुकुटोज्ज्वलम् ।
१९२.४१/२ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ १९२.४१॥
१९२.४२/१सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः ।
१९२.४२/२संचिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः ॥ १९२.४२॥
१९२.४३/१बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः ।
१९२.४३/२अचिन्तयद् अथो शीघ्रं कथमत्रागताविति ॥ १९२.४३॥
१९२.४४/१विवक्षोः स्तम्भयामास वाचं तस्य जनार्दनः ।
१९२.४४/२ततो निष्क्रम्य सलिलाद् रथमभ्यागतः पुनः ॥ १९२.४४॥
१९२.४५/१ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ ।
१९२.४५/२रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ ॥ १९२.४५॥
१९२.४६/१निमग्नश्च पुनस्तोये ददृशे स तथैव तौ ।
१९२.४६/२संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ १९२.४६॥
१९२.४७/१ततो विज्ञातसद्भावः स तु दानपतिस्तदा ।
१९२.४७/२तुष्टाव सर्वविज्ञान+ ंअयमच्युतमीश्वरम् ॥ १९२.४७॥
१९२.४८/१अक्रूर उवाच । तन्मात्ररूपिणेऽचिन्त्य+ ंअहिम्ने परमात्मने ।
१९२.४८/२व्यापिने नैकरूपैक+ ।स्वरूपाय नमो नमः ॥ १९२.४८॥
१९२.४९/१शब्दरूपाय तेऽचिन्त्य+ अविर्भूताय ते नमः ।
१९२.४९/२नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ १९२.४९॥
१९२.५०/१भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
१९२.५०/२आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ १९२.५०॥
१९२.५१/१प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर ।
१९२.५१/२ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ १९२.५१॥
१९२.५२/१अनाख्येयस्वरूपात्मन्न् अनाख्येयप्रयोजन ।
१९२.५२/२अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम् ॥ १९२.५२॥
१९२.५३/१न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
१९२.५३/२तद् ब्रह्म परमं नित्यमविकारि भवान् अजः ॥ १९२.५३॥
१९२.५४/१न कल्पनाम् ऋतेऽर्थस्य सर्वस्याधिगमो यतः ।
१९२.५४/२ततः कृष्णाच्युतानन्त विष्णुसंज्ञाभिरीड्यसे ॥ १९२.५४॥
१९२.५५/१सर्वात्मंस्त्वमज विकल्पनाभिरेतैर्।
१९२.५५/२देवास्त्वं जगद् अखिलं त्वमेव विश्वम् ।
१९२.५५/३विश्वात्मंस्त्वमतिविकारभेदहीनः ।
१९२.५५/४सर्वस्मिन् नहि भवतोऽस्ति किंचिद् अन्यत् ॥ १९२.५५॥
१९२.५६/१त्वं ब्रह्मा पशुपतिरर्यमा विधाता ।
१९२.५६/२त्वं धाता त्रिदशपतिः समीरणोऽग्निः ।
१९२.५६/३तोयेशो धनपतिरन्तकस्त्वमेको ।
१९२.५६/४भिन्नात्मा जगद् अपि पासि शक्तिभेदैः ॥ १९२.५६॥
१९२.५७/१विश्वं भवान् सृजति हन्ति गभस्तिरूपो ।
१९२.५७/२विश्वं च ते गुणमयोऽयमज प्रपञ्चः ।
१९२.५७/३रूपं परं सदितिवाचकमक्षरं यज् ।
१९२.५७/४ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ १९२.५७॥
१९२.५८/१ओं नमो वासुदेवाय नमः संकर्षणाय च ।
१९२.५८/२प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ १९२.५८॥
१९२.५९/१व्यास उवाच । एवमन्तर्जले कृष्णमभिष्टूय स यादवः ।
१९२.५९/२अर्घयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ १९२.५९॥
१९२.६०/१परित्यज्यान्यविषयं मनस्तत्र निवेश्य सः ।
१९२.६०/२ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ १९२.६०॥
१९२.६१/१कृतकृत्यमिवात्मानं मन्यमानो द्विजोत्तमाः ।
१९२.६१/२आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ १९२.६१॥
१९२.६२/१रामकृष्णौ ददर्शाथ यथापूर्वमवस्थितौ ।
१९२.६२/२विस्मिताक्षं तदाक्रूरं तं च कृष्णोऽभ्यभाषत ॥ १९२.६२॥
१९२.६३/१श्रीकृष्ण उवाच । किं त्वया दृष्टमाश्चर्यमक्रूर यमुनाजले ।
१९२.६३/२विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः ॥ १९२.६३॥
१९२.६४/१अक्रूर उवाच । अन्तर्जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत ।
१९२.६४/२तद् अत्रैव हि पश्यामि मूर्तिमत् पुरतः स्थितम् ॥ १९२.६४॥
१९२.६५/१जगद् एतन् महाश्चर्य+ ।रूपं यस्य महात्मनः ।
१९२.६५/२तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥ १९२.६५॥
१९२.६६/१तत् किमेतेन मथुरां प्रयामो मधुसूदन ।
१९२.६६/२बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनः ॥ १९२.६६॥
१९२.६७/१व्यास उवाच । इत्युक्त्वा चोदयामास तान् हयान् वातरंहसः ।
१९२.६७/२सम्प्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ।
१९२.६७/३विलोक्य मथुरां कृष्णं रामं चाह स यादवः ॥ १९२.६७॥
१९२.६८/१अक्रूर उवाच । पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्यहम् ।
१९२.६८/२गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे ।
१९२.६८/३युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ॥ १९२.६८॥
१९२.६९/१व्यास उवाच । इत्युक्त्वा प्रविवेशासावक्रूरो मथुरां पुरीम् ।
१९२.६९/२प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ १९२.६९॥
१९२.७०/१स्त्रीभिर्नरैश्च सानन्द+ ।लोचनैरभिविक्षितौ ।
१९२.७०/२जग्मतुर्लीलया वीरौ प्राप्तौ बालगजाविव ॥ १९२.७०॥
१९२.७१/१भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् ।
१९२.७१/२अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ ॥ १९२.७१॥
१९२.७२/१कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः ।
१९२.७२/२बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ १९२.७२॥
१९२.७३/१ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
१९२.७३/२पातयामास कोपेन रजकस्य शिरो भुवि ॥ १९२.७३॥
१९२.७४/१हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः ।
१९२.७४/२कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ ॥ १९२.७४॥
१९२.७५/१विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः ।
१९२.७५/२एतौ कस्य कुतो यातौ मनसाचिन्तयत् ततः ॥ १९२.७५॥
१९२.७६/१पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ ।
१९२.७६/२स तर्कयामास तदा भुवं देवावुपागतौ ॥ १९२.७६॥
१९२.७७/१विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
१९२.७७/२भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ १९२.७७॥
१९२.७८/१प्रसादसुमुखौ नाथौ मम गेहमुपागतौ ।
१९२.७८/२धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीविकः ॥ १९२.७८॥
१९२.७९/१ततः प्रहृष्टवदनस्तयोः पुष्पाणि कामतः ।
१९२.७९/२चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥ १९२.७९॥
१९२.८०/१पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ ।
१९२.८०/२पुष्पाणि ताभ्यां चारूणि गन्धवन्त्यमलानि च ॥ १९२.८०॥
१९२.८१/१मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरम् ।
१९२.८१/२श्रीस्त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति ॥ १९२.८१॥
१९२.८२/१बलहानिर्न ते सौम्य धनहानिरथापि वा ।
१९२.८२/२यावद् धरणिसूर्यौ च संततिः पुत्रपौत्रिकी ॥ १९२.८२॥
१९२.८३/१भुक्त्वा च विपुलान् भोगांस्त्वमन्ते मत्प्रसादतः ।
१९२.८३/२ममानुस्मरणं प्राप्य दिव्यलोकमवाप्स्यसि ॥ १९२.८३॥
१९२.८४/१धर्मे मनश्च ते भद्र सर्वकालं भविष्यति ।
१९२.८४/२युष्मत्संततिजातानां दीर्घमायुर्भविष्यति ॥ १९२.८४॥
१९२.८५/१नोपसर्गादिकं दोषं युष्मत्संततिसम्भवः ।
१९२.८५/२अवाप्स्यति महाभाग यावत् सूर्यो भविष्यति ॥ १९२.८५॥
१९२.८६/१व्यास उवाच । इत्युक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान् ।
१९२.८६/२निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः ॥ १९२.८६॥
१९३.१/१व्यास उवाच । राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ।
१९३.१/२ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १९३.१॥
१९३.२/१तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
१९३.२/२भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ १९३.२॥
१९३.३/१सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति ।
१९३.३/२प्राह सा ललितं कुब्जा ददर्श च बलात् ततः ॥ १९३.३॥
१९३.४/१कुब्जोवाच । कान्त कस्मान् न जानासि कंसेनापि नियोजिता ।
१९३.४/२नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ १९३.४॥
१९३.५/१नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
१९३.५/२भवत्यहमतीवास्य प्रसादधनभाजनम् ॥ १९३.५॥
१९३.६/१श्रीकृष्ण उवाच । सुगन्धमेतद् राजार्हं रुचिरं रुचिरानने ।
१९३.६/२आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ १९३.६॥
१९३.७/१व्यास उवाच । श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम् ।
१९३.७/२अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः ॥ १९३.७॥
१९३.८/१भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
१९३.८/२सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ ॥ १९३.८॥
१९३.९/१ततस्तां चिबुके शौरिरुल्लापनविधानवित् ।
१९३.९/२उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना ॥ १९३.९॥
१९३.१०/१चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् ।
१९३.१०/२ततः सा ऋजुतां प्राप्ता योषितामभवद् वरा ॥ १९३.१०॥
१९३.११/१विलासललितं प्राह प्रेमगर्भभरालसम् ।
१९३.११/२वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥ १९३.११॥
१९३.१२/१आयास्ये भवतीगेहमिति तां प्राह केशवः ।
१९३.१२/२विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १९३.१२॥
१९३.१३/१भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ ।
१९३.१३/२धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १९३.१३॥
१९३.१४/१अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
१९३.१४/२आख्यातं सहसा कृष्णो गृहीत्वापूरयद् धनुः ॥ १९३.१४॥
१९३.१५/१ततः पूरयता तेन भज्यमानं बलाद् धनुः ।
१९३.१५/२चकारातिमहाशब्दं मथुरा तेन पूरिता ॥ १९३.१५॥
१९३.१६/१अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः ।
१९३.१६/२रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १९३.१६॥
१९३.१७/१अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः ।
१९३.१७/२भग्नं श्रुत्वाथ कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ १९३.१७॥
१९३.१८/१कंस उवाच । गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः ।
१९३.१८/२मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १९३.१८॥
१९३.१९/१नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् ।
१९३.१९/२दास्याम्यभिमतान् कामान् नान्यथैतन् महाबलौ ॥ १९३.१९॥
१९३.२०/१न्यायतोऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ ।
१९३.२०/२हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति ॥ १९३.२०॥
१९३.२१/१व्यास उवाच । इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
१९३.२१/२प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः ॥ १९३.२१॥
१९३.२२/१स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
१९३.२२/२घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ १९३.२२॥
१९३.२३/१तमाज्ञाप्याथ दृष्ट्वा च मञ्चान् सर्वान् उपाहृतान् ।
१९३.२३/२आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ १९३.२३॥
१९३.२४/१ततः समस्तमञ्चेषु नागरः स तदा जनः ।
१९३.२४/२राजमञ्चेषु चारूढाः सह भृत्यैर्महीभृतः ॥ १९३.२४॥
१९३.२५/१मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः ।
१९३.२५/२कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ १९३.२५॥
१९३.२६/१अन्तःपुराणां मञ्चाश्च यथान्ये परिकल्पिताः ।
१९३.२६/२अन्ये च वारमुख्यानामन्ये नगरयोषिताम् ॥ १९३.२६॥
१९३.२७/१नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः ।
१९३.२७/२अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ १९३.२७॥
१९३.२८/१नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी ।
१९३.२८/२अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ १९३.२८॥
१९३.२९/१वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति ।
१९३.२९/२हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥ १९३.२९॥
१९३.३०/१हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
१९३.३०/२मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥ १९३.३०॥
१९३.३१/१मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
१९३.३१/२प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ ॥ १९३.३१॥
१९३.३२/१हाहाकारो महाञ् जज्ञे सर्वरङ्गेष्वनन्तरम् ।
१९३.३२/२कृष्णोऽयं बलभद्रोऽयमिति लोकस्य विस्मयात् ॥ १९३.३२॥
१९३.३३/१सोऽयं येन हता घोरा पूतना सा निशाचरी ।
१९३.३३/२प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ ॥ १९३.३३॥
१९३.३४/१सोऽयं यः कालियं नागं ननर्तारुह्य बालकः ।
१९३.३४/२धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ १९३.३४॥
१९३.३५/१अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
१९३.३५/२हतो येन च दुर्वृत्तो दृश्यते सोऽयमच्युतः ॥ १९३.३५॥
१९३.३६/१अयं चास्य महाबाहुर्बलदेवोऽग्रजोऽग्रतः ।
१९३.३६/२प्रयाति लीलया योषिन्+ ंअनोनयननन्दनः ॥ १९३.३६॥
१९३.३७/१अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः ।
१९३.३७/२गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति ॥ १९३.३७॥
१९३.३८/१अयं स सर्वभूतस्य विष्णोरखिलजन्मनः ।
१९३.३८/२अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ १९३.३८॥
१९३.३९/१इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
१९३.३९/२उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ १९३.३९॥
१९३.४०/१महोत्सवमिवालोक्य पुत्रावेव विलोकयन् ।
१९३.४०/२युवेव वसुदेवोऽभूद् विहायाभ्यागतां जराम् ॥ १९३.४०॥
१९३.४१/१विस्तारिताक्षियुगला राजान्तःपुरयोषितः ।
१९३.४१/२नागरस्त्रीसमूहश्च द्रष्टुं न विरराम तौ ॥ १९३.४१॥
१९३.४२/१स्त्रिय ऊचुः । सख्यः पश्यत कृष्णस्य मुखमप्यम्बुजेक्षणम् ।
१९३.४२/२गजयुद्धकृतायास+ ।स्वेदाम्बुकणिकाञ्चितम् ॥ १९३.४२॥
१९३.४३/१विकासीव सरोम्भोजमवश्यायजलोक्षितम् ।
१९३.४३/२परिभूताक्षरं जन्म सफलं क्रियतां दृशः ॥ १९३.४३॥
१९३.४४/१श्रीवत्साङ्कं जगद्धाम बालस्यैतद् विलोक्यताम् ।
१९३.४४/२विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥ १९३.४४॥
१९३.४५/१वल्गता मुष्टिकेनैव चाणूरेण तथा परैः ।
१९३.४५/२क्रियते बलभद्रस्य हास्यमीषद् विलोक्यताम् ॥ १९३.४५॥
१९३.४६/१सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
१९३.४६/२समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणः ॥ १९३.४६॥
१९३.४७/१क्व यौवनोन्मुखीभूतः सुकुमारतनुर्हरिः ।
१९३.४७/२क्व वज्रकठिनाभोग+ ।शरीरोऽयं महासुरः ॥ १९३.४७॥
१९३.४८/१इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ ।
१९३.४८/२दैतेयमल्लाश्चाणूर+ ।प्रमुखास्त्वतिदारुणाः ॥ १९३.४८॥
१९३.४९/१नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः ।
१९३.४९/२यद् बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ १९३.४९॥
१९३.५०/१व्यास उवाच । इत्थं पुरस्त्रीलोकस्य वदतश्चालयन् भुवम् ।
१९३.५०/२ववर्ष हर्षोत्कर्षं च जनस्य भगवान् हरिः ॥ १९३.५०॥
१९३.५१/१बलभद्रोऽपि चास्फोट्य ववल्ग ललितं यदा ।
१९३.५१/२पदे पदे तदा भूमिर्न शीर्णा यत् तद् अद्भुतम् ॥ १९३.५१॥
१९३.५२/१चाणूरेण ततः कृष्णो युयुधेऽमितविक्रमः ।
१९३.५२/२नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः ॥ १९३.५२॥
१९३.५३/१संनिपातावधूतैश्च चाणूरेण समं हरिः ।
१९३.५३/२क्षेपणैर्मुष्टिभिश्चैव कीलावज्रनिपातनैः ॥ १९३.५३॥
१९३.५४/१पादोद्भूतैः प्रमृष्टाभिस्तयोर्युद्धमभून् महत् ।
१९३.५४/२अशस्त्रमतिघोरं तत् तयोर्युद्धं सुदारुणम् ॥ १९३.५४॥
१९३.५५/१स्वबलप्राणनिष्पाद्यं समाजोत्सवसंनिधौ ।
१९३.५५/२यावद् यावच्च चाणूरो युयुधे हरिणा सह ॥ १९३.५५॥
१९३.५६/१प्राणहानिमवापाग्र्यां तावत् तावन् न बान्धवम् ।
१९३.५६/२कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः ॥ १९३.५६॥
१९३.५७/१खेदाच्चालयता कोपान् निजशेषकरे करम् ।
१९३.५७/२बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ॥ १९३.५७॥
१९३.५८/१वारयामास तूर्याणि कंसः कोपपरायणः ।
१९३.५८/२मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् ॥ १९३.५८॥
१९३.५९/१खसंगतान्यवाद्यन्त दैवतूर्याण्यनेकशः ।
१९३.५९/२जय गोविन्द चाणूरं जहि केशव दानवम् ॥ १९३.५९॥
१९३.६०/१इत्यन्तर्धिगता देवास्तुष्टुवुस्ते प्रहर्षिताः ।
१९३.६०/२चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः ॥ १९३.६०॥
१९३.६१/१उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः ।
१९३.६१/२भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ॥ १९३.६१॥
१९३.६२/१भूमावास्फोटयामास गगने गतजीवितम् ।
१९३.६२/२भूमावास्फोटितस्तेन चाणूरः शतधा भवन् ॥ १९३.६२॥
१९३.६३/१रक्तस्रावमहापङ्कां चकार स तदा भुवम् ।
१९३.६३/२बलदेवस्तु तत्कालं मुष्टिकेन महाबलः ॥ १९३.६३॥
१९३.६४/१युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ।
१९३.६४/२सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥ १९३.६४॥
१९३.६५/१पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ।
१९३.६५/२कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् ॥ १९३.६५॥
१९३.६६/१वाममुष्टिप्रहारेण पातयामास भूतले ।
१९३.६६/२चाणूरे निहते मल्ले मुष्टिके च निपातिते ॥ १९३.६६॥
१९३.६७/१नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ।
१९३.६७/२ववल्गतुस्तदा रङ्गे कृष्णसंकर्षणावुभौ ॥ १९३.६७॥
१९३.६८/१समानवयसो गोपान् बलाद् आकृष्य हर्षितौ ।
१९३.६८/२कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान् नरान् ॥ १९३.६८॥
१९३.६९/१गोपावेतौ समाजौघान् निष्क्रम्येतां बलाद् इतः ।
१९३.६९/२नन्दोऽपि गृह्यतां पापो निगडैराशु बध्यताम् ॥ १९३.६९॥
१९३.७०/१अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम् ।
१९३.७०/२वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः ॥ १९३.७०॥
१९३.७१/१गावो ह्रियन्तामेषां च यच्चास्ति वसु किंचन ।
१९३.७१/२एवमाज्ञापयन्तं तं प्रहस्य मधुसूदनः ॥ १९३.७१॥
१९३.७२/१उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः ।
१९३.७२/२केशेष्वाकृष्य विगलत्+ ।किरीटमवनीतले ॥ १९३.७२॥
१९३.७३/१स कंसं पातयामास तस्योपरि पपात च ।
१९३.७३/२निःशेषजगदाधार+ ।गुरुणा पततोपरि ॥ १९३.७३॥
१९३.७४/१कृष्णेन त्याजितः प्राणान्न् उग्रसेनात्मजो नृपः ।
१९३.७४/२मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ॥ १९३.७४॥
१९३.७५/१चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ।
१९३.७५/२गौरवेणातिमहता परिपातेन कृष्यता ॥ १९३.७५॥
१९३.७६/१कृता कंसस्य देहेन वेगितेन महात्मना ।
१९३.७६/२कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ॥ १९३.७६॥
१९३.७७/१सुनामा बलभद्रेण लीलयैव निपातितः ।
१९३.७७/२ततो हाहाकृतं सर्वमासीत् तद् रङ्गमण्डलम् ॥ १९३.७७॥
१९३.७८/१अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ।
१९३.७८/२कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम् ॥ १९३.७८॥
१९३.७९/१देवक्याश्च महाबाहुर्बलदेवसहायवान् ।
१९३.७९/२उत्थाप्य वसुदेवस्तु देवकी च जनार्दनम् ।
१९३.७९/३स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥ १९३.७९॥
१९३.८०/१वसुदेव उवाच । प्रसीद देवदेवेश देवानां प्रवर प्रभो ।
१९३.८०/२तथावयोः प्रसादेन कृताभ्युद्धार केशव ॥ १९३.८०॥
१९३.८१/१आराधितो यद् भगवान् अवतीर्णो गृहे मम ।
१९३.८१/२दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ १९३.८१॥
१९३.८२/१त्वमन्तः सर्वभूतानां सर्वभूतेष्ववस्थितः ।
१९३.८२/२वर्तते च समस्तात्मंस्त्वत्तो भूतभविष्यती ॥ १९३.८२॥
१९३.८३/१यज्ञे त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत ।
१९३.८३/२त्वमेव यज्ञो यज्वा च यज्ञानां परमेश्वर ॥ १९३.८३॥
१९३.८४/१सापह्नवं मम मनो यद् एतत् त्वयि जायते ।
१९३.८४/२देवक्याश्चात्मज प्रीत्या तद् अत्यन्तविडम्बना ॥ १९३.८४॥
१९३.८५/१त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् ।
१९३.८५/२क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ १९३.८५॥
१९३.८६/१जगद् एतज्जगन्नाथ सम्भूतमखिलं यतः ।
१९३.८६/२कया युक्त्या विना मायां सोऽस्मत्तः सम्भविष्यति ॥ १९३.८६॥
१९३.८७/१यस्मिन् प्रतिष्ठितं सर्वं जगत् स्थावरजङ्गमम् ।
१९३.८७/२स कोष्ठोत्सङ्गशयनो मनुष्याज्जायते कथम् ॥ १९३.८७॥
१९३.८८/१स त्वं प्रसीद परमेश्वर पाहि विश्वम् ।
१९३.८८/२अंशावतारकरणैर्न ममासि पुत्रः ।
१९३.८८/३आब्रह्मपादपमयं जगद् ईश सर्वम् ।
१९३.८८/४चित्ते विमोहयसि किं परमेश्वरात्मन् ॥ १९३.८८॥
१९३.८९/१मायाविमोहितदृशा तनयो ममेति ।
१९३.८९/२कंसाद् भयं कृतवता तु मयातितीव्रम् ।
१९३.८९/३नीतोऽसि गोकुलमरातिभयाकुलस्य ।
१९३.८९/४वृद्धिं गतोऽसि मम चैव गवामधीश ॥ १९३.८९॥
१९३.९०/१कर्माणि रुद्रमरुदश्विशतक्रतूनाम् ।
१९३.९०/२साध्यानि यानि न भवन्ति निरीक्षितानि ।
१९३.९०/३त्वं विष्णुरीशजगतामुपकारहेतोः ।
१९३.९०/४प्राप्तोऽसि नः परिगतः परमो विमोहः ॥ १९३.९०॥
१९४.१/१व्यास उवाच । तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
१९४.१/२देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ॥ १९४.१॥
१९४.२/१मोहाय यदुचक्रस्य विततान स वैष्णवीम् ।
१९४.२/२उवाच चाम्ब भोस्तात चिराद् उत्कण्ठितेन तु ॥ १९४.२॥
१९४.३/१भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ।
१९४.३/२कुर्वतां याति यः कालो मातापित्रोरपूजनम् ॥ १९४.३॥
१९४.४/१स वृथा क्लेशकारी वै साधूनामुपजायते ।
१९४.४/२गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ॥ १९४.४॥
१९४.५/१कुर्वतः सफलं जन्म देहिनस्तात जायते ।
१९४.५/२तत् क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
१९४.५/३कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ १९४.५॥
१९४.६/१व्यास उवाच । इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात् ।
१९४.६/२पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥ १९४.६॥
१९४.७/१कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
१९४.७/२विलेपुर्मातरश्चास्य शोकदुःखपरिप्लुताः ॥ १९४.७॥
१९४.८/१बहुप्रकारमस्वस्थाः पश्चात्तापातुरा हरिः ।
१९४.८/२ताः समाश्वासयामास स्वयमस्राविलेक्षणः ॥ १९४.८॥
१९४.९/१उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः ।
१९४.९/२अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ॥ १९४.९॥
१९४.१०/१राज्येऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः ।
१९४.१०/२चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १९४.१०॥
१९४.११/१कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।
१९४.११/२उवाचाज्ञापय विभो यत् कार्यमविशङ्कया ॥ १९४.११॥
१९४.१२/१ययातिशापाद् वंशोऽयमराज्यार्होऽपि साम्प्रतम् ।
१९४.१२/२मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ १९४.१२॥
१९४.१३/१इत्युक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह ।
१९४.१३/२नृवाचा चैव भगवान् केशवः कार्यमानुषः ॥ १९४.१३॥
१९४.१४/१श्रीकृष्ण उवाच । गच्छेन्द्रं ब्रूहि वायो त्वमलं गर्वेण वासव ।
१९४.१४/२दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १९४.१४॥
१९४.१५/१कृष्णो ब्रवीति राजार्हमेतद् रत्नमनुत्तमम् ।
१९४.१५/२सुधर्माख्या सभा युक्तमस्यां यदुभिरासितुम् ॥ १९४.१५॥
१९४.१६/१व्यास उवाच । इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।
१९४.१६/२ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरंदरः ॥ १९४.१६॥
१९४.१७/१वायुना चाहृतां दिव्यां ते सभां यदुपुंगवाः ।
१९४.१७/२बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १९४.१७॥
१९४.१८/१विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
१९४.१८/२शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥ १९४.१८॥
१९४.१९/१ततः सांदीपनिं काश्यमवन्तिपुरवासिनम् ।
१९४.१९/२अस्त्रार्थं जग्मतुर्वीरौ बलदेवजनार्दनौ ॥ १९४.१९॥
१९४.२०/१तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपरौ हि तौ ।
१९४.२०/२दर्शयां चक्रतुर्वीरावाचारमखिले जने ॥ १९४.२०॥
१९४.२१/१सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
१९४.२१/२अहोरात्रैश्चतुःषष्ट्या तद् अद्भुतमभूद् द्विजाः ॥ १९४.२१॥
१९४.२२/१सांदीपनिरसम्भाव्यं तयोः कर्मातिमानुषम् ।
१९४.२२/२विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ १९४.२२॥
१९४.२३/१अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ।
१९४.२३/२ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ १९४.२३॥
१९४.२४/१सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः ।
१९४.२४/२अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥ १९४.२४॥
१९४.२५/१गृहीतास्त्रौ ततस्तौ तु गत्वा तं लवणोदधिम् ।
१९४.२५/२ऊचुतुश्च गुरोः पुत्रो दीयतामिति सागरम् ॥ १९४.२५॥
१९४.२६/१कृताञ्जलिपुटश्चाब्धिस्तावथ द्विजसत्तमाः ।
१९४.२६/२उवाच न मया पुत्रो हृतः सांदीपनेरिति ॥ १९४.२६॥
१९४.२७/१दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
१९४.२७/२जग्राह सोऽस्ति सलिले ममैवासुरसूदन ॥ १९४.२७॥
१९४.२८/१इत्युक्तोऽन्तर्जलं गत्वा हत्वा पञ्चजनं तथा ।
१९४.२८/२कृष्णो जग्राह तस्यास्थि+ ।प्रभवं शङ्खमुत्तमम् ॥ १९४.२८॥
१९४.२९/१यस्य नादेन दैत्यानां बलहानिः प्रजायते ।
१९४.२९/२देवानां वर्धते तेजो यात्यधर्मश्च संक्षयम् ॥ १९४.२९॥
१९४.३०/१तं पाञ्चजन्यमापूर्य गत्वा यमपुरीं हरिः ।
१९४.३०/२बलदेवश्च बलवाञ् जित्वा वैवस्वतं यमम् ॥ १९४.३०॥
१९४.३१/१तं बालं यातनासंस्थं यथापूर्वशरीरिणम् ।
१९४.३१/२पित्रे प्रदत्तवान् कृष्णो बलश्च बलिनां वरः ॥ १९४.३१॥
१९४.३२/१मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् ।
१९४.३२/२प्रहृष्टपुरुषस्त्रीकावुभौ रामजनार्दनौ ॥ १९४.३२॥
१९५.१/१व्यास उवाच । जरासंधसुते कंस उपयेमे महाबलः ।
१९५.१/२अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥ १९५.१॥
१९५.२/१महाबलपरीवारो मागधाधिपतिर्बली ।
१९५.२/२हन्तुमभ्याययौ कोपाज्जरासंधः सयादवम् ॥ १९५.२॥
१९५.३/१उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।
१९५.३/२अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ १९५.३॥
१९५.४/१निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।
१९५.४/२युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ १९५.४॥
१९५.५/१ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः ।
१९५.५/२आयुधानां पुराणानामादाने मुनिसत्तमाः ॥ १९५.५॥
१९५.६/१अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयौ शरैः ।
१९५.६/२आकाशाद् आगतौ वीरौ तदा कौमोदकी गदा ॥ १९५.६॥
१९५.७/१हलं च बलभद्रस्य गगनाद् आगमत् करम् ।
१९५.७/२बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥ १९५.७॥
१९५.८/१ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् ।
१९५.८/२पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ १९५.८॥
१९५.९/१जिते तस्मिन् सुदुर्वृत्ते जरासंधे द्विजोत्तमाः ।
१९५.९/२जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥ १९५.९॥
१९५.१०/१पुनरप्याजगामाथ जरासंधो बलान्वितः ।
१९५.१०/२जितश्च रामकृष्णाभ्यामपकृत्य द्विजोत्तमाः ॥ १९५.१०॥
१९५.११/१दश चाष्टौ च संग्रामान् एवमत्यन्तदुर्मदः ।
१९५.११/२यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ १९५.११॥
१९५.१२/१सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः ।
१९५.१२/२अपक्रान्तो जरासंधः स्वल्पसैन्यैर्बलाधिकः ॥ १९५.१२॥
१९५.१३/१तद् बलं यादवानां वै रक्षितं यद् अनेकशः ।
१९५.१३/२तत् तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १९५.१३॥
१९५.१४/१मनुष्यधर्मशीलस्य लीला सा जगतः पतेः ।
१९५.१४/२अस्त्राण्यनेकरूपाणि यद् अरातिषु मुञ्चति ॥ १९५.१४॥
१९५.१५/१मनसैव जगत्सृष्टि+ ।संहारं तु करोति यः ।
१९५.१५/२तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः ॥ १९५.१५॥
१९५.१६/१तथापि च मनुष्याणां धर्मस्तदनुवर्तनम् ।
१९५.१६/२कुर्वन् बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ १९५.१६॥
१९५.१७/१साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
१९५.१७/२करोति दण्डपातं च क्वचिद् एव पलायनम् ॥ १९५.१७॥
१९५.१८/१मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
१९५.१८/२लीला जगत्पतेस्तस्य *च्छन्दतः सम्प्रवर्तते ॥ १९५.१८॥
१९६.१/१व्यास उवाच । गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्युक्तवान् द्विजाः ।
१९६.१/२यदूनां संनिधौ सर्वे जहसुर्यादवास्तदा ॥ १९६.१॥
१९६.२/१ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
१९६.२/२सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ १९६.२॥
१९६.३/१आराधयन् महादेवं सोऽयश्चूर्णमभक्षयत् ।
१९६.३/२ददौ वरं च तुष्टोऽसौ वर्षे द्वादशके हरः ॥ १९६.३॥
१९६.४/१सम्भावयामास स तं यवनेशो ह्यनात्मजम् ।
१९६.४/२तद्योषित्संगमाच्चास्य पुत्रोऽभूद् अलिसप्रभः ॥ १९६.४॥
१९६.५/१तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
१९६.५/२अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ १९६.५॥
१९६.६/१स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
१९६.६/२पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ १९६.६॥
१९६.७/१म्लेच्छकोटिसहस्राणां सहस्रैः सोऽपि संवृतः ।
१९६.७/२गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ १९६.७॥
१९६.८/१प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने ।
१९६.८/२यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम् ॥ १९६.८॥
१९६.९/१कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
१९६.९/२यवनेन समालोक्य मागधः सम्प्रयास्यति ॥ १९६.९॥
१९६.१०/१मागधस्य बलं क्षीणं स कालयवनो बली ।
१९६.१०/२हन्ता तद् इदमायातं यदूनां व्यसनं द्विधा ॥ १९६.१०॥
१९६.११/१तस्माद् दुर्गं करिष्यामि यदूनामतिदुर्जयम् ।
१९६.११/२स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः ॥ १९६.११॥
१९६.१२/१मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
१९६.१२/२यादवाभिभवं दुष्टा मा कुर्वन् वैरिणोऽधिकम् ॥ १९६.१२॥
१९६.१३/१इति संचिन्त्य गोविन्दो योजनानि महोदधिम् ।
१९६.१३/२ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १९६.१३॥
१९६.१४/१महोद्यानां महावप्रां तडागशतशोभिताम् ।
१९६.१४/२प्राकारशतसम्बाधामिन्द्रस्येवामरावतीम् ॥ १९६.१४॥
१९६.१५/१मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
१९६.१५/२आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १९६.१५॥
१९६.१६/१बहिरावासिते सैन्ये मथुराया निरायुधः ।
१९६.१६/२निर्जगाम स गोविन्दो ददर्श यवनश्च तम् ॥ १९६.१६॥
१९६.१७/१स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः ।
१९६.१७/२अनुयातो महायोगि+ ॅहेतोभिः प्राप्यते न यः ॥ १९६.१७॥
१९६.१८/१तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
१९६.१८/२यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १९६.१८॥
१९६.१९/१सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् ।
१९६.१९/२पादेन ताडयामास कृष्णं मत्वा स दुर्मतिः ॥ १९६.१९॥
१९६.२०/१दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निना ।
१९६.२०/२तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात् ॥ १९६.२०॥
१९६.२१/१स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् ।
१९६.२१/२निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ १९६.२१॥
१९६.२२/१प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
१९६.२२/२देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ १९६.२२॥
१९६.२३/१एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
१९६.२३/२कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ॥ १९६.२३॥
१९६.२४/१वसुदेवस्य तनयो यदुवंशसमुद्भवः ।
१९६.२४/२मुचुकुन्दोऽपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥ १९६.२४॥
१९६.२५/१संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
१९६.२५/२प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वरः ॥ १९६.२५॥
१९६.२६/१पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
१९६.२६/२द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ १९६.२६॥
१९६.२७/१स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ।
१९६.२७/२तथा हि सुमहत् तेजो नालं सोढुमहं तव ॥ १९६.२७॥
१९६.२८/१तथा हि सुमहाम्भोद+ ।ध्वनिधीरतरं ततः ।
१९६.२८/२वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥ १९६.२८॥
१९६.२९/१देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः ।
१९६.२९/२न शेकुस्ते महत् तेजस्तत् तेजो न सहाम्यहम् ॥ १९६.२९॥
१९६.३०/१संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
१९६.३०/२सम्प्रसीद प्रपन्नार्ति+ अर्ता हर ममाशुभम् ॥ १९६.३०॥
१९६.३१/१त्वं पयोनिधयः शैलाः सरितश्च वनानि च ।
१९६.३१/२मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा पुमान् ॥ १९६.३१॥
१९६.३२/१पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् ।
१९६.३२/२शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम् ॥ १९६.३२॥
१९६.३३/१त्वत्तोऽमरास्तु पितरो यक्षगन्धर्वराक्षसाः ।
१९६.३३/२सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ १९६.३३॥
१९६.३४/१सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः ।
१९६.३४/२यच्च भूतं भविष्यद् वा किंचिद् अत्र चराचरे ॥ १९६.३४॥
१९६.३५/१अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा ।
१९६.३५/२तत् सर्वं त्वं जगत्कर्तर्नास्ति किंचित् त्वया विना ॥ १९६.३५॥
१९६.३६/१मया संसारचक्रेऽस्मिन् भ्रमता भगवन् सदा ।
१९६.३६/२तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ १९६.३६॥
१९६.३७/१दुःखान्येव सुखानीति मृगतृष्णाजलाशयः ।
१९६.३७/२मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ १९६.३७॥
१९६.३८/१राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
१९६.३८/२भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ १९६.३८॥
१९६.३९/१सुखबुद्ध्या मया सर्वं गृहीतमिदमव्यय ।
१९६.३९/२परिणामे च देवेश तापात्मकमभून् मम ॥ १९६.३९॥
१९६.४०/१देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
१९६.४०/२मत्तः साहाय्यकामोऽभूच्छाश्वती कुत्र निर्वृतिः ॥ १९६.४०॥
१९६.४१/१त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
१९६.४१/२शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ १९६.४१॥
१९६.४२/१त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
१९६.४२/२अवाप्य पापान् पश्यन्ति प्रेतराजानमन्तरा ॥ १९६.४२॥
१९६.४३/१ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम् ।
१९६.४३/२प्राप्नुवन्ति महद् दुःखं विश्वरूपमिदं तव ॥ १९६.४३॥
१९६.४४/१अहमत्यन्तविषयी मोहितस्तव मायया ।
१९६.४४/२ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥ १९६.४४॥
१९६.४५/१सोऽहं त्वां शरणमपारमीशमीड्यम् ।
१९६.४५/२सम्प्राप्तः परमपदं यतो न किंचित् ।
१९६.४५/३संसारश्रमपरितापतप्तचेता ।
१९६.४५/४निर्विण्णे परिणतधाम्नि साभिलाषः ॥ १९६.४५॥
१९७.१/१व्यास उवाच । इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
१९७.१/२प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १९७.१॥
१९७.२/१श्रीकृष्ण उवाच । यथाभिवाञ्छितांल्लोकान् दिव्यान् गच्छ नरेश्वर ।
१९७.२/२अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ १९७.२॥
१९७.३/१भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले ।
१९७.३/२जातिस्मरो मत्प्रसादात् ततो मोक्षमवाप्स्यसि ॥ १९७.३॥
१९७.४/१व्यास उवाच । इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
१९७.४/२गुहामुखाद् विनिष्क्रान्तो ददृशे सोऽल्पकान् नरान् ॥ १९७.४॥
१९७.५/१ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः ।
१९७.५/२नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ १९७.५॥
१९७.६/१कृष्णोऽपि घातयित्वारिमुपायेन हि तद्बलम् ।
१९७.६/२जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ १९७.६॥
१९७.७/१आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् ।
१९७.७/२पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥ १९७.७॥
१९७.८/१बलदेवोऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः ।
१९७.८/२ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १९७.८॥
१९७.९/१ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित् ।
१९७.९/२तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ॥ १९७.९॥
१९७.१०/१कैश्चापि सम्परिष्वक्तः कांश्चित् स परिषस्वजे ।
१९७.१०/२हासं चक्रे समं कैश्चिद् गोपगोपीजनैस्तथा ॥ १९७.१०॥
१९७.११/१प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
१९७.११/२गोप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः ॥ १९७.११॥
१९७.१२/१गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः ।
१९७.१२/२कच्चिद् आस्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः ॥ १९७.१२॥
१९७.१३/१अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् ।
१९७.१३/२सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १९७.१३॥
१९७.१४/१कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् ।
१९७.१४/२अप्यसौ मातरं द्रष्टुं सकृद् अप्यागमिष्यति ॥ १९७.१४॥
१९७.१५/१अथवा किं तदालापैः क्रियन्तामपराः कथाः ।
१९७.१५/२यद् अस्माभिर्विना तेन विनास्माकं भविष्यति ॥ १९७.१५॥
१९७.१६/१पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः ।
१९७.१६/२न त्यक्तस्तत्कृतेऽस्माभिरकृतज्ञस्ततो हि सः ॥ १९७.१६॥
१९७.१७/१तथापि कच्चिद् आत्मीयमिहागमनसंश्रयम् ।
१९७.१७/२करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥ १९७.१७॥
१९७.१८/१दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
१९७.१८/२अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १९७.१८॥
१९७.१९/१व्यास उवाच । आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च ।
१९७.१९/२जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥ १९७.१९॥
१९७.२०/१संदेशैः सौम्यमधुरैः प्रेमगर्भैरगर्वितैः ।
१९७.२०/२रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥ १९७.२०॥
१९७.२१/१गोपैश्च पूर्ववद् रामः परिहासमनोहरैः ।
१९७.२१/२कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु ॥ १९७.२१॥
१९८.१/१व्यास उवाच । वने विहरतस्तस्य सह गोपैर्महात्मनः ।
१९८.१/२मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ १९८.१॥
१९८.२/१निष्पादितोरुकार्यस्य कार्येणैवावतारिणः ।
१९८.२/२उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ १९८.२॥
१९८.३/१वरुण उवाच । अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः ।
१९८.३/२अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ १९८.३॥
१९८.४/१व्यास उवाच । इत्युक्ता वारुणी तेन संनिधानमथाकरोत् ।
१९८.४/२वृन्दावनतटोत्पन्न+ ।कदम्बतरुकोटरे ॥ १९८.४॥
१९८.५/१विचरन् बलदेवोऽपि मदिरागन्धमुद्धतम् ।
१९८.५/२आघ्राय मदिराहर्षमवापाथ पुरातनम् ॥ १९८.५॥
१९८.६/१ततः कदम्बात् सहसा मद्यधारां स लाङ्गली ।
१९८.६/२पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥ १९८.६॥
१९८.७/१पपौ च गोपगोपीभिः समवेतो मुदान्वितः ।
१९८.७/२उपगीयमानो ललितं गीतवाद्यविशारदैः ॥ १९८.७॥
१९८.८/१श्रमतोऽत्यन्तघर्माम्भः+ ।कणिकामौक्तिकोज्ज्वलः ।
१९८.८/२आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ १९८.८॥
१९८.९/१तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै ।
१९८.९/२नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥ १९८.९॥
१९८.१०/१गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः ।
१९८.१०/२पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ १९८.१०॥
१९८.११/१सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा ।
१९८.११/२यत्रास्ते बलदेवोऽसौ प्लावयामास तद् वनम् ॥ १९८.११॥
१९८.१२/१शरीरिणी तथोपेत्य त्रासविह्वललोचना ।
१९८.१२/२प्रसीदेत्यब्रवीद् रामं मुञ्च मां मुशलायुध ॥ १९८.१२॥
१९८.१३/१सोऽब्रवीद् अवजानासि मम शौर्यबलं यदि ।
१९८.१३/२सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १९८.१३॥
१९८.१४/१व्यास उवाच । इत्युक्तयातिसंत्रस्तस्तया नद्या प्रसादितः ।
१९८.१४/२भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥ १९८.१४॥
१९८.१५/१ततः स्नातस्य वै कान्तिराजगाम महावने ।
१९८.१५/२अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥ १९८.१५॥
१९८.१६/१वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
१९८.१६/२समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १९८.१६॥
१९८.१७/१कृतावतंसः स तदा चारुकुण्डलभूषितः ।
१९८.१७/२नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥ १९८.१७॥
१९८.१८/१इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे ।
१९८.१८/२मासद्वयेन यातश्च पुनः स मथुरां पुरीम् ॥ १९८.१८॥
१९८.१९/१रेवतीं चैव तनयां रैवतस्य महीपतेः ।
१९८.१९/२उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ॥ १९८.१९॥
१९९.१/१व्यास उवाच । भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
१९९.१/२रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ १९९.१॥
१९९.२/१रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी ।
१९९.२/२न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ १९९.२॥
१९९.३/१ददौ स शिशुपालाय जरासंधप्रचोदितः ।
१९९.३/२भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ १९९.३॥
१९९.४/१विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः ।
१९९.४/२भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम् ॥ १९९.४॥
१९९.५/१कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
१९९.५/२प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥ १९९.५॥
१९९.६/१श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः ।
१९९.६/२विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु ॥ १९९.६॥
१९९.७/१ततश्च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः ।
१९९.७/२शिशुपालो जरासंधः शाल्वाद्याश्च महीभृतः ॥ १९९.७॥
१९९.८/१कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
१९९.८/२निर्जिताश्च समागम्य रामाद्यैर्यदुपुंगवैः ॥ १९९.८॥
१९९.९/१कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् ।
१९९.९/२कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥ १९९.९॥
१९९.१०/१हत्वा बलं स नागाश्व+ ।पत्तिस्यन्दनसंकुलम् ।
१९९.१०/२निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १९९.१०॥
१९९.११/१निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् ।
१९९.११/२राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः ॥ १९९.११॥
१९९.१२/१तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् ।
१९९.१२/२जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १९९.१२॥
२००.१/१मुनय ऊचुः । शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः ।
२००.१/२शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥ २००.१॥
२००.२/१व्यास उवाच । षष्ठेऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् ।
२००.२/२ममैष हन्तेति द्विजा हृतवान् कालशम्बरः ॥ २००.२॥
२००.३/१नीत्वा चिक्षेप चैवैनं ग्राहोऽग्रे लवणार्णवे ।
२००.३/२कल्लोलजनितावर्ते सुघोरे मकरालये ॥ २००.३॥
२००.४/१पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् ।
२००.४/२न ममार च तस्यापि जठरानलदीपितः ॥ २००.४॥
२००.५/१मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्विजाः ।
२००.५/२घातितोऽसुरवर्याय शम्बराय निवेदितः ॥ २००.५॥
२००.६/१तस्य मायावती नाम पत्नी सर्वगृहेश्वरी ।
२००.६/२कारयामास सूदानामाधिपत्यमनिन्दिता ॥ २००.६॥
२००.७/१दारिते मत्स्यजठरे ददृशे सातिशोभनम् ।
२००.७/२कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ २००.७॥
२००.८/१कोऽयं कथमयं मत्स्य+ ।जठरे समुपागतः ।
२००.८/२इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥ २००.८॥
२००.९/१नारद उवाच । अयं समस्तजगतां सृष्टिसंहारकारिणा ।
२००.९/२शम्बरेण हृतः कृष्ण+ ।तनयः सूतिकागृहात् ॥ २००.९॥
२००.१०/१क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः ।
२००.१०/२नररत्नमिदं सुभ्रु विश्रब्धा परिपालय ॥ २००.१०॥
२००.११/१व्यास उवाच । नारदेनैवमुक्ता सा पालयामास तं शिशुम् ।
२००.११/२बाल्याद् एवातिरागेण रूपातिशयमोहिता ॥ २००.११॥
२००.१२/१स यदा यौवनाभोग+ ।भूषितोऽभूद् द्विजोत्तमाः ।
२००.१२/२साभिलाषा तदा सा तु बभूव गजगामिनी ॥ २००.१२॥
२००.१३/१मायावती ददौ चास्मै माया सर्वा महात्मने ।
२००.१३/२प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा ।
२००.१३/३प्रसज्जन्तीं तु तामाह स कार्ष्णिः कमललोचनः ॥ २००.१३॥
२००.१४/१प्रद्युम्न उवाच । मातृभावं विहायैव किमर्थं
वर्तसेऽन्यथा ॥ २००.१४॥
२००.१५/१व्यास उवाच । सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै ।
२००.१५/२तनयं त्वामयं विष्णोर्हृतवान् कालशम्बरः ॥ २००.१५॥
२००.१६/१क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान् मया ।
२००.१६/२सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ॥ २००.१६॥
२००.१७/१व्यास उवाच । इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् ।
२००.१७/२क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ २००.१७॥
२००.१८/१हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः ।
२००.१८/२सप्त माया व्यतिक्रम्य मायां संयुयुजेऽष्टमीम् ॥ २००.१८॥
२००.१९/१तया जघान तं दैत्यं मायया कालशम्बरम् ।
२००.१९/२उत्पत्य च तया सार्धमाजगाम पितुः पुरम् ॥ २००.१९॥
२००.२०/१अन्तःपुरे च पतितं मायावत्या समन्वितम् ।
२००.२०/२तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः ।
२००.२०/३रुक्मिणी चाब्रवीत् प्रेम्णा *आसक्तदृष्टिरनिन्दिता ॥ २००.२०॥
२००.२१/१रुक्मिण्युवाच । धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने ।
२००.२१/२अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥ २००.२१॥
२००.२२/१सभाग्या जननी वत्स त्वया कापि विभूषिता ।
२००.२२/२अथवा यादृशः स्नेहो मम यादृग् वपुश्च ते ।
२००.२२/३हरेरपत्यं सुव्यक्तं भवान् वत्स भविष्यति ॥ २००.२२॥
२००.२३/१व्यास उवाच । एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः ।
२००.२३/२अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥ २००.२३॥
२००.२४/१श्रीकृष्ण उवाच । एष ते तनयः सुभ्रु हत्वा शम्बरमागतः ।
२००.२४/२हृतो येनाभवत् पूर्वं पुत्रस्ते सूतिकागृहात् ॥ २००.२४॥
२००.२५/१इयं मायावती भार्या तनयस्यास्य ते सती ।
२००.२५/२शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २००.२५॥
२००.२६/१मन्मथे तु गते नाशं तदुद्भवपरायणा ।
२००.२६/२शम्बरं मोहयामास मायारूपेण रुक्मिणि ॥ २००.२६॥
२००.२७/१विवाहाद्युपभोगेषु रूपं मायामयं शुभम् ।
२००.२७/२दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २००.२७॥
२००.२८/१कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
२००.२८/२विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥ २००.२८॥
२००.२९/१व्यास उवाच । ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा ।
२००.२९/२नगरी च समस्ता सा साधु साध्वित्यभाषत ॥ २००.२९॥
२००.३०/१चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् ।
२००.३०/२अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा ॥ २००.३०॥
२०१.१/१व्यास उवाच । चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् ।
२०१.१/२सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ २०१.१॥
२०१.२/१चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
२०१.२/२रुक्मिण्यजनयत् पुत्रान् कन्यां चारुमतीं तथा ॥ २०१.२॥
२०१.३/१अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
२०१.३/२कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ २०१.३॥
२०१.४/१देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी ।
२०१.४/२मद्रराजसुता चान्या सुशीला शीलमण्डला ॥ २०१.४॥
२०१.५/१सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
२०१.५/२षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ २०१.५॥
२०१.६/१प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
२०१.६/२स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥ २०१.६॥
२०१.७/१तस्यामस्याभवत् पुत्रो महाबलपराक्रमः ।
२०१.७/२अनिरुद्धो रणे रुद्धो वीर्योदधिररिंदमः ॥ २०१.७॥
२०१.८/१तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
२०१.८/२दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा ॥ २०१.८॥
२०१.९/१तस्या विवाहे रामाद्या यादवा हरिणा सह ।
२०१.९/२रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः ॥ २०१.९॥
२०१.१०/१विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः ।
२०१.१०/२कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ २०१.१०॥
२०१.११/१कलिङ्गादय ऊचुः । अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
२०१.११/२तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते ॥ २०१.११॥
२०१.१२/१व्यास उवाच । तथेति तान् आह नृपान् रुक्मी बलसमन्वितः ।
२०१.१२/२सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ २०१.१२॥
२०१.१३/१सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
२०१.१३/२द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः ॥ २०१.१३॥
२०१.१४/१ततो दश सहस्राणि निष्काणां पणमाददे ।
२०१.१४/२बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥ २०१.१४॥
२०१.१५/१ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः ।
२०१.१५/२दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः ॥ २०१.१५॥
२०१.१६/१रुक्म्युवाच । अविद्योऽयं महाद्यूते बलभद्रः पराजितः ।
२०१.१६/२मृषैवाक्षावलेपत्वाद् योऽयं मेनेऽक्षकोविदम् ॥ २०१.१६॥
२०१.१७/१दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् ।
२०१.१७/२रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ २०१.१७॥
२०१.१८/१व्यास उवाच । ततः कोपपरीतात्मा निष्ककोटिं हलायुधः ।
२०१.१८/२ग्लहं जग्राह रुक्मी च ततस्त्वक्षान् अपातयत् ॥ २०१.१८॥
२०१.१९/१अजयद् बलदेवोऽथ प्राहोच्चैस्तं जितं मया ।
२०१.१९/२ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम् ॥ २०१.१९॥
२०१.२०/१त्वयोक्तोऽयं ग्लहः सत्यं न ममैषोऽनुमोदितः ।
२०१.२०/२एवं त्वया चेद् विजितं न मया विजितं कथम् ॥ २०१.२०॥
२०१.२१/१ततोऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी ।
२०१.२१/२बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २०१.२१॥
२०१.२२/१आकाशवाग् उवाच । जितं तु बलदेवेन रुक्मिणा भाषितं मृषा ।
२०१.२२/२अनुक्त्वा वचनं किंचित् कृतं भवति कर्मणा ॥ २०१.२२॥
२०१.२३/१व्यास उवाच । ततो बलः समुत्थाय क्रोधसंरक्तलोचनः ।
२०१.२३/२जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २०१.२३॥
२०१.२४/१कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः ।
२०१.२४/२बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः ॥ २०१.२४॥
२०१.२५/१आकृष्य च महास्तम्भं जातरूपमयं बलः ।
२०१.२५/२जघान ये तत्पक्षास्तान् भूभृतः कुपितो बलः ॥ २०१.२५॥
२०१.२६/१ततो हाहाकृतं सर्वं पलायनपरं द्विजाः ।
२०१.२६/२तद् राजमण्डलं सर्वं बभूव कुपिते बले ॥ २०१.२६॥
२०१.२७/१बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः ।
२०१.२७/२नोवाच वचनं किंचिद् रुक्मिणीबलयोर्भयात् ॥ २०१.२७॥
२०१.२८/१ततोऽनिरुद्धमादाय कृतोद्वाहं द्विजोत्तमाः ।
२०१.२८/२द्वारकामाजगामाथ यदुचक्रं सकेशवम् ॥ २०१.२८॥
२०२.१/१व्यास उवाच । द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः ।
२०२.१/२आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ २०२.१॥
२०२.२/१प्रविश्य द्वारकां सोऽथ समीपे च हरेस्तदा ।
२०२.२/२कथयामास दैत्यस्य नरकस्य विचेष्टितम् ॥ २०२.२॥
२०२.३/१इन्द्र उवाच । त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता ।
२०२.३/२प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ २०२.३॥
२०२.४/१तपस्विजनरक्षायै सोऽरिष्टो धेनुकस्तथा ।
२०२.४/२प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया ॥ २०२.४॥
२०२.५/१कंसः कुवलयापीडः पूतना बालघातिनी ।
२०२.५/२नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ २०२.५॥
२०२.६/१युष्मद्दोर्दण्डसम्बुद्धि+ ।परित्राते जगत्त्रये ।
२०२.६/२यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥ २०२.६॥
२०२.७/१सोऽहं साम्प्रतमायातो यन्निमित्तं जनार्दन ।
२०२.७/२तच्छ्रुत्वा तत्प्रतीकार+ ।प्रयत्नं कर्तुमर्हसि ॥ २०२.७॥
२०२.८/१भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
२०२.८/२करोति सर्वभूतानामपघातमरिंदम ॥ २०२.८॥
२०२.९/१देवसिद्धसुरादीनां नृपाणां च जनार्दन ।
२०२.९/२हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे ॥ २०२.९॥
२०२.१०/१छत्त्रं यत् सलिलस्रावि तज्जहार प्रचेतसः ।
२०२.१०/२मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम् ॥ २०२.१०॥
२०२.११/१अमृतस्राविणी दिव्ये मातुर्मेऽमृतकुण्डले ।
२०२.११/२जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं द्विपम् ॥ २०२.११॥
२०२.१२/१दुर्नीतमेतद् गोविन्द मया तस्य तवोदितम् ।
२०२.१२/२यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम् ॥ २०२.१२॥
२०२.१३/१व्यास उवाच । इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः ।
२०२.१३/२गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ २०२.१३॥
२०२.१४/१संचिन्तितमुपारुह्य गरुडं गगनेचरम् ।
२०२.१४/२सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ २०२.१४॥
२०२.१५/१आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् ।
२०२.१५/२ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥ २०२.१५॥
२०२.१६/१प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम् ।
२०२.१६/२आचितं भैरवैः पाशैः परसैन्यनिवारणे ॥ २०२.१६॥
२०२.१७/१तांश्चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् ।
२०२.१७/२ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥ २०२.१७॥
२०२.१८/१मुरोस्तु तनयान् सप्त सहस्रास्तांस्ततो हरिः ।
२०२.१८/२चक्रधाराग्निनिर्दग्धांश्चकार शलभान् इव ॥ २०२.१८॥
२०२.१९/१हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः ।
२०२.१९/२प्राग्ज्योतिषपुरं धीमांस्त्वरावान् समुपाद्रवत् ॥ २०२.१९॥
२०२.२०/१नरकेनास्य तत्राभून् महासैन्येन संयुगः ।
२०२.२०/२कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः ॥ २०२.२०॥
२०२.२१/१शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली ।
२०२.२१/२क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २०२.२१॥
२०२.२२/१हते तु नरके भूमिर्गृहीत्वादितिकुण्डले ।
२०२.२२/२उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २०२.२२॥
२०२.२३/१धरण्युवाच । यदाहमुद्धृता नाथ त्वया शूकरमूर्तिना ।
२०२.२३/२त्वत्संस्पर्शभवः पुत्रस्तदायं मय्यजायत ॥ २०२.२३॥
२०२.२४/१सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
२०२.२४/२गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥ २०२.२४॥
२०२.२५/१भारावतरणार्थाय ममैव भगवान् इमम् ।
२०२.२५/२अंशेन लोकमायातः प्रसादसुमुख प्रभो ॥ २०२.२५॥
२०२.२६/१त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽव्ययः ।
२०२.२६/२जगत्स्वरूपो यश्च त्वं स्तूयसेऽच्युत किं मया ॥ २०२.२६॥
२०२.२७/१व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् सदा ।
२०२.२७/२सर्वभूतात्मभूतात्मा स्तूयसेऽच्युत किं मया ॥ २०२.२७॥
२०२.२८/१परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान् ।
२०२.२८/२यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम् ॥ २०२.२८॥
२०२.२९/१प्रसीद सर्वभूतात्मन् नरकेन कृतं च यत् ।
२०२.२९/२तत् क्षम्यतामदोषाय मत्सुतः स निपातितः ॥ २०२.२९॥
२०२.३०/१व्यास उवाच । तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
२०२.३०/२रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः ॥ २०२.३०॥
२०२.३१/१कन्यापुरे स कन्यानां षोडशातुलविक्रमः ।
२०२.३१/२शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः ॥ २०२.३१॥
२०२.३२/१चतुर्दंष्ट्रान् गजांश्चोग्रान् षट् सहस्राणि दृष्टवान् ।
२०२.३२/२काम्बोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ २०२.३२॥
२०२.३३/१कन्यास्ताश्च तथा नागांस्तान् अश्वान् द्वारकां पुरीम् ।
२०२.३३/२प्रापयामास गोविन्दः सद्यो नरककिंकरैः ॥ २०२.३३॥
२०२.३४/१ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् ।
२०२.३४/२आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ २०२.३४॥
२०२.३५/१आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
२०२.३५/२अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ २०२.३५॥
२०३.१/१व्यास उवाच । गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् ।
२०३.१/२सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥ २०३.१॥
२०३.२/१ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः ।
२०३.२/२उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥ २०३.२॥
२०३.३/१स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् ।
२०३.३/२सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ २०३.३॥
२०३.४/१स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे ।
२०३.४/२ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ २०३.४॥
२०३.५/१ततः प्रीता जगन्माता धातारं जगतां हरिम् ।
२०३.५/२तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः ॥ २०३.५॥
२०३.६/१अदितिरुवाच । नमस्ते पुण्डरीकाक्ष भक्तानामभयंकर ।
२०३.६/२सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन ॥ २०३.६॥
२०३.७/१प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
२०३.७/२सितदीर्घादिनिःशेष+ ।कल्पनापरिवर्जित ॥ २०३.७॥
२०३.८/१जन्मादिभिरसंस्पृष्ट+ ।स्वप्नादिवारिवर्जितः ।
२०३.८/२संध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ २०३.८॥
२०३.९/१हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ।
२०३.९/२सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ २०३.९॥
२०३.१०/१ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः ।
२०३.१०/२मायाभिरेतद् व्याप्तं ते जगत् स्थावरजङ्गमम् ॥ २०३.१०॥
२०३.११/१अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन ।
२०३.११/२अहं ममेति भावोऽत्र यया समुपजायते ॥ २०३.११॥
२०३.१२/१संसारमध्ये मायायास्तवैतन् नाथ चेष्टितम् ।
२०३.१२/२यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ २०३.१२॥
२०३.१३/१ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ।
२०३.१३/२ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ॥ २०३.१३॥
२०३.१४/१विष्णुमायामहावर्ते मोहान्धतमसावृताः ।
२०३.१४/२आराध्य त्वामभीप्सन्ते कामान् आत्मभवक्षये ॥ २०३.१४॥
२०३.१५/१पदे ते पुरुषा बद्धा मायया भगवंस्तव ।
२०३.१५/२मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ २०३.१५॥
२०३.१६/१आराधितो न मोक्षाय मायाविलसितं हि तत् ।
२०३.१६/२कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि ॥ २०३.१६॥
२०३.१७/१जायते यद् अपुण्यानां सोऽपराधः स्वदोषजः ।
२०३.१७/२तत् प्रसीदाखिलजगन्+ ंआयामोहकराव्यय ॥ २०३.१७॥
२०३.१८/१अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय ।
२०३.१८/२नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ २०३.१८॥
२०३.१९/१गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ।
२०३.१९/२एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् ।
२०३.१९/३न जानामि परं यत् ते प्रसीद परमेश्वर ॥ २०३.१९॥
२०३.२०/१व्यास उवाच । अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥ २०३.२०॥
२०३.२१/१श्रीकृष्ण उवाच । माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २०३.२१॥
२०३.२२/१अदितिरुवाच । एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः ।
२०३.२२/२अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥ २०३.२२॥
२०३.२३/१व्यास उवाच । ततोऽनन्तरमेवास्य शक्राणीसहितां दितिम् ।
२०३.२३/२सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २०३.२३॥
२०३.२४/१अदितिरुवाच । मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यमेव च ।
२०३.२४/२भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि ॥ २०३.२४॥
२०३.२५/१व्यास उवाच । अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
२०३.२५/२यथावत् पूजयामास बहुमानपुरःसरम् ॥ २०३.२५॥
२०३.२६/१ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
२०३.२६/२देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥ २०३.२६॥
२०३.२७/१ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
२०३.२७/२शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥ २०३.२७॥
२०३.२८/१मथ्यमानेऽमृते जातं जातरूपसमप्रभम् ।
२०३.२८/२पारिजातं जगन्नाथः केशवः केशिसूदनः ।
२०३.२८/३तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥ २०३.२८॥
२०३.२९/१सत्यभामोवाच । कस्मान् न द्वारकामेष नीयते कृष्ण पादपः ।
२०३.२९/२यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥ २०३.२९॥
२०३.३०/१मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः ।
२०३.३०/२न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी ॥ २०३.३०॥
२०३.३१/१सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत् प्रियम् ।
२०३.३१/२सत्यं तद् यदि गोविन्द नोपचारकृतं वचः ॥ २०३.३१॥
२०३.३२/१तद् अस्तु पारिजातोऽयं मम गेहविभूषणम् ।
२०३.३२/२बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् ।
२०३.३२/३सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ २०३.३२॥
२०३.३३/१व्यास उवाच । इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति ।
२०३.३३/२आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ २०३.३३॥
२०३.३४/१वनपाला ऊचुः । भोः शची देवराजस्य महिषी तत्परिग्रहम् ।
२०३.३४/२पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ २०३.३४॥
२०३.३५/१शचीविभूषणार्थाय देवैरमृतमन्थने ।
२०३.३५/२उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ २०३.३५॥
२०३.३६/१मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् ।
२०३.३६/२अवश्यमस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥ २०३.३६॥
२०३.३७/१वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ।
२०३.३७/२तद् अलं सकलैर्देवैर्विग्रहेण तवाच्युत ।
२०३.३७/३विपाककटु यत् कर्म न तच्छंसन्ति पण्डिताः ॥ २०३.३७॥
२०३.३८/१व्यास उवाच । इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी ॥ २०३.३८॥
२०३.३९/१सत्यभामोवाच । का शची पारिजातस्य को वा शक्रः सुराधिपः ।
२०३.३९/२सामान्यः सर्वलोकानां यद्येषोऽमृतमन्थने ॥ २०३.३९॥
२०३.४०/१समुत्पन्नः पुरा कस्माद् एको गृह्णाति वासवः ।
२०३.४०/२यथा सुरा यथा चेन्दुर्यथा श्रीर्वनरक्षिणः ॥ २०३.४०॥
२०३.४१/१सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः ।
२०३.४१/२भर्तृबाहुमहागर्वाद् रुणद्ध्येनमथो शची ॥ २०३.४१॥
२०३.४२/१तत् कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम ।
२०३.४२/२सत्यभामा वदत्येवं भर्तृगर्वोद्धताक्षरम् ॥ २०३.४२॥
२०३.४३/१यदि त्वं दयिता भर्तुर्यदि तस्य प्रिया ह्यसि ।
२०३.४३/२मद्भर्तुर्हरतो वृक्षं तत् कारय निवारणम् ॥ २०३.४३॥
२०३.४४/१जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
२०३.४४/२पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ २०३.४४॥
२०३.४५/१व्यास उवाच । इत्युक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर्यथोदितम् ।
२०३.४५/२शची चोत्साहयामास त्रिदशाधिपतिं पतिम् ॥ २०३.४५॥
२०३.४६/१ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् ।
२०३.४६/२प्रवृक्तः पारिजातार्थमिन्द्रो योधयितुं द्विजाः ॥ २०३.४६॥
२०३.४७/१ततः परिघनिस्त्रिंश+ ।गदाशूलधरायुधाः ।
२०३.४७/२बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥ २०३.४७॥
२०३.४८/१ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
२०३.४८/२शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥ २०३.४८॥
२०३.४९/१चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
२०३.४९/२मुमोच च शरव्रातं सहस्रायुतसम्मितम् ॥ २०३.४९॥
२०३.५०/१ततो दिशो नभश्चैव दृष्ट्वा शरशताचितम् ।
२०३.५०/२मुमुचुस्त्रिदशाः सर्वे शस्त्राण्यस्त्राण्यनेकशः ॥ २०३.५०॥
२०३.५१/१एकैकमस्त्रं शस्त्रं च देवैर्मुक्तं सहस्रधा ।
२०३.५१/२चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ २०३.५१॥
२०३.५२/१पाशं सलिलराजस्य समाकृष्योरगाशनः ।
२०३.५२/२चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत् ॥ २०३.५२॥
२०३.५३/१यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् ।
२०३.५३/२पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ २०३.५३॥
२०३.५४/१शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
२०३.५४/२चकार शौरिरर्केन्दू दृष्टिपातहतौजसौ ॥ २०३.५४॥
२०३.५५/१नीतोऽग्निः शतशो बाणैर्द्राविता वसवो दिशः ।
२०३.५५/२चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥ २०३.५५॥
२०३.५६/१साध्या विश्वे च मरुतो गन्धर्वाश्चैव सायकैः ।
२०३.५६/२शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥ २०३.५६॥
२०३.५७/१गरुडश्चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः ।
२०३.५७/२भक्षयन्न् अहनद् देवान् दानवांश्च सदा खगः ॥ २०३.५७॥
२०३.५८/१ततः शरसहस्रेण देवेन्द्रमधुसूदनौ ।
२०३.५८/२परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ २०३.५८॥
२०३.५९/१ऐरावतेन गरुडो युयुधे तत्र संकुले ।
२०३.५९/२देवैः समेतैर्युयुधे शक्रेण च जनार्दनः ॥ २०३.५९॥
२०३.६०/१छिन्नेषु शीर्यमाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् ।
२०३.६०/२जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ २०३.६०॥
२०३.६१/१ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् ।
२०३.६१/२वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥ २०३.६१॥
२०३.६२/१क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान् हरिः ।
२०३.६२/२न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २०३.६२॥
२०३.६३/१प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
२०३.६३/२सत्यभामाब्रवीद् वाक्यं पलायनपरायणम् ॥ २०३.६३॥
२०३.६४/१सत्यभामोवाच । त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् ।
२०३.६४/२पारिजातस्रगाभोगात् त्वामुपस्थास्यते शची ॥ २०३.६४॥
२०३.६५/१कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् ।
२०३.६५/२अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ २०३.६५॥
२०३.६६/१अलं शक्र प्रयासेन न व्रीडां यातुमर्हसि ।
२०३.६६/२नीयतां पारिजातोऽयं देवाः सन्तु गतव्यथाः ॥ २०३.६६॥
२०३.६७/१पतिगर्वावलेपेन बहुमानपुरःसरम् ।
२०३.६७/२न ददर्श गृहायातामुपचारेण मां शची ॥ २०३.६७॥
२०३.६८/१स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तुः श्लाघनापरा ।
२०३.६८/२ततः कृतवती शक्र भवता सह विग्रहम् ॥ २०३.६८॥
२०३.६९/१तद् अलं पारिजातेन परस्वेन हृतेन वा ।
२०३.६९/२रूपेण यशसा चैव भवेत् स्त्री का न गर्विता ॥ २०३.६९॥
२०३.७०/१व्यास उवाच । इत्युक्ते वै निववृते देवराजस्तया द्विजाः ।
२०३.७०/२प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः ॥ २०३.७०॥
२०३.७१/१न चापि सर्गसंहार+ ।स्थितिकर्ताखिलस्य यः ।
२०३.७१/२जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ २०३.७१॥
२०३.७२/१यस्मिञ् जगत् सकलमेतद् अनादिमध्ये ।
२०३.७२/२यस्माद् यतश्च न भविष्यति सर्वभूतात् ।
२०३.७२/३तेनोद्भवप्रलयपालनकारणेन ।
२०३.७२/४व्रीडा कथं भवति देवि निराकृतस्य ॥ २०३.७२॥
२०३.७३/१सकलभुवनमूर्तिरल्पा सुसूक्ष्मा ।
२०३.७३/२विदितसकलवेदैर्ज्ञायते यस्य नान्यैः ।
२०३.७३/३तमजमकृतमीशं शाश्वतं स्वेच्छयैनम् ।
२०३.७३/४जगदुपकृतिमाद्यं को विजेतुं समर्थः ॥ २०३.७३॥
२०४.१/१व्यास उवाच । संस्तुतो भगवान् इत्थं देवराजेन केशवः ।
२०४.१/२प्रहस्य भावगम्भीरमुवाचेदं द्विजोत्तमाः ॥ २०४.१॥
२०४.२/१श्रीभगवान् उवाच । देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते ।
२०४.२/२क्षन्तव्यं भवतैवैतद् अपराधकृतं मम ॥ २०४.२॥
२०४.३/१पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
२०४.३/२गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ २०४.३॥
२०४.४/१वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया ।
२०४.४/२तवैवैतत् प्रहरणं शक्र वैरिविदारणम् ॥ २०४.४॥
२०४.५/१शक्र उवाच । विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
२०४.५/२जानीमस्त्वां भगवतोऽनन्तसौख्यविदो वयम् ॥ २०४.५॥
२०४.६/१योऽसि सोऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः ।
२०४.६/२जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ २०४.६॥
२०४.७/१नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् ।
२०४.७/२मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥ २०४.७॥
२०४.८/१व्यास उवाच । तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः ।
२०४.८/२प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस्त्वथर्षिभिः ॥ २०४.८॥
२०४.९/१जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् ।
२०४.९/२ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ॥ २०४.९॥
२०४.१०/१हर्षमुत्पादयामास द्वारकावासिनां द्विजाः ।
२०४.१०/२अवतीर्याथ गरुडात् सत्यभामासहायवान् ॥ २०४.१०॥
२०४.११/१निष्कुटे स्थापयामास पारिजातं महातरुम् ।
२०४.११/२यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥ २०४.११॥
२०४.१२/१वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ।
२०४.१२/२ततस्ते यादवाः सर्वे देवगन्धान् अमानुषान् ॥ २०४.१२॥
२०४.१३/१ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् ।
२०४.१३/२किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥ २०४.१३॥
२०४.१४/१स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात् ।
२०४.१४/२ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥ २०४.१४॥
२०४.१५/१ताः कन्या नरकावासात् सर्वतो याः समाहृताः ।
२०४.१५/२एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः ॥ २०४.१५॥
२०४.१६/१जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः ।
२०४.१६/२षोडश स्त्रीसहस्राणि शतमेकं तथाधिकम् ॥ २०४.१६॥
२०४.१७/१तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ।
२०४.१७/२एकैकशश्च ताः कन्या मेनिरे मधुसूदनम् ॥ २०४.१७॥
२०४.१८/१ममैव पाणिग्रहणं गोविन्दः कृतवान् इति ।
२०४.१८/२निशासु जगतः स्रष्टा तासां गेहेषु केशवः ।
२०४.१८/३उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥ २०४.१८॥
२०५.१/१व्यास उवाच । प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः ।
२०५.१/२भान्वादिकांश्च वै पुत्रान् सत्यभामा व्यजायत ॥ २०५.१॥
२०५.२/१दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः ।
२०५.२/२बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः ॥ २०५.२॥
२०५.३/१तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
२०५.३/२संग्रामजित्प्रधानास्तु शैब्यायां चाभवन् सुताः ॥ २०५.३॥
२०५.४/१वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान् सुतान् ।
२०५.४/२अवाप लक्ष्मणा पुत्रान् कालिन्द्याश्च श्रुतादयः ॥ २०५.४॥
२०५.५/१अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
२०५.५/२अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ २०५.५॥
२०५.६/१प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः ।
२०५.६/२प्रद्युम्नाद् अनिरुद्धोऽभूद् वज्रस्तस्माद् अजायत ॥ २०५.६॥
२०५.७/१अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः ।
२०५.७/२बाणस्य तनयामूषामुपयेमे द्विजोत्तमाः ॥ २०५.७॥
२०५.८/१यत्र युद्धमभूद् घोरं हरिशंकरयोर्महत् ।
२०५.८/२छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ २०५.८॥
२०५.९/१मुनय ऊचुः । कथं युद्धमभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः ।
२०५.९/२कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः ॥ २०५.९॥
२०५.१०/१एतत् सर्वं महाभाग वक्तुमर्हसि नोऽखिलम् ।
२०५.१०/२महत् कौतूहलं जातं श्रोतुमेतां कथां शुभाम् ॥ २०५.१०॥
२०५.११/१व्यास उवाच । उषा बाणसुता विप्राः पार्वतीं शम्भुना सह ।
२०५.११/२क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् ।
२०५.११/३ततः सकलचित्तज्ञा गौरी तामाह भामिनीम् ॥ २०५.११॥
२०५.१२/१गौर्युवाच । अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे ॥ २०५.१२॥
२०५.१३/१व्यास उवाच । इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः ।
२०५.१३/२को वा भर्ता ममेत्येनां पुनरप्याह पार्वती ॥ २०५.१३॥
२०५.१४/१पार्वत्युवाच । वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव ।
२०५.१४/२करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ २०५.१४॥
२०५.१५/१व्यास उवाच । तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः ।
२०५.१५/२तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा ।
२०५.१५/३ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ॥ २०५.१५॥
२०५.१६/१उषोवाच । क्व गतोऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम् ।
२०५.१६/२बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता ॥ २०५.१६॥
२०५.१७/१तस्याः सख्यभवत् सा च प्राह कोऽयं त्वयोच्यते ।
२०५.१७/२यदा लज्जाकुला नास्य कथयामास सा सखी ॥ २०५.१७॥
२०५.१८/१तदा विश्वासमानीय सर्वमेवान्ववेदयत् ।
२०५.१८/२विदितायां तु तामाह पुनरूषा यथोदितम् ।
२०५.१८/३देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् ॥ २०५.१८॥
२०५.१९/१व्यास उवाच । ततः पटे सुरान् दैत्यान् गन्धर्वांश्च प्रधानतः ।
२०५.१९/२मनुष्यांश्चाभिलिख्यासौ चित्रलेखाप्यदर्शयत् ॥ २०५.१९॥
२०५.२०/१अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् ।
२०५.२०/२मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २०५.२०॥
२०५.२१/१कृष्णरामौ विलोक्यासीत् सुभ्रूर्लज्जायतेक्षणा ।
२०५.२१/२प्रद्युम्नदर्शने व्रीडा+ ।दृष्टिं निन्ये ततो द्विजाः ॥ २०५.२१॥
२०५.२२/१दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता ।
२०५.२२/२सोऽयं सोऽयं ममेत्युक्ते तया सा योगगामिनी ।
२०५.२२/३ययौ द्वारवतीमूषां समाश्वास्य ततः सखी ॥ २०५.२२॥
२०६.१/१व्यास उवाच । बाणोऽपि प्रणिपत्याग्रे ततश्चाह त्रिलोचनम् ॥ २०६.१॥
२०६.२/१बाण उवाच । देव बाहुसहस्रेण निर्विण्णोऽहं विनाहवम् ।
२०६.२/२कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः ।
२०६.२/३भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २०६.२॥
२०६.३/१शंकर उवाच । मयूरध्वजभङ्गस्ते यदा बाण भविष्यति ।
२०६.३/२पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥ २०६.३॥
२०६.४/१व्यास उवाच । ततः प्रणम्य मुदितः शम्भुमभ्यागतो गृहात् ।
२०६.४/२भग्नं ध्वजमथालोक्य हृष्टो हर्षं परं ययौ ॥ २०६.४॥
२०६.५/१एतस्मिन्न् एव काले तु योगविद्याबलेन तम् ।
२०६.५/२अनिरुद्धमथानिन्ये चित्रलेखा वरा सखी ॥ २०६.५॥
२०६.६/१कन्यान्तःपुरमध्ये तं रममाणं सहोषया ।
२०६.६/२विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ॥ २०६.६॥
२०६.७/१व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना ।
२०६.७/२जघान परिघं लौहमादाय परवीरहा ॥ २०६.७॥
२०६.८/१हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः ।
२०६.८/२युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥ २०६.८॥
२०६.९/१मायया युयुधे तेन स तदा मन्त्रचोदितः ।
२०६.९/२ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ २०६.९॥
२०६.१०/१द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।
२०६.१०/२यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ २०६.१०॥
२०६.११/१तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया ।
२०६.११/२योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति ॥ २०६.११॥
२०६.१२/१ततो गरुडमारुह्य स्मृतमात्रागतं हरिः ।
२०६.१२/२बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ २०६.१२॥
२०६.१३/१पुरीप्रवेशे प्रमथैर्युद्धमासीन् महाबलैः ।
२०६.१३/२ययौ बाणपुराभ्याशं नीत्वा तान् संक्षयं हरिः ॥ २०६.१३॥
२०६.१४/१ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
२०६.१४/२बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना ॥ २०६.१४॥
२०६.१५/१तद्भस्मस्पर्शसम्भूत+ ।तापं कृष्णाङ्गसंगमात् ।
२०६.१५/२अवाप बलदेवोऽपि समं सम्मीलितेक्षणः ॥ २०६.१५॥
२०६.१६/१ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा ।
२०६.१६/२वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः ॥ २०६.१६॥
२०६.१७/१नारायणभुजाघात+ ।परिपीडनविह्वलम् ।
२०६.१७/२तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ २०६.१७॥
२०६.१८/१ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम् ।
२०६.१८/२आत्मन्येव लयं निन्ये भगवान् मधुसूदनः ॥ २०६.१८॥
२०६.१९/१मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः ।
२०६.१९/२विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः ॥ २०६.१९॥
२०६.२०/१ततोऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा ।
२०६.२०/२दानवानां बलं विष्णुश्चूर्णयामास लीलया ॥ २०६.२०॥
२०६.२१/१ततः समस्तसैन्येन दैतेयानां बलेः सुतः ।
२०६.२१/२युयुधे शंकरश्चैव कार्त्तिकेयश्च शौरिणा ॥ २०६.२१॥
२०६.२२/१हरिशंकरयोर्युद्धमतीवासीत् सुदारुणम् ।
२०६.२२/२चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधार्दिताः ॥ २०६.२२॥
२०६.२३/१प्रलयोऽयमशेषस्य जगतो नूनमागतः ।
२०६.२३/२मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥ २०६.२३॥
२०६.२४/१जृम्भणास्त्रेण गोविन्दो जृम्भयामास शंकरम् ।
२०६.२४/२ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २०६.२४॥
२०६.२५/१जृम्भाभिभूतश्च हरो रथोपस्थमुपाविशत् ।
२०६.२५/२न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २०६.२५॥
२०६.२६/१गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः ।
२०६.२६/२कृष्णहुंकारनिर्धूत+ ।शक्तिश्चापययौ गुहः ॥ २०६.२६॥
२०६.२७/१जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते ।
२०६.२७/२नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ २०६.२७॥
२०६.२८/१नन्दीशसंगृहीताश्वमधिरूढो महारथम् ।
२०६.२८/२बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २०६.२८॥
२०६.२९/१बलभद्रो महावीर्यो बाणसैन्यमनेकधा ।
२०६.२९/२विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः ॥ २०६.२९॥
२०६.३०/१आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् ।
२०६.३०/२बलं बलेन ददृशे बाणो बाणैश्च चक्रिणः ॥ २०६.३०॥
२०६.३१/१ततः कृष्णस्य बाणेन युद्धमासीत् समासतः ।
२०६.३१/२परस्परं तु संदीप्तान् कायत्राणविभेदिनः ॥ २०६.३१॥
२०६.३२/१कृष्णश्चिच्छेद बाणांस्तान् बाणेन प्रहिताञ् शरैः ।
२०६.३२/२बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥ २०६.३२॥
२०६.३३/१मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया ।
२०६.३३/२परस्परक्षतिपरौ परिघांश्च ततो द्विजाः ॥ २०६.३३॥
२०६.३४/१छिद्यमानेष्वशेषेषु शस्त्रेष्वस्त्रे च सीदति ।
२०६.३४/२प्राचुर्येण हरिर्बाणं हन्तुं चक्रे ततो मनः ॥ २०६.३४॥
२०६.३५/१ततोऽर्कशतसम्भूत+ ।तेजसा सदृशद्युति ।
२०६.३५/२जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ २०६.३५॥
२०६.३६/१मुञ्चतो बाणनाशाय तच्चक्रं मधुविद्विषः ।
२०६.३६/२नग्ना दैतेयविद्याभूत् कोटरी पुरतो हरेः ॥ २०६.३६॥
२०६.३७/१तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् ।
२०६.३७/२मुमोच बाणमुद्दिश्य छेत्तुं बाहुवनं रिपोः ॥ २०६.३७॥
२०६.३८/१क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् ।
२०६.३८/२छेदं चक्रेऽसुरस्याशु शस्त्रास्त्रक्षेपणाद् द्रुतम् ॥ २०६.३८॥
२०६.३९/१छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः ।
२०६.३९/२मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ २०६.३९॥
२०६.४०/१स उत्पत्याह गोविन्दं सामपूर्वमुमापतिः ।
२०६.४०/२विलोक्य बाणं दोर्दण्ड+ ॅह्छेदासृक्स्राववर्षिणम् ॥ २०६.४०॥
२०६.४१/१रुद्र उवाच । कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।
२०६.४१/२परेशं परमात्मानमनादिनिधनं परम् ॥ २०६.४१॥
२०६.४२/१देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
२०६.४२/२लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥ २०६.४२॥
२०६.४३/१तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
२०६.४३/२तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः ॥ २०६.४३॥
२०६.४४/१अस्मत्संश्रयवृद्धोऽयं नापराधस्तवाव्यय ।
२०६.४४/२मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ २०६.४४॥
२०६.४५/१व्यास उवाच । इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम् ।
२०६.४५/२प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ २०६.४५॥
२०६.४६/१श्रीभगवान् उवाच । युष्मद्दत्तवरो बाणो जीवताद् एष शंकर ।
२०६.४६/२त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम् ॥ २०६.४६॥
२०६.४७/१त्वया यद् अभयं दत्तं तद् दत्तमभयं मया ।
२०६.४७/२मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शंकर ॥ २०६.४७॥
२०६.४८/१योऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।
२०६.४८/२अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥ २०६.४८॥
२०६.४९/१व्यास उवाच । इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति ।
२०६.४९/२तद्बन्धफणिनो नेशुर्गरुडानिलशोषिताः ॥ २०६.४९॥
२०६.५०/१ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति ।
२०६.५०/२आजग्मुर्द्वारकां राम+ ।कार्ष्णिदामोदराः पुरीम् ॥ २०६.५०॥
२०७.१/१मुनय ऊचुः । चक्रे कर्म महच्छौरिर्बिभ्रद् यो मानुषीं तनुम् ।
२०७.१/२जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥ २०७.१॥
२०७.२/१यच्चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत् ।
२०७.२/२कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः ॥ २०७.२॥
२०७.३/१व्यास उवाच । गदतो मे मुनिश्रेष्ठाः श्रूयतामिदमादरात् ।
२०७.३/२नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ २०७.३॥
२०७.४/१पौण्ड्रको वासुदेवश्च वासुदेवोऽभवद् भुवि ।
२०७.४/२अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ २०७.४॥
२०७.५/१स मेने वासुदेवोऽहमवतीर्णो महीतले ।
२०७.५/२नष्टस्मृतिस्ततः सर्वं विष्णुचिह्नमचीकरत् ।
२०७.५/३दूतं च प्रेषयामास स कृष्णाय द्विजोत्तमाः ॥ २०७.५॥
२०७.६/१दूत उवाच । त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः ।
२०७.६/२वासुदेवात्मकं मूढ मुक्त्वा सर्वमशेषतः ॥ २०७.६॥
२०७.७/१आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥ २०७.७॥
२०७.८/१व्यास उवाच । इत्युक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥ २०७.८॥
२०७.९/१श्रीभगवान् उवाच । निजचिह्नमहं चक्रं समुत्स्रक्ष्ये त्वयीति वै ।
२०७.९/२वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥ २०७.९॥
२०७.१०/१ज्ञातस्त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् ।
२०७.१०/२गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् ॥ २०७.१०॥
२०७.११/१उत्स्रक्ष्यामि च ते चक्रं निजचिह्नमसंशयम् ।
२०७.११/२आज्ञापूर्वं च यद् इदमागच्छेति त्वयोदितम् ॥ २०७.११॥
२०७.१२/१सम्पादयिष्ये श्वस्तुभ्यं तद् अप्येषोऽविलम्बितम् ।
२०७.१२/२शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
२०७.१२/३यथा त्वत्तो भयं भूयो नैव किंचिद् भविष्यति ॥ २०७.१२॥
२०७.१३/१व्यास उवाच । इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः ।
२०७.१३/२गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥ २०७.१३॥
२०७.१४/१तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा ।
२०७.१४/२सर्वसैन्यपरीवार+ ।पार्ष्णिग्राहमुपाययौ ॥ २०७.१४॥
२०७.१५/१ततो बलेन महता काशिराजबलेन च ।
२०७.१५/२पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखं ययौ ॥ २०७.१५॥
२०७.१६/१तं ददर्श हरिर्दूराद् उदारस्यन्दने स्थितम् ।
२०७.१६/२चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥ २०७.१६॥
२०७.१७/१स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् ।
२०७.१७/२वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥ २०७.१७॥
२०७.१८/१किरीटकुण्डलधरं पीतवासःसमन्वितम् ।
२०७.१८/२दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥ २०७.१८॥
२०७.१९/१युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः ।
२०७.१९/२निस्त्रिंशर्ष्टिगदाशूल+ ।शक्तिकार्मुकशालिना ॥ २०७.१९॥
२०७.२०/१क्षणेन शार्ङ्गनिर्मुक्तैः शरैरग्निविदारणैः ।
२०७.२०/२गदाचक्रातिपातैश्च सूदयामास तद्बलम् ॥ २०७.२०॥
२०७.२१/१काशिराजबलं चैव क्षयं नीत्वा जनार्दनः ।
२०७.२१/२उवाच पौण्ड्रकं मूढमात्मचिह्नोपलक्षणम् ॥ २०७.२१॥
२०७.२२/१श्रीभगवान् उवाच । पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति ।
२०७.२२/२समुत्सृजेति चिह्नानि तत् ते सम्पादयाम्यहम् ॥ २०७.२२॥
२०७.२३/१चक्रमेतत् समुत्सृष्टं गदेयं ते विसर्जिता ।
२०७.२३/२गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम् ॥ २०७.२३॥
२०७.२४/१इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
२०७.२४/२पोथितो गदया भग्नो गरुत्मांश्च गरुत्मता ॥ २०७.२४॥
२०७.२५/१ततो हाहाकृते लोके काशीनामधिपस्तदा ।
२०७.२५/२युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २०७.२५॥
२०७.२६/१ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ।
२०७.२६/२काशिपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २०७.२६॥
२०७.२७/१हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् ।
२०७.२७/२रेमे द्वारवतीं प्राप्तोऽमरः स्वर्गगतो यथा ॥ २०७.२७॥
२०७.२८/१तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे ।
२०७.२८/२जनः किमेतद् इत्याह केनेत्यत्यन्तविस्मितः ॥ २०७.२८॥
२०७.२९/१ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः ।
२०७.२९/२पुरोहितेन सहितस्तोषयामास शंकरम् ॥ २०७.२९॥
२०७.३०/१अविमुक्ते महाक्षेत्रे तोषितस्तेन शंकरः ।
२०७.३०/२वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ २०७.३०॥
२०७.३१/१स वव्रे भगवन् कृत्या पितुर्हन्तुर्वधाय मे ।
२०७.३१/२समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर ॥ २०७.३१॥
२०७.३२/१व्यास उवाच । एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।
२०७.३२/२महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥ २०७.३२॥
२०७.३३/१ततो ज्वालाकरालास्या ज्वलत्केशकलापिका ।
२०७.३३/२कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥ २०७.३३॥
२०७.३४/१तामवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् ।
२०७.३४/२ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ २०७.३४॥
२०७.३५/१जना ऊचुः । काशिराजसुतेनेयमाराध्य वृषभध्वजम् ।
२०७.३५/२उत्पादिता महाकृत्या वधाय तव चक्रिणः ।
२०७.३५/३जहि कृत्यामिमामुग्रां वह्निज्वालाजटाकुलाम् ॥ २०७.३५॥
२०७.३६/१व्यास उवाच । चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ।
२०७.३६/२तद् अग्निमालाजटिलं ज्वालोद्गारातिभीषणम् ॥ २०७.३६॥
२०७.३७/१कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ।
२०७.३७/२ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥ २०७.३७॥
२०७.३८/१जगाम वेगिनी वेगात् तद् अप्यनुजगाम ताम् ।
२०७.३८/२कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ॥ २०७.३८॥
२०७.३९/१विष्णुचक्रप्रतिहत+ ।प्रभावा मुनिसत्तमाः ।
२०७.३९/२ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥ २०७.३९॥
२०७.४०/१समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ।
२०७.४०/२शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद् बलमोजसा ॥ २०७.४०॥
२०७.४१/१कृत्वाक्षेमामशेषां तां पुरीं वाराणसीं ययौ ।
२०७.४१/२प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥ २०७.४१॥
२०७.४२/१अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि ।
२०७.४२/२ज्वालापरिवृताशेष+ ।गृहप्राकारतोरणाम् ॥ २०७.४२॥
२०७.४३/१ददाह तां पुरीं चक्रं सकलामेव सत्वरम् ।
२०७.४३/२अक्षीणामर्षमत्यल्प+ ।साध्यसाधननिस्पृहम् ।
२०७.४३/३तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ २०७.४३॥
२०८.१/१मुनय ऊचुः । श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः ।
२०८.१/२मुने पराक्रमं शौर्यं तन् नो व्याख्यातुमर्हसि ॥ २०८.१॥
२०८.२/१यमुनाकर्षणादीनि श्रुतान्यस्माभिरत्र वै ।
२०८.२/२तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः ॥ २०८.२॥
२०८.३/१व्यास उवाच । शृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम् ।
२०८.३/२अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥ २०८.३॥
२०८.४/१दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् ।
२०८.४/२बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः ॥ २०८.४॥
२०८.५/१ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।
२०८.५/२भीष्मद्रोणादयश्चैव बबन्धुर्युधि निर्जितम् ॥ २०८.५॥
२०८.६/१तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु ।
२०८.६/२मुनयः प्रतिचक्रुश्च तान् विहन्तुं महोद्यमम् ॥ २०८.६॥
२०८.७/१तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम् ।
२०८.७/२मोक्ष्यन्ति ते मद्वचनाद् यास्याम्येको हि कौरवान् ॥ २०८.७॥
२०८.८/१बलदेवस्ततो गत्वा नगरं नागसाह्वयम् ।
२०८.८/२बाह्योपवनमध्येऽभून् न विवेश च तत् पुरम् ॥ २०८.८॥
२०८.९/१बलमागतमाज्ञाय तदा दुर्योधनादयः ।
२०८.९/२गामर्घमुदकं चैव रामाय प्रत्यवेदयन् ।
२०८.९/३गृहीत्वा विधिवत् सर्वं ततस्तान् आह कौरवान् ॥ २०८.९॥
२०८.१०/१बलदेव उवाच । आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥ २०८.१०॥
२०८.११/१व्यास उवाच । ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः ।
२०८.११/२कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः ॥ २०८.११॥
२०८.१२/१ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः ।
२०८.१२/२अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम् ॥ २०८.१२॥
२०८.१३/१कौरवा ऊचुः । भो भोः किमेतद् भवता बलभद्रेरितं वचः ।
२०८.१३/२आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ २०८.१३॥
२०८.१४/१उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
२०८.१४/२तद् अलं पाण्डुरैश्छत्त्रैर्नृपयोग्यैरलंकृतैः ॥ २०८.१४॥
२०८.१५/१तद् गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम् ।
२०८.१५/२विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ २०८.१५॥
२०८.१६/१प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः ।
२०८.१६/२न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ २०८.१६॥
२०८.१७/१गर्वमारोपिता यूयं समानासनभोजनैः ।
२०८.१७/२को दोषो भवतां नीतिर्यत् प्रीणात्यनपेक्षिता ॥ २०८.१७॥
२०८.१८/१अस्माभिरर्च्यो भवता योऽयं बल निवेदितः ।
२०८.१८/२प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम् ॥ २०८.१८॥
२०८.१९/१व्यास उवाच । इत्युक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् ।
२०८.१९/२कृतैकनिश्चयाः सर्वे विविशुर्गजसाह्वयम् ॥ २०८.१९॥
२०८.२०/१मत्तः कोपेन चाघूर्णं ततोऽधिक्षेपजन्मना ।
२०८.२०/२उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २०८.२०॥
२०८.२१/१ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः ।
२०८.२१/२आस्फोटयामास तदा दिशः शब्देन पूरयन् ।
२०८.२१/३उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥ २०८.२१॥
२०८.२२/१बलदेव उवाच । अहो महावलेपोऽयमसाराणां दुरात्मनाम् ।
२०८.२२/२कौरवाणामाधिपत्यमस्माकं किल कालजम् ॥ २०८.२२॥
२०८.२३/१उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्यलङ्घनाम् ।
२०८.२३/२आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः ॥ २०८.२३॥
२०८.२४/१सदाध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः ।
२०८.२४/२धिङ् मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २०८.२४॥
२०८.२५/१पारिजाततरोः पुष्प+ ंअञ्जरीर्वनिताजनः ।
२०८.२५/२बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥ २०८.२५॥
२०८.२६/१समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु ।
२०८.२६/२अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तां पुरीम् ॥ २०८.२६॥
२०८.२७/१कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
२०८.२७/२दुःशासनादीन् भूरिं च भूरिश्रवसमेव च ॥ २०८.२७॥
२०८.२८/१सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् ।
२०८.२८/२यमजौ कौरवांश्चान्यान् हन्यां साश्वरथद्विपान् ॥ २०८.२८॥
२०८.२९/१वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् ।
२०८.२९/२द्वारकामुग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ॥ २०८.२९॥
२०८.३०/१अथवा कौरवादीनां समस्तैः कुरुभिः सह ।
२०८.३०/२भारावतरणे शीघ्रं देवराजेन चोदितः ॥ २०८.३०॥
२०८.३१/१भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ २०८.३१॥
२०८.३२/१व्यास उवाच । इत्युक्त्वा क्रोधरक्ताक्षस्तालाङ्कोऽधोमुखं हलम् ।
२०८.३२/२प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥ २०८.३२॥
२०८.३३/१आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् ।
२०८.३३/२दृष्ट्वा संक्षुब्धहृदयाश्चुक्रुशुः सर्वकौरवाः ॥ २०८.३३॥
२०८.३४/१कौरवा ऊचुः । राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
२०८.३४/२उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥ २०८.३४॥
२०८.३५/१एष साम्बः सपत्नीकस्तव निर्यातितो बल ।
२०८.३५/२अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम् ॥ २०८.३५॥
२०८.३६/१व्यास उवाच । ततो निर्यातयामासुः साम्बं पत्न्या समन्वितम् ।
२०८.३६/२निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥ २०८.३६॥
२०८.३७/१भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
२०८.३७/२क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ २०८.३७॥
२०८.३८/१अद्याप्याघूर्णिताकारं लक्ष्यते तत् पुरं द्विजाः ।
२०८.३८/२एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥ २०८.३८॥
२०८.३९/१ततस्तु कौरवाः साम्बं सम्पूज्य हलिना सह ।
२०८.३९/२प्रेषयामासुरुद्वाह+ ।धनभार्यासमन्वितम् ॥ २०८.३९॥
२०९.१/१व्यास उवाच । शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः ।
२०९.१/२कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः ॥ २०९.१॥
२०९.२/१नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।
२०९.२/२सखाभवन् महावीर्यो द्विविदो नाम वानरः ॥ २०९.२॥
२०९.३/१वैरानुबन्धं बलवान् स चकार सुरान् प्रति ॥ २०९.३॥
२०९.४/१द्विविद उवाच । नरकं हतवान् कृष्णो बलदर्पसमन्वितम् ।
२०९.४/२करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम् ॥ २०९.४॥
२०९.५/१व्यास उवाच । यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा ।
२०९.५/२ततो विध्वंसयामास यज्ञान् अज्ञानमोहितः ॥ २०९.५॥
२०९.६/१बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ।
२०९.६/२ददाह चपलो देशं पुरग्रामान्तराणि च ॥ २०९.६॥
२०९.७/१क्वचिच्च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत् ।
२०९.७/२शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥ २०९.७॥
२०९.८/१पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् ।
२०९.८/२तेनातिक्षोभितश्चाब्धिरुद्वेलो जायते द्विजाः ॥ २०९.८॥
२०९.९/१प्लावयंस्तीरजान् ग्रामान् पुरादीन् अतिवेगवान् ।
२०९.९/२कामरूपं महारूपं कृत्वा सस्यान्यनेकशः ॥ २०९.९॥
२०९.१०/१लुठन् भ्रमणसम्मर्दैः संचूर्णयति वानरः ।
२०९.१०/२तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना ॥ २०९.१०॥
२०९.११/१निःस्वाध्यायवषट्कारं द्विजाश्चासीत् सुदुःखितम् ।
२०९.११/२कदाचिद् रैवतोद्याने पपौ पानं हलायुधः ॥ २०९.११॥
२०९.१२/१रेवती च महाभागा तथैवान्या वरस्त्रियः ।
२०९.१२/२उद्गीयमानो विलसल्+ ।ललनामौलिमध्यगः ॥ २०९.१२॥
२०९.१३/१रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे ।
२०९.१३/२ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥ २०९.१३॥
२०९.१४/१मुशलं च चकारास्य सम्मुखः स विडम्बनाम् ।
२०९.१४/२तथैव योषितां तासां जहासाभिमुखं कपिः ॥ २०९.१४॥
२०९.१५/१पानपूर्णांश्च करकांश्चिक्षेपाहत्य वै तदा ।
२०९.१५/२ततः कोपपरीतात्मा भर्त्सयामास तं बलम् ॥ २०९.१५॥
२०९.१६/१तथापि तमवज्ञाय चक्रे किलकिलाध्वनिम् ।
२०९.१६/२ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥ २०९.१६॥
२०९.१७/१सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।
२०९.१७/२चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥ २०९.१७॥
२०९.१८/१बिभेद यादवश्रेष्ठः सा पपात महीतले ।
२०९.१८/२अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवंगमः ॥ २०९.१८॥
२०९.१९/१वेगेनायम्य रोषेण बलेनोरस्यताडयत् ।
२०९.१९/२ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥ २०९.१९॥
२०९.२०/१पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ।
२०९.२०/२पतता तच्छरीरेण गिरेः शृङ्गमशीर्यत ॥ २०९.२०॥
२०९.२१/१मुनयः शतधा वज्रि+ ।वज्रेणेव हि ताडितम् ।
२०९.२१/२पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥ २०९.२१॥
२०९.२२/१प्रशशंसुस्तदाभ्येत्य साध्वेतत् ते महत् कृतम् ।
२०९.२२/२अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
२०९.२२/३जगन् निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ २०९.२२॥
२०९.२३/१व्यास उवाच । एवंविधान्यनेकानि बलदेवस्य धीमतः ।
२०९.२३/२कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ २०९.२३॥
२१०.१/१व्यास उवाच । एवं दैत्यवधं कृष्णो बलदेवसहायवान् ।
२१०.१/२चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ २१०.१॥
२१०.२/१क्षितेश्च भारं भगवान् फाल्गुनेन समं विभुः ।
२१०.२/२अवतारयामास हरिः समस्ताक्षौहिणीवधात् ॥ २१०.२॥
२१०.३/१कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् ।
२१०.३/२शापव्याजेन विप्राणामुपसंहृतवान् कुलम् ॥ २१०.३॥
२१०.४/१उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः ।
२१०.४/२स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम् ॥ २१०.४॥
२१०.५/१मुनय ऊचुः । स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् ।
२१०.५/२कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ २१०.५॥
२१०.६/१व्यास उवाच । विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।
२१०.६/२पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥ २१०.६॥
२१०.७/१ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
२१०.७/२साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा ।
२१०.७/३प्रसृतास्तान् मुनीन् ऊचुः प्रणिपातपुरःसरम् ॥ २१०.७॥
२१०.८/१कुमारा ऊचुः । इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥ २१०.८॥
२१०.९/१व्यास उवाच । दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः ।
२१०.९/२शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः ॥ २१०.९॥
२१०.१०/१मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति ।
२१०.१०/२येनाखिलकुलोत्सादो यादवानां भविष्यति ॥ २१०.१०॥
२१०.११/१इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम् ।
२१०.११/२उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥ २१०.११॥
२१०.१२/१तद् उग्रसेनो मुशलमयश्चूर्णमकारयत् ।
२१०.१२/२जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥ २१०.१२॥
२१०.१३/१मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः ।
२१०.१३/२खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति ॥ २१०.१३॥
२१०.१४/१तद् अप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
२१०.१४/२घातितस्योदरात् तस्य लुब्धो जग्राह तज्जरा ॥ २१०.१४॥
२१०.१५/१विज्ञातपरमार्थोऽपि भगवान् मधुसूदनः ।
२१०.१५/२नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम् ॥ २१०.१५॥
२१०.१६/१देवैश्च प्रहितो दूतः प्रणिपत्याह केशवम् ।
२१०.१६/२रहस्येवमहं दूतः प्रहितो भगवन् सुरैः ॥ २१०.१६॥
२१०.१७/१वस्वश्विमरुदादित्य+ ।रुद्रसाध्यादिभिः सह ।
२१०.१७/२विज्ञापयति वः शक्रस्तद् इदं श्रूयतां प्रभो ॥ २१०.१७॥
२१०.१८/१देवा ऊचुः । भारावतरणार्थाय वर्षाणामधिकं शतम् ।
२१०.१८/२भगवान् अवतीर्णोऽत्र त्रिदशैः सम्प्रसादितः ॥ २१०.१८॥
२१०.१९/१दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
२१०.१९/२त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥ २१०.१९॥
२१०.२०/१तद् अतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
२१०.२०/२इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २१०.२०॥
२१०.२१/१देवैर्विज्ञापितो देवोऽप्यथात्रैव रतिस्तव ।
२१०.२१/२तत् स्थीयतां यथाकालमाख्येयमनुजीविभिः ॥ २१०.२१॥
२१०.२२/१श्रीभगवान् उवाच । यत् त्वमात्थाखिलं दूत वेद्मि चैतद् अहं पुनः ।
२१०.२२/२प्रारब्ध एव हि मया यादवानामपि क्षयः ॥ २१०.२२॥
२१०.२३/१भुवो नामातिभारोऽयं यादवैरनिबर्हितैः ।
२१०.२३/२अवतारं करोम्यस्य सप्तरात्रेण सत्वरः ॥ २१०.२३॥
२१०.२४/१यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः ।
२१०.२४/२यादवान् उपसंहृत्य यास्यामि त्रिदशालयम् ॥ २१०.२४॥
२१०.२५/१मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।
२१०.२५/२प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥ २१०.२५॥
२१०.२६/१जरासंधादयो येऽन्ये निहता भारहेतवः ।
२१०.२६/२क्षितेस्तेभ्यः स भारो हि यदूनां समधीयत ॥ २१०.२६॥
२१०.२७/१तद् एतत् सुमहाभारमवतार्य क्षितेरहम् ।
२१०.२७/२यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ २१०.२७॥
२१०.२८/१व्यास उवाच । इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
२१०.२८/२द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥ २१०.२८॥
२१०.२९/१भगवान् अप्यथोत्पातान् दिव्यान् भौमान्तरिक्षगान् ।
२१०.२९/२ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २१०.२९॥
२१०.३०/१तान् दृष्ट्वा यादवान् आह पश्यध्वमतिदारुणान् ।
२१०.३०/२महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम् ॥ २१०.३०॥
२१०.३१/१व्यास उवाच । महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ २१०.३१॥
२१०.३२/१उद्धव उवाच । भगवन् यन् मया कार्यं तद् आज्ञापय साम्प्रतम् ।
२१०.३२/२मन्ये कुलमिदं सर्वं भगवान् संहरिष्यति ।
२१०.३२/३नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ २१०.३२॥
२१०.३३/१श्रीभगवान् उवाच । गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
२१०.३३/२बदरीमाश्रमं पुण्यं गन्धमादनपर्वते ॥ २१०.३३॥
२१०.३४/१नरनारायणस्थाने पवित्रितमहीतले ।
२१०.३४/२मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ॥ २१०.३४॥
२१०.३५/१अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् ।
२१०.३५/२द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥ २१०.३५॥
२१०.३६/१व्यास उवाच । इत्युक्तः प्रणिपत्यैनं जगाम स तदोद्धवः ।
२१०.३६/२नरनारायणस्थानं केशवेनानुमोदितः ॥ २१०.३६॥
२१०.३७/१ततस्ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान् ।
२१०.३७/२प्रभासं प्रययुः सार्धं कृष्णरामादिभिर्द्विजाः ॥ २१०.३७॥
२१०.३८/१प्राप्य प्रभासं प्रयता प्रीतास्ते कुक्कुरान्धकाः ।
२१०.३८/२चक्रुस्तत्र सुरापानं वासुदेवानुमोदिताः ॥ २१०.३८॥
२१०.३९/१पिबतां तत्र वै तेषां संघर्षेण परस्परम् ।
२१०.३९/२यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥ २१०.३९॥
२१०.४०/१जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात् कृताः ।
२१०.४०/२क्षीणशस्त्रास्तु जगृहुः प्रत्यासन्नामथैरकाम् ॥ २१०.४०॥
२१०.४१/१एरका तु गृहीता तैर्वज्रभूतेव लक्ष्यते ।
२१०.४१/२तया परस्परं जघ्नुः सम्प्रहारैः सुदारुणैः ॥ २१०.४१॥
२१०.४२/१प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः ।
२१०.४२/२अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ २१०.४२॥
२१०.४३/१चारुवर्मा सुचारुश्च तथाक्रूरादयो द्विजाः ।
२१०.४३/२एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ २१०.४३॥
२१०.४४/१निवारयामास हरिर्यादवास्ते च केशवम् ।
२१०.४४/२सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥ २१०.४४॥
२१०.४५/१कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
२१०.४५/२वधाय तेषां मुशलं मुष्टिलोहमभूत् तदा ॥ २१०.४५॥
२१०.४६/१जघान तेन निःशेषान् आततायी स यादवान् ।
२१०.४६/२जघ्नुश्च सहसाभ्येत्य तथान्ये तु परस्परम् ॥ २१०.४६॥
२१०.४७/१ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।
२१०.४७/२पश्यतो दारुकस्याशु हृतोऽश्वैर्द्विजसत्तमाः ॥ २१०.४७॥
२१०.४८/१चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खोऽसिरेव च ।
२१०.४८/२प्रदक्षिणं ततः कृत्वा जग्मुरादित्यवर्त्मना ॥ २१०.४८॥
२१०.४९/१क्षणमात्रेण वै तत्र यादवानामभूत् क्षयः ।
२१०.४९/२ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥ २१०.४९॥
२१०.५०/१चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् ।
२१०.५०/२ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ २१०.५०॥
२१०.५१/१निष्क्रम्य स मुखात् तस्य महाभोगो भुजंगमः ।
२१०.५१/२प्रयातश्चार्णवं सिद्धैः पूज्यमानस्तथोरगैः ॥ २१०.५१॥
२१०.५२/१तमर्घ्यमादाय तदा जलधिः सम्मुखं ययौ ।
२१०.५२/२प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः ।
२१०.५२/३दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥ २१०.५२॥
२१०.५३/१श्रीभगवान् उवाच । इदं सर्वं त्वमाचक्ष्व वसुदेवोग्रसेनयोः ।
२१०.५३/२निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥ २१०.५३॥
२१०.५४/१योगे स्थित्वाहमप्येतत् परित्यज्य कलेवरम् ।
२१०.५४/२वाच्यश्च द्वारकावासी जनः सर्वस्तथाहुकः ॥ २१०.५४॥
२१०.५५/१यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति ।
२१०.५५/२तस्माद् रथैः सुसज्जैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ॥ २१०.५५॥
२१०.५६/१न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ।
२१०.५६/२तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ २१०.५६॥
२१०.५७/१गत्वा च ब्रूहि कौन्तेयमर्जुनं वचनं मम ।
२१०.५७/२पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥ २१०.५७॥
२१०.५८/१इत्यर्जुनेन सहितो द्वारवत्यां भवाञ् जनम् ।
२१०.५८/२गृहीत्वा यातु वज्रश्च यदुराजो भविष्यति ॥ २१०.५८॥
२११.१/१व्यास उवाच । इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
२११.१/२प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥ २११.१॥
२११.२/१स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् ।
२११.२/२आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥ २११.२॥
२११.३/१भगवान् अपि गोविन्दो वासुदेवात्मकं परम् ।
२११.३/२ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ॥ २११.३॥
२११.४/१स मानयन् द्विजवचो दुर्वासा यद् उवाच ह ।
२११.४/२योगयुक्तोऽभवत् पादं कृत्वा जानुनि सत्तमाः ॥ २११.४॥
२११.५/१सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः ।
२११.५/२मुशलशेषलोहस्य सायकं धारयन् परम् ॥ २११.५॥
२११.६/१स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः ।
२११.६/२ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥ २११.६॥
२११.७/१गतश्च ददृशे तत्र चतुर्बाहुधरं नरम् ।
२११.७/२प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ २११.७॥
२११.८/१अजानता कृतमिदं मया हरिणशङ्कया ।
२११.८/२क्षम्यतामात्मपापेन दग्धं मा दग्धुमर्हसि ॥ २११.८॥
२११.९/१व्यास उवाच । ततस्तं भगवान् आह नास्ति ते भयमण्वपि ।
२११.९/२गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥ २११.९॥
२११.१०/१व्यास उवाच । विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।
२११.१०/२आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ २११.१०॥
२११.११/१गते तस्मिन् स भगवान् संयोज्यात्मानमात्मनि ।
२११.११/२ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले ॥ २११.११॥
२११.१२/१अजन्मन्यजरेऽनाशिन्यप्रमेयेऽखिलात्मनि ।
२११.१२/२त्यक्त्वा स मानुषं देहमवाप त्रिविधां गतिम् ॥ २११.१२॥
२१२.१/१व्यास उवाच । अर्जुनोऽपि तदान्विष्य कृष्णरामकलेवरे ।
२१२.१/२संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ २१२.१॥
२१२.२/१अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।
२१२.२/२उपगृह्य हरेर्देहं विविशुस्ता हुताशनम् ॥ २१२.२॥
२१२.३/१रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः ।
२१२.३/२विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥ २१२.३॥
२१२.४/१उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुन्दुभिः ।
२१२.४/२देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ २१२.४॥
२१२.५/१ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
२१२.५/२निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ २१२.५॥
२१२.६/१द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।
२१२.६/२वज्रं जनं च कौन्तेयः पालयञ् शनकैर्ययौ ॥ २१२.६॥
२१२.७/१सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता ।
२१२.७/२स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः ॥ २१२.७॥
२१२.८/१यस्मिन् दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् ।
२१२.८/२तस्मिन् दिनेऽवतीर्णोऽयं कालकायः कलिः किल ॥ २१२.८॥
२१२.९/१प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
२१२.९/२यदुश्रेष्ठगृहं त्वेकं नाप्लावयत सागरः ॥ २१२.९॥
२१२.१०/१नातिक्रामति भो विप्रास्तद् अद्यापि महोदधिः ।
२१२.१०/२नित्यं संनिहितस्तत्र भगवान् केशवो यतः ॥ २१२.१०॥
२१२.११/१तद् अतीव महापुण्यं सर्वपातकनाशनम् ।
२१२.११/२विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ २१२.११॥
२१२.१२/१पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
२१२.१२/२चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥ २१२.१२॥
२१२.१३/१ततो लोभः समभवत् पार्थेनैकेन धन्विना ।
२१२.१३/२दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ २१२.१३॥
२१२.१४/१ततस्ते पापकर्माणो लोभोपहतचेतसः ।
२१२.१४/२आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः ॥ २१२.१४॥
२१२.१५/१आभीरा ऊचुः । अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
२१२.१५/२नयत्यस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम् ॥ २१२.१५॥
२१२.१६/१हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् ।
२१२.१६/२कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ २१२.१६॥
२१२.१७/१बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश्चैव विशेषतः ।
२१२.१७/२सर्वान् एवावजानाति किं वो बहुभिरुत्तरैः ॥ २१२.१७॥
२१२.१८/१व्यास उवाच । ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः ।
२१२.१८/२सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् ।
२१२.१८/३ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव ॥ २१२.१८॥
२१२.१९/१अर्जुन उवाच । निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः ॥ २१२.१९॥
२१२.२०/१व्यास उवाच । अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
२१२.२०/२स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम् ॥ २१२.२०॥
२१२.२१/१ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।
२१२.२१/२आरोपयितुमारेभे न शशाक स वीर्यवान् ॥ २१२.२१॥
२१२.२२/१चकार सज्जं कृच्छ्रात् तु तद् अभूच्छिथिलं पुनः ।
२१२.२२/२न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः ॥ २१२.२२॥
२१२.२३/१शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः ।
२१२.२३/२न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना ॥ २१२.२३॥
२१२.२४/१वह्निना चाक्षया दत्ताः शरास्तेऽपि क्षयं ययुः ।
२१२.२४/२युध्यतः सह गोपालैरर्जुनस्याभवत् क्षयः ॥ २१२.२४॥
२१२.२५/१अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् ।
२१२.२५/२यन् मया शरसंघातैः सबला भूभृतो जिताः ॥ २१२.२५॥
२१२.२६/१मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
२१२.२६/२अपाकृष्यन्त चाभीरैः कामाच्चान्याः प्रवव्रजुः ॥ २१२.२६॥
२१२.२७/१ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः ।
२१२.२७/२जघान दस्यूंस्ते चास्य प्रहाराञ् जहसुर्द्विजाः ॥ २१२.२७॥
२१२.२८/१पश्यतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
२१२.२८/२जग्मुरादाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः ॥ २१२.२८॥
२१२.२९/१ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।
२१२.२९/२अहो भगवता तेन मुक्तोऽस्मीति रुरोद वै ॥ २१२.२९॥
२१२.३०/१अर्जुन उवाच । तद् धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ।
२१२.३०/२सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ २१२.३०॥
२१२.३१/१अहो चाति बलं दैवं विना तेन महात्मना ।
२१२.३१/२यद् असामर्थ्ययुक्तोऽहं नीचैर्नीतः पराभवम् ॥ २१२.३१॥
२१२.३२/१तौ बाहू स च मे मुष्टिः स्थानं तत् सोऽस्मि चार्जुनः ।
२१२.३२/२पुण्येनेव विना तेन गतं सर्वमसारताम् ॥ २१२.३२॥
२१२.३३/१ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् ।
२१२.३३/२विना तेन यद् आभीरैर्जितोऽहं कथमन्यथा ॥ २१२.३३॥
२१२.३४/१व्यास उवाच । इत्थं वदन् ययौ जिष्णुरिन्द्रप्रस्थं पुरोत्तमम् ।
२१२.३४/२चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ २१२.३४॥
२१२.३५/१स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
२१२.३५/२तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥ २१२.३५॥
२१२.३६/१तं वन्दमानं चरणाववलोक्य सुनिश्चितम् ।
२१२.३६/२उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः ॥ २१२.३६॥
२१२.३७/१अजारजोनुगमनं ब्रह्महत्याथवा कृता ।
२१२.३७/२जयाशाभङ्गदुःखी वा भ्रष्टच्छायोऽसि साम्प्रतम् ॥ २१२.३७॥
२१२.३८/१सांतानिकादयो वा ते याचमाना निराकृताः ।
२१२.३८/२अगम्यस्त्रीरतिर्वापि तेनासि विगतप्रभः ॥ २१२.३८॥
२१२.३९/१भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टमेकमथो भवान् ।
२१२.३९/२किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥ २१२.३९॥
२१२.४०/१कच्चिन् न सूर्यवातस्य गोचरत्वं गतोऽर्जुन ।
२१२.४०/२दुष्टचक्षुर्हतो वापि निःश्रीकः कथमन्यथा ॥ २१२.४०॥
२१२.४१/१स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितोऽपि वा ।
२१२.४१/२तेनातीवासि विच्छायो न्यूनैर्वा युधि निर्जितः ॥ २१२.४१॥
२१२.४२/१व्यास उवाच । ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्न् इति ।
२१२.४२/२प्रोक्तो यथावद् आचष्ट विप्रा आत्मपराभवम् ॥ २१२.४२॥
२१२.४३/१अर्जुन उवाच । यद् बलं यच्च नस्तेजो यद् वीर्यं यत् पराक्रमः ।
२१२.४३/२या श्रीश्छाया च नः सोऽस्मान् परित्यज्य हरिर्गतः ॥ २१२.४३॥
२१२.४४/१इतरेणेव महता स्मितपूर्वाभिभाषिणा ।
२१२.४४/२हीना वयं मुने तेन जातास्तृणमया इव ॥ २१२.४४॥
२१२.४५/१अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।
२१२.४५/२सारता याभवन् मूर्ता स गतः पुरुषोत्तमः ॥ २१२.४५॥
२१२.४६/१यस्यावलोकनाद् अस्माञ् श्रीर्जयः सम्पद् उन्नतिः ।
२१२.४६/२न तत्याज स गोविन्दस्त्यक्त्वास्मान् भगवान् गतः ॥ २१२.४६॥
२१२.४७/१भीष्मद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः ।
२१२.४७/२यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान् भुवम् ॥ २१२.४७॥
२१२.४८/१निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही ।
२१२.४८/२विभाति तात नैकोऽहं विरहे तस्य चक्रिणः ॥ २१२.४८॥
२१२.४९/१यस्यानुभावाद् भीष्माद्यैर्मय्यग्नौ शलभायितम् ।
२१२.४९/२विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ॥ २१२.४९॥
२१२.५०/१गाण्डीवं त्रिषु लोकेषु ख्यातं यद् अनुभावतः ।
२१२.५०/२मम तेन विनाभीरैर्लगुडैस्तु तिरस्कृतम् ॥ २१२.५०॥
२१२.५१/१स्त्रीसहस्राण्यनेकानि ह्यनाथानि महामुने ।
२१२.५१/२यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ २१२.५१॥
२१२.५२/१आनीयमानमाभीरैः सर्वं कृष्णावरोधनम् ।
२१२.५२/२हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ २१२.५२॥
२१२.५३/१निःश्रीकता न मे चित्रं यज्जीवामि तद् अद्भुतम् ।
२१२.५३/२नीचावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह ॥ २१२.५३॥
२१२.५४/१व्यास उवाच । श्रुत्वाहं तस्य तद् वाक्यमब्रवं द्विजसत्तमाः ।
२१२.५४/२दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥ २१२.५४॥
२१२.५५/१अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि ।
२१२.५५/२अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ २१२.५५॥
२१२.५६/१कालो भवाय भूतानामभवाय च पाण्डव ।
२१२.५६/२कालमूलमिदं ज्ञात्वा कुरु स्थैर्यमतोऽर्जुन ॥ २१२.५६॥
२१२.५७/१नद्यः समुद्रा गिरयः सकला च वसुंधरा ।
२१२.५७/२देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ २१२.५७॥
२१२.५८/१सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् ।
२१२.५८/२कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ २१२.५८॥
२१२.५९/१यथात्थ कृष्णमाहात्म्यं तत् तथैव धनंजय ।
२१२.५९/२भारावतारकार्यार्थमवतीर्णः स मेदिनीम् ॥ २१२.५९॥
२१२.६०/१भाराक्रान्ता धरा याता देवानां संनिधौ पुरा ।
२१२.६०/२तदर्थमवतीर्णोऽसौ कामरूपी जनार्दनः ॥ २१२.६०॥
२१२.६१/१तच्च निष्पादितं कार्यमशेषा भूभृतो हताः ।
२१२.६१/२वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥ २१२.६१॥
२१२.६२/१न किंचिद् अन्यत् कर्तव्यमस्य भूमितलेऽर्जुन ।
२१२.६२/२ततो गतः स भगवान् कृतकृत्यो यथेच्छया ॥ २१२.६२॥
२१२.६३/१सृष्टिं सर्गे करोत्येष देवदेवः स्थितिं स्थितौ ।
२१२.६३/२अन्ते तापसमर्थोऽयं साम्प्रतं वै यथा कृतम् ॥ २१२.६३॥
२१२.६४/१तस्मात् पार्थ न संतापस्त्वया कार्यः पराभवात् ।
२१२.६४/२भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥ २१२.६४॥
२१२.६५/१यतस्त्वयैकेन हता भीष्मद्रोणादयो नृपाः ।
२१२.६५/२तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ २१२.६५॥
२१२.६६/१विष्णोस्तस्यानुभावेन यथा तेषां पराभवः ।
२१२.६६/२त्वत्तस्तथैव भवतो दस्युभ्योऽन्ते तदुद्भवः ॥ २१२.६६॥
२१२.६७/१स देवोऽन्यशरीराणि समाविश्य जगत्स्थितिम् ।
२१२.६७/२करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥ २१२.६७॥
२१२.६८/१भवोद्भवे च कौन्तेय सहायस्ते जनार्दनः ।
२१२.६८/२भवान्ते त्वद्विपक्षास्ते केशवेनावलोकिताः ॥ २१२.६८॥
२१२.६९/१कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्वकौरवान् ।
२१२.६९/२आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम् ॥ २१२.६९॥
२१२.७०/१पार्थैतत् सर्वभूतेषु हरेर्लीलाविचेष्टितम् ।
२१२.७०/२त्वया यत् कौरवा ध्वस्ता यद् आभीरैर्भवाञ् जितः ॥ २१२.७०॥
२१२.७१/१गृहीता दस्युभिर्यच्च रक्षिता भवता स्त्रियः ।
२१२.७१/२तद् अप्यहं यथावृत्तं कथयामि तवार्जुन ॥ २१२.७१॥
२१२.७२/१अष्टावक्रः पुरा विप्र उदवासरतोऽभवत् ।
२१२.७२/२बहून् वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम् ॥ २१२.७२॥
२१२.७३/१जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः ।
२१२.७३/२बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ २१२.७३॥
२१२.७४/१रम्भातिलोत्तमाद्याश्च शतशोऽथ सहस्रशः ।
२१२.७४/२तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ २१२.७४॥
२१२.७५/१आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।
२१२.७५/२विनयावनताश्चैव प्रणेमुः स्तोत्रतत्पराः ॥ २१२.७५॥
२१२.७६/१यथा यथा प्रसन्नोऽभूत् तुष्टुवुस्तं तथा तथा ।
२१२.७६/२सर्वास्ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥ २१२.७६॥
२१२.७७/१अष्टावक्र उवाच । प्रसन्नोऽहं महाभागा भवतीनां यद् इष्यते ।
२१२.७७/२मत्तस्तद् व्रियतां सर्वं प्रदास्याम्यपि दुर्लभम् ॥ २१२.७७॥
२१२.७८/१व्यास उवाच । रम्भातिलोत्तमाद्याश्च दिव्याश्चाप्सरसोऽब्रुवन् ॥ २१२.७८॥
२१२.७९/१अप्सरस ऊचुः । प्रसन्ने त्वय्यसम्प्राप्तं किमस्माकमिति द्विजाः ॥ २१२.७९॥
२१२.८०/१इतरास्त्वब्रुवन् विप्र प्रसन्नो भगवन् यदि ।
२१२.८०/२तद् इच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥ २१२.८०॥
२१२.८१/१व्यास उवाच । एवं भविष्यतीत्युक्त्वा उत्ततार जलान् मुनिः ।
२१२.८१/२तमुत्तीर्णं च ददृशुर्विरूपं वक्रमष्टधा ॥ २१२.८१॥
२१२.८२/१तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।
२१२.८२/२ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ २१२.८२॥
२१२.८३/१अष्टावक्र उवाच । यस्माद् विरूपरूपं मां मत्वा हासावमानना ।
२१२.८३/२भवतीभिः कृता तस्माद् एष शापं ददामि वः ॥ २१२.८३॥
२१२.८४/१मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।
२१२.८४/२मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥ २१२.८४॥
२१२.८५/१व्यास उवाच । इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।
२१२.८५/२पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥ २१२.८५॥
२१२.८६/१एवं तस्य मुनेः शापाद् अष्टावक्रस्य केशवम् ।
२१२.८६/२भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥ २१२.८६॥
२१२.८७/१तत् त्वया नात्र कर्तव्यः शोकोऽल्पोऽपि हि पाण्डव ।
२१२.८७/२तेनैवाखिलनाथेन सर्वं तद् उपसंहृतम् ॥ २१२.८७॥
२१२.८८/१भवतां चोपसंहारमासन्नं तेन कुर्वता ।
२१२.८८/२बलं तेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ २१२.८८॥
२१२.८९/१जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।
२१२.८९/२विप्रयोगावसानं तु संयोगः संचयः क्षयः ॥ २१२.८९॥
२१२.९०/१विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।
२१२.९०/२तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥ २१२.९०॥
२१२.९१/१तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद् भ्रातृभिः सह ।
२१२.९१/२परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥ २१२.९१॥
२१२.९२/१तद् गच्छ धर्मराजाय निवेद्यैतद् वचो मम ।
२१२.९२/२परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु ॥ २१२.९२॥
२१२.९३/१व्यास उवाच । इत्युक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् ।
२१२.९३/२दृष्टं चैवानुभूतं वा कथितं तद् अशेषतः ॥ २१२.९३॥
२१२.९४/१व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् ।
२१२.९४/२राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ २१२.९४॥
२१२.९५/१इत्येवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् ।
२१२.९५/२जातस्य च यदोर्वंशे वासुदेवस्य चेष्टितम् ॥ २१२.९५॥
२१३.१/१मुनय ऊचुः । अहो कृष्णस्य माहात्म्यमद्भुतं चातिमानुषम् ।
२१३.१/२रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ २१३.१॥
२१३.२/१न तृप्तिमधिगच्छामः शृण्वन्तो भगवत्कथाम् ।
२१३.२/२तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥ २१३.२॥
२१३.३/१प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
२१३.३/२सतां कथयतामेव वराह इति नः श्रुतम् ॥ २१३.३॥
२१३.४/१न जानीमोऽस्य चरितं न विधिं न च विस्तरम् ।
२१३.४/२न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥ २१३.४॥
२१३.५/१किमात्मको वराहोऽसौ का मूर्तिः का च देवता ।
२१३.५/२किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥ २१३.५॥
२१३.६/१यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् ।
२१३.६/२महावराहचरितं सर्वलोकसुखावहम् ॥ २१३.६॥
२१३.७/१यथा नारायणो ब्रह्मन् वाराहं रूपमास्थितः ।
२१३.७/२दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ॥ २१३.७॥
२१३.८/१विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः ।
२१३.८/२श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः ॥ २१३.८॥
२१३.९/१कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभो ।
२१३.९/२या वास्य प्रकृतिर्ब्रह्मंस्ताश्चाख्यातुं त्वमर्हसि ॥ २१३.९॥
२१३.१०/१व्यास उवाच । प्रश्नभारो महान् एष भवद्भिः समुदाहृतः ।
२१३.१०/२यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ २१३.१०॥
२१३.११/१विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता ।
२१३.११/२तस्माद् विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः ॥ २१३.११॥
२१३.१२/१सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् ।
२१३.१२/२सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥ २१३.१२॥
२१३.१३/१सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
२१३.१३/२सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ २१३.१३॥
२१३.१४/१हवनं सवनं चैव होतारं हव्यमेव च ।
२१३.१४/२पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम् ॥ २१३.१४॥
२१३.१५/१स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् ।
२१३.१५/२अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ २१३.१५॥
२१३.१६/१यूपं चक्रं ध्रुवां दर्वीं चरूंश्चोलूखलानि च ।
२१३.१६/२प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥ २१३.१६॥
२१३.१७/१ह्रस्वाण्यतिप्रमाणानि स्थावराणि चराणि च ।
२१३.१७/२प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास्तथा ॥ २१३.१७॥
२१३.१८/१मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् ।
२१३.१८/२अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम् ॥ २१३.१८॥
२१३.१९/१आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् ।
२१३.१९/२तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ २१३.१९॥
२१३.२०/१प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।
२१३.२०/२भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः ॥ २१३.२०॥
२१३.२१/१यत् पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम् ।
२१३.२१/२प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥ २१३.२१॥
२१३.२२/१शृणुध्वं तां महाभागास्तद्गतेनान्तरात्मना ।
२१३.२२/२प्रवक्ष्याम्यानुपूर्व्येण यत् पृच्छध्वं ममानघाः ॥ २१३.२२॥
२१३.२३/१वासुदेवस्य माहात्म्यं चरितं च महामतेः ।
२१३.२३/२हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ २१३.२३॥
२१३.२४/१बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् ।
२१३.२४/२प्रादुर्भावांश्च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान् ॥ २१३.२४॥
२१३.२५/१सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः ।
२१३.२५/२पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः ॥ २१३.२५॥
२१३.२६/१ब्रह्मा च कपिलश्चैव त्र्यम्बकस्त्रिदशास्तथा ।
२१३.२६/२देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा ॥ २१३.२६॥
२१३.२७/१सनत्कुमारश्च महानुभावो ।
२१३.२७/२मनुर्महात्मा भगवान् प्रजाकरः ।
२१३.२७/३पुराणदेवोऽथ पुराणि चक्रे ।
२१३.२७/४प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २१३.२७॥
२१३.२८/१योऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे ।
२१३.२८/२नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥ २१३.२८॥
२१३.२९/१योद्धुकामौ दुराधर्षौ तावुभौ मधुकैटभौ ।
२१३.२९/२हतौ भगवता तेन तयोर्दत्त्वामितं वरम् ॥ २१३.२९॥
२१३.३०/१पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
२१३.३०/२पुष्करे तत्र सम्भूता देवाः सर्षिगणास्तथा ॥ २१३.३०॥
२१३.३१/१एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
२१३.३१/२पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥ २१३.३१॥
२१३.३२/१वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
२१३.३२/२यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ २१३.३२॥
२१३.३३/१वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
२१३.३३/२अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ २१३.३३॥
२१३.३४/१अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ।
२१३.३४/२आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥ २१३.३४॥
२१३.३५/१सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः ।
२१३.३५/२प्रायश्चित्तनखो घोरः पशुजानुर्मुखाकृतिः ॥ २१३.३५॥
२१३.३६/१उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
२१३.३६/२वाद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥ २१३.३६॥
२१३.३७/१वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
२१३.३७/२प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः ॥ २१३.३७॥
२१३.३८/१दक्षिणाहृदयो योगी महासत्त्रमयो महान् ।
२१३.३८/२उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥ २१३.३८॥
२१३.३९/१नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।
२१३.३९/२छायापत्नीसहायोऽसौ मणिशृङ्ग इवोत्थितः ॥ २१३.३९॥
२१३.४०/१महीं सागरपर्यन्तां सशैलवनकाननाम् ।
२१३.४०/२एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ २१३.४०॥
२१३.४१/१दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
२१३.४१/२सहस्रशीर्षो लोकादिश्चकार जगतीं पुनः ॥ २१३.४१॥
२१३.४२/१एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
२१३.४२/२उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥ २१३.४२॥
२१३.४३/१वाराह एष कथितो नारसिंहस्ततो द्विजाः ।
२१३.४३/२यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ २१३.४३॥
२१३.४४/१पुरा कृतयुगे नाम सुरारिर्बलदर्पितः ।
२१३.४४/२दैत्यानामादिपुरुषश्चकार सुमहत् तपः ॥ २१३.४४॥
२१३.४५/१दश वर्षसहस्राणि शतानि दश पञ्च च ।
२१३.४५/२जपोपवासनिरतस्तस्थौ मौनव्रतस्थितः ॥ २१३.४५॥
२१३.४६/१ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
२१३.४६/२प्रीतोऽभवत् ततस्तस्य तपसा नियमेन च ॥ २१३.४६॥
२१३.४७/१तं वै स्वयम्भूर्भगवान् स्वयमागम्य भो द्विजाः ।
२१३.४७/२विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ २१३.४७॥
२१३.४८/१आदित्यैर्वसुभिः सार्धं मरुद्भिर्दैवतैस्तथा ।
२१३.४८/२रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः ॥ २१३.४८॥
२१३.४९/१दिशाभिः प्रदिशाभिश्च नदीभिः सागरैस्तथा ।
२१३.४९/२नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ २१३.४९॥
२१३.५०/१देवर्षिभिस्तपोवृद्धैः सिद्धैर्विद्वद्भिरेव च ।
२१३.५०/२राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ २१३.५०॥
२१३.५१/१चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस्तथा ।
२१३.५१/२ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ २१३.५१॥
२१३.५२/१ब्रह्मोवाच । प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
२१३.५२/२वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ २१३.५२॥
२१३.५३/१हिरण्यकशिपुरुवाच । न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
२१३.५३/२ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह ॥ २१३.५३॥
२१३.५४/१शपेयुस्तपसा युक्ता वर एष वृतो मया ।
२१३.५४/२न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा ॥ २१३.५४॥
२१३.५५/१न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्यधः ।
२१३.५५/२पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥ २१३.५५॥
२१३.५६/१यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति ।
२१३.५६/२भवेयमहमेवार्कः सोमो वायुर्हुताशनः ॥ २१३.५६॥
२१३.५७/१सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः ।
२१३.५७/२अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
२१३.५७/३धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ २१३.५७॥
२१३.५८/१ब्रह्मोवाच । एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
२१३.५८/२सर्वान् कामान् इमांस्तात प्राप्स्यसि त्वं न संशयः ॥ २१३.५८॥
२१३.५९/१व्यास उवाच । एवमुक्त्वा तु भगवाञ् जगामाशु पितामहः ।
२१३.५९/२वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ २१३.५९॥
२१३.६०/१ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
२१३.६०/२वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ २१३.६०॥
२१३.६१/१देवा ऊचुः । वरेणानेन भगवन् बाधिष्यति स नोऽसुरः ।
२१३.६१/२तत् प्रसीदाशु भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ २१३.६१॥
२१३.६२/१भगवन् सर्वभूतानां स्वयम्भूरादिकृत् प्रभुः ।
२१३.६२/२स्रष्टा च हव्यकव्यानामव्यक्तं प्रकृतिर्ध्रुवम् ॥ २१३.६२॥
२१३.६३/१व्यास उवाच । ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
२१३.६३/२प्रोवाच भगवान् वाक्यं सर्वदेवगणांस्तथा ॥ २१३.६३॥
२१३.६४/१ब्रह्मोवाच । अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
२१३.६४/२तपसोऽन्ते च भगवान् वधं विष्णुः करिष्यति ॥ २१३.६४॥
२१३.६५/१व्यास उवाच । एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
२१३.६५/२स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २१३.६५॥
२१३.६६/१लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
२१३.६६/२हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २१३.६६॥
२१३.६७/१आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् ।
२१३.६७/२सत्यधर्मरतान् दान्तांस्तदा धर्षितवांस्तथा ॥ २१३.६७॥
२१३.६८/१त्रिदिवस्थांस्तथा देवान् पराजित्य महाबलः ।
२१३.६८/२त्रैलोक्यं वशमानीय स्वर्गे वसति सोऽसुरः ॥ २१३.६८॥
२१३.६९/१यदा वरमदोन्मत्तो विचरन् दानवो भुवि ।
२१३.६९/२यज्ञीयान् अकरोद् दैत्यान् अयज्ञीयाश्च देवताः ॥ २१३.६९॥
२१३.७०/१आदित्या वसवः साध्या विश्वे च मरुतस्तथा ।
२१३.७०/२शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ २१३.७०॥
२१३.७१/१देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् ।
२१३.७१/२भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
२१३.७१/३नारायणं विभुं देवं शरण्यं शरणं गताः ॥ २१३.७१॥
२१३.७२/१देवा ऊचुः । त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् ।
२१३.७२/२त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ॥ २१३.७२॥
२१३.७३/१त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ।
२१३.७३/२उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयंकर ।
२१३.७३/३क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ २१३.७३॥
२१३.७४/१वासुदेव उवाच । भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
२१३.७४/२तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥ २१३.७४॥
२१३.७५/१एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
२१३.७५/२अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥ २१३.७५॥
२१३.७६/१व्यास उवाच । एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् ।
२१३.७६/२हिरण्यकशिपोः स्थानमाजगाम महाबलः ॥ २१३.७६॥
२१३.७७/१नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः ।
२१३.७७/२नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ २१३.७७॥
२१३.७८/१घनजीमूतसंकाशो घनजीमूतनिस्वनः ।
२१३.७८/२घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥ २१३.७८॥
२१३.७९/१दैत्यं सोऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः ।
२१३.७९/२दृप्तैर्दैत्यगणैर्गुप्तं हतवान् एकपाणिना ॥ २१३.७९॥
२१३.८०/१नृसिंह एष कथितो भूयोऽयं वामनः परः ।
२१३.८०/२यत्र वामनमास्थाय रूपं दैत्यविनाशनम् ॥ २१३.८०॥
२१३.८१/१बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
२१३.८१/२विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ २१३.८१॥
२१३.८२/१विप्रचित्तिः शिवः शङ्कुरयःशङ्कुस्तथैव च ।
२१३.८२/२अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥ २१३.८२॥
२१३.८३/१वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः ।
२१३.८३/२पुष्करः पुष्कलश्चैव शाश्वोऽश्वपतिरेव च ॥ २१३.८३॥
२१३.८४/१प्रह्लादोऽश्वपतिः कुम्भः संह्रादो गमनप्रियः ।
२१३.८४/२अनुह्रादो हरिहयो वाराहः संहरोऽनुजः ॥ २१३.८४॥
२१३.८५/१शरभः शलभश्चैव कुपथः क्रोधनः क्रथः ।
२१३.८५/२बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥ २१३.८५॥
२१३.८६/१दीप्तजिह्वोऽर्कनयनो मृगपादो मृगप्रियः ।
२१३.८६/२वायुर्गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥ २१३.८६॥
२१३.८७/१चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
२१३.८७/२कालकः कालकोपश्च वृत्रः क्रोधो विरोचनः ॥ २१३.८७॥
२१३.८८/१गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
२१३.८८/२इन्द्रतापनवातापी केतुमान् बलदर्पितः ॥ २१३.८८॥
२१३.८९/१असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ।
२१३.८९/२स्वमिश्रः कालवदनः करालः केशिरेव च ॥ २१३.८९॥
२१३.९०/१एकाक्षश्चन्द्रमा राहुः संह्रादः सम्बरः स्वनः ।
२१३.९०/२शतघ्नीचक्रहस्ताश्च तथा मुशलपाणयः ॥ २१३.९०॥
२१३.९१/१अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा ।
२१३.९१/२शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ २१३.९१॥
२१३.९२/१पाशमुद्गरहस्ताश्च तथा परिघपाणयः ।
२१३.९२/२महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ॥ २१३.९२॥
२१३.९३/१नानाप्रहरणा घोरा नानावेशा महाबलाः ।
२१३.९३/२कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ २१३.९३॥
२१३.९४/१खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
२१३.९४/२मार्जारशिखिवक्त्राश्च महावक्त्रास्तथा परे ॥ २१३.९४॥
२१३.९५/१नक्रमेषाननाः शूरा गोजाविमहिषाननाः ।
२१३.९५/२गोधाशल्लकिवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ २१३.९५॥
२१३.९६/१आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ।
२१३.९६/२भीमा मकरवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ॥ २१३.९६॥
२१३.९७/१अश्वाननाः खरमुखा मयूरवदनास्तथा ।
२१३.९७/२गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥ २१३.९७॥
२१३.९८/१चीरसंवृतगात्राश्च तथा नीलकवाससः ।
२१३.९८/२उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ॥ २१३.९८॥
२१३.९९/१किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
२१३.९९/२नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥ २१३.९९॥
२१३.१००/१स्वान्यायुधानि संगृह्य प्रदीप्तानि च तेजसा ।
२१३.१००/२क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥ २१३.१००॥
२१३.१०१/१प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैर्विभुः ।
२१३.१०१/२रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ २१३.१०१॥
२१३.१०२/१तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
२१३.१०२/२नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥ २१३.१०२॥
२१३.१०३/१परमाक्रममाणस्य जानुदेशे व्यवस्थितौ ।
२१३.१०३/२विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥ २१३.१०३॥
२१३.१०४/१हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान् ।
२१३.१०४/२ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ २१३.१०४॥
२१३.१०५/१एष वो वामनो नाम प्रादुर्भावो महात्मनः ।
२१३.१०५/२वेदविद्भिर्द्विजैरेतत् कथ्यते वैष्णवं यशः ॥ २१३.१०५॥
२१३.१०६/१भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
२१३.१०६/२दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ २१३.१०६॥
२१३.१०७/१तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
२१३.१०७/२चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते ॥ २१३.१०७॥
२१३.१०८/१अतिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
२१३.१०८/२प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ २१३.१०८॥
२१३.१०९/१सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ।
२१३.१०९/२चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना ॥ २१३.१०९॥
२१३.११०/१तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
२१३.११०/२वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ २१३.११०॥
२१३.१११/१एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप ।
२१३.१११/२शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ २१३.१११॥
२१३.११२/१पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर ।
२१३.११२/२दुर्निरीक्ष्योऽरिवृन्दानां युद्धस्थश्च भविष्यसि ॥ २१३.११२॥
२१३.११३/१एष वो वैष्णवः श्रीमान् प्रादुर्भावोऽद्भुतः शुभः ।
२१३.११३/२भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ॥ २१३.११३॥
२१३.११४/१यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे ।
२१३.११४/२रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥ २१३.११४॥
२१३.११५/१रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि ।
२१३.११५/२धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत् ॥ २१३.११५॥
२१३.११६/१कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
२१३.११६/२परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ २१३.११६॥
२१३.११७/१कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
२१३.११७/२त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २१३.११७॥
२१३.११८/१कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः ।
२१३.११८/२सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ २१३.११८॥
२१३.११९/१यस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
२१३.११९/२मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥ २१३.११९॥
२१३.१२०/१वारणांस्तुरगाञ् शुभ्रान् रथांश्च रथिनां वरः ।
२१३.१२०/२हिरण्यमक्षयं धेनुर्गजेन्द्रांश्च महीपतिः ॥ २१३.१२०॥
२१३.१२१/१ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः ।
२१३.१२१/२अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥ २१३.१२१॥
२१३.१२२/१चरमाणस्तपो घोरं जामदग्न्यः पुनः प्रभुः ।
२१३.१२२/२आस्ते वै देववच्छ्रीमान् महेन्द्रे पर्वतोत्तमे ॥ २१३.१२२॥
२१३.१२३/१एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
२१३.१२३/२जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ २१३.१२३॥
२१३.१२४/१चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः ।
२१३.१२४/२जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ २१३.१२४॥
२१३.१२५/१कृत्वात्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
२१३.१२५/२लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥ २१३.१२५॥
२१३.१२६/१प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च ।
२१३.१२६/२धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥ २१३.१२६॥
२१३.१२७/१तमप्याहुर्मनुष्येन्द्रं सर्वभूतहिते रतम् ।
२१३.१२७/२यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् ॥ २१३.१२७॥
२१३.१२८/१लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ।
२१३.१२८/२चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः ॥ २१३.१२८॥
२१३.१२९/१रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने ।
२१३.१२९/२पूर्वोदिता तु या लक्ष्मीर्भर्तारमनुगच्छति ॥ २१३.१२९॥
२१३.१३०/१जनस्थाने वसन् कार्यं त्रिदशानां चकार सः ।
२१३.१३०/२तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥ २१३.१३०॥
२१३.१३१/१सीतायाः पदमन्विच्छन् निजघान महायशाः ।
२१३.१३१/२देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥ २१३.१३१॥
२१३.१३२/१यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ।
२१३.१३२/२युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ॥ २१३.१३२॥
२१३.१३३/१त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् ।
२१३.१३३/२दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥ २१३.१३३॥
२१३.१३४/१दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ।
२१३.१३४/२जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥ २१३.१३४॥
२१३.१३५/१महाभ्रगणसंकाशं महाकायं महाबलम् ।
२१३.१३५/२रावणं निजघानाशु रामो भूतपतिः पुरा ॥ २१३.१३५॥
२१३.१३६/१सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
२१३.१३६/२वाली विनिहतः संख्ये सुग्रीवश्चाभिषेचितः ॥ २१३.१३६॥
२१३.१३७/१मधोश्च तनयो दृप्तो लवणो नाम दानवः ।
२१३.१३७/२हतो मधुवने वीरो वरमत्तो महासुरः ॥ २१३.१३७॥
२१३.१३८/१यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् ।
२१३.१३८/२मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ॥ २१३.१३८॥
२१३.१३९/१निहतौ च निराशौ च कृतौ तेन महात्मना ।
२१३.१३९/२समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥ २१३.१३९॥
२१३.१४०/१विराधश्च कबन्धश्च राक्षसौ भीमविक्रमौ ।
२१३.१४०/२जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ ॥ २१३.१४०॥
२१३.१४१/१हुताशनार्कांशुतडिद्गुणाभैः ।
२१३.१४१/२प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
२१३.१४१/३महेन्द्रवज्राशनितुल्यसारै ।
२१३.१४१/४रिपून् स रामः समरे निजघ्ने ॥ २१३.१४१॥
२१३.१४२/१तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता ।
२१३.१४२/२वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैरपि ॥ २१३.१४२॥
२१३.१४३/१वर्तमाने मखे येन जनकस्य महात्मनः ।
२१३.१४३/२भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ २१३.१४३॥
२१३.१४४/१एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
२१३.१४४/२दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान् ॥ २१३.१४४॥
२१३.१४५/१नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
२१३.१४५/२न वित्तहरणं चासीद् रामे राज्यं प्रशासति ॥ २१३.१४५॥
२१३.१४६/१परिदेवन्ति विधवा नानर्थाश्च कदाचन ।
२१३.१४६/२सर्वमासीच्छुभं तत्र रामे राज्यं प्रशासति ॥ २१३.१४६॥
२१३.१४७/१न प्राणिनां भयं चासीज्जलाग्न्यनिलघातजम् ।
२१३.१४७/२न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥ २१३.१४७॥
२१३.१४८/१ब्रह्मचर्यपरं क्षत्रं विशस्तु क्षत्रिये रताः ।
२१३.१४८/२शूद्राश्चैव हि वर्णांस्त्रीञ् शुश्रूषन्त्यनहंकृताः ॥ २१३.१४८॥
२१३.१४९/१नार्यो नात्यचरन् भर्तृन् भार्यां नात्यचरत् पतिः ।
२१३.१४९/२सर्वमासीज्जगद् दान्तं निर्दस्युरभवन् मही ॥ २१३.१४९॥
२१३.१५०/१राम एकोऽभवद् भर्ता रामः पालयिताभवत् ।
२१३.१५०/२आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥ २१३.१५०॥
२१३.१५१/१अरोगाः प्राणिनश्चासन् रामे राज्यं प्रशासति ।
२१३.१५१/२देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः ॥ २१३.१५१॥
२१३.१५२/१पृथिव्यां समवायोऽभूद् रामे राज्यं प्रशासति ।
२१३.१५२/२गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ २१३.१५२॥
२१३.१५३/१रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ।
२१३.१५३/२श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥ २१३.१५३॥
२१३.१५४/१आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।
२१३.१५४/२दश वर्षसहस्राणि रामो राज्यमकारयत् ॥ २१३.१५४॥
२१३.१५५/१ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
२१३.१५५/२अव्युच्छिन्नोऽभवद् राष्ट्रे दीयतां भुज्यतामिति ॥ २१३.१५५॥
२१३.१५६/१सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
२१३.१५६/२अति चन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥ २१३.१५६॥
२१३.१५७/१ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
२१३.१५७/२हित्वायोध्यां दिवं यातो राघवो हि महाबलः ॥ २१३.१५७॥
२१३.१५८/१एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः ।
२१३.१५८/२रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ २१३.१५८॥
२१३.१५९/१अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
२१३.१५९/२विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ २१३.१५९॥
२१३.१६०/१यत्र शाल्वं च चैद्यं च कंसं द्विविदमेव च ।
२१३.१६०/२अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥ २१३.१६०॥
२१३.१६१/१नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
२१३.१६१/२दैत्यान् मानुषदेहेन सूदयामास वीर्यवान् ॥ २१३.१६१॥
२१३.१६२/१छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
२१३.१६२/२नरकश्च हतः संख्ये यवनश्च महाबलः ॥ २१३.१६२॥
२१३.१६३/१हृतानि च महीपानां सर्वरत्नानि तेजसा ।
२१३.१६३/२दुराचाराश्च निहिताः पार्थिवा ये महीतले ॥ २१३.१६३॥
२१३.१६४/१एष लोकहितार्थाय प्रादुर्भावो महात्मनः ।
२१३.१६४/२कल्की विष्णुयशा नाम शम्भलग्रामसम्भवः ॥ २१३.१६४॥
२१३.१६५/१सर्वलोकहितार्थाय भूयो देवो महायशाः ।
२१३.१६५/२एते चान्ये च बहवो दिव्या देवगणैर्वृताः ॥ २१३.१६५॥
२१३.१६६/१प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ।
२१३.१६६/२यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥ २१३.१६६॥
२१३.१६७/१पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ।
२१३.१६७/२एतद् उद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥ २१३.१६७॥
२१३.१६८/१कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर्विभोः ।
२१३.१६८/२प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ॥ २१३.१६८॥
२१३.१६९/१विष्णोरमितवीर्यस्य यः शृणोति कृताञ्जलिः ॥ २१३.१६९॥
२१३.१७०/१एताश्च योगेश्वरयोगमायाः ।
२१३.१७०/२श्रुत्वा नरो मुच्यति सर्वपापैः ।
२१३.१७०/३ऋद्धिं समृद्धिं विपुलांश्च भोगान् ।
२१३.१७०/४प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥ २१३.१७०॥
२१३.१७१/१एवं मया मुनिश्रेष्ठा विष्णोरमिततेजसः ।
२१३.१७१/२सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥ २१३.१७१॥
२१४.१/१मुनय ऊचुः । न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च ।
२१४.१/२मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१॥
२१४.२/१उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् ।
२१४.२/२वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२॥
२१४.३/१श्रूयते यमलोकस्य मार्गः परमदुर्गमः ।
२१४.३/२दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः ॥ २१४.३॥
२१४.४/१कथं तेन नरा यान्ति मार्गेण यमसादनम् ।
२१४.४/२प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४॥
२१४.५/१मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः ।
२१४.५/२कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने ॥ २१४.५॥
२१४.६/१केनोपायेन दानेन धर्मेण नियमेन च ।
२१४.६/२मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम् ॥ २१४.६॥
२१४.७/१कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा ।
२१४.७/२स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७॥
२१४.८/१कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः ।
२१४.८/२किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि ।
२१४.८/३जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८॥
२१४.९/१व्यास उवाच । शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः ।
२१४.९/२संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९॥
२१४.१०/१सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् ।
२१४.१०/२उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति ॥ २१४.१०॥
२१४.११/१स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः ।
२१४.११/२यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११॥
२१४.१२/१योजनानां सहस्राणि षडशीतिस्तद् अन्तरम् ।
२१४.१२/२तप्तताम्रमिवातप्तं तद् अध्वानमुदाहृतम् ॥ २१४.१२॥
२१४.१३/१तद् अवश्यं हि गन्तव्यं प्राणिभिर्जीवसंज्ञकैः ।
२१४.१३/२पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतोऽधमाः ॥ २१४.१३॥
२१४.१४/१द्वाविंशतिश्च नरका यमस्य विषये स्थिताः ।
२१४.१४/२येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक् ॥ २१४.१४॥
२१४.१५/१नरको रौरवो रौद्रः शूकरस्ताल एव च ।
२१४.१५/२कुम्भीपाको महाघोरः शाल्मलोऽथ विमोहनः ॥ २१४.१५॥
२१४.१६/१कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा ।
२१४.१६/२नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६॥
२१४.१७/१अग्निज्वालो महाघोरः संदंशः शुनभोजनः ।
२१४.१७/२घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७॥
२१४.१८/१न तत्र वृक्षच्छाया वा न तडागाः सरांसि च ।
२१४.१८/२न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८॥
२१४.१९/१न मण्डपो नायतनं न नद्यो न च पर्वताः ।
२१४.१९/२न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९॥
२१४.२०/१यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः ।
२१४.२०/२अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०॥
२१४.२१/१प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् ।
२१४.२१/२जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१॥
२१४.२२/१जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् ।
२१४.२२/२देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२॥
२१४.२३/१स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः ।
२१४.२३/२पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३॥
२१४.२४/१संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते ।
२१४.२४/२वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४॥
२१४.२५/१गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः ।
२१४.२५/२प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थलेऽपि वा ॥ २१४.२५॥
२१४.२६/१क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा ।
२१४.२६/२आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६॥
२१४.२७/१जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ।
२१४.२७/२इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७॥
२१४.२८/१तस्यान्ते च स्वयं प्राणैरनिच्छन्न् अपि मुच्यते ।
२१४.२८/२जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः ॥ २१४.२८॥
२१४.२९/१निमित्तं किंचिद् आसाद्य देही प्राणैर्विमुच्यते ।
२१४.२९/२विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९॥
२१४.३०/१अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
२१४.३०/२दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०॥
२१४.३१/१तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् ।
२१४.३१/२सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ २१४.३१॥
२१४.३२/१ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
२१४.३२/२भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ २१४.३२॥
२१४.३३/१उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।
२१४.३३/२भुज्यतामम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ २१४.३३॥
२१४.३४/१ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा ।
२१४.३४/२दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ २१४.३४॥
२१४.३५/१अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
२१४.३५/२सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २१४.३५॥
२१४.३६/१येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।
२१४.३६/२आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ २१४.३६॥
२१४.३७/१देवब्राह्मणपूजायां निरताश्चानसूयकाः ।
२१४.३७/२शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ २१४.३७॥
२१४.३८/१यः कामान् नापि संरम्भान् न द्वेषाद् धर्ममुत्सृजेत् ।
२१४.३८/२यथोक्तकारी सौम्यश्च स सुखं मृत्युम् ऋच्छति ॥ २१४.३८॥
२१४.३९/१वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः ।
२१४.३९/२प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ २१४.३९॥
२१४.४०/१शीतं जयन्ति धनदास्तापं चन्दनदायिनः ।
२१४.४०/२प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ २१४.४०॥
२१४.४१/१मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः ।
२१४.४१/२कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ २१४.४१॥
२१४.४२/१ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ।
२१४.४२/२विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ २१४.४२॥
२१४.४३/१आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा ।
२१४.४३/२प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ २१४.४३॥
२१४.४४/१क्रन्दत्यविरतः सोऽथ भ्रातृमातृपितृंस्तथा ।
२१४.४४/२सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते ॥ २१४.४४॥
२१४.४५/१दृष्टिर्विभ्राम्यते त्रासात् कासावृष्ट्यत्यथाननम् ।
२१४.४५/२ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ २१४.४५॥
२१४.४६/१वाय्वग्रसारी तद्रूप+ ।देहमन्यत् प्रपद्यते ।
२१४.४६/२तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ २१४.४६॥
२१४.४७/१तत्प्रमाणवयोवस्था+ ।संस्थानैः प्राप्यते व्यथा ।
२१४.४७/२ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ २१४.४७॥
२१४.४८/१जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् ।
२१४.४८/२भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ २१४.४८॥
२१४.४९/१शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् ।
२१४.४९/२निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ २१४.४९॥
२१४.५०/१मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा ।
२१४.५०/२दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ २१४.५०॥
२१४.५१/१दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् ।
२१४.५१/२स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ २१४.५१॥
२१४.५२/१अन्धकारमपारं च महाघोरं तमोवृतम् ।
२१४.५२/२सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ २१४.५२॥
२१४.५३/१दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् ।
२१४.५३/२दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ २१४.५३॥
२१४.५४/१कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः ।
२१४.५४/२मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ २१४.५४॥
२१४.५५/१क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये ।
२१४.५५/२निनीषवः समायान्ति यमदूता भयंकराः ॥ २१४.५५॥
२१४.५६/१आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च ।
२१४.५६/२उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ २१४.५६॥
२१४.५७/१उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः ।
२१४.५७/२श्येनशृगालमारूढाः सरघाकङ्कवाहनाः ॥ २१४.५७॥
२१४.५८/१वराहपशुवेताल+ ंअहिषास्यास्तथा परे ।
२१४.५८/२नानारूपधरा घोराः सर्वप्राणिभयंकराः ॥ २१४.५८॥
२१४.५९/१दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः ।
२१४.५९/२महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ २१४.५९॥
२१४.६०/१निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः ।
२१४.६०/२मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ २१४.६०॥
२१४.६१/१मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयंकरैः ।
२१४.६१/२नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ २१४.६१॥
२१४.६२/१मार्जारोलूकखद्योत+ ।शक्रगोपवद् उद्धतैः ।
२१४.६२/२केकरैः संकुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ २१४.६२॥
२१४.६३/१भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः ।
२१४.६३/२शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ २१४.६३॥
२१४.६४/१कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः ।
२१४.६४/२वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयंकरैः ॥ २१४.६४॥
२१४.६५/१बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः ।
२१४.६५/२भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ २१४.६५॥
२१४.६६/१केचिद् द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः ।
२१४.६६/२द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ २१४.६६॥
२१४.६७/१असंख्यातभुजाश्चान्ये केचिद् बाहुसहस्रिणः ।
२१४.६७/२आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ २१४.६७॥
२१४.६८/१शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः ।
२१४.६८/२पाशशृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ २१४.६८॥
२१४.६९/१आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये ।
२१४.६९/२ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ २१४.६९॥
२१४.७०/१यत् तच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
२१४.७०/२तद् अस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ २१४.७०॥
२१४.७१/१बद्ध्वा तत् कालपाशैश्च निगडैर्वज्रशृङ्खलैः ।
२१४.७१/२ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिंकरैः ॥ २१४.७१॥
२१४.७२/१प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः ।
२१४.७२/२हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ २१४.७२॥
२१४.७३/१आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः ।
२१४.७३/२खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ २१४.७३॥
२१४.७४/१भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः ।
२१४.७४/२एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ २१४.७४॥
२१४.७५/१स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः ।
२१४.७५/२आकृष्य नीयते जन्तुरध्वानं सुभयंकरैः ॥ २१४.७५॥
२१४.७६/१कुशकण्टकवल्मीक+ ।शङ्कुपाषाणशर्करे ।
२१४.७६/२तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ २१४.७६॥
२१४.७७/१प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः ।
२१४.७७/२कृष्यते यमदूतैश्च शिवासंनादभीषणैः ॥ २१४.७७॥
२१४.७८/१विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः ।
२१४.७८/२प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ २१४.७८॥
२१४.७९/१क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् ।
२१४.७९/२दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ २१४.७९॥
२१४.८०/१निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः ।
२१४.८०/२कम्पमानशरीरैस्तु गन्तव्यं जीवसंज्ञकैः ॥ २१४.८०॥
२१४.८१/१कण्टकाकीर्णमार्गेण संतप्तसिकतेन च ।
२१४.८१/२दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ २१४.८१॥
२१४.८२/१मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः ।
२१४.८२/२दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ २१४.८२॥
२१४.८३/१कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् ।
२१४.८३/२वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ २१४.८३॥
२१४.८४/१शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः ।
२१४.८४/२भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ २१४.८४॥
२१४.८५/१श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ २१४.८५॥
२१४.८६/१कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः ।
२१४.८६/२महिषर्षभशृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ २१४.८६॥
२१४.८७/१उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः ।
२१४.८७/२सूचीभ्रमरकाकोल+ ंअक्षिकाभिश्च संघशः ॥ २१४.८७॥
२१४.८८/१भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः ।
२१४.८८/२विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ २१४.८८॥
२१४.८९/१शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः ।
२१४.८९/२घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ २१४.८९॥
२१४.९०/१राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः ।
२१४.९०/२ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ २१४.९०॥
२१४.९१/१ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् ।
२१४.९१/२वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ २१४.९१॥
२१४.९२/१ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः ।
२१४.९२/२पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ २१४.९२॥
२१४.९३/१वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् ।
२१४.९३/२ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ २१४.९३॥
२१४.९४/१ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः ।
२१४.९४/२शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ २१४.९४॥
२१४.९५/१पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः ।
२१४.९५/२किंकरैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ २१४.९५॥
२१४.९६/१विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् ।
२१४.९६/२एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ २१४.९६॥
२१४.९७/१रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च ।
२१४.९७/२प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ २१४.९७॥
२१४.९८/१कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः ।
२१४.९८/२शक्तिवज्रैश्च संकीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ २१४.९८॥
२१४.९९/१अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् ।
२१४.९९/२ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ २१४.९९॥
२१४.१००/१अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः ।
२१४.१००/२यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ २१४.१००॥
२१४.१०१/१तदैवाहन्यते सर्वैरायुधैर्यमकिंकरैः ।
२१४.१०१/२एवं संताड्यमानश्च लुब्धः पापेषु योऽनयः ॥ २१४.१०१॥
२१४.१०२/१अवशो नीयते जन्तुर्दुर्धरैर्यमकिंकरैः ।
२१४.१०२/२सर्वैरेव हि गन्तव्यमध्वानं तत् सुदुर्गमम् ॥ २१४.१०२॥
२१४.१०३/१नीयते विविधैर्घोरैर्यमदूतैरवज्ञया ।
२१४.१०३/२नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः ॥ २१४.१०३॥
२१४.१०४/१प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः ।
२१४.१०४/२सा पुरी विपुलाकारा लक्षयोजनमायता ॥ २१४.१०४॥
२१४.१०५/१चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा ।
२१४.१०५/२प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ २१४.१०५॥
२१४.१०६/१इन्द्रनीलमहानील+ ।पद्मरागोपशोभिता ।
२१४.१०६/२सा पुरी विविधैः संघैर्घोरा घोरैः समाकुला ॥ २१४.१०६॥
२१४.१०७/१देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।
२१४.१०७/२पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ २१४.१०७॥
२१४.१०८/१वज्रेन्द्रनीलवैदूर्य+ ंउक्ताफलविभूषितम् ।
२१४.१०८/२गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ २१४.१०८॥
२१४.१०९/१प्रवेशस्तेन देवानाम् ऋषीणां योगिनां तथा ।
२१४.१०९/२गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ २१४.१०९॥
२१४.११०/१उत्तरं नगरद्वारं घण्टाचामरभूषितम् ।
२१४.११०/२छत्त्रचामरविन्यासं नानारत्नैरलंकृतम् ॥ २१४.११०॥
२१४.१११/१वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः ।
२१४.१११/२ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ २१४.१११॥
२१४.११२/१विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः ।
२१४.११२/२ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ २१४.११२॥
२१४.११३/१श्रान्तसंवाहका ये च प्रियवादरताश्च ये ।
२१४.११३/२ये च दानरताः शूरा मातापितृपराश्च ये ॥ २१४.११३॥
२१४.११४/१द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः ।
२१४.११४/२पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ २१४.११४॥
२१४.११५/१विचित्रमणिसोपानं तोमरैः समलंकृतम् ।
२१४.११५/२भेरीमृदङ्गसंनादैः शङ्खकाहलनादितम् ॥ २१४.११५॥
२१४.११६/१सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् ।
२१४.११६/२प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ २१४.११६॥
२१४.११७/१सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः ।
२१४.११७/२प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ २१४.११७॥
२१४.११८/१अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् ।
२१४.११८/२ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हताः ॥ २१४.११८॥
२१४.११९/१ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः ।
२१४.११९/२पुर्यां तस्या महाघोरं सर्वसत्त्वभयंकरम् ॥ २१४.११९॥
२१४.१२०/१हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् ।
२१४.१२०/२अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम् ॥ २१४.१२०॥
२१४.१२१/१कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः ।
२१४.१२१/२विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ २१४.१२१॥
२१४.१२२/१श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः ।
२१४.१२२/२प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ २१४.१२२॥
२१४.१२३/१ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् ।
२१४.१२३/२शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ २१४.१२३॥
२१४.१२४/१येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः ।
२१४.१२४/२निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ २१४.१२४॥
२१४.१२५/१परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः ।
२१४.१२५/२पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ २१४.१२५॥
२१४.१२६/१ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये ।
२१४.१२६/२कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ २१४.१२६॥
२१४.१२७/१अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् ।
२१४.१२७/२मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ २१४.१२७॥
२१४.१२८/१अन्ये ये चैव निर्दिष्टा महापातककारिणः ।
२१४.१२८/२दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ २१४.१२८॥
२१४.१२९/०मुनय ऊचुः । न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च ।
२१४.१३०/०मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१॥
२१४.१३१/०उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् ।
२१४.१३२/०वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२॥
२१४.१३३/०श्रूयते यमलोकस्य मार्गः परमदुर्गमः ।
२१४.१३४/०दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः ॥ २१४.३॥
२१४.१३५/०कथं तेन नरा यान्ति मार्गेण यमसादनम् ।
२१४.१३६/०प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४॥
२१४.१३७/०मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः ।
२१४.१३८/०कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने ॥ २१४.५॥
२१४.१३९/०केनोपायेन दानेन धर्मेण नियमेन च ।
२१४.१४०/०मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम् ॥ २१४.६॥
२१४.१४१/०कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा ।
२१४.१४२/०स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७॥
२१४.१४३/०कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः ।
२१४.१४४/०किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि ।
२१४.१४५/०जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८॥
२१४.१४६/०व्यास उवाच । शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः ।
२१४.१४७/०संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९॥
२१४.१४८/०सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् ।
२१४.१४९/०उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति ॥ २१४.१०॥
२१४.१५०/०स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः ।
२१४.१५१/०यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११॥
२१४.१५२/०योजनानां सहस्राणि षडशीतिस्तद् अन्तरम् ।
२१४.१५३/०तप्तताम्रमिवातप्तं तद् अध्वानमुदाहृतम् ॥ २१४.१२॥
२१४.१५४/०तद् अवश्यं हि गन्तव्यं प्राणिभिर्जीवसंज्ञकैः ।
२१४.१५५/०पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतोऽधमाः ॥ २१४.१३॥
२१४.१५६/०द्वाविंशतिश्च नरका यमस्य विषये स्थिताः ।
२१४.१५७/०येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक् ॥ २१४.१४॥
२१४.१५८/०नरको रौरवो रौद्रः शूकरस्ताल एव च ।
२१४.१५९/०कुम्भीपाको महाघोरः शाल्मलोऽथ विमोहनः ॥ २१४.१५॥
२१४.१६०/०कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा ।
२१४.१६१/०नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६॥
२१४.१६२/०अग्निज्वालो महाघोरः संदंशः शुनभोजनः ।
२१४.१६३/०घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७॥
२१४.१६४/०न तत्र वृक्षच्छाया वा न तडागाः सरांसि च ।
२१४.१६५/०न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८॥
२१४.१६६/०न मण्डपो नायतनं न नद्यो न च पर्वताः ।
२१४.१६७/०न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९॥
२१४.१६८/०यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः ।
२१४.१६९/०अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०॥
२१४.१७०/०प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् ।
२१४.१७१/०जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१॥
२१४.१७२/०जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् ।
२१४.१७३/०देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२॥
२१४.१७४/०स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः ।
२१४.१७५/०पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३॥
२१४.१७६/०संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते ।
२१४.१७७/०वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४॥
२१४.१७८/०गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः ।
२१४.१७९/०प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थलेऽपि वा ॥ २१४.२५॥
२१४.१८०/०क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा ।
२१४.१८१/०आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६॥
२१४.१८२/०जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ।
२१४.१८३/०इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७॥
२१४.१८४/०तस्यान्ते च स्वयं प्राणैरनिच्छन्न् अपि मुच्यते ।
२१४.१८५/०जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः ॥ २१४.२८॥
२१४.१८६/०निमित्तं किंचिद् आसाद्य देही प्राणैर्विमुच्यते ।
२१४.१८७/०विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९॥
२१४.१८८/०अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
२१४.१८९/०दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०॥
२१४.१९०/०तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् ।
२१४.१९१/०सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ २१४.३१॥
२१४.१९२/०ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
२१४.१९३/०भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ २१४.३२॥
२१४.१९४/०उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।
२१४.१९५/०भुज्यतामम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ २१४.३३॥
२१४.१९६/०ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा ।
२१४.१९७/०दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ २१४.३४॥
२१४.१९८/०अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
२१४.१९९/०सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २१४.३५॥
२१४.२००/०येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।
२१४.२०१/०आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ २१४.३६॥
२१४.२०२/०देवब्राह्मणपूजायां निरताश्चानसूयकाः ।
२१४.२०३/०शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ २१४.३७॥
२१४.२०४/०यः कामान् नापि संरम्भान् न द्वेषाद् धर्ममुत्सृजेत् ।
२१४.२०५/०यथोक्तकारी सौम्यश्च स सुखं मृत्युम् ऋच्छति ॥ २१४.३८॥
२१४.२०६/०वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः ।
२१४.२०७/०प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ २१४.३९॥
२१४.२०८/०शीतं जयन्ति धनदास्तापं चन्दनदायिनः ।
२१४.२०९/०प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ २१४.४०॥
२१४.२१०/०मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः ।
२१४.२११/०कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ २१४.४१॥
२१४.२१२/०ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ।
२१४.२१३/०विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ २१४.४२॥
२१४.२१४/०आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा ।
२१४.२१५/०प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ २१४.४३॥
२१४.२१६/०क्रन्दत्यविरतः सोऽथ भ्रातृमातृपितृंस्तथा ।
२१४.२१७/०सा तु वाग् अस्फुटा विप्रा एकवर्णा विभाव्यते ॥ २१४.४४॥
२१४.२१८/०दृष्टिर्विभ्राम्यते त्रासात् कासावृष्ट्यत्यथाननम् ।
२१४.२१९/०ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ २१४.४५॥
२१४.२२०/०वाय्वग्रसारी तद्रूप+ ।देहमन्यत् प्रपद्यते ।
२१४.२२१/०तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ २१४.४६॥
२१४.२२२/०तत्प्रमाणवयोवस्था+ ।संस्थानैः प्राप्यते व्यथा ।
२१४.२२३/०ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ २१४.४७॥
२१४.२२४/०जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् ।
२१४.२२५/०भूतैः संत्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ २१४.४८॥
२१४.२२६/०शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् ।
२१४.२२७/०निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ २१४.४९॥
२१४.२२८/०मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा ।
२१४.२२९/०दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ २१४.५०॥
२१४.२३०/०दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् ।
२१४.२३१/०स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ २१४.५१॥
२१४.२३२/०अन्धकारमपारं च महाघोरं तमोवृतम् ।
२१४.२३३/०सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ २१४.५२॥
२१४.२३४/०दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् ।
२१४.२३५/०दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ २१४.५३॥
२१४.२३६/०कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः ।
२१४.२३७/०मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ २१४.५४॥
२१४.२३८/०क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये ।
२१४.२३९/०निनीषवः समायान्ति यमदूता भयंकराः ॥ २१४.५५॥
२१४.२४०/०आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च ।
२१४.२४१/०उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ २१४.५६॥
२१४.२४२/०उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः ।
२१४.२४३/०श्येनशृगालमारूढाः सरघाकङ्कवाहनाः ॥ २१४.५७॥
२१४.२४४/०वराहपशुवेताल+ ंअहिषास्यास्तथा परे ।
२१४.२४५/०नानारूपधरा घोराः सर्वप्राणिभयंकराः ॥ २१४.५८॥
२१४.२४६/०दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः ।
२१४.२४७/०महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ २१४.५९॥
२१४.२४८/०निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः ।
२१४.२४९/०मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ २१४.६०॥
२१४.२५०/०मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयंकरैः ।
२१४.२५१/०नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ २१४.६१॥
२१४.२५२/०मार्जारोलूकखद्योत+ ।शक्रगोपवद् उद्धतैः ।
२१४.२५३/०केकरैः संकुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ २१४.६२॥
२१४.२५४/०भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः ।
२१४.२५५/०शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ २१४.६३॥
२१४.२५६/०कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः ।
२१४.२५७/०वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयंकरैः ॥ २१४.६४॥
२१४.२५८/०बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः ।
२१४.२५९/०भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ २१४.६५॥
२१४.२६०/०केचिद् द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः ।
२१४.२६१/०द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ २१४.६६॥
२१४.२६२/०असंख्यातभुजाश्चान्ये केचिद् बाहुसहस्रिणः ।
२१४.२६३/०आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ २१४.६७॥
२१४.२६४/०शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः ।
२१४.२६५/०पाशशृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ २१४.६८॥
२१४.२६६/०आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये ।
२१४.२६७/०ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ २१४.६९॥
२१४.२६८/०यत् तच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
२१४.२६९/०तद् अस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ २१४.७०॥
२१४.२७०/०बद्ध्वा तत् कालपाशैश्च निगडैर्वज्रशृङ्खलैः ।
२१४.२७१/०ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिंकरैः ॥ २१४.७१॥
२१४.२७२/०प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः ।
२१४.२७३/०हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ २१४.७२॥
२१४.२७४/०आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः ।
२१४.२७५/०खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ २१४.७३॥
२१४.२७६/०भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः ।
२१४.२७७/०एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ २१४.७४॥
२१४.२७८/०स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः ।
२१४.२७९/०आकृष्य नीयते जन्तुरध्वानं सुभयंकरैः ॥ २१४.७५॥
२१४.२८०/०कुशकण्टकवल्मीक+ ।शङ्कुपाषाणशर्करे ।
२१४.२८१/०तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ २१४.७६॥
२१४.२८२/०प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः ।
२१४.२८३/०कृष्यते यमदूतैश्च शिवासंनादभीषणैः ॥ २१४.७७॥
२१४.२८४/०विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः ।
२१४.२८५/०प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ २१४.७८॥
२१४.२८६/०क्वचिद् भीतैः क्वचित् त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित् ।
२१४.२८७/०दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ २१४.७९॥
२१४.२८८/०निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः ।
२१४.२८९/०कम्पमानशरीरैस्तु गन्तव्यं जीवसंज्ञकैः ॥ २१४.८०॥
२१४.२९०/०कण्टकाकीर्णमार्गेण संतप्तसिकतेन च ।
२१४.२९१/०दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ २१४.८१॥
२१४.२९२/०मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः ।
२१४.२९३/०दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ २१४.८२॥
२१४.२९४/०कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् ।
२१४.२९५/०वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ २१४.८३॥
२१४.२९६/०शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः ।
२१४.२९७/०भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ २१४.८४॥
२१४.२९८/०श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ २१४.८५॥
२१४.२९९/०कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः ।
२१४.३००/०महिषर्षभशृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ २१४.८६॥
२१४.३०१/०उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः ।
२१४.३०२/०सूचीभ्रमरकाकोल+ ंअक्षिकाभिश्च संघशः ॥ २१४.८७॥
२१४.३०३/०भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः ।
२१४.३०४/०विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ २१४.८८॥
२१४.३०५/०शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः ।
२१४.३०६/०घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ २१४.८९॥
२१४.३०७/०राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः ।
२१४.३०८/०ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ २१४.९०॥
२१४.३०९/०ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् ।
२१४.३१०/०वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ २१४.९१॥
२१४.३११/०ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः ।
२१४.३१२/०पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ २१४.९२॥
२१४.३१३/०वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् ।
२१४.३१४/०ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ २१४.९३॥
२१४.३१५/०ताडयन्ति तथा विप्रान् आक्रोशन्ति नराधमाः ।
२१४.३१६/०शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ २१४.९४॥
२१४.३१७/०पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः ।
२१४.३१८/०किंकरैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ २१४.९५॥
२१४.३१९/०विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् ।
२१४.३२०/०एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ २१४.९६॥
२१४.३२१/०रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च ।
२१४.३२२/०प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ २१४.९७॥
२१४.३२३/०कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः ।
२१४.३२४/०शक्तिवज्रैश्च संकीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ २१४.९८॥
२१४.३२५/०अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् ।
२१४.३२६/०ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ २१४.९९॥
२१४.३२७/०अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः ।
२१४.३२८/०यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ २१४.१००॥
२१४.३२९/०तदैवाहन्यते सर्वैरायुधैर्यमकिंकरैः ।
२१४.३३०/०एवं संताड्यमानश्च लुब्धः पापेषु योऽनयः ॥ २१४.१०१॥
२१४.३३१/०अवशो नीयते जन्तुर्दुर्धरैर्यमकिंकरैः ।
२१४.३३२/०सर्वैरेव हि गन्तव्यमध्वानं तत् सुदुर्गमम् ॥ २१४.१०२॥
२१४.३३३/०नीयते विविधैर्घोरैर्यमदूतैरवज्ञया ।
२१४.३३४/०नीत्वा सुदारुणं मार्गं प्राणिनं यमकिंकरैः ॥ २१४.१०३॥
२१४.३३५/०प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः ।
२१४.३३६/०सा पुरी विपुलाकारा लक्षयोजनमायता ॥ २१४.१०४॥
२१४.३३७/०चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा ।
२१४.३३८/०प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ २१४.१०५॥
२१४.३३९/०इन्द्रनीलमहानील+ ।पद्मरागोपशोभिता ।
२१४.३४०/०सा पुरी विविधैः संघैर्घोरा घोरैः समाकुला ॥ २१४.१०६॥
२१४.३४१/०देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।
२१४.३४२/०पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ २१४.१०७॥
२१४.३४३/०वज्रेन्द्रनीलवैदूर्य+ ंउक्ताफलविभूषितम् ।
२१४.३४४/०गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ २१४.१०८॥
२१४.३४५/०प्रवेशस्तेन देवानाम् ऋषीणां योगिनां तथा ।
२१४.३४६/०गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ २१४.१०९॥
२१४.३४७/०उत्तरं नगरद्वारं घण्टाचामरभूषितम् ।
२१४.३४८/०छत्त्रचामरविन्यासं नानारत्नैरलंकृतम् ॥ २१४.११०॥
२१४.३४९/०वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः ।
२१४.३५०/०ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ २१४.१११॥
२१४.३५१/०विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः ।
२१४.३५२/०ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ २१४.११२॥
२१४.३५३/०श्रान्तसंवाहका ये च प्रियवादरताश्च ये ।
२१४.३५४/०ये च दानरताः शूरा मातापितृपराश्च ये ॥ २१४.११३॥
२१४.३५५/०द्विजशुश्रूषणे युक्ता नित्यं येऽतिथिपूजकाः ।
२१४.३५६/०पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ २१४.११४॥
२१४.३५७/०विचित्रमणिसोपानं तोमरैः समलंकृतम् ।
२१४.३५८/०भेरीमृदङ्गसंनादैः शङ्खकाहलनादितम् ॥ २१४.११५॥
२१४.३५९/०सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् ।
२१४.३६०/०प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ २१४.११६॥
२१४.३६१/०सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः ।
२१४.३६२/०प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ २१४.११७॥
२१४.३६३/०अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् ।
२१४.३६४/०ये स्वामिमित्रलोकार्थे गोग्रहे संकुले हताः ॥ २१४.११८॥
२१४.३६५/०ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः ।
२१४.३६६/०पुर्यां तस्या महाघोरं सर्वसत्त्वभयंकरम् ॥ २१४.११९॥
२१४.३६७/०हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् ।
२१४.३६८/०अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम् ॥ २१४.१२०॥
२१४.३६९/०कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः ।
२१४.३७०/०विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ २१४.१२१॥
२१४.३७१/०श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः ।
२१४.३७२/०प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ २१४.१२२॥
२१४.३७३/०ये घातयन्ति विप्रान् गा बालं वृद्धं तथातुरम् ।
२१४.३७४/०शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ २१४.१२३॥
२१४.३७५/०येऽगम्यागामिनो मूढाः परद्रव्यापहारिणः ।
२१४.३७६/०निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ २१४.१२४॥
२१४.३७७/०परभूमिं गृहं शय्यां वस्त्रालंकारहारिणः ।
२१४.३७८/०पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ २१४.१२५॥
२१४.३७९/०ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये ।
२१४.३८०/०कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ २१४.१२६॥
२१४.३८१/०अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् ।
२१४.३८२/०मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ २१४.१२७॥
२१४.३८३/०अन्ये ये चैव निर्दिष्टा महापातककारिणः ।
२१४.३८४/०दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ २१४.१२८॥
२१५.१/१मुनय ऊचुः । कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् ।
२१५.१/२श्रोतुमिच्छाम तद् ब्रूहि विस्तरेण तपोधन ॥ २१५.१॥
२१५.२/१व्यास उवाच । सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम् ।
२१५.२/२नानाश्वापदसंकीर्णं शिवाशतनिनादितम् ॥ २१५.२॥
२१५.३/१फेत्काररवसंयुक्तमगम्यं लोमहर्षणम् ।
२१५.३/२भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः ॥ २१५.३॥
२१५.४/१एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः ।
२१५.४/२मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च ॥ २१५.४॥
२१५.५/१ततस्ताञ् शृङ्खलैः पाशैर्बद्ध्वा कर्षन्ति निर्भयाः ।
२१५.५/२ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः ॥ २१५.५॥
२१५.६/१लब्धसंज्ञास्ततस्ते वै रुधिरेण परिप्लुताः ।
२१५.६/२व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥ २१५.६॥
२१५.७/१तीव्रकण्टकयुक्तेन शर्करानिचितेन च ।
२१५.७/२क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च ॥ २१५.७॥
२१५.८/१क्वचित् पङ्केन निचिता निरुत्तारैश्च खातकैः ।
२१५.८/२लोहसूचीनिभैर्दन्तैः संछन्नेन क्वचित् क्वचित् ॥ २१५.८॥
२१५.९/१तटप्रपातविषमैः पर्वतैर्वृक्षसंकुलैः ।
२१५.९/२प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ २१५.९॥
२१५.१०/१क्वचिद् विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः ।
२१५.१०/२सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ २१५.१०॥
२१५.११/१अयःशृङ्गाटकैस्तप्तैः क्वचिद् दावाग्निना युतम् ।
२१५.११/२क्वचित् तप्तशिलाभिश्च क्वचिद् व्याप्तं हिमेन च ॥ २१५.११॥
२१५.१२/१क्वचिद् वालुकया व्याप्तमाकण्ठान्तःप्रवेशया ।
२१५.१२/२क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः ॥ २१५.१२॥
२१५.१३/१क्वचित् सिंहैर्वृकैर्व्याघ्रैर्दशकीटैश्च दारुणैः ।
२१५.१३/२क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः ॥ २१५.१३॥
२१५.१४/१मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पविषोल्बणैः ।
२१५.१४/२क्वचिद् दुष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः ॥ २१५.१४॥
२१५.१५/१पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महावृषैः ।
२१५.१५/२महाशृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः ॥ २१५.१५॥
२१५.१६/१डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।
२१५.१६/२व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥ २१५.१६॥
२१५.१७/१महाधूलिविमिश्रेण महाचण्डेन वायुना ।
२१५.१७/२महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २१५.१७॥
२१५.१८/१क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते ।
२१५.१८/२महता बाणवर्षेण भिद्यमानाश्च सर्वशः ॥ २१५.१८॥
२१५.१९/१पतद्भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः ।
२१५.१९/२प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥ २१५.१९॥
२१५.२०/१महता पांशुवर्षेण पूर्यमाणा रुदन्ति च ।
२१५.२०/२मेघारवैः सुघोरैश्च वित्रास्यन्ते मुहुर्मुहुः ॥ २१५.२०॥
२१५.२१/१निःशेषाः शरवर्षेण चूर्ण्यमाणाश्च सर्वतः ।
२१५.२१/२महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २१५.२१॥
२१५.२२/१महाशीतेन मरुता रूक्षेण परुषेण च ।
२१५.२२/२समन्ताद् दीर्यमाणाश्च शुष्यन्ते संकुचन्ति च ॥ २१५.२२॥
२१५.२३/१इत्थं मार्गेण पुरुषाः पाथेयरहितेन च ।
२१५.२३/२निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २१५.२३॥
२१५.२४/१अतिश्रमेण महता निर्गतेनाश्रमाय वै ।
२१५.२४/२नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥ २१५.२४॥
२१५.२५/१यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।
२१५.२५/२एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ २१५.२५॥
२१५.२६/१शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः ।
२१५.२६/२प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः ॥ २१५.२६॥
२१५.२७/१कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना ।
२१५.२७/२बद्धाः शृङ्खलया केचित् केचिद् उत्तानपादयोः ॥ २१५.२७॥
२१५.२८/१आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः ।
२१५.२८/२नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥ २१५.२८॥
२१५.२९/१अन्नपानीयरहिता याचमानाः पुनः पुनः ।
२१५.२९/२देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥ २१५.२९॥
२१५.३०/१कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः ।
२१५.३०/२भक्ष्यान् उच्चावचान् दृष्ट्वा भोज्यान् पेयांश्च पुष्कलान् ॥ २१५.३०॥
२१५.३१/१सुगन्धद्रव्यसंयुक्तान् याचमानाः पुनः पुनः ।
२१५.३१/२दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा ॥ २१५.३१॥
२१५.३२/१पानानि च सुगन्धीनि शीतलान्युदकानि च ।
२१५.३२/२तान् याचमानांस्ते याम्या भर्त्सयन्तस्तदाब्रुवन् ।
२१५.३२/३वचोभिः परुषैर्भीमाः क्रोधरक्तान्तलोचनाः ॥ २१५.३२॥
२१५.३३/१याम्या ऊचुः । न भवद्भिर्हुतं काले न दत्तं ब्राह्मणेषु च ।
२१५.३३/२प्रसभं दीयमानं च वारितं च द्विजातिषु ॥ २१५.३३॥
२१५.३४/१तस्य पापस्य च फलं भवतां समुपागतम् ।
२१५.३४/२नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥ २१५.३४॥
२१५.३५/१कुतो वा साम्प्रतं विप्रे यन् न दत्तं पुराधमाः ।
२१५.३५/२यैर्दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥ २१५.३५॥
२१५.३६/१तेषामेते प्रदृश्यन्ते कल्पिता ह्यन्नपर्वताः ।
२१५.३६/२भक्ष्यभोज्याश्च पेयाश्च लेह्याश्चोष्याश्च संवृताः ॥ २१५.३६॥
२१५.३७/१न यूयमभिलप्स्यध्वे न दत्तं च कथंचन ।
२१५.३७/२यैस्तु दत्तं हुतं चेष्टं ब्राह्मणाश्चैव पूजिताः ॥ २१५.३७॥
२१५.३८/१तेषामन्नं समानीय इह निक्षिप्यते सदा ।
२१५.३८/२परस्वं कथमस्माभिर्दातुं शक्येत नारकाः ॥ २१५.३८॥
२१५.३९/१व्यास उवाच । किंकराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः ।
२१५.३९/२ततस्ते दारुणैश्चास्त्रैः पीड्यन्ते यमकिंकरैः ॥ २१५.३९॥
२१५.४०/१मुद्गरैर्लोहदण्डैश्च शक्तितोमरपट्टिशैः ।
२१५.४०/२परिघैर्भिन्दिपालैश्च गदापरशुभिः शरैः ॥ २१५.४०॥
२१५.४१/१पृष्ठतो हन्यमान्याश्च यमदूतैः सुनिर्दयैः ।
२१५.४१/२अग्रतः सिंहव्याघ्राद्यैर्भक्ष्यन्ते पापकारिणः ॥ २१५.४१॥
२१५.४२/१न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् ।
२१५.४२/२स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥ २१५.४२॥
२१५.४३/१तत्र सम्पीड्य सुभृशं प्रवेशं यमकिंकरैः ।
२१५.४३/२नीयन्ते पापिनस्तत्र यत्र तिष्ठेत् स्वयं यमः ॥ २१५.४३॥
२१५.४४/१धर्मात्मा धर्मकृद् देवः सर्वसंयमनो यमः ।
२१५.४४/२एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः ॥ २१५.४४॥
२१५.४५/१प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः ।
२१५.४५/२ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम् ॥ २१५.४५॥
२१५.४६/१पापापविद्धनयना विपरीतात्मबुद्धयः ।
२१५.४६/२दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम् ॥ २१५.४६॥
२१५.४७/१ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् ।
२१५.४७/२अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ २१५.४७॥
२१५.४८/१सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् ।
२१५.४८/२महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥ २१५.४८॥
२१५.४९/१रक्तमाल्याम्बरधरं महामेघमिवोच्छ्रितम् ।
२१५.४९/२प्रलयाम्बुदनिर्घोषं पिबन्न् इव महोदधिम् ॥ २१५.४९॥
२१५.५०/१ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् ।
२१५.५०/२मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥ २१५.५०॥
२१५.५१/१प्रलयानलसंकाशं कृतान्तं च भयानकम् ।
२१५.५१/२मारीचोग्रा महामारी कालरात्री च दारुणा ॥ २१५.५१॥
२१५.५२/१विविधा व्याधयः कष्टा नानारूपा भयावहाः ।
२१५.५२/२शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥ २१५.५२॥
२१५.५३/१वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः ।
२१५.५३/२असंख्याता महावीर्याः क्रूराश्चाञ्जनसप्रभाः ॥ २१५.५३॥
२१५.५४/१सर्वायुधोद्यतकरा यमदूता भयानकाः ।
२१५.५४/२अनेन परिवारेण महाघोरेण संवृतम् ॥ २१५.५४॥
२१५.५५/१यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं विभीषणम् ।
२१५.५५/२निर्भर्त्सयति चात्यर्थं यमस्तान् पापकारिणः ॥ २१५.५५॥
२१५.५६/१चित्रगुप्तस्तु भगवान् धर्मवाक्यैः प्रबोधयन् ॥ २१५.५६॥
२१५.५७/१चित्रगुप्त उवाच । भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः ।
२१५.५७/२गर्विता रूपवीर्येण परदारविमर्दकाः ॥ २१५.५७॥
२१५.५८/१यत् स्वयं क्रियते कर्म तत् स्वयं भुज्यते पुनः ।
२१५.५८/२तत् किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २१५.५८॥
२१५.५९/१इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः ।
२१५.५९/२भुञ्जध्वं स्वानि दुःखानि नहि दोषोऽस्ति कस्यचित् ॥ २१५.५९॥
२१५.६०/१य एते पृथिवीपालाः सम्प्राप्ता मत्समीपतः ।
२१५.६०/२स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ॥ २१५.६०॥
२१५.६१/१भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।
२१५.६१/२अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ २१५.६१॥
२१५.६२/१राज्यलोभेन मोहेन बलाद् अन्यायतः प्रजाः ।
२१५.६२/२यद् दण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः ॥ २१५.६२॥
२१५.६३/१कुतो राज्यं कलत्रं च यदर्थमशुभं कृतम् ।
२१५.६३/२तत् सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ २१५.६३॥
२१५.६४/१पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः ।
२१५.६४/२यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥ २१५.६४॥
२१५.६५/१व्यास उवाच । एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते ।
२१५.६५/२शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥ २१५.६५॥
२१५.६६/१इति कर्म समादिश्य नृपाणां धर्मराट् स्वयम् ।
२१५.६६/२तत्पातकविशुद्ध्यर्थमिदं वचनमब्रवीत् ॥ २१५.६६॥
२१५.६७/१यम उवाच । भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीन् इमान् ।
२१५.६७/२विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥ २१५.६७॥
२१५.६८/१व्यास उवाच । ततः शीघ्रं समुत्थाय नृपान् संगृह्य पादयोः ।
२१५.६८/२भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥ २१५.६८॥
२१५.६९/१तत्तत्पापप्रमाणेन यमदूताः शिलातले ।
२१५.६९/२आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥ २१५.६९॥
२१५.७०/१ततस्तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः ।
२१५.७०/२निःसंज्ञः स तदा देही निश्चेष्टश्च प्रजायते ॥ २१५.७०॥
२१५.७१/१ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः ।
२१५.७१/२ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ २१५.७१॥
२१५.७२/१अन्यांश्च ते तदा दूताः पापकर्मरतान् नरान् ।
२१५.७२/२निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥ २१५.७२॥
२१५.७३/१यमदूता ऊचुः । एष देव तवादेशाद् अस्माभिर्मोहितो भृशम् ।
२१५.७३/२आनीतो धर्मविमुखः सदा पापरतः परः ॥ २१५.७३॥
२१५.७४/१एष लुब्धो दुराचारो महापातकसंयुतः ।
२१५.७४/२उपपातककर्ता च सदा हिंसारतो शुचिः ॥ २१५.७४॥
२१५.७५/१अगम्यागामी दुष्टात्मा परद्रव्यापहारकः ।
२१५.७५/२कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः ॥ २१५.७५॥
२१५.७६/१अनेन मदमत्तेन सदा धर्मो विनिन्दितः ।
२१५.७६/२पापमाचरितं कर्म मर्त्यलोके दुरात्मना ॥ २१५.७६॥
२१५.७७/१इदानीमस्य देवेश निग्रहानुग्रहौ वद ।
२१५.७७/२प्रभुरस्य क्रियायोगे वयं वा परिपन्थिनः ॥ २१५.७७॥
२१५.७८/१व्यास उवाच । इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् ।
२१५.७८/२नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ २१५.७८॥
२१५.७९/१किंकरास्ते ततो यान्ति ग्रहीतुमपरान् नरान् ।
२१५.७९/२प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम् ॥ २१५.७९॥
२१५.८०/१समादिशति तान् घोरान् निग्रहाय स्वकिंकरान् ।
२१५.८०/२यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर्विनिग्रहः ॥ २१५.८०॥
२१५.८१/१पापस्य तद् भृशं क्रुद्धाः कुर्वन्ति यमकिंकराः ।
२१५.८१/२अङ्कुशैर्मुद्गरैर्दण्डैः क्रकचैः शक्तितोमरैः ॥ २१५.८१॥
२१५.८२/१खड्गशूलनिपातैश्च भिद्यन्ते पापकारिणः ।
२१५.८२/२नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ २१५.८२॥
२१५.८३/१स्वकर्मोपार्जितैर्दोषैः पीड्यन्ते यमकिंकरैः ।
२१५.८३/२शृणुध्वं नरकाणां च स्वरूपं च भयंकरम् ॥ २१५.८३॥
२१५.८४/१नामानि च प्रमाणं च येन यान्ति नराश्च तान् ।
२१५.८४/२महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥ २१५.८४॥
२१५.८५/१वज्रकण्टकसम्मिश्रं योजनायुतविस्तृतम् ।
२१५.८५/२तत्र सम्पीड्यते मग्नो भिद्यते वज्रकण्टके ॥ २१५.८५॥
२१५.८६/१वर्षलक्षं महाघोरं गोघाती नरके नरः ।
२१५.८६/२योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥ २१५.८६॥
२१५.८७/१ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता ।
२१५.८७/२ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥ २१५.८७॥
२१५.८८/१दह्यन्ते तत्र संक्षिप्ता यावद् आभूतसम्प्लवम् ।
२१५.८८/२रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥ २१५.८८॥
२१५.८९/१योजनानां सहस्राणि षष्टिरायामविस्तरैः ।
२१५.८९/२भिद्यन्ते तत्र नाराचैः सज्वालैर्नरके नराः ॥ २१५.८९॥
२१५.९०/१इक्षुवत् तत्र पीड्यन्ते ये नराः कूटसाक्षिणः ।
२१५.९०/२अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥ २१५.९०॥
२१५.९१/१निक्षिप्तास्तत्र दह्यन्ते बन्दिग्राहकृताश्च ये ।
२१५.९१/२अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम् ॥ २१५.९१॥
२१५.९२/१अधोमुखः पतेत् तत्र ब्राह्मणस्योपपीडकः ।
२१५.९२/२लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥ २१५.९२॥
२१५.९३/१निमग्नास्तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः ।
२१५.९३/२महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥ २१५.९३॥
२१५.९४/१तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः ।
२१५.९४/२नरकं च महाघोरं जयन्ती चायसी शिला ॥ २१५.९४॥
२१५.९५/१तया चाक्रम्यते पापः परदारोपसेवकः ।
२१५.९५/२नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥ २१५.९५॥
२१५.९६/१तया लिङ्गति दुःखार्ता नारी बहुनरंगमा ।
२१५.९६/२ये वदन्ति सदासत्यं परमर्मावकर्तनम् ॥ २१५.९६॥
२१५.९७/१जिह्वा चोच्छ्रियते तेषां सदस्यैर्यमकिंकरैः ।
२१५.९७/२ये तु रागैः कटाक्षैश्च वीक्षन्ते परयोषितम् ॥ २१५.९७॥
२१५.९८/१तेषां चक्षूंषि नाराचैर्विध्यन्ते यमकिंकरैः ॥ २१५.९८॥
२१५.९९/१मातरं येऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् ।
२१५.९९/२स्त्रीबालवृद्धहन्तारो यावद् इन्द्राश्चतुर्दश ।
२१५.९९/३ज्वालामालाकुलं रौद्रं महारौरवसंज्ञितम् ॥ २१५.९९॥
२१५.१००/१नरकं योजनानां च सहस्राणि चतुर्दश ।
२१५.१००/२पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥ २१५.१००॥
२१५.१०१/१स तत्र दह्यते मूढो यावत् कल्पस्थितिर्नरः ।
२१५.१०१/२तामिस्रमिति विख्यातं लक्षयोजनविस्तृतम् ॥ २१५.१०१॥
२१५.१०२/१निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः ।
२१५.१०२/२तत्र चौरा नराः क्षिप्तास्ताड्यन्ते यमकिंकरैः ॥ २१५.१०२॥
२१५.१०३/१शूलशक्तिगदाखड्गैर्यावत् कल्पशतत्रयम् ।
२१५.१०३/२तामिस्राद् द्विगुणं प्रोक्तं महातामिस्रसंज्ञितम् ॥ २१५.१०३॥
२१५.१०४/१जलौकासर्पसम्पूर्णां निरालोकं सुदुःखदम् ।
२१५.१०४/२मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥ २१५.१०४॥
२१५.१०५/१तिष्ठन्ति तक्ष्यमाणाश्च यावत् तिष्ठति मेदिनी ।
२१५.१०५/२असिपत्त्रवनं नाम नरकं भूरिदुःखदम् ॥ २१५.१०५॥
२१५.१०६/१योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् ।
२१५.१०६/२पातितस्तत्र तैः खड्गैः शतधा तु समाहतः ॥ २१५.१०६॥
२१५.१०७/१मित्रघ्नः कृत्यते तावद् यावद् आभूतसम्प्लवम् ।
२१५.१०७/२करम्भवालुका नाम नरकं योजनायुतम् ॥ २१५.१०७॥
२१५.१०८/१कूपाकारं वृतं दीप्तैर्वालुकाङ्गारकण्टकैः ।
२१५.१०८/२दह्यते भिद्यते वर्ष+ ।लक्षायुतशतत्रयम् ॥ २१५.१०८॥
२१५.१०९/१येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः ।
२१५.१०९/२काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥ २१५.१०९॥
२१५.११०/१क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ् नरः ।
२१५.११०/२कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥ २१५.११०॥
२१५.१११/१पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः ।
२१५.१११/२सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम् ॥ २१५.१११॥
२१५.११२/१अभक्ष्यान्ने रतास्तेऽत्र निपतन्ति नराधमाः ।
२१५.११२/२क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम् ॥ २१५.११२॥
२१५.११३/१अधोमुखः पतेत् तत्र कन्याविक्रयकृन् नरः ।
२१५.११३/२नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥ २१५.११३॥
२१५.११४/१तिलवत् तत्र पीड्यन्ते परपीडारताश्च ये ।
२१५.११४/२नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥ २१५.११४॥
२१५.११५/१पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् ।
२१५.११५/२नाम्ना वज्रकपाटेति वज्रशृङ्खलयान्वितम् ॥ २१५.११५॥
२१५.११६/१पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः ।
२१५.११६/२निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥ २१५.११६॥
२१५.११७/१निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् ।
२१५.११७/२अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥ २१५.११७॥
२१५.११८/१दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् ।
२१५.११८/२महापायीति नरकं लक्षयोजनमायतम् ॥ २१५.११८॥
२१५.११९/१पात्यन्तेऽधोमुखास्तत्र ये जल्पन्ति सदानृतम् ।
२१५.११९/२महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥ २१५.११९॥
२१५.१२०/१दह्यते तत्र सुचिरं यः पापे बुद्धिकृन् नरः ।
२१५.१२०/२नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥ २१५.१२०॥
२१५.१२१/१क्रकचैर्वज्रधारोग्रैरगम्यागमने रताः ।
२१५.१२१/२नरकं गुडपाकेति ज्वलद्गुडह्रदैर्वृतम् ॥ २१५.१२१॥
२१५.१२२/१निक्षिप्तो दह्यते तस्मिन् वर्णसंकरकृन् नरः ।
२१५.१२२/२क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥ २१५.१२२॥
२१५.१२३/१छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः ।
२१५.१२३/२नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥ २१५.१२३॥
२१५.१२४/१कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः ।
२१५.१२४/२नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम् ॥ २१५.१२४॥
२१५.१२५/१छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः ।
२१५.१२५/२नरकं परितापाख्यं प्रलयानलदीपितम् ॥ २१५.१२५॥
२१५.१२६/१गरदो मधुहर्ता च पच्यते तत्र पापकृत् ।
२१५.१२६/२नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥ २१५.१२६॥
२१५.१२७/१भ्रमन्तस्तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः ।
२१५.१२७/२नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम् ॥ २१५.१२७॥
२१५.१२८/१तत्र संक्षिप्यते कल्पं सदा मांसरुचिर्नरः ।
२१५.१२८/२नरकं चोग्रगन्धेति लालामूत्रपुरीषवत् ॥ २१५.१२८॥
२१५.१२९/१क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः ।
२१५.१२९/२नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥ २१५.१२९॥
२१५.१३०/१उत्कोचभक्षकस्तत्र तिष्ठते वर्षकायुतम् ।
२१५.१३०/२यच्च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥ २१५.१३०॥
२१५.१३१/१तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिंकरैः ।
२१५.१३१/२धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये ॥ २१५.१३१॥
२१५.१३२/१यमदूतैश्च चौरास्ते छिद्यन्ते लवशः क्षुरैः ।
२१५.१३२/२ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत् ॥ २१५.१३२॥
२१५.१३३/१भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिंकरैः ।
२१५.१३३/२आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥ २१५.१३३॥
२१५.१३४/१यमदूतैश्च ते मूढा भिद्यन्ते शक्तितोमरैः ।
२१५.१३४/२फलं पत्त्रं नृणां वापि हृतं यैस्तु कुबुद्धिभिः ॥ २१५.१३४॥
२१५.१३५/१यमदूतैश्च ते क्रुद्धैर्दह्यन्ते तृणवह्निभिः ।
२१५.१३५/२परद्रव्ये कलत्रे च यः सदा दुष्टधीर्नरः ॥ २१५.१३५॥
२१५.१३६/१यमदूतैर्ज्वलत् तस्य हृदि शूलं निखन्यते ।
२१५.१३६/२कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ २१५.१३६॥
२१५.१३७/१यमलोके तु ते घोरा लभन्ते परियातनाः ।
२१५.१३७/२एवं शतसहस्राणि लक्षकोटिशतानि च ॥ २१५.१३७॥
२१५.१३८/१नरकाणि नरैस्तत्र भुज्यन्ते पापकारिभिः ।
२१५.१३८/२इह कृत्वा स्वल्पमपि नरः कर्माशुभात्मकम् ॥ २१५.१३८॥
२१५.१३९/१प्राप्नोति नरके घोरे यमलोकेषु यातनाम् ।
२१५.१३९/२न शृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥ २१५.१३९॥
२१५.१४०/१दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते ।
२१५.१४०/२दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः ॥ २१५.१४०॥
२१५.१४१/१नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः ।
२१५.१४१/२इहैव फलभोक्तारः परत्र विमुखाश्च ये ॥ २१५.१४१॥
२१५.१४२/१ते पतन्ति सुघोरेषु नरकेषु नराधमाः ।
२१५.१४२/२दारुणो नरके वासः स्वर्गवासः सुखप्रदः ।
२१५.१४२/३नरैः सम्प्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥ २१५.१४२॥
२१६.१/१मुनय ऊचुः । अहोऽतिदुःखं घोरं च यममार्गे त्वयोदितम् ।
२१६.१/२नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ २१६.१॥
२१६.२/१अस्त्युपायो न वा ब्रह्मन् यममार्गेऽतिभीषणे ।
२१६.२/२ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥ २१६.२॥
२१६.३/१व्यास उवाच । इह ये धर्मसंयुक्तास्त्वहिंसानिरता नराः ।
२१६.३/२गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ २१६.३॥
२१६.४/१यस्मिन् मनुष्यलोकास्ते सभार्याः ससुतास्तथा ।
२१६.४/२तमध्वानं च गच्छन्ति यथा तत् कथयामि वः ॥ २१६.४॥
२१६.५/१विमानैर्विविधैर्दिव्यैः काञ्चनध्वजशोभितैः ।
२१६.५/२धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥ २१६.५॥
२१६.६/१ब्राह्मणेभ्यस्तु दानानि नानारूपाणि भक्तितः ।
२१६.६/२ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥ २१६.६॥
२१६.७/१अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसंकृतम् ।
२१६.७/२श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ २१६.७॥
२१६.८/१तरुणीभिर्वरस्त्रीभिः सेव्यमानाः प्रयत्नतः ।
२१६.८/२धर्मराजपुरं यान्ति विमानैरभ्यलंकृतैः ॥ २१६.८॥
२१६.९/१ये च सत्यं प्रभाषन्ते बहिरन्तश्च निर्मलाः ।
२१६.९/२तेऽपि यान्त्यमरप्रख्या विमानैर्यममन्दिरम् ॥ २१६.९॥
२१६.१०/१गोदानानि पवित्राणि विष्णुमुद्दिश्य साधुषु ।
२१६.१०/२ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥ २१६.१०॥
२१६.११/१ते यान्ति दिव्यवर्णाभैर्विमानैर्मणिचित्रितैः ।
२१६.११/२धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः ॥ २१६.११॥
२१६.१२/१उपानद्युगलं छत्त्रं शय्यासनमथापि वा ।
२१६.१२/२ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥ २१६.१२॥
२१६.१३/१ते यान्त्यश्वै रथैश्चैव कुञ्जरैश्चाप्यलंकृताः ।
२१६.१३/२धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥ २१६.१३॥
२१६.१४/१ये च भक्त्या प्रयच्छन्ति गुडपानकमर्चितम् ।
२१६.१४/२ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥ २१६.१४॥
२१६.१५/१ते यान्ति काञ्चनैर्यानैर्विविधैस्तु यमालयम् ।
२१६.१५/२वरस्त्रीभिर्यथाकामं सेव्यमानाः पुनः पुनः ॥ २१६.१५॥
२१६.१६/१ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ।
२१६.१६/२ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥ २१६.१६॥
२१६.१७/१चक्रवाकप्रयुक्तैश्च विमानैस्तु हिरण्मयैः ।
२१६.१७/२यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ २१६.१७॥
२१६.१८/१ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।
२१६.१८/२हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ २१६.१८॥
२१६.१९/१ये तिलांस्तिलधेनुं च घृतधेनुमथापि वा ।
२१६.१९/२श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥ २१६.१९॥
२१६.२०/१सोममण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः ।
२१६.२०/२गन्धर्वैरुपगीयन्ते पुरे वैवस्वतस्य ते ॥ २१६.२०॥
२१६.२१/१येषां वाप्यश्च कूपाश्च तडागानि सरांसि च ।
२१६.२१/२दीर्घिकाः पुष्करिण्यश्च शीतलाश्च जलाशयाः ॥ २१६.२१॥
२१६.२२/१यानैस्ते हेमचन्द्राभैर्दिव्यघण्टानिनादितैः ।
२१६.२२/२व्यजनैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥ २१६.२२॥
२१६.२३/१येषां देवकुलान्यत्र चित्राण्यायतनानि च ।
२१६.२३/२रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥ २१६.२३॥
२१६.२४/१ते यान्ति लोकपालैस्तु विमानैर्वातरंहसैः ।
२१६.२४/२धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥ २१६.२४॥
२१६.२५/१पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् ।
२१६.२५/२ते वितृष्णाः सुखं यान्ति विमानैस्तं महापथम् ॥ २१६.२५॥
२१६.२६/१काष्ठपादुकयानानि पीठकान्यासनानि च ।
२१६.२६/२यैर्दत्तानि द्विजातिभ्यस्तेऽध्वानं यान्ति वै सुखम् ॥ २१६.२६॥
२१६.२७/१सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च ।
२१६.२७/२ते प्रयान्ति विमानैस्तु अप्सरोगणमण्डितैः ॥ २१६.२७॥
२१६.२८/१आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः ।
२१६.२८/२रोपयन्ति फलाढ्यानि नराणामुपकारिणः ॥ २१६.२८॥
२१६.२९/१वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः ।
२१६.२९/२वरस्त्रीगीतवाद्यैश्च सेव्यमाना व्रजन्ति ते ॥ २१६.२९॥
२१६.३०/१सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा ।
२१६.३०/२ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.३०॥
२१६.३१/१भूमिदा दीप्यमानाश्च सर्वकामैस्तु तर्पिताः ।
२१६.३१/२उदितादित्यसंकाशैर्विमानैर्भृशनादितैः ॥ २१६.३१॥
२१६.३२/१कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयामलंकृताम् ।
२१६.३२/२दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥ २१६.३२॥
२१६.३३/१सुगन्धागुरुकर्पूरान् पुष्पधूपान् द्विजोत्तमाः ।
२१६.३३/२प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः ॥ २१६.३३॥
२१६.३४/१ते सुगन्धाः सुवेशाश्च सुप्रभाः सुविभूषिताः ।
२१६.३४/२यान्ति धर्मपुरं यानैर्विचित्रैरभ्यलंकृताः ॥ २१६.३४॥
२१६.३५/१दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश ।
२१६.३५/२आदित्यसदृशैर्यानैर्दीप्यमाना यथाग्नयः ॥ २१६.३५॥
२१६.३६/१गृहावसथदातारो गृहैः काञ्चनमण्डितैः ।
२१६.३६/२व्रजन्ति बालार्कनिभैर्धर्मराजगृहं नराः ॥ २१६.३६॥
२१६.३७/१जलभाजनदातारः कुण्डिकाकरकप्रदाः ।
२१६.३७/२पूजमानाप्सरोभिश्च यान्ति दृप्ता महागजैः ॥ २१६.३७॥
२१६.३८/१पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा ।
२१६.३८/२ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥ २१६.३८॥
२१६.३९/१विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान् ।
२१६.३९/२चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥ २१६.३९॥
२१६.४०/१स्वागतेन च यो विप्रं पूजयेद् आसनेन च ।
२१६.४०/२स गच्छति तमध्वानं सुखं परमनिर्वृतः ॥ २१६.४०॥
२१६.४१/१नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् ।
२१६.४१/२गां च पापहरेत्युक्त्वा सुखं यान्ति च तत् पथम् ॥ २१६.४१॥
२१६.४२/१अनन्तराशिनो ये च दम्भानृतविवर्जिताः ।
२१६.४२/२तेऽपि सारसयुक्तैस्तु यान्ति यानैश्च तत् पथम् ॥ २१६.४२॥
२१६.४३/१वर्तन्ते ह्येकभक्तेन शाठ्यदम्भविवर्जिताः ।
२१६.४३/२हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥ २१६.४३॥
२१६.४४/१चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः ।
२१६.४४/२ते यान्ति धर्मनगरं यानैर्बर्हिणयोजितैः ॥ २१६.४४॥
२१६.४५/१तृतीये दिवसे ये तु भुञ्जते नियतव्रताः ।
२१६.४५/२तेऽपि हस्तिरथैर्दिव्यैर्यान्ति यानैश्च तत् पदम् ॥ २१६.४५॥
२१६.४६/१षष्ठेऽन्नभक्षको यस्तु शौचनित्यो जितेन्द्रियः ।
२१६.४६/२स याति कुञ्जरस्थस्तु शचीपतिरिव स्वयम् ॥ २१६.४६॥
२१६.४७/१धर्मराजपुरं दिव्यं नानामणिविभूषितम् ।
२१६.४७/२नानास्वरसमायुक्तं जयशब्दरवैर्युतम् ॥ २१६.४७॥
२१६.४८/१पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः ।
२१६.४८/२पुरं तद् धर्मराजस्य सेव्यमानाः सुरासुरैः ॥ २१६.४८॥
२१६.४९/१ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः ।
२१६.४९/२तेऽपि सूर्यप्रदीप्तैस्तु यान्ति यानैर्यमालयम् ॥ २१६.४९॥
२१६.५०/१महाप्रस्थानमेकाग्रो यः प्रयाति दृढव्रतः ।
२१६.५०/२सेव्यमानस्तु गन्धर्वैर्याति यानैर्यमालयम् ॥ २१६.५०॥
२१६.५१/१शरीरं साधयेद् यस्तु वैष्णवेनान्तरात्मना ।
२१६.५१/२स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥ २१६.५१॥
२१६.५२/१अग्निप्रवेशं यः कुर्यान् नारायणपरायणः ।
२१६.५२/२स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥ २१६.५२॥
२१६.५३/१प्राणांस्त्यजति यो मर्त्यः स्मरन् विष्णुं सनातनम् ।
२१६.५३/२यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥ २१६.५३॥
२१६.५४/१प्रविष्टोऽन्तर्जलं यस्तु प्राणांस्त्यजति मानवः ।
२१६.५४/२सोममण्डलकल्पेन याति यानेन वै सुखम् ॥ २१६.५४॥
२१६.५५/१स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति ।
२१६.५५/२स याति रथमुख्येन काञ्चनेन यमालयम् ॥ २१६.५५॥
२१६.५६/१स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युमुपैति यः ।
२१६.५६/२स यात्यमरकन्याभिः सेव्यमानो रविप्रभः ॥ २१६.५६॥
२१६.५७/१वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः ।
२१६.५७/२तत् पथं यान्ति ते घोरं सुखयानैरलंकृताः ॥ २१६.५७॥
२१६.५८/१ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः ।
२१६.५८/२तप्तहाटकसंकाशैर्विमानैर्यान्ति ते सुखम् ॥ २१६.५८॥
२१६.५९/१परपीडामकुर्वन्तो भृत्यानां भरणादिकम् ।
२१६.५९/२कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.५९॥
२१६.६०/१ये क्षान्ताः सर्वभूतेषु प्राणिनामभयप्रदाः ।
२१६.६०/२क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥ २१६.६०॥
२१६.६१/१पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः ।
२१६.६१/२यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ २१६.६१॥
२१६.६२/१एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् ।
२१६.६२/२पूजयन्ति हि ते यान्ति विमानैर्भास्करप्रभैः ॥ २१६.६२॥
२१६.६३/१ये च मांसं न खादन्ति सत्यशौचसमन्विताः ।
२१६.६३/२तेऽपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥ २१६.६३॥
२१६.६४/१मांसान् मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च ।
२१६.६४/२तस्मान् मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥ २१६.६४॥
२१६.६५/१गोसहस्रं तु यो दद्याद् यस्तु मांसं न भक्षयेत् ।
२१६.६५/२समावेतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥ २१६.६५॥
२१६.६६/१सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् ।
२१६.६६/२अमांसभक्षणे विप्रास्तच्च तच्च च तत्समम् ॥ २१६.६६॥
२१६.६७/१एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः ।
२१६.६७/२दानव्रतपरा यानैर्यत्र देवो रवेः सुतः ॥ २१६.६७॥
२१६.६८/१दृष्ट्वा तान् धार्मिकान् देवः स्वयं सम्मानयेद् यमः ।
२१६.६८/२स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥ २१६.६८॥
२१६.६९/१धन्या यूयं महात्मान आत्मनो हितकारिणः ।
२१६.६९/२येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ २१६.६९॥
२१६.७०/१इदं विमानमारुह्य दिव्यस्त्रीभोगभूषिताः ।
२१६.७०/२स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ॥ २१६.७०॥
२१६.७१/१तत्र भुक्त्वा महाभोगान् अन्ते पुण्यपरिक्षयात् ।
२१६.७१/२यत् किंचिद् अल्पमशुभं फलं तद् इह भोक्ष्यथ ॥ २१६.७१॥
२१६.७२/१ये तु तं धर्मराजानं नराः पुण्यानुभावतः ।
२१६.७२/२पश्यन्ति सौम्यमनसं पितृभूतमिवात्मनः ॥ २१६.७२॥
२१६.७३/१तस्माद् धर्मः सेवितव्यः सदा मुक्तिफलप्रदः ।
२१६.७३/२धर्माद् अर्थस्तथा कामो मोक्षश्च परिकीर्त्यते ॥ २१६.७३॥
२१६.७४/१धर्मो माता पिता भ्राता धर्मो नाथः सुहृत् तथा ।
२१६.७४/२धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥ २१६.७४॥
२१६.७५/१धर्माद् अर्थोऽर्थतः कामः कामाद् भोगः सुखानि च ।
२१६.७५/२धर्माद् ऐश्वर्यमेकाग्र्यं धर्मात् स्वर्गगतिः परा ॥ २१६.७५॥
२१६.७६/१धर्मस्तु सेवितो विप्रास्त्रायते महतो भयात् ।
२१६.७६/२देवत्वं च द्विजत्वं च धर्मात् प्राप्नोत्यसंशयम् ॥ २१६.७६॥
२१६.७७/१यदा च क्षीयते पापं नराणां पूर्वसंचितम् ।
२१६.७७/२तदैषां भजते बुद्धिर्धर्मं चात्र द्विजोत्तमाः ॥ २१६.७७॥
२१६.७८/१जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् ।
२१६.७८/२यो हि नाचरते धर्मं भवेत् स खलु वञ्चितः ॥ २१६.७८॥
२१६.७९/१कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा ।
२१६.७९/२परप्रेष्याश्च मूर्खाश्च ज्ञेया धर्मविवर्जिताः ॥ २१६.७९॥
२१६.८०/१ये हि दीर्घायुषः शूराः पण्डिता भोगिनोऽर्थिनः ।
२१६.८०/२अरोगा रूपवन्तश्च तैस्तु धर्मः पुरा कृतः ॥ २१६.८०॥
२१६.८१/१एवं धर्मरता विप्रा गच्छन्ति गतिमुत्तमाम् ।
२१६.८१/२अधर्मं सेवमानास्तु तिर्यग्योनिं व्रजन्ति ते ॥ २१६.८१॥
२१६.८२/१ये नरा नरकध्वंसि+ ।वासुदेवमनुव्रताः ।
२१६.८२/२ते स्वप्नेऽपि न पश्यन्ति यमं वा नरकाणि वा ॥ २१६.८२॥
२१६.८३/१अनादिनिधनं देवं दैत्यदानवदारणम् ।
२१६.८३/२ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥ २१६.८३॥
२१६.८४/१कर्मणा मनसा वाचा येऽच्युतं शरणं गताः ।
२१६.८४/२न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ २१६.८४॥
२१६.८५/१ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।
२१६.८५/२नमन्ति नहि ते विष्णोः स्थानाद् अन्यत्र गामिनः ॥ २१६.८५॥
२१६.८६/१न ते दूतान् न तन् मार्गं न यमं न च तां पुरीम् ।
२१६.८६/२प्रणम्य विष्णुं पश्यन्ति नरकाणि कथंचन ॥ २१६.८६॥
२१६.८७/१कृत्वापि बहुशः पापं नरा मोहसमन्विताः ।
२१६.८७/२न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥ २१६.८७॥
२१६.८८/१शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।
२१६.८८/२तेऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम् ॥ २१६.८८॥
२१६.८९/१अत्यन्तक्रोधसक्तोऽपि कदाचित् कीर्तयेद् धरिम् ।
२१६.८९/२सोऽपि दोषक्षयान् मुक्तिं लभेच्चेदिपतिर्यथा ॥ २१६.८९॥
२१७.१/१लोमहर्षण उवाच । श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् ।
२१७.१/२पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥ २१७.१॥
२१७.२/१मुनय ऊचुः । भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
२१७.२/२मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ २१७.२॥
२१७.३/१ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ।
२१७.३/२गृहं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
२१७.३/३गच्छन्त्यमुत्र लोके वै कश्च तान् अनुगच्छति ॥ २१७.३॥
२१७.४/१व्यास उवाच । एकः प्रसूयते विप्रा एक एव हि नश्यति ।
२१७.४/२एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ २१७.४॥
२१७.५/१असहायः पिता माता तथा भ्राता सुतो गुरुः ।
२१७.५/२ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ २१७.५॥
२१७.६/१मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
२१७.६/२मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः ॥ २१७.६॥
२१७.७/१तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ।
२१७.७/२तस्माद् धर्मः सहायश्च सेवितव्यः सदा नृभिः ॥ २१७.७॥
२१७.८/१प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् ।
२१७.८/२तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ २१७.८॥
२१७.९/१तस्मात् पापागतैरर्थैर्नानुरज्येत पण्डितः ।
२१७.९/२धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥ २१७.९॥
२१७.१०/१लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः ।
२१७.१०/२नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ २१७.१०॥
२१७.११/१धर्मश्चार्थश्च कामश्च त्रितयं जीवतः फलम् ।
२१७.११/२एतत् त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ २१७.११॥
२१७.१२/१मुनय ऊचुः । श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।
२१७.१२/२शरीरनिचयं ज्ञातुं बुद्धिर्नोऽत्र प्रजायते ॥ २१७.१२॥
२१७.१३/१मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् ।
२१७.१३/२अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ २१७.१३॥
२१७.१४/१व्यास उवाच । पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तरम् ।
२१७.१४/२बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ २१७.१४॥
२१७.१५/१प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम् ।
२१७.१५/२एतैश्च सह धर्मो हि तं जीवमनुगच्छति ॥ २१७.१५॥
२१७.१६/१त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः ।
२१७.१६/२शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ २१७.१६॥
२१७.१७/१ततो धर्मसमायुक्तः स जीवः सुखमेधते ।
२१७.१७/२इहलोके परे चैव किं भूयः कथयामि वः ॥ २१७.१७॥
२१७.१८/१मुनय ऊचुः । तद् दर्शितं भगवता यथा धर्मोऽनुगच्छति ।
२१७.१८/२एतत् तु ज्ञातुमिच्छामः कथं रेतः प्रवर्तते ॥ २१७.१८॥
२१७.१९/१व्यास उवाच । अन्नमश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः ।
२१७.१९/२पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ २१७.१९॥
२१७.२०/१ततस्तृप्तेषु भो विप्रास्तेषु भूतेषु पञ्चसु ।
२१७.२०/२मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत् ॥ २१७.२०॥
२१७.२१/१ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर्द्विजाः ।
२१७.२१/२एतद् वः सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २१७.२१॥
२१७.२२/१मुनय ऊचुः । आख्यातं नो भगवता गर्भः संजायते यथा ।
२१७.२२/२यथा जातस्तु पुरुषः प्रपद्यते तद् उच्यताम् ॥ २१७.२२॥
२१७.२३/१व्यास उवाच । आसन्नमात्रपुरुषस्तैर्भूतैरभिभूयते ।
२१७.२३/२विप्रयुक्तस्तु तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ २१७.२३॥
२१७.२४/१स च भूतसमायुक्तः प्राप्नोति जीवमेव हि ।
२१७.२४/२ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् ।
२१७.२४/३देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छथ ॥ २१७.२४॥
२१७.२५/१मुनय ऊचुः । त्वग् अस्थि मांसमुत्सृज्य तैस्तु भूतैर्विवर्जितः ।
२१७.२५/२जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते ॥ २१७.२५॥
२१७.२६/१व्यास उवाच । जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः ।
२१७.२६/२स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥ २१७.२६॥
२१७.२७/१यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर्वधः ।
२१७.२७/२दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ २१७.२७॥
२१७.२८/१इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः ।
२१७.२८/२सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ २१७.२८॥
२१७.२९/१यदि धर्मं समायुज्य जन्मप्रभृति सेवते ।
२१७.२९/२ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ २१७.२९॥
२१७.३०/१अथान्तरान्तरं धर्ममधर्ममुपसेवते ।
२१७.३०/२सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ २१७.३०॥
२१७.३१/१अधर्मेण समायुक्तो यमस्य विषयं गतः ।
२१७.३१/२महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ २१७.३१॥
२१७.३२/१कर्मणा येन येनेह यस्यां योनौ प्रजायते ।
२१७.३२/२जीवो मोहसमायुक्तस्तन् मे शृणुत साम्प्रतम् ॥ २१७.३२॥
२१७.३३/१यद् एतद् उच्यते शास्त्रैः सेतिहासैश्च छन्दसि ।
२१७.३३/२यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥ २१७.३३॥
२१७.३४/१इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः ।
२१७.३४/२तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ २१७.३४॥
२१७.३५/१यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः ।
२१७.३५/२कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥ २१७.३५॥
२१७.३६/१येन येन हि भावेन येन वै कर्मणा गतिम् ।
२१७.३६/२प्रयाति पुरुषो घोरां तथा वक्ष्याम्यतः परम् ॥ २१७.३६॥
२१७.३७/१अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः ।
२१७.३७/२पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते ॥ २१७.३७॥
२१७.३८/१खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः ।
२१७.३८/२खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ २१७.३८॥
२१७.३९/१बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः ।
२१७.३९/२ब्रह्मरक्षस्तु मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥ २१७.३९॥
२१७.४०/१पतितं याजयित्वा तु कृमियोनौ प्रजायते ।
२१७.४०/२तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥ २१७.४०॥
२१७.४१/१क्रिमिभावाद् विनिर्मुक्तस्ततो जायेत गर्दभः ।
२१७.४१/२गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥ २१७.४१॥
२१७.४२/१कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः ।
२१७.४२/२श्वा वर्षमेकं भवति ततो जायेत मानवः ॥ २१७.४२॥
२१७.४३/१उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् ।
२१७.४३/२स जन्मानीह संसारे त्रीन् आप्नोति न संशयः ॥ २१७.४३॥
२१७.४४/१प्राक् श्वा भवति भो विप्रास्ततः क्रव्यात् ततः खरः ।
२१७.४४/२प्रेत्य च परिक्लिष्टेषु पश्चाज्जायेत ब्राह्मणः ॥ २१७.४४॥
२१७.४५/१मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् ।
२१७.४५/२उदग्रान् प्रैति संसारान् अधर्मेणेह चेतसा ॥ २१७.४५॥
२१७.४६/१श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति ।
२१७.४६/२तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥ २१७.४६॥
२१७.४७/१कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति ।
२१७.४७/२ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ २१७.४७॥
२१७.४८/१यदि पुत्रसमं शिष्यं गुरुर्हन्याद् अकारणम् ।
२१७.४८/२आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते ॥ २१७.४८॥
२१७.४९/१पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते ।
२१७.४९/२सोऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ २१७.४९॥
२१७.५०/१गर्दभत्वं तु सम्प्राप्य दश वर्षाणि जीवति ।
२१७.५०/२संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥ २१७.५०॥
२१७.५१/१पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि ।
२१७.५१/२गुर्वपध्यानतः सोऽपि मृतो जायेत गर्दभः ॥ २१७.५१॥
२१७.५२/१खरो जीवति मासांश्च दश चापि चतुर्दश ।
२१७.५२/२बिडालः सप्त मासांस्तु ततो जायेत मानवः ॥ २१७.५२॥
२१७.५३/१मातापितरावाक्रुश्य सारीकः सम्प्रजायते ।
२१७.५३/२ताडयित्वा तु तावेव जायते कच्छपो द्विजाः ॥ २१७.५३॥
२१७.५४/१कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः ।
२१७.५४/२व्यालो भूत्वा तु षण् मासांस्ततो जायेत मानुषः ॥ २१७.५४॥
२१७.५५/१भर्तृपिण्डमुपाश्नीनो राजद्विष्टानि सेवते ।
२१७.५५/२सोऽपि मोहसमापन्नो मृतो जायेत वानरः ॥ २१७.५५॥
२१७.५६/१वानरो दश वर्षाणि सप्त वर्षाणि मूषकः ।
२१७.५६/२श्वा च भूत्वा तु षण् मासांस्ततो जायेत मानवः ॥ २१७.५६॥
२१७.५७/१न्यासापहर्ता तु नरो यमस्य विषयं गतः ।
२१७.५७/२संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ २१७.५७॥
२१७.५८/१तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ।
२१७.५८/२दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥ २१७.५८॥
२१७.५९/१असूयको नरश्चापि मृतो जायेत शार्ङ्गकः ।
२१७.५९/२विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥ २१७.५९॥
२१७.६०/१भूत्वा मीनोऽष्ट वर्षाणि मृगो जायेत भो द्विजाः ।
२१७.६०/२मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ २१७.६०॥
२१७.६१/१छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।
२१७.६१/२कीटः संजायते जन्तुस्ततो जायेत मानुषः ॥ २१७.६१॥
२१७.६२/१धान्यान् यवांस्तिलान् माषान् कुलित्थान् सर्षपांश्चणान् ।
२१७.६२/२कलायान् अथ मुद्गांश्च गोधूमान् अतसीस्तथा ॥ २१७.६२॥
२१७.६३/१सस्यान्यन्यानि हर्ता च मर्त्यो मोहाद् अचेतनः ।
२१७.६३/२संजायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥ २१७.६३॥
२१७.६४/१ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः ।
२१७.६४/२शूकरो जातमात्रस्तु रोगेण म्रियते पुनः ॥ २१७.६४॥
२१७.६५/१श्वा ततो जायते मूकः कर्मणा तेन मानवः ।
२१७.६५/२भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥ २१७.६५॥
२१७.६६/१परदाराभिमर्शं तु कृत्वा जायेत वै वृकः ।
२१७.६६/२श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ २१७.६६॥
२१७.६७/१भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोहितः ।
२१७.६७/२पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं द्विजाः ॥ २१७.६७॥
२१७.६८/१सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च ।
२१७.६८/२प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥ २१७.६८॥
२१७.६९/१शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः ।
२१७.६९/२पिपीलिकस्तु मासांस्त्रीन् कीटः स्यान् मासमेव च ॥ २१७.६९॥
२१७.७०/१एतान् आसाद्य संसारान् कृमियोनौ प्रजायते ।
२१७.७०/२तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ॥ २१७.७०॥
२१७.७१/१नरोऽधर्मक्षयं कृत्वा ततो जायेत मानुषः ।
२१७.७१/२पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ॥ २१७.७१॥
२१७.७२/१सोऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते ।
२१७.७२/२तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥ २१७.७२॥
२१७.७३/१अधर्मसंक्षये मुक्तस्ततो जायेत मानुषः ।
२१७.७३/२देवकार्यमकृत्वा तु पितृकार्यमथापि वा ॥ २१७.७३॥
२१७.७४/१अनिर्वाप्य पितृन् देवान् मृतो जायेत वायसः ।
२१७.७४/२वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥ २१७.७४॥
२१७.७५/१जायते व्यालकश्चापि मासं तस्मात् तु मानुषः ।
२१७.७५/२ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ॥ २१७.७५॥
२१७.७६/१सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ।
२१७.७६/२क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥ २१७.७६॥
२१७.७७/१ततो निधनमाप्नोति मानुषत्वमवाप्नुयात् ।
२१७.७७/२वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ २१७.७७॥
२१७.७८/१ततः सम्प्राप्य निधनं जायते शूकरः पुनः ।
२१७.७८/२शूकरो जातमात्रस्तु रोगेण म्रियते द्विजाः ॥ २१७.७८॥
२१७.७९/१श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः ।
२१७.७९/२श्वा भूत्वा कृतकर्मासौ जायते मानुषस्ततः ॥ २१७.७९॥
२१७.८०/१तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः ।
२१७.८०/२कृतघ्नस्तु मृतो विप्रा यमस्य विषयं गतः ॥ २१७.८०॥
२१७.८१/१यमस्य विषये क्रूरैर्बद्धः प्राप्नोति वेदनाम् ।
२१७.८१/२दण्डकं मुद्गरं शूलमग्निदण्डं च दारुणम् ॥ २१७.८१॥
२१७.८२/१असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् ।
२१७.८२/२एताश्चान्याश्च बहवो यमस्य विषयं गताः ॥ २१७.८२॥
२१७.८३/१यातनाः प्राप्य घोरास्तु ततो याति च भो द्विजाः ।
२१७.८३/२संसारचक्रमासाद्य क्रिमियोनौ प्रजायते ॥ २१७.८३॥
२१७.८४/१क्रिमिर्भवति वर्षाणि दश पञ्च च भो द्विजाः ।
२१७.८४/२ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥ २१७.८४॥
२१७.८५/१ततो गर्भशतैर्जन्तुर्बहुशः सम्प्रपद्यते ।
२१७.८५/२संसारान् सुबहून् गत्वा ततस्तिर्यक् प्रजायते ॥ २१७.८५॥
२१७.८६/१ततो दुःखमनुप्राप्य बहुवर्षगणानि वै ।
२१७.८६/२स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥ २१७.८६॥
२१७.८७/१दधि हृत्वा बकश्चापि प्लवो मत्स्यान् असंस्कृतान् ।
२१७.८७/२चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥ २१७.८७॥
२१७.८८/१फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः ।
२१७.८८/२चोरयित्वा तु निष्पावं जायते फलमूषकः ॥ २१७.८८॥
२१७.८९/१पायसं चोरयित्वा तु तित्तिरत्वमवाप्नुयात् ।
२१७.८९/२हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ २१७.८९॥
२१७.९०/१अपो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः ।
२१७.९०/२कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ॥ २१७.९०॥
२१७.९१/१राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ।
२१७.९१/२हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ २१७.९१॥
२१७.९२/१पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति ।
२१७.९२/२कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥ २१७.९२॥
२१७.९३/१अंशुकं चोरयित्वा तु शुको जायेत मानवः ।
२१७.९३/२चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ २१७.९३॥
२१७.९४/१क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः ।
२१७.९४/२चोरयित्वा नरः पट्टं त्वाविकं चैव भो द्विजाः ॥ २१७.९४॥
२१७.९५/१क्षौमं च वस्त्रमाहृत्य शशो जन्तुः प्रजायते ।
२१७.९५/२चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥ २१७.९५॥
२१७.९६/१हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ।
२१७.९६/२वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ॥ २१७.९६॥
२१७.९७/१चुच्छुन्दरित्वमाप्नोति विप्रो लोभपरायणः ।
२१७.९७/२तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥ २१७.९७॥
२१७.९८/१अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः ।
२१७.९८/२चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ २१७.९८॥
२१७.९९/१यस्तु चोरयते तैलं नरो मोहसमन्वितः ।
२१७.९९/२सोऽपि विप्रा मृतो जन्तुस्तैलपायी प्रजायते ॥ २१७.९९॥
२१७.१००/१अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः ।
२१७.१००/२अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥ २१७.१००॥
२१७.१०१/१खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते ।
२१७.१०१/२स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ २१७.१०१॥
२१७.१०२/१मृगो विध्येत शस्त्रेण गते संवत्सरे ततः ।
२१७.१०२/२हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥ २१७.१०२॥
२१७.१०३/१मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते ।
२१७.१०३/२श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ २१७.१०३॥
२१७.१०४/१ततस्तु निधनं प्राप्तः कालपर्यायचोदितः ।
२१७.१०४/२अधर्मस्य क्षयं कृत्वा मानुषत्वमवाप्नुयात् ॥ २१७.१०४॥
२१७.१०५/१वाद्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते ।
२१७.१०५/२तथा पिण्याकसम्मिश्रमन्नं यश्चोरयेन् नरः ॥ २१७.१०५॥
२१७.१०६/१स जायते बभ्रुसटो दारुणो मूषिको नरः ।
२१७.१०६/२दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः ॥ २१७.१०६॥
२१७.१०७/१घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते ।
२१७.१०७/२मत्स्यमांसमथो हृत्वा काको जायेत मानवः ॥ २१७.१०७॥
२१७.१०८/१लवणं चोरयित्वा तु चिरिकाकः प्रजायते ।
२१७.१०८/२विश्वासेन तु निक्षिप्तं योऽपनिह्नोति मानवः ॥ २१७.१०८॥
२१७.१०९/१स गतायुर्नरस्तेन मत्स्ययोनौ प्रजायते ।
२१७.१०९/२मत्स्ययोनिमनुप्राप्य मृतो जायेत मानुषः ॥ २१७.१०९॥
२१७.११०/१मानुषत्वमनुप्राप्य क्षीणायुरुपजायते ।
२१७.११०/२पापानि तु नरः कृत्वा तिर्यग् जायेत भो द्विजाः ॥ २१७.११०॥
२१७.१११/१न चात्मनः प्रमाणं तु धर्मं जानाति किंचन ।
२१७.१११/२ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥ २१७.१११॥
२१७.११२/१सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्युत ।
२१७.११२/२असंवीताः प्रजायन्ते म्लेच्छाश्चापि न संशयः ॥ २१७.११२॥
२१७.११३/१नराः पापसमाचारा लोभमोहसमन्विताः ।
२१७.११३/२वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥ २१७.११३॥
२१७.११४/१अरोगा रूपवन्तश्च धनिनस्ते भवन्त्युत ।
२१७.११४/२स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ॥ २१७.११४॥
२१७.११५/१एतेषामेव पापानां भार्यात्वमुपयान्ति ताः ।
२१७.११५/२प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः ॥ २१७.११५॥
२१७.११६/१एतद् वै लेशमात्रेण कथितं वो द्विजर्षभाः ।
२१७.११६/२अपरस्मिन् कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥ २१७.११६॥
२१७.११७/१एतन् मया महाभागा ब्रह्मणो वदतः पुरा ।
२१७.११७/२सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥ २१७.११७॥
२१७.११८/१मयापि तुभ्यं कार्त्स्न्येन यथावद् अनुवर्णितम् ।
२१७.११८/२एतच्छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥ २१७.११८॥
२१८.१/१मुनय ऊचुः । अधर्मस्य गतिर्ब्रह्मन् कथिता नस्त्वयानघ ।
२१८.१/२धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥ २१८.१॥
२१८.२/१कृत्वा पापानि कर्माणि कथं यान्त्यशुभां गतिम् ।
२१८.२/२कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २१८.२॥
२१८.३/१व्यास उवाच । कृत्वा पापानि कर्माणि त्वधर्मवशमागतः ।
२१८.३/२मनसा विपरीतेन निरयं प्रतिपद्यते ॥ २१८.३॥
२१८.४/१मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते ।
२१८.४/२मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ २१८.४॥
२१८.५/१यदि विप्राः कथयते विप्राणां धर्मवादिनाम् ।
२१८.५/२ततोऽधर्मकृतात् क्षिप्रमपराधात् प्रमुच्यते ॥ २१८.५॥
२१८.६/१यथा यथा नरः सम्यग् अधर्ममनुभाषते ।
२१८.६/२समाहितेन मनसा विमुञ्चति तथा तथा ॥ २१८.६॥
२१८.७/१यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते ।
२१८.७/२तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ २१८.७॥
२१८.८/१भुजंग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान् ।
२१८.८/२दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥ २१८.८॥
२१८.९/१मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते ।
२१८.९/२दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥ २१८.९॥
२१८.१०/१नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते ।
२१८.१०/२सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ॥ २१८.१०॥
२१८.११/१सर्वमन्नं प्रदातव्यम् ऋजुना धर्ममिच्छता ।
२१८.११/२प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुः प्रजायते ॥ २१८.११॥
२१८.१२/१अन्ने प्रतिष्ठिता लोकास्तस्माद् अन्नं प्रशस्यते ।
२१८.१२/२अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ॥ २१८.१२॥
२१८.१३/१अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ।
२१८.१३/२न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ॥ २१८.१३॥
२१८.१४/१स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ।
२१८.१४/२यस्य त्वन्नमुपाश्नन्ति ब्राह्मणाश्च सकृद् दश ॥ २१८.१४॥
२१८.१५/१हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ।
२१८.१५/२ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥ २१८.१५॥
२१८.१६/१नरोऽधर्मात् प्रमुच्येत पापेष्वभिरतः सदा ।
२१८.१६/२भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥ २१८.१६॥
२१८.१७/१स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ।
२१८.१७/२अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥ २१८.१७॥
२१८.१८/१क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ।
२१८.१८/२द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥ २१८.१८॥
२१८.१९/१तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः ।
२१८.१९/२षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ॥ २१८.१९॥
२१८.२०/१वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते ।
२१८.२०/२अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ॥ २१८.२०॥
२१८.२१/१अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते ।
२१८.२१/२औरसेन बलेनान्नमर्जयित्वा विहिंसकः ॥ २१८.२१॥
२१८.२२/१यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ।
२१८.२२/२न्यायेनावाप्तमन्नं तु नरो हर्षसमन्वितः ॥ २१८.२२॥
२१८.२३/१द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते ।
२१८.२३/२अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः ॥ २१८.२३॥
२१८.२४/१सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ।
२१८.२४/२दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥ २१८.२४॥
२१८.२५/१तेष्वप्यन्नस्य दातारस्तेभ्यो धर्मः सनातनः ।
२१८.२५/२सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ॥ २१८.२५॥
२१८.२६/१कार्यान् न्यायागतं नित्यमन्नं हि परमा गतिः ।
२१८.२६/२अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥ २१८.२६॥
२१८.२७/१सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ।
२१८.२७/२एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥ २१८.२७॥
२१८.२८/१तस्माद् अन्नं प्रदातव्यमन्यायपरिवर्जितम् ।
२१८.२८/२यस्तु प्राणाहुतीपूर्वमन्नं भुङ्क्ते गृही सदा ॥ २१८.२८॥
२१८.२९/१अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः ।
२१८.२९/२भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥ २१८.२९॥
२१८.३०/१न्यायविद्धर्मविदुषामितिहासविदां तथा ।
२१८.३०/२न याति नरकं घोरं संसारं न च सेवते ॥ २१८.३०॥
२१८.३१/१सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ।
२१८.३१/२एवं कर्मसमायुक्तो रमते विगतज्वरः ॥ २१८.३१॥
२१८.३२/१रूपवान् कीर्तिमांश्चैव धनवांश्चोपजायते ।
२१८.३२/२एतद् वः सर्वमाख्यातमन्नदानफलं महत् ।
२१८.३२/३मूलमेतत् तु धर्माणां प्रदानानां च भो द्विजाः ॥ २१८.३२॥
२१९.१/१मुनय ऊचुः । परलोकगतानां तु स्वकर्मस्थानवासिनाम् ।
२१९.१/२तेषां श्राद्धं कथं ज्ञेयं पुत्रैश्चान्यैश्च बन्धुभिः ॥ २१९.१॥
२१९.२/१व्यास उवाच । नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् ।
२१९.२/२शृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥ २१९.२॥
२१९.३/१पुरा कोकाजले मग्नान् पितृन् उद्धृतवान् विभुः ।
२१९.३/२श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥ २१९.३॥
२१९.४/१मुनय ऊचुः । किमर्थं ते तु कोकायां निमग्नाः पितरोऽम्भसि ।
२१९.४/२कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम ॥ २१९.४॥
२१९.५/१तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे ।
२१९.५/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ २१९.५॥
२१९.६/१व्यास उवाच । त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः ।
२१९.६/२पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः ॥ २१९.६॥
२१९.७/१तेषां समुपविष्टानां पितृणां सोमसम्भवा ।
२१९.७/२कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता ।
२१९.७/३तामूचुः पितरो दिव्या ये तत्रासन् समागताः ॥ २१९.७॥
२१९.८/१पितर ऊचुः । कासि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि ॥ २१९.८॥
२१९.९/१व्यास उवाच । सा प्रोवाच पितृन् देवान् कला चान्द्रमसीति ह ।
२१९.९/२प्रभुत्वे भवतामेव वरयामि यदीच्छथ ॥ २१९.९॥
२१९.१०/१ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् ।
२१९.१०/२भवद्भिश्चाद्यैव कृतं नाम कोकेति भावितम् ॥ २१९.१०॥
२१९.११/१ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः ।
२१९.११/२तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे ॥ २१९.११॥
२१९.१२/१विश्वेदेवाश्च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् ।
२१९.१२/२योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः ॥ २१९.१२॥
२१९.१३/१भगवान् अपि शीतांशुरूर्जां नापश्यद् आत्मजाम् ।
२१९.१३/२समाकुलमना दध्यौ क्व गतेति महायशाः ॥ २१९.१३॥
२१९.१४/१स विवेद तदा सोमः प्राप्तां पितृंश्च कामतः ।
२१९.१४/२तैश्चावलोकितां हार्दात् स्वीकृतां च तपोबलात् ॥ २१९.१४॥
२१९.१५/१ततः क्रोधपरीतात्मा पितृञ् शशधरो द्विजाः ।
२१९.१५/२शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥ २१९.१५॥
२१९.१६/१यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः ।
२१९.१६/२यस्माद् धृतवती चेयं पतीन् पितृमती सती ॥ २१९.१६॥
२१९.१७/१स्वतन्त्रा धर्ममुत्सृज्य तस्माद् भवतु निम्नगा ।
२१९.१७/२कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥ २१९.१७॥
२१९.१८/१इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः ।
२१९.१८/२योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥ २१९.१८॥
२१९.१९/१ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते ।
२१९.१९/२प्रस्थे तीर्थं समासाद्य सप्तसामुद्रमुत्तमम् ॥ २१९.१९॥
२१९.२०/१कोका नाम ततो वेगान् नदी तीर्थशताकुला ।
२१९.२०/२प्लावयन्ती गिरेः शृङ्गं सर्पणात् तु सरित् स्मृता ॥ २१९.२०॥
२१९.२१/१अथ ते पितरो विप्रा योगहीना महानदीम् ।
२१९.२१/२ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम् ॥ २१९.२१॥
२१९.२२/१ततस्तु गिरिराड् दृष्ट्वा पितृंस्तांस्तु क्षुधार्दितान् ।
२१९.२२/२बदरीमादिदेशाथ धेनुं चैकां मधुस्रवाम् ॥ २१९.२२॥
२१९.२३/१क्षीरं मधु च तद् दिव्यं कोकाम्भो बदरीफलम् ।
२१९.२३/२इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥ २१९.२३॥
२१९.२४/१तया वृत्त्या तु वसतां पितृणां मुनिसत्तमाः ।
२१९.२४/२दश वर्षसहस्राणि ययुरेकमहो यथा ॥ २१९.२४॥
२१९.२५/१एवं लोके विपितरि तथैव विगतस्वधे ।
२१९.२५/२दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः ॥ २१९.२५॥
२१९.२६/१ते तान् पितृगणान् दैत्या यातुधानाश्च वेगिताः ।
२१९.२६/२विश्वैर्देवैर्विरहितान् सर्वतः समुपाद्रवन् ॥ २१९.२६॥
२१९.२७/१दैतेयान् यातुधानांश्च दृष्ट्वैवापततो द्विजाः ।
२१९.२७/२कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा ॥ २१९.२७॥
२१९.२८/१गृहीतायां शिलायां तु कोका वेगवती पितृन् ।
२१९.२८/२छादयामास तोयेन प्लावयन्ती हिमाचलम् ॥ २१९.२८॥
२१९.२९/१पितृन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास्तथा ।
२१९.२९/२विभीतकं समारुह्य निराहारास्तिरोहिताः ॥ २१९.२९॥
२१९.३०/१सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः ।
२१९.३०/२विषीदमानमात्मानं समीक्ष्य सलिलाशयाः ।
२१९.३०/३जगुर्जनार्दनं देवं पितरः शरणं हरिम् ॥ २१९.३०॥
२१९.३१/१पितर ऊचुः । जयस्व गोविन्द जगन्निवास ।
२१९.३१/२जयोऽस्तु नः केशव ते प्रसादात् ।
२१९.३१/३जनार्दनास्मान् सलिलान्तरस्थान् ।
२१९.३१/४उद्धर्तुमर्हस्यनघप्रताप ॥ २१९.३१॥
२१९.३२/१निशाचरैर्दारुणदर्शनैः प्रभो ।
२१९.३२/२वरेण्य वैकुण्ठ वराह विष्णो ।
२१९.३२/३नारायणाशेषमहेश्वरेश ।
२१९.३२/४प्रयाहि भीताञ् जय पद्मनाभ ॥ २१९.३२॥
२१९.३३/१उपेन्द्र योगिन् मधुकैटभघ्न ।
२१९.३३/२विष्णो अनन्ताच्युत वासुदेव ।
२१९.३३/३श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे ।
२१९.३३/४रक्षस्व देवेश्वर राक्षसेभ्यः ॥ २१९.३३॥
२१९.३४/१त्वं पिता जगतः शम्भो नान्यः शक्तः प्रबाधितुम् ।
२१९.३४/२निशाचरगणं भीममतस्त्वां शरणं गताः ॥ २१९.३४॥
२१९.३५/१त्वन्नामसंकीर्तनतो निशाचरा ।
२१९.३५/२द्रवन्ति भूतान्यपयान्ति चारयः ।
२१९.३५/३नाशं तथा सम्प्रति यान्ति विष्णो ।
२१९.३५/४धर्मादि सत्यं भवतीह मुख्यम् ॥ २१९.३५॥
२१९.३६/१व्यास उवाच । इत्थं स्तुतः स पितृभिर्धरणीधरस्तु ।
२१९.३६/२तुष्टस्तदाविष्कृतदिव्यमूर्तिः ।
२१९.३६/३कोकामुखे पितृगणं सलिले निमग्नम् ।
२१९.३६/४देवो ददर्श शिरसाथ शिलां वहन्तम् ॥ २१९.३६॥
२१९.३७/१तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः ।
२१९.३७/२भीतं पितृगणं विष्णुरुद्धर्तुं मतिरादधे ॥ २१९.३७॥
२१९.३८/१दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः ।
२१९.३८/२पितृन् आदाय च विभुरुज्जहार शिलातलात् ॥ २१९.३८॥
२१९.३९/१वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः ।
२१९.३९/२कोकामुखे गतभयाः कृता देवेन विष्णुना ॥ २१९.३९॥
२१९.४०/१उद्धृत्य च पितृन् देवो विष्णुतीर्थे तु शूकरः ।
२१९.४०/२ददौ समाहितस्तेभ्यो विष्णुर्लोहार्गले जलम् ॥ २१९.४०॥
२१९.४१/१ततः स्वरोमसम्भूतान् कुशान् आदाय केशवः ।
२१९.४१/२स्वेदोद्भवांस्तिलांश्चैव चक्रे चोल्मुकमुत्तमम् ॥ २१९.४१॥
२१९.४२/१ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् ।
२१९.४२/२स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि ॥ २१९.४२॥
२१९.४३/१तुङ्गकूटात् समादाय यज्ञीयान् ओषधीरसान् ।
२१९.४३/२मधुक्षीररसान् गन्धान् पुष्पधूपानुलेपनान् ॥ २१९.४३॥
२१९.४४/१आदाय धेनुं सरसो रत्नान्यादाय चार्णवात् ।
२१९.४४/२दंष्ट्रयोल्लिख्य धरणीमभ्युक्ष्य सलिलेन च ॥ २१९.४४॥
२१९.४५/१घर्मोद्भवेनोपलिप्य कुशैरुल्लिख्य तां पुनः ।
२१९.४५/२परिणीयोल्मुकेनैनामभ्युक्ष्य च पुनः पुनः ॥ २१९.४५॥
२१९.४६/१कुशान् आदाय प्रागग्रांल्लोमकूपान्तरस्थितान् ।
२१९.४६/२ऋषीन् आहूय पप्रच्छ करिष्ये पितृतर्पणम् ॥ २१९.४६॥
२१९.४७/१तैरप्युक्ते कुरुष्वेति विश्वान् देवांस्ततो विभुः ।
२१९.४७/२आहूय मन्त्रतस्तेषां विष्टराणि ददौ प्रभुः ॥ २१९.४७॥
२१९.४८/१आहूय मन्त्रतस्तेषां वेदोक्तविधिना हरिः ।
२१९.४८/२अक्षतैर्दैवतारक्षां चक्रे चक्रगदाधरः ॥ २१९.४८॥
२१९.४९/१अक्षतास्तु यवौषध्यः सर्वदेवांशसम्भवाः ।
२१९.४९/२रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते ॥ २१९.४९॥
२१९.५०/१देवदानवदैत्येषु यक्षरक्षःसु चैव हि ।
२१९.५०/२नहि कश्चित् क्षयं तेषां कर्तुं शक्तश्चराचरे ॥ २१९.५०॥
२१९.५१/१न केनचित् कृतं यस्मात् तस्मात् ते ह्यक्षताः कृताः ।
२१९.५१/२देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा ॥ २१९.५१॥
२१९.५२/१कुशगन्धयवैः पुष्पैरर्घ्यं कृत्वा च शूकरः ।
२१९.५२/२विश्वेभ्यो देवेभ्य इति ततस्तान् पर्यपृच्छत ॥ २१९.५२॥
२१९.५३/१पितृन् आवाहयिष्यामि ये दिव्या ये च मानुषाः ।
२१९.५३/२आवाहयस्वेति च तैरुक्तस्त्वावाहयेच्छुचिः ॥ २१९.५३॥
२१९.५४/१श्लिष्टमूलाग्रदर्भांस्तु सतिलान् वेद वेदवित् ।
२१९.५४/२जानावारोप्य हस्तं तु ददौ सव्येन चासनम् ॥ २१९.५४॥
२१९.५५/१तथैव जानुसंस्थेन करेणैकेन तान् पितृन् ।
२१९.५५/२वाराहः पितृविप्राणामायान्तु न इतीरयन् ॥ २१९.५५॥
२१९.५६/१अपहतेत्युवाचैव रक्षणं चापसव्यतः ।
२१९.५६/२कृत्वा चावाहनं चक्रे पितृणां नामगोत्रतः ॥ २१९.५६॥
२१९.५७/१तत् पितरो मनोजरान् आगच्छत इतीरयन् ।
२१९.५७/२संवत्सरैरित्युदीर्य ततोऽर्घ्यं तेषु विन्यसेत् ॥ २१९.५७॥
२१९.५८/१यास्तिष्ठन्त्यमृता वाचो यन् मैति च पितुः पितुः ।
२१९.५८/२यन् मे पितामहाइत्येवं ददावर्घ्यं पितामह ॥ २१९.५८॥
२१९.५९/१यन् मे प्रपितामहाइति ददौ च प्रपितामहे ।
२१९.५९/२कुशगन्धतिलोन्मिश्रं सपुष्पमपसव्यतः ॥ २१९.५९॥
२१९.६०/१तद्वन् मातामहेभ्यस्तु विधिं चक्रे जनार्दनः ।
२१९.६०/२तान् अर्च्य भूयो गन्धाद्यैर्धूपं दत्त्वा तु भक्तितः ॥ २१९.६०॥
२१९.६१/१आदित्या वसवो रुद्रा इत्युच्चार्य जगत्प्रभुः ।
२१९.६१/२ततश्चान्नं समादाय सर्पिस्तिलकुशाकुलम् ॥ २१९.६१॥
२१९.६२/१विधाय पात्रे तच्चैव पर्यपृच्छत् ततो मुनीन् ।
२१९.६२/२अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः ॥ २१९.६२॥
२१९.६३/१आहुतित्रितयं दद्यात् सोमायाग्नेर्यमाय च ।
२१९.६३/२ये मामकाइति च जपेद् यजुःसप्तकमच्युतम् ॥ २१९.६३॥
२१९.६४/१हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् ।
२१९.६४/२त्रिराहुतिकमेकैकं पितरं तु प्रति द्विजाः ॥ २१९.६४॥
२१९.६५/१अतोऽवशिष्टमन्नाद्यं पिण्डपात्रे तु निक्षिपेत् ।
२१९.६५/२ततोऽन्नं सरसं स्वादु ददौ पायसपूर्वकम् ॥ २१९.६५॥
२१९.६६/१प्रत्यग्रमेकदा स्विन्नमपर्युषितमुत्तमम् ।
२१९.६६/२अल्पशाकं बहुफलं षड्रसममृतोपमम् ॥ २१९.६६॥
२१९.६७/१यद् ब्राह्मणेषु प्रददौ पिण्डपात्रे पितृंस्तथा ।
२१९.६७/२वेदपूर्वं पितृस्वन्नमाज्यप्लुतं मधूक्षितम् ॥ २१९.६७॥
२१९.६८/१मन्त्रितं पृथिवीत्येवं मधुवातातृचं जगौ ।
२१९.६८/२भुञ्जानेषु तु विप्रेषु जपन् वै मन्त्रपञ्चकम् ॥ २१९.६८॥
२१९.६९/१यत् ते प्रकारमारभ्य नाधिकं ते ततो जगौ ।
२१९.६९/२त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा ॥ २१९.६९॥
२१९.७०/१जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् ।
२१९.७०/२भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ता स्थ इत्युत ॥ २१९.७०॥
२१९.७१/१तृप्ताः स्मेति सकृत् तोयं ददौ मौनविमोचनम् ।
२१९.७१/२पिण्डपात्रं समादाय *च्छायायै प्रददौ ततः ॥ २१९.७१॥
२१९.७२/१सा तद् अन्नं द्विधा कृत्वा त्रिधैकैकमथाकरोत् ।
२१९.७२/२वाराहो भूमथोल्लिख्य समाच्छाद्य कुशैरपि ॥ २१९.७२॥
२१९.७३/१दक्षिणाग्रान् कुशान् कृत्वा तेषामुपरि चासनम् ।
२१९.७३/२सतिलेषु समूलेषु कुशेष्वेव तु संश्रयः ॥ २१९.७३॥
२१९.७४/१गन्धपुष्पादिकं कृत्वा ततः पिण्डं तु भक्तितः ।
२१९.७४/२पृथिवी दधीरित्युक्त्वा ततः पिण्डं प्रदत्तवान् ॥ २१९.७४॥
२१९.७५/१पितामहाः प्रपितामहास्तथेति चान्तरिक्षतः ।
२१९.७५/२मातामहानामप्येवं ददौ पिण्डान् स शूकरः ॥ २१९.७५॥
२१९.७६/१पिण्डनिर्वापणोच्छिष्टमन्नं लेपभुजेष्वदात् ।
२१९.७६/२एतद् वः पितरित्युक्त्वा ददौ वासांसि भक्तितः ॥ २१९.७६॥
२१९.७७/१द्व्यङ्गुलजानि शुक्लानि धौतान्यभिनवानि च ।
२१९.७७/२गन्धपुष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम् ॥ २१९.७७॥
२१९.७८/१आचम्याचामयेद् विप्रान् पैत्रान् आदौ ततः सुरान् ।
२१९.७८/२ततस्त्वभ्युक्ष्य तां भूमिं दत्त्वापः सुमनोक्षतान् ॥ २१९.७८॥
२१९.७९/१सतिलाम्बु पितृष्वादौ दत्त्वा देवेषु साक्षतम् ।
२१९.७९/२अक्षय्यं नस्त्विति पितृन् प्रीयतामिति देवताः ॥ २१९.७९॥
२१९.८०/१प्रीणयित्वा परावृत्य त्रिर्जपेच्चाघमर्षणम् ।
२१९.८०/२ततो निवृत्य तु जपेद् यन् मे नाम इतीरयन् ॥ २१९.८०॥
२१९.८१/१गृहान् नः पितरो दत्त धनधान्यप्रपूरितान् ।
२१९.८१/२अर्घ्यपात्राणि पिण्डानामन्तरे स पवित्रकान् ॥ २१९.८१॥
२१९.८२/१निक्षिप्योर्जं वहन्तीति कोकातोयमथोऽजपत् ।
२१९.८२/२हिमक्षीरं मधुतिलान् पितृणां तर्पणं ददौ ॥ २१९.८२॥
२१९.८३/१स्वस्तीत्युक्ते पैतृकैस्तु सोराह्ने प्नावतर्पयन् ।
२१९.८३/२रजतं दक्षिणां दत्त्वा विप्रान् देवो गदाधरः ॥ २१९.८३॥
२१९.८४/१संविभागं मनुष्येभ्यो ददौ स्वद् इति चाब्रुवन् ।
२१९.८४/२कश्चित् सम्पन्नमित्युक्त्वा प्रत्युक्तस्तैर्द्विजोत्तमाः ॥ २१९.८४॥
२१९.८५/१अभिरम्यतामित्युवाच प्रोचुस्तेऽभिरताः स्म वै ।
२१९.८५/२शिष्टमन्नं च पप्रच्छ तैरिष्टैः सह चोदितः ॥ २१९.८५॥
२१९.८६/१पाणावादाय तान् विप्रान् कुर्याद् अनुगतस्तदा ।
२१९.८६/२वाजे वाजे इति पठन् बहिर्वेदि विनिर्गतः ॥ २१९.८६॥
२१९.८७/१कोटितीर्थजलेनासावपसव्यं समुत्क्षिपन् ।
२१९.८७/२अलग्नान् विपुलान् वालान् प्रार्थयामास चाशिषम् ॥ २१९.८७॥
२१९.८८/१दातारो नोऽभिवर्धन्तां तैस्तथेति समीरितः ।
२१९.८८/२प्रदक्षिणमुपावृत्य कृत्वा पादाभिवादनम् ॥ २१९.८८॥
२१९.८९/१आसनानि ददौ चैषां छादयामास शूकरः ।
२१९.८९/२विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम् ॥ २१९.८९॥
२१९.९०/१छायामयी मही पत्नी तस्यै पिण्डमदात् प्रभुः ।
२१९.९०/२आधत्त पितरो गर्भमित्युक्त्वा सापि रूपिणी ॥ २१९.९०॥
२१९.९१/१पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् ।
२१९.९१/२विसर्जनं पितृणां स कर्तुकामश्च शूकरः ॥ २१९.९१॥
२१९.९२/१कोका च पितरश्चैव प्रोचुः स्वार्थकरं वचः ।
२१९.९२/२शप्ताश्च भगवन् पूर्वं दिवस्था हिमभानुना ॥ २१९.९२॥
२१९.९३/१योगभ्रष्टा भविष्यध्वं सर्व एव दिवश्च्युताः ।
२१९.९३/२तद् एवं भवता त्राताः प्रविशन्तो रसातलम् ॥ २१९.९३॥
२१९.९४/१योगभ्रष्टांश्च विश्वेशास्तत्यजुर्योगरक्षिणः ।
२१९.९४/२तत् ते भूयोऽभिरक्षन्तु विश्वे देवा हि नः सदा ॥ २१९.९४॥
२१९.९५/१स्वर्गं यास्यामश्च विभो प्रसादात् तव शूकर ।
२१९.९५/२सोमोऽधिदेवोऽस्माकं च भवत्वच्युत योगधृक् ॥ २१९.९५॥
२१९.९६/१योगाधारस्तथा सोमस्त्रायते न कदाचन ।
२१९.९६/२दिवि भूमौ सदा वासो भवत्वस्मासु योगतः ॥ २१९.९६॥
२१९.९७/१अन्तरिक्षे च केषांचिन् मासं पुष्टिस्तथास्तु नः ।
२१९.९७/२ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता ॥ २१९.९७॥
२१९.९८/१भवत्वेषैव योगाढ्या योगमाता च खेचरी ।
२१९.९८/२इत्येवमुक्तः पितृभिर्वाराहो भूतभावनः ॥ २१९.९८॥
२१९.९९/१प्रोवाचाथ पितृन् विष्णुस्तां च कोकां महानदीम् ।
२१९.९९/२यद् उक्तं तु भवद्भिर्मे सर्वमेतद् भविष्यति ॥ २१९.९९॥
२१९.१००/१यमोऽधिदेवो भवतां सोमः स्वाध्याय ईरितः ।
२१९.१००/२अधियज्ञस्तथैवाग्निर्भवतां कल्पना त्वियम् ॥ २१९.१००॥
२१९.१०१/१अग्निर्वायुश्च सूर्यश्च स्थानं हि भवतामिति ।
२१९.१०१/२ब्रह्मा विष्णुश्च रुद्रश्च भवतामधिपूरुषाः ॥ २१९.१०१॥
२१९.१०२/१आदित्या वसवो रुद्रा भवतां मूर्तयस्त्विमाः ।
२१९.१०२/२योगिनो योगदेहाश्च योगधाराश्च सुव्रताः ॥ २१९.१०२॥
२१९.१०३/१कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु ।
२१९.१०३/२स्वर्गस्थान् नरकस्थांश्च भूमिस्थांश्च चराचरान् ॥ २१९.१०३॥
२१९.१०४/१निजयोगबलेनैव *आप्याययिष्यध्वमुत्तमाः ।
२१९.१०४/२इयमूर्जा शशिसुता कीलालमधुविग्रहा ॥ २१९.१०४॥
२१९.१०५/१भविष्यति महाभागा दक्षस्य दुहिता स्वधा ।
२१९.१०५/२तत्रेयं भवतां पत्नी भविष्यति वरानना ॥ २१९.१०५॥
२१९.१०६/१कोकानदीति विख्याता गिरिराजसमाश्रिता ।
२१९.१०६/२तीर्थकोटिमहापुण्या मद्रूपपरिपालिता ॥ २१९.१०६॥
२१९.१०७/१अस्यामद्य प्रभृति वै निवत्स्याम्यघनाशकृत् ।
२१९.१०७/२वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम् ॥ २१९.१०७॥
२१९.१०८/१कोकासलिलपानं च महापातकनाशनम् ।
२१९.१०८/२तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः ॥ २१९.१०८॥
२१९.१०९/१दानमक्षय्यमुदितं जन्ममृत्युजरापहम् ।
२१९.१०९/२माघे मास्यसिते पक्षे भवद्भिरुडुपक्षये ॥ २१९.१०९॥
२१९.११०/१कोकामुखमुपागम्य स्थातव्यं दिनपञ्चकम् ।
२१९.११०/२तस्मिन् काले तु यः श्राद्धं पितृणां निर्वपिष्यति ॥ २१९.११०॥
२१९.१११/१प्रागुक्तफलभागी स भविष्यति न संशयः ।
२१९.१११/२एकादशीं द्वादशीं च स्थेयमत्र मया सदा ॥ २१९.१११॥
२१९.११२/१यस्तत्रोपवसेद् धीमान् स प्रागुक्तफलं लभेत् ।
२१९.११२/२तद् व्रजध्वं महाभागाः स्थानमिष्टं यथेष्टतः ॥ २१९.११२॥
२१९.११३/१अहमप्यत्र वत्स्यामीत्युक्त्वा सोऽन्तरधीयत ।
२१९.११३/२गते वराहे पितरः कोकामामन्त्र्य ते ययुः ॥ २१९.११३॥
२१९.११४/१कोकापि तीर्थसहिता संस्थिता गिरिराजनि ।
२१९.११४/२छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता ॥ २१९.११४॥
२१९.११५/१गर्भमादाय सश्रद्धा वाराहस्यैव सुन्दरी ।
२१९.११५/२ततोऽस्याः प्राभवत् पुत्रो भौमस्तु नरकासुरः ।
२१९.११५/३प्राग्ज्योतिषं च नगरमस्य दत्तं च विष्णुना ॥ २१९.११५॥
२१९.११६/१एवं मयोक्तं वरदस्य विष्णोः ।
२१९.११६/२कोकामुखे दिव्यवराहरूपम् ।
२१९.११६/३श्रुत्वा नरस्त्यक्तमलो विपाप्मा ।
२१९.११६/४दशाश्वमेधेष्टिफलं लभेत ॥ २१९.११६॥
२२०.१/१मुनय ऊचुः । भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् ।
२२०.१/२कथं क्व च कदा केषु कैस्तद् ब्रूहि तपोधन ॥ २२०.१॥
२२०.२/१व्यास उवाच । शृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् ।
२२०.२/२यथा यत्र यदा येषु यैर्द्रव्यैस्तद् वदाम्यहम् ॥ २२०.२॥
२२०.३/१ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् ।
२२०.३/२कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥ २२०.३॥
२२०.४/१स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् ।
२२०.४/२अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥ २२०.४॥
२२०.५/१पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
२२०.५/२शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥ २२०.५॥
२२०.६/१सरित्सु पुण्यतोयासु नदेषु च सरःसु च ।
२२०.६/२संगमेषु नदीनां च समुद्रेषु च सप्तसु ॥ २२०.६॥
२२०.७/१स्वनुलिप्तेषु गेहेषु स्वेष्वनुज्ञापितेषु च ।
२२०.७/२दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥ २२०.७॥
२२०.८/१श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते ।
२२०.८/२किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥ २२०.८॥
२२०.९/१दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि ।
२२०.९/२सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥ २२०.९॥
२२०.१०/१पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते ।
२२०.१०/२श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥ २२०.१०॥
२२०.११/१पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे ।
२२०.११/२नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥ २२०.११॥
२२०.१२/१नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा ।
२२०.१२/२काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥ २२०.१२॥
२२०.१३/१वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च ।
२२०.१३/२तत्र युग्मान् द्विजान् आहुर्मन्त्रपूर्वं तु वै द्विजाः ॥ २२०.१३॥
२२०.१४/१कन्यां गते सवितरि दिनानि दश पञ्च च ।
२२०.१४/२पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥ २२०.१४॥
२२०.१५/१प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
२२०.१५/२पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी ॥ २२०.१५॥
२२०.१६/१श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः ।
२२०.१६/२गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥ २२०.१६॥
२२०.१७/१स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
२२०.१७/२वेदांस्तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥ २२०.१७॥
२२०.१८/१द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।
२२०.१८/२प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २२०.१८॥
२२०.१९/१दीर्घायुरथवैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
२२०.१९/२अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः ॥ २२०.१९॥
२२०.२०/१यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः ।
२२०.२०/२युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ २२०.२०॥
२२०.२१/१तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता ।
२२०.२१/२श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः ॥ २२०.२१॥
२२०.२२/१सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तमश्नुते ।
२२०.२२/२अतःपरं मुनिश्रेष्ठाः शृणुध्वं वदतो मम ॥ २२०.२२॥
२२०.२३/१पितृणां प्रीतये यत्र यद् देयं प्रीतिकारिणा ।
२२०.२३/२मासं तृप्तिः पितृणां तु हविष्यान्नेन जायते ॥ २२०.२३॥
२२०.२४/१मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ।
२२०.२४/२त्रीन् मासान् हारिणं मांसं विज्ञेयं पितृतृप्तये ॥ २२०.२४॥
२२०.२५/१पुष्णाति चतुरो मासाञ् शशस्य पिशितं पितृन् ।
२२०.२५/२शाकुनं पञ्च वै मासान् षण् मासाञ् शूकरामिषम् ॥ २२०.२५॥
२२०.२६/१छागलं सप्त वै मासान् ऐणेयं चाष्टमासकान् ।
२२०.२६/२करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥ २२०.२६॥
२२०.२७/१गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् ।
२२०.२७/२तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥ २२०.२७॥
२२०.२८/१संवत्सरं तथा गव्यं पयः पायसमेव च ।
२२०.२८/२वाध्रीनमामिषं लोहं कालशाकं तथा मधु ॥ २२०.२८॥
२२०.२९/१रोहितामिषमन्नं च दत्तान्यात्मकुलोद्भवैः ।
२२०.२९/२अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥ २२०.२९॥
२२०.३०/१पितृणां नात्र संदेहो गयाश्राद्धं च भो द्विजाः ।
२२०.३०/२यो ददाति गुडोन्मिश्रांस्तिलान् वा श्राद्धकर्मणि ॥ २२०.३०॥
२२०.३१/१मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत् ।
२२०.३१/२अपि नः स कुले भूयाद् यो नो दद्याज्जलाञ्जलिम् ॥ २२०.३१॥
२२०.३२/१पायसं मधुसंयुक्तं वर्षासु च मघासु च ।
२२०.३२/२एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ २२०.३२॥
२२०.३३/१गौरीं वाप्युद्वहेत् कन्यां नीलं वा वृषमुत्सृजेत् ।
२२०.३३/२कृत्तिकासु पितृन् अर्च्य स्वर्गमाप्नोति मानवः ॥ २२०.३३॥
२२०.३४/१अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् ।
२२०.३४/२शौर्यमार्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ ॥ २२०.३४॥
२२०.३५/१पुष्ये तु धनमक्षय्यमाश्लेषे चायुरुत्तमम् ।
२२०.३५/२मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥ २२०.३५॥
२२०.३६/१प्रधानशीलो भवति सापत्यश्चोत्तरासु च ।
२२०.३६/२प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥ २२०.३६॥
२२०.३७/१रूपं तेजश्च चित्रासु तथापत्यमवाप्नुयात् ।
२२०.३७/२वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥ २२०.३७॥
२२०.३८/१कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम् ।
२२०.३८/२आधिपत्यं च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥ २२०.३८॥
२२०.३९/१आषाढासु यशःप्राप्तिरुत्तरासु विशोकता ।
२२०.३९/२श्रवणेन शुभांल्लोकान् धनिष्ठासु धनं महत् ॥ २२०.३९॥
२२०.४०/१वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे ।
२२०.४०/२अजाविकं प्रौष्ठपद्यां विन्देद् गावस्तथोत्तरे ॥ २२०.४०॥
२२०.४१/१रेवतीषु तथा कुप्यमश्विनीषु तुरंगमान् ।
२२०.४१/२श्राद्धं कुर्वंस्तथाप्नोति भरणीष्वायुरुत्तमम् ॥ २२०.४१॥
२२०.४२/१एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित् ।
२२०.४२/२तस्मात् काम्यानि श्राद्धानि देयानि विधिवद् द्विजाः ॥ २२०.४२॥
२२०.४३/१कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता ।
२२०.४३/२यान् यान् कामान् अभिध्यायन् कन्याराशिगते रवौ ॥ २२०.४३॥
२२०.४४/१श्राद्धं कुर्वन्ति मनुजास्तांस्तान् कामांल्लभन्ति ते ।
२२०.४४/२नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥ २२०.४४॥
२२०.४५/१पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा ।
२२०.४५/२दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥ २२०.४५॥
२२०.४६/१पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ ।
२२०.४६/२कन्यां गते सवितरि यान्यहानि तु षोडश ॥ २२०.४६॥
२२०.४७/१क्रतुभिस्तानि तुल्यानि देवो नारायणोऽब्रवीत् ।
२२०.४७/२राजसूयाश्वमेधाभ्यां य इच्छेद् दुर्लभं फलम् ॥ २२०.४७॥
२२०.४८/१अप्यम्बुशाकमूलाद्यैः पितृन् कन्यागतेऽर्चयेत् ।
२२०.४८/२उत्तराहस्तनक्षत्र+ ।गते तीक्ष्णांशुमालिनि ॥ २२०.४८॥
२२०.४९/१योऽर्चयेत् स्वपितृन् भक्त्या तस्य वासस्त्रिविष्टपे ।
२२०.४९/२हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥ २२०.४९॥
२२०.५०/१तावत् पितृपुरी शून्या यावद् वृश्चिकदर्शनम् ।
२२०.५०/२वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥ २२०.५०॥
२२०.५१/१निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् ।
२२०.५१/२अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥ २२०.५१॥
२२०.५२/१अन्वष्टकासु क्रमशो मातृपूर्वं तद् इष्यते ।
२२०.५२/२ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥ २२०.५२॥
२२०.५३/१जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणमुच्यते ।
२२०.५३/२अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥ २२०.५३॥
२२०.५४/१संक्रान्तिषु च कर्तव्यं श्राद्धं विधिवद् उत्तमम् ।
२२०.५४/२एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणाद् ऋते ॥ २२०.५४॥
२२०.५५/१वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च ।
२२०.५५/२श्राद्धं कार्यं तु शुक्लायां संक्रान्तिविधिना नरैः ॥ २२०.५५॥
२२०.५६/१त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षयेऽहनि ।
२२०.५६/२श्राद्धं कार्यं पायसेन ।
२२०.५६/३दक्षिणायनवच्च तत् ॥ २२०.५६॥
२२०.५७/१यदा च श्रोत्रियोऽभ्येति गेहं वेदविद् अग्निमान् ।
२२०.५७/२तेनैकेन च कर्तव्यं श्राद्धं विधिवद् उत्तमम् ॥ २२०.५७॥
२२०.५८/१श्राद्धीयद्रव्यसम्प्राप्तिर्यदा स्यात् साधुसम्मता ।
२२०.५८/२पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥ २२०.५८॥
२२०.५९/१प्रतिसंवत्सरं कार्यं मातापित्रोर्मृतेऽहनि ।
२२०.५९/२पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ॥ २२०.५९॥
२२०.६०/१पार्वणं देवपूर्वं स्याद् एकोद्दिष्टं सुरैर्विना ।
२२०.६०/२द्वौ दैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा ॥ २२०.६०॥
२२०.६१/१मातामहानामप्येवं सर्वमूहेन कीर्तितम् ।
२२०.६१/२प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥ २२०.६१॥
२२०.६२/१सतिलं सकुशं दद्याद् बहिर्जलसमीपतः ।
२२०.६२/२तृतीयेऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥ २२०.६२॥
२२०.६३/१दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः ।
२२०.६३/२वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ २२०.६३॥
२२०.६४/१सूतकान्ते गृहे श्राद्धमेकोद्दिष्टं प्रचक्षते ।
२२०.६४/२द्वादशेऽहनि मासे च त्रिपक्षे च ततः परम् ॥ २२०.६४॥
२२०.६५/१मासि मासि च कर्तव्यं यावत् संवत्सरं द्विजाः ।
२२०.६५/२तत परतरं कार्यं सपिण्डीकरणं क्रमात् ॥ २२०.६५॥
२२०.६६/१कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः ।
२२०.६६/२ततः प्रभृति निर्मुक्ताः प्रेतत्वात् पितृतां गताः ॥ २२०.६६॥
२२०.६७/१अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः ।
२२०.६७/२नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तोऽथ पार्वणाः ।
२२०.६७/३एकोद्दिष्टाशिनः प्रेताः पितृणां निर्णयस्त्रिधा ॥ २२०.६७॥
२२०.६८/१मुनय ऊचुः । कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम ।
२२०.६८/२प्रेतीभूतस्य विधिवद् ब्रूहि नो वदतां वर ॥ २२०.६८॥
२२०.६९/१व्यास उवाच । सपिण्डीकरणं विप्राः शृणुध्वं वदतो मम ।
२२०.६९/२तच्चापि देवरहितमेकार्घैकपवित्रकम् ॥ २२०.६९॥
२२०.७०/१नैवाग्नौ करणं तत्र तच्चावाहनवर्जितम् ।
२२०.७०/२अपसव्यं च तत्रापि भोजयेद् अयुजो द्विजान् ॥ २२०.७०॥
२२०.७१/१विशेषस्तत्र चान्योऽस्ति प्रतिमासक्रियादिकः ।
२२०.७१/२तं कथ्यमानमेकाग्राः शृणुध्वं मे द्विजोत्तमाः ॥ २२०.७१॥
२२०.७२/१तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ।
२२०.७२/२कुर्यात् पितृणां त्रितयमेकं प्रेतस्य च द्विजाः ॥ २२०.७२॥
२२०.७३/१पात्रत्रये प्रेतपात्राद् अर्घं चैव प्रसेचयेत् ।
२२०.७३/२ये समाना इति जपन् पूर्ववच्छेषमाचरेत् ॥ २२०.७३॥
२२०.७४/१स्त्रीणामप्येवमेव स्याद् एकोद्दिष्टमुदाहृतम् ।
२२०.७४/२सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥ २२०.७४॥
२२०.७५/१प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।
२२०.७५/२मृताहनि च तत् कार्यं पितृणां विधिचोदितम् ॥ २२०.७५॥
२२०.७६/१पुत्राभावे सपिण्डास्तु तदभावे सहोदराः ।
२२०.७६/२कुर्युरेतं विधिं सम्यक् पुत्रस्य च सुताः सुताः ॥ २२०.७६॥
२२०.७७/१कुर्यान् मातामहानां तु पुत्रिकातनयस्तथा ।
२२०.७७/२द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान् ॥ २२०.७७॥
२२०.७८/१पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि ।
२२०.७८/२सर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् ॥ २२०.७८॥
२२०.७९/१तदभावे च नृपतिः कारयेत् त्वकुटुम्बिनाम् ।
२२०.७९/२तज्जातीयैर्नरैः सम्यग् वाहाद्याः सकलाः क्रियाः ॥ २२०.७९॥
२२०.८०/१सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।
२२०.८०/२एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा ॥ २२०.८०॥
२२०.८१/१वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम् ।
२२०.८१/२दर्शस्तत्र निमित्तं तु विद्याद् इन्दुक्षयान्वितः ॥ २२०.८१॥
२२०.८२/१नित्यस्तु नियतः कालस्तस्मिन् कुर्याद् यथोदितम् ।
२२०.८२/२सपिण्डीकरणाद् ऊर्ध्वं पितुर्यः प्रपितामहः ॥ २२०.८२॥
२२०.८३/१स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः ।
२२०.८३/२तेषां हि यश्चतुर्थोऽन्यः स तु लेपभुजो भवेत् ॥ २२०.८३॥
२२०.८४/१सोऽपि सम्बन्धतो हीनमुपभोगं प्रपद्यते ।
२२०.८४/२पिता पितामहश्चैव तथैव प्रपितामहः ॥ २२०.८४॥
२२०.८५/१पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः ।
२२०.८५/२लेपसम्बन्धिनश्चान्ये पितामहपितामहात् ॥ २२०.८५॥
२२०.८६/१प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः ।
२२०.८६/२इत्येष मुनिभिः प्रोक्तः सम्बन्धः साप्तपौरुषः ॥ २२०.८६॥
२२०.८७/१यजमानात् प्रभृत्यूर्ध्वमनुलेपभुजस्तथा ।
२२०.८७/२ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥ २२०.८७॥
२२०.८८/१येऽपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ।
२२०.८८/२तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि ॥ २२०.८८॥
२२०.८९/१स समाप्यायते विप्रा येन येन वदामि तत् ।
२२०.८९/२अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि ॥ २२०.८९॥
२२०.९०/१तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ।
२२०.९०/२यद् अम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥ २२०.९०॥
२२०.९१/१तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।
२२०.९१/२यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥ २२०.९१॥
२२०.९२/१ताभिराप्यायनं तेषां देवत्वं ये कुले गताः ।
२२०.९२/२उद्धृतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि ॥ २२०.९२॥
२२०.९३/१ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः ।
२२०.९३/२ये चादन्ताः कुले बालाः क्रियायोगाद् बहिष्कृताः ॥ २२०.९३॥
२२०.९४/१विपन्नास्त्वनधिकाराः सम्मार्जितजलाशिनः ।
२२०.९४/२भुक्त्वा चाचामतां यच्च यज्जलं चाङ्घ्रिशौचजम् ॥ २२०.९४॥
२२०.९५/१ब्राह्मणानां तथैवान्यत् तेन तृप्तिं प्रयान्ति वै ।
२२०.९५/२एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ॥ २२०.९५॥
२२०.९६/१कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ।
२२०.९६/२तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥ २२०.९६॥
२२०.९७/१प्रयान्त्याप्यायनं विप्राः सम्यक् श्राद्धक्रियावताम् ।
२२०.९७/२अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ॥ २२०.९७॥
२२०.९८/१तृप्यन्ते ते न चाण्डाल+ ।पुल्कसाद्यासु योनिषु ।
२२०.९८/२एवमाप्यायनं विप्रा बहूनामेव बान्धवैः ॥ २२०.९८॥
२२०.९९/१श्राद्धं कुर्वद्भिरत्राम्बु+ ।विक्षेपैः सम्प्रजायते ।
२२०.९९/२तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥ २२०.९९॥
२२०.१००/१कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन् न सीदति ।
२२०.१००/२श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु ॥ २२०.१००॥
२२०.१०१/१अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः ।
२२०.१०१/२त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ २२०.१०१॥
२२०.१०२/१मातापितृपरश्चैव स्वस्रीयः सामवेदवित् ।
२२०.१०२/२ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत् ॥ २२०.१०२॥
२२०.१०३/१मातुलः श्वशुरः श्यालः सम्बन्धी द्रोणपाठकः ।
२२०.१०३/२मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः ॥ २२०.१०३॥
२२०.१०४/१अकल्पः कल्पसंतुष्टः प्रतिग्रहविवर्जितः ।
२२०.१०४/२एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥ २२०.१०४॥
२२०.१०५/१निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् ।
२२०.१०५/२दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥ २२०.१०५॥
२२०.१०६/१तैश्च संयमिभिर्भाव्यं यस्तु श्राद्धं करिष्यति ।
२२०.१०६/२श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति ॥ २२०.१०६॥
२२०.१०७/१पितरस्तस्य वै मासं तस्मिन् रेतसि शेरते ।
२२०.१०७/२गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस्तु गच्छति ॥ २२०.१०७॥
२२०.१०८/१रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः ।
२२०.१०८/२तस्मात् त्वप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥ २२०.१०८॥
२२०.१०९/१अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः ।
२२०.१०९/२भिक्षार्थमागतांश्चापि कालेन संयतान् यतीन् ॥ २२०.१०९॥
२२०.११०/१भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः ।
२२०.११०/२योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता ॥ २२०.११०॥
२२०.१११/१योगाधारा हि पितरस्तस्मात् तान् पूजयेत् सदा ।
२२०.१११/२ब्राह्मणानां सहस्राणि एको योगी भवेद् यदि ॥ २२०.१११॥
२२०.११२/१यजमानं च भोक्तृंश्च नौरिवाम्भसि तारयेत् ।
२२०.११२/२पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥ २२०.११२॥
२२०.११३/१या गीता पितृभिः पूर्वमैलस्यासीन् महीपतेः ।
२२०.११३/२कदा नः संततावग्र्यः कस्यचिद् भविता सुतः ॥ २२०.११३॥
२२०.११४/१यो योगिभुक्तशेषान् नो भुवि पिण्डान् प्रदास्यति ।
२२०.११४/२गयायामथवा पिण्डं खड्गमांसं तथा हविः ॥ २२०.११४॥
२२०.११५/१कालशाकं तिलाज्यं च तृप्तये कृसरं च नः ।
२२०.११५/२वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥ २२०.११५॥
२२०.११६/१विषाणवर्जं शिरस आ पादाद् आशिषामहे ।
२२०.११६/२दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥ २२०.११६॥
२२०.११७/१मधुसर्पिःसमायुक्तं पायसं दक्षिणायने ।
२२०.११७/२तस्मात् सम्पूजयेद् भक्त्या स्वपितृन् विधिवन् नरः ॥ २२०.११७॥
२२०.११८/१कामान् अभीप्सन् सकलान् पापाद् आत्मविमोचनम् ।
२२०.११८/२वसून् रुद्रांस्तथादित्यान् नक्षत्रग्रहतारकाः ॥ २२०.११८॥
२२०.११९/१प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ।
२२०.११९/२आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ २२०.११९॥
२२०.१२०/१प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ।
२२०.१२०/२तथापराह्णः पूर्वाह्णात् पितृणामतिरिच्यते ॥ २२०.१२०॥
२२०.१२१/१सम्पूज्य स्वागतेनैतान् सदनेऽभ्यागतान् द्विजान् ।
२२०.१२१/२पवित्रपाणिराचान्तान् आसनेषूपवेशयेत् ॥ २२०.१२१॥
२२०.१२२/१श्राद्धं कृत्वा विधानेन सम्भोज्य च द्विजोत्तमान् ।
२२०.१२२/२विसर्जयेत् प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ॥ २२०.१२२॥
२२०.१२३/१आद्वारमनुगच्छेच्च आगच्छेद् अनुमोदितः ।
२२०.१२३/२ततो नित्यक्रियां कुर्याद् भोजयेच्च तथातिथीन् ॥ २२०.१२३॥
२२०.१२४/१नित्यक्रियां पितृणां च केचिद् इच्छन्ति सत्तमाः ।
२२०.१२४/२न पितृणां तथैवान्ये शेषं पूर्ववद् आचरेत् ॥ २२०.१२४॥
२२०.१२५/१पृथक्त्वेन वदन्त्यन्ये केचित् पूर्वं च पूर्ववत् ।
२२०.१२५/२ततस्तद् अन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥ २२०.१२५॥
२२०.१२६/१एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः ।
२२०.१२६/२यथा च विप्रमुख्यानां परितोषोऽभिजायते ॥ २२०.१२६॥
२२०.१२७/१इदानीं सम्प्रवक्ष्यामि वर्जनीयान् द्विजाधमान् ।
२२०.१२७/२मित्रध्रुक् कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥ २२०.१२७॥
२२०.१२८/१श्यावदन्तोऽथ खल्वाटः काणोऽन्धो बधिरो जडः ।
२२०.१२८/२मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥ २२०.१२८॥
२२०.१२९/१कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटोऽलसः ।
२२०.१२९/२मित्रशत्रुर्दुष्कुलीनः पशुपालो निराकृतिः ॥ २२०.१२९॥
२२०.१३०/१परिवित्तिः परिवेत्ता परिवेदनिकासुतः ।
२२०.१३०/२वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग् द्विजः ॥ २२०.१३०॥
२२०.१३१/१वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः ।
२२०.१३१/२भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः ॥ २२०.१३१॥
२२०.१३२/१सूतकान्नोपजीवी च मृगयुः सोमविक्रयी ।
२२०.१३२/२अभिशस्तस्तथा स्तेनः पतितो वार्द्धुषिः शठः ॥ २२०.१३२॥
२२०.१३३/१पिशुनो वेदसंत्यागी दानाग्नित्यागनिष्ठुरः ।
२२०.१३३/२राज्ञः पुरोहितो भृत्यो विद्याहीनोऽथ मत्सरी ॥ २२०.१३३॥
२२०.१३४/१वृद्धद्विड् दुर्धरः क्रूरो मूढो देवलकस्तथा ।
२२०.१३४/२नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः ॥ २२०.१३४॥
२२०.१३५/१अयाज्ययाजकः षण्ढो गर्हिता ये च येऽधमाः ।
२२०.१३५/२न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः ॥ २२०.१३५॥
२२०.१३६/१असतां प्रग्रहो यत्र सतां चैवावमानना ।
२२०.१३६/२दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ २२०.१३६॥
२२०.१३७/१हित्वागमं सुविहितं बालिशं यस्तु भोजयेत् ।
२२०.१३७/२आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥ २२०.१३७॥
२२०.१३८/१यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत् ।
२२०.१३८/२तन्निःश्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति ॥ २२०.१३८॥
२२०.१३९/१वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ।
२२०.१३९/२तस्माद् वासांसि देयानि श्राद्धकाले विशेषतः ॥ २२०.१३९॥
२२०.१४०/१कौशेयं क्षौमकार्पासं दुकूलमहतं तथा ।
२२०.१४०/२श्राद्धे त्वेतानि यो दद्यात् कामान् आप्नोति चोत्तमान् ॥ २२०.१४०॥
२२०.१४१/१यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् ।
२२०.१४१/२तथान्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते ॥ २२०.१४१॥
२२०.१४२/१नामगोत्रं च मन्त्रांश्च दत्तमन्नं न यन्ति ते ।
२२०.१४२/२अपि ये निधनं प्राप्तास्तृप्तिस्तान् उपतिष्ठते ॥ २२०.१४२॥
२२०.१४३/१देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
२२०.१४३/२नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति ॥ २२०.१४३॥
२२०.१४४/१आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत् तदा ।
२२०.१४४/२पिण्डनिर्वपणे वापि जपेद् एवं समाहितः ॥ २२०.१४४॥
२२०.१४५/१क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च ।
२२०.१४५/२प्रीयन्ते त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ॥ २२०.१४५॥
२२०.१४६/१क्षौमसूत्रं नवं दद्याच्छाणं कार्पासिकं तथा ।
२२०.१४६/२पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥ २२०.१४६॥
२२०.१४७/१वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत् ।
२२०.१४७/२न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत् ॥ २२०.१४७॥
२२०.१४८/१न निवेद्यो भवेत् पिण्डः पितृणां यस्तु जीवति ।
२२०.१४८/२इष्टेनान्नेन भक्ष्येण भोजयेत् तं यथाविधि ॥ २२०.१४८॥
२२०.१४९/१पिण्डमग्नौ सदा दद्याद् भोगार्थी सततं नरः ।
२२०.१४९/२पत्न्यै दद्यात् प्रजार्थी च मध्यमं मन्त्रपूर्वकम् ॥ २२०.१४९॥
२२०.१५०/१उत्तमां द्युतिमन्विच्छन् पिण्डं गोषु प्रयच्छति ।
२२०.१५०/२प्रज्ञां चैव यशः कीर्तिमप्सु चैव निवेदयेत् ॥ २२०.१५०॥
२२०.१५१/१प्रार्थयन् दीर्घमायुश्च वायसेभ्यः प्रयच्छति ।
२२०.१५१/२कुमारशालामन्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥ २२०.१५१॥
२२०.१५२/१एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः ।
२२०.१५२/२अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति ॥ २२०.१५२॥
२२०.१५३/१तस्माच्छ्राद्धं तथा कार्यं यथोक्तम् ऋषिभिः पुरा ।
२२०.१५३/२अन्यथा तु भवेद् दोषः पितृणां नोपतिष्ठति ॥ २२०.१५३॥
२२०.१५४/१यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा ।
२२०.१५४/२संतर्पयेत् पितृन् मुद्गैः श्यामाकैः सर्षपद्रवैः ॥ २२०.१५४॥
२२०.१५५/१नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथार्घयेत् ।
२२०.१५५/२प्रसातिकां सतूलिकां दद्याच्छ्राद्धे विचक्षणः ॥ २२०.१५५॥
२२०.१५६/१आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् ।
२२०.१५६/२प्राचीनामलकं क्षीरं नारिकेलं परूषकम् ॥ २२०.१५६॥
२२०.१५७/१नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् ।
२२०.१५७/२पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥ २२०.१५७॥
२२०.१५८/१विकङ्कतं वत्सकं च कस्त्वारुर् वारकान् अपि ।
२२०.१५८/२एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥ २२०.१५८॥
२२०.१५९/१गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् ।
२२०.१५९/२गव्यं पयो दधि घृतं तैलं च तिलसम्भवम् ॥ २२०.१५९॥
२२०.१६०/१सैन्धवं सागरोत्थं च लवणं सारसं तथा ।
२२०.१६०/२निवेदयेच्छुचीन् गन्धांश्चन्दनागुरुकुङ्कुमान् ॥ २२०.१६०॥
२२०.१६१/१कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा ।
२२०.१६१/२शाकमारण्यकं चापि दद्यात् पुष्पाण्यमूनि च ॥ २२०.१६१॥
२२०.१६२/१जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी ।
२२०.१६२/२वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥ २२०.१६२॥
२२०.१६३/१पावन्तीं शतपत्त्रां च गन्धशेफालिकामपि ।
२२०.१६३/२कुब्जकं तगरं चैव मृगमारण्यकेतकीम् ॥ २२०.१६३॥
२२०.१६४/१यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः ।
२२०.१६४/२कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥ २२०.१६४॥
२२०.१६५/१इन्दीवरं कोकनदं कह्लारं च नियोजयेत् ।
२२०.१६५/२कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम् ॥ २२०.१६५॥
२२०.१६६/१नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी ।
२२०.१६६/२पुनरप्येवमादीनि गन्धयोग्यानि चक्षते ॥ २२०.१६६॥
२२०.१६७/१गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा ।
२२०.१६७/२धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च ॥ २२०.१६७॥
२२०.१६८/१राजमाषांश्च चणकान् मसूरान् कोरदूषकान् ।
२२०.१६८/२विप्रुषान् मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत् ॥ २२०.१६८॥
२२०.१६९/१माहिषं चामरं मार्गमाविकैकशफोद्भवम् ।
२२०.१६९/२स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत् ॥ २२०.१६९॥
२२०.१७०/१तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् ।
२२०.१७०/२जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥ २२०.१७०॥
२२०.१७१/१मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः ।
२२०.१७१/२पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥ २२०.१७१॥
२२०.१७२/१कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् ।
२२०.१७२/२पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥ २२०.१७२॥
२२०.१७३/१गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् ।
२२०.१७३/२जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥ २२०.१७३॥
२२०.१७४/१हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् ।
२२०.१७४/२मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥ २२०.१७४॥
२२०.१७५/१पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् ।
२२०.१७५/२अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥ २२०.१७५॥
२२०.१७६/१वार्ताकं शिवजातं च लोमशानि वटानि च ।
२२०.१७६/२कालीयं रक्तवाणां च बलाका लकुचं तथा ॥ २२०.१७६॥
२२०.१७७/१श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा ।
२२०.१७७/२आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥ २२०.१७७॥
२२०.१७८/१नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ ।
२२०.१७८/२अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥ २२०.१७८॥
२२०.१७९/१न च देयं गतरसं मद्यगन्धं च यद् भवेत् ।
२२०.१७९/२हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥ २२०.१७९॥
२२०.१८०/१कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेद् अम्लवेतसम् ।
२२०.१८०/२दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥ २२०.१८०॥
२२०.१८१/१आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् ।
२२०.१८१/२पायसं शाल्मलीमुद्गान् मोदकादींश्च भक्तितः ॥ २२०.१८१॥
२२०.१८२/१पानकं च रसालं च गोक्षीरं च निवेदयेत् ।
२२०.१८२/२यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥ २२०.१८२॥
२२०.१८३/१ईषदम्लकटून्येव देयानि श्राद्धकर्मणि ।
२२०.१८३/२अत्यम्लं चातिलवणमतिरिक्तकटूनि च ॥ २२०.१८३॥
२२०.१८४/१आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत् ।
२२०.१८४/२मृष्टस्निग्धानि यानि स्युरीषत्कट्वम्लकानि च ॥ २२०.१८४॥
२२०.१८५/१स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् ।
२२०.१८५/२छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥ २२०.१८५॥
२२०.१८६/१शिवालावकराजीव+ ंआंसं श्राद्धे नियोजयेत् ।
२२०.१८६/२वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥ २२०.१८६॥
२२०.१८७/१सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते ।
२२०.१८७/२यद् अप्युक्तं हि मनुना रोहितं प्रतियोजयेत् ॥ २२०.१८७॥
२२०.१८८/१योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् ।
२२०.१८८/२एवमुक्तं मया विप्रा वाराहेणावलोकितम् ॥ २२०.१८८॥
२२०.१८९/१मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् ।
२२०.१८९/२एतानि च निषिद्धानि वाराहेण तपोधनाः ॥ २२०.१८९॥
२२०.१९०/१अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि ।
२२०.१९०/२रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥ २२०.१९०॥
२२०.१९१/१चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान् ।
२२०.१९१/२कुररं च निरस्थिं च वासहातं च कुक्कुटान् ॥ २२०.१९१॥
२२०.१९२/१कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान् ।
२२०.१९२/२नकुलोलूकमार्जारांल्लोपान् अन्यान् सुदुर्ग्रहान् ॥ २२०.१९२॥
२२०.१९३/१टिट्टिभान् सार्धजम्बूकान् व्याघ्रर्क्षतरक्षुकान् ।
२२०.१९३/२एतान् अन्यांश्च संदुष्टान् यो भक्षयति दुर्मतिः ॥ २२०.१९३॥
२२०.१९४/१स महापापकारी तु रौरवं नरकं व्रजेत् ।
२२०.१९४/२पितृष्वेतांस्तु यो दद्यात् पापात्मा गर्हितामिषान् ॥ २२०.१९४॥
२२०.१९५/१स स्वर्गस्थान् अपि पितृन् नरके पातयिष्यति ।
२२०.१९५/२कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥ २२०.१९५॥
२२०.१९६/१पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् ।
२२०.१९६/२कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम् ॥ २२०.१९६॥
२२०.१९७/१चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् ।
२२०.१९७/२फलं तालतरूणां च भुक्त्या नरकम् ऋच्छति ॥ २२०.१९७॥
२२०.१९८/१दत्त्वा पितृषु तैः सार्धं व्रजेत् पूयवहं नरः ।
२२०.१९८/२तस्मात् सर्वप्रयत्नेन नाहरेत् तु विचक्षणः ॥ २२०.१९८॥
२२०.१९९/१निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् ।
२२०.१९९/२वरमेवात्ममांसस्य भक्षणं मुनयः कृतम् ॥ २२०.१९९॥
२२०.२००/१न त्वेव हि निषिद्धानामादानं पुम्भिरादरात् ।
२२०.२००/२अज्ञानाद् वा प्रमादाद् वा सकृद् एतानि च द्विजाः ॥ २२०.२००॥
२२०.२०१/१भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत् ।
२२०.२०१/२फलमूलदधिक्षीर+ ।तक्रगोमूत्रयावकैः ॥ २२०.२०१॥
२२०.२०२/१भोज्यान्नभोज्यसम्भुक्ते प्रत्येकं दिनसप्तकम् ।
२२०.२०२/२एवं निषिद्धाचरणे कृते सकृद् अपि द्विजैः ॥ २२०.२०२॥
२२०.२०३/१शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः ।
२२०.२०३/२निषिद्धं वर्जयेद् द्रव्यं यथोक्तं च द्विजोत्तमाः ॥ २२०.२०३॥
२२०.२०४/१समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः ।
२२०.२०४/२एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् ।
२२०.२०४/३आब्रह्मस्तम्बपर्यन्तं जगत् प्रीणाति मानवः ॥ २२०.२०४॥
२२०.२०५/१मुनय ऊचुः । पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः ।
२२०.२०५/२कथं श्राद्धं हि कर्तव्यमेतद् विस्तरशो वद ॥ २२०.२०५॥
२२०.२०६/१व्यास उवाच । यस्मै दद्यात् पिता श्राद्धं तस्मै दद्यात् सुतः स्वयम् ।
२२०.२०६/२एवं न हीयते धर्मो लौकिको वैदिकस्तथा ॥ २२०.२०६॥
२२०.२०७/१मुनय ऊचुः । मृतः पिता जीवति च यस्य ब्रह्मन् पितामहः ।
२२०.२०७/२स हि श्राद्धं कथं कुर्याद् एतत् त्वं वक्तुमर्हसि ॥ २२०.२०७॥
२२०.२०८/१व्यास उवाच । पितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम् ।
२२०.२०८/२प्रपितामहस्य पिण्डं वै ह्ययं शास्त्रेषु निर्णयः ॥ २२०.२०८॥
२२०.२०९/१मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् ।
२२०.२०९/२सपिण्डीकरणं नास्ति न च पार्वणमिष्यते ॥ २२०.२०९॥
२२०.२१०/१आचारमाचरेद् यस्तु पितृमेधाश्रितं नरः ।
२२०.२१०/२आयुषा धनपुत्रैश्च वर्धत्याशु न संशयः ॥ २२०.२१०॥
२२०.२११/१पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत् ।
२२०.२११/२तद् अन्नमस्य पितरोऽश्नन्ति च त्रियुगं द्विजाः ॥ २२०.२११॥
२२०.२१२/१एवं मयोक्तः पितृमेधकल्पः ।
२२०.२१२/२पापापहः पुण्यविवर्धनश्च ।
२२०.२१२/३श्रोतव्य एष प्रयतैर्नरैश्च ।
२२०.२१२/४श्राद्धेषु चैवाप्यनुकीर्तयेत ॥ २२०.२१२॥
२२१.१/१व्यास उवाच । एवं सम्यग् गृहस्थेन देवताः पितरस्तथा ।
२२१.१/२सम्पूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ २२१.१॥
२२१.२/१भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।
२२१.२/२भिक्षवो याचमानाश्च ये चान्ये पान्थका गृहे ॥ २२१.२॥
२२१.३/१सदाचाररता विप्राः साधुना गृहमेधिना ।
२२१.३/२पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ २२१.३॥
२२१.४/१मुनय ऊचुः । कथितं भवता विप्र नित्यनैमित्तिकं च यत् ।
२२१.४/२नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥ २२१.४॥
२२१.५/१सदाचारं मुने श्रोतुमिच्छामो वदतस्तव ।
२२१.५/२यं कुर्वन् सुखमाप्नोति परत्रेह च मानवः ॥ २२१.५॥
२२१.६/१व्यास उवाच । गृहस्थेन सदा कार्यमाचारपरिरक्षणम् ।
२२१.६/२न ह्याचारविहीनस्य भद्रमत्र परत्र वा ॥ २२१.६॥
२२१.७/१यज्ञदानतपांसीह पुरुषस्य न भूतये ।
२२१.७/२भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ २२१.७॥
२२१.८/१दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
२२१.८/२कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥ २२१.८॥
२२१.९/१तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः ।
२२१.९/२आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥ २२१.९॥
२२१.१०/१त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।
२२१.१०/२तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥ २२१.१०॥
२२१.११/१पादेनाप्यस्य पारत्र्यं कुर्याच्छ्रेयः स्वमात्मवान् ।
२२१.११/२अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥ २२१.११॥
२२१.१२/१पादेनैव तथाप्यस्य मूलभूतं विवर्धयेत् ।
२२१.१२/२एवमाचरतो विप्रा अर्थः साफल्यम् ऋच्छति ॥ २२१.१२॥
२२१.१३/१तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।
२२१.१३/२परत्रार्थस्तथैवान्यः कार्योऽत्रैव फलप्रदः ॥ २२१.१३॥
२२१.१४/१प्रत्यवायभयात् कामस्तथान्यश्चाविरोधवान् ।
२२१.१४/२द्विधा कामोऽपि रचितस्त्रिवर्गायाविरोधकृत् ॥ २२१.१४॥
२२१.१५/१परस्परानुबन्धांश्च सर्वान् एतान् विचिन्तयेत् ।
२२१.१५/२विपरीतानुबन्धांश्च बुध्यध्वं तान् द्विजोत्तमाः ॥ २२१.१५॥
२२१.१६/१धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः ।
२२१.१६/२उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥ २२१.१६॥
२२१.१७/१ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् ।
२२१.१७/२समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥ २२१.१७॥
२२१.१८/१पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।
२२१.१८/२उपासीत यथान्यायं नैनां जह्याद् अनापदि ॥ २२१.१८॥
२२१.१९/१असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् ।
२२१.१९/२असच्छास्त्रमसद्वादमसत्सेवां च वै द्विजाः ॥ २२१.१९॥
२२१.२०/१सायम्प्रातस्तथा होमं कुर्वीत नियतात्मवान् ।
२२१.२०/२नोदयास्तमने चैवमुदीक्षेत विवस्वतः ॥ २२१.२०॥
२२१.२१/१केशप्रसाधनादर्श+ ।दन्तधावनमञ्जनम् ।
२२१.२१/२पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥ २२१.२१॥
२२१.२२/१ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि ।
२२१.२२/२न विण्मूत्रमनुष्ठेयं न च कृष्टे न गोव्रजे ॥ २२१.२२॥
२२१.२३/१नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् ।
२२१.२३/२उदक्यादर्शनस्पर्शमेवं सम्भाषणं तथा ॥ २२१.२३॥
२२१.२४/१नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।
२२१.२४/२नाधितिष्ठेच्छकृन्मूत्रे केशभस्मसपालिकाः ॥ २२१.२४॥
२२१.२५/१तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च ।
२२१.२५/२नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥ २२१.२५॥
२२१.२६/१पितृदेवमनुष्याणां भूतानां च तथार्चनम् ।
२२१.२६/२कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुमर्हति ॥ २२१.२६॥
२२१.२७/१प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः ।
२२१.२७/२भुञ्जीत चान्नं तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥ २२१.२७॥
२२१.२८/१उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः ।
२२१.२८/२प्रत्यक्षलवणं वर्ज्यमन्नमुच्छिष्टमेव च ॥ २२१.२८॥
२२१.२९/१न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् ।
२२१.२९/२कुर्वीत चैवमुच्छिष्टं न किंचिद् अपि भक्षयेत् ॥ २२१.२९॥
२२१.३०/१उच्छिष्टो नालपेत् किंचित् स्वाध्यायं च विवर्जयेत् ।
२२१.३०/२न पश्येच्च रविं चेन्दुं नक्षत्राणि च कामतः ॥ २२१.३०॥
२२१.३१/१भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् ।
२२१.३१/२गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ॥ २२१.३१॥
२२१.३२/१अनुकूलं तथालापमभिकुर्वीत बुद्धिमान् ।
२२१.३२/२तत्रानुगमनं कुर्यात् प्रतिकूलं न संचरेत् ॥ २२१.३२॥
२२१.३३/१नैकवस्त्रश्च भुञ्जीत न कुर्याद् देवतार्चनम् ।
२२१.३३/२नावाहयेद् द्विजान् अग्नौ होमं कुर्वीत बुद्धिमान् ॥ २२१.३३॥
२२१.३४/१न स्नायीत नरो नग्नो न शयीत कदाचन ।
२२१.३४/२न पाणिभ्यामुभाभ्यां तु कण्डूयेत शिरस्तथा ॥ २२१.३४॥
२२१.३५/१न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः ।
२२१.३५/२शिरःस्नातश्च तैलेन नाङ्गं किंचिद् उपस्पृशेत् ॥ २२१.३५॥
२२१.३६/१अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् ।
२२१.३६/२ब्राह्मणानलगोसूर्यान् नावमन्येत् कदाचन ॥ २२१.३६॥
२२१.३७/१उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः ।
२२१.३७/२आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः ॥ २२१.३७॥
२२१.३८/१दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ।
२२१.३८/२परिवादं न शृणुयाद् अन्येषामपि कुर्वताम् ॥ २२१.३८॥
२२१.३९/१पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ।
२२१.३९/२विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥ २२१.३९॥
२२१.४०/१मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च ।
२२१.४०/२देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥ २२१.४०॥
२२१.४१/१विद्याधिकं गुरुं चैव बुधः कुर्यात् प्रदक्षिणम् ।
२२१.४१/२उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥ २२१.४१॥
२२१.४२/१चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु ।
२२१.४२/२तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ॥ २२१.४२॥
२२१.४३/१नोत्क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन ।
२२१.४३/२न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ॥ २२१.४३॥
२२१.४४/१पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च ।
२२१.४४/२मर्माभिघातमाक्रोशं पैशुन्यं च विवर्जयेत् ॥ २२१.४४॥
२२१.४५/१दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः ।
२२१.४५/२मूर्खोन्मत्तव्यसनिनो विरूपान् अपि वा तथा ॥ २२१.४५॥
२२१.४६/१न्यूनाङ्गांश्चाधनांश्चैव नोपहासेन दूषयेत् ।
२२१.४६/२परस्य दण्डं नोद्यच्छेच्छिक्षार्थं शिष्यपुत्रयोः ॥ २२१.४६॥
२२१.४७/१तद्वन् नोपविशेत् प्राज्ञः पादेनाकृष्य चासनम् ।
२२१.४७/२संयावं कृशरं मांसं नात्मार्थमुपसाधयेत् ॥ २२१.४७॥
२२१.४८/१सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् ।
२२१.४८/२प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम् ॥ २२१.४८॥
२२१.४९/१कुर्वीत सततं विप्रा वर्जयेद् वर्ज्यवीरुधम् ।
२२१.४९/२नोदक्षिराः स्वपेज्जातु न च प्रत्यक्षिरा नरः ॥ २२१.४९॥
२२१.५०/१शिरस्त्वागस्त्यामाधाय शयीताथ पुरंदरीम् ।
२२१.५०/२न तु गन्धवतीष्वप्सु शयीत न तथोषसि ॥ २२१.५०॥
२२१.५१/१उपरागे परं स्नानम् ऋते दिनमुदाहृतम् ।
२२१.५१/२अपमृज्यान् न वस्त्रान्तैर्गात्राण्यम्बरपाणिभिः ॥ २२१.५१॥
२२१.५२/१न चावधूनयेत् केशान् वाससी न च निर्धुनेत् ।
२२१.५२/२अनुलेपनमादद्यान् नास्नातः कर्हिचिद् बुधः ॥ २२१.५२॥
२२१.५३/१न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा ।
२२१.५३/२न च कुर्याद् विपर्यासं वाससोर्नापि भूषयोः ॥ २२१.५३॥
२२१.५४/१वर्ज्यं च विदशं वस्त्रमत्यन्तोपहतं च यत् ।
२२१.५४/२कीटकेशावपन्नं च तथा श्वभिरवेक्षितम् ॥ २२१.५४॥
२२१.५५/१अवलीढं शुना चैव सारोद्धरणदूषितम् ।
२२१.५५/२पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥ २२१.५५॥
२२१.५६/१न भक्षयेच्च सततं प्रत्यक्षं लवणं नरः ।
२२१.५६/२वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥ २२१.५६॥
२२१.५७/१पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः ।
२२१.५७/२तथा मांसविकाराश्च नैव वर्ज्याश्चिरोषिताः ॥ २२१.५७॥
२२१.५८/१उदयास्तमने भानोः शयनं च विवर्जयेत् ।
२२१.५८/२नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥ २२१.५८॥
२२१.५९/१न चैव शयने नोर्व्यामुपविष्टो न शब्दकृत् ।
२२१.५९/२प्रेष्याणामप्रदायाथ न भुञ्जीत कदाचन ॥ २२१.५९॥
२२१.६०/१भुञ्जीत पुरुषः स्नातः सायम्प्रातर्यथाविधि ।
२२१.६०/२परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥ २२१.६०॥
२२१.६१/१इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।
२२१.६१/२नहीदृशमनायुष्यं लोके किंचन विद्यते ॥ २२१.६१॥
२२१.६२/१यादृशं पुरुषस्येह परदाराभिमर्शनम् ।
२२१.६२/२देवाग्निपितृकार्याणि तथा गुर्वभिवादनम् ॥ २२१.६२॥
२२१.६३/१कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् ।
२२१.६३/२अफेनशब्दगन्धाभिरद्भिरच्छाभिरादरात् ॥ २२१.६३॥
२२१.६४/१आचामेच्चैव तद्वच्च प्राङ्मुखोदङ्मुखोऽपि वा ।
२२१.६४/२अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात् ॥ २२१.६४॥
२२१.६५/१कृतशौचावशिष्टाश्च वर्जयेत् पञ्च वै मृदः ।
२२१.६५/२प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥ २२१.६५॥
२२१.६६/१अन्तर्जानुस्तथाचामेत् त्रिश्चतुर्वापि वै नरः ।
२२१.६६/२परिमृज्य द्विरावर्त्य खानि मूर्धानमेव च ॥ २२१.६६॥
२२१.६७/१सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः ।
२२१.६७/२क्षुतेऽवलीढे वाते च तथा निष्ठीवनादिषु ॥ २२१.६७॥
२२१.६८/१कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् ।
२२१.६८/२कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च ॥ २२१.६८॥
२२१.६९/१यथाविभवतो ह्येतत् पूर्वाभावे ततः परम् ।
२२१.६९/२न विद्यमाने पूर्वोक्त उत्तरप्राप्तिरिष्यते ॥ २२१.६९॥
२२१.७०/१न कुर्याद् दन्तसंघर्षं नात्मनो देहताडनम् ।
२२१.७०/२स्वापेऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत् ॥ २२१.७०॥
२२१.७१/१संध्यायां मैथुनं चापि तथा प्रस्थानमेव च ।
२२१.७१/२तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥ २२१.७१॥
२२१.७२/१शिरःस्नानं च कुर्वीत दैवं पित्र्यमथापि च ।
२२१.७२/२प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥ २२१.७२॥
२२१.७३/१व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्यरोगिणीम् ।
२२१.७३/२उद्वहेत् पितृमात्रोश्च सप्तमीं पञ्चमीं तथा ॥ २२१.७३॥
२२१.७४/१रक्षेद् दारांस्त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने ।
२२१.७४/२परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥ २२१.७४॥
२२१.७५/१उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् ।
२२१.७५/२स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥ २२१.७५॥
२२१.७६/१ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु ।
२२१.७६/२युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥ २२१.७६॥
२२१.७७/१विधर्मिणो वै पर्वादौ संध्याकालेषु षण्ढकाः ।
२२१.७७/२क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥ २२१.७७॥
२२१.७८/१ब्रुवतामविनीतानां न श्रोतव्यं कदाचन ।
२२१.७८/२न चोत्कृष्टासनं देयमनुत्कृष्टस्य चादरात् ॥ २२१.७८॥
२२१.७९/१क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च भो द्विजाः ।
२२१.७९/२स्नायीत चैलवान् प्राज्ञः कटभूमिमुपेत्य च ॥ २२१.७९॥
२२१.८०/१देववेदद्विजातीनां साधुसत्यमहात्मनाम् ।
२२१.८०/२गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥ २२१.८०॥
२२१.८१/१परिवादं न कुर्वीत परिहासं च भो द्विजाः ।
२२१.८१/२धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥ २२१.८१॥
२२१.८२/१सदा माङ्गल्यवेषः स्यान् न वामाङ्गल्यवान् भवेत् ।
२२१.८२/२नोद्धतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ॥ २२१.८२॥
२२१.८३/१गच्छेन् मैत्रीमशीलेन न वयोजातिदूषितैः ।
२२१.८३/२न चातिव्ययशीलैश्च पुरुषैर्नैव वैरिभिः ॥ २२१.८३॥
२२१.८४/१कार्याक्षमैर्निन्दितैर्न न चैव विटसङ्गिभिः ।
२२१.८४/२निस्वैर्न वादैकपरैर्नरैश्चान्यैस्तथाधमैः ॥ २२१.८४॥
२२१.८५/१सुहृद्दीक्षितभूपाल+ ।स्नातकश्वशुरैः सह ।
२२१.८५/२उत्तिष्ठेद् विभवाच्चैनान् अर्चयेद् गृहमागतान् ॥ २२१.८५॥
२२१.८६/१यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् ।
२२१.८६/२सम्यग् गृहेऽर्चनं कृत्वा यथास्थानमनुक्रमात् ॥ २२१.८६॥
२२१.८७/१सम्पूजयेत् तथा वह्नौ प्रदद्याच्चाहुतीः क्रमात् ।
२२१.८७/२प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः ॥ २२१.८७॥
२२१.८८/१तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् ।
२२१.८८/२ततोऽनुमतये दद्याद् दद्याद् बहुबलिं ततः ॥ २२१.८८॥
२२१.८९/१पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया ।
२२१.८९/२वैश्वदेवं ततः कुर्याद् वदत शृणुत द्विजाः ॥ २२१.८९॥
२२१.९०/१यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक् ।
२२१.९०/२पर्जन्यापोधरित्रीणां दद्यात् तु मणिके त्रयम् ॥ २२१.९०॥
२२१.९१/१वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् ।
२२१.९१/२ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥ २२१.९१॥
२२१.९२/१विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च ।
२२१.९२/२उषसे भूतपतये दद्याद् वोत्तरतः शुचिः ॥ २२१.९२॥
२२१.९३/१स्वधा च नम इत्युक्त्वा पितृभ्यश्चैव दक्षिणे ।
२२१.९३/२कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन् ॥ २२१.९३॥
२२१.९४/१अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि ।
२२१.९४/२देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम् ॥ २२१.९४॥
२२१.९५/१अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य च ।
२२१.९५/२एतद् ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥ २२१.९५॥
२२१.९६/१तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् ।
२२१.९६/२पितृणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते ॥ २२१.९६॥
२२१.९७/१अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।
२२१.९७/२तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥ २२१.९७॥
२२१.९८/१एवमेभिः सदा तीर्थैर्विधानं पितृभिः सह ।
२२१.९८/२सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन ॥ २२१.९८॥
२२१.९९/१ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा ।
२२१.९९/२देवतीर्थेन देवानां प्राजापत्यं जितेन च ॥ २२१.९९॥
२२१.१००/१नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् ।
२२१.१००/२प्राजापत्येन तीर्थेन यच्च किंचित् प्रजापतेः ॥ २२१.१००॥
२२१.१०१/१युगपज्जलमग्निं च बिभृयान् न विचक्षणः ।
२२१.१०१/२गुरुदेवपितृन् विप्रान् न च पादौ प्रसारयेत् ॥ २२१.१०१॥
२२१.१०२/१नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ।
२२१.१०२/२शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः ।
२२१.१०२/३न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥ २२१.१०२॥
२२१.१०३/१तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
२२१.१०३/२ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ॥ २२१.१०३॥
२२१.१०४/१जितभृत्यो नृपो यत्र बलवान् धर्मतत्परः ।
२२१.१०४/२तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ॥ २२१.१०४॥
२२१.१०५/१पौराः सुसंहता यत्र सततं न्यायवर्तिनः ।
२२१.१०५/२शान्तामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥ २२१.१०५॥
२२१.१०६/१यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिमानिनः ।
२२१.१०६/२यत्रौषधान्यशेषाणि वसेत् तत्र विचक्षणः ॥ २२१.१०६॥
२२१.१०७/१तत्र विप्रा न वस्तव्यं यत्रैतत् त्रितयं सदा ।
२२१.१०७/२जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥ २२१.१०७॥
२२१.१०८/१वसेन् नित्यं सुशीलेषु सहचारिषु पण्डितः ।
२२१.१०८/२यत्राप्रधृष्यो नृपतिर्यत्र सस्यप्रदा मही ॥ २२१.१०८॥
२२१.१०९/१इत्येतत् कथितं विप्रा मया वो हितकाम्यया ।
२२१.१०९/२अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥ २२१.१०९॥
२२१.११०/१भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् ।
२२१.११०/२अस्नेहा अपि गोधूम+ ।यवगोरसविक्रियाः ॥ २२१.११०॥
२२१.१११/१शशकः कच्छपो गोधा श्वाविन् मत्स्योऽथ शल्यकः ।
२२१.१११/२भक्ष्याश्चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ॥ २२१.१११॥
२२१.११२/१पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया ।
२२१.११२/२प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति ॥ २२१.११२॥
२२१.११३/१शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ।
२२१.११३/२शाकमूलफलानां च तथा विदलचर्मणाम् ॥ २२१.११३॥
२२१.११४/१मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च ।
२२१.११४/२पात्राणां चमसानां च अम्बुना शौचमिष्यते ॥ २२१.११४॥
२२१.११५/१तथाश्मकानां तोयेन अश्मसंघर्षणेन च ।
२२१.११५/२सस्नेहानां च पात्राणां शुद्धिरुष्णेन वारिणा ॥ २२१.११५॥
२२१.११६/१शूर्पाणामजिनानां च मुशलोलूखलस्य च ।
२२१.११६/२संहतानां च वस्त्राणां प्रोक्षणात् संचयस्य च ॥ २२१.११६॥
२२१.११७/१वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते ।
२२१.११७/२आविकानां समस्तानां केशानां चैवमिष्यते ॥ २२१.११७॥
२२१.११८/१सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
२२१.११८/२शोधनं चैव भवति उपघातवतां सदा ॥ २२१.११८॥
२२१.११९/१तथा कार्पासिकानां च शुद्धिः स्याज्जलभस्मना ।
२२१.११९/२दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥ २२१.११९॥
२२१.१२०/१पुनः पाकेन भाण्डानां पार्थिवानाममेध्यता ।
२२१.१२०/२शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ २२१.१२०॥
२२१.१२१/१रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् ।
२२१.१२१/२प्राक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ॥ २२१.१२१॥
२२१.१२२/१अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् ।
२२१.१२२/२कर्मान्तागारशालाश्च स्तनद्वयं शुचि स्त्रियाः ॥ २२१.१२२॥
२२१.१२३/१शुचयश्च तथैवापः स्रवन्त्यो गन्धवर्जिताः ।
२२१.१२३/२भूमिर्विशुध्यते कालाद् दाहमार्जनगोकुलैः ॥ २२१.१२३॥
२२१.१२४/१लेपाद् उल्लेखनात् सेकाद् वेश्म सम्मार्जनादिना ।
२२१.१२४/२केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ २२१.१२४॥
२२१.१२५/१मृदम्बु भस्म चाप्यन्ने प्रक्षेप्तव्यं विशुद्धये ।
२२१.१२५/२औदुम्बराणामम्लेन वारिणा त्रपुसीसयोः ॥ २२१.१२५॥
२२१.१२६/१भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च ।
२२१.१२६/२अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥ २२१.१२६॥
२२१.१२७/१अन्येषां चैव द्रव्याणां वर्णगन्धांश्च हारयेत् ।
२२१.१२७/२शुचि मांसं तु चाण्डाल+ ।क्रव्यादैर्विनिपातितम् ॥ २२१.१२७॥
२२१.१२८/१रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः ।
२२१.१२८/२रजोऽग्निरश्वगोछाया रश्मयः पवनो मही ॥ २२१.१२८॥
२२१.१२९/१विप्लुषो मक्षिकाद्याश्च दुष्टसङ्गाद् अदोषिणः ।
२२१.१२९/२अजाश्वं मुखतो मेध्यं न गोर्वत्सस्य चाननम् ॥ २२१.१२९॥
२२१.१३०/१मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने ।
२२१.१३०/२आसनं शयनं यानं तटौ नद्यास्तृणानि च ॥ २२१.१३०॥
२२१.१३१/१सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ।
२२१.१३१/२रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥ २२१.१३१॥
२२१.१३२/१आचामेत यथान्यायं वाससः परिधापने ।
२२१.१३२/२स्पृष्टानामथ संस्पर्शैर्द्विरथ्याकर्दमाम्भसि ॥ २२१.१३२॥
२२१.१३३/१पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् ।
२२१.१३३/२प्रभूतोपहताद् अन्नाद् अग्रमुद्धृत्य संत्यजेत् ॥ २२१.१३३॥
२२१.१३४/१शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस्तथा मृदा ।
२२१.१३४/२उपवासस्त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥ २२१.१३४॥
२२१.१३५/१अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु ।
२२१.१३५/२उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥ २२१.१३५॥
२२१.१३६/१स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ।
२२१.१३६/२नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ २२१.१३६॥
२२१.१३७/१आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ।
२२१.१३७/२न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च ॥ २२१.१३७॥
२२१.१३८/१गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस्तत् क्षिपेद् बहिः ।
२२१.१३८/२पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि ॥ २२१.१३८॥
२२१.१३९/१स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च ।
२२१.१३९/२नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ॥ २२१.१३९॥
२२१.१४०/१नालपेज्जनविद्विष्टान् वीरहीनास्तथा स्त्रियः ।
२२१.१४०/२देवतापितृसच्छास्त्र+ ।यज्विसंन्यासिनिन्दकैः ॥ २२१.१४०॥
२२१.१४१/१कृत्वा तु स्पर्शनालापं शुध्यत्यर्कावलोकनात् ।
२२१.१४१/२अवलोक्य तथोदक्यां संन्यस्तं पतितं शवम् ॥ २२१.१४१॥
२२१.१४२/१विधर्मिसूतिकाषण्ढ+ ।विवस्त्रान्त्यावसायिनः ।
२२१.१४२/२मृतनिर्यातकांश्चैव परदाररताश्च ये ॥ २२१.१४२॥
२२१.१४३/१एतद् एव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ।
२२१.१४३/२अभोज्यभिक्षुपाखण्ड+ ंआर्जारखरकुक्कुटान् ॥ २२१.१४३॥
२२१.१४४/१पतितापविद्धचाण्डाल+ ंऋताहारांश्च धर्मवित् ।
२२१.१४४/२संस्पृश्य शुध्यते स्नानाद् उदक्याग्रामशूकरौ ॥ २२१.१४४॥
२२१.१४५/१तद्वच्च सूतिकाशौच+ ।दूषितौ पुरुषावपि ।
२२१.१४५/२यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ॥ २२१.१४५॥
२२१.१४६/१यश्च ब्राह्मणसंत्यक्तः किल्बिषाशी नराधमः ।
२२१.१४६/२नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥ २२१.१४६॥
२२१.१४७/१तस्य त्वकरणं वक्ष्ये केवलं मृतजन्मसु ।
२२१.१४७/२दशाहं ब्राह्मणस्तिष्ठेद् दानहोमविवर्जितः ॥ २२१.१४७॥
२२१.१४८/१क्षत्रियो द्वादशाहं च वैश्यो मासार्धमेव च ।
२२१.१४८/२शूद्रश्च मासमासीत निजकर्मविवर्जितः ॥ २२१.१४८॥
२२१.१४९/१ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् ।
२२१.१४९/२प्रेताय सलिलं देयं बहिर्गत्वा तु गोत्रकैः ॥ २२१.१४९॥
२२१.१५०/१प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा ।
२२१.१५०/२तस्यास्थिसंचयः कार्यश्चतुर्थेऽहनि गोत्रकैः ॥ २२१.१५०॥
२२१.१५१/१ऊर्ध्वं संचयनात् तेषामङ्गस्पर्शो विधीयते ।
२२१.१५१/२गोत्रकैस्तु क्रियाः सर्वाः कार्याः संचयनात् परम् ॥ २२१.१५१॥
२२१.१५२/१स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ।
२२१.१५२/२अन्वर्थमिच्छया शस्त्र+ ।रज्जुबन्धनवह्निषु ॥ २२१.१५२॥
२२१.१५३/१विषप्रतापादिमृते प्रायानाशकयोरपि ।
२२१.१५३/२बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥ २२१.१५३॥
२२१.१५४/१सद्यः शौचं मनुष्याणां त्र्यहमुक्तमशौचकम् ।
२२१.१५४/२सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन् मृतो यदि ॥ २२१.१५४॥
२२१.१५५/१पूर्वशौचं समाख्यातं कार्यास्तत्र दिनक्रियाः ।
२२१.१५५/२एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ॥ २२१.१५५॥
२२१.१५६/१सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च ।
२२१.१५६/२पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥ २२१.१५६॥
२२१.१५७/१तत्रापि यदि वान्यस्मिन्न् अनुयातस्ततः परम् ।
२२१.१५७/२तत्रापि शुद्धिरुदिता पूर्वजन्मवतो दिनैः ॥ २२१.१५७॥
२२१.१५८/१दशद्वादशमासार्ध+ ंआससंख्यैर्दिनैर्गतैः ।
२२१.१५८/२स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ॥ २२१.१५८॥
२२१.१५९/१प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टमतः परम् ।
२२१.१५९/२दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ॥ २२१.१५९॥
२२१.१६०/१यद् यद् इष्टतमं लोके यच्चास्य दयितं गृहे ।
२२१.१६०/२तत् तद् गुणवते देयं तद् एवाक्षयमिच्छता ॥ २२१.१६०॥
२२१.१६१/१पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः ।
२२१.१६१/२दत्तप्रेतोदपिण्डाश्च सर्वे वर्णाः कृतक्रियाः ॥ २२१.१६१॥
२२१.१६२/१कुर्युः समग्राः शुचिनः परत्रेह च भूतये ।
२२१.१६२/२अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ २२१.१६२॥
२२१.१६३/१धर्मतो धनमाहार्यं यष्टव्यं चापि यत्नतः ।
२२१.१६३/२येन प्रकुपितो नात्मा जुगुप्सामेति भो द्विजाः ॥ २२१.१६३॥
२२१.१६४/१तत् कर्तव्यमशङ्केन यन् न गोप्यं महाजनैः ।
२२१.१६४/२एवमाचरतो विप्राः पुरुषस्य गृहे सतः ॥ २२१.१६४॥
२२१.१६५/१धर्मार्थकामं सम्प्राप्य परत्रेह च शोभनम् ।
२२१.१६५/२इदं रहस्यमायुष्यं धन्यं बुद्धिविवर्धनम् ॥ २२१.१६५॥
२२१.१६६/१सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् ।
२२१.१६६/२यशःकीर्तिप्रदं नृणां तेजोबलविवर्धनम् ॥ २२१.१६६॥
२२१.१६७/१अनुष्ठेयं सदा पुम्भिः स्वर्गसाधनमुत्तमम् ।
२२१.१६७/२ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च मुनिसत्तमाः ॥ २२१.१६७॥
२२१.१६८/१ज्ञातव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ।
२२१.१६८/२ज्ञात्वैव यः सदा कालमनुष्ठानं करोति वै ॥ २२१.१६८॥
२२१.१६९/१सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ।
२२१.१६९/२सारात् सारतरं चेदमाख्यातं द्विजसत्तमाः ॥ २२१.१६९॥
२२१.१७०/१श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् ।
२२१.१७०/२न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः ।
२२१.१७०/३न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥ २२१.१७०॥
२२२.१/१मुनय ऊचुः । श्रोतुमिच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः ।
२२२.१/२चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २२२.१॥
२२२.२/१व्यास उवाच । ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् ।
२२२.२/२शृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान् ॥ २२२.२॥
२२२.३/१दानदयातपोदेव+ ।यज्ञस्वाध्यायतत्परः ।
२२२.३/२नित्योदकी भवेद् विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२२.३॥
२२२.४/१वृत्त्यर्थं याजयेत् त्वन्यान् द्विजान् अध्यापयेत् तथा ।
२२२.४/२कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥ २२२.४॥
२२२.५/१सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः ।
२२२.५/२मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ २२२.५॥
२२२.६/१गवि रत्ने च पारक्ये समबुद्धिर्भवेद् द्विजाः ।
२२२.६/२ऋतावभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥ २२२.६॥
२२२.७/१दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियोऽपि हि ।
२२२.७/२यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥ २२२.७॥
२२२.८/१शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
२२२.८/२तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ २२२.८॥
२२२.९/१धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
२२२.९/२भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥ २२२.९॥
२२२.१०/१दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् ।
२२२.१०/२प्राप्नोत्यभिमतांल्लोकान् वर्णसंस्थापको नृपः ॥ २२२.१०॥
२२२.११/१पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः ।
२२२.११/२वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ २२२.११॥
२२२.१२/१तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
२२२.१२/२नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ २२२.१२॥
२२२.१३/१द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् ।
२२२.१३/२क्रयविक्रयजैर्वापि धनैः कारुभवैस्तु वा ॥ २२२.१३॥
२२२.१४/१दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत च ।
२२२.१४/२पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥ २२२.१४॥
२२२.१५/१भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः ।
२२२.१५/२ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥ २२२.१५॥
२२२.१६/१दया समस्तभूतेषु तितिक्षा नाभिमानिता ।
२२२.१६/२सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ २२२.१६॥
२२२.१७/१मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः ।
२२२.१७/२अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ २२२.१७॥
२२२.१८/१आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
२२२.१८/२गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥ २२२.१८॥
२२२.१९/१क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि ।
२२२.१९/२राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥ २२२.१९॥
२२२.२०/१ससामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः ।
२२२.२०/२तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम् ॥ २२२.२०॥
२२२.२१/१इत्येते कथिता विप्रा वर्णधर्मा मयाद्य वै ।
२२२.२१/२धर्ममाश्रमिणां सम्यग् ब्रुवतोऽपि निबोधत ॥ २२२.२१॥
२२२.२२/१बालः कृतोपनयनो वेदाहरणतत्परः ।
२२२.२२/२गुरोर्गेहे वसन् विप्रा ब्रह्मचारी समाहितः ॥ २२२.२२॥
२२२.२३/१शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः ।
२२२.२३/२व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ २२२.२३॥
२२२.२४/१उभे संध्ये रविं विप्रास्तथैवाग्निं समाहितः ।
२२२.२४/२उपतिष्ठेत् तथा कुर्याद् गुरोरप्यभिवादनम् ॥ २२२.२४॥
२२२.२५/१स्थिते तिष्ठेद् व्रजेद् याति नीचैरासीत चासिते ।
२२२.२५/२शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत् ॥ २२२.२५॥
२२२.२६/१तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः ।
२२२.२६/२अनुज्ञातं च भिक्षान्नमश्नीयाद् गुरुणा ततः ॥ २२२.२६॥
२२२.२७/१अवगाहेद् अपः पूर्वमाचार्येणावगाहिताः ।
२२२.२७/२समिज्जलादिकं चास्य कल्यकल्यमुपानयेत् ॥ २२२.२७॥
२२२.२८/१गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।
२२२.२८/२गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ २२२.२८॥
२२२.२९/१विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
२२२.२९/२गृहस्थकार्यमखिलं कुर्याद् विप्राः स्वशक्तितः ॥ २२२.२९॥
२२२.३०/१निर्वापेण पितृन् अर्च्य यज्ञैर्देवांस्तथातिथीन् ।
२२२.३०/२अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ २२२.३०॥
२२२.३१/१बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् ।
२२२.३१/२प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान् ॥ २२२.३१॥
२२२.३२/१भिक्षाभुजश्च ये केचित् परिव्राड् ब्रह्मचारिणः ।
२२२.३२/२तेऽप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥ २२२.३२॥
२२२.३३/१वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः ।
२२२.३३/२अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ २२२.३३॥
२२२.३४/१अनिकेता ह्यनाहारा ये तु सायंगृहास्तु ते ।
२२२.३४/२तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते ॥ २२२.३४॥
२२२.३५/१तेषां स्वागतदानानि वक्तव्यं मधुरं सदा ।
२२२.३५/२गृहागतानां दद्याच्च शयनासनभोजनम् ॥ २२२.३५॥
२२२.३६/१अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
२२२.३६/२स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ २२२.३६॥
२२२.३७/१अवज्ञानमहंकारो दम्भश्चापि गृहे सतः ।
२२२.३७/२परिवादोपघातौ च पारुष्यं च न शस्यते ॥ २२२.३७॥
२२२.३८/१यश्च सम्यक् करोत्येवं गृहस्थः परमं विधिम् ।
२२२.३८/२सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान् ॥ २२२.३८॥
२२२.३९/१वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी ।
२२२.३९/२पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ २२२.३९॥
२२२.४०/१पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
२२२.४०/२भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर्द्विजाः ॥ २२२.४०॥
२२२.४१/१चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके ।
२२२.४१/२तद्वत् त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः ॥ २२२.४१॥
२२२.४२/१देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् ।
२२२.४२/२भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते ॥ २२२.४२॥
२२२.४३/१वन्यस्नेहेन गात्राणामभ्यङ्गश्चापि शस्यते ।
२२२.४३/२तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥ २२२.४३॥
२२२.४४/१यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन् मुनिः ।
२२२.४४/२स दहत्यग्निवद् दोषाञ् जयेल्लोकांश्च शाश्वतान् ॥ २२२.४४॥
२२२.४५/१चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।
२२२.४५/२तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः ॥ २२२.४५॥
२२२.४६/१पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः ।
२२२.४६/२चतुर्थमाश्रमस्थानं गच्छेन् निर्धूतमत्सरः ॥ २२२.४६॥
२२२.४७/१त्रैवर्णिकांस्त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः ।
२२२.४७/२मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ २२२.४७॥
२२२.४८/१जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् ।
२२२.४८/२युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ २२२.४८॥
२२२.४९/१एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे ।
२२२.४९/२तथा प्रीतिर्न तिर्यक्षु द्वेषो वा नास्य जायते ॥ २२२.४९॥
२२२.५०/१प्राणयात्रानिमित्तं च व्यङ्गारेऽभुक्तवज्जने ।
२२२.५०/२काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान् ॥ २२२.५०॥
२२२.५१/१अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् ।
२२२.५१/२प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ २२२.५१॥
२२२.५२/१अतिपूजितलाभांस्तु जुगुप्सं चैव सर्वतः ।
२२२.५२/२अतिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥ २२२.५२॥
२२२.५३/१कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये ।
२२२.५३/२तांस्तु दोषान् परित्यज्य परिव्राण् निर्ममो भवेत् ॥ २२२.५३॥
२२२.५४/१अभयं सर्वसत्त्वेभ्यो दत्त्वा यश्चरते महीम् ।
२२२.५४/२तस्य देहाद् विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥ २२२.५४॥
२२२.५५/१कृत्वाग्निहोत्रं स्वशरीरसंस्थम् ।
२२२.५५/२शारीरमग्निं स्वमुखे जुहोति ।
२२२.५५/३विप्रस्तु भिक्षोपगतैर्हविर्भिश् ।
२२२.५५/४चिताग्निना स व्रजति स्म लोकान् ॥ २२२.५५॥
२२२.५६/१मोक्षाश्रमं यश्चरते यथोक्तम् ।
२२२.५६/२शुचिश्च संकल्पितबुद्धियुक्तः ।
२२२.५६/३अनिन्धनं ज्योतिरिव प्रशान्तम् ।
२२२.५६/४स ब्रह्मलोकं व्रजति द्विजातिः ॥ २२२.५६॥
२२३.१/१मुनय ऊचुः । सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः ।
२२३.१/२भूतं भव्यं भविष्यं च न तेऽस्त्यविदितं मुने ॥ २२३.१॥
२२३.२/१कर्मणा केन वर्णानामधमा जायते गतिः ।
२२३.२/२उत्तमा च भवेत् केन ब्रूहि तेषां महामते ॥ २२३.२॥
२२३.३/१शूद्रस्तु कर्मणा केन ब्राह्मणत्वं च गच्छति ।
२२३.३/२श्रोतुमिच्छामहे केन ब्राह्मणः शूद्रतामियात् ॥ २२३.३॥
२२३.४/१व्यास उवाच । हिमवच्छिखरे रम्ये नानाधातुविभूषिते ।
२२३.४/२नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥ २२३.४॥
२२३.५/१तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् ।
२२३.५/२शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥ २२३.५॥
२२३.६/१इमं प्रश्नं पुरा विप्रा अपृच्छच्चारुलोचना ।
२२३.६/२तद् अहं सम्प्रवक्ष्यामि शृणुध्वं मम सत्तमाः ॥ २२३.६॥
२२३.७/१उमोवाच । भगवन् भगनेत्रघ्न पूष्णो दन्तविनाशन ।
२२३.७/२दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम् ॥ २२३.७॥
२२३.८/१चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा ।
२२३.८/२केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ २२३.८॥
२२३.९/१वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।
२२३.९/२प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥ २२३.९॥
२२३.१०/१केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते ।
२२३.१०/२क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ २२३.१०॥
२२३.११/१एतं मे संशयं देव वद भूतपतेऽनघ ।
२२३.११/२त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ २२३.११॥
२२३.१२/१शिव उवाच । ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे ।
२२३.१२/२क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः ॥ २२३.१२॥
२२३.१३/१कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति स द्विजः ।
२२३.१३/२श्रेष्ठं वर्णमनुप्राप्य तस्माद् आक्षिप्यते पुनः ॥ २२३.१३॥
२२३.१४/१स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति ।
२२३.१४/२क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥ २२३.१४॥
२२३.१५/१यश्च विप्रत्वमुत्सृज्य क्षत्रधर्मान् निषेवते ।
२२३.१५/२ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ २२३.१५॥
२२३.१६/१वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।
२२३.१६/२ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ २२३.१६॥
२२३.१७/१स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् ।
२२३.१७/२स्वधर्मात् प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुयात् ॥ २२३.१७॥
२२३.१८/१तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।
२२३.१८/२ब्रह्मलोकात् परिभ्रष्टः शूद्रयोनौ प्रजायते ॥ २२३.१८॥
२२३.१९/१क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि ।
२२३.१९/२स्वानि कर्माण्यपाकृत्य शूद्रकर्म निषेवते ॥ २२३.१९॥
२२३.२०/१स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः ।
२२३.२०/२ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ २२३.२०॥
२२३.२१/१यस्तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः ।
२२३.२१/२धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ २२३.२१॥
२२३.२२/१इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् ।
२२३.२२/२अध्यात्मं नैष्ठिकी सिद्धिर्धर्मकामैर्निषेव्यते ॥ २२३.२२॥
२२३.२३/१उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।
२२३.२३/२घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित् ॥ २२३.२३॥
२२३.२४/१शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः ।
२२३.२४/२पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ २२३.२४॥
२२३.२५/१शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः ।
२२३.२५/२आहिताग्निस्तथा यज्वा स शूद्रगतिभाग् भवेत् ॥ २२३.२५॥
२२३.२६/१तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः ।
२२३.२६/२ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ २२३.२६॥
२२३.२७/१यस्यान्नेनावशेषेण जठरे म्रियते द्विजः ।
२२३.२७/२तां तां योनिं व्रजेद् विप्रो यस्यान्नमुपजीवति ॥ २२३.२७॥
२२३.२८/१ब्राह्मणत्वं सुखं प्राप्य दुर्लभं योऽवमन्यते ।
२२३.२८/२अभोज्यान्नानि वाश्नाति स द्विजत्वात् पतेत वै ॥ २२३.२८॥
२२३.२९/१सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतोऽशुचिः ।
२२३.२९/२स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २२३.२९॥
२२३.३०/१अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी ।
२२३.३०/२विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥ २२३.३०॥
२२३.३१/१गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः ।
२२३.३१/२ब्रह्मद्विड् वापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ २२३.३१॥
२२३.३२/१एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा ।
२२३.३२/२शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत् ॥ २२३.३२॥
२२३.३३/१शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि ।
२२३.३३/२सर्वातिथ्यमुपातिष्ठञ् शेषान्नकृतभोजनः ॥ २२३.३३॥
२२३.३४/१शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः ।
२२३.३४/२कुर्याद् अविमनाः श्रेष्ठः सततं सत्पथे स्थितः ॥ २२३.३४॥
२२३.३५/१देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः ।
२२३.३५/२ऋतुकालाभिगामी च नियतो नियताशनः ॥ २२३.३५॥
२२३.३६/१दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः ।
२२३.३६/२वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वम् ऋच्छति ॥ २२३.३६॥
२२३.३७/१ऋतवाग् अनहंवादी निर्द्वंद्वः सामकोविदः ।
२२३.३७/२यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ २२३.३७॥
२२३.३८/१दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः ।
२२३.३८/२गृहस्थव्रतमातिष्ठन् द्विकालकृतभोजनः ॥ २२३.३८॥
२२३.३९/१शेषाशी विजिताहारो निष्कामो निरहंवदः ।
२२३.३९/२अग्निहोत्रमुपासीनो जुह्वानश्च यथाविधि ॥ २२३.३९॥
२२३.४०/१सर्वातिथ्यमुपातिष्ठञ् शेषान्नकृतभोजनः ।
२२३.४०/२त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः ॥ २२३.४०॥
२२३.४१/१स वैश्यः क्षत्रियकुले शुचिर्महति जायते ।
२२३.४१/२स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ॥ २२३.४१॥
२२३.४२/१उपनीतो व्रतपरो द्विजो भवति संस्कृतः ।
२२३.४२/२ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः ॥ २२३.४२॥
२२३.४३/१अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ।
२२३.४३/२आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ॥ २२३.४३॥
२२३.४४/१सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः ।
२२३.४४/२धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः ॥ २२३.४४॥
२२३.४५/१यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः ।
२२३.४५/२ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः ॥ २२३.४५॥
२२३.४६/१ऋतुकाले तु धर्मात्मा पत्नीमुपाश्रयेत् सदा ।
२२३.४६/२सदोपवासी नियतः स्वाध्यायनिरतः शुचिः ॥ २२३.४६॥
२२३.४७/१वहिस्कान्तरिते नित्यं शयानोऽस्ति सदा गृहे ।
२२३.४७/२सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ॥ २२३.४७॥
२२३.४८/१शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ।
२२३.४८/२स्वार्थाद् वा यदि वा कामान् न किंचिद् उपलक्षयेत् ॥ २२३.४८॥
२२३.४९/१पितृदेवातिथिकृते साधनं कुरुते च यत् ।
२२३.४९/२स्ववेश्मनि यथान्यायमुपास्ते भैक्ष्यमेव च ॥ २२३.४९॥
२२३.५०/१द्विकालमग्निहोत्रं च जुह्वानो वै यथाविधि ।
२२३.५०/२गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ॥ २२३.५०॥
२२३.५१/१त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् ।
२२३.५१/२ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः ॥ २२३.५१॥
२२३.५२/१वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ।
२२३.५२/२एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ॥ २२३.५२॥
२२३.५३/१शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः ।
२२३.५३/२ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः ॥ २२३.५३॥
२२३.५४/१स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः ।
२२३.५४/२कर्मभिः शुचिभिर्देवी शुद्धात्मा विजितेन्द्रियः ॥ २२३.५४॥
२२३.५५/१शूद्रोऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् ।
२२३.५५/२स्वभावकर्मणा चैव यत्र शूद्रोऽधितिष्ठति ॥ २२३.५५॥
२२३.५६/१विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः ।
२२३.५६/२न योनिर्नापि संस्कारो न श्रुतिर्न च संततिः ॥ २२३.५६॥
२२३.५७/१कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ।
२२३.५७/२सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ॥ २२३.५७॥
२२३.५८/१वृत्ते स्थितश्च शूद्रोऽपि ब्राह्मणत्वं च गच्छति ।
२२३.५८/२ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः ॥ २२३.५८॥
२२३.५९/१निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ।
२२३.५९/२एते ये विमला देवि स्थानभावनिदर्शकाः ॥ २२३.५९॥
२२३.६०/१स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ।
२२३.६०/२ब्रह्मणो हि महत् क्षेत्रं लोके चरति पादवत् ॥ २२३.६०॥
२२३.६१/१यत् तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी ।
२२३.६१/२संतुष्टेन सदा भाव्यं सत्पथालम्बिना सदा ॥ २२३.६१॥
२२३.६२/१ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता ।
२२३.६२/२संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ॥ २२३.६२॥
२२३.६३/१नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना ।
२२३.६३/२एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः ॥ २२३.६३॥
२२३.६४/१आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ।
२२३.६४/२ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना ॥ २२३.६४॥
२२३.६५/१योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ।
२२३.६५/२एतत् ते गुह्यमाख्यातं यथा शूद्रो भवेद् द्विजः ।
२२३.६५/३ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वमाप्नुयात् ॥ २२३.६५॥
२२४.१/१उमोवाच । भगवन् सर्वभूतेश सुरासुरनमस्कृत ।
२२४.१/२धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ २२४.१॥
२२४.२/१कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा ।
२२४.२/२बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद ॥ २२४.२॥
२२४.३/१केन शीलेन वै देव कर्मणा कीदृशेन वा ।
२२४.३/२समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥ २२४.३॥
२२४.४/१शिव उवाच । देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा ।
२२४.४/२सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ २२४.४॥
२२४.५/१सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः ।
२२४.५/२नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ २२४.५॥
२२४.६/१प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः ।
२२४.६/२वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥ २२४.६॥
२२४.७/१कर्मणा मनसा वाचा ये न हिंसन्ति किंचन ।
२२४.७/२ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः ॥ २२४.७॥
२२४.८/१प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः ।
२२४.८/२तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ २२४.८॥
२२४.९/१सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।
२२४.९/२त्यक्तहिंस्रसमाचारास्ते नराः स्वर्गगामिनः ॥ २२४.९॥
२२४.१०/१परस्वनिर्ममा नित्यं परदारविवर्जिकाः ।
२२४.१०/२धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ २२४.१०॥
२२४.११/१मातृवत् स्वसृवच्चैव नित्यं दुहितृवच्च ये ।
२२४.११/२परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ २२४.११॥
२२४.१२/१स्वदारनिरता ये च ऋतुकालाभिगामिनः ।
२२४.१२/२अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ २२४.१२॥
२२४.१३/१स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च ।
२२४.१३/२स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ २२४.१३॥
२२४.१४/१परदारेषु ये नित्यं चारित्रावृतलोचनाः ।
२२४.१४/२जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ २२४.१४॥
२२४.१५/१एष दैवकृतो मार्गः सेवितव्यः सदा नरैः ।
२२४.१५/२अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ २२४.१५॥
२२४.१६/१अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः ।
२२४.१६/२दानकर्मतपोयुक्तः शीलशौचदयात्मकः ।
२२४.१६/३स्वर्गमार्गमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ २२४.१६॥
२२४.१७/१उमोवाच । वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः ।
२२४.१७/२तानि कर्माणि मे देव वद भूतपतेऽनघ ॥ २२४.१७॥
२२४.१८/१शिव उवाच । आत्महेतोः परार्थे वा अधर्माश्रितमेव च ।
२२४.१८/२ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ २२४.१८॥
२२४.१९/१वृत्त्यर्थं धर्महेतोर्वा कामकारात् तथैव च ।
२२४.१९/२अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.१९॥
२२४.२०/१श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् ।
२२४.२०/२स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.२०॥
२२४.२१/१परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा ।
२२४.२१/२न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ २२४.२१॥
२२४.२२/१पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा ।
२२४.२२/२परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥ २२४.२२॥
२२४.२३/१ये वर्जयन्ति परुषं परद्रोहं च मानवाः ।
२२४.२३/२सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ २२४.२३॥
२२४.२४/१शठप्रलापाद् विरता विरुद्धपरिवर्जकाः ।
२२४.२४/२सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.२४॥
२२४.२५/१न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम् ।
२२४.२५/२शान्तिं विन्दन्ति ये क्रुद्धास्ते नराः स्वर्गगामिनः ॥ २२४.२५॥
२२४.२६/१एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।
२२४.२६/२शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः ॥ २२४.२६॥
२२४.२७/१उमोवाच । मनसा बध्यते येन कर्मणा पुरुषः सदा ।
२२४.२७/२तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २२४.२७॥
२२४.२८/१महेश्वर उवाच । मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।
२२४.२८/२स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु ॥ २२४.२८॥
२२४.२९/१दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः ।
२२४.२९/२नरो बध्येत येनेह शृणु वा तं शुभानने ॥ २२४.२९॥
२२४.३०/१अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा ।
२२४.३०/२मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥ २२४.३०॥
२२४.३१/१तथैव परदारान् ये कामवृत्ता रहोगताः ।
२२४.३१/२मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ २२४.३१॥
२२४.३२/१शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः ।
२२४.३२/२भजन्ति मैत्र्यं संगम्य ते नराः स्वर्गगामिनः ॥ २२४.३२॥
२२४.३३/१श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः ।
२२४.३३/२स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥ २२४.३३॥
२२४.३४/१अवैरा ये त्वनायासा मैत्रचित्तरताः सदा ।
२२४.३४/२सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ २२४.३४॥
२२४.३५/१ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः ।
२२४.३५/२धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.३५॥
२२४.३६/१शुभानामशुभानां च कर्मणां फलसंचये ।
२२४.३६/२निराकाङ्क्षाश्च ये देवि ते नराः स्वर्गगामिनः ॥ २२४.३६॥
२२४.३७/१पापोपेतान् वर्जयन्ति देवद्विजपराः सदा ।
२२४.३७/२समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ २२४.३७॥
२२४.३८/१शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः ।
२२४.३८/२स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि ॥ २२४.३८॥
२२४.३९/१उमोवाच । महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर ।
२२४.३९/२तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुमर्हसि ॥ २२४.३९॥
२२४.४०/१केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो ।
२२४.४०/२तपसा वापि देवेश केनायुर्लभते महत् ॥ २२४.४०॥
२२४.४१/१क्षीणायुः केन भवति कर्मणा भुवि मानवः ।
२२४.४१/२विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ २२४.४१॥
२२४.४२/१अपरे च महाभाग्या मन्दभाग्यास्तथा परे ।
२२४.४२/२अकुलीनाः कुलीनाश्च सम्भवन्ति तथा परे ॥ २२४.४२॥
२२४.४३/१दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव ।
२२४.४३/२प्रियदर्शास्तथा चान्ये दर्शनाद् एव मानवाः ॥ २२४.४३॥
२२४.४४/१दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः ।
२२४.४४/२महाप्रज्ञास्तथा चान्ये ज्ञानविज्ञानभाविनः ॥ २२४.४४॥
२२४.४५/१अल्पवाचास्तथा केचिन् महावाचास्तथा परे ।
२२४.४५/२दृश्यन्ते पुरुषा देव ततो व्याख्यातुमर्हसि ॥ २२४.४५॥
२२४.४६/१शिव उवाच । हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् ।
२२४.४६/२मर्त्यलोके नरः सर्वो येन स्वं फलमश्नुते ॥ २२४.४६॥
२२४.४७/१प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा ।
२२४.४७/२नित्यमुद्यतशस्त्रश्च हन्ति भूतगणान् नरः ॥ २२४.४७॥
२२४.४८/१निर्दयः सर्वभूतेभ्यो नित्यमुद्वेगकारकः ।
२२४.४८/२अपि कीटपतंगानामशरण्यः सुनिर्घृणः ॥ २२४.४८॥
२२४.४९/१एवम्भूतो नरो देवि निरयं प्रतिपद्यते ।
२२४.४९/२विपरीतस्तु धर्मात्मा स्वरूपेणाभिजायते ॥ २२४.४९॥
२२४.५०/१निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ।
२२४.५०/२यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥ २२४.५०॥
२२४.५१/१यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित् ।
२२४.५१/२मानुष्यं लभते वापि हीनायुस्तत्र जायते ॥ २२४.५१॥
२२४.५२/१पापेन कर्मणा देवि युक्तो हिंसादिभिर्यतः ।
२२४.५२/२अहितः सर्वभूतानां हीनायुरुपजायते ॥ २२४.५२॥
२२४.५३/१शुभेन कर्मणा देवि प्राणिघातविवर्जितः ।
२२४.५३/२शुभेन कर्मणा देवि प्राणिघातविवर्जितः ।
२२४.५३/३निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥ २२४.५३॥
२२४.५४/१न घातयति नो हन्ति घ्नन्तं नैवानुमोदते ।
२२४.५४/२सर्वभूतेषु सस्नेहो यथात्मनि तथा परे ॥ २२४.५४॥
२२४.५५/१ईदृशः पुरुषो नित्यं देवि देवत्वमश्नुते ।
२२४.५५/२उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः ॥ २२४.५५॥
२२४.५६/१अथ चेन् मानुषे लोके कदाचिद् उपपद्यते ।
२२४.५६/२एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् ।
२२४.५६/३प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ २२४.५६॥
२२५.१/१उमोवाच । किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः ।
२२५.१/२स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ २२५.१॥
२२५.२/१महेश्वर उवाच । दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु ।
२२५.२/२भक्षभोज्यान्नपानानां वाससां च महामतिः ॥ २२५.२॥
२२५.३/१प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस्तथा ।
२२५.३/२नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥ २२५.३॥
२२५.४/१आसनं शयनं यानं गृहं रत्नं धनं तथा ।
२२५.४/२सस्यजातानि सर्वाणि सक्षेत्राण्यथ योषितः ॥ २२५.४॥
२२५.५/१सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः ।
२२५.५/२एवम्भूतो नरो देवि देवलोकेऽभिजायते ॥ २२५.५॥
२२५.६/१तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् ।
२२५.६/२सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ २२५.६॥
२२५.७/१तस्माच्च्युतो महेशानि मानुषेषूपजायते ।
२२५.७/२महाभागकुले देवि धनधान्यसमाचिते ॥ २२५.७॥
२२५.८/१तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः ।
२२५.८/२महाकार्यो महाभोगो धनी भवति मानवः ॥ २२५.८॥
२२५.९/१एते देवि महाभागाः प्राणिनो दानशालिनः ।
२२५.९/२ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ २२५.९॥
२२५.१०/१अपरे मानवा देवि प्रदानकृपणा द्विजाः ।
२२५.१०/२येऽन्नानि न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥ २२५.१०॥
२२५.११/१दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि ।
२२५.११/२याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ २२५.११॥
२२५.१२/१न धनानि न वासांसि न भोगान् न च काञ्चनम् ।
२२५.१२/२न गाश्च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ २२५.१२॥
२२५.१३/१अप्रलुब्धाश्च ये लुब्धा नास्तिका दानवर्जितः ।
२२५.१३/२एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥ २२५.१३॥
२२५.१४/१ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् ।
२२५.१४/२धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ २२५.१४॥
२२५.१५/१क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः ।
२२५.१५/२निराशाः सर्वभोगेभ्यो जीवन्त्यधर्मजीविकाः ॥ २२५.१५॥
२२५.१६/१अल्पभोगकुले जाता अल्पभोगरता नराः ।
२२५.१६/२अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ २२५.१६॥
२२५.१७/१अपरे दम्भिनो नित्यं मानिनः परतो रताः ।
२२५.१७/२आसनार्हस्य ये पीठं न यच्छन्त्यल्पचेतसः ॥ २२५.१७॥
२२५.१८/१मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्यबुद्धयः ।
२२५.१८/२अर्घार्हान् न च संस्कारैरर्चयन्ति यथाविधि ॥ २२५.१८॥
२२५.१९/१पाद्यमाचमनीयं वा प्रयच्छन्त्यभिबुद्धयः ।
२२५.१९/२शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥ २२५.१९॥
२२५.२०/१अभिमानप्रवृद्धेन लोभेन सममास्थिताः ।
२२५.२०/२सम्मान्यांश्चावमन्यन्ते वृद्धान् परिभवन्ति च ॥ २२५.२०॥
२२५.२१/१एवंविधा नरा देवि सर्वे निरयगामिनः ।
२२५.२१/२ते चेद् यदि नरास्तस्मान् निरयाद् उत्तरन्ति च ॥ २२५.२१॥
२२५.२२/१वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ।
२२५.२२/२श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ॥ २२५.२२॥
२२५.२३/१कुलेषु तेऽभिजायन्ते गुरुवृद्धोपतापिनः ।
२२५.२३/२न दम्भी न च मानी यो देवतातिथिपूजकः ॥ २२५.२३॥
२२५.२४/१लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः ।
२२५.२४/२सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥ २२५.२४॥
२२५.२५/१अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ।
२२५.२५/२स्वागतेनैव सर्वेषां भूतानामविहिंसकः ॥ २२५.२५॥
२२५.२६/१यथार्थं सत्क्रियापूर्वमर्चयन्न् अवतिष्ठते ।
२२५.२६/२मार्गार्हाय ददन् मार्गं गुरुमभ्यर्चयन् सदा ॥ २२५.२६॥
२२५.२७/१अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ।
२२५.२७/२एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥ २२५.२७॥
२२५.२८/१ततो मानुष्यमासाद्य विशिष्टकुलजो भवेत् ।
२२५.२८/२तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ॥ २२५.२८॥
२२५.२९/१यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ।
२२५.२९/२सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥ २२५.२९॥
२२५.३०/१स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ।
२२५.३०/२एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ २२५.३०॥
२२५.३१/१यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः ।
२२५.३१/२हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ २२५.३१॥
२२५.३२/१लोष्टैः स्तम्भैरुपायैर्वा जन्तून् बाधेत शोभने ।
२२५.३२/२हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि ॥ २२५.३२॥
२२५.३३/१उपक्रामति जन्तूंश्च उद्वेगजननः सदा ।
२२५.३३/२एवं शीलसमाचारो निरयं प्रतिपद्यते ॥ २२५.३३॥
२२५.३४/१स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात् ।
२२५.३४/२बह्वाबाधापरिक्लिष्टे कुले जयति सोऽधमे ॥ २२५.३४॥
२२५.३५/१लोकद्विष्टोऽधमः पुंसां स्वयं कर्मकृतैः फलैः ।
२२५.३५/२एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ २२५.३५॥
२२५.३६/१अपरः सर्वभूतानि दयावान् अनुपश्यति ।
२२५.३६/२मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ २२५.३६॥
२२५.३७/१नोद्वेजयति भूतानि न च हन्ति दयापरः ।
२२५.३७/२हस्तपादैश्च नियतैर्विश्वास्यः सर्वजन्तुषु ॥ २२५.३७॥
२२५.३८/१न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च ।
२२५.३८/२उद्वेजयति भूतानि शुभकर्मा दयापरः ॥ २२५.३८॥
२२५.३९/१एवं शीलसमाचारः स्वर्गे समुपजायते ।
२२५.३९/२तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ २२५.३९॥
२२५.४०/१स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते ।
२२५.४०/२अल्पायासो निरातङ्कः स जातः सुखमेधते ॥ २२५.४०॥
२२५.४१/१सुखभागी निरायासो निरुद्वेगः सदा नरः ।
२२५.४१/२एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ २२५.४१॥
२२५.४२/१उमोवाच । इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ।
२२५.४२/२ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः ॥ २२५.४२॥
२२५.४३/१दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ।
२२५.४३/२केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत् ॥ २२५.४३॥
२२५.४४/१अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ।
२२५.४४/२एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर ॥ २२५.४४॥
२२५.४५/१जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा ।
२२५.४५/२नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ २२५.४५॥
२२५.४६/१महेश्वर उवाच । ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस्तथा ।
२२५.४६/२परिपृच्छन्त्यहरहः कुशलाकुशलं सदा ॥ २२५.४६॥
२२५.४७/१वर्जयन्तोऽशुभं कर्म सेवमानाः शुभं तथा ।
२२५.४७/२लभन्ते स्वर्गतिं नित्यमिह लोके यथासुखम् ॥ २२५.४७॥
२२५.४८/१स चेन् मनुष्यतां याति मेधावी तत्र जायते ।
२२५.४८/२श्रुतं यज्ञानुगं यस्य कल्याणमुपजायते ॥ २२५.४८॥
२२५.४९/१परदारेषु ये चापि चक्षुर्दुष्टं प्रयुञ्जते ।
२२५.४९/२तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ॥ २२५.४९॥
२२५.५०/१मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् ।
२२५.५०/२रोगार्तास्ते भवन्तीह नरा दुष्कृतकारिणः ॥ २२५.५०॥
२२५.५१/१ये तु मूढा दुराचारा वियोनौ मैथुने रताः ।
२२५.५१/२पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ २२५.५१॥
२२५.५२/१पशूंश्च ये वै बध्नन्ति ये चैव गुरुतल्पगाः ।
२२५.५२/२प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः ॥ २२५.५२॥
२२५.५३/१उमोवाच । अवद्यं किं तु वै कर्म निरवद्यं तथैव च ।
२२५.५३/२श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम ॥ २२५.५३॥
२२५.५४/१महेश्वर उवाच । श्रेयांसं मार्गमन्विच्छन् सदा यः
पृच्छति द्विजान् ।
२२५.५४/२धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ २२५.५४॥
२२५.५५/१यदि मानुष्यतां देवि कदाचित् संनियच्छति ।
२२५.५५/२मेधावी धारणायुक्तः प्राज्ञस्तत्रापि जायते ॥ २२५.५५॥
२२५.५६/१एष देवि सतां धर्मो गन्तव्यो भूतिकारकः ।
२२५.५६/२नृणां हितार्थाय सदा मया चैवमुदाहृतः ॥ २२५.५६॥
२२५.५७/१उमोवाच । अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः ।
२२५.५७/२ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ २२५.५७॥
२२५.५८/१व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः ।
२२५.५८/२अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ २२५.५८॥
२२५.५९/१यज्वानश्च तथैवान्ये निर्मोहाश्च तथा परे ।
२२५.५९/२केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ २२५.५९॥
२२५.६०/१महेश्वर उवाच । आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः ।
२२५.६०/२प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥ २२५.६०॥
२२५.६१/१अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः ।
२२५.६१/२अव्रता नष्टमर्यादास्ते नरा ब्रह्मराक्षसाः ॥ २२५.६१॥
२२५.६२/१ये वै कालकृतोद्योगात् सम्भवन्तीह मानवाः ।
२२५.६२/२निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ २२५.६२॥
२२५.६३/१एष देवि मया सर्व+ ।संशयच्छेदनाय ते ।
२२५.६३/२कुशलाकुशलो नृणां व्याख्यातो धर्मसागरः ॥ २२५.६३॥
२२६.१/१व्यास उवाच । श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः ।
२२६.१/२हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ २२६.१॥
२२६.२/१ये तत्रासन् मुनिवरास्त्रिपुरारेः समीपतः ।
२२६.२/२तीर्थयात्राप्रसङ्गेन गतास्तस्मिन् गिरौ द्विजाः ॥ २२६.२॥
२२६.३/१तेऽपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च ।
२२६.३/२पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥ २२६.३॥
२२६.४/१मुनय ऊचुः । त्रिलोचन नमस्तेऽस्तु दक्षक्रतुविनाशन ।
२२६.४/२पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥ २२६.४॥
२२६.५/१संसारेऽस्मिन् महाघोरे भैरवे लोमहर्षणे ।
२२६.५/२भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः ॥ २२६.५॥
२२६.६/१येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् ।
२२६.६/२ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२६.६॥
२२६.७/१महेश्वर उवाच । कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् ।
२२६.७/२नान्योपायं प्रपश्यामि वासुदेवात् परं द्विजाः ॥ २२६.७॥
२२६.८/१ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् ।
२२६.८/२वाङ्मनःकर्मभिः सम्यक् ते यान्ति परमां गतिम् ॥ २२६.८॥
२२६.९/१किं तेषां जीवितेनेह पशुवच्चेष्टितेन च ।
२२६.९/२येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ २२६.९॥
२२६.१०/१ऋषय ऊचुः । पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत ।
२२६.१०/२माहात्म्यं वासुदेवस्य श्रोतुमिच्छाम शंकर ॥ २२६.१०॥
२२६.११/१महेश्वर उवाच । पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः ।
२२६.११/२कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ २२६.११॥
२२६.१२/१दशबाहुर्महातेजा देवतारिनिषूदनः ।
२२६.१२/२श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥ २२६.१२॥
२२६.१३/१ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः ।
२२६.१३/२शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥ २२६.१३॥
२२६.१४/१ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः ।
२२६.१४/२पितामहगृहं साक्षात् सर्वदेवगृहं च सः ॥ २२६.१४॥
२२६.१५/१सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः ।
२२६.१५/२संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ २२६.१५॥
२२६.१६/१स हि देवदेवः साक्षाद् देवनाथः परंतपः ।
२२६.१६/२सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥ २२६.१६॥
२२६.१७/१न तस्मात् परमं भूतं त्रिषु लोकेषु किंचन ।
२२६.१७/२सनातनो महाभागो गोविन्द इति विश्रुतः ॥ २२६.१७॥
२२६.१८/१स सर्वान् पार्थिवान् संख्ये घातयिष्यति मानदः ।
२२६.१८/२सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः ॥ २२६.१८॥
२२६.१९/१नहि देवगणाः शक्तास्त्रिविक्रमविनाकृताः ।
२२६.१९/२भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥ २२६.१९॥
२२६.२०/१नायकः सर्वभूतानां सर्वभूतनमस्कृतः ।
२२६.२०/२एतस्य देवनाथस्य कार्यस्य च परस्य च ॥ २२६.२०॥
२२६.२१/१ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ।
२२६.२१/२ब्रह्मा वसति नाभिस्थः शरीरेऽहं च संस्थितः ॥ २२६.२१॥
२२६.२२/१सर्वाः सुखं संस्थिताश्च शरीरे तस्य देवताः ।
२२६.२२/२स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ २२६.२२॥
२२६.२३/१शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः ।
२२६.२३/२उत्तमेन सुशीलेन शौचेन च दमेन च ॥ २२६.२३॥
२२६.२४/१पराक्रमेण वीर्येण वपुषा दर्शनेन च ।
२२६.२४/२आरोहणप्रमाणेन वीर्येणार्जवसम्पदा ॥ २२६.२४॥
२२६.२५/१आनृशंस्येन रूपेण बलेन च समन्वितः ।
२२६.२५/२अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ २२६.२५॥
२२६.२६/१योगमायासहस्राक्षो विरूपाक्षो महामनाः ।
२२६.२६/२वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ २२६.२६॥
२२६.२७/१क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः ।
२२६.२७/२भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥ २२६.२७॥
२२६.२८/१शरण्यः सर्वभूतानां दीनानां पालने रतः ।
२२६.२८/२श्रुतवान् अथ सम्पन्नः सर्वभूतनमस्कृतः ॥ २२६.२८॥
२२६.२९/१समाश्रितानामुपकृच्छत्रूणां भयकृत् तथा ।
२२६.२९/२नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ २२६.२९॥
२२६.३०/१भवार्थमेव देवानां बुद्ध्या परमया युतः ।
२२६.३०/२प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ २२६.३०॥
२२६.३१/१समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः ।
२२६.३१/२अंशो नाम मनोः पुत्रो ह्यन्तर्धामा ततः परम् ॥ २२६.३१॥
२२६.३२/१अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः ।
२२६.३२/२प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो द्विजाः ॥ २२६.३२॥
२२६.३३/१तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः ।
२२६.३३/२प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥ २२६.३३॥
२२६.३४/१दाक्षायण्यस्तथादित्यो मनुरादित्यतस्ततः ।
२२६.३४/२मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥ २२६.३४॥
२२६.३५/१बुधात् पुरूरवाश्चापि तस्माद् आयुर्भविष्यति ।
२२६.३५/२नहुषो भविता तस्माद् ययातिस्तस्य चात्मजः ॥ २२६.३५॥
२२६.३६/१यदुस्तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति ।
२२६.३६/२क्रोष्टुश्चैव महान् पुत्रो वृजिनीवान् भविष्यति ॥ २२६.३६॥
२२६.३७/१वृजिनीवतश्च भविता उषङ्गुरपराजितः ।
२२६.३७/२उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा ॥ २२६.३७॥
२२६.३८/१तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति ।
२२६.३८/२तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् ॥ २२६.३८॥
२२६.३९/१यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः ।
२२६.३९/२स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ॥ २२६.३९॥
२२६.४०/१स्ववंशविस्तारकरं जनयिष्यति मानदम् ।
२२६.४०/२वसुदेवमिति ख्यातं पुत्रमानकदुन्दुभिम् ॥ २२६.४०॥
२२६.४१/१तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति ।
२२६.४१/२दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः ॥ २२६.४१॥
२२६.४२/१राज्ञो बद्धान् स सर्वान् वै मोक्षयिष्यति यादवः ।
२२६.४२/२जरासंधं तु राजानं निर्जित्य गिरिगह्वरे ॥ २२६.४२॥
२२६.४३/१सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् ।
२२६.४३/२पृथिव्यामप्रतिहतो वीर्येणापि भविष्यति ॥ २२६.४३॥
२२६.४४/१विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः ।
२२६.४४/२शूरः संहननो भूतो द्वारकायां वसन् प्रभुः ॥ २२६.४४॥
२२६.४५/१पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् ।
२२६.४५/२तं भवन्तः समासाद्य ब्राह्मणैरर्हणैर्वरैः ॥ २२६.४५॥
२२६.४६/१अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् ।
२२६.४६/२यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् ॥ २२६.४६॥
२२६.४७/१द्रष्टव्यस्तेन भगवान् वासुदेवः प्रतापवान् ।
२२६.४७/२दृष्टे तस्मिन्न् अहं दृष्टो न मेऽत्रास्ति विचारणा ॥ २२६.४७॥
२२६.४८/१पितामहो वासुदेव इति वित्त तपोधनाः ।
२२६.४८/२स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ॥ २२६.४८॥
२२६.४९/१तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति ।
२२६.४९/२यस्तु तं मानवो लोके संश्रयिष्यति केशवम् ॥ २२६.४९॥
२२६.५०/१तस्य कीर्तिर्यशश्चैव स्वर्गश्चैव भविष्यति ।
२२६.५०/२धर्माणां देशिकः साक्षाद् भविष्यति स धर्मवान् ॥ २२६.५०॥
२२६.५१/१धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः ।
२२६.५१/२धर्म एव सदा हि स्याद् अस्मिन्न् अभ्यर्चिते विभौ ॥ २२६.५१॥
२२६.५२/१स हि देवो महातेजाः प्रजाहितचिकीर्षया ।
२२६.५२/२धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च ॥ २२६.५२॥
२२६.५३/१ताः सृष्टास्तेन विधिना पर्वते गन्धमादने ।
२२६.५३/२सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः ॥ २२६.५३॥
२२६.५४/१तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः ।
२२६.५४/२वन्दितो हि स वन्देत मानितो मानयीत च ॥ २२६.५४॥
२२६.५५/१दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् ।
२२६.५५/२अर्चितश्चार्चयेन् नित्यं स देवो द्विजसत्तमाः ॥ २२६.५५॥
२२६.५६/१एवं तस्यानवद्यस्य विष्णोर्वै परमं तपः ।
२२६.५६/२आदिदेवस्य महतः सज्जनाचरितं सदा ॥ २२६.५६॥
२२६.५७/१भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः ।
२२६.५७/२अभयेनानुरूपेण प्रपद्य तमनुव्रताः ॥ २२६.५७॥
२२६.५८/१कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा ।
२२६.५८/२यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥ २२६.५८॥
२२६.५९/१एष वै विहितो मार्गो मया वै मुनिसत्तमाः ।
२२६.५९/२तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः ॥ २२६.५९॥
२२६.६०/१महावराहं तं देवं सर्वलोकपितामहम् ।
२२६.६०/२अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥ २२६.६०॥
२२६.६१/१तत्र च त्रितयं दृष्टं भविष्यति न संशयः ।
२२६.६१/२समस्ता हि वयं देवास्तस्य देहे वसामहे ॥ २२६.६१॥
२२६.६२/१तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः ।
२२६.६२/२हली बल इति ख्यातो भविष्यति धराधरः ॥ २२६.६२॥
२२६.६३/१त्रिशिरास्तस्य देवस्य दृष्टोऽनन्त इति प्रभोः ।
२२६.६३/२सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली ॥ २२६.६३॥
२२६.६४/१अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः ।
२२६.६४/२स च शेषो विचरते परया वै मुदा युतः ॥ २२६.६४॥
२२६.६५/१अन्तर्वसति भोगेन परिरभ्य वसुंधराम् ।
२२६.६५/२य एष विष्णुः सोऽनन्तो भगवान् वसुधाधरः ॥ २२६.६५॥
२२६.६६/१यो रामः स हृषीकेशोऽच्युतः सर्वधराधरः ।
२२६.६६/२तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ॥ २२६.६६॥
२२६.६७/१द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ ।
२२६.६७/२एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः ।
२२६.६७/३तद् भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ २२६.६७॥
२२७.१/१मुनय ऊचुः । अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्भुतम् ।
२२७.१/२सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ २२७.१॥
२२७.२/१सम्पूज्य विधिवद् भक्त्या वासुदेवं महामुने ।
२२७.२/२कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥ २२७.२॥
२२७.३/१किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने ।
२२७.३/२अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभयं फलम् ॥ २२७.३॥
२२७.४/१छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् ।
२२७.४/२छेत्ता नान्योऽस्ति लोकेऽस्मिंस्त्वदृते मुनिसत्तम ॥ २२७.४॥
२२७.५/१व्यास उवाच । साधु साधु मुनिश्रेष्ठा भवद्भिर्यद् उदाहृतम् ।
२२७.५/२शृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम् ॥ २२७.५॥
२२७.६/१दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै ।
२२७.६/२किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं द्विजाः ॥ २२७.६॥
२२७.७/१न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः ।
२२७.७/२लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान् ॥ २२७.७॥
२२७.८/१रत्नपर्वतमारुह्य नरो रत्नं यथाददेत् ।
२२७.८/२स्वेच्छया मुनिशार्दूलास्तथा कृष्णान् मनोरथान् ॥ २२७.८॥
२२७.९/१कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा ।
२२७.९/२गृह्णाति पुरुषो विप्रास्तथा कृष्णान् मनोरथान् ॥ २२७.९॥
२२७.१०/१श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् ।
२२७.१०/२धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥ २२७.१०॥
२२७.११/१आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना ।
२२७.११/२प्राप्नुवन्ति नराः कामान् सुराणामपि दुर्लभान् ॥ २२७.११॥
२२७.१२/१येऽर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम् ।
२२७.१२/२न तेषां दुर्लभं किंचिद् विद्यते भुवनत्रये ॥ २२७.१२॥
२२७.१३/१धन्यास्ते पुरुषा लोके येऽर्चयन्ति सदा हरिम् ।
२२७.१३/२सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ २२७.१३॥
२२७.१४/१ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ।
२२७.१४/२सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ २२७.१४॥
२२७.१५/१तस्माच्छृणुध्वं मुनयो यत् पृच्छत ममानघाः ।
२२७.१५/२प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥ २२७.१५॥
२२७.१६/१त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम् ।
२२७.१६/२जरामरणसंयुक्तं जलबुद्बुदसंनिभम् ॥ २२७.१६॥
२२७.१७/१मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम् ।
२२७.१७/२अस्थिस्थूणममेध्यं च स्नायुचर्मशिरान्वितम् ॥ २२७.१७॥
२२७.१८/१कामगेन विमानेन दिव्यगन्धर्वनादिना ।
२२७.१८/२तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥ २२७.१८॥
२२७.१९/१उपगीयमाना गन्धर्वैरप्सरोभिरलंकृताः ।
२२७.१९/२व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक् ॥ २२७.१९॥
२२७.२०/१मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् ।
२२७.२०/२भुवनानि पृथक् तेषां सर्वभोगैरलंकृताः ॥ २२७.२०॥
२२७.२१/१ततोऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् ।
२२७.२१/२तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः ॥ २२७.२१॥
२२७.२२/१तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः ।
२२७.२२/२विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥ २२७.२२॥
२२७.२३/१भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः ।
२२७.२३/२त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान् ॥ २२७.२३॥
२२७.२४/१तस्माद् व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम् ।
२२७.२४/२मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम् ॥ २२७.२४॥
२२७.२५/१कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः ।
२२७.२५/२तस्मान् नक्षत्रलोकं तु विमानैः समलंकृतम् ॥ २२७.२५॥
२२७.२६/१व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलंकृताः ।
२२७.२६/२मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान् ॥ २२७.२६॥
२२७.२७/१तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् ।
२२७.२७/२षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान् ॥ २२७.२७॥
२२७.२८/१भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान् ।
२२७.२८/२शक्रलोकं पुनस्तस्माद् गच्छन्ति सुरपूजिताः ॥ २२७.२८॥
२२७.२९/१मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् ।
२२७.२९/२भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान् ॥ २२७.२९॥
२२७.३०/१तस्माद् व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम् ।
२२७.३०/२भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान् ॥ २२७.३०॥
२२७.३१/१मन्वन्तरमशीतिं च कालं सर्वसुखप्रदम् ।
२२७.३१/२तस्मात् पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥ २२७.३१॥
२२७.३२/१मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् ।
२२७.३२/२इहागत्य पुनस्तस्माद् विप्राणां प्रवरे कुले ॥ २२७.३२॥
२२७.३३/१जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः ।
२२७.३३/२एवं सर्वेषु लोकेषु भुक्त्वा भोगान् यथेप्सितान् ॥ २२७.३३॥
२२७.३४/१इहागत्य पुनर्यान्ति उपर्युपरि च क्रमात् ।
२२७.३४/२सम्भवे सम्भवे ते तु शतवर्षं द्विजोत्तमाः ॥ २२७.३४॥
२२७.३५/१भुक्त्वा यथेप्सितान् भोगान् यान्ति लोकान्तरं ततः ।
२२७.३५/२दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥ २२७.३५॥
२२७.३६/१तदा लोकं हरेर्दिव्यं ब्रह्मलोकाद् व्रजन्ति ते ।
२२७.३६/२गत्वा तत्राक्षयान् भोगान् भुक्त्वा सर्वगुणान्वितान् ॥ २२७.३६॥
२२७.३७/१मन्वन्तरशतं यावज्जन्ममृत्युविवर्जिताः ।
२२७.३७/२गच्छन्ति भुवनं पश्चाद् वाराहस्य द्विजोत्तमाः ॥ २२७.३७॥
२२७.३८/१दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः ।
२२७.३८/२क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥ २२७.३८॥
२२७.३९/१दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः ।
२२७.३९/२तिष्ठन्ति शाश्वते भावे सर्वैर्देवैर्नमस्कृताः ॥ २२७.३९॥
२२७.४०/१ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः ।
२२७.४०/२क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च ॥ २२७.४०॥
२२७.४१/१तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् ।
२२७.४१/२क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च ॥ २२७.४१॥
२२७.४२/१ब्रह्मलोके पुनर्विप्रा गच्छन्ति साधकोत्तमाः ।
२२७.४२/२तत्र स्थित्वा चिरं कालं वर्षकोटिशतान् बहून् ॥ २२७.४२॥
२२७.४३/१नारायणपुरं यान्ति ततस्ते साधकेश्वराः ।
२२७.४३/२भुक्त्वा भोगांश्च विविधान् वर्षकोट्यर्बुदानि च ॥ २२७.४३॥
२२७.४४/१अनिरुद्धपुरं पश्चाद् दिव्यरूपा महाबलाः ।
२२७.४४/२गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥ २२७.४४॥
२२७.४५/१तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश ।
२२७.४५/२तिष्ठन्ति वैष्णवास्तत्र जरामरणवर्जिताः ॥ २२७.४५॥
२२७.४६/१प्रद्युम्नस्य पुरं पश्चाद् गच्छन्ति विगतज्वराः ।
२२७.४६/२तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥ २२७.४६॥
२२७.४७/१स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः ।
२२७.४७/२गच्छन्ति योगिनः पश्चाद् यत्र संकर्षणः प्रभुः ॥ २२७.४७॥
२२७.४८/१तत्रोषित्वा चिरं कालं भुक्त्वा भोगान् सहस्रशः ।
२२७.४८/२विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने ॥ २२७.४८॥
२२७.४९/१विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते ।
२२७.४९/२तत्र गत्वा विमुक्तास्ते भवेयुर्नात्र संशयः ॥ २२७.४९॥
२२७.५०/१एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः ।
२२७.५०/२मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः ॥ २२७.५०॥
२२८.१/१व्यास उवाच । एकादश्यामुभे पक्षे निराहारः समाहितः ।
२२८.१/२स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ॥ २२८.१॥
२२८.२/१सम्पूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः ।
२२८.२/२पुष्पैर्गन्धैस्तथा दीपैर्धूपैर्नैवेद्यकैस्तथा ॥ २२८.२॥
२२८.३/१उपहारैर्बहुविधैर्जप्यैर्होमप्रदक्षिणैः ।
२२८.३/२स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥ २२८.३॥
२२८.४/१दण्डवत्प्रणिपातैश्च जयशब्दैस्तथोत्तमैः ।
२२८.४/२एवं सम्पूज्य विधिवद् रात्रौ कृत्वा प्रजागरम् ॥ २२८.४॥
२२८.५/१कथां वा गीतिकां विष्णोर्गायन् विष्णुपरायणः ।
२२८.५/२याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥ २२८.५॥
२२८.६/१मुनय ऊचुः । प्रजागरे गीतिकायाः फलं विष्णोर्महामुने ।
२२८.६/२ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२८.६॥
२२८.७/१व्यास उवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः ।
२२८.७/२गीतिकायाः फलं विष्णोर्जागरे यद् उदाहृतम् ॥ २२८.७॥
२२८.८/१अवन्ती नाम नगरी बभूव भुवि विश्रुता ।
२२८.८/२तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः ॥ २२८.८॥
२२८.९/१तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः ।
२२८.९/२सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥ २२८.९॥
२२८.१०/१विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः ।
२२८.१०/२एकादश्यां समागम्य सोपवासोऽथ गायति ॥ २२८.१०॥
२२८.११/१गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः ।
२२८.११/२गान्धारषड्जनैषाद+ ।स्वरपञ्चमधैवतैः ॥ २२८.११॥
२२८.१२/१रात्रिजागरणे विष्णुं गाथाभिरुपगायति ।
२२८.१२/२प्रभाते च प्रणम्येशं द्वादश्यां गृहमेत्य च ॥ २२८.१२॥
२२८.१३/१जामातृभागिनेयांश्च भोजयित्वा सकन्यकाः ।
२२८.१३/२ततः सपरिवारस्तु पश्चाद् भुङ्क्ते द्विजोत्तमाः ॥ २२८.१३॥
२२८.१४/१एवं तस्यासतस्तत्र कुर्वतो विष्णुप्रीणनम् ।
२२८.१४/२गीतिकाभिर्विचित्राभिर्वयः प्रतिगतं बहु ॥ २२८.१४॥
२२८.१५/१एकदा चैत्रमासे तु कृष्णैकादशिगोचरे ।
२२८.१५/२विष्णुशुश्रूषणार्थाय ययौ वनमनुत्तमम् ॥ २२८.१५॥
२२८.१६/१वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः ।
२२८.१६/२क्षिप्रातटे महारण्ये विभीतकतरोरधः ॥ २२८.१६॥
२२८.१७/१दृष्टः स राक्षसेनाथ गृहीतश्चापि भक्षितुम् ।
२२८.१७/२चाण्डालस्तमथोवाच नाद्य भक्ष्यस्त्वया ह्यहम् ॥ २२८.१७॥
२२८.१८/१प्रातर्भोक्ष्यसि कल्याण सत्यमेष्याम्यहं पुनः ।
२२८.१८/२अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस ॥ २२८.१८॥
२२८.१९/१श्वः सत्येन समेष्यामि ततः खादसि मामिति ।
२२८.१९/२विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया ।
२२८.१९/३कार्यं न व्रतविघ्नं मे कर्तुमर्हसि राक्षस ॥ २२८.१९॥
२२८.२०/१व्यास उवाच । तं राक्षसः प्रत्युवाच दशरात्रमभोजनम् ।
२२८.२०/२ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज ॥ २२८.२०॥
२२८.२१/१न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् ।
२२८.२१/२निशाचरवचः श्रुत्वा मातङ्गस्तमुवाच ह ।
२२८.२१/३सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर्दृढैः ॥ २२८.२१॥
२२८.२२/१मातङ्ग उवाच । सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच्छृणु ।
२२८.२२/२सत्येनाहं शपिष्यामि पुनरागमनाय च ॥ २२८.२२॥
२२८.२३/१आदित्यश्चन्द्रमा वह्निर्वायुर्भूर्द्यौर्जलं मनः ।
२२८.२३/२अहोरात्रं यमः संध्ये द्वे विदुर्नरचेष्टितम् ॥ २२८.२३॥
२२८.२४/१परदारेषु यत् पापं यत् परद्रव्यहारिषु ।
२२८.२४/२यच्च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥ २२८.२४॥
२२८.२५/१वन्ध्यापतेश्च यत् पापं यत् पापं वृषलीपतेः ।
२२८.२५/२यच्च देवलके पापं मत्स्यमांसाशिनश्च यत् ॥ २२८.२५॥
२२८.२६/१क्रोडमांसाशिनो यच्च कूर्ममांसाशिनश्च यत् ।
२२८.२६/२वृथा मांसाशिनो यच्च पृष्ठमांसाशिनश्च यत् ॥ २२८.२६॥
२२८.२७/१कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ ।
२२८.२७/२सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः ॥ २२८.२७॥
२२८.२८/१कृपणस्य च यत् पापं यच्च वन्ध्यातिथेरपि ।
२२८.२८/२अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥ २२८.२८॥
२२८.२९/१तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम् ।
२२८.२९/२रजस्वलां तथा पश्चाच्छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ २२८.२९॥
२२८.३०/१सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने ।
२२८.३०/२मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च ॥ २२८.३०॥
२२८.३१/१दम्भमायानुरक्ते च यत् पापं मधुघातिनः ।
२२८.३१/२ब्राह्मणस्य प्रतिश्रुत्य यत् पापं तदयच्छतः ॥ २२८.३१॥
२२८.३२/१यच्च कन्यानृते पापं यच्च गोश्वतरानृते ।
२२८.३२/२स्त्रीबालहन्तुर्यत् पापं यच्च मिथ्याभिभाषिणः ॥ २२८.३२॥
२२८.३३/१देववेदद्विजनृप+ ।पुत्रमित्रसतीस्त्रियः ।
२२८.३३/२यच्च निन्दयतां पापं गुरुमिथ्यापचारतः ॥ २२८.३३॥
२२८.३४/१अग्नित्यागिषु यत् पापमग्निदायिषु यद् वने ।
२२८.३४/२गृहेष्ट्या पातके यच्च यद् गोघ्ने यद् द्विजाधमे ॥ २२८.३४॥
२२८.३५/१यत् पापं परिवित्ते च यत् पापं परिवेदिनः ।
२२८.३५/२तयोर्दातृग्रहीत्रोश्च यत् पापं भ्रूणघातिनः ॥ २२८.३५॥
२२८.३६/१किं चात्र बहुभिः प्रोक्तैः शपथैस्तव राक्षस ।
२२८.३६/२श्रूयतां शपथं भीमं दुर्वाच्यमपि कथ्यते ॥ २२८.३६॥
२२८.३७/१स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः ।
२२८.३७/२अयाज्ययाजके षण्ढे यत् पापं श्रवणेऽधमे ॥ २२८.३७॥
२२८.३८/१प्रव्रज्यावसिते यच्च ब्रह्मचारिणि कामुके ।
२२८.३८/२एतैस्तु पापैर्लिप्येऽहं यदि नैष्यामि तेऽन्तिकम् ॥ २२८.३८॥
२२८.३९/१व्यास उवाच । मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः ।
२२८.३९/२प्राह गच्छस्व सत्येन समयं चैव पालय ॥ २२८.३९॥
२२८.४०/१इत्युक्तः कुणपाशेन श्वपाकः कुसुमानि तु ।
२२८.४०/२समादायागमच्चैव विष्णोः स निलयं गतः ॥ २२८.४०॥
२२८.४१/१तानि प्रादाद् ब्राह्मणाय सोऽपि प्रक्षाल्य चाम्भसा ।
२२८.४१/२विष्णुमभ्यर्च्य निलयं जगाम स तपोधनाः ॥ २२८.४१॥
२२८.४२/१सोऽपि मातङ्गदायादः सोपवासस्तु तां निशाम् ।
२२८.४२/२गायन् हि बाह्यभूमिष्ठः प्रजागरमुपाकरोत् ॥ २२८.४२॥
२२८.४३/१प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च ।
२२८.४३/२सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥ २२८.४३॥
२२८.४४/१तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि ।
२२८.४४/२स तथाकथयत् सर्वं सोऽप्येनं पुनरब्रवीत् ॥ २२८.४४॥
२२८.४५/१धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।
२२८.४५/२महता तु प्रयत्नेन शरीरं पालयेद् बुधः ॥ २२८.४५॥
२२८.४६/१जीवधर्मार्थसुखम् ।
२२८.४६/२नरस्तथाप्नोति मोक्षगतिमग्र्याम् ।
२२८.४६/३जीवन् कीर्तिमुपैति च ।
२२८.४६/४भवति मृतस्य का कथा लोके ॥ २२८.४६॥
२२८.४७/१मातङ्गस्तद् वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥ २२८.४७॥
२२८.४८/१मातङ्ग उवाच । भद्र सत्यं पुरस्कृत्य गच्छामि
शपथाः कृताः ॥ २२८.४८॥
२२८.४९/१व्यास उवाच । तं भूयः प्रत्युवाचाथ किमेवं मूढधीर्भवान् ।
२२८.४९/२किं न श्रुतं त्वया साधो मनुना यद् उदीरितम् ॥ २२८.४९॥
२२८.५०/१गोस्त्रीद्विजानां परिरक्षणार्थम् ।
२२८.५०/२विवाहकाले सुरतप्रसङ्गे ।
२२८.५०/३प्राणात्यये सर्वधनापहारे ।
२२८.५०/४पञ्चानृतान्याहुरपातकानि ॥ २२८.५०॥
२२८.५१/१धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ ।
२२८.५१/२वञ्चने चार्थहानौ च स्वनाशेऽनृतके तथा ।
२२८.५१/३एवं तद् वाक्यमाकर्ण्य मातङ्गः प्रत्युवाच ह ॥ २२८.५१॥
२२८.५२/१मातङ्ग उवाच । मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते ।
२२८.५२/२सत्येनावाप्यते सौख्यं यत् किंचिज्जगतीगतम् ॥ २२८.५२॥
२२८.५३/१सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः ।
२२८.५३/२ज्वलत्यग्निश्च सत्येन वाति सत्येन मारुतः ॥ २२८.५३॥
२२८.५४/१धर्मार्थकामसम्प्राप्तिर्मोक्षप्राप्तिश्च दुर्लभा ।
२२८.५४/२सत्येन जायते पुंसां तस्मात् सत्यं न संत्यजेत् ॥ २२८.५४॥
२२८.५५/१सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् ।
२२८.५५/२सत्यं स्वर्गसमायातं तस्मात् सत्यं न संत्यजेत् ॥ २२८.५५॥
२२८.५६/१व्यास उवाच । इत्युक्त्वा सोऽथ मातङ्गस्तं प्रक्षिप्य नरोत्तमम् ।
२२८.५६/२जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः ॥ २२८.५६॥
२२८.५७/१तमागतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः ।
२२८.५७/२विस्मयोत्फुल्लनयनः शिरःकम्पं तमब्रवीत् ॥ २२८.५७॥
२२८.५८/१ब्रह्मराक्षस उवाच । साधु साधु महाभाग सत्यवाक्यानुपालक ।
२२८.५८/२न मातङ्गमहं मन्ये भवन्तं सत्यलक्षणम् ॥ २२८.५८॥
२२८.५९/१कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिमव्ययम् ।
२२८.५९/२यत् किंचित् त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् ।
२२८.५९/३किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥ २२८.५९॥
२२८.६०/१व्यास उवाच । तमभ्युवाच मातङ्गः शृणु विष्णुगृहे मया ।
२२८.६०/२यत् कृतं रजनीभागे यथातथ्यं वदामि ते ॥ २२८.६०॥
२२८.६१/१विष्णोर्देवकुलस्याधः स्थितेनानम्रमूर्तिना ।
२२८.६१/२प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥ २२८.६१॥
२२८.६२/१तं ब्रह्मराक्षसः प्राह कियन्तं कालमुच्यताम् ।
२२८.६२/२प्रजागरो विष्णुगृहे कृतं भक्तिमता वद ॥ २२८.६२॥
२२८.६३/१तमभ्युवाच प्रहसन् विंशत्यब्दानि राक्षस ।
२२८.६३/२एकादश्यां मासि मासि कृतस्तत्र प्रजागरः ।
२२८.६३/३मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥ २२८.६३॥
२२८.६४/१ब्रह्मराक्षस उवाच । यद् अद्य त्वां प्रवक्ष्यामि तद् भवान् वक्तुमर्हति ।
२२८.६४/२एकरात्रिकृतं साधो मम देहि प्रजागरम् ॥ २२८.६४॥
२२८.६५/१एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा ।
२२८.६५/२त्रिः सत्येन महाभाग इत्युक्त्वा विरराम ह ॥ २२८.६५॥
२२८.६६/१व्यास उवाच । मातङ्गस्तमुवाचाथ मयात्मा ते निशाचर ।
२२८.६६/२निवेदितः किमुक्तेन खादस्व स्वेच्छयापि माम् ॥ २२८.६६॥
२२८.६७/१तमाह राक्षसो भूयो यामद्वयप्रजागरम् ।
२२८.६७/२सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वमर्हसि ॥ २२८.६७॥
२२८.६८/१मातङ्गो राक्षसं प्राह किमसम्बद्धमुच्यते ।
२२८.६८/२खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् ।
२२८.६८/३मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥ २२८.६८॥
२२८.६९/१ब्रह्मराक्षस उवाच । को हि दुष्टमतिर्मन्दो भवन्तं द्रष्टुमुत्सहेत् ।
२२८.६९/२धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥ २२८.६९॥
२२८.७०/१दीनस्य पापग्रस्तस्य विषयैर्मोहितस्य च ।
२२८.७०/२नरकार्तस्य मूढस्य साधवः स्युर्दयान्विताः ॥ २२८.७०॥
२२८.७१/१तन् मम त्वं महाभाग कृपां कृत्वा प्रजागरम् ।
२२८.७१/२यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥ २२८.७१॥
२२८.७२/१व्यास उवाच । तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् ।
२२८.७२/२न चापि तव दास्यामि कथंचिद् यामजागरम् ।
२२८.७२/३तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥ २२८.७२॥
२२८.७३/१ब्रह्मराक्षस उवाच । रात्र्यवसाने या गीता गीतिका कौतुकाश्रया ।
२२८.७३/२तस्याः फलं प्रयच्छस्व त्राहि पापात् समुद्धर ॥ २२८.७३॥
२२८.७४/१व्यास उवाच । एवमुच्चारिते तेन मातङ्गस्तमुवाच ह ॥ २२८.७४॥
२२८.७५/१मातङ्ग उवाच । किं पूर्वं भवता कर्म विकृतं कृतमञ्जसा ।
२२८.७५/२येन त्वं दोषजातेन सम्भूतो ब्रह्मराक्षसः ॥ २२८.७५॥
२२८.७६/१व्यास उवाच । तस्य तद् वाक्यमाकर्ण्य मातङ्गं ब्रह्मराक्षसः ।
२२८.७६/२प्रोवाच दुःखसंतप्तः संस्मृत्य स्वकृतं कृतम् ॥ २२८.७६॥
२२८.७७/१ब्रह्मराक्षस उवाच । श्रूयतां योऽहमासं वै पूर्वं
यच्च मया कृतम् ।
२२८.७७/२यस्मिन् कृते पापयोनिं गतवान् अस्मि राक्षसीम् ॥ २२८.७७॥
२२८.७८/१सोमशर्म इति ख्यातः पूर्वमासमहं द्विजः ।
२२८.७८/२पुत्रोऽध्ययनशीलस्य देवशर्मस्य यज्वनः ॥ २२८.७८॥
२२८.७९/१कस्यचिद् यजमानस्य सूत्रमन्त्रबहिष्कृतः ।
२२८.७९/२नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥ २२८.७९॥
२२८.८०/१आग्नीध्रं चाकरोद् यज्ञे लोभमोहप्रपीडितः ।
२२८.८०/२तस्मिन् परिसमाप्ते तु मौर्ख्याद् दम्भमनुष्ठितः ॥ २२८.८०॥
२२८.८१/१यष्टुमारब्धवान् अस्मि द्वादशाहं महाक्रतुम् ।
२२८.८१/२प्रवर्तमाने तस्मिंस्तु कुक्षिशूलोऽभवन् मम ॥ २२८.८१॥
२२८.८२/१सम्पूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ ।
२२८.८२/२विरूपाक्षस्य दीयन्त्यामाहुत्यां राक्षसे क्षणे ॥ २२८.८२॥
२२८.८३/१मृतोऽहं तेन दोषेण सम्भूतो ब्रह्मराक्षसः ।
२२८.८३/२मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥ २२८.८३॥
२२८.८४/१अजानता यज्ञविद्यां यद् इष्टं याजितं च यत् ।
२२८.८४/२तेन कर्मविपाकेन सम्भूतो ब्रह्मराक्षसः ॥ २२८.८४॥
२२८.८५/१तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर ।
२२८.८५/२प्रजागरे गीतिकैकां पश्चिमां दातुमर्हसि ॥ २२८.८५॥
२२८.८६/१व्यास उवाच । तमुवाचाथ चाण्डालो यदि प्राणिवधाद् भवान् ।
२२८.८६/२निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥ २२८.८६॥
२२८.८७/१बाढमित्यवदत् सोऽपि मातङ्गोऽपि ददौ तदा ।
२२८.८७/२गीतिकाफलमामन्त्र्य मुहूर्तार्धप्रजागरम् ॥ २२८.८७॥
२२८.८८/१तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः ।
२२८.८८/२प्रणम्य प्रययौ हृष्टस्तीर्थवर्यं पृथूदकम् ॥ २२८.८८॥
२२८.८९/१तत्रानशनसंकल्पं कृत्वा प्राणाञ् जहौ द्विजाः ।
२२८.८९/२राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः ॥ २२८.८९॥
२२८.९०/१पृथूदकप्रभावाच्च ब्रह्मलोकं च दुर्लभम् ।
२२८.९०/२दश वर्षसहस्राणि निरातङ्कोऽवसत् ततः ॥ २२८.९०॥
२२८.९१/१तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी ।
२२८.९१/२तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥ २२८.९१॥
२२८.९२/१मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम ।
२२८.९२/२राक्षसे तु गते धीमान् गृहमेत्य यतात्मवान् ॥ २२८.९२॥
२२८.९३/१तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिरप्यसौ ।
२२८.९३/२पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥ २२८.९३॥
२२८.९४/१कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम् ।
२२८.९४/२दृष्ट्वा स्कन्दं ययौ धारा+ ॅहक्रे चापि प्रदक्षिणम् ॥ २२८.९४॥
२२८.९५/१ततोऽद्रिवरमागम्य विन्ध्यमुच्चशिलोच्चयम् ।
२२८.९५/२पापप्रमोचनं तीर्थमाससाद स तु द्विजाः ॥ २२८.९५॥
२२८.९६/१स्नानं पापहरं चक्रे स तु चाण्डालवंशजः ।
२२८.९६/२विमुक्तपापः सस्मार पूर्वजातीरनेकशः ॥ २२८.९६॥
२२८.९७/१स पूर्वजन्मन्यभवद् भिक्षुः संयतवाङ्मनाः ।
२२८.९७/२यतकायश्च मतिमान् वेदवेदाङ्गपारगः ॥ २२८.९७॥
२२८.९८/१एकदा गोषु नगराद् ध्रियमाणासु तस्करैः ।
२२८.९८/२भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥ २२८.९८॥
२२८.९९/१स तेनाधर्मदोषेण चाण्डालीं योनिमागतः ।
२२८.९९/२पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥ २२८.९९॥
२२८.१००/१मूर्खोऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः ।
२२८.१००/२तत्रास्य वसतोऽब्दैस्तु त्रिंशद्भिः सिद्धपूरुषः ॥ २२८.१००॥
२२८.१०१/१विरूपरूपी बभ्राम योगमालाबलान्वितः ।
२२८.१०१/२तं दृष्ट्वा सोपहासार्थमभिवाद्याभ्युवाच ह ॥ २२८.१०१॥
२२८.१०२/१कुशलं सिद्धपुरुषं कुतस्त्वागम्यते त्वया ॥ २२८.१०२॥
२२८.१०३/१व्यास उवाच । एवं सम्भाषितस्तेन ज्ञातोऽहमिति चिन्त्य तु ।
२२८.१०३/२प्रत्युवाचाथ वन्द्यस्तं स्वर्गलोकाद् उपागतः ॥ २२८.१०३॥
२२८.१०४/१तं सिद्धं प्राह मूर्खोऽसौ किं त्वं वेत्सि त्रिविष्टपे ।
२२८.१०४/२नारायणोरुप्रभवामुर्वशीमप्सरोवराम् ॥ २२८.१०४॥
२२८.१०५/१सिद्धस्तमाह तां वेद्मि शक्रचामरधारिणीम् ।
२२८.१०५/२स्वर्गस्याभरणं मुख्यमुर्वशीं साधुसम्भवाम् ॥ २२८.१०५॥
२२८.१०६/१विप्रः सिद्धमुवाचाथ ऋजुमार्गविवर्जितः ।
२२८.१०६/२तन् मित्र मत्कृते वार्त्तामुर्वश्या भवतादरात् ॥ २२८.१०६॥
२२८.१०७/१कथनीया यच्च सा ते ब्रूयाद् आख्यास्यते भवान् ।
२२८.१०७/२बाढमित्यब्रवीत् सिद्धः सोऽपि विप्रो मुदान्वितः ॥ २२८.१०७॥
२२८.१०८/१बभूव सिद्धोऽपि ययौ मेरुपृष्ठं सुरालयम् ।
२२८.१०८/२समेत्य चोर्वशीं प्राह यद् उक्तोऽसौ द्विजेन तु ॥ २२८.१०८॥
२२८.१०९/१सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् ।
२२८.१०९/२जानामि सत्यमुक्तं ते न चेतसि मम स्थितम् ॥ २२८.१०९॥
२२८.११०/१इत्युक्तः प्रययौ सोऽपि कालेन बहुना पुनः ।
२२८.११०/२वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥ २२८.११०॥
२२८.१११/१दृष्टः पृष्टः किल भूयः किमाहोरुभवा तव ।
२२८.१११/२सिद्धोऽब्रवीन् न जानामि मामुवाचोर्वशी स्वयम् ॥ २२८.१११॥
२२८.११२/१सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसम्पुटः ।
२२८.११२/२पुनः प्राह कथं वेत्सीत्येवं वाच्या त्वयोर्वशी ॥ २२८.११२॥
२२८.११३/१बाढमेवं करिष्यामीत्युक्त्वा सिद्धो दिवं गतः ।
२२८.११३/२ददर्श शक्रभवनान् निष्क्रामन्तीमथोर्वशीम् ॥ २२८.११३॥
२२८.११४/१प्रोवाच तां सिद्धवरः सा च तं सिद्धमब्रवीत् ।
२२८.११४/२नियमं कंचिद् अपि हि करोतु द्विजसत्तमः ॥ २२८.११४॥
२२८.११५/१येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा ।
२२८.११५/२तद् उर्वशीवचोऽभ्येत्य तस्मै मूर्खद्विजाय तु ॥ २२८.११५॥
२२८.११६/१कथयामास सिद्धस्तु सोऽपीमं नियमं जगौ ।
२२८.११६/२तवाग्रे सिद्धपुरुष नियमोऽयं कृतो मया ॥ २२८.११६॥
२२८.११७/१न भोक्ष्येऽद्यप्रभृति वै शकटं सत्यमीरितम् ।
२२८.११७/२इत्युक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीमथ ॥ २२८.११७॥
२२८.११८/१प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् ।
२२८.११८/२तं सिद्धमुर्वशी प्राह ज्ञातोऽसौ साम्प्रतं मया ॥ २२८.११८॥
२२८.११९/१नियमग्रहणाद् एव मूर्खो मामुपहासकः ।
२२८.११९/२इत्युक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥ २२८.११९॥
२२८.१२०/१सिद्धोऽपि विचचारासौ कामचारी महीतलम् ।
२२८.१२०/२उर्वश्यपि वरारोहा गत्वा वाराणसीं पुरीम् ॥ २२८.१२०॥
२२८.१२१/१मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा ।
२२८.१२१/२अथासावपि मूर्खस्तु नदीं मत्स्योदरीं मुने ॥ २२८.१२१॥
२२८.१२२/१जगामाथ ददर्शासौ स्नायमानामथोर्वशीम् ।
२२८.१२२/२तां दृष्ट्वा ववृधेऽथास्य मन्मथः क्षोभकृद्
दृढम् ॥ २२८.१२२॥
२२८.१२३/१चकार मूर्खश्चेष्टाश्च तं विवेदोर्वशी स्वयम् ।
२२८.१२३/२तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितमाह तम् ॥ २२८.१२३॥
२२८.१२४/१उर्वश्युवाच । किमिच्छसि महाभाग मत्तः शीघ्रमिहोच्यताम् ।
२२८.१२४/२करिष्यामि वचस्तुभ्यं त्वं विश्रब्धं करिष्यसि ॥ २२८.१२४॥
२२८.१२५/१मूर्खब्राह्मण उवाच । आत्मप्रदानेन मम प्राणान् रक्ष
शुचिस्मिते ॥ २२८.१२५॥
२२८.१२६/१व्यास उवाच । तं प्राहाथोर्वशी विप्रं नियमस्थास्मि साम्प्रतम् ।
२२८.१२६/२त्वं तिष्ठस्व क्षणमथ प्रतीक्षस्वागतं मम ॥ २२८.१२६॥
२२८.१२७/१स्थितोऽस्मीत्यब्रवीद् विप्रः सापि स्वर्गं जगाम ह ।
२२८.१२७/२मासमात्रेण सायाता ददर्श तं कृशं द्विजम् ॥ २२८.१२७॥
२२८.१२८/१स्थितं मासं नदीतीरे निराहारं सुराङ्गना ।
२२८.१२८/२तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस्ततः ॥ २२८.१२८॥
२२८.१२९/१सा चकार नदीतीरे शकटं शर्करावृतम् ।
२२८.१२९/२घृतेन मधुना चैव नदीं मत्स्योदरीं गता ॥ २२८.१२९॥
२२८.१३०/१स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः ।
२२८.१३०/२तं ब्राह्मणं समाहूय वाक्यमाह सुलोचना ॥ २२८.१३०॥
२२८.१३१/१उर्वश्युवाच । मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् ।
२२८.१३१/२व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥ २२८.१३१॥
२२८.१३२/१व्यास उवाच । स प्राह किमिदं लोके दीयते शर्करावृतम् ।
२२८.१३२/२क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥ २२८.१३२॥
२२८.१३३/१सा प्राह शकटो विप्र शर्करापिष्टसंयुतः ।
२२८.१३३/२इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥ २२८.१३३॥
२२८.१३४/१स तच्छ्रुत्वाथ संस्मृत्य क्षुधया पीडितोऽपि सन् ।
२२८.१३४/२प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥ २२८.१३४॥
२२८.१३५/१पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्विति ।
२२८.१३५/२परिज्ञानार्थमुर्वश्या ददस्वान्यस्य कस्यचित् ॥ २२८.१३५॥
२२८.१३६/१साब्रवीन् नियमो भद्र कृतः काष्ठमये त्वया ।
२२८.१३६/२नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥ २२८.१३६॥
२२८.१३७/१तां ब्राह्मणः प्रत्युवाच न मया तद् विशेषणम् ।
२२८.१३७/२कृतं भद्रेऽथ नियमः सामान्येनैव मे कृतः ॥ २२८.१३७॥
२२८.१३८/१तं भूयः प्राह सा तन्वी न चेद् भोक्ष्यसि ब्राह्मण ।
२२८.१३८/२गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥ २२८.१३८॥
२२८.१३९/१स तामुवाच सुदति न तावद् यामि मन्दिरम् ।
२२८.१३९/२इहायाता वरारोहा त्रैलोक्येऽप्यधिका गुणैः ॥ २२८.१३९॥
२२८.१४०/१सा मया मदनार्तेन प्रार्थिताश्वासितस्तया ।
२२८.१४०/२स्थीयतां क्षणमित्येवं स्थास्यामीति मयोदितम् ॥ २२८.१४०॥
२२८.१४१/१मासमात्रं गतायास्तु तस्या भद्रे स्थितस्य च ।
२२८.१४१/२मम सत्यानुरक्तस्य संगमाय धृतव्रते ॥ २२८.१४१॥
२२८.१४२/१तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपमुत्तमम् ।
२२८.१४२/२विहस्य भावगम्भीरमुर्वशी प्राह तं द्विजम् ॥ २२८.१४२॥
२२८.१४३/१उर्वश्युवाच । साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा ।
२२८.१४३/२निष्पादितं हठाद् एव मम दर्शनमिच्छता ॥ २२८.१४३॥
२२८.१४४/१अहमेवोर्वशी विप्र त्वां जिज्ञासार्थमागता ।
२२८.१४४/२परीक्षितो निश्चितवान् भवान् सत्यतपा ऋषिः ॥ २२८.१४४॥
२२८.१४५/१गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् ।
२२८.१४५/२सिद्धिं यास्यसि विप्रेन्द्र ततस्त्वं मामवाप्स्यसि ॥ २२८.१४५॥
२२८.१४६/१व्यास उवाच । इत्युक्त्वा दिवमुत्पत्य सा जगामोर्वशी द्विजाः ।
२२८.१४६/२स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥ २२८.१४६॥
२२८.१४७/१तत्र शान्तिपरो भूत्वा नियमव्रतधृक् शुचिः ।
२२८.१४७/२देहोत्सर्गे जगामासौ गान्धर्वं लोकमुत्तमम् ॥ २२८.१४७॥
२२८.१४८/१तत्र मन्वन्तरशतं भोगान् भुक्त्वा यथार्थतः ।
२२८.१४८/२बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥ २२८.१४८॥
२२८.१४९/१स यज्वा विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।
२२८.१४९/२पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥ २२८.१४९॥
२२८.१५०/१रूपतीर्थे मृतो भूयः शक्रलोकमुपागतः ।
२२८.१५०/२तत्र मन्वन्तरशतं भोगान् भुक्त्वा ततश्च्युतः ॥ २२८.१५०॥
२२८.१५१/१प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः ।
२२८.१५१/२बभूव तत्र चोर्वश्याः संगमाय तपोधनाः ॥ २२८.१५१॥
२२८.१५२/१एवं पुरा सत्यतपा द्विजातिस्- ।
२२८.१५२/२तीर्थे प्रसिद्धे स हि रूपसंज्ञे ।
२२८.१५२/३आराध्य जन्मन्यथ चार्च्य विष्णुम् ।
२२८.१५२/४अवाप्य भोगान् अथ मुक्तिमेति ॥ २२८.१५२॥
२२९.१/१मुनय ऊचुः । श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे ।
२२९.१/२कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम् ॥ २२९.१॥
२२९.२/१यथा विष्णौ भवेद् भक्तिस्तन् नो ब्रूहि महामते ।
२२९.२/२तपसा कर्मणा येन श्रोतुमिच्छाम साम्प्रतम् ॥ २२९.२॥
२२९.३/१व्यास उवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः ।
२२९.३/२यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला ॥ २२९.३॥
२२९.४/१संसारेऽस्मिन् महाघोरे सर्वभूतभयावहे ।
२२९.४/२महामोहकरे नृणां नानादुःखशताकुले ॥ २२९.४॥
२२९.५/१तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः ।
२२९.५/२कथंचिल्लभते जन्म देही मानुष्यकं द्विजाः ॥ २२९.५॥
२२९.६/१मानुषत्वेऽपि विप्रत्वं विप्रत्वेऽपि विवेकिता ।
२२९.६/२विवेकाद् धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः ॥ २२९.६॥
२२९.७/१यावत् पापक्षयं पुंसां न भवेज्जन्म संचितम् ।
२२९.७/२तावन् न जायते भक्तिर्वासुदेवे जगन्मये ॥ २२९.७॥
२२९.८/१तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् ।
२२९.८/२अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥ २२९.८॥
२२९.९/१कर्मणा मनसा वाचा तद्गतेनान्तरात्मना ।
२२९.९/२तेन तस्य भवेद् भक्तिर्यजने मुनिसत्तमाः ॥ २२९.९॥
२२९.१०/१स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः ।
२२९.१०/२तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे ॥ २२९.१०॥
२२९.११/१पूजां करोति सततमादित्यस्य ततो द्विजाः ।
२२९.११/२प्रसन्ने भास्करे तस्य भक्तिर्भवति शंकरे ॥ २२९.११॥
२२९.१२/१पूजां करोति विधिवत् स तु शम्भोः प्रयत्नतः ।
२२९.१२/२तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे ॥ २२९.१२॥
२२९.१३/१सम्पूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् ।
२२९.१३/२ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥ २२९.१३॥
२२९.१४/१मुनय ऊचुः । अवैष्णवा नरा ये तु दृश्यन्ते च महामुने ।
२२९.१४/२किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥ २२९.१४॥
२२९.१५/१व्यास उवाच । द्वौ भूतसर्गौ विख्यातौ लोकेऽस्मिन् मुनिसत्तमाः ।
२२९.१५/२आसुरश्च तथा दैवः पुरा सृष्टः स्वयम्भुवा ॥ २२९.१५॥
२२९.१६/१दैवीं प्रकृतिमासाद्य पूजयन्ति ततोऽच्युतम् ।
२२९.१६/२आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम् ॥ २२९.१६॥
२२९.१७/१मायया हतविज्ञाना विष्णोस्ते तु नराधमाः ।
२२९.१७/२अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम् ॥ २२९.१७॥
२२९.१८/१तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः ।
२२९.१८/२महामोहकरी नृणां दुस्तरा चाकृतात्मभिः ॥ २२९.१८॥
२२९.१९/१मुनय ऊचुः । इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् ।
२२९.१९/२वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥ २२९.१९॥
२२९.२०/१व्यास उवाच । स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी ।
२२९.२०/२कः शक्नोति हरेर्मायां ज्ञातुं तां केशवाद् ऋते ॥ २२९.२०॥
२२९.२१/१या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च ।
२२९.२१/२विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम ॥ २२९.२१॥
२२९.२२/१प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः ।
२२९.२२/२नगरे कामदमनस्तस्याथ तनयः शुचिः ॥ २२९.२२॥
२२९.२३/१धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः ।
२२९.२३/२प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥ २२९.२३॥
२२९.२४/१पितास्य त्वकरोद् यत्नं विवाहाय न चैच्छत ।
२२९.२४/२तं पिता प्राह किमिति नेच्छसे दारसंग्रहम् ॥ २२९.२४॥
२२९.२५/१सर्वमेतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल ।
२२९.२५/२सुखमूला हि दाराश्च तस्मात् तं त्वं समाचर ॥ २२९.२५॥
२२९.२६/१स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात् ।
२२९.२६/२मुहुर्मुहुस्तं च पिता चोदयामास भो द्विजाः ॥ २२९.२६॥
२२९.२७/१अथासौ पितरं प्राह तात नामानुरूपता ।
२२९.२७/२मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥ २२९.२७॥
२२९.२८/१तं पिता प्राह संगम्य नैष धर्मोऽस्ति पुत्रक ।
२२९.२८/२न विधारयितव्या स्यात् पुरुषेण विपश्चिता ॥ २२९.२८॥
२२९.२९/१कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव ।
२२९.२९/२मा निमज्ज कुलं मह्यं नरके संततिक्षयात् ॥ २२९.२९॥
२२९.३०/१स हि तं पितुरादेशं श्रुत्वा प्राह सुतो वशी ।
२२९.३०/२प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥ २२९.३०॥
२२९.३१/१पुत्र उवाच । शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् ।
२२९.३१/२नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥ २२९.३१॥
२२९.३२/१मया जन्मसहस्राणि जरामृत्युशतानि च ।
२२९.३२/२प्राप्तानि दारसंयोग+ ।वियोगानि च सर्वशः ॥ २२९.३२॥
२२९.३३/१तृणगुल्मलतावल्ली+ ।सरीसृपमृगद्विजाः ।
२२९.३३/२पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥ २२९.३३॥
२२९.३४/१गणकिंनरगन्धर्व+ ।विद्याधरमहोरगाः ।
२२९.३४/२यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥ २२९.३४॥
२२९.३५/१नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः ।
२२९.३५/२सृष्टस्तु बहुशः सृष्टौ संहारे चापि संहृतः ॥ २२९.३५॥
२२९.३६/१दारसंयोगयुक्तस्य तातेदृङ् मे विडम्बना ।
२२९.३६/२इतस्तृतीये यद् वृत्तं मम जन्मनि तच्छृणु ।
२२९.३६/३कथयामि समासेन तीर्थमाहात्म्यसम्भवम् ॥ २२९.३६॥
२२९.३७/१अतीत्य जन्मानि बहूनि तात ।
२२९.३७/२नृदेवगन्धर्वमहोरगाणाम् ।
२२९.३७/३विद्याधराणां खगकिंनराणाम् ।
२२९.३७/४जातो हि वंशे सुतपा महर्षिः ॥ २२९.३७॥
२२९.३८/१ततो महाभूद् अचला हि भक्तिर्।
२२९.३८/२जनार्दने लोकपतौ मधुघ्ने ।
२२९.३८/३व्रतोपवासैर्विविधैश्च भक्त्या ।
२२९.३८/४संतोषितश्चक्रगदास्त्रधारी ॥ २२९.३८॥
२२९.३९/१तुष्टोऽभ्यगात् पक्षिपतिं महात्मा ।
२२९.३९/२विष्णुः समारुह्य वरप्रदो मे ।
२२९.३९/३प्राहोच्चशब्दं व्रियतां द्विजाते ।
२२९.३९/४वरो हि यं वाञ्छसि तं प्रदास्ये ॥ २२९.३९॥
२२९.४०/१ततोऽहमूचे हरिमीशितारम् ।
२२९.४०/२तुष्टोऽसि चेत् केशव तद् वृणोमि ।
२२९.४०/३या सा त्वदीया परमा हि माया ।
२२९.४०/४तां वेत्तुमिच्छामि जनार्दनोऽहम् ॥ २२९.४०॥
२२९.४१/१अथाब्रवीन् मे मधुकैटभारिः ।
२२९.४१/२किं ते तया ब्रह्मन् मायया वै ।
२२९.४१/३धर्मार्थकामानि ददानि तुभ्यम् ।
२२९.४१/४पुत्राणि मुख्यानि निरामयत्वम् ॥ २२९.४१॥
२२९.४२/१ततो मुरारिं पुनरुक्तवान् अहम् ।
२२९.४२/२भूयोऽर्थधर्मार्थजिगीषितैव यत् ।
२२९.४२/३माया तवेमामिह वेत्तुमिच्छे ।
२२९.४२/४ममाद्य तां दर्शय पुष्कराक्ष ॥ २२९.४२॥
२२९.४३/१ततोऽभ्युवाचाथ नृसिंहमुख्यः ।
२२९.४३/२श्रीशः प्रभुर्विष्णुरिदं वचो मे ।
२२९.४३/३विष्णुरुवाच । मायां मदीयां नहि वेत्ति कश्चिन् ।
२२९.४३/४न चापि वा वेत्स्यति कश्चिद् एव ॥ २२९.४३॥
२२९.४४/१पूर्वं सुरर्षिर्द्विज नारदाख्यो ।
२२९.४४/२ब्रह्मात्मजोऽभून् मम भक्तियुक्तः ।
२२९.४४/३तेनापि पूर्वं भवता यथैव ।
२२९.४४/४संतोषितो भक्तिमता हि तद्वत् ॥ २२९.४४॥
२२९.४५/१वरं च दत्तं गतवान् अहं च ।
२२९.४५/२स चापि वव्रे वरमेतद् एव ।
२२९.४५/३निवारितो मामतिमूढभावाद् ।
२२९.४५/४भवान् यथैवं वृतवान् वरं च ॥ २२९.४५॥
२२९.४६/१ततो मयोक्तोऽम्भसि नारद त्वम् ।
२२९.४६/२मायां हि मे वेत्स्यसि संनिमग्नः ।
२२९.४६/३ततो निमग्नोऽम्भसि नारदोऽसौ ।
२२९.४६/४कन्या बभौ काशिपतेः सुशीला ॥ २२९.४६॥
२२९.४७/१तां यौवनाढ्यामथ चारुधर्मिणे ।
२२९.४७/२विदर्भराज्ञस्तनयाय वै ददौ ।
२२९.४७/३स्वधर्मणे सोऽपि तया समेतः ।
२२९.४७/४सिषेव कामान् अतुलान् महर्षिः ॥ २२९.४७॥
२२९.४८/१स्वर्गे गतेऽसौ पितरि प्रतापवान् ।
२२९.४८/२राज्यं क्रमायातमवाप्य हृष्टः ।
२२९.४८/३विदर्भराष्ट्रं परिपालयानः ।
२२९.४८/४पुत्रैः सपौत्रैर्बहुभिर्वृतोऽभूत् ॥ २२९.४८॥
२२९.४९/१अथाभवद् भूमिपतेः सुधर्मणः ।
२२९.४९/२काशीश्वरेणाथ समं सुयुद्धम् ।
२२९.४९/३तत्र क्षयं प्राप्य सपुत्रपौत्रम् ।
२२९.४९/४विदर्भराट् काशिपतिश्च युद्धे ॥ २२९.४९॥
२२९.५०/१ततः सुशीला पितरं सपुत्रम् ।
२२९.५०/२ज्ञात्वा पतिं चापि सपुत्रपौत्रम् ।
२२९.५०/३पुराद् विनिःसृत्य रणावनिं गता ।
२२९.५०/४दृष्ट्वा सुशीला कदनं महान्तम् ॥ २२९.५०॥
२२९.५१/१भर्तुर्बले तत्र पितुर्बले च ।
२२९.५१/२दुःखान्विता सा सुचिरं विलप्य ।
२२९.५१/३जगाम सा मातरमार्तरूपा ।
२२९.५१/४भ्रातृन् सुतान् भ्रातृसुतान् सपौत्रान् ॥ २२९.५१॥
२२९.५२/१भर्तारमेषा पितरं च गृह्य ।
२२९.५२/२महाश्मशाने च महाचितिं सा ।
२२९.५२/३कृत्वा हुताशं प्रददौ स्वयं च ।
२२९.५२/४यदा समिद्धो हुतभुग् बभूव ॥ २२९.५२॥
२२९.५३/१तदा सुशीला प्रविवेश वेगाद् ।
२२९.५३/२धा पुत्र हा पुत्र इति ब्रुवाणा ।
२२९.५३/३तदा पुनः सा मुनिर्नारदोऽभूत् ।
२२९.५३/४स चापि वह्निः स्फटिकामलाभः ॥ २२९.५३॥
२२९.५४/१पूर्णं सरोऽभूद् अथ चोत्ततार ।
२२९.५४/२तस्याग्रतो देववरस्तु केशवः ।
२२९.५४/३।
२२९.५४/४प्रहस्य देवर्षिमुवाच नारदम् ॥ २२९.५४॥
२२९.५५/१कस्ते तु पुत्रो वद मे महर्षे ।
२२९.५५/२मृतं च कं शोचसि नष्टबुद्धिः ।
२२९.५५/३व्रीडान्वितोऽभूद् अथ नारदोऽसौ ।
२२९.५५/४ततोऽहमेनं पुनरेव चाह ॥ २२९.५५॥
२२९.५६/१इतीदृशा नारद कष्टरूपा ।
२२९.५६/२माया मदीया कमलासनाद्यैः ।
२२९.५६/३शक्या न वेत्तुं समहेन्द्ररुद्रैः ।
२२९.५६/४कथं भवान् वेत्स्यति दुर्विभाव्याम् ॥ २२९.५६॥
२२९.५७/१स वाक्यमाकर्ण्य महामहर्षिर्।
२२९.५७/२उवाच भक्तिं मम देहि विष्णो ।
२२९.५७/३प्राप्तेऽथ काले स्मरणं तथैव ।
२२९.५७/४सदा च संदर्शनमीश तेऽस्तु ॥ २२९.५७॥
२२९.५८/१यत्राहमार्तश्चितिमद्य रूढस्- ।
२२९.५८/२तत् तीर्थमस्त्वच्युतपापहन्त्रा ।
२२९.५८/३अधिष्ठितं केशव नित्यमेव ।
२२९.५८/४त्वया सहासं कमलोद्भवेन ॥ २२९.५८॥
२२९.५९/१ततो मयोक्तो द्विज नारदोऽसौ ।
२२९.५९/२तीर्थं सितोदे हि चितिस्तवास्तु ।
२२९.५९/३स्थास्याम्यहं चात्र सदैव विष्णुर्।
२२९.५९/४महेश्वरः स्थास्यति चोत्तरेण ॥ २२९.५९॥
२२९.६०/१यदा विरञ्चेर्वदनं त्रिनेत्रः ।
२२९.६०/२स च्छेत्स्यतेयं च ममोग्रवाचम् ।
२२९.६०/३तदा कपालस्य तु मोचनाय ।
२२९.६०/४समेष्यते तीर्थमिदं त्वदीयम् ॥ २२९.६०॥
२२९.६१/१स्नातस्य तीर्थे त्रिपुरान्तकस्य ।
२२९.६१/२पतिष्यते भूमितले कपालम् ।
२२९.६१/३ततस्तु तीर्थेति कपालमोचनम् ।
२२९.६१/४ख्यातं पृथिव्यां च भविष्यते तत् ॥ २२९.६१॥
२२९.६२/१तदा प्रभृत्यम्बुदवाहनोऽसौ ।
२२९.६२/२न मोक्ष्यते तीर्थवरं सुपुण्यम् ।
२२९.६२/३न चैव तस्मिन् द्विज सम्प्रचक्षते ।
२२९.६२/४तत् क्षेत्रमुग्रं त्वथ ब्रह्मवध्या ॥ २२९.६२॥
२२९.६३/१यदा न मोक्षत्यमरारिहन्ता ।
२२९.६३/२तत् क्षेत्रमुख्यं महद् आप्तपुण्यम् ।
२२९.६३/३तदा विमुक्तेति सुरै रहस्यम् ।
२२९.६३/४तीर्थं स्तुतं पुण्यदमव्ययाख्यम् ॥ २२९.६३॥
२२९.६४/१कृत्वा तु पापानि नरो महान्ति ।
२२९.६४/२तस्मिन् प्रविष्टः शुचिरप्रमादी ।
२२९.६४/३यदा तु मां चिन्तयते स शुद्धः ।
२२९.६४/४प्रयाति मोक्षं भगवत्प्रसादात् ॥ २२९.६४॥
२२९.६५/१भूत्वा तस्मिन् रुद्रपिशाचसंज्ञो ।
२२९.६५/२योन्यन्तरे दुःखमुपाश्नुतेऽसौ ।
२२९.६५/३विमुक्तपापो बहुवर्षपूगैर्।
२२९.६५/४उत्पत्तिमायास्यति विप्रगेहे ॥ २२९.६५॥
२२९.६६/१शुचिर्यतात्मास्य ततोऽन्तकाले ।
२२९.६६/२रुद्रो हितं तारकमस्य कीर्तयेत् ।
२२९.६६/३इत्येवमुक्त्वा द्विजवर्य नारदम् ।
२२९.६६/४गतोऽस्मि दुग्धार्णवमात्मगेहम् ॥ २२९.६६॥
२२९.६७/१स चापि विप्रस्त्रिदिवं चचार ।
२२९.६७/२गन्धर्वराजेन समर्च्यमानः ।
२२९.६७/३एतत् तवोक्तं ननु बोधनाय ।
२२९.६७/४माया मदीया नहि शक्यते सा ॥ २२९.६७॥
२२९.६८/१ज्ञातुं भवान् इच्छति चेत् ततोऽद्य ।
२२९.६८/२एवं विशस्वाप्सु च वेत्सि येन ।
२२९.६८/३एवं द्विजातिर्हरिणा प्रबोधितो ।
२२९.६८/४भाव्यर्थयोगान् निममज्ज तोये ॥ २२९.६८॥
२२९.६९/१कोकामुखे तात ततो हि कन्या ।
२२९.६९/२चाण्डालवेश्मन्यभवद् द्विजः सः ।
२२९.६९/३रूपान्विता शीलगुणोपपन्ना ।
२२९.६९/४अवाप सा यौवनमाससाद ॥ २२९.६९॥
२२९.७०/१चाण्डालपुत्रेण सुबाहुनापि ।
२२९.७०/२विवाहिता रूपविवर्जितेन ।
२२९.७०/३पतिर्न तस्या हि मतो बभूव ।
२२९.७०/४सा तस्य चैवाभिमता बभूव ॥ २२९.७०॥
२२९.७१/१पुत्रद्वयं नेत्रहीनं बभूव ।
२२९.७१/२कन्या च पश्चाद् बधिरा तथान्या ।
२२९.७१/३पतिर्दरिद्रस्त्वथ सापि मुग्धा ।
२२९.७१/४नदीगता रोदिति तत्र नित्यम् ॥ २२९.७१॥
२२९.७२/१गता कदाचित् कलशं गृहीत्वा ।
२२९.७२/२सान्तर्जलं स्नातुमथ प्रविष्टा ।
२२९.७२/३यावद् द्विजोऽसौ पुनरेव तावज् ।
२२९.७२/४जातः क्रियायोगरतः सुशीलः ॥ २२९.७२॥
२२९.७३/१तस्याः स भर्ताथ चिरंगतेति ।
२२९.७३/२द्रष्टुं जगामाथ नदीं सुपुण्याम् ।
२२९.७३/३ददर्श कुम्भं न च तां तटस्थाम् ।
२२९.७३/४ततोऽतिदुःखात् प्ररुरोद नादयन् ॥ २२९.७३॥
२२९.७४/१ततोऽन्धयुग्मं बधिरा च कन्या ।
२२९.७४/२दुःखान्वितासौ समुपाजगाम ।
२२९.७४/३ते वै रुदन्तं पितरं च दृष्ट्वा ।
२२९.७४/४दुःखान्विता वै रुरुदुर्भृशार्ताः ॥ २२९.७४॥
२२९.७५/१ततः स पप्रच्छ नदीतटस्थान् ।
२२९.७५/२द्विजान् भवद्भिर्यदि योषिद् एका ।
२२९.७५/३दृष्टा तु तोयार्थमुपाद्रवन्ती ।
२२९.७५/४आख्यात ते प्रोचुरिमां प्रविष्टा ॥ २२९.७५॥
२२९.७६/१नदीं न भूयस्तु समुत्ततार ।
२२९.७६/२एतावद् एवेह समीहितं नः ।
२२९.७६/३स तद्वचो घोरतरं निशम्य ।
२२९.७६/४रुरोद शोकाश्रुपरिप्लुताक्षः ॥ २२९.७६॥
२२९.७७/१तं वै रुदन्तं ससुतं सकन्यम् ।
२२९.७७/२दृष्ट्वाहमार्तः सुतरां बभूव ।
२२९.७७/३आर्तिश्च मेऽभूद् अथ संस्मृतिश्च ।
२२९.७७/४चाण्डालयोषाहमिति क्षितीश ॥ २२९.७७॥
२२९.७८/१ततोऽब्रवं तं नृपते मतङ्गम् ।
२२९.७८/२किमर्थमार्तेन हि रुद्यते त्वया ।
२२९.७८/३तस्या न लाभो भवितातिमौर्ख्याद् ।
२२९.७८/४आक्रन्दितेनेह वृथा हि किं ते ॥ २२९.७८॥
२२९.७९/१स मामुवाचात्मजयुग्ममन्धम् ।
२२९.७९/२कन्या चैका बधिरेयं तथैव ।
२२९.७९/३कथं द्विजाते अधुनार्तमेतम् ।
२२९.७९/४आश्वासयिष्येऽप्यथ पोषयिष्ये ॥ २२९.७९॥
२२९.८०/१इत्येवमुक्त्वा स सुतैश्च सार्धम् ।
२२९.८०/२फूत्कृत्य फूत्कृत्य च रोदिति स्म ।
२२९.८०/३यथा यथा रोदिति स श्वपाकस्- ।
२२९.८०/४तथा तथा मे ह्यभवत् कृतापि ॥ २२९.८०॥
२२९.८१/१ततोऽहमार्तं तु निवार्य तं वै ।
२२९.८१/२स्ववंशवृत्तान्तमथाचचक्षे ।
२२९.८१/३ततः स दुःखात् सह पुत्रकैः ।
२२९.८१/४संविवेश कोकामुखमार्तरूपः ॥ २२९.८१॥
२२९.८२/१प्रविष्टमात्रे सलिले मतङ्गस्- ।
२२९.८२/२तीर्थप्रभावाच्च विमुक्तपापः ।
२२९.८२/३विमानमारुह्य शशिप्रकाशम् ।
२२९.८२/४ययौ दिवं तात ममोपपश्यतः ॥ २२९.८२॥
२२९.८३/१तस्मिन् प्रविष्टे सलिले मृते च ।
२२९.८३/२ममार्तिरासीद् अतिमोहकर्त्री ।
२२९.८३/३ततोऽतिपुण्ये नृपवर्य कोका+ ।
२२९.८३/४जले प्रविष्टस्त्रिदिवं गतश्च ॥ २२९.८३॥
२२९.८४/१भूयोऽभवं वैश्यकुले व्यथार्तो ।
२२९.८४/२जातिस्मरस्तीर्थवरप्रसादात् ।
२२९.८४/३ततोऽतिनिर्विण्णमना गतोऽहम् ।
२२९.८४/४कोकामुखं संयतवाक्यचित्तः ॥ २२९.८४॥
२२९.८५/१व्रतं समास्थाय कलेवरं स्वम् ।
२२९.८५/२संशोषयित्वा दिवमारुरोह ।
२२९.८५/३तस्माच्च्युतस्त्वद्भवने च जातो ।
२२९.८५/४जातिस्मरस्तात हरिप्रसादात् ॥ २२९.८५॥
२२९.८६/१सोऽहं समाराध्य मुरारिदेवम् ।
२२९.८६/२कोकामुखे त्यक्तशुभाशुभेच्छः ।
२२९.८६/३इत्येवमुक्त्वा पितरं प्रणम्य ।
२२९.८६/४गत्वा च कोकामुखमग्रतीर्थम् ।
२२९.८६/५विष्णुं समाराध्य वराहरूपम् ।
२२९.८६/६अवाप सिद्धिं मनुजर्षभोऽसौ ॥ २२९.८६॥
२२९.८७/१इत्थं स कामदमनः सहपुत्रपौत्रः ।
२२९.८७/२कोकामुखे तीर्थवरे सुपुण्ये ।
२२९.८७/३त्यक्त्वा तनुं दोषमयीं ततस्तु ।
२२९.८७/४गतो दिवं सूर्यसमैर्विमानैः ॥ २२९.८७॥
२२९.८८/१एवं मयोक्ता परमेश्वरस्य ।
२२९.८८/२माया सुराणामपि दुर्विचिन्त्या ।
२२९.८८/३स्वप्नेन्द्रजालप्रतिमा मुरारेर्।
२२९.८८/४यया जगन् मोहमुपैति विप्राः ॥ २२९.८८॥
२३०.१/१मुनय ऊचुः । अस्माभिस्तु श्रुतं व्यास यत् त्वया समुदाहृतम् ।
२३०.१/२प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥ २३०.१॥
२३०.२/१श्रोतुमिच्छामहे त्वत्तो यथावद् उपसंहृतिम् ।
२३०.२/२महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २३०.२॥
२३०.३/१व्यास उवाच । श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः ।
२३०.३/२कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥ २३०.३॥
२३०.४/१अहोरात्रं पितृणां तु मासोऽब्दं त्रिदिवौकसाम् ।
२३०.४/२चतुर्युगसहस्रे तु ब्रह्मणोऽहर्द्विजोत्तमाः ॥ २३०.४॥
२३०.५/१कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
२३०.५/२दैवैर्वर्षसहस्रैस्तु तद् द्वादशाभिरुच्यते ॥ २३०.५॥
२३०.६/१चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।
२३०.६/२आद्यं कृतयुगं प्रोक्तं मुनयोऽन्त्यं तथा कलिम् ॥ २३०.६॥
२३०.७/१आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः ।
२३०.७/२क्रियते चोपसंहारस्तथान्तेऽपि कलौ युगे ॥ २३०.७॥
२३०.८/१मुनय ऊचुः । कलेः स्वरूपं भगवन् विस्तराद् वक्तुमर्हसि ।
२३०.८/२धर्मश्चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति ॥ २३०.८॥
२३०.९/१व्यास उवाच । कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः ।
२३०.९/२निबोधध्वं समासेन वर्तते यन् महत्तरम् ॥ २३०.९॥
२३०.१०/१वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
२३०.१०/२न साम+ऋग्यजुर्वेद+ ।विनिष्पादनहैतुकी ॥ २३०.१०॥
२३०.११/१विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः ।
२३०.११/२न पुत्रा धार्मिकाश्चैव न च वह्निक्रियाक्रमः ॥ २३०.११॥
२३०.१२/१यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ ।
२३०.१२/२सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥ २३०.१२॥
२३०.१३/१येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ ।
२३०.१३/२यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥ २३०.१३॥
२३०.१४/१सर्वमेव कलौ शास्त्रं यस्य यद् वचनं द्विजाः ।
२३०.१४/२देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥ २३०.१४॥
२३०.१५/१उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ ।
२३०.१५/२धर्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ २३०.१५॥
२३०.१६/१वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ ।
२३०.१६/२स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ २३०.१६॥
२३०.१७/१सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।
२३०.१७/२कलौ स्त्रियो भविष्यन्ति तदा केशैरलंकृताः ॥ २३०.१७॥
२३०.१८/१परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
२३०.१८/२भर्ता भविष्यति कलौ वित्तवान् एव योषिताम् ॥ २३०.१८॥
२३०.१९/१यो यो ददाति बहुलं स स स्वामी तदा नृणाम् ।
२३०.१९/२स्वामित्वहेतुसम्बन्धो भविताभिजनस्तदा ॥ २३०.१९॥
२३०.२०/१गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः ।
२३०.२०/२अर्थाश्चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥ २३०.२०॥
२३०.२१/१स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
२३०.२१/२अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥ २३०.२१॥
२३०.२२/१अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं तु मानवः ।
२३०.२२/२पणस्यार्धार्धमात्रेऽपि करिष्यति तदा द्विजाः ॥ २३०.२२॥
२३०.२३/१सदा सपौरुषं चेतो भावि विप्र तदा कलौ ।
२३०.२३/२क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम् ॥ २३०.२३॥
२३०.२४/१अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः ।
२३०.२४/२भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥ २३०.२४॥
२३०.२५/१मूलपर्णफलाहारास्तापसा इव मानवाः ।
२३०.२५/२आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥ २३०.२५॥
२३०.२६/१दुर्भिक्षमेव सततं सदा क्लेशमनीश्वराः ।
२३०.२६/२प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ ॥ २३०.२६॥
२३०.२७/१अस्नातभोजिनो नाग्नि+ ।देवतातिथिपूजनम् ।
२३०.२७/२करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २३०.२७॥
२३०.२८/१लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।
२३०.२८/२बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २३०.२८॥
२३०.२९/१उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
२३०.२९/२कुर्वत्यो गुरुभर्तृणामाज्ञां भेत्स्यन्त्यनावृताः ॥ २३०.२९॥
२३०.३०/१स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः ।
२३०.३०/२परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ २३०.३०॥
२३०.३१/१दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् ।
२३०.३१/२असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ २३०.३१॥
२३०.३२/१वेदादानं करिष्यन्ति वडवाश्च तथाव्रताः ।
२३०.३२/२गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ २३०.३२॥
२३०.३३/१भवेयुर्वनवासा वै ग्राम्याहारपरिग्रहाः ।
२३०.३३/२भिक्षवश्चापि पुत्रा हि स्नेहसम्बन्धयन्त्रकाः ॥ २३०.३३॥
२३०.३४/१अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।
२३०.३४/२हारिणो जनवित्तानां सम्प्राप्ते च कलौ युगे ॥ २३०.३४॥
२३०.३५/१यो योऽश्वरथनागाढ्यः स स राजा भविष्यति ।
२३०.३५/२यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ २३०.३५॥
२३०.३६/१वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् ।
२३०.३६/२शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥ २३०.३६॥
२३०.३७/१भैक्ष्यव्रतास्तथा शूद्राः प्रव्रज्यालिङ्गिनोऽधमाः ।
२३०.३७/२पाखण्डसंश्रयां वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥ २३०.३७॥
२३०.३८/१दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।
२३०.३८/२गोधूमान्नयवान्नाद्यान् देशान् यास्यन्ति दुःखिताः ॥ २३०.३८॥
२३०.३९/१वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने ।
२३०.३९/२अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ २३०.३९॥
२३०.४०/१अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।
२३०.४०/२नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥ २३०.४०॥
२३०.४१/१भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी ।
२३०.४१/२नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ २३०.४१॥
२३०.४२/१पलितोद्गमश्च भविता तदा द्वादशवार्षिकः ।
२३०.४२/२न जीविष्यति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥ २३०.४२॥
२३०.४३/१अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ ।
२३०.४३/२यतस्ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥ २३०.४३॥
२३०.४४/१यदा यदा हि पाखण्ड+ ।वृत्तिरत्रोपलक्ष्यते ।
२३०.४४/२तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ २३०.४४॥
२३०.४५/१यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् ।
२३०.४५/२तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ २३०.४५॥
२३०.४६/१प्रारम्भाश्चावसीदन्ति यदा धर्मकृतां नृणाम् ।
२३०.४६/२तदानुमेयं प्राधान्यं कलेर्विप्रा विचक्षणैः ॥ २३०.४६॥
२३०.४७/१यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः ।
२३०.४७/२इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ २३०.४७॥
२३०.४८/१न प्रीतिर्वेदवादेषु पाखण्डेषु यदा रतिः ।
२३०.४८/२कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया द्विजोत्तमाः ॥ २३०.४८॥
२३०.४९/१कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् ।
२३०.४९/२नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥ २३०.४९॥
२३०.५०/१किं देवैः किं द्विजैर्वेदैः किं शौचेनाम्बुजल्पना ।
२३०.५०/२इत्येवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥ २३०.५०॥
२३०.५१/१अल्पवृष्टिश्च पर्जन्यः स्वल्पं सस्यफलं तथा ।
२३०.५१/२फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे ॥ २३०.५१॥
२३०.५२/१जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
२३०.५२/२शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ २३०.५२॥
२३०.५३/१अणुप्रायाणि धान्यानि आजप्रायं तथा पयः ।
२३०.५३/२भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥ २३०.५३॥
२३०.५४/१श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ ।
२३०.५४/२शालाद्याहारिभार्याश्च सुहृदो मुनिसत्तमाः ॥ २३०.५४॥
२३०.५५/१कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् ।
२३०.५५/२इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ २३०.५५॥
२३०.५६/१वाङ्मनःकायजैर्दोषैरभिभूताः पुनः पुनः ।
२३०.५६/२नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ २३०.५६॥
२३०.५७/१निःसत्यानामशौचानां निर्ह्रीकाणां तथा द्विजाः ।
२३०.५७/२यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति ॥ २३०.५७॥
२३०.५८/१निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।
२३०.५८/२तदा प्रविरलो विप्रः कश्चिल्लोके भविष्यति ॥ २३०.५८॥
२३०.५९/१तत्राल्पेनैव कालेन पुण्यस्कन्धमनुत्तमम् ।
२३०.५९/२करोति यः कृतयुगे क्रियते तपसा हि यः ॥ २३०.५९॥
२३०.६०/१मुनय ऊचुः । कस्मिन् कालेऽल्पको धर्मो ददाति सुमहाफलम् ।
२३०.६०/२वक्तुमर्हस्यशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥ २३०.६०॥
२३०.६१/१व्यास उवाच । धन्ये कलौ भवेद् विप्रास्त्वल्पक्लेशैर्महत् फलम् ।
२३०.६१/२तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन् निबोधत ॥ २३०.६१॥
२३०.६२/१यत् कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ।
२३०.६२/२द्वापरे तच्च मासेन अहोरात्रेण तत् कलौ ॥ २३०.६२॥
२३०.६३/१तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः ।
२३०.६३/२प्राप्नोति पुरुषस्तेन कलौ साध्विति भाषितुम् ॥ २३०.६३॥
२३०.६४/१ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
२३०.६४/२यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम् ॥ २३०.६४॥
२३०.६५/१धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।
२३०.६५/२स्वल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलौ ॥ २३०.६५॥
२३०.६६/१व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः ।
२३०.६६/२ततस्तु धर्मसम्प्राप्तैर्यष्टव्यं विधिवद् धनैः ॥ २३०.६६॥
२३०.६७/१वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् ।
२३०.६७/२पतनाय तथा भाव्यं तैस्तु संयतिभिः सह ॥ २३०.६७॥
२३०.६८/१असम्यक्करणे दोषास्तेषां सर्वेषु वस्तुषु ।
२३०.६८/२भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २३०.६८॥
२३०.६९/१पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः ।
२३०.६९/२लोकान् क्लेशेन महता यजन्ति विनयान्विताः ॥ २३०.६९॥
२३०.७०/१द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् ।
२३०.७०/२निजं जयति वै लोकं शूद्रो धन्यतरस्ततः ॥ २३०.७०॥
२३०.७१/१भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः ।
२३०.७१/२नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितम् ॥ २३०.७१॥
२३०.७२/१स्वधर्मस्याविरोधेन नरैर्लभ्यं धनं सदा ।
२३०.७२/२प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २३०.७२॥
२३०.७३/१तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः ।
२३०.७३/२तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ २३०.७३॥
२३०.७४/१एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
२३०.७४/२निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥ २३०.७४॥
२३०.७५/१योषिच्छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा ।
२३०.७५/२एतद् विषयमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २३०.७५॥
२३०.७६/१नातिक्लेशेन महता तान् एव पुरुषो यथा ।
२३०.७६/२तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २३०.७६॥
२३०.७७/१एतद् वः कथितं विप्रा यन्निमित्तमिहागताः ।
२३०.७७/२तत् पृच्छध्वं यथाकाममहं वक्ष्यामि वः स्फुटम् ॥ २३०.७७॥
२३०.७८/१अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ ।
२३०.७८/२नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥ २३०.७८॥
२३०.७९/१शूद्रैश्च द्विजशुश्रूषा+ ।तत्परैर्मुनिसत्तमाः ।
२३०.७९/२तथा स्त्रीभिरनायासात् पतिशुश्रूषयैव हि ॥ २३०.७९॥
२३०.८०/१ततस्त्रितयमप्येतन् मम धन्यतमं मतम् ।
२३०.८०/२धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥ २३०.८०॥
२३०.८१/१तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः ।
२३०.८१/२धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३०.८१॥
२३०.८२/१भवद्भिर्यद् अभिप्रेतं तद् एतत् कथितं मया ।
२३०.८२/२अपृष्टेनापि धर्मज्ञाः किमन्यत् क्रियतां द्विजाः ॥ २३०.८२॥
२३१.१/१मुनय ऊचुः । आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
२३१.१/२ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ २३१.१॥
२३१.२/१प्राप्ता वयं हि तत् कालमनया धर्मतृष्णया ।
२३१.२/२आदद्याम परं धर्मं सुखमल्पेन कर्मणा ॥ २३१.२॥
२३१.३/१संत्रासोद्वेगजननं युगान्तं समुपस्थितम् ।
२३१.३/२प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥ २३१.३॥
२३१.४/१व्यास उवाच । अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
२३१.४/२युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ २३१.४॥
२३१.५/१अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
२३१.५/२शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ २३१.५॥
२३१.६/१श्रोत्रियाः काण्डपृष्ठाश्च निष्कर्माणि हवींषि च ।
२३१.६/२एकपङ्क्त्यामशिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३१.६॥
२३१.७/१अशिष्टवन्तोऽर्थपरा नरा मद्यामिषप्रियाः ।
२३१.७/२मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥ २३१.७॥
२३१.८/१राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।
२३१.८/२भृत्या ह्यनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ २३१.८॥
२३१.९/१धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
२३१.९/२अकुत्सना च पतिते भविष्यति युगक्षये ॥ २३१.९॥
२३१.१०/१प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः ।
२३१.१०/२ऊनषोडशवर्षाश्च प्रसोष्यन्ति तथा स्त्रियः ॥ २३१.१०॥
२३१.११/१अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
२३१.११/२प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ २३१.११॥
२३१.१२/१सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः ।
२३१.१२/२शूद्राभा वादिनश्चैव ब्राह्मणाश्चान्त्यवासिनः ॥ २३१.१२॥
२३१.१३/१शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः ।
२३१.१३/२शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥ २३१.१३॥
२३१.१४/१श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
२३१.१४/२साधूनां परिवृत्तिश्च विद्याद् अन्तगते युगे ॥ २३१.१४॥
२३१.१५/१अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः ।
२३१.१५/२निर्ह्रीकाश्च प्रजाः सर्वा नष्टास्तत्र युगक्षये ॥ २३१.१५॥
२३१.१६/१तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
२३१.१६/२ऋतवो विपरीताश्च भविष्यन्ति युगक्षये ॥ २३१.१६॥
२३१.१७/१तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः ।
२३१.१७/२चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ २३१.१७॥
२३१.१८/१सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि ।
२३१.१८/२यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥ २३१.१८॥
२३१.१९/१पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः ।
२३१.१९/२न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥ २३१.१९॥
२३१.२०/१ऊषरा बहुला भूमिः पन्थानस्तस्करावृताः ।
२३१.२०/२सर्वे वाणिकाश्चैव भविष्यन्ति युगक्षये ॥ २३१.२०॥
२३१.२१/१पितृदायाददत्तानि विभजन्ति तथा सुताः ।
२३१.२१/२हरणे यत्नवन्तोऽपि लोभादिभिर्विरोधिनः ॥ २३१.२१॥
२३१.२२/१सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
२३१.२२/२भविष्यन्ति युगस्यान्ते नार्यः केशैरलंकृताः ॥ २३१.२२॥
२३१.२३/१निर्वीर्यस्य रतिस्तत्र गृहस्थस्य भविष्यति ।
२३१.२३/२युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥ २३१.२३॥
२३१.२४/१कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः ।
२३१.२४/२पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥ २३१.२४॥
२३१.२५/१बहुयाचनको लोको न दास्यति परस्परम् ।
२३१.२५/२राजचौराग्निदण्डादि+ ।क्षीणः क्षयमुपैष्यति ॥ २३१.२५॥
२३१.२६/१अफलानि च सस्यानि तरुणा वृद्धशीलिनः ।
२३१.२६/२अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥ २३१.२६॥
२३१.२७/१वर्षासु परुषा वाता नीचाः शर्करवर्षिणः ।
२३१.२७/२संदिग्धः परलोकश्च भविष्यति युगक्षये ॥ २३१.२७॥
२३१.२८/१वैश्या इव च राजन्या धनधान्योपजीविनः ।
२३१.२८/२युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥ २३१.२८॥
२३१.२९/१अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास्तथा ।
२३१.२९/२ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ २३१.२९॥
२३१.३०/१भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् ।
२३१.३०/२अजाश्चापि निरोत्स्यन्ति पयसोऽर्थे युगक्षये ॥ २३१.३०॥
२३१.३१/१अशास्त्रविहितो यज्ञ एवमेव भविष्यति ।
२३१.३१/२अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥ २३१.३१॥
२३१.३२/१शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः ।
२३१.३२/२सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य वै ॥ २३१.३२॥
२३१.३३/१न कश्चिद् अकविर्नाम युगान्ते समुपस्थिते ।
२३१.३३/२नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥ २३१.३३॥
२३१.३४/१चौरप्रायाश्च राजानो युगान्ते समुपस्थिते ।
२३१.३४/२कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥ २३१.३४॥
२३१.३५/१अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः ।
२३१.३५/२याजयिष्यन्त्ययाज्यांस्तु तथाभक्ष्यस्य भक्षिणः ॥ २३१.३५॥
२३१.३६/१ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ।
२३१.३६/२भोःशब्दमभिधास्यन्ति न च कश्चित् पठिष्यति ॥ २३१.३६॥
२३१.३७/१एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः ।
२३१.३७/२नक्षत्राणि विवर्णानि विपरिता दिशो दश ॥ २३१.३७॥
२३१.३८/१संध्यारागो विदग्धाङ्गो भविष्यति युगक्षये ।
२३१.३८/२प्रेषयन्ति पितृन् पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥ २३१.३८॥
२३१.३९/१युगेष्वेवं निवत्स्यन्ति प्रमदाश्च नरास्तथा ।
२३१.३९/२अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश्चैवाहुताग्नयः ॥ २३१.३९॥
२३१.४०/१भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ।
२३१.४०/२वञ्चयित्वा पतीन् सुप्तान् गमिष्यन्ति स्त्रियोऽन्यतः ॥ २३१.४०॥
२३१.४१/१न व्याधितान् नाप्यरूपान् नोद्यतान् नाप्यसूयकान् ।
२३१.४१/२कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति ॥ २३१.४१॥
२३१.४२/१मुनय ऊचुः । एवं विलम्बिते धर्मे मानुषाः करपीडिताः ।
२३१.४२/२कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥ २३१.४२॥
२३१.४३/१किंकर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः ।
२३१.४३/२कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ २३१.४३॥
२३१.४४/१व्यास उवाच । अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्तथा ।
२३१.४४/२शीलव्यसनमासाद्य प्राप्स्यन्ति ह्रासमायुषः ॥ २३१.४४॥
२३१.४५/१आयुर्हान्या बलग्नानिर्बलग्नान्या विवर्णता ।
२३१.४५/२वैवर्ण्याद् व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ २३१.४५॥
२३१.४६/१निर्वेदाद् आत्मसम्बोधः सम्बोधाद् धर्मशीलता ।
२३१.४६/२एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ २३१.४६॥
२३१.४७/१उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः ।
२३१.४७/२किंधर्मशीलाः केचित् तु केचिद् अत्र कुतूहलाः ॥ २३१.४७॥
२३१.४८/१प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः ।
२३१.४८/२अप्रमाणं करिष्यन्ति सर्वमित्यपरे जनाः ॥ २३१.४८॥
२३१.४९/१नास्तिक्यपरताश्चापि केचिद् धर्मविलोपकाः ।
२३१.४९/२भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥ २३१.४९॥
२३१.५०/१तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः ।
२३१.५०/२दाम्भिकास्ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥ २३१.५०॥
२३१.५१/१तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः ।
२३१.५१/२शुभान् समाचरिष्यन्ति दानशीलपरायणाः ॥ २३१.५१॥
२३१.५२/१सर्वभक्षाः स्वयंगुप्ता निर्घृणा निरपत्रपाः ।
२३१.५२/२भविष्यन्ति तदा लोके तत् कषायस्य लक्षणम् ॥ २३१.५२॥
२३१.५३/१कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने ।
२३१.५३/२सिद्धिमल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥ २३१.५३॥
२३१.५४/१विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः ।
२३१.५४/२संश्रयिष्यन्ति भो विप्रास्तत् कषायस्य लक्षणम् ॥ २३१.५४॥
२३१.५५/१महायुद्धं महावर्षं महावातं महातपः ।
२३१.५५/२भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम् ॥ २३१.५५॥
२३१.५६/१विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः ।
२३१.५६/२पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ २३१.५६॥
२३१.५७/१निःस्वाध्यायवषट्काराः कुनेतारोऽभिमानिनः ।
२३१.५७/२क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥ २३१.५७॥
२३१.५८/१मूर्खाश्चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः ।
२३१.५८/२व्यवहारोपवृत्ताश्च च्युता धर्माश्च शाश्वतात् ॥ २३१.५८॥
२३१.५९/१हर्तारः पररत्नानां परदारप्रधर्षकाः ।
२३१.५९/२कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ २३१.५९॥
२३१.६०/१तेषु प्रभवमाणेषु जनेष्वपि च सर्वशः ।
२३१.६०/२अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ २३१.६०॥
२३१.६१/१कलौ युगे समुत्पन्नाः प्रधानपुरुषाश्च ये ।
२३१.६१/२कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः ॥ २३१.६१॥
२३१.६२/१सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
२३१.६२/२भोक्ष्यभोज्यहराश्चैव करण्डानां च हारिणः ॥ २३१.६२॥
२३१.६३/१चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति ।
२३१.६३/२चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥ २३१.६३॥
२३१.६४/१निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते ।
२३१.६४/२नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः ॥ २३१.६४॥
२३१.६५/१यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च ।
२३१.६५/२कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २३१.६५॥
२३१.६६/१क्षेमं सुभिक्षमारोग्यं सामग्र्यं चैव बन्धुषु ।
२३१.६६/२उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥ २३१.६६॥
२३१.६७/१स्वयम्पालाः स्वयं चौराः प्लवसम्भारसम्भृताः ।
२३१.६७/२मण्डलैः सम्भविष्यन्ति देशे देशे पृथक् पृथक् ॥ २३१.६७॥
२३१.६८/१स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
२३१.६८/२नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ २३१.६८॥
२३१.६९/१ततः सर्वे समादाय कुमारान् प्रद्रुता भयात् ।
२३१.६९/२कौशिकीं संतरिष्यन्ति नराः क्षुद्भयपीडिताः ॥ २३१.६९॥
२३१.७०/१अङ्गान् वङ्गान् कलिङ्गांश्च काश्मीरान् अथ कोशलान् ।
२३१.७०/२ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥ २३१.७०॥
२३१.७१/१कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः ।
२३१.७१/२विविधं जीर्णपत्त्रं च वल्कलान्यजिनानि च ॥ २३१.७१॥
२३१.७२/१स्वयं कृत्वा निवत्स्यन्ति तस्मिन् भूते युगक्षये ।
२३१.७२/२अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥ २३१.७२॥
२३१.७३/१नैव शून्या नवारण्या भविष्यति वसुंधरा ।
२३१.७३/२अगोप्तारश्च गोप्तारो भविष्यन्ति नराधिपाः ॥ २३१.७३॥
२३१.७४/१मृगैर्मत्स्यैर्विहंगैश्च श्वापदैः सर्पकीटकैः ।
२३१.७४/२मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ २३१.७४॥
२३१.७५/१शीर्णपर्णफलाहारा वल्कलान्यजिनानि च ।
२३१.७५/२स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस्तथा ॥ २३१.७५॥
२३१.७६/१बीजानामकृतस्नेहा आहताः काष्ठशङ्कुभिः ।
२३१.७६/२अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥ २३१.७६॥
२३१.७७/१नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः ।
२३१.७७/२पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥ २३१.७७॥
२३१.७८/१तनूरुहैर्यथाजातैः समलान्तरसम्भृतैः ।
२३१.७८/२बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥ २३१.७८॥
२३१.७९/१एवं भविष्यन्ति तदा नराश्चाधर्मजीविनः ।
२३१.७९/२हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥ २३१.७९॥
२३१.८०/१आयुस्तत्र च मर्त्यानां परं त्रिंशद् भविष्यति ।
२३१.८०/२दुर्बला विषयग्लाना जराशोकैरभिप्लुताः ॥ २३१.८०॥
२३१.८१/१भविष्यन्ति तदा तेषां रोगैरिन्द्रियसंक्षयः ।
२३१.८१/२आयुःप्रत्ययसंरोधाद् विषयाद् उपरंस्यते ॥ २३१.८१॥
२३१.८२/१शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
२३१.८२/२सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात् ॥ २३१.८२॥
२३१.८३/१भविष्यन्ति च कामानामलाभाद् धर्मशीलिनः ।
२३१.८३/२करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥ २३१.८३॥
२३१.८४/१एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे ।
२३१.८४/२ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥ २३१.८४॥
२३१.८५/१तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
२३१.८५/२स्वादु किं त्विति विज्ञाय धर्म एव च दृश्यते ॥ २३१.८५॥
२३१.८६/१यथा हानिक्रमं प्राप्तास्तथा ऋद्धिक्रमं गताः ।
२३१.८६/२प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥ २३१.८६॥
२३१.८७/१साधुवृत्तिः कृतयुगे कषाये हानिरुच्यते ।
२३१.८७/२एक एव तु कालोऽयं हीनवर्णो यथा शशी ॥ २३१.८७॥
२३१.८८/१छन्नश्च तमसा सोमो यथा कलियुगं तथा ।
२३१.८८/२मुक्तश्च तमसा सोम एवं कृतयुगं च तत् ॥ २३१.८८॥
२३१.८९/१अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
२३१.८९/२अविविक्तमविज्ञातं दायाद्यमिह धार्यते ॥ २३१.८९॥
२३१.९०/१इष्टवादस्तपो नाम तपो हि स्थविरीकृतः ।
२३१.९०/२गुणैः कर्माभिनिर्वृत्तिर्गुणाः शुध्यन्ति कर्मणा ॥ २३१.९०॥
२३१.९१/१आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी ।
२३१.९१/२युगे युगे यथाकालम् ऋषिभिः समुदाहृता ॥ २३१.९१॥
२३१.९२/१धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया ।
२३१.९२/२आशिषश्च शिवाः पुण्यास्तथैवायुर्युगे युगे ॥ २३१.९२॥
२३१.९३/१तथा युगानां परिवर्तनानि ।
२३१.९३/२चिरप्रवृत्तानि विधिस्वभावात् ।
२३१.९३/३क्षणं न संतिष्ठति जीवलोकः ।
२३१.९३/४क्षयोदयाभ्यां परिवर्तमानः ॥ २३१.९३॥
२३२.१/१व्यास उवाच । सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
२३२.१/२नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ २३२.१॥
२३२.२/१ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।
२३२.२/२आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः ॥ २३२.२॥
२३२.३/१मुनय ऊचुः । परार्धसंख्यां भगवंस्त्वमाचक्ष्व यथोदिताम् ।
२३२.३/२द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसंचरः ॥ २३२.३॥
२३२.४/१व्यास उवाच । स्थानात् स्थानं दशगुणमेकैकं गण्यते द्विजाः ।
२३२.४/२ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ २३२.४॥
२३२.५/१परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः ।
२३२.५/२तदाव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै ॥ २३२.५॥
२३२.६/१निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः ।
२३२.६/२तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कला ॥ २३२.६॥
२३२.७/१नाडिका तु प्रमाणेन कला च दश पञ्च च ।
२३२.७/२उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश ॥ २३२.७॥
२३२.८/१हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः ।
२३२.८/२मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ २३२.८॥
२३२.९/१नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः ।
२३२.९/२अहोरात्रं मुहूर्तास्तु त्रिंशन् मासो दिनैस्तथा ॥ २३२.९॥
२३२.१०/१मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद् दिवि ।
२३२.१०/२त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ २३२.१०॥
२३२.११/१तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् ।
२३२.११/२चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ २३२.११॥
२३२.१२/१स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः ।
२३२.१२/२तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥ २३२.१२॥
२३२.१३/१तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम ।
२३२.१३/२शृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम् ॥ २३२.१३॥
२३२.१४/१चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
२३२.१४/२अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ २३२.१४॥
२३२.१५/१ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः ।
२३२.१५/२क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात् ॥ २३२.१५॥
२३२.१६/१ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः ।
२३२.१६/२क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः ॥ २३२.१६॥
२३२.१७/१ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु ।
२३२.१७/२स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः ॥ २३२.१७॥
२३२.१८/१पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै ।
२३२.१८/२शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥ २३२.१८॥
२३२.१९/१समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च ।
२३२.१९/२पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम् ॥ २३२.१९॥
२३२.२०/१ततस्तस्याप्यभावेन तोयाहारोपबृंहिताः ।
२३२.२०/२सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥ २३२.२०॥
२३२.२१/१अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः ।
२३२.२१/२दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥ २३२.२१॥
२३२.२२/१दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः ।
२३२.२२/२साद्रिनगार्णवाभोगं निःस्नेहमभिजायते ॥ २३२.२२॥
२३२.२३/१ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः ।
२३२.२३/२भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३२.२३॥
२३२.२४/१ततः कालाग्निरुद्रोऽसौ भूतसर्गहरो हरः ।
२३२.२४/२शेषाहिश्वाससंतापात् पातालानि दहत्यधः ॥ २३२.२४॥
२३२.२५/१पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
२३२.२५/२भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥ २३२.२५॥
२३२.२६/१भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः ।
२३२.२६/२ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २३२.२६॥
२३२.२७/१अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा ।
२३२.२७/२ज्वालावर्तपरीवारमुपक्षीणबलास्ततः ॥ २३२.२७॥
२३२.२८/१ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।
२३२.२८/२हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा ॥ २३२.२८॥
२३२.२९/१तस्माद् अपि महाताप+ ।तप्ता लोकास्ततः परम् ।
२३२.२९/२गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥ २३२.२९॥
२३२.३०/१ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः ।
२३२.३०/२मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः ॥ २३२.३०॥
२३२.३१/१ततो गजकुलप्रख्यास्तडिद्वन्तो निनादिनः ।
२३२.३१/२उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ २३२.३१॥
२३२.३२/१केचिद् अञ्जनसंकाशाः केचित् कुमुदसंनिभाः ।
२३२.३२/२धूमवर्णा घनाः केचित् केचित् पीताः पयोधराः ॥ २३२.३२॥
२३२.३३/१केचिद् धरिद्रावर्णाभा लाक्षारसनिभास्तथा ।
२३२.३३/२केचिद् वैदूर्यसंकाशा इन्द्रनीलनिभास्तथा ॥ २३२.३३॥
२३२.३४/१शङ्खकुन्दनिभाश्चान्ये जातीकुन्दनिभास्तथा ।
२३२.३४/२इन्द्रगोपनिभाः केचिन् मनःशिलानिभास्तथा ॥ २३२.३४॥
२३२.३५/१पद्मपत्त्रनिभाः केचिद् उत्तिष्ठन्ति घनाघनाः ।
२३२.३५/२केचित् पुरवराकाराः केचित् पर्वतसंनिभाः ॥ २३२.३५॥
२३२.३६/१कूटागारनिभाश्चान्ये केचित् स्थलनिभा घनाः ।
२३२.३६/२महाकाया महारावा पूरयन्ति नभस्तलम् ॥ २३२.३६॥
२३२.३७/१वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।
२३२.३७/२शमयन्त्यखिलं विप्रास्त्रैलोक्यान्तरविस्तृतम् ॥ २३२.३७॥
२३२.३८/१नष्टे चाग्नौ शतं तेऽपि वर्षाणामधिकं घनाः ।
२३२.३८/२प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तमाः ॥ २३२.३८॥
२३२.३९/१धाराभिरक्षमात्राभिः प्लावयित्वाखिलां भुवम् ।
२३२.३९/२भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥ २३२.३९॥
२३२.४०/१अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।
२३२.४०/२वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ २३२.४०॥
२३३.१/१व्यास उवाच । सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि द्विजोत्तमाः ।
२३३.१/२एकार्णवं भवत्येतत् त्रैलोक्यमखिलं ततः ॥ २३३.१॥
२३३.२/१अथ निःश्वासजो विष्णोर्वायुस्ताञ् जलदांस्ततः ।
२३३.२/२नाशं नयति भो विप्रा वर्षाणामधिकं शतम् ॥ २३३.२॥
२३३.३/१सर्वभूतमयोऽचिन्त्यो भगवान् भूतभावनः ।
२३३.३/२अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ २३३.३॥
२३३.४/१एकार्णवे ततस्तस्मिञ् शेषशय्यास्थितः प्रभुः ।
२३३.४/२ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः ॥ २३३.४॥
२३३.५/१जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः ।
२३३.५/२ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ २३३.५॥
२३३.६/१आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
२३३.६/२आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ॥ २३३.६॥
२३३.७/१एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः ।
२३३.७/२निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ २३३.७॥
२३३.८/१यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।
२३३.८/२निमीलत्येतद् अखिलं मायाशय्याशयेऽच्युते ॥ २३३.८॥
२३३.९/१पद्मयोनेर्दिनं यत् तु चतुर्युगसहस्रवत् ।
२३३.९/२एकार्णवकृते लोके तावती रात्रिरुच्यते ॥ २३३.९॥
२३३.१०/१ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः ।
२३३.१०/२ब्रह्मस्वरूपधृग् विष्णुर्यथा वः कथितं पुरा ॥ २३३.१०॥
२३३.११/१इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः ।
२३३.११/२नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम् ॥ २३३.११॥
२३३.१२/१अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः ।
२३३.१२/२समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ २३३.१२॥
२३३.१३/१महदादेर्विकारस्य विशेषात् तत्र संक्षये ।
२३३.१३/२कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसंचरे ॥ २३३.१३॥
२३३.१४/१आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम् ।
२३३.१४/२आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥ २३३.१४॥
२३३.१५/१प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।
२३३.१५/२आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः ॥ २३३.१५॥
२३३.१६/१सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।
२३३.१६/२सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥ २३३.१६॥
२३३.१७/१अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः ।
२३३.१७/२नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसंक्षयात् ॥ २३३.१७॥
२३३.१८/१ततश्चापोऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै ।
२३३.१८/२अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ २३३.१८॥
२३३.१९/१स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा ।
२३३.१९/२सर्वमापूर्यतो चाभिस्तदा जगद् इदं शनैः ॥ २३३.१९॥
२३३.२०/१अर्चिभिः संतते तस्मिंस्तिर्यग् ऊर्ध्वमधस्तथा ।
२३३.२०/२ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २३३.२०॥
२३३.२१/१प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मके ।
२३३.२१/२प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥ २३३.२१॥
२३३.२२/१प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् ।
२३३.२२/२निरालोके तदा लोके वायुसंस्थे च तेजसि ॥ २३३.२२॥
२३३.२३/१ततः प्रलयमासाद्य वायुसम्भवमात्मनः ।
२३३.२३/२ऊर्ध्वं च वायुस्तिर्यक् च दोधवीति दिशो दश ॥ २३३.२३॥
२३३.२४/१वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
२३३.२४/२प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥ २३३.२४॥
२३३.२५/१अरूपमरसस्पर्शमगन्धवद् अमूर्तिमत् ।
२३३.२५/२सर्वमापूरयच्चैव सुमहत् तत् प्रकाशते ॥ २३३.२५॥
२३३.२६/१परिमण्डलतस्तत् तु आकाशं शब्दलक्षणम् ।
२३३.२६/२शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति ॥ २३३.२६॥
२३३.२७/१ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः ।
२३३.२७/२भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै ॥ २३३.२७॥
२३३.२८/१अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ।
२३३.२८/२भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा ॥ २३३.२८॥
२३३.२९/१उर्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा ।
२३३.२९/२एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस्तथा ॥ २३३.२९॥
२३३.३०/१प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम् ।
२३३.३०/२येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ २३३.३०॥
२३३.३१/१सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
२३३.३१/२उदकावरणं ह्यत्र ज्योतिषा पीयते तु तत् ॥ २३३.३१॥
२३३.३२/१ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ।
२३३.३२/२आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ॥ २३३.३२॥
२३३.३३/१महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विजाः ।
२३३.३३/२गुणसाम्यमनुद्रिक्तमन्यूनं च द्विजोत्तमाः ॥ २३३.३३॥
२३३.३४/१प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम् ।
२३३.३४/२इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥ २३३.३४॥
२३३.३५/१व्यक्तस्वरूपमव्यक्ते तस्यां विप्राः प्रलीयते ।
२३३.३५/२एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुनः ॥ २३३.३५॥
२३३.३६/१सोऽप्यंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः ।
२३३.३६/२नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥ २३३.३६॥
२३३.३७/१सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।
२३३.३७/२स ब्रह्म तत् परं धाम परमात्मा परेश्वरः ॥ २३३.३७॥
२३३.३८/१स विष्णुः सर्वमेवेदं यतो नावर्तते पुनः ।
२३३.३८/२प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ॥ २३३.३८॥
२३३.३९/१पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ।
२३३.३९/२परमात्मा च सर्वेषामाधारः परमेश्वरः ॥ २३३.३९॥
२३३.४०/१विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते ।
२३३.४०/२प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ २३३.४०॥
२३३.४१/१ताभ्यामुभाभ्यां पुरुषैर्यज्ञमूर्तिः स इज्यते ।
२३३.४१/२ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ॥ २३३.४१॥
२३३.४२/१यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ।
२३३.४२/२ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥ २३३.४२॥
२३३.४३/१निवृत्तैर्योगमार्गैश्च विष्णुर्मुक्तिफलप्रदः ।
२३३.४३/२ह्रस्वदीर्घप्लुतैर्यत् तु किंचिद् वस्त्वभिधीयते ॥ २३३.४३॥
२३३.४४/१यच्च वाचामविषयस्तत् सर्वं विष्णुरव्ययः ।
२३३.४४/२व्यक्तः स एवमव्यक्तः स एव पुरुषोऽव्ययः ॥ २३३.४४॥
२३३.४५/१परमात्मा च विश्वात्मा विश्वरूपधरो हरिः ।
२३३.४५/२व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते ॥ २३३.४५॥
२३३.४६/१पुरुषश्चापि भो विप्रा यस्तद् अव्याकृतात्मनि ।
२३३.४६/२द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥ २३३.४६॥
२३३.४७/१तद् अहस्तस्य विप्रेन्द्रा विष्णोरीशस्य कथ्यते ।
२३३.४७/२व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ॥ २३३.४७॥
२३३.४८/१तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः ।
२३३.४८/२नैवाहस्तस्य च निशा नित्यस्य परमात्मनः ॥ २३३.४८॥
२३३.४९/१उपचारात् तथाप्येतत् तस्येशस्य तु कथ्यते ।
२३३.४९/२इत्येष मुनिशार्दूलाः कथितः प्राकृतो लयः ॥ २३३.४९॥
२३४.१/१व्यास उवाच । आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
२३४.१/२उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१॥
२३४.२/१आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा ।
२३४.२/२शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२॥
२३४.३/१शिरोरोगप्रतिश्याय+ ।ज्वरशूलभगंदरैः ।
२३४.३/२गुल्मार्शःश्वयथुश्वास+ ॅह्छर्द्यादिभिरनेकधा ॥ २३४.३॥
२३४.४/१तथाक्षिरोगातीसार+ ।कुष्ठाङ्गामयसंज्ञकैः ।
२३४.४/२भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४॥
२३४.५/१कामक्रोधभयद्वेष+ ।लोभमोहविषादजः ।
२३४.५/२शोकासूयावमानेर्ष्या+ ंआत्सर्याभिभवस्तथा ॥ २३४.५॥
२३४.६/१मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा ।
२३४.६/२इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६॥
२३४.७/१मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
२३४.७/२सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ २३४.७॥
२३४.८/१शीतोष्णवातवर्षाम्बु+ ।वैद्युतादिसमुद्भवः ।
२३४.८/२तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः ॥ २३४.८॥
२३४.९/१गर्भजन्मजराज्ञान+ ंऋत्युनारकजं तथा ।
२३४.९/२दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९॥
२३४.१०/१सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
२३४.१०/२उल्बसंवेष्टितो भग्न+ ।पृष्ठग्रीवास्थिसंहतिः ॥ २३४.१०॥
२३४.११/१अत्यम्लकटुतीक्ष्णोष्ण+ ।लवणैर्मातृभोजनैः ।
२३४.११/२अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥ २३४.११॥
२३४.१२/१प्रसारणाकुञ्चनादौ नागानां प्रभुरात्मनः ।
२३४.१२/२शकृन्मूत्रमहापङ्क+ ।शायी सर्वत्र पीडितः ॥ २३४.१२॥
२३४.१३/१निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्यथ ।
२३४.१३/२आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३॥
२३४.१४/१जायमानः पुरीषासृङ्+ ंऊत्रशुक्राविलाननः ।
२३४.१४/२प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४॥
२३४.१५/१अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः ।
२३४.१५/२क्लेशैर्निष्क्रान्तिमाप्नोति जठरान् मातुरातुरः ॥ २३४.१५॥
२३४.१६/१मूर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
२३४.१६/२विज्ञानभ्रंशमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६॥
२३४.१७/१कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।
२३४.१७/२पूतिव्रणान् निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७॥
२३४.१८/१कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः ।
२३४.१८/२स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८॥
२३४.१९/१अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।
२३४.१९/२भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९॥
२३४.२०/१जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ।
२३४.२०/२बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२०॥
२३४.२१/१अज्ञानतमसा छन्नो मूढान्तःकरणो नरः ।
२३४.२१/२न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१॥
२३४.२२/१केन बन्धेन बद्धोऽहं कारणं किमकारणम् ।
२३४.२२/२किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२॥
२३४.२३/१को धर्मः कश्च वाधर्मः कस्मिन् वर्तेत वै कथम् ।
२३४.२३/२किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३॥
२३४.२४/१एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् ।
२३४.२४/२अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४॥
२३४.२५/१अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।
२३४.२५/२अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५॥
२३४.२६/१नरकं कर्मणां लोपात् फलमाहुर्महर्षयः ।
२३४.२६/२तस्माद् अज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६॥
२३४.२७/१जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
२३४.२७/२विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७॥
२३४.२८/१दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
२३४.२८/२नासाविवरनिर्यात+ ।रोमपुञ्जश्चलद्वपुः ॥ २३४.२८॥
२३४.२९/१प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
२३४.२९/२उत्सन्नजठराग्नित्वाद् अल्पाहारोऽल्पचेष्टितः ॥ २३४.२९॥
२३४.३०/१कृच्छ्रचङ्क्रमणोत्थान+ ।शयनासनचेष्टितः ।
२३४.३०/२मन्दीभवच्छ्रोत्रनेत्र+ ।गलल्लालाविलाननः ॥ २३४.३०॥
२३४.३१/१अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः ।
२३४.३१/२तत्क्षणेऽप्यनुभूतानामस्मर्ताखिलवस्तुनाम् ॥ २३४.३१॥
२३४.३२/१सकृद् उच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
२३४.३२/२श्वासकासामयायास+ ।समुद्भूतप्रजागरः ॥ २३४.३२॥
२३४.३३/१अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।
२३४.३३/२भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ २३४.३३॥
२३४.३४/१प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः ।
२३४.३४/२हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ २३४.३४॥
२३४.३५/१अनुभूतमिवान्यस्मिञ् जन्मन्यात्मविचेष्टितम् ।
२३४.३५/२संस्मरन् यौवने दीर्घं निश्वसित्यतितापितः ॥ २३४.३५॥
२३४.३६/१एवमादीनि दुःखानि जरायामनुभूय च ।
२३४.३६/२मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ २३४.३६॥
२३४.३७/१श्लथग्रीवाङ्घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः ।
२३४.३७/२मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलान्वितः ॥ २३४.३७॥
२३४.३८/१हिरण्यधान्यतनय+ ।भार्याभृत्यगृहादिषु ।
२३४.३८/२एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ २३४.३८॥
२३४.३९/१मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः ।
२३४.३९/२शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ २३४.३९॥
२३४.४०/१परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् ।
२३४.४०/२संशुष्यमाणताल्वोष्ठ+ ।कण्ठो घुरघुरायते ॥ २३४.४०॥
२३४.४१/१निरुद्धकण्ठदेशोऽपि उदानश्वासपीडितः ।
२३४.४१/२तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४१॥
२३४.४२/१क्लेशाद् उत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः ।
२३४.४२/२ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ २३४.४२॥
२३४.४३/१एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
२३४.४३/२शृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ २३४.४३॥
२३४.४४/१याम्यकिंकरपाशादि+ ।ग्रहणं दण्डताडनम् ।
२३४.४४/२यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ २३४.४४॥
२३४.४५/१करम्भवालुकावह्नि+ ।यन्त्रशस्त्रादिभीषणे ।
२३४.४५/२प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ २३४.४५॥
२३४.४६/१क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् ।
२३४.४६/२कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम् ॥ २३४.४६॥
२३४.४७/१शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।
२३४.४७/२गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ २३४.४७॥
२३४.४८/१क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
२३४.४८/२उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ २३४.४८॥
२३४.४९/१नरके यानि दुःखानि पापहेतूद्भवानि वै ।
२३४.४९/२प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते ॥ २३४.४९॥
२३४.५०/१न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः ।
२३४.५०/२स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ २३४.५०॥
२३४.५१/१पुनश्च गर्भो भवति जायते च पुनर्नरः ।
२३४.५१/२गर्भे विलीयते भूयो जायमानोऽस्तमेति च ॥ २३४.५१॥
२३४.५२/१जातमात्रश्च म्रियते बालभावे च यौवने ।
२३४.५२/२यद् यत् प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ २३४.५२॥
२३४.५३/१तद् एव दुःखवृक्षस्य बीजत्वमुपगच्छति ।
२३४.५३/२कलत्रपुत्रमित्रादि+ ।गृहक्षेत्रधनादिकैः ॥ २३४.५३॥
२३४.५४/१क्रियते न तथा भूरि सुखं पुंसां यथासुखम् ।
२३४.५४/२इति संसारदुःखार्क+ ।तापतापितचेतसाम् ॥ २३४.५४॥
२३४.५५/१विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं नृणाम् ।
२३४.५५/२तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ २३४.५५॥
२३४.५६/१गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ।
२३४.५६/२निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ २३४.५६॥
२३४.५७/१भेषजं भगवत्प्राप्तिरेका चात्यन्तिकी मता ।
२३४.५७/२तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ २३४.५७॥
२३४.५८/१तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः ।
२३४.५८/२आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ २३४.५८॥
२३४.५९/१शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ।
२३४.५९/२अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ २३४.५९॥
२३४.६०/१यथा सूर्यस्तथा ज्ञानं यद् वै विप्रा विवेकजम् ।
२३४.६०/२मनुरप्याह वेदार्थं स्मृत्वा यन् मुनिसत्तमाः ॥ २३४.६०॥
२३४.६१/१तद् एतच्छ्रूयतामत्र सम्बन्धे गदतो मम ।
२३४.६१/२द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ २३४.६१॥
२३४.६२/१शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।
२३४.६२/२द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः ॥ २३४.६२॥
२३४.६३/१परया ह्यक्षरप्राप्तिरृग्वेदादिमयापरा ।
२३४.६३/२यत् तद् अव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ २३४.६३॥
२३४.६४/१अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ।
२३४.६४/२वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ २३४.६४॥
२३४.६५/१व्याप्यं व्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः ।
२३४.६५/२तद् ब्रह्म परमं धाम तद् धेयं मोक्षकाङ्क्षिभिः ॥ २३४.६५॥
२३४.६६/१श्रुतिवाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ।
२३४.६६/२उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥ २३४.६६॥
२३४.६७/१वेत्ति विद्यामविद्यां च स वाच्यो भगवान् इति ।
२३४.६७/२ज्ञानशक्तिबलैश्वर्य+ ।वीर्यतेजांस्यशेषतः ॥ २३४.६७॥
२३४.६८/१भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।
२३४.६८/२सर्वाणि तत्र भूतानि निवसन्ति परात्मनि ॥ २३४.६८॥
२३४.६९/१भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ।
२३४.६९/२उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ २३४.६९॥
२३४.७०/१नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ।
२३४.७०/२भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत् ।
२३४.७०/३धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २३४.७०॥
२३४.७१/१स सर्वभूतप्रकृतिर्गुणांश्च ।
२३४.७१/२दोषांश्च सर्वान् सगुणो ह्यतीतः ।
२३४.७१/३अतीतसर्वावरणोऽखिलात्मा ।
२३४.७१/४तेनावृतं यद् भुवनान्तरालम् ॥ २३४.७१॥
२३४.७२/१समस्तकल्याणगुणात्मको हि ।
२३४.७२/२स्वशक्तिलेशादृतभूतसर्गः ।
२३४.७२/३इच्छागृहीताभिमतोरुदेहः ।
२३४.७२/४संसाधिताशेषजगद्धितोऽसौ ॥ २३४.७२॥
२३४.७३/१तेजोबलैश्वर्यमहावरोधः ।
२३४.७३/२स्ववीर्यशक्त्यादिगुणैकराशिः ।
२३४.७३/३परः पराणां सकला न यत्र ।
२३४.७३/४क्लेशादयः सन्ति परापरेशे ॥ २३४.७३॥
२३४.७४/१स ईश्वरो व्यष्टिसमष्टिरूपो ।
<234।74/2>ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
२३४.७४/३सर्वेश्वरः सर्वदृक् सर्ववेत्ता ।
२३४.७४/४समस्तशक्तिः परमेश्वराख्यः ॥ २३४.७४॥
२३४.७५/१संज्ञायते येन तद् अस्तदोषम् ।
२३४.७५/२शुद्धं परं निर्मलमेकरूपम् ।
२३४.७५/३संदृश्यते वाप्यथ गम्यते वा ।
२३४.७५/४तज्ज्ञानमज्ञानमतोऽन्यद् उक्तम् ॥ २३४.७५॥
२३५.१/१मुनय ऊचुः । इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
२३५.१/२यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१॥
२३५.२/१श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस्तदा ।
२३५.२/२अब्रवीत् परमप्रीतो योगी योगविदां वरः ॥ २३५.२॥
२३५.३/१व्यास उवाच । योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् ।
२३५.३/२यमभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम् ॥ २३५.३॥
२३५.४/१श्रुत्वादौ योगशास्त्राणि गुरुमाराध्य भक्तितः ।
२३५.४/२इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४॥
२३५.५/१आहारं योगदोषांश्च देशकालं च बुद्धिमान् ।
२३५.५/२ज्ञात्वा समभ्यसेद् योगं निर्द्वंद्वो निष्परिग्रहः ॥ २३५.५॥
२३५.६/१भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः ।
२३५.६/२यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६॥
२३५.७/१न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा ।
२३५.७/२न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७॥
२३५.८/१सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।
२३५.८/२सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥ २३५.८॥
२३५.९/१न चैत्ये न च वल्मीके सभये कूपसंनिधौ ।
२३५.९/२न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९॥
२३५.१०/१देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै ।
२३५.१०/२प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१०॥
२३५.११/१बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ।
२३५.११/२ज्वरश्च जायते सद्यस्तद्वद् अज्ञानसम्भवः ॥ २३५.११॥
२३५.१२/१तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा ।
२३५.१२/२धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ २३५.१२॥
२३५.१३/१आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे ।
२३५.१३/२शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥ २३५.१३॥
२३५.१४/१रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः ।
२३५.१४/२पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४॥
२३५.१५/१आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले ।
२३५.१५/२नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः ॥ २३५.१५॥
२३५.१६/१युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः ।
२३५.१६/२सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६॥
२३५.१७/१नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः ।
२३५.१७/२संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः ॥ २३५.१७॥
२३५.१८/१समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः ।
२३५.१८/२प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८॥
२३५.१९/१रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
२३५.१९/२संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥ २३५.१९॥
२३५.२०/१हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् ।
२३५.२०/२युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥ २३५.२०॥
२३५.२१/१करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् ।
२३५.२१/२क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१॥
२३५.२२/१मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् ।
२३५.२२/२संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२॥
२३५.२३/१यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते ।
२३५.२३/२समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥ २३५.२३॥
२३५.२४/१असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु ।
२३५.२४/२भवत्यानन्दमासाद्य तदा निर्वाणम् ऋच्छति ॥ २३५.२४॥
२३५.२५/१शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् ।
२३५.२५/२प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः ॥ २३५.२५॥
२३५.२६/१निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः ।
२३५.२६/२सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६॥
२३५.२७/१इन्द्रियाणि न सेवेत वैराग्येण च योगवित् ।
२३५.२७/२सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७॥
२३५.२८/१न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् ।
२३५.२८/२मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८॥
२३५.२९/१एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः ।
२३५.२९/२संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९॥
२३५.३०/१लोमहर्षण उवाच । श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् ।
२३५.३०/२व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३०॥
२३६.१/१मुनय ऊचुः । तव वक्त्राब्धिसम्भूतममृतं वाङ्मयं मुने ।
२३६.१/२पिबतां नो द्विजश्रेष्ठ न तृप्तिरिह दृश्यते ॥ २३६.१॥
२३६.२/१तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।
२३६.२/२सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२॥
२३६.३/१प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः ।
२३६.३/२सत्यधर्ममतिर्ब्रह्मन् कथं ब्रह्माधिगच्छति ॥ २३६.३॥
२३६.४/१तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
२३६.४/२सांख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः ॥ २३६.४॥
२३६.५/१मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते ।
२३६.५/२येनोपायेन पुरुषस्तत् त्वं व्याख्यातुमर्हसि ॥ २३६.५॥
२३६.६/१व्यास उवाच । नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
२३६.६/२नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन ॥ २३६.६॥
२३६.७/१महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः ।
२३६.७/२भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७॥
२३६.८/१भूमेर्देहो जलात् स्नेहो ज्योतिषश्चक्षुषी स्मृते ।
२३६.८/२प्राणापानाश्रयो वायुः कोष्ठाऽऽकाशं शरीरिणाम् ॥ २३६.८॥
२३६.९/१क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
२३६.९/२कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥ २३६.९॥
२३६.१०/१कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
२३६.१०/२दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१०॥
२३६.११/१शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।
२३६.११/२इन्द्रियार्थान् पृथग् विद्याद् इन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११॥
२३६.१२/१इन्द्रियाणि मनो युङ्क्ते अवश्यान् इव राजिनः मनश्चापि
सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ २३६.१२॥
२३६.१३/१इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
२३६.१३/२नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३॥
२३६.१४/१इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
२३६.१४/२प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४॥
२३६.१५/१आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।
२३६.१५/२सत्त्वं हि तेजः सृजति न गुणान् वै कथंचन ॥ २३६.१५॥
२३६.१६/१एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः ।
२३६.१६/२मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६॥
२३६.१७/१न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।
२३६.१७/२मनसा तु प्रदीप्तेन महान् आत्मा प्रकाशते ॥ २३६.१७॥
२३६.१८/१अशब्दस्पर्शरूपं तच्चारसागन्धमव्ययम् ।
२३६.१८/२अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८॥
२३६.१९/१अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।
२३६.१९/२योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९॥
२३६.२०/१विद्याविनयसम्पन्न+ ।ब्राह्मणे गवि हस्तिनि ।
२३६.२०/२शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२०॥
२३६.२१/१स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
२३६.२१/२वसत्येको महान् आत्मा येन सर्वमिदं ततम् ॥ २३६.२१॥
२३६.२२/१सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
२३६.२२/२यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२॥
२३६.२३/१यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि ।
२३६.२३/२य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २३६.२३॥
२३६.२४/१सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
२३६.२४/२देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४॥
२३६.२५/१शकुन्तानामिवाकाशे मत्स्यानामिव चोदके ।
२३६.२५/२यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ २३६.२५॥
२३६.२६/१कालः पचति भूतानि सर्वाण्येवात्मनात्मनि ।
२३६.२६/२यस्मिंस्तु पच्यते कालस्तन् न वेदेह कश्चन ॥ २३६.२६॥
२३६.२७/१न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः ।
२३६.२७/२न मध्ये प्रतिगृह्णीते नैव किंचिन् न कश्चन ॥ २३६.२७॥
२३६.२८/१सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन ।
२३६.२८/२यद्यप्यग्रे समागच्छेद् यथा बाणो गुणच्युतः ॥ २३६.२८॥
२३६.२९/१नैवान्तं कारणस्येयाद् यद्यपि स्यान् मनोजवः ।
२३६.२९/२तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९॥
२३६.३०/१सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।
२३६.३०/२सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३०॥
२३६.३१/१तद् एवाणोरणुतरं तन् महद्भ्यो महत्तरम् ।
२३६.३१/२तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते ॥ २३६.३१॥
२३६.३२/१अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः ।
२३६.३२/२क्षरः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ २३६.३२॥
२३६.३३/१नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ।
२३६.३३/२ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ २३६.३३॥
२३६.३४/१हानेनाभिविकल्पानां नराणां संचयेन च ।
२३६.३४/२शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ २३६.३४॥
२३६.३५/१हंसोक्तं च क्षरं चैव कूटस्थं यत् तद् अक्षरम् ।
२३६.३५/२तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी ॥ २३६.३५॥
२३६.३६/१व्यास उवाच । भवतां पृच्छतां विप्रा यथावद् इह तत्त्वतः ।
२३६.३६/२सांख्यं ज्ञानेन संयुक्तं यद् एतत् कीर्तितं मया ॥ २३६.३६॥
२३६.३७/१योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् ।
२३६.३७/२एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ २३६.३७॥
२३६.३८/१आत्मनो व्यापिनो ज्ञानं ज्ञानमेतद् अनुत्तमम् ।
२३६.३८/२तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना ॥ २३६.३८॥
२३६.३९/१आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
२३६.३९/२योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः ॥ २३६.३९॥
२३६.४०/१कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।
२३६.४०/२क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥ २३६.४०॥
२३६.४१/१सत्त्वसंसेवनाद् धीरो निद्रामुच्छेत्तुमर्हति ।
२३६.४१/२धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा ॥ २३६.४१॥
२३६.४२/१चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ।
२३६.४२/२अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात् ॥ २३६.४२॥
२३६.४३/१एवमेतान् योगदोषाञ् जयेन् नित्यमतन्द्रितः ।
२३६.४३/२अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत् सदा ॥ २३६.४३॥
२३६.४४/१वर्जयेद् उद्धतां वाचं हिंसायुक्तां मनोनुगाम् ।
२३६.४४/२ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ २३६.४४॥
२३६.४५/१एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ।
२३६.४५/२ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३६.४५॥
२३६.४६/१शौचं चैवात्मनः शुद्धिरिन्द्रियाणां च निग्रहः ।
२३६.४६/२एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ २३६.४६॥
२३६.४७/१समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् ।
२३६.४७/२धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३६.४७॥
२३६.४८/१कामक्रोधौ वशे कृत्वा निषेवेद् ब्रह्मणः पदम् ।
२३६.४८/२मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ॥ २३६.४८॥
२३६.४९/१पूर्वरात्रे परार्धे च धारयेन् मन आत्मनः ।
२३६.४९/२जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ २३६.४९॥
२३६.५०/१ततोऽस्य स्रवति प्रज्ञा गिरेः पादाद् इवोदकम् ।
२३६.५०/२मनसः पूर्वमादद्यात् कूर्माणामिव मत्स्यहा ॥ २३६.५०॥
२३६.५१/१ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ।
२३६.५१/२तत एतानि संयम्य मनसि स्थापयेद् यदि ॥ २३६.५१॥
२३६.५२/१तथैवापोह्य संकल्पान् मनो ह्यात्मनि धारयेत् ।
२३६.५२/२पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद् यदि ॥ २३६.५२॥
२३६.५३/१यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ।
२३६.५३/२प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ २३६.५३॥
२३६.५४/१विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् ।
२३६.५४/२वैद्युतोऽग्निरिवाकाशे पश्यन्त्यात्मानमात्मनि ॥ २३६.५४॥
२३६.५५/१सर्वं तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते ।
२३६.५५/२तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ २३६.५५॥
२३६.५६/१धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ।
२३६.५६/२एवं परिमितं कालमाचरन् संशितव्रतः ॥ २३६.५६॥
२३६.५७/१आसीनो हि रहस्येको गच्छेद् अक्षरसाम्यताम् ।
२३६.५७/२प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ २३६.५७॥
२३६.५८/१अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः ।
२३६.५८/२प्रतिभान् उपसर्गाश्च प्रतिसंगृह्य योगतः ॥ २३६.५८॥
२३६.५९/१तांस्तत्त्वविद् अनादृत्य साम्येनैव निवर्तयेत् ।
२३६.५९/२कुर्यात् परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ २३६.५९॥
२३६.६०/१गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् ।
२३६.६०/२संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ २३६.६०॥
२३६.६१/१एकाग्रं चिन्तयेन् नित्यं योगान् नोद्विजते मनः ।
२३६.६१/२येनोपायेन शक्येत नियन्तुं चञ्चलं मनः ॥ २३६.६१॥
२३६.६२/१तत्र युक्तो निषेवेत न चैव विचलेत् ततः ।
२३६.६२/२शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २३६.६२॥
२३६.६३/१नातिव्रजेत् परं वाचा कर्मणा मनसापि वा ।
२३६.६३/२उपेक्षको यताहारो लब्धालब्धसमो भवेत् ॥ २३६.६३॥
२३६.६४/१यश्चैनमभिनन्देत यश्चैनमभिवादयेत् ।
२३६.६४/२समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २३६.६४॥
२३६.६५/१न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् ।
२३६.६५/२समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २३६.६५॥
२३६.६६/१एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः ।
२३६.६६/२षण् मासान् नित्ययुक्तस्य शब्दब्रह्माभिवर्तते ॥ २३६.६६॥
२३६.६७/१वेदनार्तान् परान् दृष्ट्वा समलोष्टाश्मकाञ्चनः ।
२३६.६७/२एवं तु निरतो मार्गं विरमेन् न विमोहितः ॥ २३६.६७॥
२३६.६८/१अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
२३६.६८/२तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ २३६.६८॥
२३६.६९/१अजं पुराणमजरं सनातनम् ।
२३६.६९/२यमिन्द्रियातिगमगोचरं द्विजाः ।
२३६.६९/३अवेक्ष्य चेमां परमेष्ठिसाम्यताम् ।
२३६.६९/४प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ २३६.६९॥
२३७.१/१मुनय ऊचुः । यद्येवं वेदवचनं कुरु कर्म त्यजेति च ।
२३७.१/२कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१॥
२३७.२/१एतद् वै श्रोतुमिच्छामस्तद् भवान् प्रब्रवीतु नः ।
२३७.२/२एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२॥
२३७.३/१व्यास उवाच । शृणुध्वं मुनिशार्दूला यत् पृच्छध्वं समासतः ।
२३७.३/२कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३॥
२३७.४/१यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा ।
२३७.४/२शृणुध्वं साम्प्रतं विप्रा गहनं ह्येतद् उत्तरम् ॥ २३७.४॥
२३७.५/१अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् ।
२३७.५/२यक्षस्य सादृश्यमिदं यक्षस्येदं भवेद् अथ ॥ २३७.५॥
२३७.६/१द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
२३७.६/२प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६॥
२३७.७/१कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
२३७.७/२तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७॥
२३७.८/१कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः ।
२३७.८/२विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८॥
२३७.९/१कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः ।
२३७.९/२तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९॥
२३७.१०/१ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।
२३७.१०/२न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव ॥ २३७.१०॥
२३७.११/१कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ ।
२३७.११/२विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११॥
२३७.१२/१न म्रियते यत्र गत्वा यत्र गत्वा न जायते ।
२३७.१२/२न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२॥
२३७.१३/१यत्र तद् ब्रह्म परममव्यक्तमचलं ध्रुवम् ।
२३७.१३/२अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३॥
२३७.१४/१द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
२३७.१४/२समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४॥
२३७.१५/१विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः ।
२३७.१५/२विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५॥
२३७.१६/१तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते ।
२३७.१६/२न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६॥
२३७.१७/१एकादशविकारात्मा कलासम्भारसम्भृतः ।
२३७.१७/२मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम् ॥ २३७.१७॥
२३७.१८/१देवो यः संश्रितस्तस्मिन् बुद्धीन्दुरिव पुष्करे ।
२३७.१८/२क्षेत्रज्ञं तं विजानीयान् नित्यं योगजितात्मकम् ॥ २३७.१८॥
२३७.१९/१तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् ।
२३७.१९/२जीवमात्मगुणं विद्याद् आत्मानं परमात्मनः ॥ २३७.१९॥
२३७.२०/१सचेतनं जीवगुणं वदन्ति ।
२३७.२०/२स चेष्टते जीवगुणं च सर्वम् ।
२३७.२०/३ततः परं क्षेत्रविदो वदन्ति ।
२३७.२०/४प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२०॥
२३७.२१/१व्यास उवाच । प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः ।
२३७.२१/२ते चैनं न प्रजानन्ति न जानाति स तान् अपि ॥ २३७.२१॥
२३७.२२/१तैश्चैव कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः ।
२३७.२२/२सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२॥
२३७.२३/१इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
२३७.२३/२मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ २३७.२३॥
२३७.२४/१महतः परमव्यक्तमव्यक्तात् परतोऽमृतम् ।
२३७.२४/२अमृतान् न परं किंचित् सा काष्ठा परमा गतिः ॥ २३७.२४॥
२३७.२५/१एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
२३७.२५/२दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५॥
२३७.२६/१अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।
२३७.२६/२इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६॥
२३७.२७/१ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः ।
२३७.२७/२अनीश्वरः प्रशान्तात्मा ततो गच्छेत् परं पदम् ॥ २३७.२७॥
२३७.२८/१इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः ।
२३७.२८/२आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८॥
२३७.२९/१विहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत् ।
२३७.२९/२सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ २३७.२९॥
२३७.३०/१चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
२३७.३०/२प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३०॥
२३७.३१/१लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् ।
२३७.३१/२निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ २३७.३१॥
२३७.३२/१एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानमात्मना ।
२३७.३२/२लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २३७.३२॥
२३७.३३/१रहस्यं सर्ववेदानामनैतिह्यमनागमम् ।
२३७.३३/२आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ २३७.३३॥
२३७.३४/१धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु ।
२३७.३४/२दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ २३७.३४॥
२३७.३५/१नवनीतं यथा दध्नः काष्ठाद् अग्निर्यथैव च ।
२३७.३५/२तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ २३७.३५॥
२३७.३६/१स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
२३७.३६/२तद् इदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ २३७.३६॥
२३७.३७/१नावेदविदुषे वाच्यं तथा नानुगताय च ।
२३७.३७/२नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ २३७.३७॥
२३७.३८/१न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
२३७.३८/२श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ २३७.३८॥
२३७.३९/१इदं प्रियाय पुत्राय शिष्यायानुगताय तु ।
२३७.३९/२रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ २३७.३९॥
२३७.४०/१यद् अप्यस्य महीं दद्याद् रत्नपूर्णामिमां नरः ।
२३७.४०/२इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ २३७.४०॥
२३७.४१/१अतो गुह्यतरार्थं तद् अध्यात्ममतिमानुषम् ।
२३७.४१/२यत् तन् महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ॥ २३७.४१॥
२३७.४२/१तद् युष्मभ्यं प्रयच्छामि यन् मां पृच्छत सत्तमाः ।
२३७.४२/२यन् मे मनसि वर्तेत यस्तु वो हृदि संशयः ।
२३७.४२/३श्रुतं भवद्भिस्तत् सर्वं किमन्यत् कथयामि वः ॥ २३७.४२॥
२३७.४३/१मुनय ऊचुः । अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः ।
२३७.४३/२यद् अध्यात्मं यथा विद्मो भगवन्न् ऋषिसत्तम ॥ २३७.४३॥
२३७.४४/१व्यास उवाच । अध्यात्मं यद् इदं विप्राः पुरुषस्येह पठ्यते ।
२३७.४४/२युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम् ॥ २३७.४४॥
२३७.४५/१भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
२३७.४५/२महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ २३७.४५॥
२३७.४६/१मुनय ऊचुः । आकारं तु भवेद् यस्य यस्मिन् देहं न पश्यति ।
२३७.४६/२आकाशाद्यं शरीरेषु कथं तद् उपवर्णयेत् ।
२३७.४६/३इन्द्रियाणां गुणाः केचित् कथं तान् उपलक्षयेत् ॥ २३७.४६॥
२३७.४७/१व्यास उवाच । एतद् वो वर्णयिष्यामि यथावद् अनुदर्शनम् ।
२३७.४७/२शृणुध्वं तद् इहैकाग्र्या यथातत्त्वं यथा च तत् ॥ २३७.४७॥
२३७.४८/१शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् ।
२३७.४८/२प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ २३७.४८॥
२३७.४९/१रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
२३७.४९/२रसोऽथ रसनं स्वेदो गुणास्त्वेते त्रयोऽम्भसाम् ॥ २३७.४९॥
२३७.५०/१घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
२३७.५०/२एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ २३७.५०॥
२३७.५१/१वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते ।
२३७.५१/२आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ २३७.५१॥
२३७.५२/१मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः ।
२३७.५२/२ते गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः ॥ २३७.५२॥
२३७.५३/१यथा कूर्म इवाङ्गानि प्रसार्य संनियच्छति ।
२३७.५३/२एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ २३७.५३॥
२३७.५४/१यद् ऊर्ध्वं पादतलयोरवार्कोर्ध्वं च पश्यति ।
२३७.५४/२एतस्मिन्न् एव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ २३७.५४॥
२३७.५५/१गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
२३७.५५/२मनःषष्ठानि सर्वाणि बुद्ध्या भावात् कुतो गुणाः ॥ २३७.५५॥
२३७.५६/१इन्द्रियाणि नरैः पञ्च षष्ठं तन् मन उच्यते ।
२३७.५६/२सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ २३७.५६॥
२३७.५७/१चक्षुरालोकनायैव संशयं कुरुते मनः ।
२३७.५७/२बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ २३७.५७॥
२३७.५८/१रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः ।
२३७.५८/२समाः सर्वेषु भूतेषु तान् गुणान् उपलक्षयेत् ॥ २३७.५८॥
२३७.५९/१तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् ।
२३७.५९/२प्रशान्तमिव संयुक्तं सत्त्वं तद् उपधारयेत् ॥ २३७.५९॥
२३७.६०/१यत् तु संतापसंयुक्तं काये मनसि वा भवेत् ।
२३७.६०/२प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ २३७.६०॥
२३७.६१/१यत् तु सम्मोहसंयुक्तमव्यक्तं विषमं भवेत् ।
२३७.६१/२अप्रतर्क्यमविज्ञेयं तमस्तद् उपधारयेत् ॥ २३७.६१॥
२३७.६२/१प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता ।
२३७.६२/२अकस्माद् यदि वा कस्माद् वदन्ति सात्त्विकान् गुणान् ॥ २३७.६२॥
२३७.६३/१अभिमानो मृषावादो लोभो मोहस्तथाक्षमा ।
२३७.६३/२लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ २३७.६३॥
२३७.६४/१तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता ।
२३७.६४/२कथंचिद् अभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २३७.६४॥
२३७.६५/१मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
२३७.६५/२हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ २३७.६५॥
२३७.६६/१इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
२३७.६६/२मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ २३७.६६॥
२३७.६७/१बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनायिका ।
२३७.६७/२यदा विकुरुते भावं तदा भवति सा मनः ॥ २३७.६७॥
२३७.६८/१इन्द्रियाणां पृथग्भावाद् बुद्धिर्विकुरुते ह्यनु ।
२३७.६८/२शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ २३७.६८॥
२३७.६९/१पश्यन्ती च भवेद् दृष्टी रसन्ती रसना भवेत् ।
२३७.६९/२जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ २३७.६९॥
२३७.७०/१इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति ।
२३७.७०/२तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ २३७.७०॥
२३७.७१/१कदाचिल्लभते प्रीतिं कदाचिद् अपि शोचति ।
२३७.७१/२न सुखेन च दुःखेन कदाचिद् इह मुह्यते ॥ २३७.७१॥
२३७.७२/१स्वयं भावात्मिका भावांस्त्रीन् एतान् अतिवर्तते ।
२३७.७२/२सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३७.७२॥
२३७.७३/१यदा प्रार्थयते किंचित् तदा भवति सा मनः ।
२३७.७३/२अधिष्ठाने च वै बुद्ध्या पृथग् एतानि संस्मरेत् ॥ २३७.७३॥
२३७.७४/१इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः ।
२३७.७४/२सर्वाण्येवानुपूर्वेण यद् यदा च विधीयते ॥ २३७.७४॥
२३७.७५/१अविभागमना बुद्धिर्भावो मनसि वर्तते ।
२३७.७५/२प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ २३७.७५॥
२३७.७६/१ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु ।
२३७.७६/२अन्वर्थान् सम्प्रवर्तन्ते रथनेमिमरा इव ॥ २३७.७६॥
२३७.७७/१प्रदीपार्थं मनः कुर्याद् इन्द्रियैर्बुद्धिसत्तमैः ।
२३७.७७/२निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ २३७.७७॥
२३७.७८/१एवंस्वभावमेवेदमिति बुद्ध्वा न मुह्यति ।
२३७.७८/२अशोचन् सम्प्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३७.७८॥
२३७.७९/१न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
२३७.७९/२प्रवर्तमानैरनेकैर्दुर्धरैरकृतात्मभिः ॥ २३७.७९॥
२३७.८०/१तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति ।
२३७.८०/२तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाकृतिः ॥ २३७.८०॥
२३७.८१/१सर्वेषामेव भूतानां तमस्युपगते यथा ।
२३७.८१/२प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ २३७.८१॥
२३७.८२/१यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
२३७.८२/२विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ २३७.८२॥
२३७.८३/१एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
२३७.८३/२असज्जमानः सर्वेषु न कथंचित् प्रलिप्यते ॥ २३७.८३॥
२३७.८४/१त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि ।
२३७.८४/२सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ २३७.८४॥
२३७.८५/१स्वयमात्मा प्रसवति गुणेष्वपि कदाचन ।
२३७.८५/२न गुणा विदुरात्मानं गुणान् वेद स सर्वदा ॥ २३७.८५॥
२३७.८६/१परिदध्याद् गुणानां स द्रष्टा चैव यथातथम् ।
२३७.८६/२सत्त्वक्षेत्रज्ञयोरेवमन्तरं लक्षयेन् नरः ॥ २३७.८६॥
२३७.८७/१सृजते तु गुणान् एक एको न सृजते गुणान् ।
२३७.८७/२पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ २३७.८७॥
२३७.८८/१यथाश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ ।
२३७.८८/२मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह ॥ २३७.८८॥
२३७.८९/१इषिका वा यथा मुञ्जे पृथक् च सह चैव ह ।
२३७.८९/२तथैव सहितावेतौ अन्योन्यस्मिन् प्रतिष्ठितौ ॥ २३७.८९॥
२३८.१/१व्यास उवाच । सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति ।
२३८.१/२गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः ॥ २३८.१॥
२३८.२/१स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् ।
२३८.२/२ऊर्णनाभिर्यथा सूत्रं सृजते तद् गुणांस्तथा ॥ २३८.२॥
२३८.३/१प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
२३८.३/२एवमेके व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३॥
२३८.४/१उभयं सम्प्रधार्यैतद् अध्यवस्येद् यथामति ।
२३८.४/२अनेनैव विधानेन भवेद् वै संशयो महान् ॥ २३८.४॥
२३८.५/१अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन् नरः ।
२३८.५/२अक्रुध्यन्न् अप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५॥
२३८.६/१इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।
२३८.६/२अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६॥
२३८.७/१तरयेत् प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।
२३८.७/२अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७॥
२३८.८/१न तु तप्यति वै विद्वान् स्थले चरति तत्त्ववित् ।
२३८.८/२एवं विचिन्त्य चात्मानं केवलं ज्ञानमात्मनः ॥ २३८.८॥
२३८.९/१तां तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् ।
२३८.९/२समचेष्टश्च वै सम्यग् लभते शममुत्तमम् ॥ २३८.९॥
२३८.१०/१एतद् द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः ।
२३८.१०/२आत्मज्ञानसमस्नेह+ ।पर्याप्तं तत्परायणम् ॥ २३८.१०॥
२३८.११/१तत्त्वं बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम् ।
२३८.११/२विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११॥
२३८.१२/१न भवति विदुषां महद् भयम् ।
२३८.१२/२यद् अविदुषां सुमहद् भयं परत्र ।
२३८.१२/३नहि गतिरधिकास्ति कस्यचिद् ।
२३८.१२/४भवति हि या विदुषः सनातनी ॥ २३८.१२॥
२३८.१३/१लोके मातरमसूयते नरस्- ।
२३८.१३/२तत्र देवमनिरीक्ष्य शोचते ।
२३८.१३/३तत्र चेत् कुशलो न शोचते ।
२३८.१३/४ये विदुस्तद् उभयं कृताकृतम् ॥ २३८.१३॥
२३८.१४/१यत् करोत्यनभिसंधिपूर्वकम् ।
२३८.१४/२तच्च निन्दयति यत् पुरा कृतम् ।
२३८.१४/३यत् प्रियं तद् उभयं न वाप्रियम् ।
२३८.१४/४तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४॥
२३८.१५/१मुनय ऊचुः । यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन ।
२३८.१५/२यो विशिष्टश्च भूतेभ्यस्तद् भवान् प्रब्रवीतु नः ॥ २३८.१५॥
२३८.१६/१व्यास उवाच । धर्मं च सम्प्रवक्ष्यामि पुराणम् ऋषिभिः स्तुतम् ।
२३८.१६/२विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ २३८.१६॥
२३८.१७/१इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।
२३८.१७/२सर्वतः प्रसृतानीह पिता बालान् इवात्मजान् ॥ २३८.१७॥
२३८.१८/१मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं परमं तपः ।
२३८.१८/२विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८॥
२३८.१९/१तानि सर्वाणि संधाय मनःषष्ठानि मेधया ।
२३८.१९/२आत्मतृप्तः स एवासीद् बहुचिन्त्यमचिन्तयन् ॥ २३८.१९॥
२३८.२०/१गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।
२३८.२०/२तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२०॥
२३८.२१/१सर्वात्मानं महात्मानं विधूममिव पावकम् ।
२३८.२१/२प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१॥
२३८.२२/१यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।
२३८.२२/२आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२॥
२३८.२३/१एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् ।
२३८.२३/२अन्यो ह्यस्यान्तरात्मास्ति यः सर्वमनुपश्यति ॥ २३८.२३॥
२३८.२४/१ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना ।
२३८.२४/२दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४॥
२३८.२५/१विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।
२३८.२५/२परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५॥
२३८.२६/१सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।
२३८.२६/२पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ २३८.२६॥
२३८.२७/१लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।
२३८.२७/२सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७॥
२३८.२८/१अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।
२३८.२८/२प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८॥
२३८.२९/१संसारसागरगमां योनिपातालदुस्तराम् ।
२३८.२९/२आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९॥
२३८.३०/१यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।
२३८.३०/२तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ् शुचिः ॥ २३८.३०॥
२३८.३१/१उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते ।
२३८.३१/२उत्तीर्णः सर्वसंक्लेशान् प्रसन्नात्मा विकल्मषः ॥ २३८.३१॥
२३८.३२/१भूयिष्ठानीव भूतानि सर्वस्थानान् निरीक्ष्य च ।
२३८.३२/२अक्रुध्यन्न् अप्रसीदंश्च ननृशंसमतिस्तथा ॥ २३८.३२॥
२३८.३३/१ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् ।
२३८.३३/२एतद् धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ २३८.३३॥
२३८.३४/१धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः ।
२३८.३४/२आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ २३८.३४॥
२३८.३५/१प्रयताय प्रवक्तव्यं हितायानुगताय च ।
२३८.३५/२आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ २३८.३५॥
२३८.३६/१अब्रवं यद् अहं विप्रा आत्मसाक्षिकमञ्जसा ।
२३८.३६/२नैव स्त्री न पुमान् एवं न चैवेदं नपुंसकम् ॥ २३८.३६॥
२३८.३७/१अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् ।
२३८.३७/२नैतज्ज्ञात्वा पुमान् स्त्री वा पुनर्भवमवाप्नुयात् ॥ २३८.३७॥
२३८.३८/१यथा मतानि सर्वाणि तथैतानि यथा तथा ।
२३८.३८/२कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३८॥
२३८.३९/१तत्प्रीतियुक्तेन गुणान्वितेन ।
२३८.३९/२पुत्रेण सत्पुत्रदयान्वितेन ।
२३८.३९/३दृष्ट्वा हितं प्रीतमना यदर्थम् ।
२३८.३९/४ब्रूयात् सुतस्येह यद् उक्तमेतत् ॥ २३८.३९॥
२३८.४०/१मुनय ऊचुः । मोक्षः पितामहेनोक्त उपायान् नानुपायतः ।
२३८.४०/२तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ २३८.४०॥
२३८.४१/१व्यास उवाच । अस्मासु तन् महाप्राज्ञा युक्तं निपुणदर्शनम् ।
२३८.४१/२यदुपायेन सर्वार्थान् मृगयध्वं सदानघाः ॥ २३८.४१॥
२३८.४२/१घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता ।
२३८.४२/२एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम् ॥ २३८.४२॥
२३८.४३/१पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ।
२३८.४३/२एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ २३८.४३॥
२३८.४४/१क्षमया क्रोधमुच्छिन्द्यात् कामं संकल्पवर्जनात् ।
२३८.४४/२सत्त्वसंसेवनाद् धीरो निद्रामुच्छेत्तुमर्हति ॥ २३८.४४॥
२३८.४५/१अप्रमादाद् भयं रक्षेद् रक्षेत् क्षेत्रं च संविदम् ।
२३८.४५/२इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ २३८.४५॥
२३८.४६/१निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ।
२३८.४६/२उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ २३८.४६॥
२३८.४७/१लोभं मोहं च संतोषाद् विषयांस्तत्त्वदर्शनात् ।
२३८.४७/२अनुक्रोशाद् अधर्मं च जयेद् धर्ममुपेक्षया ॥ २३८.४७॥
२३८.४८/१आयत्या च जयेद् आशां सामर्थ्यं सङ्गवर्जनात् ।
२३८.४८/२अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ २३८.४८॥
२३८.४९/१कारुण्येनात्मनात्मानं तृष्णां च परितोषतः ।
२३८.४९/२उत्थानेन जयेत् तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ २३८.४९॥
२३८.५०/१मौनेन बहुभाषां च शौर्येण च भयं जयेत् ।
२३८.५०/२यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ २३८.५०॥
२३८.५१/१ज्ञानमात्मा महान् यच्छेत् तं यच्छेच्छान्तिरात्मनः ।
२३८.५१/२तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ २३८.५१॥
२३८.५२/१योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः ।
२३८.५२/२कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ २३८.५२॥
२३८.५३/१परित्यज्य निषेवेत यथावद् योगसाधनात् ।
२३८.५३/२ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३८.५३॥
२३८.५४/१शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः ।
२३८.५४/२एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ २३८.५४॥
२३८.५५/१सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ।
२३८.५५/२धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३८.५५॥
२३८.५६/१कामक्रोधौ वशे कृत्वा निर्विशेद् ब्रह्मणः पदम् ।
२३८.५६/२अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ २३८.५६॥
२३८.५७/१अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः ।
२३८.५७/२एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।
२३८.५७/३तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥ २३८.५७॥
२३९.१/१मुनय ऊचुः । सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि ।
२३९.१/२तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१॥
२३९.२/१व्यास उवाच । सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः ।
२३९.२/२वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२॥
२३९.३/१अनीश्वरः कथं मुच्येद् इत्येवं मुनिसत्तमाः ।
२३९.३/२वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः ॥ २३९.३॥
२३९.४/१वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः ।
२३९.४/२विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४॥
२३९.५/१ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा ।
२३९.५/२एतद् आहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ २३९.५॥
२३९.६/१स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
२३९.६/२शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः ॥ २३९.६॥
२३९.७/१प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः ।
२३९.७/२उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७॥
२३९.८/१उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते ।
२३९.८/२अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८॥
२३९.९/१तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः ।
२३९.९/२व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९॥
२३९.१०/१मुनय ऊचुः । यदि तुल्यं व्रतं शौचं दया चात्र महामुने ।
२३९.१०/२तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम ॥ २३९.१०॥
२३९.११/१व्यास उवाच । रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
२३९.११/२योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान् ॥ २३९.११॥
२३९.१२/१यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् ।
२३९.१२/२प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः ॥ २३९.१२॥
२३९.१३/१तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
२३९.१३/२प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३॥
२३९.१४/१लोभजानि तथा विप्रा बन्धनानि बलान्वितः ।
२३९.१४/२छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४॥
२३९.१५/१अचलास्त्वाविला विप्रा वागुरासु तथापरे ।
२३९.१५/२विनश्यन्ति न संदेहस्तद्वद् योगबलाद् ऋते ॥ २३९.१५॥
२३९.१६/१बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः ।
२३९.१६/२बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६॥
२३९.१७/१यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदमाः ।
२३९.१७/२तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७॥
२३९.१८/१कर्मजैर्बन्धनैर्बद्धास्तद्वद् योगपरा द्विजाः ।
२३९.१८/२अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८॥
२३९.१९/१अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः ।
२३९.१९/२आक्रान्त इन्धनैः स्थूलैस्तद्वद् योगबलः स्मृतः ॥ २३९.१९॥
२३९.२०/१स एव च तदा विप्रा वह्निर्जातबलः पुनः ।
२३९.२०/२समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीमिमाम् ॥ २३९.२०॥
२३९.२१/१तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः ।
२३९.२१/२अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ २३९.२१॥
२३९.२२/१दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः ।
२३९.२२/२बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२॥
२३९.२३/१तद् एव तु यथा स्रोतो विष्कम्भयति वारणः ।
२३९.२३/२तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर्हृतः ॥ २३९.२३॥
२३९.२४/१विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः ।
२३९.२४/२प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः ॥ २३९.२४॥
२३९.२५/१न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः ।
२३९.२५/२विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५॥
२३९.२६/१आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः ।
२३९.२६/२योगं कुर्याद् बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६॥
२३९.२७/१प्राप्नुयाद् विषयान् कश्चित् पुनश्चोग्रं तपश्चरेत् ।
२३९.२७/२संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणान् इव ॥ २३९.२७॥
२३९.२८/१बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः ।
२३९.२८/२विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८॥
२३९.२९/१बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः ।
२३९.२९/२निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९॥
२३९.३०/१आत्मनश्च समाधाने धारणां प्रति वा द्विजाः ।
२३९.३०/२निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥ २३९.३०॥
२३९.३१/१अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
२३९.३१/२युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ २३९.३१॥
२३९.३२/१स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् ।
२३९.३२/२पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः ॥ २३९.३२॥
२३९.३३/१मुक्तस्तथायमात्मानं योगं तद्वत् सुनिश्चलम् ।
२३९.३३/२करोत्यमलमात्मानं भास्करोपमदर्शने ॥ २३९.३३॥
२३९.३४/१यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः ।
२३९.३४/२महार्णवगतां शीघ्रं नयेद् विप्रांस्तु पत्तनम् ॥ २३९.३४॥
२३९.३५/१तद्वद् आत्मसमाधानं युक्तो योगेन योगवित् ।
२३९.३५/२दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ २३९.३५॥
२३९.३६/१सारथिश्च यथा युक्तः सदश्वान् सुसमाहितः ।
२३९.३६/२देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभम् ॥ २३९.३६॥
२३९.३७/१तथैव च द्विजा योगी धारणासु समाहितः ।
२३९.३७/२प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाशुगः ॥ २३९.३७॥
२३९.३८/१आविश्यात्मनि चात्मानं योऽवतिष्ठति सोऽचलः ।
२३९.३८/२पाशं हत्वेव मीनानां पदमाप्नोति सोऽजरम् ॥ २३९.३८॥
२३९.३९/१नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः ।
२३९.३९/२दर्शने श्रवणे वापि घ्राणे चामितविक्रमः ॥ २३९.३९॥
२३९.४०/१स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।
२३९.४०/२आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग् द्विजोत्तमाः ॥ २३९.४०॥
२३९.४१/१सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् ।
२३९.४१/२उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ २३९.४१॥
२३९.४२/१मुनय ऊचुः । आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम ।
२३९.४२/२योगी बलमवाप्नोति तद् भवान् वक्तुमर्हति ॥ २३९.४२॥
२३९.४३/१व्यास उवाच । कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः ।
२३९.४३/२स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ २३९.४३॥
२३९.४४/१भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः ।
२३९.४४/२एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४४॥
२३९.४५/१पक्षान् मासान् ऋतूंश्चित्रान् संचरंश्च गुहास्तथा ।
२३९.४५/२अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ २३९.४५॥
२३९.४६/१अखण्डमपि वा मासं सततं मुनिसत्तमाः ।
२३९.४६/२उपोष्य सम्यक् शुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४६॥
२३९.४७/१कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च ।
२३९.४७/२भयं शोकं तथा स्वापं पौरुषान् विषयांस्तथा ॥ २३९.४७॥
२३९.४८/१अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः ।
२३९.४८/२स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ २३९.४८॥
२३९.४९/१दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना ।
२३९.४९/२वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ २३९.४९॥
२३९.५०/१दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् ।
२३९.५०/२यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥ २३९.५०॥
२३९.५१/१यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् ।
२३९.५१/२श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् ॥ २३९.५१॥
२३९.५२/१अभक्तमटवीप्रायं दावदग्धमहीरुहम् ।
२३९.५२/२पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत् तथा ॥ २३९.५२॥
२३९.५३/१योगमार्गं समासाद्य यः कश्चिद् व्रजते द्विजः ।
२३९.५३/२क्षेमेणोपरमेन् मार्गाद् बहुदोषोऽपि सम्मतः ॥ २३९.५३॥
२३९.५४/१आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः ।
२३९.५४/२धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ २३९.५४॥
२३९.५५/१विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् ।
२३९.५५/२नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ २३९.५५॥
२३९.५६/१यस्तु तिष्ठति योगाधौ धारणासु यथाविधि ।
२३९.५६/२मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ २३९.५६॥
२३९.५७/१नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् ।
२३९.५७/२परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ २३९.५७॥
२३९.५८/१परं हि तद् ब्रह्ममयं मुनीन्द्रा ।
२३९.५८/२ब्रह्माणमीशं वरदं च विष्णुम् ।
२३९.५८/३भवं च धर्मं च महानुभावम् ।
२३९.५८/४यद् ब्रह्मपुत्रान् सुमहानुभावान् ॥ २३९.५८॥
२३९.५९/१तमश्च कष्टं सुमहद् रजश्च ।
२३९.५९/२सत्त्वं च शुद्धं प्रकृतिं परां च ।
२३९.५९/३सिद्धिं च देवीं वरुणस्य पत्नीम् ।
२३९.५९/४तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ २३९.५९॥
२३९.६०/१ताराधिपं खे विमलं सुतारम् ।
२३९.६०/२विश्वांश्च देवान् उरगान् पितृंश्च ।
२३९.६०/३शैलांश्च कृत्स्नान् उदधींश्च वाचलान् ।
२३९.६०/४नदीश्च सर्वाः सनगांश्च नागान् ॥ २३९.६०॥
२३९.६१/१साध्यांस्तथा यक्षगणान् दिशश्च ।
२३९.६१/२गन्धर्वसिद्धान् पुरुषान् स्त्रियश्च ।
२३९.६१/३परस्परं प्राप्य महान् महात्मा ।
२३९.६१/४विशेत योगी नचिराद् विमुक्तः ॥ २३९.६१॥
२३९.६२/१कथा च या विप्रवराः प्रसक्ता ।
२३९.६२/२दैवे महावीर्यमतौ शुभेयम् ।
२३९.६२/३योगान् स सर्वान् अनुभूय मर्त्या ।
२३९.६२/४नारायणं तं द्रुतमाप्नुवन्ति ॥ २३९.६२॥
२४०.१/१मुनय ऊचुः । सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता ।
२४०.१/२योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ २४०.१॥
२४०.२/१सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः ।
२४०.२/२त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते ॥ २४०.२॥
२४०.३/१व्यास उवाच । शृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् ।
२४०.३/२विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३॥
२४०.४/१यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः ।
२४०.४/२गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला ॥ २४०.४॥
२४०.५/१ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः ।
२४०.५/२मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस्तथा ॥ २४०.५॥
२४०.६/१विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस्तथा ।
२४०.६/२पितृणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६॥
२४०.७/१सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस्तथा ।
२४०.७/२महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७॥
२४०.८/१आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस्तथैव च ।
२४०.८/२देवर्षिविषयाञ् ज्ञात्वा योगानामपि वै परान् ॥ २४०.८॥
२४०.९/१विषयांश्च प्रमाणस्य ब्रह्मणो विषयांस्तथा ।
२४०.९/२आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९॥
२४०.१०/१सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः ।
२४०.१०/२प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम् ॥ २४०.१०॥
२४०.११/१तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् ।
२४०.११/२स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश्च भो द्विजाः ॥ २४०.११॥
२४०.१२/१वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ।
२४०.१२/२ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२॥
२४०.१३/१सांख्यज्ञाने च ये दोषांस्तथैव च गुणा द्विजाः ।
२४०.१३/२सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥ २४०.१३॥
२४०.१४/१तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ।
२४०.१४/२षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१४॥
२४०.१५/१द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः ।
२४०.१५/२मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५॥
२४०.१६/१ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः ।
२४०.१६/२प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६॥
२४०.१७/१रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
२४०.१७/२शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७॥
२४०.१८/१त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् ।
२४०.१८/२मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥ २४०.१८॥
२४०.१९/१विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् ।
२४०.१९/२अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९॥
२४०.२०/१तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् ।
२४०.२०/२नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२०॥
२४०.२१/१रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि ।
२४०.२१/२सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१॥
२४०.२२/१देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ।
२४०.२२/२ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२॥
२४०.२३/१स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् ।
२४०.२३/२मध्यस्थमिव चात्मानं पापं यस्मिन् न विद्यते ॥ २४०.२३॥
२४०.२४/१द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् ।
२४०.२४/२इन्द्रियाणीन्द्रियार्थांश्च सर्वान् आत्मनि संश्रितान् ॥ २४०.२४॥
२४०.२५/१दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
२४०.२५/२प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५॥
२४०.२६/१आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः ।
२४०.२६/२सप्तधा तांस्तथा शेषान् सप्तधा विधिवत् पुनः ॥ २४०.२६॥
२४०.२७/१प्रजापतीन् ऋषींश्चैव सर्गांश्च सुबहून् वरान् ।
२४०.२७/२सप्तर्षींश्च बहूञ् ज्ञात्वा राजर्षींश्च परंतपान् ॥ २४०.२७॥
२४०.२८/१सुरर्षीन् मरुतश्चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् ।
२४०.२८/२ऐश्वर्याच्च्यावितान् दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८॥
२४०.२९/१महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः ।
२४०.२९/२गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९॥
२४०.३०/१वैतरण्यां च यद् दुःखं पतितानां यमक्षये ।
२४०.३०/२योनिषु च विचित्रासु संचारान् अशुभांस्तथा ॥ २४०.३०॥
२४०.३१/१जठरे चाशुभे वासं शोणितोदकभाजने ।
२४०.३१/२श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ २४०.३१॥
२४०.३२/१शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ।
२४०.३२/२शिराशतसमाकीर्णे नवद्वारे पुरेऽथ वै ॥ २४०.३२॥
२४०.३३/१विज्ञाय हितमात्मानं योगांश्च विविधान् द्विजाः ।
२४०.३३/२तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ २४०.३३॥
२४०.३४/१सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः ।
२४०.३४/२गर्हितं महतामर्थे सांख्यानां विदितात्मनाम् ॥ २४०.३४॥
२४०.३५/१उपप्लवांस्तथा घोराञ् शशिनस्तेजसस्तथा ।
२४०.३५/२ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ २४०.३५॥
२४०.३६/१द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः ।
२४०.३६/२अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ २४०.३६॥
२४०.३७/१बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् ।
२४०.३७/२रागं मोहं च सम्प्राप्तं क्वचित् सत्त्वं समाश्रितम् ॥ २४०.३७॥
२४०.३८/१सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः ।
२४०.३८/२दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ २४०.३८॥
२४०.३९/१बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ।
२४०.३९/२विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ २४०.३९॥
२४०.४०/१गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान् ।
२४०.४०/२वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ २४०.४०॥
२४०.४१/१सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः ।
२४०.४१/२ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ २४०.४१॥
२४०.४२/१सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
२४०.४२/२गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ २४०.४२॥
२४०.४३/१जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः ।
२४०.४३/२सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ २४०.४३॥
२४०.४४/१तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।
२४०.४४/२तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ २४०.४४॥
२४०.४५/१वेदवादांस्तथा चित्रान् ऋतूनां पर्ययांस्तथा ।
२४०.४५/२क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४५॥
२४०.४६/१पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।
२४०.४६/२क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ २४०.४६॥
२४०.४७/१वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
२४०.४७/२क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ २४०.४७॥
२४०.४८/१संयोगानां तथा दृष्ट्वा युगानां च विशेषतः ।
२४०.४८/२देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः ॥ २४०.४८॥
२४०.४९/१आत्मदोषांश्च विज्ञाय सर्वान् आत्मनि संस्थितान् ।
२४०.४९/२स्वदेहाद् उत्थितान् गन्धांस्तथा विज्ञाय चाशुभान् ॥ २४०.४९॥
२४०.५०/१मुनय ऊचुः । कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम ।
२४०.५०/२एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ २४०.५०॥
२४०.५१/१व्यास उवाच । पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः ।
२४०.५१/२मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः ॥ २४०.५१॥
२४०.५२/१कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।
२४०.५२/२एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ २४०.५२॥
२४०.५३/१छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ।
२४०.५३/२सत्त्वसंसेवनान् निद्रामप्रमादाद् भयं तथा ॥ २४०.५३॥
२४०.५४/१छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः ।
२४०.५४/२गुणान् गुणशतैर्ज्ञात्वा दोषान् दोषशतैरपि ॥ २४०.५४॥
२४०.५५/१हेतून् हेतुशतैश्चित्रैश्चित्रान् विज्ञाय तत्त्वतः ।
२४०.५५/२अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ २४०.५५॥
२४०.५६/१चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ।
२४०.५६/२तमःसम्भ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम् ॥ २४०.५६॥
२४०.५७/१नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् ।
२४०.५७/२रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम् ॥ २४०.५७॥
२४०.५८/१सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् ।
२४०.५८/२ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥ २४०.५८॥
२४०.५९/१राजसान् अशुभान् गन्धांस्तामसांश्च तथाविधान् ।
२४०.५९/२पुण्यांश्च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् ॥ २४०.५९॥
२४०.६०/१छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः ।
२४०.६०/२ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ २४०.६०॥
२४०.६१/१व्याधिमृत्युमहाघोरं महाभयमहोरगम् ।
२४०.६१/२तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ॥ २४०.६१॥
२४०.६२/१स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः ।
२४०.६२/२कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ २४०.६२॥
२४०.६३/१हर्षसंघमहावेगं नानारससमाकुलम् ।
२४०.६३/२नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ २४०.६३॥
२४०.६४/१शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् ।
२४०.६४/२अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ २४०.६४॥
२४०.६५/१दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् ।
२४०.६५/२हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम् ॥ २४०.६५॥
२४०.६६/१रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् ।
२४०.६६/२प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ २४०.६६॥
२४०.६७/१अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् ।
२४०.६७/२वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ २४०.६७॥
२४०.६८/१मोक्षदुर्लभविषयं वाडवासुखसागरम् ।
२४०.६८/२तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ २४०.६८॥
२४०.६९/१तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ।
२४०.६९/२ततस्तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः ॥ २४०.६९॥
२४०.७०/१पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः ।
२४०.७०/२तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ २४०.७०॥
२४०.७१/१वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान् ।
२४०.७१/२सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ २४०.७१॥
२४०.७२/१सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् ।
२४०.७२/२स तान् वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ २४०.७२॥
२४०.७३/१नभो वहति लोकेशान् रजसः परमां गतिम् ।
२४०.७३/२रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम् ॥ २४०.७३॥
२४०.७४/१सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् ।
२४०.७४/२प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ २४०.७४॥
२४०.७५/१परमात्मानमासाद्य तद्भूता यतयोऽमलाः ।
२४०.७५/२अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ २४०.७५॥
२४०.७६/१परमा सा गतिर्विप्रा निर्द्वंद्वानां महात्मनाम् ।
२४०.७६/२सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ २४०.७६॥
२४०.७७/१मुनय ऊचुः । स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
२४०.७७/२आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ २४०.७७॥
२४०.७८/१यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुमर्हसि ।
२४०.७८/२त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ २४०.७८॥
२४०.७९/१मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् ।
२४०.७९/२यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ २४०.७९॥
२४०.८०/१प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज ।
२४०.८०/२मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥ २४०.८०॥
२४०.८१/१व्यास उवाच । यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः ।
२४०.८१/२बुधानामपि सम्मोहः प्रश्नेऽस्मिन् मुनिसत्तमाः ॥ २४०.८१॥
२४०.८२/१अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम ।
२४०.८२/२बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ २४०.८२॥
२४०.८३/१इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः ।
२४०.८३/२करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ २४०.८३॥
२४०.८४/१आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
२४०.८४/२विनश्यन्ति न संदेहो वेला इव महार्णवे ॥ २४०.८४॥
२४०.८५/१इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः ।
२४०.८५/२सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ २४०.८५॥
२४०.८६/१स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः ।
२४०.८६/२बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ २४०.८६॥
२४०.८७/१इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
२४०.८७/२अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव ॥ २४०.८७॥
२४०.८८/१इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः ।
२४०.८८/२आक्रम्य गतयः सूक्ष्मा वरत्यात्मा न संशयः ॥ २४०.८८॥
२४०.८९/१सत्त्वस्य च गुणान् कृत्स्नान् रजसश्च गुणान् पुनः ।
२४०.८९/२गुणांश्च तमसः सर्वान् गुणान् बुद्धेश्च सत्तमाः ॥ २४०.८९॥
२४०.९०/१गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा ।
२४०.९०/२गुणान् वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान् पुनः ॥ २४०.९०॥
२४०.९१/१अपां गुणास्तथा विप्राः पार्थिवांश्च गुणान् अपि ।
२४०.९१/२सर्वान् एव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ २४०.९१॥
२४०.९२/१आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे ।
२४०.९२/२शिष्या इव महात्मानमिन्द्रियाणि च तं द्विजाः ॥ २४०.९२॥
२४०.९३/१प्रकृतिं चाप्यतिक्रम्य शुद्धं सूक्ष्मं परात् परम् ।
२४०.९३/२नारायणं महात्मानं निर्विकारं परात् परम् ॥ २४०.९३॥
२४०.९४/१विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्यनामयम् ।
२४०.९४/२परमात्मानमगुणं निर्वृतं तं च सत्तमाः ॥ २४०.९४॥
२४०.९५/१श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः ।
२४०.९५/२आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ २४०.९५॥
२४०.९६/१शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा ।
२४०.९६/२एवमुक्तेन विप्रेन्द्राः सांख्ययोगेन मोक्षिणीम् ॥ २४०.९६॥
२४०.९७/१सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ।
२४०.९७/२ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ २४०.९७॥
२४०.९८/१अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
२४०.९८/२अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ २४०.९८॥
२४०.९९/१अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् ।
२४०.९९/२कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः ॥ २४०.९९॥
२४०.१००/१यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
२४०.१००/२एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ २४०.१००॥
२४०.१०१/१सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः ।
२४०.१०१/२ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ २४०.१०१॥
२४०.१०२/१प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
२४०.१०२/२सम्यग् उक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ २४०.१०२॥
२४०.१०३/१अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः ।
२४०.१०३/२अभिज्ञानानि तस्याहुर्महान्ति मुनिसत्तमाः ॥ २४०.१०३॥
२४०.१०४/१द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः ।
२४०.१०४/२अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥ २४०.१०४॥
२४०.१०५/१ज्ञानं महद् वै महतश्च विप्रा ।
२४०.१०५/२वेदेषु सांख्येषु तथैव योगे ।
२४०.१०५/३यच्चापि दृष्टं विधिवत् पुराणे ।
२४०.१०५/४सांख्यागतं तन् निखिलं मुनीन्द्राः ॥ २४०.१०५॥
२४०.१०६/१यच्चेतिहासेषु महत्सु दृष्टम् ।
२४०.१०६/२यथार्थशास्त्रेषु विशिष्टदृष्टम् ।
२४०.१०६/३ज्ञानं च लोके यद् इहास्ति किंचित् ।
२४०.१०६/४सांख्यागतं तच्च महामुनीन्द्राः ॥ २४०.१०६॥
२४०.१०७/१समस्तदृष्टं परमं बलं च ।
२४०.१०७/२ज्ञानं च मोक्षश्च यथावद् उक्तम् ।
२४०.१०७/३तपांसि सूक्ष्माणि च यानि चैव ।
२४०.१०७/४सांख्ये यथावद् विहितानि विप्राः ॥ २४०.१०७॥
२४०.१०८/१विपर्ययं तस्य हितं सदैव ।
२४०.१०८/२गच्छन्ति सांख्याः सततं सुखेन ।
२४०.१०८/३तांश्चापि संधार्य ततः कृतार्थाः ।
२४०.१०८/४पतन्ति विप्रायतनेषु भूयः ॥ २४०.१०८॥
२४०.१०९/१हित्वा च देहं प्रविशन्ति मोक्षम् ।
२४०.१०९/२दिवौकसश्चापि च योगसांख्याः ।
२४०.१०९/३अतोऽधिकं तेऽभिरता महार्हे ।
२४०.१०९/४सांख्ये द्विजा भो इह शिष्टजुष्टे ॥ २४०.१०९॥
२४०.११०/१तेषां तु तिर्यग्गमनं हि दृष्टम् ।
२४०.११०/२नाधो गतिः पापकृतां निवासः ।
२४०.११०/३न वा प्रधाना अपि ते द्विजातयो ।
२४०.११०/४ये ज्ञानमेतन् मुनयो न सक्ताः ॥ २४०.११०॥
२४०.१११/१सांख्यं विशालं परमं पुराणम् ।
२४०.१११/२महार्णवं विमलमुदारकान्तम् ।
२४०.१११/३कृत्स्नं हि सांख्या मुनयो महात्म+ ।
२४०.१११/४नारायणे धारयताप्रमेयम् ॥ २४०.१११॥
२४०.११२/१एतन् मयोक्तं परमं हि तत्त्वम् ।
२४०.११२/२नारायणाद् विश्वमिदं पुराणम् ।
२४०.११२/३स सर्गकाले च करोति सर्गम् ।
२४०.११२/४संहारकाले च हरेत भूयः ॥ २४०.११२॥
२४१.१/१मुनय ऊचुः । किं तद् अक्षरमित्युक्तं यस्मान् नावर्तते पुनः ।
२४१.१/२किंस्वित् तत् क्षरमित्युक्तं यस्माद् आवर्तते पुनः ॥ २४१.१॥
२४१.२/१अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने ।
२४१.२/२उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥ २४१.२॥
२४१.३/१त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ।
२४१.३/२ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३॥
२४१.४/१तद् एतच्छ्रोतुमिच्छामस्त्वत्तः सर्वं महामते ।
२४१.४/२न तृप्तिमधिगच्छामः शृण्वन्तोऽमृतमुत्तमम् ॥ २४१.४॥
२४१.५/१व्यास उवाच । अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् ।
२४१.५/२वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५॥
२४१.६/१वसिष्ठं श्रेष्ठमासीनम् ऋषीणां भास्करद्युतिम् ।
२४१.६/२पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६॥
२४१.७/१परमात्मनि कुशलमध्यात्मगतिनिश्चयम् ।
२४१.७/२मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७॥
२४१.८/१स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् ।
२४१.८/२पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८॥
२४१.९/१करालजनक उवाच । भगवञ् श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
२४१.९/२यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९॥
२४१.१०/१यच्च तत् क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
२४१.१०/२यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१०॥
२४१.११/१वसिष्ठ उवाच । श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
२४१.११/२यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११॥
२४१.१२/१युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् ।
२४१.१२/२दशकल्पशतावर्तमहस्तद् ब्राह्ममुच्यते ॥ २४१.१२॥
२४१.१३/१रात्रिश्चैतावती राजन् यस्यान्ते प्रतिबुध्यते ।
२४१.१३/२सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३॥
२४१.१४/१मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः ।
२४१.१४/२यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४॥
२४१.१५/१अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ।
२४१.१५/२सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥ २४१.१५॥
२४१.१६/१सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
२४१.१६/२हिरण्यगर्भो भगवान् एष बुद्धिरिति स्मृतिः ॥ २४१.१६॥
२४१.१७/१महान् इति च योगेषु विरिञ्चिरिति चाप्यथ ।
२४१.१७/२सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७॥
२४१.१८/१विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ।
२४१.१८/२धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८॥
२४१.१९/१तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः ।
२४१.१९/२एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९॥
२४१.२०/१प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् ।
२४१.२०/२अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२०॥
२४१.२१/१अव्यक्ताद् व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् ।
२४१.२१/२महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥ २४१.२१॥
२४१.२२/१अचरश्च चरश्चैव समुत्पन्नौ तथैकतः ।
२४१.२२/२विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२॥
२४१.२३/१भूतसर्गमहंकारात् तृतीयं विद्धि पार्थिव ।
२४१.२३/२अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३॥
२४१.२४/१वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।
२४१.२४/२शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४॥
२४१.२५/१एवं युगपद् उत्पन्नं दशवर्गमसंशयम् ।
२४१.२५/२पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५॥
२४१.२६/१श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
२४१.२६/२वाग् हस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६॥
२४१.२७/१बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
२४१.२७/२सम्भूतानीह युगपन् मनसा सह पार्थिव ॥ २४१.२७॥
२४१.२८/१एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते ।
२४१.२८/२यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८॥
२४१.२९/१एवमेतत् समुत्पन्नं त्रैलोक्यमिदमुत्तमम् ।
२४१.२९/२वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९॥
२४१.३०/१सयक्षभूतगन्धर्वे सकिंनरमहोरगे ।
२४१.३०/२सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३०॥
२४१.३१/१सदंशकीटमशके सपूतिकृमिमूषके ।
२४१.३१/२शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ २४१.३१॥
२४१.३२/१हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
२४१.३२/२या च मूर्तिश्च यत् किंचित् सर्वत्रैतन् निदर्शनम् ॥ २४१.३२॥
२४१.३३/१जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः ।
२४१.३३/२स्थानं देहवतामासीद् इत्येवमनुशुश्रुम ॥ २४१.३३॥
२४१.३४/१कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः ।
२४१.३४/२अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ २४१.३४॥
२४१.३५/१ततस्तत् क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
२४१.३५/२जगन् मोहात्मकं चाहुरव्यक्ताद् व्यक्तसंज्ञकम् ॥ २४१.३५॥
२४१.३६/१महांश्चैवाक्षरो नित्यमेतत् क्षरविवर्जनम् ।
२४१.३६/२कथितं ते महाराज यस्मान् नावर्तते पुनः ॥ २४१.३६॥
२४१.३७/१पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः ।
२४१.३७/२सत्त्वसंश्रयणात् तत्त्वं सत्त्वमाहुर्मनीषिणः ॥ २४१.३७॥
२४१.३८/१यद् अमूर्तिः सृजद् व्यक्तं तन् मूर्तिमधितिष्ठति ।
२४१.३८/२चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ २४१.३८॥
२४१.३९/१स एव हृदि सर्वासु मूर्तिष्वातिष्ठतात्मवान् ।
२४१.३९/२चेतयंश्चेतनो नित्यं सर्वमूर्तिरमूर्तिमान् ॥ २४१.३९॥
२४१.४०/१सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः ।
२४१.४०/२गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥ २४१.४०॥
२४१.४१/१एवमेष महात्मा च सर्गप्रलयकोटिशः ।
२४१.४१/२विकुर्वाणः प्रकृतिमान् नाभिमन्येत बुद्धिमान् ॥ २४१.४१॥
२४१.४२/१तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु ।
२४१.४२/२लीयते प्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ २४१.४२॥
२४१.४३/१सहवासनिवासत्वाद् बालोऽहमिति मन्यते ।
२४१.४३/२योऽहं न सोऽहमित्युक्तो गुणान् एवानुवर्तते ॥ २४१.४३॥
२४१.४४/१तमसा तामसान् भावान् विविधान् प्रतिपद्यते ।
२४१.४४/२रजसा राजसांश्चैव सात्त्विकान् सत्त्वसंश्रयात् ॥ २४१.४४॥
२४१.४५/१शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
२४१.४५/२सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ २४१.४५॥
२४१.४६/१तामसा निरयं यान्ति राजसा मानुषान् अथ ।
२४१.४६/२सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ २४१.४६॥
२४१.४७/१निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् ।
२४१.४७/२पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ २४१.४७॥
२४१.४८/१एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः ।
२४१.४८/२पञ्चविंशतिमो योऽयं ज्ञानाद् एव प्रवर्तते ॥ २४१.४८॥
२४२.१/१वसिष्ठ उवाच । एवमप्रतिबुद्धत्वाद् अबुद्धमनुवर्तते ।
२४२.१/२देहाद् देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१॥
२४२.२/१तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्वपि ।
२४२.२/२उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात् ॥ २४२.२॥
२४२.३/१मनुष्यत्वाद् दिवं याति देवो मानुष्यमेति च ।
२४२.३/२मानुष्यान् निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३॥
२४२.४/१कोषकारो यथात्मानं कीटः समभिरुन्धति ।
२४२.४/२सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ २४२.४॥
२४२.५/१द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु ।
२४२.५/२शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५॥
२४२.६/१जलोदरेऽतिसारे च गण्डमालाविचर्चिके ।
२४२.६/२श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६॥
२४२.७/१यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् ।
२४२.७/२उत्पद्यन्ते विचित्राणि तान्येवात्माभिमन्यते ॥ २४२.७॥
२४२.८/१अभिमानातिमानानां तथैव सुकृतान्यपि ।
२४२.८/२एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८॥
२४२.९/१मण्डूकशायी च तथा वीरासनगतस्तथा ।
२४२.९/२वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९॥
२४२.१०/१इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा ।
२४२.१०/२भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१०॥
२४२.११/१वीरस्थानाम्बुपाके च शयनं फलकेषु च ।
२४२.११/२विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११॥
२४२.१२/१उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः ।
२४२.१२/२मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२॥
२४२.१३/१सिंहचर्मपरीधानः पट्टवासास्तथैव च ।
२४२.१३/२फलकं परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३॥
२४२.१४/१कटैकवसनश्चैव चीरवासास्तथैव च ।
२४२.१४/२वस्त्राणि चान्यानि बहून्यभिमत्य च बुद्धिमान् ॥ २४२.१४॥
२४२.१५/१भोजनानि विचित्राणि रत्नानि विविधानि च ।
२४२.१५/२एकरात्रान्तराशित्वमेककालिकभोजनम् ॥ २४२.१५॥
२४२.१६/१चतुर्थाष्टमकालं च षष्ठकालिकमेव च ।
२४२.१६/२षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६॥
२४२.१७/१मासोपवासी मूलाशी फलाहारस्तथैव च ।
२४२.१७/२वायुभक्षश्च पिण्याक+ ।दधिगोमयभोजनः ॥ २४२.१७॥
२४२.१८/१गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा ।
२४२.१८/२शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८॥
२४२.१९/१वर्तयञ् शीर्णपर्णैश्च प्रकीर्णफलभोजनः ।
२४२.१९/२विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९॥
२४२.२०/१चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
२४२.२०/२चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२०॥
२४२.२१/१उपाश्रयान् अप्यपरान् पाखण्डान् विविधान् अपि ।
२४२.२१/२विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१॥
२४२.२२/१पुलिनानि विविक्तानि विविधानि वनानि च ।
२४२.२२/२काननेषु विविक्ताश्च शैलानां महतीर्गुहाः ॥ २४२.२२॥
२४२.२३/१नियमान् विविधांश्चापि विविधानि तपांसि च ।
२४२.२३/२यज्ञांश्च विविधाकारान् विद्याश्च विविधास्तथा ॥ २४२.२३॥
२४२.२४/१वणिक्पथं द्विजक्षत्र+ ।वैश्यशूद्रांस्तथैव च ।
२४२.२४/२दानं च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४॥
२४२.२५/१अभिमन्येत संधातुं तथैव विविधान् गुणान् ।
२४२.२५/२सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ २४२.२५॥
२४२.२६/१प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ।
२४२.२६/२स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥ २४२.२६॥
२४२.२७/१यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् ।
२४२.२७/२याजनाध्यापने चैव तथान्यद् अपि किंचन ॥ २४२.२७॥
२४२.२८/१जन्ममृत्युविधानेन तथा विशसनेन च ।
२४२.२८/२शुभाशुभभयं सर्वमेतद् आहुः सनातनम् ॥ २४२.२८॥
२४२.२९/१प्रकृतिः कुरुते देवी भयं प्रलयमेव च ।
२४२.२९/२दिवसान्ते गुणान् एतान् अतीत्यैकोऽवतिष्ठते ॥ २४२.२९॥
२४२.३०/१रश्मिजालमिवादित्यस्तत्कालं संनियच्छति ।
२४२.३०/२एवमेवैष तत् सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३०॥
२४२.३१/१आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् ।
२४२.३१/२एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ २४२.३१॥
२४२.३२/१क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः ।
२४२.३२/२क्रियाक्रियापथोपेतस्तथा तद् इति मन्यते ॥ २४२.३२॥
२४२.३३/१प्रकृत्या सर्वमेवेदं जगद् अन्धीकृतं विभो ।
२४२.३३/२रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ २४२.३३॥
२४२.३४/१एवं द्वंद्वान्यतीतानि मम वर्तन्ति नित्यशः ।
२४२.३४/२मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ २४२.३४॥
२४२.३५/१निस्तर्तव्याण्यथैतानि सर्वाणीति नराधिप ।
२४२.३५/२मन्यते पक्षबुद्धित्वात् तथैव सुकृतान्यपि ॥ २४२.३५॥
२४२.३६/१भोक्तव्यानि ममैतानि देवलोकगतेन वै ।
२४२.३६/२इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ २४२.३६॥
२४२.३७/१सुखमेवं तु कर्तव्यं सकृत् कृत्वा सुखं मम ।
२४२.३७/२यावद् एव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ २४२.३७॥
२४२.३८/१भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् ।
२४२.३८/२सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ २४२.३८॥
२४२.३९/१निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।
२४२.३९/२मनुष्यत्वाच्च देवत्वं देवत्वात् पौरुषं पुनः ॥ २४२.३९॥
२४२.४०/१मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ।
२४२.४०/२एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ २४२.४०॥
२४२.४१/१तेन देवमनुष्येषु निरयं चोपपद्यते ।
२४२.४१/२ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ २४२.४१॥
२४२.४२/१सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ।
२४२.४२/२य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ २४२.४२॥
२४२.४३/१स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् ।
२४२.४३/२प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ॥ २४२.४३॥
२४२.४४/१प्रकृतिश्च तथाप्नोति त्रिषु लोकेषु कामगा ।
२४२.४४/२तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ॥ २४२.४४॥
२४२.४५/१त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह ।
२४२.४५/२अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ २४२.४५॥
२४२.४६/१तथैव पौरुषं लिङ्गमनुमानाद् धि मन्यते ।
२४२.४६/२स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ २४२.४६॥
२४२.४७/१व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ।
२४२.४७/२श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ २४२.४७॥
२४२.४८/१रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ।
२४२.४८/२अहमेतानि वै कुर्वन् ममैतानीन्द्रियाणि ह ॥ २४२.४८॥
२४२.४९/१निरिन्द्रियो हि मन्येत व्रणवान् अस्मि निर्व्रणः ।
२४२.४९/२अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ २४२.४९॥
२४२.५०/१असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः ।
२४२.५०/२अमृत्युं मृत्युमात्मानमचरं चरमात्मनः ॥ २४२.५०॥
२४२.५१/१अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः ।
२४२.५१/२अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ २४२.५१॥
२४२.५२/१अक्षरं क्षरमात्मानमबुद्धत्वाद् धि मन्यते ।
२४२.५२/२एवमप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् ॥ २४२.५२॥
२४२.५३/१सर्गकोटिसहस्राणि पतनान्तानि गच्छति ।
२४२.५३/२जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ २४२.५३॥
२४२.५४/१तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
२४२.५४/२चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ २४२.५४॥
२४२.५५/१नीयतेऽप्रतिबुद्धत्वाद् एवमेव कुबुद्धिमान् ।
२४२.५५/२कला पञ्चदशी योनिस्तद् धाम इति पठ्यते ॥ २४२.५५॥
२४२.५६/१नित्यमेव विजानीहि सोमं वै षोडशांशकैः ।
२४२.५६/२कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान् ॥ २४२.५६॥
२४२.५७/१धीमांश्चायं न भवति नृप एवं हि जायते ।
२४२.५७/२षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ २४२.५७॥
२४२.५८/१न तूपयुज्यते देवैर्देवान् अपि युनक्ति सः ।
२४२.५८/२ममत्वं क्षपयित्वा तु जायते नृपसत्तम ।
२४२.५८/३प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ २४२.५८॥
२४३.१/१जनक उवाच । अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते ।
२४३.१/२स्त्रीपुंसयोर्वा सम्बन्धः स वै पुरुष उच्यते ॥ २४३.१॥
२४३.२/१ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्युत ।
२४३.२/२ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२॥
२४३.३/१अन्योन्यस्याभिसम्बन्धाद् अन्योन्यगुणसंश्रयात् ।
२४३.३/२रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु ॥ २४३.३॥
२४३.४/१रत्यर्थमतिसंयोगाद् अन्योन्यगुणसंश्रयात् ।
२४३.४/२ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् ॥ २४३.४॥
२४३.५/१ये गुणाः पुरुषस्येह ये च मातुर्गुणास्तथा ।
२४३.५/२अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५॥
२४३.६/१त्वङ्मांसशोणितं चेति मातृजान्यनुशुश्रुम ।
२४३.६/२एवमेतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६॥
२४३.७/१प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
२४३.७/२वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् ॥ २४३.७॥
२४३.८/१एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ ।
२४३.८/२यच्चापि भगवंस्तस्मान् मोक्षधर्मो न विद्यते ॥ २४३.८॥
२४३.९/१अथवानन्तरकृतं किंचिद् एव निदर्शनम् ।
२४३.९/२तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९॥
२४३.१०/१मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् ।
२४३.१०/२अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१०॥
२४३.११/१वसिष्ठ उवाच । यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् ।
२४३.११/२एवमेतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११॥
२४३.१२/१धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
२४३.१२/२न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२॥
२४३.१३/१यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
२४३.१३/२न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३॥
२४३.१४/१भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
२४३.१४/२यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४॥
२४३.१५/१ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति ।
२४३.१५/२यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति ॥ २४३.१५॥
२४३.१६/१न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान् ।
२४३.१६/२स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६॥
२४३.१७/१अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः ।
२४३.१७/२लोभाद् वाप्यथवा दम्भात् स पापी नरकं व्रजेत् ॥ २४३.१७॥
२४३.१८/१निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः ।
२४३.१८/२सोऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि ॥ २४३.१८॥
२४३.१९/१तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते ।
२४३.१९/२यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥ २४३.१९॥
२४३.२०/१यद् एव योगाः पश्यन्ति सांख्यं तद् अनुगम्यते ।
२४३.२०/२एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ २४३.२०॥
२४३.२१/१त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।
२४३.२१/२एतद् ऐन्द्रियकं तात यद् भवान् इत्थमात्थ माम् ॥ २४३.२१॥
२४३.२२/१द्रव्याद् द्रव्यस्य निर्वृत्तिरिन्द्रियाद् इन्द्रियं तथा ।
२४३.२२/२देहाद् देहमवाप्नोति बीजाद् बीजं तथैव च ॥ २४३.२२॥
२४३.२३/१निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः ।
२४३.२३/२कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः ॥ २४३.२३॥
२४३.२४/१गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च ।
२४३.२४/२एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४॥
२४३.२५/१त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।
२४३.२५/२अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५॥
२४३.२६/१पुमांश्चैवापुमांश्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् ।
२४३.२६/२वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६॥
२४३.२७/१अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः ।
२४३.२७/२यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७॥
२४३.२८/१एवमप्यनुमानेन स लिङ्गमुपलभ्यते ।
२४३.२८/२पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८॥
२४३.२९/१अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः ।
२४३.२९/२केवलं त्वभिमानित्वाद् गुणेषु गुण उच्यते ॥ २४३.२९॥
२४३.३०/१गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
२४३.३०/२तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३०॥
२४३.३१/१यदा त्वेष गुणान् एतान् प्राकृतान् अभिमन्यते ।
२४३.३१/२तदा स गुणवान् एव गुणभेदान् प्रपश्यति ॥ २४३.३१॥
२४३.३२/१यत् तद् बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः ।
२४३.३२/२बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ २४३.३२॥
२४३.३३/१अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् ।
२४३.३३/२निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ २४३.३३॥
२४३.३४/१प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
२४३.३४/२सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ २४३.३४॥
२४३.३५/१यदा प्रबुद्धमव्यक्तमवस्थातननीरवः ।
२४३.३५/२बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा ॥ २४३.३५॥
२४३.३६/१एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम् ।
२४३.३६/२बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिंदम ॥ २४३.३६॥
२४३.३७/१परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् ।
२४३.३७/२एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ २४३.३७॥
२४३.३८/१पञ्चविंशतिनिष्ठोऽयं तदा सम्यक् प्रचक्षते ।
२४३.३८/२एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३८॥
२४३.३९/१तत्त्ववित् तत्त्वयोरेव पृथग् एतन् निदर्शनम् ।
२४३.३९/२पञ्चविंशतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ २४३.३९॥
२४३.४०/१निस्तत्त्वं पञ्चविंशस्य परमाहुर्मनीषिणः ।
२४३.४०/२वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात् सनातनम् ॥ २४३.४०॥
२४३.४१/१करालजनक उवाच । नानात्वैकत्वमित्युक्तं त्वयैतद् द्विजसत्तम ।
२४३.४१/२पश्यतस्तद् धि संदिग्धमेतयोर्वै निदर्शनम् ॥ २४३.४१॥
२४३.४२/१तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
२४३.४२/२स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन् न संशयः ॥ २४३.४२॥
२४३.४३/१अक्षरक्षरयोरुक्तं त्वया यद् अपि कारणम् ।
२४३.४३/२तद् अप्यस्थिरबुद्धित्वात् प्रनष्टमिव मेऽनघ ॥ २४३.४३॥
२४३.४४/१तद् एतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।
२४३.४४/२द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ २४३.४४॥
२४३.४५/१विद्याविद्ये च भगवन्न् अक्षरं क्षरमेव च ।
२४३.४५/२सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक् ॥ २४३.४५॥
२४३.४६/१वसिष्ठ उवाच । हन्त ते सम्प्रवक्ष्यामि यद् एतद् अनुपृच्छसि ।
२४३.४६/२योगकृत्यं महाराज पृथग् एव शृणुष्व मे ॥ २४३.४६॥
२४३.४७/१योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।
२४३.४७/२तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ २४३.४७॥
२४३.४८/१एकाग्रता च मनसः प्राणायामस्तथैव च ।
२४३.४८/२प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ २४३.४८॥
२४३.४९/१मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप ।
२४३.४९/२द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः ॥ २४३.४९॥
२४३.५०/१इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
२४३.५०/२दशद्वादशभिर्वापि चतुर्विंशात् परं यतः ॥ २४३.५०॥
२४३.५१/१स चोदनाभिर्मतिमान् नात्मानं चोदयेद् अथ ।
२४३.५१/२तिष्ठन्तमजरं तं तु यत् तद् उक्तं मनीषिभिः ॥ २४३.५१॥
२४३.५२/१विश्वात्मा सततं ज्ञेय इत्येवमनुशुश्रुम ।
२४३.५२/२द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ २४३.५२॥
२४३.५३/१विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः ।
२४३.५३/२पूर्वरात्रे परार्धे च धारयीत मनो हृदि ॥ २४३.५३॥
२४३.५४/१स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
२४३.५४/२मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ २४३.५४॥
२४३.५५/१स्थाणुवच्चाप्यकम्प्यः स्याद् दारुवच्चापि निश्चलः ।
२४३.५५/२बुद्ध्या विधिविधानज्ञस्ततो युक्तं प्रचक्षते ॥ २४३.५५॥
२४३.५६/१न शृणोति न चाघ्राति न च पश्यति किंचन ।
२४३.५६/२न च स्पर्शं विजानाति न च संकल्पते मनः ॥ २४३.५६॥
२४३.५७/१न चापि मन्यते किंचिन् न च बुध्येत काष्ठवत् ।
२४३.५७/२तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ २४३.५७॥
२४३.५८/१न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते ।
२४३.५८/२निलिङ्गश्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ २४३.५८॥
२४३.५९/१तदा तदुपपन्नश्च यस्मिन् दृष्टे च कथ्यते ।
२४३.५९/२हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ २४३.५९॥
२४३.६०/१निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् ।
२४३.६०/२वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मनि ॥ २४३.६०॥
२४३.६१/१यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
२४३.६१/२ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ २४३.६१॥
२४३.६२/१तद् एवाहुरणुभ्योऽणु तन् महद्भ्यो महत्तरम् ।
२४३.६२/२सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते ॥ २४३.६२॥
२४३.६३/१बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् ।
२४३.६३/२महतस्तमसस्तात पारे तिष्ठन् न तामसः ॥ २४३.६३॥
२४३.६४/१तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः ।
२४३.६४/२विमलो विमतश्चैव निर्लिङ्गोऽलिङ्गसंज्ञकः ॥ २४३.६४॥
२४३.६५/१योग एष हि लोकानां किमन्यद् योगलक्षणम् ।
२४३.६५/२एवं पश्यन् प्रपश्येत आत्मानमजरं परम् ॥ २४३.६५॥
२४३.६६/१योगदर्शनमेतावद् उक्तं ते तत्त्वतो मया ।
२४३.६६/२सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥ २४३.६६॥
२४३.६७/१अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः ।
२४३.६७/२तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम ॥ २४३.६७॥
२४३.६८/१अहंकारस्तु महतस्तृतीय इति नः श्रुतम् ।
२४३.६८/२पञ्चभूतान्यहंकाराद् आहुः सांख्यात्मदर्शिनः ॥ २४३.६८॥
२४३.६९/१एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।
२४३.६९/२पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ २४३.६९॥
२४३.७०/१एतावद् एव तत्त्वानां सांख्यमाहुर्मनीषिणः ।
२४३.७०/२सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥ २४३.७०॥
२४३.७१/१यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते ।
२४३.७१/२लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ २४३.७१॥
२४३.७२/१आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः ।
२४३.७२/२गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ २४३.७२॥
२४३.७३/१सर्गप्रलय एतावान् प्रकृतेर्नृपसत्तम ।
२४३.७३/२एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ २४३.७३॥
२४३.७४/१एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः ।
२४३.७४/२अधिष्ठातारमव्यक्तमस्याप्येतन् निदर्शनम् ॥ २४३.७४॥
२४३.७५/१एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् ।
२४३.७५/२एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ २४३.७५॥
२४३.७६/१बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् ।
२४३.७६/२तच्च क्षेत्रं महान् आत्मा पञ्चविंशोऽधितिष्ठति ॥ २४३.७६॥
२४३.७७/१अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
२४३.७७/२अधिष्ठानाद् अधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ २४३.७७॥
२४३.७८/१क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते ।
२४३.७८/२अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ २४३.७८॥
२४३.७९/१अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते ।
२४३.७९/२क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ २४३.७९॥
२४३.८०/१अन्यद् एव च ज्ञानं स्याद् अन्यज्ज्ञेयं तद् उच्यते ।
२४३.८०/२ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ २४३.८०॥
२४३.८१/१अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् ।
२४३.८१/२अनीश्वरमतत्त्वं च तत्त्वं तत् पञ्चविंशकम् ॥ २४३.८१॥
२४३.८२/१सांख्यदर्शनमेतावत् परिसंख्या न विद्यते ।
२४३.८२/२संख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ २४३.८२॥
२४३.८३/१चत्वारिंशच्चतुर्विंशत् प्रतिसंख्याय तत्त्वतः ।
२४३.८३/२संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ २४३.८३॥
२४३.८४/१पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः ।
२४३.८४/२यदा बुध्यति आत्मानं तदा भवति केवलः ॥ २४३.८४॥
२४३.८५/१सम्यग्दर्शनमेतावद् भाषितं तव तत्त्वतः ।
२४३.८५/२एवमेतद् विजानन्तः साम्यतां प्रतियान्त्युत ॥ २४३.८५॥
२४३.८६/१सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
२४३.८६/२गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८६॥
२४३.८७/१न त्वेवं वर्तमानानामावृत्तिर्वर्तते पुनः ।
२४३.८७/२विद्यते क्षरभावश्च न परस्परमव्ययम् ॥ २४३.८७॥
२४३.८८/१पश्यन्त्यमतयो ये न सम्यक् तेषु च दर्शनम् ।
२४३.८८/२ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ २४३.८८॥
२४३.८९/१सर्वमेतद् विजानन्तो न सर्वस्य प्रबोधनात् ।
२४३.८९/२व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ २४३.८९॥
२४३.९०/१सर्वमव्यक्तमित्युक्तमसर्वः सर्वं पञ्चविंशकः ।
२४३.९०/२य एवमभिजानन्ति न भयं तेषु विद्यते ॥ २४३.९०॥
२४४.१/१वसिष्ठ उवाच । सांख्यदर्शनमेतावद् उक्तं ते नृपसत्तम ।
२४४.१/२विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१॥
२४४.२/१अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः ।
२४४.२/२सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२॥
२४४.३/१परस्परस्य विद्या वै तन् निबोधानुपूर्वशः ।
२४४.३/२यथोक्तम् ऋषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥ २४४.३॥
२४४.४/१कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
२४४.४/२बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ २४४.४॥
२४४.५/१विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
२४४.५/२मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५॥
२४४.६/१अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
२४४.६/२अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६॥
२४४.७/१बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः ।
२४४.७/२विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७॥
२४४.८/१अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः ।
२४४.८/२सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८॥
२४४.९/१ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् ।
२४४.९/२तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९॥
२४४.१०/१विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः ।
२४४.१०/२अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे ॥ २४४.१०॥
२४४.११/१उभावेतौ क्षरावुक्तौ उभावेतावनक्षरौ ।
२४४.११/२कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११॥
२४४.१२/१अनादिनिधनावेतौ उभावेवेश्वरौ मतौ ।
२४४.१२/२तत्त्वसंज्ञावुभावेव प्रोच्येते ज्ञानचिन्तकैः ॥ २४४.१२॥
२४४.१३/१सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुरव्ययम् ।
२४४.१३/२तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३॥
२४४.१४/१गुणानां महदादीनामुत्पद्यति परस्परम् ।
२४४.१४/२अधिष्ठानं क्षेत्रमाहुरेतद् वै पञ्चविंशकम् ॥ २४४.१४॥
२४४.१५/१यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि संक्षिपेत् ।
२४४.१५/२तद् अहं तद् गुणैस्तैस्तु पञ्चविंशे विलीयते ॥ २४४.१५॥
२४४.१६/१गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर्भवेत् ।
२४४.१६/२क्षेत्रज्ञोऽपि तदा तावत् क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६॥
२४४.१७/१यदाक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता ।
२४४.१७/२निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७॥
२४४.१८/१एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
२४४.१८/२प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८॥
२४४.१९/१क्षरो भवत्येष यदा गुणवती गुणेष्वथ ।
२४४.१९/२प्रकृतिं त्वथ जानाति निर्गुणत्वं तथात्मनः ॥ २४४.१९॥
२४४.२०/१तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।
२४४.२०/२अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२०॥
२४४.२१/१तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् ।
२४४.२१/२प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥ २४४.२१॥
२४४.२२/१यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते ।
२४४.२२/२पश्यते च परं पश्यंस्तदा पश्यन् नु संसृजेत् ॥ २४४.२२॥
२४४.२३/१किं मया कृतमेतावद् योऽहं कालनिमज्जनः ।
२४४.२३/२यथा मत्स्यो ह्यभिज्ञानाद् अनुवर्तितवाञ् जलम् ॥ २४४.२३॥
२४४.२४/१अहमेव हि सम्मोहाद् अन्यमन्यं जनाज्जनम् ।
२४४.२४/२मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह ॥ २४४.२४॥
२४४.२५/१मत्स्योऽन्यत्वमथाज्ञानाद् उदकान् नाभिमन्यते ।
२४४.२५/२आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्यहम् ॥ २४४.२५॥
२४४.२६/१ममास्तु धिक् कुबुद्धस्य योऽहं मग्न इमं पुनः ।
२४४.२६/२अनुवर्तितवान् मोहाद् अन्यमन्यं जनाज्जनम् ॥ २४४.२६॥
२४४.२७/१अयमनुभवेद् बन्धुरनेन सह मे क्षयम् ।
२४४.२७/२साम्यमेकत्वतां यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७॥
२४४.२८/१तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
२४४.२८/२अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८॥
२४४.२९/१योऽहमज्ञानसम्मोहाद् अज्ञया सम्प्रवृत्तवान् ।
२४४.२९/२संसर्गाद् अतिसंसर्गात् स्थितः कालमिमं त्वहम् ॥ २४४.२९॥
२४४.३०/१सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् ।
२४४.३०/२उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३०॥
२४४.३१/१समानमायया चेह सहवासमहं कथम् ।
२४४.३१/२गच्छाम्यबुद्धभावत्वाद् इहेदानीं स्थिरो भव ॥ २४४.३१॥
२४४.३२/१सहवासं न यास्यामि कालमेतं विवञ्चनात् ।
२४४.३२/२वञ्चितो ह्यनया यद् धि निर्विकारो विकारया ॥ २४४.३२॥
२४४.३३/१न तत् तदपराद्धं स्याद् अपराधो ह्ययं मम ।
२४४.३३/२योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ २४४.३३॥
२४४.३४/१ततोऽस्मिन् बहुरूपोऽथ स्थितो मूर्तिरमूर्तिमान् ।
२४४.३४/२अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ २४४.३४॥
२४४.३५/१प्रकृत्या च तया तेन तासु तास्विह योनिषु ।
२४४.३५/२निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ २४४.३५॥
२४४.३६/१योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा ।
२४४.३६/२समता न मया काचिद् अहंकारे कृता मया ॥ २४४.३६॥
२४४.३७/१आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् ।
२४४.३७/२इदानीमवबुद्धोऽस्मि निर्ममो निरहंकृतः ॥ २४४.३७॥
२४४.३८/१ममत्वं मनसा नित्यमहंकारकृतात्मकम् ।
२४४.३८/२अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ २४४.३८॥
२४४.३९/१अनेन साम्यं यास्यामि नानयाहमचेतसा ।
२४४.३९/२क्षेमं मम सहानेन नैवैकमनया सह ॥ २४४.३९॥
२४४.४०/१एवं परमसम्बोधात् पञ्चविंशोऽनुबुद्धवान् ।
२४४.४०/२अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ २४४.४०॥
२४४.४१/१अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ।
२४४.४१/२निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल ॥ २४४.४१॥
२४४.४२/१अक्षरक्षरयोरेतद् उक्तं तव निदर्शनम् ।
२४४.४२/२मयेह ज्ञानसम्पन्नं यथा श्रुतिनिदर्शनात् ॥ २४४.४२॥
२४४.४३/१निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा ।
२४४.४३/२प्रवक्ष्यामि तु ते भूयस्तन् निबोध यथाश्रुतम् ॥ २४४.४३॥
२४४.४४/१सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् ।
२४४.४४/२यद् एव सांख्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ २४४.४४॥
२४४.४५/१प्रबोधनपरं ज्ञानं सांख्यानामवनीपते ।
२४४.४५/२विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ २४४.४५॥
२४४.४६/१बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः ।
२४४.४६/२अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ २४४.४६॥
२४४.४७/१पञ्चविंशात् परं तत्त्वं पठ्यते च नराधिप ।
२४४.४७/२सांख्यानां तु परं तत्त्वं यथावद् अनुवर्णितम् ॥ २४४.४७॥
२४४.४८/१बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
२४४.४८/२बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४८॥
२४५.१/१वसिष्ठ उवाच । अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा ।
२४५.१/२गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ २४५.१॥
२४५.२/१अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत ।
२४५.२/२आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते ॥ २४५.२॥
२४५.३/१एतद् एवं विकुर्वाणो बुध्यमानो न बुध्यते ।
२४५.३/२गुणान् आचरते ह्येष सृजत्याक्षिपते तथा ॥ २४५.३॥
२४५.४/१अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ।
२४५.४/२न त्वेवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम् ॥ २४५.४॥
२४५.५/१कदाचित् त्वेव खल्वेतत् तद् आहुः प्रतिबुद्धकम् ।
२४५.५/२बुध्यते यदि चाव्यक्तमेतद् वै पञ्चविंशकम् ॥ २४५.५॥
२४५.६/१बुध्यमानो भवत्येष ममात्मक इति श्रुतः ।
२४५.६/२अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ २४५.६॥
२४५.७/१अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ।
२४५.७/२पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥ २४५.७॥
२४५.८/१षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् ।
२४५.८/२सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ २४५.८॥
२४५.९/१दृश्यादृश्ये ह्यनुगत+ ।तत्स्वभावे महाद्युते ।
२४५.९/२अव्यक्तं चैव तद् ब्रह्म बुध्यते तात केवलम् ॥ २४५.९॥
२४५.१०/१पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति ।
२४५.१०/२बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ॥ २४५.१०॥
२४५.११/१तदा प्रकृतिमान् एष भवत्यव्यक्तलोचनः ।
२४५.११/२बुध्यते च परां बुद्धिं विशुद्धाममलां यथा ॥ २४५.११॥
२४५.१२/१षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् ।
२४५.१२/२ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् ॥ २४५.१२॥
२४५.१३/१निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
२४५.१३/२ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् ॥ २४५.१३॥
२४५.१४/१केवलेन समागम्य विमुक्तात्मानमाप्नुयात् ।
२४५.१४/२एतत् तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ २४५.१४॥
२४५.१५/१तत्त्वसंश्रवणाद् एव तत्त्वज्ञो जायते नृप ।
२४५.१५/२पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ २४५.१५॥
२४५.१६/१न चैव तत्त्ववांस्तात संसारेषु निमज्जति ।
२४५.१६/२एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ २४५.१६॥
२४५.१७/१षड्विंशोऽयमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
२४५.१७/२केवलेन बलेनैव समतां यात्यसंशयम् ॥ २४५.१७॥
२४५.१८/१षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् ।
२४५.१८/२एतन् नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ २४५.१८॥
२४५.१९/१चेतनेन समेतस्य पञ्चविंशतिकस्य ह ।
२४५.१९/२एकत्वं वै भवेत् तस्य यदा बुद्ध्यानुबुध्यते ॥ २४५.१९॥
२४५.२०/१बुध्यमानेन बुद्धेन समतां याति मैथिल ।
२४५.२०/२सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ २४५.२०॥
२४५.२१/१निःसङ्गात्मानमासाद्य षड्विंशं कर्मजं विदुः ।
२४५.२१/२विभुस्त्यजति चाव्यक्तं यदा त्वेतद् विबुध्यते ॥ २४५.२१॥
२४५.२२/१चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ।
२४५.२२/२एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु तेऽनघ ॥ २४५.२२॥
२४५.२३/१उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
२४५.२३/२मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः ॥ २४५.२३॥
२४५.२४/१मत्स्योदके यथा तद्वद् अन्यत्वमुपलभ्यते ।
२४५.२४/२एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ २४५.२४॥
२४५.२५/१एतावन् मोक्ष इत्युक्तो ज्ञानविज्ञानसंज्ञितः ।
२४५.२५/२पञ्चविंशतिकस्याशु योऽयं देहे प्रवर्तते ॥ २४५.२५॥
२४५.२६/१एष मोक्षयितव्यैति प्राहुरव्यक्तगोचरात् ।
२४५.२६/२सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ २४५.२६॥
२४५.२७/१परश्च परधर्मा च भवत्येव समेत्य वै ।
२४५.२७/२विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २४५.२७॥
२४५.२८/१विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ ।
२४५.२८/२वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ २४५.२८॥
२४५.२९/१विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ।
२४५.२९/२शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ २४५.२९॥
२४५.३०/१विमलात्मा च भवति समेत्य विमलात्मना ।
२४५.३०/२केवलात्मा तथा चैव केवलेन समेत्य वै ।
२४५.३०/३स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ २४५.३०॥
२४५.३१/१एतावद् एतत् कथितं मया ते ।
२४५.३१/२तथ्यं महाराज यथार्थतत्त्वम् ।
२४५.३१/३अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या ।
२४५.३१/४सनातनं ब्रह्म विशुद्धमाद्यम् ॥ २४५.३१॥
२४५.३२/१तद् वेदनिष्ठस्य जनस्य राजन् ।
२४५.३२/२प्रदेयमेतत् परमं त्वया भवेत् ।
२४५.३२/३विधित्समानाय निबोधकारकम् ।
२४५.३२/४प्रबोधहेतोः प्रणतस्य शासनम् ॥ २४५.३२॥
२४५.३३/१न देयमेतच्च यथानृतात्मने ।
२४५.३३/२शठाय क्लीबाय न जिह्मबुद्धये ।
२४५.३३/३न पण्डितज्ञानपरोपतापिने ।
२४५.३३/४देयं तथा शिष्यविबोधनाय ॥ २४५.३३॥
२४५.३४/१श्रद्धान्वितायाथ गुणान्विताय ।
२४५.३४/२परापवादाद् विरताय नित्यम् ।
२४५.३४/३विशुद्धयोगाय बुधाय चैव ।
२४५.३४/४कृपावतेऽथ क्षमिणे हिताय ॥ २४५.३४॥
२४५.३५/१विविक्तशीलाय विधिप्रियाय ।
२४५.३५/२विवादहीनाय बहुश्रुताय ।
२४५.३५/३विनीतवेशाय नहैतुकात्मने ।
२४५.३५/४सदैव गुह्यं त्विदमेव देयम् ॥ २४५.३५॥
२४५.३६/१एतैर्गुणैर्हीनतमे न देयम् ।
२४५.३६/२एतत् परं ब्रह्म विशुद्धमाहुः ।
२४५.३६/३न श्रेयसे योक्ष्यति तादृशे कृतम् ।
२४५.३६/४धर्मप्रवक्तारमपात्रदानात् ॥ २४५.३६॥
२४५.३७/१पृथ्वीमिमां वा यदि रत्नपूर्णाम् ।
२४५.३७/२दद्याद् अदेयं त्विदमव्रताय ।
२४५.३७/३जितेन्द्रियाय प्रयताय देयम् ।
२४५.३७/४देयं परं तत्त्वविदे नरेन्द्र ॥ २४५.३७॥
२४५.३८/१कराल मा ते भयमस्ति किंचिद् ।
२४५.३८/२एतच्छ्रुतं ब्रह्म परं त्वयाद्य ।
२४५.३८/३यथावद् उक्तं परमं पवित्रम् ।
२४५.३८/४विशोकमत्यन्तमनादिमध्यम् ॥ २४५.३८॥
२४५.३९/१अगाधमेतद् अजरामरं च ।
२४५.३९/२निरामयं वीतभयं शिवं च ।
२४५.३९/३समीक्ष्य मोहं परवादसंज्ञम् ।
२४५.३९/४एतस्य तत्त्वार्थमिमं विदित्वा ॥ २४५.३९॥
२४५.४०/१अवाप्तमेतद् धि पुरा सनातनाद् ।
२४५.४०/२धिरण्यगर्भाद् धि ततो नराधिप ।
२४५.४०/३प्रसाद्य यत्नेन तमुग्रतेजसम् ।
२४५.४०/४सनातनं ब्रह्म यथा त्वयैतत् ॥ २४५.४०॥
२४५.४१/१पृष्टस्त्वया चास्मि यथा नरेन्द्र ।
२४५.४१/२तथा मयेदं त्वयि नोक्तमन्यत् ।
२४५.४१/३यथावाप्तं ब्रह्मणो मे नरेन्द्र ।
२४५.४१/४महाज्ञानं मोक्षविदां परायणम् ॥ २४५.४१॥
२४५.४२/१व्यास उवाच । एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः ।
२४५.४२/२पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ २४५.४२॥
२४५.४३/१पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् ।
२४५.४३/२नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ २४५.४३॥
२४५.४४/१एतन् निःश्रेयसकरं ज्ञानं भोः परमं मया ।
२४५.४४/२कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ २४५.४४॥
२४५.४५/१हिरण्यगर्भाद् ऋषिणा वसिष्ठेन समाहृतम् ।
२४५.४५/२वसिष्ठाद् ऋषिशार्दूलो नारदोऽवाप्तवान् इदम् ॥ २४५.४५॥
२४५.४६/१नारदाद् विदितं मह्यमेतद् उक्तं सनातनम् ।
२४५.४६/२मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत् परमं पदम् ॥ २४५.४६॥
२४५.४७/१येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते ।
२४५.४७/२विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ २४५.४७॥
२४५.४८/१अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् ।
२४५.४८/२प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ २४५.४८॥
२४५.४९/१देवलोकं तथा तिर्यङ् मानुष्यमपि चाश्नुते ।
२४५.४९/२यदि वा मुच्यते वापि तस्माद् अज्ञानसागरात् ॥ २४५.४९॥
२४५.५०/१अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते ।
२४५.५०/२अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ २४५.५०॥
२४५.५१/१तस्माद् अगाधाद् अव्यक्ताद् उपक्षीणात् सनातनात् ।
२४५.५१/२तस्माद् यूयं विरजस्का वितमस्काश्च भो द्विजाः ॥ २४५.५१॥
२४५.५२/१एवं मया मुनिश्रेष्ठाः सारात् सारतरं परम् ।
२४५.५२/२कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ २४५.५२॥
२४५.५३/१न नास्तिकाय दातव्यं नाभक्ताय कदाचन ।
२४५.५३/२न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ २४५.५३॥
२४६.१/१लोमहर्षण उवाच । एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा ।
२४६.१/२दशाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥ २४६.१॥
२४६.२/१पूर्णमस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः ।
२४६.२/२जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥ २४६.२॥
२४६.३/१पूर्वपक्षोक्तिसिद्धान्त+ ।परिनिष्ठासमन्वितम् ।
२४६.३/२श्रावयित्वा यथान्यायं विरराम महामतिः ॥ २४६.३॥
२४६.४/१तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् ।
२४६.४/२आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम् ॥ २४६.४॥
२४६.५/१हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः ।
२४६.५/२प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥ २४६.५॥
२४६.६/१मुनय ऊचुः । अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् ।
२४६.६/२सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥ २४६.६॥
२४६.७/१प्रोक्तं श्रुतं तथास्माभिर्विचित्रपदमक्षरम् ।
२४६.७/२न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु वै प्रभो ॥ २४६.७॥
२४६.८/१सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः ।
२४६.८/२नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ २४६.८॥
२४६.९/१येन त्वया तु वेदार्था भारते प्रकटीकृताः ।
२४६.९/२कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने ॥ २४६.९॥
२४६.१०/१अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च ।
२४६.१०/२कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥ २४६.१०॥
२४६.११/१नमोऽस्तु ते व्यास विशालबुद्धे ।
२४६.११/२फुल्लारविन्दायतपत्त्रनेत्र ।
२४६.११/३येन त्वया भारततैलपूर्णः ।
२४६.११/४प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २४६.११॥
२४६.१२/१अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ।
२४६.१२/२ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः ॥ २४६.१२॥
२४६.१३/१एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः ।
२४६.१३/२जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥ २४६.१३॥
२४६.१४/१तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् ।
२४६.१४/२पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥ २४६.१४॥
२४६.१५/१यथा भवद्भिः पृष्टोऽहं सम्प्रश्नं द्विजसत्तमाः ।
२४६.१५/२व्यासप्रसादात् तत् सर्वं मया सम्परिकीर्तितम् ॥ २४६.१५॥
२४६.१६/१इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः ।
२४६.१६/२धनसौख्यप्रदं नृणां पवित्रं पापनाशनम् ॥ २४६.१६॥
२४६.१७/१तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः ।
२४६.१७/२श्रोतव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ॥ २४६.१७॥
२४६.१८/१प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे ।
२४६.१८/२वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥ २४६.१८॥
२४६.१९/१यं यं काममभिध्यायञ् शृणोति पुरुषः शुचिः ।
२४६.१९/२तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥ २४६.१९॥
२४६.२०/१पुराणं वैष्णवं त्वेतत् सर्वकिल्बिषनाशनम् ।
२४६.२०/२विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ २४६.२०॥
२४६.२१/१एतद् वो यन् मयाख्यातं पुराणं वेदसम्मितम् ।
२४६.२१/२श्रुतेऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ २४६.२१॥
२४६.२२/१प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे ।
२४६.२२/२उपोष्य यद् अवाप्नोति तद् अस्य श्रवणान् नरः ॥ २४६.२२॥
२४६.२३/१यद् अग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् ।
२४६.२३/२महापुण्यमयं विप्रास्तद् अस्य श्रवणात् सकृत् ॥ २४६.२३॥
२४६.२४/१यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
२४६.२४/२मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ २४६.२४॥
२४६.२५/१तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् ।
२४६.२५/२पुराणेऽस्य हितो विप्राः केशवार्पितमानसः ॥ २४६.२५॥
२४६.२६/१यत् फलं क्रियमालोक्य पुरुषोऽथ लभेन् नरः ।
२४६.२६/२तत् फलं समवाप्नोति यः पठेच्छृणुयाद् अपि ॥ २४६.२६॥
२४६.२७/१इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् ।
२४६.२७/२यः पठेच्छृणुयान् मर्त्यः स याति भुवनं हरेः ॥ २४६.२७॥
२४६.२८/१श्रावयेद् ब्राह्मणो यस्तु सदा पर्वसु संयतः ।
२४६.२८/२एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥ २४६.२८॥
२४६.२९/१इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् ।
२४६.२९/२बलपुष्टिप्रदं नृणां धन्यं दुःस्वप्ननाशनम् ॥ २४६.२९॥
२४६.३०/१त्रिसंध्यं यः पठेद् विद्वाञ् श्रद्धया सुसमाहितः ।
२४६.३०/२इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥ २४६.३०॥
२४६.३१/१रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
२४६.३१/२भयाद् विमुच्यते भीत आपदापन्न आपदः ॥ २४६.३१॥
२४६.३२/१जातिस्मरत्वं विद्यां च पुत्रान् मेधां पशून् धृतिम् ।
२४६.३२/२धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥ २४६.३२॥
२४६.३३/१यान् यान् कामान् अभिप्रेत्य पठेत् प्रयतमानसः ।
२४६.३३/२तांस्तान् सर्वान् अवाप्नोति पुरुषो नात्र संशयः ॥ २४६.३३॥
२४६.३४/१यश्चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदम् ।
२४६.३४/२विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः ।
२४६.३४/३भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखम् ।
२४६.३४/४पश्चाद् याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः ॥ २४६.३४॥
२४६.३५/१तस्माद् विप्रवरैः स्वधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस्- ।
२४६.३५/२तद्वत् क्षत्रियपुंगवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा ।
२४६.३५/३वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः ।
२४६.३५/४श्रोतव्यं त्विदमुत्तमं बहुफलं धर्मार्थमोक्षप्रदम् ॥ २४६.३५॥
२४६.३६/१धर्मे मतिर्भवतु वः पुरुषोत्तमानाम् ।
२४६.३६/२स ह्येक एव परलोकगतस्य बन्धुः ।
२४६.३६/३अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना ।
२४६.३६/४नैव प्रभावमुपयान्ति न च स्थिरत्वम् ॥ २४६.३६॥
२४६.३७/१धर्मेण राज्यं लभते मनुष्यः ।
२४६.३७/२स्वर्गं च धर्मेण नरः प्रयाति ।
२४६.३७/३आयुश्च कीर्तिं च तपश्च धर्मम् ।
२४६.३७/४धर्मेण मोक्षं लभते मनुष्यः ॥ २४६.३७॥
२४६.३८/१धर्मोऽत्र मातापितरौ नरस्य ।
२४६.३८/२धर्मः सखा चात्र परे च लोके ।
२४६.३८/३त्राता च धर्मस्त्विह मोक्षदश्च ।
२४६.३८/४धर्माद् ऋते नास्ति तु किंचिद् एव ॥ २४६.३८॥
२४६.३९/१इदं रहस्यं श्रेष्ठं च पुराणं वेदसम्मितम् ।
२४६.३९/२न देयं दुष्टमतये नास्तिकाय विशेषतः ॥ २४६.३९॥
२४६.४०/१इदं मयोक्तं प्रवरं पुराणम् ।
२४६.४०/२पापापहं धर्मविवर्धनं च ।
२४६.४०/३श्रुतं भवद्भिः परमं रहस्यम् ।
२४६.४०/४आज्ञापयध्वं मुनयो व्रजामि ॥ २४६.४०॥
Available at http://www.indologie.unizh.ch/text/texttml
Contact Professors Renate Söhnen-Thieme and Peter Schreiner
for the Tübingen Purâna Project, a project institutionalized at the
Seminar for Indology and Comparative History of Religions of
the University of Tübingen (Germany)