॥ ब्रह्मपुराण ॥

१.१/१यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । १.१/२यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । १.१/३यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । १.१/४तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥ १.२/१यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् । १.२/२नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । १.२/३व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । १.२/४तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२॥ १.३/१सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे । १.३/२नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३॥ १.४/१सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः । १.४/२आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४॥ १.५/१अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः । १.५/२बकुलैः सप्तपर्णैश्च पुंनागैर्नागकेसरैः ॥ १.५॥ १.६/१शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः । १.६/२अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६॥ १.७/१नानापक्षिगणाकीर्णे नानामृगगणैर्युते । १.७/२नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलङ्कृते ॥ १.७॥ १.८/१ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । १.८/२वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८॥ १.९/१सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलङ्कृते । १.९/२यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९॥ १.१०/१चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते । १.१०/२तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०॥ १.११/१यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके । १.११/२आजग्मुस्तत्र मुनयस्तथान्येऽपि द्विजातयः ॥ १.११॥ १.१२/१तान् आगतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् । १.१२/२तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२॥ १.१३/१तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः । १.१३/२तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३॥ १.१४/१सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने । १.१४/२कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४॥ १.१५/१कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा । १.१५/२ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५॥ १.१६/१मुनय ऊचुः । पुराणागमशास्त्राणि सेतिहासानि सत्तम । १.१६/२जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६॥ १.१७/१न तेऽस्त्यविदितं किञ्चिद् वेदे शास्त्रे च भारते । १.१७/२पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते ॥ १.१७॥ १.१८/१यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् । १.१८/२ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८॥ १.१९/१श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् । १.१९/२बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९॥ १.२०/१यतश्चैव जगत् सूत यतश्चैव चराचरम् । १.२०/२लीनमासीत् तथा यत्र लयमेष्यति यत्र च ॥ १.२०॥ १.२१/१लोमहर्षण उवाच । अविकाराय शुद्धाय नित्याय परमात्मने । १.२१/२सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१॥ १.२२/१नमो हिरण्यगर्भाय हरये शङ्कराय च । १.२२/२वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२॥ १.२३/१एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । १.२३/२अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३॥ १.२४/१सर्गस्थितिविनाशाय जगतो योऽजरामरः । १.२४/२मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४॥ १.२५/१आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । १.२५/२प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५॥ १.२६/१ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । १.२६/२तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६॥ १.२७/१विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । १.२७/२सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७॥ १.२८/१आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च । १.२८/२इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८॥ १.२९/१सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् । १.२९/२गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९॥ १.३०/१कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः । १.३०/२पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १.३०॥ १.३१/१शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । १.३१/२कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ १.३१॥ १.३२/१यस्त्विमां धारयेन् नित्यं शृणुयाद् वाप्यभीक्ष्णशः । १.३२/२स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ १.३२॥ १.३३/१अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् । १.३३/२प्रधानं पुरुषस्तस्मान् निर्ममे विश्वमीश्वरः ॥ १.३३॥ १.३४/१तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् । १.३४/२स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.३४॥ १.३५/१अहङ्कारस्तु महतस्तस्माद् भूतानि जज्ञिरे । १.३५/२भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ १.३५॥ १.३६/१विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति । १.३६/२कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ १.३६॥ १.३७/१कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् । १.३७/२ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ १.३७॥ १.३८/१अप एव ससर्जादौ तासु वीर्यमथासृजत् । १.३८/२आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ १.३८॥ १.३९/१अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । १.३९/२हिरण्यवर्णमभवत् तद् अण्डमुदकेशयम् ॥ १.३९॥ १.४०/१तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । १.४०/२हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम् ॥ १.४०॥ १.४१/१तद् अण्डमकरोद् द्वैधं दिवं भुवमथापि च । १.४१/२तयोः शकलयोर्मध्य आकाशमकरोत् प्रभुः ॥ १.४१॥ १.४२/१अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे । १.४२/२तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ १.४२॥ १.४३/१ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् । १.४३/२मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १.४३॥ १.४४/१वसिष्ठं च महातेजाः सोऽसृजत् सप्त मानसान् । १.४४/२सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १.४४॥ १.४५/१नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् । १.४५/२ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ १.४५॥ १.४६/१सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् । १.४६/२सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ १.४६॥ १.४७/१स्कन्दः सनत्कुमारश्च तेजः सङ्क्षिप्य तिष्ठतः । १.४७/२तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ १.४७॥ १.४८/१क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः । १.४८/२विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ १.४८॥ १.४९/१वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । १.४९/२ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.४९॥ १.५०/१साध्यान् अजनयद् देवान् इत्येवमनुसञ्जगुः । १.५०/२उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १.५०॥ १.५१/१आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः । १.५१/२सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ १.५१॥ १.५२/१द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । १.५२/२अर्धेन नारी तस्यां तु सोऽसृजद् द्विविधाः प्रजाः ॥ १.५२॥ १.५३/१दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति । १.५३/२विराजमसृजद् विष्णुः सोऽसृजत् पुरुषं विराट् ॥ १.५३॥ १.५४/१पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् । १.५४/२द्वितीयं मानसस्यैतन् मनोरन्तरमुच्यते ॥ १.५४॥ १.५५/१स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः । १.५५/२नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ १.५५॥ १.५६/१आयुष्मान् कीर्तिमान् पुण्य+ ।प्रजावांश्च भवेन् नरः । १.५६/२आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम् ॥ १.५६॥ २.१/१लोमहर्षण उवाच । स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः । २.१/२लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१॥ २.२/१आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः । २.२/२धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २.२॥ २.३/१सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् । २.३/२भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ २.३॥ २.४/१स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते । २.४/२तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ २.४॥ २.५/१वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत । २.५/२प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ २.५॥ २.६/१काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः । २.६/२काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट् प्रभुः ॥ २.६॥ २.७/१उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः । २.७/२उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ २.७॥ २.८/१धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता । २.८/२उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ २.८॥ २.९/१ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा । २.९/२उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ॥ २.९॥ २.१०/१ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः । २.१०/२तपस्तेपे महाभागः प्रार्थयन् सुमहद् यशः ॥ २.१०॥ २.११/१तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः । २.११/२अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ २.११॥ २.१२/१तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च । २.१२/२देवासुराणामाचार्यः श्लोकं प्राग् उशना जगौ ॥ २.१२॥ २.१३/१अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम् । २.१३/२यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ २.१३॥ २.१४/१तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत । २.१४/२श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥ २.१४॥ २.१५/१रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् । २.१५/२रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ २.१५॥ २.१६/१अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् । २.१६/२प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ २.१६॥ २.१७/१मनोरजायन्त दश नड्वलायां महौजसः । २.१७/२कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ २.१७॥ २.१८/१कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः । २.१८/२अग्निष्टुद् अतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ २.१८॥ २.१९/१अभिमन्युश्च दशमो नड्वलायां महौजसः । २.१९/२पुरोरजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ॥ २.१९॥ २.२०/१अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् । २.२०/२अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ॥ २.२०॥ २.२१/१अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् । २.२१/२प्रजार्थम् ऋषयो यस्य ममन्थुर्दक्षिणं करम् ॥ २.२१॥ २.२२/१वेणस्य मथिते पाणौ सम्बभूव महान् नृपः । २.२२/२तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ २.२२॥ २.२३/१करिष्यति महातेजा यशश्च प्राप्स्यते महत् । २.२३/२स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः ॥ २.२३॥ २.२४/१पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः । २.२४/२राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २.२४॥ २.२५/१तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ । २.२५/२तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २.२५॥ २.२६/१प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह । २.२६/२पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ २.२६॥ २.२७/१सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा । २.२७/२तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ॥ २.२७॥ २.२८/१प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् । २.२८/२पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ ॥ २.२८॥ २.२९/१शिखण्डिनी हविर्धानमन्तर्धानाद् व्यजायत । २.२९/२हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् ॥ २.२९॥ २.३०/१प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ । २.३०/२प्राचीनबर्हिर्भगवान् महान् आसीत् प्रजापतिः ॥ २.३०॥ २.३१/१हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः । २.३१/२प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणीः ॥ २.३१॥ २.३२/१समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः । २.३२/२महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ २.३२॥ २.३३/१सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । २.३३/२सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ २.३३॥ २.३४/१अपृथग्धर्मचरणास्तेऽतप्यन्त महत् तपः । २.३४/२दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.३४॥ २.३५/१तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । २.३५/२अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ २.३५॥ २.३६/१नाशकन् मारुतो वातुं वृतं खमभवद् द्रुमैः । २.३६/२दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २.३६॥ २.३७/१तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः । २.३७/२मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २.३७॥ २.३८/१उन्मूलान् अथ वृक्षांस्तु कृत्वा वायुरशोषयत् । २.३८/२तान् अग्निरदहद् घोर एवमासीद् द्रुमक्षयः ॥ २.३८॥ २.३९/१द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु । २.३९/२उपगम्याब्रवीद् एतांस्तदा सोमः प्रजापतीन् ॥ २.३९॥ २.४०/१कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । २.४०/२वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ २.४०॥ २.४१/१रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी । २.४१/२भविष्यं जानता तात धृता गर्भेण वै मया ॥ २.४१॥ २.४२/१मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । २.४२/२भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ॥ २.४२॥ २.४३/१युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः । २.४३/२अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ २.४३॥ २.४४/१स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । २.४४/२अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ २.४४॥ २.४५/१ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । २.४५/२संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ २.४५॥ २.४६/१दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । २.४६/२दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ २.४६॥ २.४७/१अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः । २.४७/२स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः ॥ २.४७॥ २.४८/१ददौ दश स धर्माय कश्यपाय त्रयोदश । २.४८/२शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ २.४८॥ २.४९/१तासु देवाः खगा गावो नागा दितिजदानवाः । २.४९/२गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥ २.४९॥ २.५०/१ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः । २.५०/२सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा ॥ २.५०॥ २.५१/१मुनय ऊचुः । देवानां दानवानां च गन्धर्वोरगरक्षसाम् । २.५१/२सम्भवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ॥ २.५१॥ २.५२/१अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः । २.५२/२वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत ॥ २.५२॥ २.५३/१कथं प्राचेतसत्वं स पुनर्लेभे महातपाः । २.५३/२एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । २.५३/३दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ २.५३॥ २.५४/१लोमहर्षण उवाच । उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः । २.५४/२ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥ २.५४॥ २.५५/१युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः । २.५५/२पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ २.५५॥ २.५६/१ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद् द्विजोत्तमाः । २.५६/२तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ॥ २.५६॥ २.५७/१इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् । २.५७/२प्रजावान् आयुरुत्तीर्णः स्वर्गलोके महीयते ॥ २.५७॥ ३.१/१मुनय ऊचुः । देवानां दानवानां च गन्धर्वोरगरक्षसाम् । ३.१/२उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१॥ ३.२/१लोमहर्षण उवाच । प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । ३.२/२यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥ ३.२॥ ३.३/१मानसान्येव भूतानि पूर्वमेवासृजत् प्रभुः । ३.३/२ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान् ॥ ३.३॥ ३.४/१यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा । ३.४/२तदा सञ्चिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ३.४॥ ३.५/१स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः । ३.५/२असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ॥ ३.५॥ ३.६/१सुतां सुतपसा युक्तां महतीं लोकधारिणीम् । ३.६/२अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ३.६॥ ३.७/१असिक्न्यां जनयामास दक्ष एव प्रजापतिः । ३.७/२तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ॥ ३.७॥ ३.८/१देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् । ३.८/२नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ३.८॥ ३.९/१यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । ३.९/२दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥ ३.९॥ ३.१०/१पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः । ३.१०/२असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ ३.१०॥ ३.११/१तं भूयो जनयामास पितेव मुनिपुङ्गवम् । ३.११/२तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ३.११॥ ३.१२/१निर्मथ्य नाशिताः सर्वे विधिना च न संशयः । ३.१२/२तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ ३.१२॥ ३.१३/१ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना । ३.१३/२ततोऽभिसन्धिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ ३.१३॥ ३.१४/१कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति । ३.१४/२ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने । ३.१४/३स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥ ३.१४॥ ३.१५/१मुनय ऊचुः । कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा । ३.१५/२प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ ३.१५॥ ३.१६/१लोमहर्षण उवाच । दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । ३.१६/२समागता महावीर्या नारदस्तान् उवाच ह ॥ ३.१६॥ ३.१७/१नारद उवाच । बालिशा बत यूयं वै नास्या जानीत वै भुवः । ३.१७/२प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ ३.१७॥ ३.१८/१अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः । ३.१८/२ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ ३.१८॥ ३.१९/१अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ३.१९/२हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ ३.१९॥ ३.२०/१वैरण्यामथ पुत्राणां सहस्रमसृजत् प्रभुः । ३.२०/२विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ ३.२०॥ ३.२१/१पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः । ३.२१/२अन्योन्यमूचुस्ते सर्वे सम्यग् आह महान् ऋषिः ॥ ३.२१॥ ३.२२/१भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । ३.२२/२ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ ३.२२॥ ३.२३/१तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । ३.२३/२अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ३.२३॥ ३.२४/१तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः । ३.२४/२प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥ ३.२४॥ ३.२५/१तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । ३.२५/२षष्टिं ततोऽसृजत् कन्या वैरण्यामिति नः श्रुतम् ॥ ३.२५॥ ३.२६/१तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । ३.२६/२सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ ३.२६॥ ३.२७/१ददौ स दश धर्माय कश्यपाय त्रयोदश । ३.२७/२सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ ३.२७॥ ३.२८/१द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । ३.२८/२द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ ३.२८॥ ३.२९/१अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । ३.२९/२सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ ३.२९॥ ३.३०/१धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत । ३.३०/२विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत ॥ ३.३०॥ ३.३१/१मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः । ३.३१/२भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ॥ ३.३१॥ ३.३२/१लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा । ३.३२/२पृथिवी विषयं सर्वमरुन्धत्यां व्यजायत ॥ ३.३२॥ ३.३३/१सङ्कल्पायास्तु विश्वात्मा जज्ञे सङ्कल्प एव हि । ३.३३/२नागवीथ्यां च यामिन्यां वृषलश्च व्यजायत ॥ ३.३३॥ ३.३४/१परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ । ३.३४/२सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥ ३.३४॥ ३.३५/१ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः । ३.३५/२वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ३.३५॥ ३.३६/१आपो ध्रुवश्च सोमश्च धवश्चैवानिलोऽनलः । ३.३६/२प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ ३.३६॥ ३.३७/१आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा । ३.३७/२ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ ३.३७॥ ३.३८/१सोमस्य भगवान् वर्चा वर्चस्वी येन जायते । ३.३८/२धवस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ३.३८/३मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ ३.३८॥ ३.३९/१अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । ३.३९/२अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ ३.३९॥ ३.४०/१अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः । ३.४०/२तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ ३.४०॥ ३.४१/१अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । ३.४१/२प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् ॥ ३.४१॥ ३.४२/१द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । ३.४२/२बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ ३.४२॥ ३.४३/१योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह । ३.४३/२प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ३.४३॥ ३.४४/१विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः । ३.४४/२कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ३.४४॥ ३.४५/१भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । ३.४५/२यः सर्वेषां विमानानि दैवतानां चकार ह ॥ ३.४५॥ ३.४६/१मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः । ३.४६/२सुरभी कश्यपाद् रुद्रान् एकादश विनिर्ममे ॥ ३.४६॥ ३.४७/१महादेवप्रसादेन तपसा भाविता सती । ३.४७/२अजैकपाद् अहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥ ३.४७॥ ३.४८/१हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । ३.४८/२वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ ३.४८॥ ३.४९/१मृगव्याधश्च शर्वश्च कपाली च द्विजोत्तमाः । ३.४९/२एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥ ३.४९॥ ३.५०/१शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । ३.५०/२पुराणे मुनिशार्दूला यैर्व्याप्तं सचराचरम् ॥ ३.५०॥ ३.५१/१दाराञ् शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः । ३.५१/२अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥ ३.५१॥ ३.५२/१सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । ३.५२/२कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥ ३.५२॥ ३.५३/१पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः । ३.५३/२तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ ३.५३॥ ३.५४/१उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । ३.५४/२हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ ३.५४॥ ३.५५/१आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । ३.५५/२मन्वन्तरे प्रसूयामस्तन् नः श्रेयो भविष्यति ॥ ३.५५॥ ३.५६/१लोमहर्षण उवाच । एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । ३.५६/२मारीचात् कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥ ३.५६॥ ३.५७/१तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । ३.५७/२अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ३.५७॥ ३.५८/१विवस्वान् सविता चैव मित्रो वरुण एव च । ३.५८/२अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ३.५८॥ ३.५९/१सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः । ३.५९/२तासामपत्यान्यभवन् दीप्तान्यमिततेजसः ॥ ३.५९॥ ३.६०/१अरिष्टनेमिपत्नीनामपत्यानीह षोडश । ३.६०/२बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ ३.६०॥ ३.६१/१चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः । ३.६१/२कृशाश्वस्य च देवर्षेर्देवप्रहरणाः स्मृताः ॥ ३.६१॥ ३.६२/१एते युगसहस्रान्ते जायन्ते पुनरेव हि । ३.६२/२सर्वे देवगणाश्चात्र त्रयस्त्रिंशत् तु कामजाः ॥ ३.६२॥ ३.६३/१तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते । ३.६३/२यथा सूर्यस्य गगन उदयास्तमयाविह ॥ ३.६३॥ ३.६४/१एवं देवनिकायास्ते सम्भवन्ति युगे युगे । ३.६४/२दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् ॥ ३.६४॥ ३.६५/१हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् । ३.६५/२सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥ ३.६५॥ ३.६६/१सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः । ३.६६/२हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ ३.६६॥ ३.६७/१ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वीर्यवान् । ३.६७/२संह्रादश्च चतुर्थोऽभूद् ध्रादपुत्रो ह्रदस्तथा ॥ ३.६७॥ ३.६८/१ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च । ३.६८/२विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ ३.६८॥ ३.६९/१बलेः पुत्रशतमासीद् बाणज्येष्ठं तपोधनाः । ३.६९/२धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥ ३.६९॥ ३.७०/१कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः । ३.७०/२बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ ३.७०॥ ३.७१/१पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । ३.७१/२पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ ३.७१॥ ३.७२/१हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः । ३.७२/२भर्भरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ ३.७२॥ ३.७३/१महानाभश्च विक्रान्तः कालनाभस्तथैव च । ३.७३/२अभवन् दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ ३.७३॥ ३.७४/१तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् । ३.७४/२द्विमूर्धा शङ्कुकर्णश्च तथा हयशिरा विभुः ॥ ३.७४॥ ३.७५/१अयोमुखः शम्बरश्च कपिलो वामनस्तथा । ३.७५/२मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा ॥ ३.७५॥ ३.७६/१विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ । ३.७६/२इन्द्रजित् सर्वजिच्चैव वज्रनाभस्तथैव च ॥ ३.७६॥ ३.७७/१एकचक्रो महाबाहुस्तारकश्च महाबलः । ३.७७/२वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ ३.७७॥ ३.७८/१स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् । ३.७८/२सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे ॥ ३.७८॥ ३.७९/१विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः । ३.७९/२एतेषां पुत्रपौत्रं तु न तच्छक्यं द्विजोत्तमाः ॥ ३.७९॥ ३.८०/१प्रसङ्ख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् । ३.८०/२स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ ३.८०॥ ३.८१/१उपदीप्तिर्हयशिराः शर्मिष्ठा वार्षपर्वणी । ३.८१/२पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ३.८१॥ ३.८२/१बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः । ३.८२/२तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ ३.८२॥ ३.८३/१चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः । ३.८३/२मरीचिर्जनयामास महता तपसान्वितः ॥ ३.८३॥ ३.८४/१पौलोमाः कालकेयाश्च दानवास्ते महाबलाः । ३.८४/२अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ ३.८४॥ ३.८५/१पितामहप्रसादेन ये हताः सव्यसाचिना । ३.८५/२ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ॥ ३.८५॥ ३.८६/१सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा । ३.८६/२दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ ३.८६॥ ३.८७/१सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः । ३.८७/२वंश्यः शल्यश्च बलिनौ नलश्चैव तथा बलः ॥ ३.८७॥ ३.८८/१वातापिर्नमुचिश्चैव इल्वलः स्वसृमस्तथा । ३.८८/२अञ्जिको नरकश्चैव कालनाभस्तथैव च ॥ ३.८८॥ ३.८९/१सरमानस्तथा चैव स्वरकल्पश्च वीर्यवान् । ३.८९/२एते वै दानवाः श्रेष्ठा दनोर्वंशविवर्धनाः ॥ ३.८९॥ ३.९०/१तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । ३.९०/२संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ३.९०॥ ३.९१/१समुत्पन्नाः सुमहता तपसा भावितात्मनः । ३.९१/२तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥ ३.९१॥ ३.९२/१अवध्यास्तेऽपि देवानामर्जुनेन निपातिताः । ३.९२/२षट् सुताः सुमहाभागास्ताम्रायाः परिकीर्तिताः ॥ ३.९२॥ ३.९३/१क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका । ३.९३/२क्रौञ्ची तु जनयामास उलूकप्रत्युलूककान् ॥ ३.९३॥ ३.९४/१श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि । ३.९४/२शुचिरौदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः ॥ ३.९४॥ ३.९५/१अश्वान् उष्ट्रान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः । ३.९५/२विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ ३.९५॥ ३.९६/१गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा । ३.९६/२सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ ३.९६॥ ३.९७/१अनेकशिरसां विप्राः खचराणां महात्मनाम् । ३.९७/२काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥ ३.९७॥ ३.९८/१सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः । ३.९८/२येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ ३.९८॥ ३.९९/१ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । ३.९९/२एलापत्त्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ३.९९॥ ३.१००/१महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ । ३.१००/२कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ॥ ३.१००॥ ३.१०१/१शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा । ३.१०१/२नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥ ३.१०१॥ ३.१०२/१तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । ३.१०२/२चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥ ३.१०२॥ ३.१०३/१गणं क्रोधवंशं विप्रास्तस्य सर्वे च दंष्ट्रिणः । ३.१०३/२स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ॥ ३.१०३॥ ३.१०४/१गास्तु वै जनयामास सुरभिर्महिषीस्तथा । ३.१०४/२इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ॥ ३.१०४॥ ३.१०५/१खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । ३.१०५/२अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः ॥ ३.१०५॥ ३.१०६/१एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । ३.१०६/२येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ३.१०६॥ ३.१०७/१एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः । ३.१०७/२वैवस्वतेऽतिमहति वारुणे वितते क्रतौ ॥ ३.१०७॥ ३.१०८/१जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । ३.१०८/२पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान् ॥ ३.१०८॥ ३.१०९/१पुत्रत्वे कल्पयामास स्वयमेव पितामहः । ३.१०९/२ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ ३.१०९॥ ३.११०/१दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । ३.११०/२कश्यपस्तु प्रसन्नात्मा सम्यग् आराधितस्तया ॥ ३.११०॥ ३.१११/१वरेण च्छन्दयामास सा च वव्रे वरं तदा । ३.१११/२पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३.१११॥ ३.११२/१स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः । ३.११२/२दत्त्वा च वरमत्युग्रो मारीचः समभाषत ॥ ३.११२॥ ३.११३/१इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् । ३.११३/२यदि धारयसे शौच+ ।तत्परा व्रतमास्थिता ॥ ३.११३॥ ३.११४/१तथेत्यभिहितो भर्ता तया देव्या महातपाः । ३.११४/२धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥ ३.११४॥ ३.११५/१ततोऽभ्युपागमद् दित्यां गर्भमाधाय कश्यपः । ३.११५/२रोधयन् वै गणं श्रेष्ठं देवानाममितौजसम् ॥ ३.११५॥ ३.११६/१तेजः संहृत्य दुर्धर्षमवध्यममरैरपि । ३.११६/२जगाम पर्वतायैव तपसे संशितव्रता ॥ ३.११६॥ ३.११७/१तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः । ३.११७/२जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥ ३.११७॥ ३.११८/१अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । ३.११८/२निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥ ३.११८॥ ३.११९/१वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् । ३.११९/२स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ॥ ३.११९॥ ३.१२०/१मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् । ३.१२०/२सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ ३.१२०॥ ३.१२१/१एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः । ३.१२१/२मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥ ३.१२१॥ ३.१२२/१यथोक्तं वै मघवता तथैव मरुतोऽभवन् । ३.१२२/२देवाश्चैकोनपञ्चाशत् सहाया वज्रपाणिनः ॥ ३.१२२॥ ३.१२३/१तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः । ३.१२३/२रोचयन् वै गणश्रेष्ठान् देवानाममितौजसाम् ॥ ३.१२३॥ ३.१२४/१निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् । ३.१२४/२क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ ३.१२४॥ ३.१२५/१स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । ३.१२५/२पर्जन्यस्तपनोऽनन्तस्तस्य सर्वमिदं जगत् ॥ ३.१२५॥ ३.१२६/१भूतसर्गमिमं सम्यग् जानतो द्विजसत्तमाः । ३.१२६/२नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ ३.१२६॥ ४.१/१लोमहर्षण उवाच । अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः । ४.१/२ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१॥ ४.२/१द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । ४.२/२यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ४.२॥ ४.३/१अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् । ४.३/२आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४.३॥ ४.४/१प्रजापतीनां दक्षं तु मरुतामथ वासवम् । ४.४/२दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ ४.४॥ ४.५/१वैवस्वतं पितृणां च यमं राज्येऽभ्यषेचयत् । ४.५/२यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ४.५॥ ४.६/१सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् । ४.६/२शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ ४.६॥ ४.७/१गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । ४.७/२नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ ४.७॥ ४.८/१वारणानां तु राजानमैरावतमथादिशत् । ४.८/२उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ४.८॥ ४.९/१मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । ४.९/२वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ ४.९॥ ४.१०/१एवं विभज्य राज्यानि क्रमेणैव पितामहः । ४.१०/२दिशां पालान् अथ ततः स्थापयामास स प्रभुः ॥ ४.१०॥ ४.११/१पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । ४.११/२दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत् ॥ ४.११॥ ४.१२/१दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । ४.१२/२पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ ४.१२॥ ४.१३/१पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । ४.१३/२केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ ४.१३॥ ४.१४/१तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । ४.१४/२उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ॥ ४.१४॥ ४.१५/१तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ४.१५/२यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४.१५॥ ४.१६/१राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः । ४.१६/२वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ ४.१६॥ ४.१७/१ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि । ४.१७/२वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ ४.१७॥ ४.१८/१तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह । ४.१८/२भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ । ४.१८/३महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम् ॥ ४.१८॥ ४.१९/१मुनय ऊचुः । विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय । ४.१९/२यथा महात्मना तेन दुग्धा वेयं वसुन्धरा ॥ ४.१९॥ ४.२०/१यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः । ४.२०/२यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ ४.२०॥ ४.२१/१यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । ४.२१/२राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा ॥ ४.२१॥ ४.२२/१तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत । ४.२२/२वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ ४.२२॥ ४.२३/१यस्माच्च कारणात् पाणिर्वेणस्य मथितः पुरा । ४.२३/२क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ४.२३॥ ४.२४/१लोमहर्षण उवाच । शृणुध्वं कीर्तयिष्यामि पृथोर्वैण्यस्य विस्तरम् । ४.२४/२एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ ४.२४॥ ४.२५/१नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च । ४.२५/२कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ ४.२५॥ ४.२६/१स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् । ४.२६/२रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥ ४.२६॥ ४.२७/१यश्चेमं कीर्तयेन् नित्यं पृथोर्वैण्यस्य विस्तरम् । ४.२७/२ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥ ४.२७॥ ४.२८/१आसीद् धर्मस्य सङ्गोप्ता पूर्वमत्रिसमः प्रभुः । ४.२८/२अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ ४.२८॥ ४.२९/१तस्य पुत्रोऽभवद् वेणो नात्यर्थं धर्मकोविदः । ४.२९/२जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ४.२९॥ ४.३०/१स मातामहदोषेण तेन कालात्मजात्मजः । ४.३०/२स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ ४.३०॥ ४.३१/१मर्यादां भेदयामास धर्मोपेतां स पार्थिवः । ४.३१/२वेदधर्मान् अतिक्रम्य सोऽधर्मनिरतोऽभवत् ॥ ४.३१॥ ४.३२/१निःस्वाध्यायवषट्काराः प्रजास्तस्मिन् प्रजापतौ । ४.३२/२प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ ४.३२॥ ४.३३/१न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । ४.३३/२आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ४.३३॥ ४.३४/१अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह । ४.३४/२मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ४.३४॥ ४.३५/१तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । ४.३५/२ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ४.३५॥ ४.३६/१वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् । ४.३६/२अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ ४.३६॥ ४.३७/१निधनेऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् । ४.३७/२प्रजाश्च पालयिष्येऽहमितीह समयः कृतः ॥ ४.३७॥ ४.३८/१तांस्तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा । ४.३८/२वेणः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ ४.३८॥ ४.३९/१वेण उवाच । स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । ४.३९/२श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ ४.३९॥ ४.४०/१प्रभवं सर्वभूतानां धर्माणां च विशेषतः । ४.४०/२सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ ४.४०॥ ४.४१/१इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस्तथा । ४.४१/२द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ ४.४१॥ ४.४२/१यदा न शक्यते मोहाद् अवलेपाच्च पार्थिवः । ४.४२/२अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः ॥ ४.४२॥ ४.४३/१तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् । ४.४३/२ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ ४.४३॥ ४.४४/१तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् । ४.४४/२ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥ ४.४४॥ ४.४५/१स भीतः प्राञ्जलिर्भूत्वा तस्थिवान् द्विजसत्तमाः । ४.४५/२तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत् तदा ॥ ४.४५॥ ४.४६/१निषादवंशकर्तासौ बभूव वदतां वराः । ४.४६/२धीवरान् असृजच्चापि वेणकल्मषसम्भवान् ॥ ४.४६॥ ४.४७/१ये चान्ये विन्ध्यनिलयास्तथा पर्वतसंश्रयाः । ४.४७/२अधर्मरुचयो विप्रास्ते तु वै वेणकल्मषाः ॥ ४.४७॥ ४.४८/१ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् । ४.४८/२अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ ४.४८॥ ४.४९/१पृथुस्तस्मात् समुत्पन्नः कराज्ज्वलनसंनिभः । ४.४९/२दीप्यमानः स्ववपुषा साक्षाद् अग्निरिव ज्वलन् ॥ ४.४९॥ ४.५०/१अथ सोऽजगवं नाम धनुर्गृह्य महारवम् । ४.५०/२शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥ ४.५०॥ ४.५१/१तस्मिञ् जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः । ४.५१/२समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥ ४.५१॥ ४.५२/१समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना । ४.५२/२त्रातः स पुरुषव्याघ्रः पुंनाम्नो नरकात् तदा ॥ ४.५२॥ ४.५३/१तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । ४.५३/२तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ ४.५३॥ ४.५४/१पितामहश्च भगवान् देवैराङ्गिरसैः सह । ४.५४/२स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ ४.५४॥ ४.५५/१समागम्य तदा वैण्यमभ्यषिञ्चन् नराधिपम् । ४.५५/२महता राजराजेन प्रजास्तेनानुरञ्जिताः ॥ ४.५५॥ ४.५६/१सोऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः । ४.५६/२आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥ ४.५६॥ ४.५७/१पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ४.५७/२अनुरागात् ततस्तस्य नाम राजाभ्यजायत ॥ ४.५७॥ ४.५८/१आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः । ४.५८/२पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ४.५८॥ ४.५९/१अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् । ४.५९/२सर्वकामदुघा गावः पुटके पुटके मधु ॥ ४.५९॥ ४.६०/१एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे । ४.६०/२सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ ४.६०॥ ४.६१/१तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । ४.६१/२पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ४.६१॥ ४.६२/१तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः । ४.६२/२कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः ॥ ४.६२॥ ४.६३/१तावूचतुस्तदा सर्वांस्तान् ऋषीन् सूतमागधौ । ४.६३/२आवां देवान् ऋषींश्चैव प्रीणयावः स्वकर्मभिः ॥ ४.६३॥ ४.६४/१न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः । ४.६४/२स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ ४.६४॥ ४.६५/१ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । ४.६५/२यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः ॥ ४.६५॥ ४.६६/१ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः । ४.६६/२आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ ४.६६॥ ४.६७/१तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः । ४.६७/२अनूपदेशं सूताय मगधं मागधाय च ॥ ४.६७॥ ४.६८/१तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः । ४.६८/२वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥ ४.६८॥ ४.६९/१ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः । ४.६९/२त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा ॥ ४.६९॥ ४.७०/१सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया । ४.७०/२धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद् बली ॥ ४.७०॥ ४.७१/१ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन् मही । ४.७१/२तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ ४.७१॥ ४.७२/१सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा । ४.७२/२प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ ४.७२॥ ४.७३/१ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः । ४.७३/२महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ४.७३॥ ४.७४/१अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत । ४.७४/२कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥ ४.७४॥ ४.७५/१उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि । ४.७५/२कथं धारयिता चासि प्रजा राजन् विना मया ॥ ४.७५॥ ४.७६/१मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् । ४.७६/२मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ ४.७६॥ ४.७७/१न मामर्हसि हन्तुं वै श्रेयश्चेत् त्वं चिकीर्षसि । ४.७७/२प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ ४.७७॥ ४.७८/१उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । ४.७८/२उपायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥ ४.७८॥ ४.७९/१हत्वापि मां न शक्तस्त्वं प्रजानां पोषणे नृप । ४.७९/२अनुकूला भविष्यामि यच्छ कोपं महामते ॥ ४.७९॥ ४.८०/१अवध्यां च स्त्रियं प्राहुस्तिर्यग्योनिगतेष्वपि । ४.८०/२यद्येवं पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥ ४.८०॥ ४.८१/१एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । ४.८१/२कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ ४.८१॥ ४.८२/१पृथुरुवाच । एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा । ४.८२/२बहून् वा प्राणिनोऽनन्तं भवेत् तस्येह पातकम् ॥ ४.८२॥ ४.८३/१सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे । ४.८३/२तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम् ॥ ४.८३॥ ४.८४/१सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे । ४.८४/२यदि मे वचनान् नाद्य करिष्यसि जगद्धितम् ॥ ४.८४॥ ४.८५/१त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । ४.८५/२आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ ४.८५॥ ४.८६/१सा त्वं शासनमास्थाय मम धर्मभृतां वरे । ४.८६/२सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ ४.८६॥ ४.८७/१दुहितृत्वं च मे गच्छ तत एनमहं शरम् । ४.८७/२नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ ४.८७॥ ४.८८/१वसुधोवाच । सर्वमेतद् अहं वीर विधास्यामि न संशयः । ४.८८/२वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ ४.८८॥ ४.८९/१समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । ४.८९/२यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ४.८९॥ ४.९०/१लोमहर्षण उवाच । तत उत्सारयामास शैलाञ् शतसहस्रशः । ४.९०/२धनुष्कोट्या तदा वैण्यस्तेन शैला विवर्धिताः ॥ ४.९०॥ ४.९१/१नहि पूर्वविसर्गे वै विषमे पृथिवीतले । ४.९१/२संविभागः पुराणां वा ग्रामाणां वाभवत् तदा ॥ ४.९१॥ ४.९२/१न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । ४.९२/२नैव सत्यानृतं चासीन् न लोभो न च मत्सरः ॥ ४.९२॥ ४.९३/१वैवस्वतेऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते । ४.९३/२वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ ४.९३॥ ४.९४/१यत्र यत्र समं त्वस्या भूमेरासीत् तदा द्विजाः । ४.९४/२तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ ४.९४॥ ४.९५/१आहारः फलमूलानि प्रजानामभवत् तदा । ४.९५/२कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ ४.९५॥ ४.९६/१स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । ४.९६/२स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ ४.९६॥ ४.९७/१सस्यजातानि सर्वाणि पृथुर्वैण्यः प्रतापवान् । ४.९७/२तेनान्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि सर्वशः ॥ ४.९७॥ ४.९८/१ऋषयश्च तदा देवाः पितरोऽथ सरीसृपाः । ४.९८/२दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ ४.९८॥ ४.९९/१एते पुरा द्विजश्रेष्ठा दुदुहुर्धरणीं किल । ४.९९/२क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक् पृथक् ॥ ४.९९॥ ४.१००/१ऋषीणामभवत् सोमो वत्सो दोग्धा बृहस्पतिः । ४.१००/२क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ ४.१००॥ ४.१०१/१देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः । ४.१०१/२क्षीरमोजस्करं चैव दोग्धा च भगवान् रविः ॥ ४.१०१॥ ४.१०२/१पितृणां राजतं पात्रं यमो वत्सः प्रतापवान् । ४.१०२/२अन्तकश्चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता ॥ ४.१०२॥ ४.१०३/१नागानां तक्षको वत्सः पात्रं चालाबुसञ्ज्ञकम् । ४.१०३/२दोग्धा त्वैरावतो नागस्तेषां क्षीरं विषं स्मृतम् ॥ ४.१०३॥ ४.१०४/१असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् । ४.१०४/२विरोचनस्तु वत्सोऽभूद् आयसं पात्रमेव च ॥ ४.१०४॥ ४.१०५/१यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः । ४.१०५/२दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥ ४.१०५॥ ४.१०६/१सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् । ४.१०६/२दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥ ४.१०६॥ ४.१०७/१गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् । ४.१०७/२दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥ ४.१०७॥ ४.१०८/१शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस्तथा । ४.१०८/२वत्सस्तु हिमवान् आसीद् दोग्धा मेरुर्महागिरिः ॥ ४.१०८॥ ४.१०९/१प्लक्षो वत्सस्तु वृक्षाणां दोग्धा शालस्तु पुष्पितः । ४.१०९/२पालाशपात्रं क्षीरं च *च्छिन्नदग्धप्ररोहणम् ॥ ४.१०९॥ ४.११०/१सेयं धात्री विधात्री च पावनी च वसुन्धरा । ४.११०/२चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ ४.११०॥ ४.१११/१सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी । ४.१११/२आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता ॥ ४.१११॥ ४.११२/१मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता । ४.११२/२तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ ४.११२॥ ४.११३/१ततोऽभ्युपगमाद् राज्ञः पृथोर्वैण्यस्य भो द्विजाः । ४.११३/२दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ४.११३॥ ४.११४/१पृथुना प्रविभक्ता च शोधिता च वसुन्धरा । ४.११४/२सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ ४.११४॥ ४.११५/१एवम्प्रभावो वैण्यः स राजासीद् राजसत्तमः । ४.११५/२नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥ ४.११५॥ ४.११६/१ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । ४.११६/२पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ४.११६॥ ४.११७/१पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः । ४.११७/२आदिराजो नमस्कार्यः पृथुर्वैण्यः प्रतापवान् ॥ ४.११७॥ ४.११८/१योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि । ४.११८/२आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ ४.११८॥ ४.११९/१यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । ४.११९/२स घोररूपात् सङ्ग्रामात् क्षेमी भवति कीर्तिमान् ॥ ४.११९॥ ४.१२०/१वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः । ४.१२०/२पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ ४.१२०॥ ४.१२१/१तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः । ४.१२१/२पृथुरेव नमस्कार्यः श्रेयः परमिहेप्सुभिः ॥ ४.१२१॥ ४.१२२/१एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । ४.१२२/२पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ ४.१२२॥ ५.१/१ऋषय ऊचुः । मन्वन्तराणि सर्वाणि विस्तरेण महामते । ५.१/२तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१॥ ५.२/१यावन्तो मनवश्चैव यावन्तं कालमेव च । ५.२/२मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ ५.२॥ ५.३/१लोमहर्षण उवाच । न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि । ५.३/२मन्वन्तराणां सर्वेषां सङ्क्षेपाच्छृणुत द्विजाः ॥ ५.३॥ ५.४/१स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । ५.४/२उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५.४॥ ५.५/१वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते । ५.५/२सावर्णिश्च मनुस्तद्वद् रैभ्यो रौच्यस्तथैव च ॥ ५.५॥ ५.६/१तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः । ५.६/२अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ ५.६॥ ५.७/१कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः । ५.७/२ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ॥ ५.७॥ ५.८/१मरीचिरत्रिर्भगवान् अङ्गिराः पुलहः क्रतुः । ५.८/२पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ५.८॥ ५.९/१उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा । ५.९/२आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ ५.९॥ ५.१०/१ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसञ्ज्ञकः । ५.१०/२मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ५.१०॥ ५.११/१एतद् वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् । ५.११/२और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ ५.११॥ ५.१२/१प्राणो बृहस्पतिश्चैव दत्तोऽत्रिच्च्यवनस्तथा । ५.१२/२एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ ५.१२॥ ५.१३/१देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे । ५.१३/२हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ ५.१३॥ ५.१४/१प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च । ५.१४/२स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ ५.१४॥ ५.१५/१कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः । ५.१५/२द्वितीयमेतत् कथितं विप्रा मन्वन्तरं मया ॥ ५.१५॥ ५.१६/१इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः । ५.१६/२वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥ ५.१६॥ ५.१७/१हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः । ५.१७/२ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत ॥ ५.१७॥ ५.१८/१औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोरिमान् । ५.१८/२इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ ५.१८॥ ५.१९/१शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च । ५.१९/२भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ ५.१९॥ ५.२०/१मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् । ५.२०/२काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ ५.२०॥ ५.२१/१कपीवान् अकपीवांश्च तत्र सप्तर्षयो द्विजाः । ५.२१/२पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ ५.२१॥ ५.२२/१तथा देवगणाश्चैव तामसस्यान्तरे मनोः । ५.२२/२द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ ५.२२॥ ५.२३/१तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः । ५.२३/२तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ ५.२३॥ ५.२४/१वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतद् अन्तरम् । ५.२४/२देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ ५.२४॥ ५.२५/१हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । ५.२५/२सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥ ५.२५॥ ५.२६/१देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः । ५.२६/२वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ ५.२६॥ ५.२७/१अथ पुत्रान् इमांस्तस्य बुध्यध्वं गदतो मम । ५.२७/२धृतिमान् अव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५.२७॥ ५.२८/१आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक् कृती । ५.२८/२रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥ ५.२८॥ ५.२९/१षष्ठं तु सम्प्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः । ५.२९/२भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ५.२९॥ ५.३०/१अतिनामा सहिष्णुश्च सप्तैते च महर्षयः । ५.३०/२चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ ५.३०॥ ५.३१/१आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः । ५.३१/२लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ ५.३१॥ ५.३२/१ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः । ५.३२/२नाड्वलेया मुनिश्रेष्ठा दश पुत्रास्तु विश्रुताः ॥ ५.३२॥ ५.३३/१रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः । ५.३३/२षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ ५.३३॥ ५.३४/१अत्रिर्वसिष्ठो भगवान् कश्यपश्च महान् ऋषिः । ५.३४/२गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ५.३४॥ ५.३५/१तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः । ५.३५/२सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ ५.३५॥ ५.३६/१साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा । ५.३६/२आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ ५.३६॥ ५.३७/१मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे । ५.३७/२इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ५.३७॥ ५.३८/१एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । ५.३८/२तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥ ५.३८॥ ५.३९/१मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः । ५.३९/२लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ ५.३९॥ ५.४०/१मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । ५.४०/२कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ ५.४०॥ ५.४१/१ततोऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्युत । ५.४१/२अतीता वर्तमानाश्च क्रमेणैतेन भो द्विजाः ॥ ५.४१॥ ५.४२/१अनागताश्च सप्तैते स्मृता दिवि महर्षयः । ५.४२/२मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥ ५.४२॥ ५.४३/१रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः । ५.४३/२भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ५.४३॥ ५.४४/१गौतमश्चाजरश्चैव शरद्वान् नाम गौतमः । ५.४४/२कौशिको गालवश्चैव और्वः काश्यप एव च ॥ ५.४४॥ ५.४५/१एते सप्त महात्मानो भविष्या मुनिसत्तमाः । ५.४५/२वैरी चैवाध्वरीवांश्च शमनो धृतिमान् वसुः ॥ ५.४५॥ ५.४६/१अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च । ५.४६/२सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ ५.४६॥ ५.४७/१एतेषां कल्यमुत्थाय कीर्तनात् सुखमेधते । ५.४७/२यशश्चाप्नोति सुमहद् आयुष्मांश्च भवेन् नरः ॥ ५.४७॥ ५.४८/१एतान्युक्तानि भो विप्राः सप्त सप्त च तत्त्वतः । ५.४८/२मन्वन्तराणि सङ्क्षेपाच्छृणुतानागतान्यपि ॥ ५.४८॥ ५.४९/१सावर्णा मनवो विप्राः पञ्च तांश्च निबोधत । ५.४९/२एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ५.४९॥ ५.५०/१परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः । ५.५०/२दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥ ५.५०॥ ५.५१/१महता तपसा युक्ता मेरुपृष्ठे महौजसः । ५.५१/२रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ ५.५१॥ ५.५२/१भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः । ५.५२/२अनागताश्च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः ॥ ५.५२॥ ५.५३/१तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । ५.५३/२पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ ५.५३॥ ५.५४/१प्रजापतिश्च तपसा संहारं तेषु नित्यशः । ५.५४/२युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥ ५.५४॥ ५.५५/१कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते । ५.५५/२चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ ५.५५॥ ५.५६/१वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । ५.५६/२प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्तनम् ॥ ५.५६॥ ५.५७/१मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः । ५.५७/२न शक्यतेऽन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ ५.५७॥ ५.५८/१विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः । ५.५८/२मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ ५.५८॥ ५.५९/१सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । ५.५९/२तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ५.५९॥ ५.६०/१पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । ५.६०/२तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः ॥ ५.६०॥ ५.६१/१ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः । ५.६१/२प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ ५.६१॥ ५.६२/१स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः । ५.६२/२अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ ५.६२॥ ५.६३/१अत्र वः कीर्तयिष्यामि मनोर्वैवस्वतस्य वै । ५.६३/२विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ ५.६३॥ ५.६४/१अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् । ५.६४/२यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥ ५.६४॥ ६.१/१लोमहर्षण उवाच । विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः । ६.१/२तस्य भार्याभवत् सञ्ज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१॥ ६.२/१सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी । ६.२/२सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ ६.२॥ ६.३/१भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी । ६.३/२सञ्ज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ६.३॥ ६.४/१आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा । ६.४/२गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ६.४॥ ६.५/१न खल्वयं मृतोऽण्डस्य इति स्नेहाद् अभाषत । ६.५/२अजानन् काश्यपस्तस्मान् मार्तण्ड इति चोच्यते ॥ ६.५॥ ६.६/१तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । ६.६/२येनातितापयामास त्रींल्लोकान् कश्यपात्मजः ॥ ६.६॥ ६.७/१त्रीण्यपत्यानि भो विप्राः सञ्ज्ञायां तपतां वरः । ६.७/२आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ६.७॥ ६.८/१मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः । ६.८/२यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ६.८॥ ६.९/१श्यामवर्णं तु तद् रूपं सञ्ज्ञा दृष्ट्वा विवस्वतः । ६.९/२असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ६.९॥ ६.१०/१मायामयी तु सा सञ्ज्ञा तस्यां छायासमुत्थिताम् । ६.१०/२प्राञ्जलिः प्रणता भूत्वा छाया सञ्ज्ञां द्विजोत्तमाः ॥ ६.१०॥ ६.११/१उवाच किं मया कार्यं कथयस्व शुचिस्मिते । ६.११/२स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ६.११॥ ६.१२/१सञ्ज्ञोवाच । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ६.१२/२त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ ६.१२॥ ६.१३/१इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । ६.१३/२सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ ६.१३॥ ६.१४/१सवर्णोवाच । आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् । ६.१४/२आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ ६.१४॥ ६.१५/१लोमहर्षण उवाच । समादिश्य सवर्णां तु तथेत्युक्ता तया च सा । ६.१५/२त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ॥ ६.१५॥ ६.१६/१पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा । ६.१६/२भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ ६.१६॥ ६.१७/१आगच्छद् वडवा भूत्वा *आच्छाद्य रूपमनिन्दिता । ६.१७/२कुरून् अथोत्तरान् गत्वा तृणान्यथ चचार ह ॥ ६.१७॥ ६.१८/१द्वितीयायां तु सञ्ज्ञायां सञ्ज्ञेयमिति चिन्तयन् । ६.१८/२आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ ६.१८॥ ६.१९/१पूर्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः । ६.१९/२मनुरेवाभवन् नाम्ना सावर्ण इति चोच्यते ॥ ६.१९॥ ६.२०/१द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः । ६.२०/२सञ्ज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ ६.२०॥ ६.२१/१चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै । ६.२१/२मनुस्तस्याः क्षमत् तत् तु यमस्तस्या न चक्षमे ॥ ६.२१॥ ६.२२/१स वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वानघ । ६.२२/२पदा सन्तर्जयामास सञ्ज्ञां वैवस्वतो यमः ॥ ६.२२॥ ६.२३/१तं शशाप ततः क्रोधात् सावर्णजननी तदा । ६.२३/२चरणः पततामेष तवेति भृशदुःखिता ॥ ६.२३॥ ६.२४/१यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् । ६.२४/२भृशं शापभयोद्विग्नः सञ्ज्ञावाक्यैर्विशङ्कितः ॥ ६.२४॥ ६.२५/१शापोऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः । ६.२५/२मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ ६.२५॥ ६.२६/१सेयमस्मान् अपास्येह विवस्वन् सम्बुभूषति । ६.२६/२तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ ६.२६॥ ६.२७/१बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुमर्हसि । ६.२७/२शप्तोऽहमस्मि लोकेश जनन्या तपतां वर । ६.२७/३तव प्रसादाच्चरणो न पतेन् मम गोपते ॥ ६.२७॥ ६.२८/१विवस्वान् उवाच । असंशयं पुत्र महद् भविष्यत्यत्र कारणम् । ६.२८/२येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥ ६.२८॥ ६.२९/१न शक्यमेतन् मिथ्या तु कर्तुं मातृवचस्तव । ६.२९/२कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ ६.२९॥ ६.३०/१कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति । ६.३०/२शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६.३०॥ ६.३१/१आदित्यश्चाब्रवीत् सञ्ज्ञां किमर्थं तनयेषु वै । ६.३१/२तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया ॥ ६.३१॥ ६.३२/१सा तत् परिहरन्ती तु नाचचक्षे विवस्वते । ६.३२/२स चात्मानं समाधाय योगात् तथ्यमपश्यत ॥ ६.३२॥ ६.३३/१तां शप्तुकामो भगवान् नाशपन् मुनिसत्तमाः । ६.३३/२मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ ६.३३॥ ६.३४/१ततः सर्वं यथावृत्तमाचचक्षे विवस्वते । ६.३४/२विवस्वान् अथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥ ६.३४॥ ६.३५/१दृष्ट्वा तु तं यथान्यायमर्चयित्वा विभावसुम् । ६.३५/२निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ ६.३५॥ ६.३६/१त्वष्टोवाच । तवातितेजसाविष्टमिदं रूपं न शोभते । ६.३६/२असहन्ती च सञ्ज्ञा सा वने चरति शाड्वले ॥ ६.३६॥ ६.३७/१द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम् । ६.३७/२श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ ६.३७॥ ६.३८/१अनुकूलं तु ते देव यदि स्यान् मम सम्मतम् । ६.३८/२रूपं निर्वर्तयाम्यद्य तव कान्तमरिन्दम ॥ ६.३८॥ ६.३९/१ततोऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः । ६.३९/२भ्रमिमारोप्य तत् तेजः शातयामास भो द्विजाः ॥ ६.३९॥ ६.४०/१ततो निर्भासितं रूपं तेजसा संहतेन वै । ६.४०/२कान्तात् कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ ६.४०॥ ६.४१/१ददर्श योगमास्थाय स्वां भार्यां वडवां ततः । ६.४१/२अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ ६.४१॥ ६.४२/१वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् । ६.४२/२सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ ६.४२॥ ६.४३/१मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया । ६.४३/२सा तन् निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ६.४३॥ ६.४४/१देवौ तस्यामजायेतामश्विनौ भिषजां वरौ । ६.४४/२नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ६.४४॥ ६.४५/१मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः । ६.४५/२तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ६.४५॥ ६.४६/१सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः । ६.४६/२यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ ६.४६॥ ६.४७/१धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः । ६.४७/२स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ ६.४७॥ ६.४८/१पितृणामाधिपत्यं च लोकपालत्वमेव च । ६.४८/२मनुः प्रजापतिस्त्वासीत् सावर्णिः स तपोधनाः ॥ ६.४८॥ ६.४९/१भाव्यः समागते तस्मिन् मनुः सावर्णिकेऽन्तरे । ६.४९/२मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥ ६.४९॥ ६.५०/१भ्राता शनैश्चरस्तस्य ग्रहत्वं स तु लब्धवान् । ६.५०/२त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ ६.५०॥ ६.५१/१तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया । ६.५१/२यवीयसी तु साप्यासीद् यमी कन्या यशस्विनी ॥ ६.५१॥ ६.५२/१अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी । ६.५२/२मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ ६.५२॥ ६.५३/१द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः । ६.५३/२ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ ६.५३॥ ६.५४/१य इदं जन्म देवानां शृणुयान् नरसत्तमः । ६.५४/२आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद् यशः ॥ ६.५४॥ ७.१/१लोमहर्षण उवाच । मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः । ७.१/२इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१॥ ७.२/१नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः । ७.२/२करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ ७.२॥ ७.३/१अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । ७.३/२मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ ७.३॥ ७.४/१अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः । ७.४/२तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ ७.४॥ ७.५/१मित्रावरुणयोरंशे मनुराहुतिमावहत् । ७.५/२तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ७.५॥ ७.६/१दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः । ७.६/२तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ ७.६॥ ७.७/१अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह । ७.७/२धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७.७॥ ७.८/१इलोवाच । मित्रावरुणयोरंशे जातास्मि वदतां वर । ७.८/२तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ७.८॥ ७.९/१सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । ७.९/२गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ७.९॥ ७.१०/१इलोवाच । अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् । ७.१०/२मनुना चाहमुक्ता वाऐ अनुगच्छस्व मामिति ॥ ७.१०॥ ७.११/१तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् । ७.११/२मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ ७.११॥ ७.१२/१मित्रावरुणावूचतुः । अनेन तव धर्मेण प्रश्रयेण दमेन च । ७.१२/२सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ ७.१२॥ ७.१३/१आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ ७.१३॥ ७.१४/१मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि । ७.१४/२सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ ७.१४॥ ७.१५/१जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः । ७.१५/२निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ ७.१५॥ ७.१६/१बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । ७.१६/२सोमपुत्राद् बुधाद् विप्रास्तस्यां जज्ञे पुरूरवाः ॥ ७.१६॥ ७.१७/१जनयित्वा ततः सा तमिला सुद्युम्नतां गता । ७.१७/२सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ ७.१७॥ ७.१८/१उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः । ७.१८/२उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ ७.१८॥ ७.१९/१दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता । ७.१९/२प्रविष्टे तु मनौ विप्रा दिवाकरमरिन्दमम् ॥ ७.१९॥ ७.२०/१दशधा तत् पुनः क्षत्रमकरोत् पृथिवीमिमाम् । ७.२०/२इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ ७.२०॥ ७.२१/१कन्याभावात् तु सुद्युम्नो नैतद् राज्यमवाप्तवान् । ७.२१/२वसिष्ठवचनात् त्वासीत् प्रतिष्ठाने महात्मनः ॥ ७.२१॥ ७.२२/१प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः । ७.२२/२तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ ७.२२॥ ७.२३/१मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः । ७.२३/२धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ ७.२३॥ ७.२४/१नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः । ७.२४/२अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥ ७.२४॥ ७.२५/१धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह । ७.२५/२करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.२५॥ ७.२६/१नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः । ७.२६/२प्रांशोरेकोऽभवत् पुत्रः प्रजापतिरिति स्मृतः ॥ ७.२६॥ ७.२७/१नरिष्यन्तस्य दायादो राजा दण्डधरो यमः । ७.२७/२शर्यातेर्मिथुनं त्वासीद् आनर्तो नाम विश्रुतः ॥ ७.२७॥ ७.२८/१पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह । ७.२८/२आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ ७.२८॥ ७.२९/१आनर्तविषयश्चैव पुरी चास्य कुशस्थली । ७.२९/२रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ७.२९॥ ७.३०/१ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् । ७.३०/२स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥ ७.३०॥ ७.३१/१मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः । ७.३१/२आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ॥ ७.३१॥ ७.३२/१कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । ७.३२/२भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ ७.३२॥ ७.३३/१तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः । ७.३३/२कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ ७.३३॥ ७.३४/१दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः । ७.३४/२रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी ॥ ७.३४॥ ७.३५/१मुनय ऊचुः । कथं बहुयुगे काले समतीते महामते । ७.३५/२न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ ७.३५॥ ७.३६/१मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् । ७.३६/२स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः ॥ ७.३६॥ ७.३७/१लोमहर्षण उवाच । न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः । ७.३७/२ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः । ७.३७/३ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ ७.३७॥ ७.३८/१हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली । ७.३८/२तस्य भ्रातृशतं त्वासीद् धार्मिकस्य महात्मनः ॥ ७.३८॥ ७.३९/१तद् वध्यमानं रक्षोभिर्दिशः प्राक्रामद् अच्युताः । ७.३९/२विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥ ७.३९॥ ७.४०/१अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः । ७.४०/२तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ ७.४०॥ ७.४१/१क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः । ७.४१/२शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः ॥ ७.४१॥ ७.४२/१नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । ७.४२/२करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.४२॥ ७.४३/१पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः । ७.४३/२शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ॥ ७.४३॥ ७.४४/१वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः । ७.४४/२क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत् सुतः ॥ ७.४४॥ ७.४५/१तस्य पुत्रशतं त्वासीद् इक्ष्वाकोर्भूरिदक्षिणम् । ७.४५/२तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वाद् अयोधताम् ॥ ७.४५॥ ७.४६/१प्राप्तः परमधर्मज्ञ सोऽयोध्याधिपतिः प्रभुः । ७.४६/२शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥ ७.४६॥ ७.४७/१उत्तरापथदेशस्य रक्षितारो महाबलाः । ७.४७/२चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ ७.४७॥ ७.४८/१वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः । ७.४८/२इक्ष्वाकुस्तु विकुक्षिं वाऐ अष्टकायामथादिशत् ॥ ७.४८॥ ७.४९/१मांसमानय श्राद्धार्थं मृगान् हत्वा महाबल । ७.४९/२श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ ७.४९॥ ७.५०/१भक्षयित्वा शशं विप्राः शशादो मृगयां गतः । ७.५०/२इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः ॥ ७.५०॥ ७.५१/१इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपोऽभवत् । ७.५१/२शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ ७.५१॥ ७.५२/१अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः । ७.५२/२विष्टराश्वः पृथोः पुत्रस्तस्माद् आर्द्रस्त्वजायत ॥ ७.५२॥ ७.५३/१आर्द्रस्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः । ७.५३/२जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ ७.५३॥ ७.५४/१श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः । ७.५४/२कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ॥ ७.५४॥ ७.५५/१यः स धुन्धुवधाद् राजा धुन्धुमारत्वमागतः ॥ ७.५५॥ ७.५६/१मुनय ऊचुः । धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः । ७.५६/२यद्वधात् कुवलाश्वोऽसौ धुन्धुमारत्वमागतः ॥ ७.५६॥ ७.५७/१लोमहर्षण उवाच । कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । ७.५७/२सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ७.५७॥ ७.५८/१बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । ७.५८/२कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ ७.५८॥ ७.५९/१पुत्रसङ्क्रामितश्रीस्तु वनं राजा विवेश ह । ७.५९/२तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ ७.५९॥ ७.६०/१उत्तङ्क उवाच । भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि । ७.६०/२निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव ॥ ७.६०॥ ७.६१/१ममाश्रमसमीपे वै समेषु मरुधन्वसु । ७.६१/२समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ ७.६१॥ ७.६२/१देवतानामवध्यश्च महाकायो महाबलः । ७.६२/२अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ७.६२॥ ७.६३/१राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः । ७.६३/२शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ ७.६३॥ ७.६४/१संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । ७.६४/२यदा तदा मही तत्र चलति स्म नराधिप ॥ ७.६४॥ ७.६५/१तस्य निःश्वासवातेन रज उद्धूयते महत् । ७.६५/२आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ७.६५॥ ७.६६/१सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् । ७.६६/२तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥ ७.६६॥ ७.६७/१तं मारय महाकायं लोकानां हितकाम्यया । ७.६७/२लोकाः स्वस्था भवन्त्यद्य तस्मिन् विनिहते त्वया ॥ ७.६७॥ ७.६८/१त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । ७.६८/२विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ ७.६८॥ ७.६९/१यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । ७.६९/२तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि ॥ ७.६९॥ ७.७०/१नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । ७.७०/२निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि ॥ ७.७०॥ ७.७१/१वीर्यं च सुमहत् तस्य देवैरपि दुरासदम् । ७.७१/२स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । ७.७१/३कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे ॥ ७.७१॥ ७.७२/१बृहदश्व उवाच । भगवन् न्यस्तशस्त्रोऽहमयं तु तनयो मम । ७.७२/२भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ७.७२॥ ७.७३/१स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । ७.७३/२जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ ७.७३॥ ७.७४/१लोमहर्षण उवाच । कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः । ७.७४/२प्रायाद् उत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥ ७.७४॥ ७.७५/१तमाविशत् तदा विष्णुस्तेजसा भगवान् प्रभुः । ७.७५/२उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया ॥ ७.७५॥ ७.७६/१तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् । ७.७६/२एष श्रीमान् अवध्योऽद्य धुन्धुमारो भविष्यति ॥ ७.७६॥ ७.७७/१दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् । ७.७७/२देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः ॥ ७.७७॥ ७.७८/१स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् । ७.७८/२समुद्रं खानयामास वालुकान्तरमव्ययम् ॥ ७.७८॥ ७.७९/१तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । ७.७९/२धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥ ७.७९॥ ७.८०/१मुखजेनाग्निना क्रोधाल्लोकान् उद्वर्तयन्न् इव । ७.८०/२वारि सुस्राव वेगेन महोदधिरिवोदये ॥ ७.८०॥ ७.८१/१सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् । ७.८१/२तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ ७.८१॥ ७.८२/१ततः स राजा द्युतिमान् राक्षसं तं महाबलम् । ७.८२/२आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ ७.८२॥ ७.८३/१तस्य वारिमयं वेगमापीय स नराधिपः । ७.८३/२योगी योगेन वह्निं च शमयामास वारिणा ॥ ७.८३॥ ७.८४/१निहत्य तं महाकायं बलेनोदकराक्षसम् । ७.८४/२उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ ७.८४॥ ७.८५/१उत्तङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने । ७.८५/२ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥ ७.८५॥ ७.८६/१धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् । ७.८६/२पुत्राणां चाक्षयांल्लोकान् स्वर्गे ये रक्षसा हताः ॥ ७.८६॥ ७.८७/१तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । ७.८७/२चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ ७.८७॥ ७.८८/१धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः । ७.८८/२हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥ ७.८८॥ ७.८९/१संहताश्वो निकुम्भस्य सुतो रणविशारदः । ७.८९/२अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ ७.८९॥ ७.९०/१तस्य हैमवती कन्या सतां मता दृषद्वती । ७.९०/२विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ ७.९०॥ ७.९१/१लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् । ७.९१/२अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ ७.९१॥ ७.९२/१तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः । ७.९२/२मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ ७.९२॥ ७.९३/१तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । ७.९३/२साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ ७.९३॥ ७.९४/१पतिव्रता च ज्येष्ठा च भ्रातृणामयुतस्य वै । ७.९४/२तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥ ७.९४॥ ७.९५/१पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् । ७.९५/२पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः ॥ ७.९५॥ ७.९६/१नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः । ७.९६/२सम्भूतस्य तु दायादस्- । ७.९६/३त्रिधन्वा रिपुमर्दनः ॥ ७.९६॥ ७.९७/१राज्ञस्त्रिधन्वनस्त्वासीद् विद्वांस्त्रय्यारुणः प्रभुः । ७.९७/२तस्य सत्यव्रतो नाम कुमारोऽभून् महाबलः ॥ ७.९७॥ ७.९८/१परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः । ७.९८/२येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ ७.९८॥ ७.९९/१बाल्यात् कामाच्च मोहाच्च साहसाच्चापलेन च । ७.९९/२जहार कन्यां कामार्तः कस्यचित् पुरवासिनः ॥ ७.९९॥ ७.१००/१अधर्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत् । ७.१००/२अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥ ७.१००॥ ७.१०१/१सोऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः । ७.१०१/२पिता च तमथोवाच श्वपाकैः सह वर्तय ॥ ७.१०१॥ ७.१०२/१नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन । ७.१०२/२इत्युक्तः स निराक्रामन् नगराद् वचनात् पितुः ॥ ७.१०२॥ ७.१०३/१न च तं वारयामास वसिष्ठो भगवान् ऋषिः । ७.१०३/२स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ ७.१०३॥ ७.१०४/१पित्रा त्यक्तोऽवसद् वीरः पिताप्यस्य वनं ययौ । ७.१०४/२ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः ॥ ७.१०४॥ ७.१०५/१समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा । ७.१०५/२दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥ ७.१०५॥ ७.१०६/१संन्यस्य सागरान्ते तु चकार विपुलं तपः । ७.१०६/२तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥ ७.१०६॥ ७.१०७/१शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै । ७.१०७/२तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ ७.१०७॥ ७.१०८/१महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः । ७.१०८/२सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ ७.१०८॥ ७.१०९/१विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च । ७.१०९/२सोऽभवद् गालवो नाम गले बन्धान् महातपाः । ७.१०९/३महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥ ७.१०९॥ ८.१/१लोमहर्षण उवाच । सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया । ८.१/२विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१॥ ८.२/१हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् । ८.२/२विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ ८.२॥ ८.३/१उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । ८.३/२पितुर्नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥ ८.३॥ ८.४/१अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । ८.४/२याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥ ८.४॥ ८.५/१सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात् । ८.५/२वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ८.५॥ ८.६/१पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् । ८.६/२निवारयामास मुनिर्बहुना कारणेन न ॥ ८.६॥ ८.७/१पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे । ८.७/२न च सत्यव्रतस्तस्माद् धतवान् सप्तमे पदे ॥ ८.७॥ ८.८/१जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः । ८.८/२सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८.८॥ ८.९/१गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा । ८.९/२न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ८.९॥ ८.१०/१तस्मिन्न् अपरितोषश्च पितुरासीन् महात्मनः । ८.१०/२तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥ ८.१०॥ ८.११/१तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि । ८.११/२कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेद् इति ॥ ८.११॥ ८.१२/१न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् । ८.१२/२अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ ८.१२॥ ८.१३/१स तु द्वादश वर्षाणि तां दीक्षामवहद् बली । ८.१३/२अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ ८.१३॥ ८.१४/१सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः । ८.१४/२तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ ८.१४॥ ८.१५/१देशधर्मगतो राजा जघान मुनिसत्तमाः । ८.१५/२तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ ८.१५॥ ८.१६/१भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ॥ ८.१६॥ ८.१७/१वसिष्ठ उवाच । पातयेयमहं क्रूर तव शङ्कुमसंशयम् । ८.१७/२यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ ८.१७॥ ८.१८/१पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च । ८.१८/२अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ ८.१८॥ ८.१९/१एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः । ८.१९/२त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ ८.१९॥ ८.२०/१विश्वामित्रस्य दाराणामनेन भरणं कृतम् । ८.२०/२तेन तस्मै वरं प्रादान् मुनिः प्रीतस्त्रिशङ्कवे ॥ ८.२०॥ ८.२१/१छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । ८.२१/२सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ ८.२१॥ ८.२२/१अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके । ८.२२/२पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम् ॥ ८.२२॥ ८.२३/१मिषतां देवतानां च वसिष्ठस्य च कौशिकः । ८.२३/२दिवमारोपयामास सशरीरं महातपाः ॥ ८.२३॥ ८.२४/१तस्य सत्यरथा नाम पत्नी कैकेयवंशजा । ८.२४/२कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ८.२४॥ ८.२५/१स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः । ८.२५/२आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः ॥ ८.२५॥ ८.२६/१हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम पार्थिवः । ८.२६/२हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ ८.२६॥ ८.२७/१विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह । ८.२७/२जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ ८.२७॥ ८.२८/१रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः । ८.२८/२रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ॥ ८.२८॥ ८.२९/१हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । ८.२९/२तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ ८.२९॥ ८.३०/१नासत्यो धार्मिकश्चैव स ह धर्मयुगेऽभवत् । ८.३०/२सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ ८.३०॥ ८.३१/१और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः । ८.३१/२आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ॥ ८.३१॥ ८.३२/१जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् । ८.३२/२शकानां पह्नवानां च धर्मं निरसद् अच्युतः । ८.३२/३क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ ८.३२॥ ८.३३/१मुनय ऊचुः । कथं स सगरो जातो गरेणैव सहाच्युतः । ८.३३/२किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ ८.३३॥ ८.३४/१धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः । ८.३४/२एतन् नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ८.३४॥ ८.३५/१लोमहर्षण उवाच । बाहोर्व्यसनिनः पूर्वं हृतं राज्यमभूत् किल । ८.३५/२हैहयैस्तालजङ्घैश्च शकैः सार्धं द्विजोत्तमाः ॥ ८.३५॥ ८.३६/१यवनाः पारदाश्चैव काम्बोजाः पह्नवास्तथा । ८.३६/२एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ ८.३६॥ ८.३७/१हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ । ८.३७/२पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत् ॥ ८.३७॥ ८.३८/१पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । ८.३८/२सपत्न्या च गरस्तस्यै दत्तः पूर्वं किलानघाः ॥ ८.३८॥ ८.३९/१सा तु भर्तुश्चितां कृत्वा वने तामभ्यरोहत । ८.३९/२और्वस्तां भार्गवो विप्राः कारुण्यात् समवारयत् ॥ ८.३९॥ ८.४०/१तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः । ८.४०/२व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ ८.४०॥ ८.४१/१और्वस्तु जातकर्मादींस्तस्य कृत्वा महात्मनः । ८.४१/२अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ८.४१॥ ८.४२/१आग्नेयं तु महाभागा अमरैरपि दुःसहम् । ८.४२/२स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ ८.४२॥ ८.४३/१हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव । ८.४३/२आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ ८.४३॥ ८.४४/१ततः शकांश्च यवनान् काम्बोजान् पारदांस्तथा । ८.४४/२पह्नवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥ ८.४४॥ ८.४५/१ते वध्यमाना वीरेण सगरेण महात्मना । ८.४५/२वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ ८.४५॥ ८.४६/१वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः । ८.४६/२सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ ८.४६॥ ८.४७/१सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च । ८.४७/२धर्मं जघान तेषां वै वेषान् अन्यांश्चकार ह ॥ ८.४७॥ ८.४८/१अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । ८.४८/२यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ८.४८॥ ८.४९/१पारदा मुक्तकेशाश्च पह्नवाञ् श्मश्रुधारिणः । ८.४९/२निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ८.४९॥ ८.५०/१शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः । ८.५०/२कोणिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः ॥ ८.५०॥ ८.५१/१सर्वे ते क्षत्रिया विप्रा धर्मस्तेषां निराकृतः । ८.५१/२वसिष्ठवचनाद् राज्ञा सगरेण महात्मना ॥ ८.५१॥ ८.५२/१स धर्मविजयी राजा विजित्येमां वसुन्धराम् । ८.५२/२अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥ ८.५२॥ ८.५३/१तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । ८.५३/२वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ८.५३॥ ८.५४/१स तं देशं तदा पुत्रैः खानयामास पार्थिवः । ८.५४/२आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ॥ ८.५४॥ ८.५५/१तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । ८.५५/२विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ ८.५५॥ ८.५६/१तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । ८.५६/२दग्धाः सर्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥ ८.५६॥ ८.५७/१बर्हिकेतुः सुकेतुश्च तथा धर्मरथो नृपः । ८.५७/२शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥ ८.५७॥ ८.५८/१प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम् । ८.५८/२अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् ॥ ८.५८॥ ८.५९/१पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् । ८.५९/२समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ॥ ८.५९॥ ८.६०/१सागरत्वं च लेभे स कर्मणा तेन तस्य ह । ८.६०/२तं चाश्वमेधिकं सोऽश्वं समुद्राद् उपलब्धवान् ॥ ८.६०॥ ८.६१/१आजहाराश्वमेधानां शतं स सुमहातपाः । ८.६१/२पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ ८.६१॥ ८.६२/१मुनय ऊचुः । सगरस्यात्मजा वीराः कथं जाता महाबलाः । ८.६२/२विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ ८.६२॥ ८.६३/१लोमहर्षण उवाच । द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ८.६३/२ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ ८.६३॥ ८.६४/१कनीयसी तु महती पत्नी परमधर्मिणी । ८.६४/२अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ८.६४॥ ८.६५/१और्वस्ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः । ८.६५/२षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥ ८.६५॥ ८.६६/१एकं वंशधरं त्वेका यथेष्टं वरयत्विति । ८.६६/२तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान् ॥ ८.६६॥ ८.६७/१एकं वंशधरं त्वेका तथेत्याह ततो मुनिः । ८.६७/२राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ ८.६७॥ ८.६८/१इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः । ८.६८/२तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥ ८.६८॥ ८.६९/१सम्बभूवुर्यथाकालं ववृधुश्च यथासुखम् । ८.६९/२घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः ॥ ८.६९॥ ८.७०/१धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः । ८.७०/२ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥ ८.७०॥ ८.७१/१कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः । ८.७१/२षष्टिपुत्रसहस्राणि तस्यैवमभवन् द्विजाः ॥ ८.७१॥ ८.७२/१गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः । ८.७२/२तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ ८.७२॥ ८.७३/१एकः पञ्चजनो नाम पुत्रो राजा बभूव ह । ८.७३/२शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान् ॥ ८.७३॥ ८.७४/१दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः । ८.७४/२येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ८.७४॥ ८.७५/१त्रयोऽभिसन्धिता लोका बुद्ध्या सत्येन चानघाः । ८.७५/२दिलीपस्य तु दायादो महाराजो भगीरथः ॥ ८.७५॥ ८.७६/१यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः । ८.७६/२समुद्रमानयच्चैनां दुहितृत्वेऽप्यकल्पयत् ॥ ८.७६॥ ८.७७/१तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः । ८.७७/२भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ॥ ८.७७॥ ८.७८/१नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः । ८.७८/२अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ ८.७८॥ ८.७९/१अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् । ८.७९/२अयुताजित्सुतस्त्वासीद् ऋतुपर्णो महायशाः ॥ ८.७९॥ ८.८०/१दिव्याक्षहृदयज्ञो वै राजा नलसखो बली । ८.८०/२ऋतुपर्णसुतस्त्वासीद् आर्तपर्णिर्महायशाः ॥ ८.८०॥ ८.८१/१सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् । ८.८१/२सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ ८.८१॥ ८.८२/१ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत् । ८.८२/२कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ ८.८२॥ ८.८३/१अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः । ८.८३/२अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ ८.८३॥ ८.८४/१अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ । ८.८४/२अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत् ॥ ८.८४॥ ८.८५/१दिलीपस्तनयस्तस्य रामस्य प्रपितामहः । ८.८५/२दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतोऽभवत् ॥ ८.८५॥ ८.८६/१अयोध्यायां महाराजो यः पुरासीन् महाबलः । ८.८६/२अजस्तु राघवो जज्ञे तथा दशरथोऽप्यजात् ॥ ८.८६॥ ८.८७/१रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः । ८.८७/२रामस्य तनयो जज्ञे कुश इत्यभिसञ्ज्ञितः ॥ ८.८७॥ ८.८८/१अतिथिस्तु कुशाज्जज्ञे धर्मात्मा सुमहायशाः । ८.८८/२अतिथेस्त्वभवत् पुत्रो निषधो नाम वीर्यवान् ॥ ८.८८॥ ८.८९/१निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च । ८.८९/२नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ ८.८९॥ ८.९०/१क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् । ८.९०/२आसीद् अहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ ८.९०॥ ८.९१/१अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । ८.९१/२सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥ ८.९१॥ ८.९२/१उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह । ८.९२/२वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥ ८.९२॥ ८.९३/१नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः । ८.९३/२वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ८.९३॥ ८.९४/१इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः । ८.९४/२एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ८.९४॥ ८.९५/१पठन् सम्यग् इमां सृष्टिमादित्यस्य विवस्वतः । ८.९५/२श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च । ८.९५/३प्रजावान् एति सायुज्यमादित्यस्य विवस्वतः ॥ ८.९५॥ ९.१/१लोमहर्षण उवाच । पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवान् ऋषिः । ९.१/२ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१॥ ९.२/१अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा । ९.२/२त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ ९.२॥ ९.३/१ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । ९.३/२नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥ ९.३॥ ९.४/१तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः । ९.४/२समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ९.४॥ ९.५/१यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । ९.५/२ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम् ॥ ९.५॥ ९.६/१पतितं सोममालोक्य ब्रह्मा लोकपितामहः । ९.६/२रथमारोपयामास लोकानां हितकाम्यया ॥ ९.६॥ ९.७/१तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि । ९.७/२तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ ९.७॥ ९.८/१तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । ९.८/२आप्यायनाय लोकानां भावयामास सर्वतः ॥ ९.८॥ ९.९/१स तेन रथमुख्येन सागरान्तां वसुन्धराम् । ९.९/२त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम् ॥ ९.९॥ ९.१०/१तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत । ९.१०/२ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत् ॥ ९.१०॥ ९.११/१स लब्धतेजा भगवान् संस्तवैश्च स्वकर्मभिः । ९.११/२तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ ९.११॥ ९.१२/१ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । ९.१२/२बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ ९.१२॥ ९.१३/१स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः । ९.१३/२समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ ९.१३॥ ९.१४/१दक्षिणामददात् सोमस्त्रींल्लोकान् इति नः श्रुतम् । ९.१४/२तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ ९.१४॥ ९.१५/१हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत् । ९.१५/२सदस्योऽभूद् धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ ९.१५॥ ९.१६/१तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः । ९.१६/२कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ ९.१६॥ ९.१७/१प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः । ९.१७/२विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥ ९.१७॥ ९.१८/१तस्य तत् प्राप्य दुष्प्राप्यमैश्वर्यम् ऋषिसत्कृतम् । ९.१८/२विबभ्राम मतिस्ताता+ ।विनयाद् अनयाहृता ॥ ९.१८॥ ९.१९/१बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः । ९.१९/२जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ ९.१९॥ ९.२०/१स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः । ९.२०/२नैव व्यसर्जयत् तारां तस्माऐ अङ्गिरसे तदा ॥ ९.२०॥ ९.२१/१उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा । ९.२१/२रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ९.२१॥ ९.२२/१तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । ९.२२/२उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥ ९.२२॥ ९.२३/१तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् । ९.२३/२देवानां दानवानां च लोकक्षयकरं महत् ॥ ९.२३॥ ९.२४/१तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः । ९.२४/२ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ९.२४॥ ९.२५/१तदा निवार्योशनसं तं वै रुद्रं च शङ्करम् । ९.२५/२ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ९.२५॥ ९.२६/१तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः । ९.२६/२मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ ९.२६॥ ९.२७/१इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह । ९.२७/२जातमात्रः स भगवान् देवानामाक्षिपद् वपुः ॥ ९.२७॥ ९.२८/१ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः । ९.२८/२सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ९.२८॥ ९.२९/१पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल । ९.२९/२तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ९.२९॥ ९.३०/१तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् । ९.३०/२यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ९.३०॥ ९.३१/१उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् । ९.३१/२तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ ९.३१॥ ९.३२/१बुध इत्यकरोन् नाम तस्य बालस्य धीमतः । ९.३२/२प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ ९.३२॥ ९.३३/१उत्पादयामास तदा पुत्रं वैराजपुत्रिकम् । ९.३३/२तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ ९.३३॥ ९.३४/१उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । ९.३४/२एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ ९.३४॥ ९.३५/१वंशमस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत । ९.३५/२धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम् ॥ ९.३५॥ ९.३६/१सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ ९.३६॥ १०.१/१लोमहर्षण उवाच । बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः । १०.१/२तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१॥ १०.२/१ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः । १०.२/२आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ १०.२॥ १०.३/१सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः । १०.३/२अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ १०.३॥ १०.४/१तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् । १०.४/२उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ १०.४॥ १०.५/१तया सहावसद् राजा दश वर्षाणि पञ्च च । १०.५/२षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ १०.५॥ १०.६/१वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । १०.६/२अलकायां विशालायां नन्दने च वनोत्तमे ॥ १०.६॥ १०.७/१उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् । १०.७/२गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥ १०.७॥ १०.८/१एतेषु वनमुख्येषु सुरैराचरितेषु च । १०.८/२उर्वश्या सहितो राजा रेमे परमया मुदा ॥ १०.८॥ १०.९/१देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । १०.९/२राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ १०.९॥ १०.१०/१एवम्प्रभावो राजासीद् ऐलस्तु नरसत्तमः । १०.१०/२उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १०.१०॥ १०.११/१लोमहर्षण उवाच । ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः । १०.११/२गन्धर्वलोके विदिता आयुर्धीमान् अमावसुः ॥ १०.११॥ १०.१२/१विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । १०.१२/२दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ १०.१२॥ १०.१३/१अमावसोस्तु दायादो भीमो राजाथ राजराट् । १०.१३/२श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ॥ १०.१३॥ १०.१४/१विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून् महाबलः । १०.१४/२सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ १०.१४॥ १०.१५/१आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् । १०.१५/२पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५॥ १०.१६/१नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः । १०.१६/२स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १०.१६॥ १०.१७/१सौहोत्रिरशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः । १०.१७/२एष ते विफलं यत्नं पिबन्न् अम्भः करोम्यहम् ॥ १०.१७॥ १०.१८/१अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि । १०.१८/२जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १०.१८॥ १०.१९/१उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् । १०.१९/२युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ १०.१९॥ १०.२०/१युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता । १०.२०/२कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ १०.२०॥ १०.२१/१जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् । १०.२१/२कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १०.२१॥ १०.२२/१अजकस्य तु दायादो बलाकाश्वो महीपतिः । १०.२२/२बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ १०.२२॥ १०.२३/१कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः । १०.२३/२कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १०.२३॥ १०.२४/१बल्लवैः सह संवृद्धो राजा वनचरः सदा । १०.२४/२कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ १०.२४॥ १०.२५/१लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् । १०.२५/२पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५॥ १०.२६/१अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । १०.२६/२समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ १०.२६॥ १०.२७/१पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः । १०.२७/२स गाधिरभवद् राजा मघवान् कौशिकः स्वयम् ॥ १०.२७॥ १०.२८/१पौरा यस्याभवद् भार्या गाधिस्तस्यामजायत । १०.२८/२गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ १०.२८॥ १०.२९/१तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः । १०.२९/२तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ १०.२९॥ १०.३०/१पुत्रार्थं साधयामास चरुं गाधेस्तथैव च । १०.३०/२उवाचाहूय तां भार्याम् ऋचीको भार्गवस्तदा ॥ १०.३०॥ १०.३१/१उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे । १०.३१/२तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ॥ १०.३१॥ १०.३२/१अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः । १०.३२/२तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ १०.३२॥ १०.३३/१शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति । १०.३३/२एवमुक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः ॥ १०.३३॥ १०.३४/१तपस्यभिरतो नित्यमरण्यं प्रविवेश ह । १०.३४/२गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ १०.३४॥ १०.३५/१तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः । १०.३५/२चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ १०.३५॥ १०.३६/१चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् । १०.३६/२माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ १०.३६॥ १०.३७/१तस्याश्चरुमथाज्ञानाद् आत्मसंस्थं चकार ह । १०.३७/२अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ १०.३७॥ १०.३८/१धारयामास दीप्तेन वपुषा घोरदर्शना । १०.३८/२ताम् ऋचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ १०.३८॥ १०.३९/१ततोऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । १०.३९/२मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ १०.३९॥ १०.४०/१जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः । १०.४०/२भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥ १०.४०॥ १०.४१/१विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् । १०.४१/२एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ १०.४१॥ १०.४२/१प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् । १०.४२/२ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥ १०.४२॥ १०.४३/१ऋचीक उवाच । नैष सङ्कल्पितः कामो मया भद्रे तथास्त्विति । १०.४३/२उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ॥ १०.४३॥ १०.४४/१पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीद् इदम् । १०.४४/२इच्छंल्लोकान् अपि मुने सृजेथाः किं पुनः सुतम् ॥ १०.४४॥ १०.४५/१शमात्मकम् ऋजुं त्वं मे पुत्रं दातुमिहार्हसि । १०.४५/२काममेवंविधः पौत्रो मम स्यात् तव च प्रभो ॥ १०.४५॥ १०.४६/१यद्यन्यथा न शक्यं वै कर्तुमेतद् द्विजोत्तम । १०.४६/२ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ॥ १०.४६॥ १०.४७/१पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । १०.४७/२त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ १०.४७॥ १०.४८/१ततः सत्यवती पुत्रं जनयामास भार्गवम् । १०.४८/२तपस्यभिरतं दान्तं जमदग्निं समात्मकम् ॥ १०.४८॥ १०.४९/१भृगोर्जगत्यां वंशेऽस्मिञ् । १०.४९/२जमदग्निरजायत । १०.४९/३सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ १०.४९॥ १०.५०/१कौशिकीति समाख्याता प्रवृत्तेयं महानदी । १०.५०/२इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ॥ १०.५०॥ १०.५१/१तस्य कन्या महाभागा कामली नाम रेणुका । १०.५१/२रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ १०.५१॥ १०.५२/१आर्चीको जनयामास जामदग्न्यं सुदारुणम् । १०.५२/२सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ १०.५२॥ १०.५३/१रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् । १०.५३/२और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः ॥ १०.५३॥ १०.५४/१जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः । १०.५४/२मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ १०.५४॥ १०.५५/१विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । १०.५५/२जनयामास पुत्रं तु तपोविद्याशमात्मकम् ॥ १०.५५॥ १०.५६/१प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः । १०.५६/२विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ १०.५६॥ १०.५७/१जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः । १०.५७/२विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ १०.५७॥ १०.५८/१प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम् । १०.५८/२देवरातः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ॥ १०.५८॥ १०.५९/१शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः । १०.५९/२साङ्कृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥ १०.५९॥ १०.६०/१मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः । १०.६०/२कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥ १०.६०॥ १०.६१/१तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् । १०.६१/२पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥ १०.६१॥ १०.६२/१पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः । १०.६२/२लोहिता यमदूताश्च तथा कारूषकाः स्मृताः ॥ १०.६२॥ १०.६३/१पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च । १०.६३/२सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥ १०.६३॥ १०.६४/१विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः । १०.६४/२भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ १०.६४॥ १०.६५/१विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवत् किल । १०.६५/२हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ १०.६५॥ १०.६६/१देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः । १०.६६/२देवैर्दत्तः स वै यस्माद् देवरातस्ततोऽभवत् ॥ १०.६६॥ १०.६७/१देवरातादयः सप्त विश्वामित्रस्य वै सुताः । १०.६७/२दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः ॥ १०.६७॥ १०.६८/१अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । १०.६८/२अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ १०.६८॥ ११.१/१लोमहर्षण उवाच । आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः । ११.१/२स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ ११.१॥ ११.२/१नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । ११.२/२रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ ११.२॥ ११.३/१रजिः पुत्रशतानीह जनयामास पञ्च वै । ११.३/२राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ११.३॥ ११.४/१यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे । ११.४/२देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ११.४॥ ११.५/१देवासुरा ऊचुः । आवयोर्भगवन् युद्धे को विजेता भविष्यति । ११.५/२ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ ११.५॥ ११.६/१ब्रह्मोवाच । येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः । ११.६/२योत्स्यते ते विजेष्यन्ति त्रींल्लोकान् नात्र संशयः ॥ ११.६॥ ११.७/१यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः । ११.७/२यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ ११.७॥ ११.८/१ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा । ११.८/२अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ ११.८॥ ११.९/१स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । ११.९/२राजा परमतेजस्वी सोमवंशविवर्धनः ॥ ११.९॥ ११.१०/१ते हृष्टमनसः सर्वे रजिं वै देवदानवाः । ११.१०/२ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ ११.१०॥ ११.११/१अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः । ११.११/२अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ ११.११॥ ११.१२/१रजिरुवाच । यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः । ११.१२/२इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ ११.१२॥ ११.१३/१देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः । ११.१३/२एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ ११.१३॥ ११.१४/१श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा । ११.१४/२पप्रच्छासुरमुख्यांस्तु यथा देवान् अपृच्छत ॥ ११.१४॥ ११.१५/१दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह । ११.१५/२प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ ११.१५॥ ११.१६/१दानवा ऊचुः । अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे । ११.१६/२अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ ११.१६॥ ११.१७/१स तथेति ब्रुवन्न् एव देवैरप्यतिचोदितः । ११.१७/२भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ ११.१७॥ ११.१८/१जघान दानवान् सर्वान् येऽवध्या वज्रपाणिनः । ११.१८/२स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ११.१८॥ ११.१९/१निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः । ११.१९/२ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ ११.१९॥ ११.२०/१रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद् वचः । ११.२०/२इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ॥ ११.२०॥ ११.२१/१यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः । ११.२१/२स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ ११.२१॥ ११.२२/१तथैवेत्यब्रवीद् राजा प्रीयमाणः शतक्रतुम् । ११.२२/२तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ ११.२२॥ ११.२३/१दायाद्यमिन्द्राद् आजह्रू राज्यं तत्तनया रजेः । ११.२३/२पञ्च पुत्रशतान्यस्य तद् वै स्थानं शतक्रतोः ॥ ११.२३॥ ११.२४/१समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । ११.२४/२ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ ११.२४॥ ११.२५/१ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । ११.२५/२ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ ११.२५॥ ११.२६/१हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् । ११.२६/२य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः । ११.२६/३शृणुयाद् धारयेद् वापि न स दौर्गत्यमाप्नुयात् ॥ ११.२६॥ ११.२७/१लोमहर्षण उवाच । रम्भोऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः । ११.२७/२अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ ११.२७॥ ११.२८/१प्रतिक्षत्रसुतश्चासीत् सञ्जयो नाम विश्रुतः । ११.२८/२सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ ११.२८॥ ११.२९/१विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः । ११.२९/२हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ ११.२९॥ ११.३०/१सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । ११.३०/२नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ ११.३०॥ ११.३१/१सङ्कृतेरपि धर्मात्मा क्षत्रवृद्धो महायशाः । ११.३१/२अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ ११.३१॥ ११.३२/१क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः । ११.३२/२सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ ११.३२॥ ११.३३/१काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । ११.३३/२पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ ११.३३॥ ११.३४/१ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । ११.३४/२शलात्मज आर्ष्टिसेणस्तनयस्तस्य काश्यपः ॥ ११.३४॥ ११.३५/१काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा । ११.३५/२धनुस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ॥ ११.३५॥ ११.३६/१तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः । ११.३६/२पुनर्धन्वन्तरिर्देवो मानुषेष्विह जन्मनि ॥ ११.३६॥ ११.३७/१तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । ११.३७/२काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ ११.३७॥ ११.३८/१आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः । ११.३८/२तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ ११.३८॥ ११.३९/१धन्वन्तरेस्तु तनयः केतुमान् इति विश्रुतः । ११.३९/२अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ ११.३९॥ ११.४०/१पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । ११.४०/२दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ॥ ११.४०॥ ११.४१/१एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः । ११.४१/२शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ ११.४१॥ ११.४२/१शप्ता हि सा मतिमता निकुम्भेन महात्मना । ११.४२/२शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ ११.४२॥ ११.४३/१तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः । ११.४३/२विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ ११.४३॥ ११.४४/१भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् । ११.४४/२भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ११.४४॥ ११.४५/१हत्वा निवेशयामास दिवोदासो नराधिपः । ११.४५/२भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा ॥ ११.४५॥ ११.४६/१भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः । ११.४६/२दिवोदासेन बालेति घृणया स विसर्जितः ॥ ११.४६॥ ११.४७/१हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः । ११.४७/२आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ ११.४७॥ ११.४८/१भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । ११.४८/२वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥ ११.४८॥ ११.४९/१दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । ११.४९/२तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥ ११.४९॥ ११.५०/१प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ । ११.५०/२वत्सपुत्रो ह्यलर्कस्तु संनतिस्तस्य चात्मजः ॥ ११.५०॥ ११.५१/१अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः । ११.५१/२अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ ११.५१॥ ११.५२/१षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च । ११.५२/२युवा रूपेण सम्पन्नः प्राग् आसीच्च कुलोद्वहः ॥ ११.५२॥ ११.५३/१लोपामुद्राप्रसादेन परमायुरवाप्तवान् । ११.५३/२तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः ॥ ११.५३॥ ११.५४/१शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । ११.५४/२रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ ११.५४॥ ११.५५/१संनतेरपि दायादः सुनीथो नाम धार्मिकः । ११.५५/२सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ ११.५५॥ ११.५६/१क्षेमस्य केतुमान् पुत्रः सुकेतुस्तस्य चात्मजः । ११.५६/२सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ ११.५६॥ ११.५७/१धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः । ११.५७/२सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ ११.५७॥ ११.५८/१आनर्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः । ११.५८/२सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ ११.५८॥ ११.५९/१धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः । ११.५९/२वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥ ११.५९॥ ११.६०/१वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः । ११.६०/२एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गव ॥ ११.६०॥ ११.६१/१ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः । ११.६१/२इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ ११.६१॥ १२.१/१लोमहर्षण उवाच । उत्पन्नाः पितृकन्यायां विरजायां महौजसः । १२.१/२नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥ १२.१॥ १२.२/१यतिर्ययातिः संयातिर्। १२.२/२आयातिः पार्श्वकोऽभवत् । १२.२/३यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ १२.२॥ १२.३/१ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । १२.३/२यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन् मुनिः ॥ १२.३॥ १२.४/१तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । १२.४/२देवयानीमुशनसः सुतां भार्यामवाप सः ॥ १२.४॥ १२.५/१शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । १२.५/२यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १२.५॥ १२.६/१द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । १२.६/२तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ १२.६॥ १२.७/१अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः । १२.७/२युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ १२.७॥ १२.८/१स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् । १२.८/२ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ॥ १२.८॥ १२.९/१सरथः कौरवाणां तु सर्वेषामभवत् तदा । १२.९/२संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ १२.९॥ १२.१०/१कुरोः पुत्रस्य राजेन्द्र+ ।राज्ञः पारीक्षितस्य ह । १२.१०/२जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥ १२.१०॥ १२.११/१गर्गस्य हि सुतं बालं स राजा जनमेजयः । १२.११/२कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ १२.११॥ १२.१२/१स लोहगन्धी राजर्षिः परिधावन्न् इतस्ततः । १२.१२/२पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ १२.१२॥ १२.१३/१ततः स दुःखसन्तप्तो नालभत् संविदं क्वचित् । १२.१३/२विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ १२.१३॥ १२.१४/१याजयामास च ज्ञानी शौनको जनमेजयम् । १२.१४/२अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ १२.१४॥ १२.१५/१स लोहगन्धो व्यनशत् तस्यावभृथमेत्य च । १२.१५/२स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ १२.१५॥ १२.१६/१दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः । १२.१६/२बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम् ॥ १२.१६॥ १२.१७/१ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् । १२.१७/२प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ १२.१७॥ १२.१८/१सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । १२.१८/२विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ १२.१८॥ १२.१९/१ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् । १२.१९/२मध्ये पुरुं च राजानमभ्यषिञ्चत् स नाहुषः ॥ १२.१९॥ १२.२०/१दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः । १२.२०/२तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १२.२०॥ १२.२१/१यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । १२.२१/२प्रजास्तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः ॥ १२.२१॥ १२.२२/१धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः । १२.२२/२जरावान् अभवद् राजा भारमावेश्य बन्धुषु ॥ १२.२२॥ १२.२३/१निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः । १२.२३/२प्रीतिमान् अभवद् राजा ययातिरपराजितः ॥ १२.२३॥ १२.२४/१एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् । १२.२४/२जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ १२.२४॥ १२.२५/१तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । १२.२५/२जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ १२.२५॥ १२.२६/१यदुरुवाच । अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । १२.२६/२अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥ १२.२६॥ १२.२७/१जरायां बहवो दोषाः पानभोजनकारिताः । १२.२७/२तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥ १२.२७॥ १२.२८/१सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । १२.२८/२प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ १२.२८॥ १२.२९/१स एवमुक्तो यदुना राजा कोपसमन्वितः । १२.२९/२उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥ १२.२९॥ १२.३०/१ययातिरुवाच । क आश्रमस्तवान्योऽस्ति को वा धर्मो विधीयते । १२.३०/२मामनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥ १२.३०॥ १२.३१/१एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान् । १२.३१/२अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ १२.३१॥ १२.३२/१द्रुह्यं च तुर्वसुं चैवाप्यनुं च द्विजसत्तमाः । १२.३२/२एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ॥ १२.३२॥ १२.३३/१शशाप तान् अतिक्रुद्धो ययातिरपराजितः । १२.३३/२यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः ॥ १२.३३॥ १२.३४/१एवं शप्त्वा सुतान् सर्वांश्चतुरः पुरुपूर्वजान् । १२.३४/२तद् एव वचनं राजा पुरुमप्याह भो द्विजाः ॥ १२.३४॥ १२.३५/१तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । १२.३५/२जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ १२.३५॥ १२.३६/१स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् । १२.३६/२ययातिरपि रूपेण पुरोः पर्यचरन् महीम् ॥ १२.३६॥ १२.३७/१स मार्गमाणः कामानामन्तं नृपतिसत्तमः । १२.३७/२विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ १२.३७॥ १२.३८/१यदा च तृप्तः कामेषु भोगेषु च नराधिपः । १२.३८/२तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत ॥ १२.३८॥ १२.३९/१यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना । १२.३९/२याभिः प्रत्याहरेत् कामान् सर्वशोऽङ्गानि कूर्मवत् ॥ १२.३९॥ १२.४०/१न जातु कामः कामानामुपभोगेन शाम्यति । १२.४०/२हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १२.४०॥ १२.४१/१यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । १२.४१/२नालमेकस्य तत् सर्वमिति कृत्वा न मुह्यति ॥ १२.४१॥ १२.४२/१यदा भावं न कुरुते सर्वभूतेषु पापकम् । १२.४२/२कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ १२.४२॥ १२.४३/१यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति । १२.४३/२यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ १२.४३॥ १२.४४/१या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । १२.४४/२योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १२.४४॥ १२.४५/१जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । १२.४५/२धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति ॥ १२.४५॥ १२.४६/१यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । १२.४६/२तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ १२.४६॥ १२.४७/१एवमुक्त्वा स राजर्षिः सदारः प्राविशद् वनम् । १२.४७/२कालेन महता चायं चचार विपुलं तपः ॥ १२.४७॥ १२.४८/१भृगुतुङ्गे गतिं प्राप तपसोऽन्ते महायशाः । १२.४८/२अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ १२.४८॥ १२.४९/१तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः । १२.४९/२यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ १२.४९॥ १२.५०/१यदोस्तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् । १२.५०/२यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ १२.५०॥ १२.५१/१सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश्च भवेन् नरः । १२.५१/२ययातिचरितं नित्यमिदं शृण्वन् द्विजोत्तमाः ॥ १२.५१॥ १३.१/१ब्राह्मणा ऊचुः । पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः । १३.१/२द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ॥ १३.१॥ १३.२/१लोमहर्षण उवाच । शृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः । १३.२/२विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ १३.२॥ १३.३/१पुरोः पुत्रः सुवीरोऽभून् मनस्युस्तस्य चात्मजः । १३.३/२राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ १३.३॥ १३.४/१तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः । १३.४/२सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ १३.४॥ १३.५/१रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च । १३.५/२कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ १३.५॥ १३.६/१ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः । १३.६/२धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ १३.६॥ १३.७/१भद्रा शूद्रा च मद्रा च शलदा मलदा तथा । १३.७/२खलदा च ततो विप्रा नलदा सुरसापि च ॥ १३.७॥ १३.८/१तथा गोचपला च स्त्री+ ।रत्नकूटा च ता दश । १३.८/२ऋषिर्जातोऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥ १३.८॥ १३.९/१भद्रायां जनयामास सुतं सोमं यशस्विनम् । १३.९/२स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ १३.९॥ १३.१०/१तमोभिभूते लोके च प्रभा येन प्रवर्तिता । १३.१०/२स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ १३.१०॥ १३.११/१वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् । १३.११/२अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ १३.११॥ १३.१२/१यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् । १३.१२/२स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ १३.१२॥ १३.१३/१दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा । १३.१३/२ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ १३.१३॥ १३.१४/१स्वस्त्यात्रेया इति ख्याताः किञ्च त्रिधनवर्जिताः । १३.१४/२कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ १३.१४॥ १३.१५/१सभानरश्चाक्षुषश्च परमन्युस्तथैव च । १३.१५/२सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ॥ १३.१५॥ १३.१६/१कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः । १३.१६/२सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ॥ १३.१६॥ १३.१७/१जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतोऽभवत् । १३.१७/२जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ॥ १३.१७॥ १३.१८/१देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि । १३.१८/२महामना नाम सुतो महाशालस्य विश्रुतः ॥ १३.१८॥ १३.१९/१जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः । १३.१९/२महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ १३.१९॥ १३.२०/१उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् । १३.२०/२उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १३.२०॥ १३.२१/१नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती । १३.२१/२उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ १३.२१॥ १३.२२/१तपसा चैव महता जाता वृद्धस्य चात्मजाः । १३.२२/२नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ १३.२२॥ १३.२३/१नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् । १३.२३/२दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ॥ १३.२३॥ १३.२४/१शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह । १३.२४/२नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ १३.२४॥ १३.२५/१सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत । १३.२५/२शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ १३.२५॥ १३.२६/१वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा । १३.२६/२तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ १३.२६॥ १३.२७/१वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः । १३.२७/२तितिक्षुरभवद् राजा पूर्वस्यां दिशि भो द्विजाः ॥ १३.२७॥ १३.२८/१उषद्रथो महावीर्यः फेनस्तस्य सुतोऽभवत् । १३.२८/२फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ १३.२८॥ १३.२९/१जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः । १३.२९/२महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ १३.२९॥ १३.३०/१पुत्रान् उत्पादयामास पञ्च वंशकरान् भुवि । १३.३०/२अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ १३.३०॥ १३.३१/१पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते । १३.३१/२बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ॥ १३.३१॥ १३.३२/१बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः । १३.३२/२महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥ १३.३२॥ १३.३३/१बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् । १३.३३/२सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रधानताम् ॥ १३.३३॥ १३.३४/१त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा । १३.३४/२चतुरो नियतान् वर्णांस्त्वं च स्थापयितेति च ॥ १३.३४॥ १३.३५/१इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ । १३.३५/२कालेन महता विप्राः स्वं च स्थानमुपागमत् ॥ १३.३५॥ १३.३६/१तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । १३.३६/२कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥ १३.३६॥ १३.३७/१अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः । १३.३७/२दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ १३.३७॥ १३.३८/१पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । १३.३८/२विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥ १३.३८॥ १३.३९/१तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ । १३.३९/२यजता सह शक्रेण सोमः पीतो महात्मना ॥ १३.३९॥ १३.४०/१अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । १३.४०/२लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ १३.४०॥ १३.४१/१तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । १३.४१/२ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ १३.४१॥ १३.४२/१चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । १३.४२/२पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ १३.४२॥ १३.४३/१चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा । १३.४३/२पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ १३.४३॥ १३.४४/१ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । १३.४४/२अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ १३.४४॥ १३.४५/१हर्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः । १३.४५/२पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ॥ १३.४५॥ १३.४६/१बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । १३.४६/२बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ १३.४६॥ १३.४७/१नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः । १३.४७/२आसीद् दृढरथस्यापि विश्वजिज्जनमेजयी ॥ १३.४७॥ १३.४८/१दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः । १३.४८/२तस्य पुत्रशतं त्वासीद् अङ्गानां कुलवर्धनम् ॥ १३.४८॥ १३.४९/१एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । १३.४९/२सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ १३.४९॥ १३.५०/१ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै । १३.५०/२शृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस्तु भो द्विजाः ॥ १३.५०॥ १३.५१/१ऋचेयोस्तनयो राजा मतिनारो महीपतिः । १३.५१/२मतिनारसुतास्त्वासंस्त्रयः परमधार्मिकाः ॥ १३.५१॥ १३.५२/१वसुरोधः प्रतिरथः सुबाहुश्चैव धार्मिकः । १३.५२/२सर्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥ १३.५२॥ १३.५३/१इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः । १३.५३/२ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥ १३.५३॥ १३.५४/१तंसोः सुतोऽथ राजर्षिर्धर्मनेत्रः प्रतापवान् । १३.५४/२ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ १३.५४॥ १३.५५/१उपदानवी ततः पुत्रांश्चतुरोऽजनयच्छुबान् । १३.५५/२दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ १३.५५॥ १३.५६/१दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । १३.५६/२स सर्वदमनो नाम नागायुतबलो महान् ॥ १३.५६॥ १३.५७/१चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । १३.५७/२शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ १३.५७॥ १३.५८/१भरतस्य विनष्टेषु तनयेषु महीपतेः । १३.५८/२मातृणां तु प्रकोपेण मया तत् कथितं पुरा ॥ १३.५८॥ १३.५९/१बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः । १३.५९/२अयाजयद् भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥ १३.५९॥ १३.६०/१पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि । १३.६०/२ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत् ॥ १३.६०॥ १३.६१/१ततोऽथ वितथे जाते भरतस्तु दिवं ययौ । १३.६१/२वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ १३.६१॥ १३.६२/१स चापि वितथः पुत्राञ् जनयामास पञ्च वै । १३.६२/२सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ १३.६२॥ १३.६३/१कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् । १३.६३/२काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ १३.६३॥ १३.६४/१तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः । १३.६४/२काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥ १३.६४॥ १३.६५/१बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः । १३.६५/२धन्वन्तरेस्तु तनयः केतुमान् इति विश्रुतः ॥ १३.६५॥ १३.६६/१तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः । १३.६६/२पुत्रो भीमरथस्यापि वाराणस्यधिपोऽभवत् ॥ १३.६६॥ १३.६७/१दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः । १३.६७/२दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥ १३.६७॥ १३.६८/१प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च । १३.६८/२अलर्को राजपुत्रस्तु राजा सन्मतिमान् भुवि ॥ १३.६८॥ १३.६९/१हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः । १३.६९/२आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ १३.६९॥ १३.७०/१भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । १३.७०/२दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ १३.७०॥ १३.७१/१अष्टारथो नाम नृपः सुतो भीमरथस्य वै । १३.७१/२तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ १३.७१॥ १३.७२/१वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता । १३.७२/२अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ १३.७२॥ १३.७३/१षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । १३.७३/२युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः ॥ १३.७३॥ १३.७४/१लोपामुद्राप्रसादेन परमायुरवाप सः । १३.७४/२वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ १३.७४॥ १३.७५/१रम्यां निवेशयामास पुरीं वाराणसीं नृपः । १३.७५/२अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ १३.७५॥ १३.७६/१क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततोऽभवत् । १३.७६/२वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥ १३.७६॥ १३.७७/१आनर्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् । १३.७७/२सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥ १३.७७॥ १३.७८/१सुतोऽभवन् महातेजा राजा परमधार्मिकः । १३.७८/२वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥ १३.७८॥ १३.७९/१एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे । १३.७९/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ॥ १३.७९॥ १३.८०/१आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः । १३.८०/२सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः ॥ १३.८०॥ १३.८१/१अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् । १३.८१/२अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ॥ १३.८१॥ १३.८२/१नीली च केशिनी चैव धूमिनी च वराङ्गनाः । १३.८२/२अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ १३.८२॥ १३.८३/१आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् । १३.८३/२पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ १३.८३॥ १३.८४/१नेच्छतः प्लावयामास तस्य गङ्गा च तत् सदः । १३.८४/२तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १३.८४॥ १३.८५/१जह्नुरप्यब्रवीद् गङ्गां क्रुद्धो विप्रास्तदा नृपः । १३.८५/२एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्यहम् । १३.८५/३अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ १३.८५॥ १३.८६/१ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः । १३.८६/२उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ॥ १३.८६॥ १३.८७/१युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । १३.८७/२गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम् ॥ १३.८७॥ १३.८८/१जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान् । १३.८८/२अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ १३.८८॥ १३.८९/१बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः । १३.८९/२पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ १३.८९॥ १३.९०/१कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् । १३.९०/२लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् ॥ १३.९०॥ १३.९१/१स गाधिरभवद् राजा मघवा कौशिकः स्वयम् । १३.९१/२विश्वामित्रस्तु गाधेयो विश्वामित्रात् तथाष्टकः ॥ १३.९१॥ १३.९२/१अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । १३.९२/२आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ १३.९२॥ १३.९३/१अजमीढात् तु नील्यां वै सुशान्तिरुदपद्यत । १३.९३/२पुरुजातिः सुशान्तेश्च बाह्याश्वः पुरुजातितः ॥ १३.९३॥ १३.९४/१बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः । १३.९४/२मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तदा ॥ १३.९४॥ १३.९५/१यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः । १३.९५/२पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥ १३.९५॥ १३.९६/१पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः । १३.९६/२अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ १३.९६॥ १३.९७/१मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । १३.९७/२इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ १३.९७॥ १३.९८/१आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । १३.९८/२सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ १३.९८॥ १३.९९/१सोमदत्तस्य दायादः सहदेवो महायशाः । १३.९९/२सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥ १३.९९॥ १३.१००/१अजमीढसुतो जातः क्षीणे वंशे तु सोमकः । १३.१००/२सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ १३.१००॥ १३.१०१/१तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः । १३.१०१/२आजमीढाः स्मृताश्चैते महात्मानस्तु सोमकाः ॥ १३.१०१॥ १३.१०२/१महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । १३.१०२/२पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ १३.१०२॥ १३.१०३/१सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता । १३.१०३/२ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ १३.१०३॥ १३.१०४/१हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना । १३.१०४/२अग्निहोत्रकुशेष्वेव सुष्वाप मुनिसत्तमाः ॥ १३.१०४॥ १३.१०५/१धूमिन्या स तया देव्या त्वजमीढः समीयिवान् । १३.१०५/२ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम् ॥ १३.१०५॥ १३.१०६/१ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा । १३.१०६/२यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह ॥ १३.१०६॥ १३.१०७/१पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । १३.१०७/२तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः ॥ १३.१०७॥ १३.१०८/१कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । १३.१०८/२परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ १३.१०८॥ १३.१०९/१परीक्षितस्तु दायादो धार्मिको जनमेजयः । १३.१०९/२श्रुतसेनोऽग्रसेनश्च भीमसेनश्च नामतः ॥ १३.१०९॥ १३.११०/१एते सर्वे महाभागा विक्रान्ता बलशालिनः । १३.११०/२जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥ १३.११०॥ १३.१११/१सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । १३.१११/२विदूरथस्य दायाद ऋक्ष एव महारथः ॥ १३.१११॥ १३.११२/१द्वितीयस्तु भरद्वाजान् नाम्ना तेनैव विश्रुतः । १३.११२/२द्वावृक्षौ सोमवंशेऽस्मिन् द्वावेव च परीक्षितौ ॥ १३.११२॥ १३.११३/१भीमसेनास्त्रयो विप्रा द्वौ चापि जनमेजयौ । १३.११३/२ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत् सुतः ॥ १३.११३॥ १३.११४/१प्रतीपो भीमसेनात् तु प्रतीपस्य तु शान्तनुः । १३.११४/२देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ १३.११४॥ १३.११५/१शान्तनोस्त्वभवद् भीष्मस्तस्मिन् वंशे द्विजोत्तमाः । १३.११५/२बाह्लिकस्य तु राजर्षेर्वंशं शृणुत भो द्विजाः ॥ १३.११५॥ १३.११६/१बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । १३.११६/२जज्ञिरे सोमदत्तात् तु भूरिर्भूरिश्रवाः शलः ॥ १३.११६॥ १३.११७/१उपाध्यायस्तु देवानां देवापिरभवन् मुनिः । १३.११७/२च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः ॥ १३.११७॥ १३.११८/१शान्तनुस्त्वभवद् राजा कौरवाणां धुरन्धरः । १३.११८/२शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ १३.११८॥ १३.११९/१गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः । १३.११९/२स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ १३.११९॥ १३.१२०/१काली विचित्रवीर्यं तु जनयामास भो द्विजाः । १३.१२०/२शान्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ १३.१२०॥ १३.१२१/१कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्यके । १३.१२१/२धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ १३.१२१॥ १३.१२२/१धृतराष्ट्रस्तु गान्धार्यां पुत्रान् उत्पादयच्छतम् । १३.१२२/२तेषां दुर्योधनः श्रेष्ठः सर्वेषामपि स प्रभुः ॥ १३.१२२॥ १३.१२३/१पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः । १३.१२३/२अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह ॥ १३.१२३॥ १३.१२४/१पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः । १३.१२४/२चन्द्रापीडस्तु नृपतिः सूर्यापीडश्च मोक्षवित् ॥ १३.१२४॥ १३.१२५/१चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् । १३.१२५/२जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ १३.१२५॥ १३.१२६/१तेषां ज्येष्ठस्तु तत्रासीत् पुरे वारणसाह्वये । १३.१२६/२सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ १३.१२६॥ १३.१२७/१सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । १३.१२७/२अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ १३.१२७॥ १३.१२८/१तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत । १३.१२८/२सुचारोर्दुहिता सुभ्रूर्मालिनी ग्राहमालिनी ॥ १३.१२८॥ १३.१२९/१सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः । १३.१२९/२अन्वगच्छत् कृतं पूर्वं महाप्रस्थानमच्युतम् ॥ १३.१२९॥ १३.१३०/१सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतोऽन्वगात् । १३.१३०/२सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥ १३.१३०॥ १३.१३१/१पथि सा सुषुवे बाला सुकुमारं कुमारकम् । १३.१३१/२तमपास्याथ तत्रैव राजानं सान्वगच्छत ॥ १३.१३१॥ १३.१३२/१पतिव्रता महाभागा द्रौपदीव पुरा सती । १३.१३२/२कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह ॥ १३.१३२॥ १३.१३३/१दयार्थं तस्य मेघास्तु प्रादुरासन् महात्मनः । १३.१३३/२श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥ १३.१३३॥ १३.१३४/१दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले । १३.१३४/२निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ १३.१३४॥ १३.१३५/१अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः । १३.१३५/२अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ १३.१३५॥ १३.१३६/१अथाजपार्श्व इति वै चक्राते नाम तस्य तौ । १३.१३६/२स तु रेमकशालायां द्विजाभ्यामभिवर्धितः ॥ १३.१३६॥ १३.१३७/१रेमकस्य तु भार्या तमुद्वहत् पुत्रकारणात् । १३.१३७/२रेमत्याः स तु पुत्रोऽभूद् ब्राह्मणौ सचिवौ तु तौ ॥ १३.१३७॥ १३.१३८/१तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः । १३.१३८/२स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ १३.१३८॥ १३.१३९/१श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना । १३.१३९/२जरासङ्क्रमणे पूर्वं तदा प्रीतेन धीमता ॥ १३.१३९॥ १३.१४०/१अचन्द्रार्कग्रहा भूमिर्भवेद् इयमसंशयम् । १३.१४०/२अपौरवा मही नैव भविष्यति कदाचन ॥ १३.१४०॥ १३.१४१/१एष वः पौरवो वंशो विख्यातः कथितो मया । १३.१४१/२तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ १३.१४१॥ १३.१४२/१तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः । १३.१४२/२गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥ १३.१४२॥ १३.१४३/१करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः । १३.१४३/२अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥ १३.१४३॥ १३.१४४/१अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः । १३.१४४/२दुहिता संयता नाम तस्यासीत् पृथिवीपतेः ॥ १३.१४४॥ १३.१४५/१दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने । १३.१४५/२दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ १३.१४५॥ १३.१४६/१एवं ययातिशापेन जरासङ्क्रमणे तदा । १३.१४६/२पौरवं तुर्वसोर्वंशं प्रविवेश द्विजोत्तमाः ॥ १३.१४६॥ १३.१४७/१दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः । १३.१४७/२करूरोमाद् अथाह्रीदश्चत्वारस्तस्य चात्मजाः ॥ १३.१४७॥ १३.१४८/१पाण्ड्यश्च केरलश्चैव कालश्चोलश्च पार्थिवः । १३.१४८/२द्रुह्योश्च तनयो राजन् बभ्रुसेतुश्च पार्थिवः ॥ १३.१४८॥ १३.१४९/१अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते । १३.१४९/२यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ १३.१४९॥ १३.१५०/१युद्धं सुमहद् अप्यासीन् मासान् परिचरद् दश । १३.१५०/२अङ्गारसेतोर्दायादो गान्धारो नाम पार्थिवः ॥ १३.१५०॥ १३.१५१/१ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । १३.१५१/२गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥ १३.१५१॥ १३.१५२/१अनोस्तु पुत्रो धर्मोऽभूद् द्यूतस्तस्यात्मजोऽभवत् । १३.१५२/२द्यूताद् वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥ १३.१५२॥ १३.१५३/१प्रचेतसः सुचेतास्तु कीर्तितास्त्वनवो मया । १३.१५३/२बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ १३.१५३॥ १३.१५४/१सहस्रादः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा । १३.१५४/२सहस्रादस्य दायादास्त्रयः परमधार्मिकाः ॥ १३.१५४॥ १३.१५५/१हैहयश्च हयश्चैव राजा वेणुहयस्तथा । १३.१५५/२हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः ॥ १३.१५५॥ १३.१५६/१धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः । १३.१५६/२साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ १३.१५६॥ १३.१५७/१आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । १३.१५७/२भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ १३.१५७॥ १३.१५८/१दुर्दमस्य सुतो धीमान् कनको नाम नामतः । १३.१५८/२कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ १३.१५८॥ १३.१५९/१कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च । १३.१५९/२कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्याद् अथार्जुनः ॥ १३.१५९॥ १३.१६०/१योऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् । १३.१६०/२जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ १३.१६०॥ १३.१६१/१स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । १३.१६१/२दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् ॥ १३.१६१॥ १३.१६२/१तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः । १३.१६२/२पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम् ॥ १३.१६२॥ १३.१६३/१अधर्मेऽधीयमानस्य सद्भिस्तत्र निवारणम् । १३.१६३/२उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ १३.१६३॥ १३.१६४/१सङ्ग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः । १३.१६४/२सङ्ग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे ॥ १३.१६४॥ १३.१६५/१तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः । १३.१६५/२योगाद् योगीश्वरस्येव प्रादुर्भवति मायया ॥ १३.१६५॥ १३.१६६/१तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । १३.१६६/२ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ १३.१६६॥ १३.१६७/१तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च । १३.१६७/२प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ १३.१६७॥ १३.१६८/१सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः । १३.१६८/२सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ १३.१६८॥ १३.१६९/१सर्वे देवैर्मुनिश्रेष्ठा विमानस्थैरलङ्कृतैः । १३.१६९/२गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १३.१६९॥ १३.१७०/१यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । १३.१७०/२वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥ १३.१७०॥ १३.१७१/१नारद उवाच । न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । १३.१७१/२यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ १३.१७१॥ १३.१७२/१स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी । १३.१७२/२रथी द्वीपान् अनुचरन् योगी सन्दृश्यते नृभिः ॥ १३.१७२॥ १३.१७३/१अनष्टद्रव्यता चैव न शोको न च विभ्रमः । १३.१७३/२प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ १३.१७३॥ १३.१७४/१स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह । १३.१७४/२स एव पशुपालोऽभूत् क्षेत्रपालः स एव च ॥ १३.१७४॥ १३.१७५/१सैव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनोऽभवत् । १३.१७५/२स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १३.१७५॥ १३.१७६/१भाति रश्मिसहस्रेण शरदीव च भास्करः । १३.१७६/२स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ १३.१७६॥ १३.१७७/१कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत् । १३.१७७/२स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ॥ १३.१७७॥ १३.१७८/१क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह । १३.१७८/२लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ १३.१७८॥ १३.१७९/१चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा । १३.१७९/२तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ १३.१७९॥ १३.१८०/१भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः । १३.१८०/२चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ १३.१८०॥ १३.१८१/१मारुताविद्धफेनौघमावर्तक्षोभसङ्कुलम् । १३.१८१/२प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ॥ १३.१८१॥ १३.१८२/१देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः । १३.१८२/२मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ १३.१८२॥ १३.१८३/१सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् । १३.१८३/२नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ॥ १३.१८३॥ १३.१८४/१सायाह्ने कदलीखण्डाः कम्पिता इव वायुना । १३.१८४/२स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥ १३.१८४॥ १३.१८५/१लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । १३.१८५/२निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ॥ १३.१८५॥ १३.१८६/१श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन च । १३.१८६/२ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ॥ १३.१८६॥ १३.१८७/१मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः । १३.१८७/२यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ १३.१८७॥ १३.१८८/१युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव । १३.१८८/२अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत् ॥ १३.१८८॥ १३.१८९/१राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा । १३.१८९/२तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ॥ १३.१८९॥ १३.१९०/१स भिक्षामददाद् वीरः सप्त द्वीपान् विभावसोः । १३.१९०/२पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ॥ १३.१९०॥ १३.१९१/१जज्वाल तस्य सर्वाणि चित्रभानुर्दिधृक्षया । १३.१९१/२स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ १३.१९१॥ १३.१९२/१ददाह कार्तवीर्यस्य शैलांश्चैष वनानि च । १३.१९२/२स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ १३.१९२॥ १३.१९३/१ददाह बलवद्भीतश्चित्रभानुः स हैहयः । १३.१९३/२यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ १३.१९३॥ १३.१९४/१वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत । १३.१९४/२यत्रापवस्तु तं क्रोधाच्छप्तवान् अर्जुनं विभुः ॥ १३.१९४॥ १३.१९५/१यस्मान् न वर्जितमिदं वनं ते मम हैहय । १३.१९५/२तस्मात् ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ १३.१९५॥ १३.१९६/१रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् । १३.१९६/२छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ १३.१९६॥ १३.१९७/१तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः । १३.१९७/२अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ १३.१९७॥ १३.१९८/१प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः । १३.१९८/२प्राप्तस्ततोऽस्य मृत्युर्वै तस्य शापान् महामुनेः ॥ १३.१९८॥ १३.१९९/१वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा । १३.१९९/२तस्य पुत्रशतं त्वासीत् पञ्च शेषा महात्मनः ॥ १३.१९९॥ १३.२००/१कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । १३.२००/२शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥ १३.२००॥ १३.२०१/१जयध्वजश्च नाम्नासीद् आवन्त्यो नृपतिर्महान् । १३.२०१/२कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ १३.२०१॥ १३.२०२/१जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । १३.२०२/२तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥ १३.२०२॥ १३.२०३/१तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् । १३.२०३/२वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥ १३.२०३॥ १३.२०४/१तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च । १३.२०४/२भरताश्च सुजाताश्च बहुत्वान् नानुकीर्तिताः ॥ १३.२०४॥ १३.२०५/१वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः । १३.२०५/२वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन् मधुः ॥ १३.२०५॥ १३.२०६/१मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशकृत् । १३.२०६/२वृषणाद् वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ १३.२०६॥ १३.२०७/१यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः । १३.२०७/२न तस्य वित्तनाशः स्यान् नष्टं प्रति लभेच्च सः ॥ १३.२०७॥ १३.२०८/१कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः । १३.२०८/२एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ १३.२०८॥ १३.२०९/१कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै । १३.२०९/२भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ १३.२०९॥ १३.२१०/१श्रुत्वा पञ्च विसर्गांस्तु राजा धर्मार्थकोविदः । १३.२१०/२वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ १३.२१०॥ १३.२११/१लभेत् पञ्च वरांश्चैव दुर्लभान् इह लौकिकान् । १३.२११/२आयुः कीर्तिं तथा पुत्रान् ऐश्वर्यं भूतिमेव च ॥ १३.२११॥ १३.२१२/१धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः । १३.२१२/२क्रोष्टोर्वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम ॥ १३.२१२॥ १३.२१३/१यदोर्वंशधरस्याथ यज्विनः पुण्यकर्मिणः । १३.२१३/२क्रोष्टोर्वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते । १३.२१३/३यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ १३.२१३॥ १४.१/१लोमहर्षण उवाच । गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । १४.१/२गान्धारी जनयामास अनमित्रं महाबलम् ॥ १४.१॥ १४.२/१माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् । १४.२/२तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ १४.२॥ १४.३/१माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ । १४.३/२जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ १४.३॥ १४.४/१श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते । १४.४/२नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४॥ १४.५/१कदाचित् काशिराजस्य विषये मुनिसत्तमाः । १४.५/२त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥ १४.५॥ १४.६/१स तत्र चानयामास श्वफल्कं परमार्चितम् । १४.६/२श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ १४.६॥ १४.७/१श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । १४.७/२गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ १४.७॥ १४.८/१दाता यज्वा च वीरश्च श्रुतवान् अतिथिप्रियः । १४.८/२अक्रूरः सुषुवे तस्माच्छ्वफल्काद् भूरिदक्षिणः ॥ १४.८॥ १४.९/१उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः । १४.९/२अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ १४.९॥ १४.१०/१धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस्तथा । १४.१०/२आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १४.१०॥ १४.११/१अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः । १४.११/२प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ १४.११॥ १४.१२/१चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च । १४.१२/२अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ १४.१२॥ १४.१३/१अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत् तथा । १४.१३/२सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ १४.१३॥ १४.१४/१असिक्न्यां जनयामास शूरं वै देवमीढुषम् । १४.१४/२महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४.१४॥ १४.१५/१वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । १४.१५/२जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १४.१५॥ १४.१६/१आनकानां च संह्रादः सुमहान् अभवद् दिवि । १४.१६/२पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ १४.१६॥ १४.१७/१मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि । १४.१७/२यस्यासीत् पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ १४.१७॥ १४.१८/१देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । १४.१८/२अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥ १४.१८॥ १४.१९/१श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । १४.१९/२पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १४.१९॥ १४.२०/१राजाधिदेवी च तथा पञ्चैता वीरमातरः । १४.२०/२श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन् नृपः ॥ १४.२०॥ १४.२१/१हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत् पुरा । १४.२१/२पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः ॥ १४.२१॥ १४.२२/१करूषाधिपतिर्वीरो दन्तवक्रो महाबलः । १४.२२/२पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ १४.२२॥ १४.२३/१यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः । १४.२३/२भीमसेनस्तथा वाताद् इन्द्राच्चैव धनञ्जयः ॥ १४.२३॥ १४.२४/१लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः । १४.२४/२अनमित्राच्छनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ १४.२४॥ १४.२५/१शैनेयः सत्यकस्तस्माद् युयुधानश्च सात्यकिः । १४.२५/२उद्धवो देवभागस्य महाभागः सुतोऽभवत् ॥ १४.२५॥ १४.२६/१पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् । १४.२६/२अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ॥ १४.२६॥ १४.२७/१निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत । १४.२७/२श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ १४.२७॥ १४.२८/१एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः । १४.२८/२वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् । १४.२८/३अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ १४.२८॥ १४.२९/१गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् । १४.२९/२चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ १४.२९॥ १४.३०/१असङ्ग्रामेण यो वीरो नावर्तत कदाचन । १४.३०/२रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥ १४.३०॥ १४.३१/१वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः । १४.३१/२चारून् अद्योपभोक्ष्यामश्चारुदेष्णहतान् इति ॥ १४.३१॥ १४.३२/१तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ । १४.३२/२वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥ १४.३२॥ १४.३३/१श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् । १४.३३/२जुगुप्समानो भोजत्वाद् राजसूयमवाप सः ॥ १४.३३॥ १४.३४/१अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः । १४.३४/२वसुदेवसुतान् वीरान् कीर्तयिष्याम्यतः परम् ॥ १४.३४॥ १४.३५/१वृष्णेस्त्रिविधमेवं तु बहुशाखं महौजसम् । १४.३५/२धारयन् विपुलं वंशं नानर्थैरिह युज्यते ॥ १४.३५॥ १४.३६/१याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । १४.३६/२पौरवी रोहिणी नाम मदिरादितथावरा ॥ १४.३६॥ १४.३७/१वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी । १४.३७/२सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ १४.३७॥ १४.३८/१वृकदेव्युपदेवी च देवकी चैव सप्तमी । १४.३८/२सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ १४.३८॥ १४.३९/१पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । १४.३९/२ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ १४.३९॥ १४.४०/१लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च । १४.४०/२दुर्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥ १४.४०॥ १४.४१/१चित्रा नाम कुमारी च रोहिणीतनया नव । १४.४१/२चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥ १४.४१॥ १४.४२/१वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः । १४.४२/२रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ १४.४२॥ १४.४३/१सुभद्रायां रथी पार्थाद् अभिमन्युरजायत । १४.४३/२अक्रूरात् काशिकन्यायां सत्यकेतुरजायत ॥ १४.४३॥ १४.४४/१वसुदेवस्य भार्यासु महाभागासु सप्तसु । १४.४४/२ये पुत्रा जज्ञिरे शूराः समस्तांस्तान् निबोधत ॥ १४.४४॥ १४.४५/१भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ । १४.४५/२वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ १४.४५॥ १४.४६/१अगावहं महात्मानं वृकदेवी व्यजायत । १४.४६/२कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ १४.४६॥ १४.४७/१जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् । १४.४७/२कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ १४.४७॥ १४.४८/१मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः । १४.४८/२घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥ १४.४८॥ १४.४९/१गोपाली चाप्सरास्तस्य गोपस्त्रीवेषधारिणी । १४.४९/२धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ १४.४९॥ १४.५०/१मानुष्यां गर्गभार्यायां नियोगाच्छूलपाणिनः । १४.५०/२स कालयवनो नाम जज्ञे राजा महाबलः ॥ १४.५०॥ १४.५१/१वृत्तपूर्वार्धकायस्तु सिंहसंहननो युवा । १४.५१/२अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ॥ १४.५१॥ १४.५२/१यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत् । १४.५२/२आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम् ॥ १४.५२॥ १४.५३/१वृष्ण्यन्धककुलं तस्य नारदोऽकथयद् विभुः । १४.५३/२अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात् तदा ॥ १४.५३॥ १४.५४/१दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् । १४.५४/२ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ १४.५४॥ १४.५५/१समेता मन्त्रयामासुर्यवनस्य भयात् तदा । १४.५५/२कृत्वा विनिश्चयं सर्वे पलायनमरोचयन् ॥ १४.५५॥ १४.५६/१विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् । १४.५६/२कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ॥ १४.५६॥ १४.५९/१इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः । १४.५९/२पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत् ॥ १४.५९॥ १५.१/१लोमहर्षण उवाच । क्रोष्टोरथाभवत् पुत्रो वृजिनीवान् महायशाः । १५.१/२वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ १५.१॥ १५.२/१स्वाहिपुत्रोऽभवद् राजा उषद्गुर्वदतां वरः । १५.२/२महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ १५.२॥ १५.३/१ततः प्रसूतिमिच्छन् वै उषद्गुः सोऽग्र्यमात्मजम् । १५.३/२जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ १५.३॥ १५.४/१आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः । १५.४/२शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ १५.४॥ १५.५/१पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः । १५.५/२शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ १५.५॥ १५.६/१अन्तरस्य सुयज्ञस्तु सुयज्ञतनयोऽभवत् । १५.६/२उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ १५.६॥ १५.७/१शिनेयुरभवत् पुत्र उषतः शत्रुतापनः । १५.७/२मरुतस्तस्य तनयो राजर्षिरभवन् नृपः ॥ १५.७॥ १५.८/१मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । १५.८/२चचार विपुलं धर्मममर्षात् प्रत्यभाग् अपि ॥ १५.८॥ १५.९/१स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः । १५.९/२बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ १५.९॥ १५.१०/१निहत्य रुक्मकवचः शतं कवचिनां रणे । १५.१०/२धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १५.१०॥ १५.११/१जज्ञे च रुक्मकवचात् परजित् परवीरहा । १५.११/२जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ १५.११॥ १५.१२/१रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः । १५.१२/२पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १५.१२॥ १५.१३/१रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रयात् । १५.१३/२ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसद् आश्रमे ॥ १५.१३॥ १५.१४/१प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः । १५.१४/२जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ १५.१४॥ १५.१५/१नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् । १५.१५/२ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५.१५॥ १५.१६/१ज्यामघस्याभवद् भार्या शैब्या बलवती सती । १५.१६/२अपुत्रोऽपि स राजा वै नान्यां भार्यामविन्दत ॥ १५.१६॥ १५.१७/१तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः । १५.१७/२भार्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः ॥ १५.१७॥ १५.१८/१एतच्छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै । १५.१८/२अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः ॥ १५.१८॥ १५.१९/१राजोवाच । यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ १५.१९॥ १५.२०/१लोमहर्षण उवाच । उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत । १५.२०/२पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ १५.२०॥ १५.२१/१राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ । १५.२१/२पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ १५.२१॥ १५.२२/१भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् । १५.२२/२कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ १५.२२॥ १५.२३/१धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः । १५.२३/२आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ १५.२३॥ १५.२४/१दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते । १५.२४/२जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ १५.२४॥ १५.२५/१अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा । १५.२५/२तस्य चासीद् दशरथः शकुनिस्तस्य चात्मजः ॥ १५.२५॥ १५.२६/१तस्मात् करम्भः कारम्भिर्देवरातोऽभवन् नृपः । १५.२६/२देवक्षत्रोऽभवत् तस्य वृद्धक्षत्रो महायशाः ॥ १५.२६॥ १५.२७/१देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः । १५.२७/२मधूनां वंशकृद् राजा मधुर्मधुरवाग् अपि ॥ १५.२७॥ १५.२८/१मधोर्जज्ञेऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः । १५.२८/२ऐक्ष्वाकी चाभवद् भार्या मधोस्तस्यां व्यजायत ॥ १५.२८॥ १५.२९/१सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः । १५.२९/२इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । १५.२९/३युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा ॥ १५.२९॥ १५.३०/१लोमहर्षण उवाच । सत्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् । १५.३०/२भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १५.३०॥ १५.३१/१अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । १५.३१/२तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्तिताः ॥ १५.३१॥ १५.३२/१भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । १५.३२/२आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ १५.३२॥ १५.३३/१क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः । १५.३३/२एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ १५.३३॥ १५.३४/१आयुताजित् सहस्राजिच्छताजित् त्वथ दासकः । १५.३४/२उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥ १५.३४॥ १५.३५/१यज्वा देवावृधो राजा चचार विपुलं तपः । १५.३५/२पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः ॥ १५.३५॥ १५.३६/१संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् । १५.३६/२सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ १५.३६॥ १५.३७/१चिन्तयाभिपरीता सा न जगामैव निश्चयम् । १५.३७/२कल्याणत्वान् नरपतेस्तस्य सा निम्नगोत्तमा ॥ १५.३७॥ १५.३८/१नाध्यगच्छत् तु तां नारीं यस्यामेवंविधः सुतः । १५.३८/२भवेत् तस्मात् स्वयं गत्वा भवाम्यस्य सहानुगा ॥ १५.३८॥ १५.३९/१अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । १५.३९/२वरयामास नृपतिं तामियेष च स प्रभुः ॥ १५.३९॥ १५.४०/१तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः । १५.४०/२अथ सा दशमे मासि सुषुवे सरितां वरा ॥ १५.४०॥ १५.४१/१पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः । १५.४१/२अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १५.४१॥ १५.४२/१गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः । १५.४२/२यथैवाग्रे तथा दूरात् पश्यामस्तावद् अन्तिकात् ॥ १५.४२॥ १५.४३/१बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । १५.४३/२षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३॥ १५.४४/१एतेऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधाद् अपि । १५.४४/२यज्वा दानपतिर्धीमान् ब्रह्मण्यः सुदृढायुधः ॥ १५.४४॥ १५.४५/१तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः । १५.४५/२अन्धकात् काश्यदुहिता चतुरोऽलभतात्मजान् ॥ १५.४५॥ १५.४६/१कुकुरं भजमानं च ससकं बलबर्हिषम् । १५.४६/२कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥ १५.४६॥ १५.४७/१कपोतरोमा तस्याथ तिलिरिस्तनयोऽभवत् । १५.४७/२जज्ञे पुनर्वसुस्तस्माद् अभिजिच्च पुनर्वसोः ॥ १५.४७॥ १५.४८/१तथा वै पुत्रमिथुनं बभूवाभिजितः किल । १५.४८/२आहुकः श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥ १५.४८॥ १५.४९/१इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् । १५.४९/२श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ १५.४९॥ १५.५०/१अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् । १५.५०/२नापुत्रवान् नाशतदो नासहस्रशतायुषः ॥ १५.५०॥ १५.५१/१नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् । १५.५१/२पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ १५.५१॥ १५.५२/१सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् । १५.५२/२रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ १५.५२॥ १५.५३/१रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः । १५.५३/२तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥ १५.५३॥ १५.५४/१आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः । १५.५४/२आहुः किं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ॥ १५.५४॥ १५.५५/१आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः । १५.५५/२देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ १५.५५॥ १५.५६/१देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः । १५.५६/२देववान् उपदेवश्च सन्देवो देवरक्षितः ॥ १५.५६॥ १५.५७/१कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ । १५.५७/२देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ १५.५७॥ १५.५८/१वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी । १५.५८/२नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥ १५.५८॥ १५.५९/१न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः । १५.५९/२राष्ट्रपालोऽथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥ १५.५९॥ १५.६०/१तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा । १५.६०/२सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ १५.६०॥ १५.६१/१उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः । १५.६१/२कुकुराणामिमं वंशं धारयन्न् अमितौजसाम् ॥ १५.६१॥ १५.६२/१आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः ॥ १५.६२॥ १६.१/१लोमहर्षण उवाच । भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः । १६.१/२राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १६.१॥ १६.२/१राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः । १६.२/२दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ १६.२॥ १६.३/१शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् । १६.३/२श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ १६.३॥ १६.४/१शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । १६.४/२स्वयम्भोजः स्वयम्भोजाद् भदिकः सम्बभूव ह ॥ १६.४॥ १६.५/१तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः । १६.५/२कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ १६.५॥ १६.६/१देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः । १६.६/२सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ १६.६॥ १६.७/१देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः । १६.७/२असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ १६.७॥ १६.८/१अजातपुत्राय सुतान् प्रददावसमौजसे । १६.८/२सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ १६.८॥ १६.९/१गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः । १६.९/२गान्धारी जनयामास अनमित्रं महाबलम् ॥ १६.९॥ १६.१०/१माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् । १६.१०/२अनमित्रममित्राणां जेतारमपराजितम् ॥ १६.१०॥ १६.११/१अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः । १६.११/२प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ १६.११॥ १६.१२/१प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् । १६.१२/२दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान् ॥ १६.१२॥ १६.१३/१तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् । १६.१३/२स कदाचिन् निशापाये रथेन रथिनां वरः ॥ १६.१३॥ १६.१४/१तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् । १६.१४/२तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः ॥ १६.१४॥ १६.१५/१विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् विभुः । १६.१५/२अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ १६.१५॥ १६.१६/१यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते । १६.१६/२तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ १६.१६॥ १६.१७/१को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै । १६.१७/२एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ॥ १६.१७॥ १६.१८/१स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः । १६.१८/२ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ १६.१८॥ १६.१९/१प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् । १६.१९/२तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ १६.१९॥ १६.२०/१लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो । १६.२०/२तद् एतन् मणिरत्नं मे भगवन् दातुमर्हसि ॥ १६.२०॥ १६.२१/१ततः स्यमन्तकमणिं दत्तवान् भास्करस्तदा । १६.२१/२स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ १६.२१॥ १६.२२/१तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह । १६.२२/२स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ १६.२२॥ १६.२३/१तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् । १६.२३/२ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम् ॥ १६.२३॥ १६.२४/१स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने । १६.२४/२कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ १६.२४॥ १६.२५/१लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके । १६.२५/२गोविन्दो न च तं लेभे शक्तोऽपि न जहार सः ॥ १६.२५॥ १६.२६/१कदाचिन् मृगयां यातः प्रसेनस्तेन भूषितः । १६.२६/२स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात् ॥ १६.२६॥ १६.२७/१अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः । १६.२७/२निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम् ॥ १६.२७॥ १६.२८/१ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् । १६.२८/२प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ १६.२८॥ १६.२९/१स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः । १६.२९/२आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १६.२९॥ १६.३०/१यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्यथ । १६.३०/२प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ १६.३०॥ १६.३१/१ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् । १६.३१/२अन्वेषयन् परिश्रान्तः स ददर्श महामनाः ॥ १६.३१॥ १६.३२/१साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् । १६.३२/२अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ १६.३२॥ १६.३३/१ऋक्षेण निहतो दृष्टः पदैरृक्षस्तु सूचितः । १६.३३/२पदैस्तैरन्वियायाथ गुहाम् ऋक्षस्य माधवः ॥ १६.३३॥ १६.३४/१स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् । १६.३४/२धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ १६.३४॥ १६.३५/१क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥ १६.३५॥ १६.३६/१धात्र्युवाच । सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । १६.३६/२सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १६.३६॥ १६.३७/१व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ । १६.३७/२प्रविश्य तत्र भगवांस्तद् ऋक्षबिलमञ्जसा ॥ १६.३७॥ १६.३८/१स्थापयित्वा बिलद्वारे यदूंल्लाङ्गलिना सह । १६.३८/२शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ १६.३८॥ १६.३९/१युयुधे वासुदेवस्तु बिले जाम्बवता सह । १६.३९/२बाहुभ्यामेव गोविन्दो दिवसान् एकविंशतिम् ॥ १६.३९॥ १६.४०/१प्रविष्टेऽथ बिले कृष्णे बलदेवपुरःसराः । १६.४०/२पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ १६.४०॥ १६.४१/१वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम् । १६.४१/२लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य सम्मताम् ॥ १६.४१॥ १६.४२/१मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये । १६.४२/२अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ १६.४२॥ १६.४३/१उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः । १६.४३/२एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ॥ १६.४३॥ १६.४४/१ददौ सत्राजिते तं वै सर्वसात्वतसंसदि । १६.४४/२एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ १६.४४॥ १६.४५/१आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् । १६.४५/२सत्राजितो दश त्वासन् भार्यास्तासां शतं सुताः ॥ १६.४५॥ १६.४६/१ख्यातिमन्तस्त्रयस्तेषां भगङ्कारस्तु पूर्वजः । १६.४६/२वीरो वातपतिश्चैव वसुमेधस्तथैव च ॥ १६.४६॥ १६.४७/१कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः । १६.४७/२सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ १६.४७॥ १६.४८/१तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ । १६.४८/२सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥ १६.४८॥ १६.४९/१जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा । १६.४९/२माद्र्याः पुत्रोऽथ जज्ञेऽथ वृष्णिपुत्रो युधाजितः ॥ १६.४९॥ १६.५०/१जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा । १६.५०/२श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ॥ १६.५०॥ १६.५१/१गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता । १६.५१/२तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः ॥ १६.५१॥ १६.५२/१अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः । १६.५२/२उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः ॥ १६.५२॥ १६.५३/१आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः । १६.५३/२धर्मभृच्चापि धर्मा च गृध्रभोजान्धकस्तथा ॥ १६.५३॥ १६.५४/१आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना । १६.५४/२विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा ॥ १६.५४॥ १६.५५/१रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा । १६.५५/२अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ १६.५५॥ १६.५६/१वसुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ । १६.५६/२चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ॥ १६.५६॥ १६.५७/१अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ । १६.५७/२अरिष्टनेमिश्च सुता धर्मो धर्मभृद् एव च ॥ १६.५७॥ १६.५८/१सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ । १६.५८/२इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ १६.५८॥ १६.५९/१वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ १६.५९॥ १७.१/१लोमहर्षण उवाच । यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । १७.१/२ददावहारयद् बभ्रुर्भोजेन शतधन्वना ॥ १७.१॥ १७.२/१सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । १७.२/२अक्रूरोऽन्तरमन्विष्यन् मणिं चैव स्यमन्तकम् ॥ १७.२॥ १७.३/१सत्राजितं ततो हत्वा शतधन्वा महाबलः । १७.३/२रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ १७.३॥ १७.४/१अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् । १७.४/२समयं कारयां चक्रे नावेद्योऽहं त्वयेत्युत ॥ १७.४॥ १७.५/१वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् । १७.५/२ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ १७.५॥ १७.६/१हते पितरि दुःखार्ता सत्यभामा मनस्विनी । १७.६/२प्रययौ रथमारुह्य नगरं वारणावतम् ॥ १७.६॥ १७.७/१सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः । १७.७/२भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ १७.७॥ १७.८/१पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् । १७.८/२कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ १७.८॥ १७.९/१ततस्त्वरितमागम्य द्वारकां मधुसूदनः । १७.९/२पूर्वजं हलिनं श्रीमान् इदं वचनमब्रवीत् ॥ १७.९॥ १७.१०/१श्रीकृष्ण उवाच । हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । १७.१०/२स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ १७.१०॥ १७.११/१तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् । १७.११/२स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ १७.११॥ १७.१२/१लोमहर्षण उवाच । ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । १७.१२/२शतधन्वा ततोऽक्रूरं सर्वतोदिशमैक्षत ॥ १७.१२॥ १७.१३/१संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ । १७.१३/२शक्तोऽपि शापाद् धार्दिक्यमक्रूरो नान्वपद्यत ॥ १७.१३॥ १७.१४/१अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः । १७.१४/२योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ १७.१४॥ १७.१५/१विख्याता हृदया नाम शतयोजनगामिनी । १७.१५/२भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ १७.१५॥ १७.१६/१क्षीणां जवेन हृदयामध्वनः शतयोजने । १७.१६/२दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ १७.१६॥ १७.१७/१ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः । १७.१७/२खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७.१७॥ १७.१८/१श्रीकृष्ण उवाच । तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया । १७.१८/२पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १७.१८॥ १७.१९/१पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । १७.१९/२मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ १७.१९॥ १७.२०/१स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् । १७.२०/२निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली ॥ १७.२०॥ १७.२१/१नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । १७.२१/२धिक्षब्दपूर्वमसकृत् प्रत्युवाच जनार्दनम् ॥ १७.२१॥ १७.२२/१बलराम उवाच । भ्रातृत्वान् मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् । १७.२२/२कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ १७.२२॥ १७.२३/१प्रविवेश ततो रामो मिथिलामरिमर्दनः । १७.२३/२सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ १७.२३॥ १७.२४/१एतस्मिन्न् एव काले तु बभ्रुर्मतिमतां वरः । १७.२४/२नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान् ॥ १७.२४॥ १७.२५/१दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । १७.२५/२स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ १७.२५॥ १७.२६/१अथ रत्नानि चान्यानि धनानि विविधानि च । १७.२६/२षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ १७.२६॥ १७.२७/१अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः । १७.२७/२बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ १७.२७॥ १७.२८/१अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः । १७.२८/२गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान् ॥ १७.२८॥ १७.२९/१सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः । १७.२९/२आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ १७.२९॥ १७.३०/१अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः । १७.३०/२हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ १७.३०॥ १७.३१/१ज्ञातिभेदभयात् कृष्णस्तमुपेक्षितवांस्तदा । १७.३१/२अपयाते तदाक्रूरे नावर्षत् पाकशासनः ॥ १७.३१॥ १७.३२/१अनावृष्ट्या तदा राष्ट्रमभवद् बहुधा कृशम् । १७.३२/२ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ १७.३२॥ १७.३३/१पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः । १७.३३/२प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥ १७.३३॥ १७.३४/१कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् । १७.३४/२अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः ॥ १७.३४॥ १७.३५/१अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । १७.३५/२सभामध्यगतः प्राह तमक्रूरं जनार्दनः ॥ १७.३५॥ १७.३६/१श्रीकृष्ण उवाच । यत् तद् रत्नं मणिवरं तव हस्तगतं विभो । १७.३६/२तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ १७.३६॥ १७.३७/१षष्टिवर्षगते काले यो रोषोऽभून् ममानघ । १७.३७/२स संरूढोऽसकृत् प्राप्तस्ततः कालात्ययो महान् ॥ १७.३७॥ १७.३८/१स ततः कृष्णवचनात् सर्वसात्वतसंसदि । १७.३८/२प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ १७.३८॥ १७.३९/१ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्ताद् अरिन्दमः । १७.३९/२ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ १७.३९॥ १७.४०/१स कृष्णहस्तात् सम्प्राप्तं मणिरत्नं स्यमन्तकम् । १७.४०/२आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव ॥ १७.४०॥ १८.१/१मुनय ऊचुः । अहो सुमहद् आख्यानं भवता परिकीर्तितम् । १८.१/२भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १८.१॥ १८.२/१देवानां दानवानां च गन्धर्वोरगरक्षसाम् । १८.२/२दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १८.२॥ १८.३/१अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । १८.३/२विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ १८.३॥ १८.४/१सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते । १८.४/२प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ १८.४॥ १८.५/१स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् । १८.५/२त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम् ॥ १८.५॥ १८.६/१कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा । १८.६/२मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम् ॥ १८.६॥ १८.७/१इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः । १८.७/२वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ १८.७॥ १८.८/१यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । १८.८/२वनानि सरितः पुण्य+ ।देवादीनां महामते ॥ १८.८॥ १८.९/१यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । १८.९/२संस्थानमस्य जगतो यथावद् वक्तुमर्हसि ॥ १८.९॥ १८.१०/१लोमहर्षण उवाच । मुनयः श्रूयतामेतत् सङ्क्षेपाद् वदतो मम । १८.१०/२नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः ॥ १८.१०॥ १८.११/१जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । १८.११/२कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १८.११॥ १८.१२/१एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । १८.१२/२लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १८.१२॥ १८.१३/१जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । १८.१३/२तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १८.१३॥ १८.१४/१चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः । १८.१४/२प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥ १८.१४॥ १८.१५/१मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । १८.१५/२भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ १८.१५॥ १८.१६/१हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे । १८.१६/२नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ १८.१६॥ १८.१७/१लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे । १८.१७/२सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १८.१७॥ १८.१८/१भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । १८.१८/२हरिवर्षं तथैवान्यन् मेरोर्दक्षिणतो द्विजाः ॥ १८.१८॥ १८.१९/१रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् । १८.१९/२उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १८.१९॥ १८.२०/१नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । १८.२०/२इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ १८.२०॥ १८.२१/१मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । १८.२१/२इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ १८.२१॥ १८.२२/१विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः । १८.२२/२पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ १८.२२॥ १८.२३/१विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । १८.२३/२कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ १८.२३॥ १८.२४/१एकादशशतायामाः पादपा गिरिकेतवः । १८.२४/२जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ १८.२४॥ १८.२५/१महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । १८.२५/२पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १८.२५॥ १८.२६/१रसेन तेषां विख्याता तत्र जम्बूनदीति वै । १८.२६/२सरित् प्रवर्तते सा च पीयते तन्निवासिभिः ॥ १८.२६॥ १८.२७/१न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । १८.२७/२तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ १८.२७॥ १८.२८/१तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता । १८.२८/२जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १८.२८॥ १८.२९/१भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । १८.२९/२वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ १८.२९॥ १८.३०/१वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । १८.३०/२वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम् ॥ १८.३०॥ १८.३१/१अरुणोदं महाभद्रमसितोदं समानसम् । १८.३१/२सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ १८.३१॥ १८.३२/१शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा । १८.३२/२वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ १८.३२॥ १८.३३/१त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । १८.३३/२निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ १८.३३॥ १८.३४/१शिखिवासः सवैदूर्यः कपिलो गन्धमादनः । १८.३४/२जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः ॥ १८.३४॥ १८.३५/१मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । १८.३५/२शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः ॥ १८.३५॥ १८.३६/१कालञ्जराद्याश्च तथा उत्तरे केसराचलाः । १८.३६/२चतुर्दश सहस्राणि योजनानां महापुरी ॥ १८.३६॥ १८.३७/१मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि । १८.३७/२तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ १८.३७॥ १८.३८/१इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । १८.३८/२विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ १८.३८॥ १८.३९/१समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि । १८.३९/२सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ १८.३९॥ १८.४०/१सीता चालकनन्दा च चक्षुर्बध्रा च वै क्रमात् । १८.४०/२पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ १८.४०॥ १८.४१/१ततश्च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् । १८.४१/२तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ १८.४१॥ १८.४२/१प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । १८.४२/२चक्षुश्च पश्चिमगिरीन् अतीत्य सकलांस्ततः ॥ १८.४२॥ १८.४३/१पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् । १८.४३/२भद्रा तथोत्तरगिरीन् उत्तरांश्च तथा कुरून् ॥ १८.४३॥ १८.४४/१अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । १८.४४/२आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ १८.४४॥ १८.४५/१तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । १८.४५/२भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ १८.४५॥ १८.४६/१पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । १८.४६/२जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ १८.४६॥ १८.४७/१तौ दक्षिणोत्तरायामावानीलनिषधायतौ । १८.४७/२गन्धमादनकैलासौ पूर्वपश्चात् तु तावुभौ ॥ १८.४७॥ १८.४८/१अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ । १८.४८/२निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ १८.४८॥ १८.४९/१तौ दक्षिणोत्तरायामावानीलनिषधायतौ । १८.४९/२मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ १८.४९॥ १८.५०/१त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । १८.५०/२पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ १८.५०॥ १८.५१/१इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । १८.५१/२जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ १८.५१॥ १८.५२/१मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । १८.५२/२शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ १८.५२॥ १८.५३/१शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । १८.५३/२सुरम्याणि तथा तासु काननानि पुराणि च ॥ १८.५३॥ १८.५४/१लक्ष्मीविष्ण्वग्निसूर्येन्द्र+ ।देवानां मुनिसत्तमाः । १८.५४/२तास्वायतनवर्याणि जुष्टानि नरकिंनरैः ॥ १८.५४॥ १८.५५/१गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । १८.५५/२क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ १८.५५॥ १८.५६/१भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । १८.५६/२नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ १८.५६॥ १८.५७/१भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः । १८.५७/२वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ १८.५७॥ १८.५८/१मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । १८.५८/२विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ १८.५८॥ १८.५९/१सर्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः । १८.५९/२यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ १८.५९॥ १८.६०/१न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् । १८.६०/२सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ १८.६०॥ १८.६१/१दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । १८.६१/२नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ १८.६१॥ १८.६२/१कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । १८.६२/२सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । १८.६२/३नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥ १८.६२॥ १९.१/१लोमहर्षण उवाच । उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे । १९.१/२वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥ १९.१॥ १९.२/१नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः । १९.२/२कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ १९.२॥ १९.३/१महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । १९.३/२विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १९.३॥ १९.४/१अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयाति वै । १९.४/२तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ १९.४॥ १९.५/१इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति । १९.५/२न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ १९.५॥ १९.६/१भारतस्यास्य वर्षस्य नव भेदान् निशामय । १९.६/२इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ १९.६॥ १९.७/१नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । १९.७/२अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ १९.७॥ १९.८/१योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् । १९.८/२पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ १९.८॥ १९.९/१ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । १९.९/२इज्यायुद्धवणिज्याद्य+ ।वृत्तिमन्तो व्यवस्थिताः ॥ १९.९॥ १९.१०/१शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः । १९.१०/२वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १९.१०॥ १९.११/१नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः । १९.११/२तापीपयोष्णीनिर्विन्ध्या+ ।कावेरीप्रमुखा नदीः ॥ १९.११॥ १९.१२/१ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः । १९.१२/२गोदावरीभीमरथी+ ।कृष्णवेण्यादिकास्तथा ॥ १९.१२॥ १९.१३/१सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । १९.१३/२कृतमालाताम्रपर्णी+ ।प्रमुखा मलयोद्भवाः ॥ १९.१३॥ १९.१४/१त्रिसान्ध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । १९.१४/२ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १९.१४॥ १९.१५/१आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । १९.१५/२तास्विमे कुरुपञ्चाल+ ंअध्यदेशादयो जनाः ॥ १९.१५॥ १९.१६/१पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । १९.१६/२पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १९.१६॥ १९.१७/१तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः । १९.१७/२मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १९.१७॥ १९.१८/१सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । १९.१८/२मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ १९.१८॥ १९.१९/१आसां पिबन्ति सलिलं वसन्ति सरितां सदा । १९.१९/२समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ १९.१९॥ १९.२०/१वसन्ति भारते वर्षे युगान्यत्र महामुने । १९.२०/२कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १९.२०॥ १९.२१/१तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । १९.२१/२दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ १९.२१॥ १९.२२/१पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । १९.२२/२यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ १९.२२॥ १९.२३/१अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । १९.२३/२यतो हि कर्मभूरेषा यतोऽन्या भोगभूमयः ॥ १९.२३॥ १९.२४/१अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । १९.२४/२कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयन् ॥ १९.२४॥ १९.२५/१गायन्ति देवाः किल गीतकानि । १९.२५/२धन्यास्तु ये भारतभूमिभागे । १९.२५/३स्वर्गापवर्गास्पदहेतुभूते । १९.२५/४भवन्ति भूयः पुरुषा मनुष्याः ॥ १९.२५॥ १९.२६/१कर्माण्यसङ्कल्पिततत्फलानि । १९.२६/२संन्यस्य विष्णौ परमात्मरूपे । १९.२६/३अवाप्य तां कर्ममहीमनन्ते । १९.२६/४तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ १९.२६॥ १९.२७/१जानीम नो तत्कूवयं विलीने । १९.२७/२स्वर्गप्रदे कर्मणि देहबन्धम् । १९.२७/३प्राप्स्यन्ति धन्याः खलु ते मनुष्या । १९.२७/४ये भारतेनेन्द्रियविप्रहीनाः ॥ १९.२७॥ १९.२८/१नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया । १९.२८/२लक्षयोजनविस्तारं सङ्क्षेपात् कथितं द्विजाः ॥ १९.२८॥ १९.२९/१जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । १९.२९/२भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ १९.२९॥ २०.१/१लोमहर्षण उवाच । क्षारोदेन यथा द्वीपो जम्बूसञ्ज्ञोऽभिवेष्टितः । २०.१/२संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१॥ २०.२/१जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः । २०.२/२स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः ॥ २०.२॥ २०.३/१सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । २०.३/२श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ २०.३॥ २०.४/१सुखोदयस्तथानन्दः शिवः क्षेमक एव च । २०.४/२ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २०.४॥ २०.५/१पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । २०.५/२आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २०.५॥ २०.६/१मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । २०.६/२सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः ॥ २०.६॥ २०.७/१गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा । २०.७/२सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ २०.७॥ २०.८/१वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । २०.८/२वसन्ति देवगन्धर्व+ ।सहिताः सहितं प्रजाः ॥ २०.८॥ २०.९/१तेषु पुण्या जनपदा वीरा न म्रियते जनः । २०.९/२नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २०.९॥ २०.१०/१तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । २०.१०/२नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २०.१०॥ २०.११/१अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः । २०.११/२अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २०.११॥ २०.१२/१एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः । २०.१२/२क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ २०.१२॥ २०.१३/१ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । २०.१३/२अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ २०.१३॥ २०.१४/१न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु । २०.१४/२त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ २०.१४॥ २०.१५/१प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै । २०.१५/२पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ २०.१५॥ २०.१६/१धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः । २०.१६/२वर्णाश्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः ॥ २०.१६॥ २०.१७/१आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये । २०.१७/२विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ २०.१७॥ २०.१८/१जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः । २०.१८/२प्लक्षस्तन्नामसञ्ज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ २०.१८॥ २०.१९/१इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । २०.१९/२सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २०.१९॥ २०.२०/१प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । २०.२०/२तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २०.२०॥ २०.२१/१इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः । २०.२१/२सङ्क्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २०.२१॥ २०.२२/१शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः । २०.२२/२तेषां तु नाम सञ्ज्ञानि सप्तवर्षाणि तानि वै ॥ २०.२२॥ २०.२३/१श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा । २०.२३/२वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ २०.२३॥ २०.२४/१शाल्मनश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः । २०.२४/२विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २०.२४॥ २०.२५/१तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । २०.२५/२वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ २०.२५॥ २०.२६/१कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः । २०.२६/२द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २०.२६॥ २०.२७/१कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । २०.२७/२ककुद्मान् पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ २०.२७॥ २०.२८/१श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी । २०.२८/२निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २०.२८॥ २०.२९/१श्वेतं च लोहितं चैव जीमूतं हरितं तथा । २०.२९/२वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २०.२९॥ २०.३०/१सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च । २०.३०/२वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ २०.३०॥ २०.३१/१कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् । २०.३१/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥ २०.३१॥ २०.३२/१भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । २०.३२/२वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥ २०.३२॥ २०.३३/१देवानामत्र सांनिध्यमतीव सुमनोहरे । २०.३३/२शाल्मलिश्च महावृक्षो नामनिर्वृत्तिकारकः ॥ २०.३३॥ २०.३४/१एष द्वीपः समुद्रेण सुरोदेन समावृतः । २०.३४/२विस्ताराच्छाल्मलेश्चैव समेन तु समन्ततः ॥ २०.३४॥ २०.३५/१सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । २०.३५/२शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ २०.३५॥ २०.३६/१ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् । २०.३६/२उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥ २०.३६॥ २०.३७/१प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः । २०.३७/२तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ २०.३७॥ २०.३८/१तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः । २०.३८/२वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ २०.३८॥ २०.३९/१दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः । २०.३९/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २०.३९॥ २०.४०/१यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते । २०.४०/२तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ २०.४०॥ २०.४१/१यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् । २०.४१/२विद्रुमो हेमशैलश्च द्युतिमान् पुष्टिमांस्तथा ॥ २०.४१॥ २०.४२/१कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । २०.४२/२वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ २०.४२॥ २०.४३/१नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् । २०.४३/२धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ २०.४३॥ २०.४४/१विद्युद् अम्भो मही चान्या सर्वपापहरास्त्विमाः । २०.४४/२अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ २०.४४॥ २०.४५/१कुशद्वीपे कुशस्तम्बः सञ्ज्ञया तस्य तत् स्मृतम् । २०.४५/२तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ २०.४५॥ २०.४६/१घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । २०.४६/२क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ २०.४६॥ २०.४७/१कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः । २०.४७/२क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ २०.४७॥ २०.४८/१तन्नामानि च वर्षाणि तेषां चक्रे महामनाः । २०.४८/२कुशगो मन्दगश्चोष्णः पीवरोऽथान्धकारकः ॥ २०.४८॥ २०.४९/१मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः । २०.४९/२तत्रापि देवगन्धर्व+ ।सेविताः सुमनोरमाः ॥ २०.४९॥ २०.५०/१वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः । २०.५०/२क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥ २०.५०॥ २०.५१/१देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् । २०.५१/२दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ॥ २०.५१॥ २०.५२/१द्वीपाद् द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा । २०.५२/२वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥ २०.५२॥ २०.५३/१निवसन्ति निरातङ्काः सह देवगणैः प्रजाः । २०.५३/२पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥ २०.५३॥ २०.५४/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः । २०.५४/२तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ २०.५४॥ २०.५५/१सप्त प्रधानाः शतशस्तथान्याः क्षुद्रनिम्नगाः । २०.५५/२गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ २०.५५॥ २०.५६/१ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । २०.५६/२तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्जनार्दनः ॥ २०.५६॥ २०.५७/१ध्यानयोगै रुद्ररूप ईज्यते यज्ञसंनिधौ । २०.५७/२क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ २०.५७॥ २०.५८/१आवृतः सर्वतः क्रौञ्च+ ।द्वीपतुल्येन मानतः । २०.५८/२दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ २०.५८॥ २०.५९/१क्रौञ्चद्वीपस्य विस्तार+ ।द्विगुणेन द्विजोत्तमाः । २०.५९/२शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ २०.५९॥ २०.६०/१सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः । २०.६०/२जलदश्च कुमारश्च सुकुमारो मनीरकः ॥ २०.६०॥ २०.६१/१कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः । २०.६१/२तत्सञ्ज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥ २०.६१॥ २०.६२/१तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः । २०.६२/२पूर्वस्तत्रोदयगिरिर्जलधारस्तथापरः ॥ २०.६२॥ २०.६३/१तथा रैवतकः श्यामस्तथैवाम्भोगिरिर्द्विजाः । २०.६३/२आस्तिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २०.६३॥ २०.६४/१शाकश्चात्र महावृक्षः सिद्धगन्धर्वसेवितः । २०.६४/२यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः ॥ २०.६४॥ २०.६५/१तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । २०.६५/२निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ २०.६५॥ २०.६६/१नद्यश्चात्र महापुण्याः सर्वपापभयापहाः । २०.६६/२सुकुमारी कुमारी च नलिनी रेणुका च या ॥ २०.६६॥ २०.६७/१इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा । २०.६७/२अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ २०.६७॥ २०.६८/१महीधरास्तथा सन्ति शतशोऽथ सहस्रशः । २०.६८/२ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ २०.६८॥ २०.६९/१वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः । २०.६९/२नद्यश्चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम् ॥ २०.६९॥ २०.७०/१धर्महानिर्न तेष्वस्ति न संहर्षो न शुक् तथा । २०.७०/२मर्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥ २०.७०॥ २०.७१/१मगाश्च मागधाश्चैव मानसा मन्दगास्तथा । २०.७१/२मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥ २०.७१॥ २०.७२/१वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः । २०.७२/२शाकद्वीपे स्थितैर्विष्णुः सूर्यरूपधरो हरिः ॥ २०.७२॥ २०.७३/१यथोक्तैरिज्यते सम्यक् कर्मभिर्नियतात्मभिः । २०.७३/२शाकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥ २०.७३॥ २०.७४/१शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः । २०.७४/२क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ २०.७४॥ २०.७५/१द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः । २०.७५/२पुष्करे सवनस्यापि महावीतोऽभवत् सुतः ॥ २०.७५॥ २०.७६/१धातकिश्च तयोस्तद्वद् द्वे वर्षे नामसञ्ज्ञिते । २०.७६/२महावीतं तथैवान्यद् धातकीखण्डसञ्ज्ञितम् ॥ २०.७६॥ २०.७७/१एकश्चात्र महाभागाः प्रख्यातो वर्षपर्वतः । २०.७७/२मानसोत्तरसञ्ज्ञो वै मध्यतो वलयाकृतिः ॥ २०.७७॥ २०.७८/१योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः । २०.७८/२तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २०.७८॥ २०.७९/१पुष्करद्वीपवलयं मध्येन विभजन्न् इव । २०.७९/२स्थितोऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ २०.७९॥ २०.८०/१वलयाकारमेकैकं तयोर्मध्ये महागिरिः । २०.८०/२दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ २०.८०॥ २०.८१/१निरामया विशोकाश्च रागद्वेषविवर्जिताः । २०.८१/२अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विजाः ॥ २०.८१॥ २०.८२/१नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च । २०.८२/२महावीतं बहिर्वर्षं धातकीखण्डमन्ततः ॥ २०.८२॥ २०.८३/१मानसोत्तरशैलस्य देवदैत्यादिसेवितम् । २०.८३/२सत्यानृते न तत्रास्तां द्वीपे पुष्करसञ्ज्ञिते ॥ २०.८३॥ २०.८४/१न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते । २०.८४/२तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ २०.८४॥ २०.८५/१वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् । २०.८५/२त्रयीवार्त्तादण्डनीति+ ।शुश्रूषारहितं च तत् ॥ २०.८५॥ २०.८६/१वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयमुत्तमः । २०.८६/२सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ २०.८६॥ २०.८७/१पुष्करे धातकीखण्डे महावीते च वै द्विजाः । २०.८७/२न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ २०.८७॥ २०.८८/१तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः । २०.८८/२स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ २०.८८॥ २०.८९/१समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा । २०.८९/२एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥ २०.८९॥ २०.९०/१द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ । २०.९०/२पयांसि सर्वदा सर्व+ ।समुद्रेषु समानि वै ॥ २०.९०॥ २०.९१/१न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते । २०.९१/२स्थालीस्थमग्निसंयोगाद् उद्रेकि सलिलं यथा ॥ २०.९१॥ २०.९२/१तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः । २०.९२/२अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ॥ २०.९२॥ २०.९३/१उदयास्तमने त्विन्दोः पक्षयोः शुक्लकृष्णयोः । २०.९३/२दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ २०.९३॥ २०.९४/१अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः । २०.९४/२भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥ २०.९४॥ २०.९५/१भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि । २०.९५/२स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ २०.९५॥ २०.९६/१द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । २०.९६/२लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ २०.९६॥ २०.९७/१उच्छ्रयेणापि तावन्ति सहस्राण्यावलोहि सः । २०.९७/२ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ २०.९७॥ २०.९८/१तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् । २०.९८/२पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ॥ २०.९८॥ २०.९९/१सहैवाण्डकटाहेन सद्वीपा समहीधरा । २०.९९/२सेयं धात्री विधात्री च सर्वभूतगुणाधिका । २०.९९/३आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ २०.९९॥ २१.१/१लोमहर्षण उवाच । विस्तार एष कथितः पृथिव्या मुनिसत्तमाः । २१.१/२सप्ततिस्तु सहस्राणि तदुच्छ्रायोऽपि कथ्यते ॥ २१.१॥ २१.२/१दशसाहस्रमेकैकं पातालं मुनिसत्तमाः । २१.२/२अतलं वितलं चैव नितलं सुतलं तथा ॥ २१.२॥ २१.३/१तलातलं रसातलं पातालं चापि सप्तमम् । २१.३/२कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ २१.३॥ २१.४/१भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः । २१.४/२तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ २१.४॥ २१.५/१नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः । २१.५/२स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः ॥ २१.५॥ २१.६/१प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् । २१.६/२आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ २१.६॥ २१.७/१नागाभरणभूषाश्च पातालं केन तत्समम् । २१.७/२दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ २१.७॥ २१.८/१पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते । २१.८/२दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ २१.८॥ २१.९/१शशिनश्च न शीताय निशि द्योताय केवलम् । २१.९/२भक्ष्यभोज्यमहापान+ ंअदमत्तैश्च भोगिभिः ॥ २१.९॥ २१.१०/१यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः । २१.१०/२वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ २१.१०॥ २१.११/१पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च । २१.११/२भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ २१.११॥ २१.१२/१वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः । २१.१२/२एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ २१.१२॥ २१.१३/१दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः । २१.१३/२पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ २१.१३॥ २१.१४/१शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः । २१.१४/२योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ २१.१४॥ २१.१५/१सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । २१.१५/२फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥ २१.१५॥ २१.१६/१सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान् । २१.१६/२मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः ॥ २१.१६॥ २१.१७/१किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः । २१.१७/२नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ २१.१७॥ २१.१८/१साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः । २१.१८/२लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलमुत्तमम् ॥ २१.१८॥ २१.१९/१उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया । २१.१९/२कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ २१.१९॥ २१.२०/१सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् । २१.२०/२स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ २१.२०॥ २१.२१/१आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः । २१.२१/२तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ २१.२१॥ २१.२२/१नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि । २१.२२/२यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २१.२२॥ २१.२३/१आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । २१.२३/२यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ॥ २१.२३॥ २१.२४/१तदा चलति भूरेषा साद्रितोयाधिकानना । २१.२४/२गन्धर्वाप्सरसः सिद्धाः किंनरोरगवारणाः ॥ २१.२४॥ २१.२५/१नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः । २१.२५/२यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ २१.२५॥ २१.२६/१मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् । २१.२६/२यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ २१.२६॥ २१.२७/१ज्ञातवान् सकलं चैव निमित्तपठितं फलम् । २१.२७/२तेनेयं नागवर्येण शिरसा विधृता मही । २१.२७/३बिभर्ति सकलांल्लोकान् सदेवासुरमानुषान् ॥ २१.२७॥ २२.१/१लोमहर्षण उवाच । ततश्चानन्तरं विप्रा नरका रौरवादयः । २२.१/२पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः ॥ २२.१॥ २२.२/१रौरवः शौकरो रोधस्तानो विशसनस्तथा । २२.२/२महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ २२.२॥ २२.३/१रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः । २२.३/२असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २२.३॥ २२.४/१तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः । २२.४/२सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ २२.४॥ २२.५/१श्वभोजनोऽथाप्रतिष्ठोम+ ।आवीचिश्च तथापरः । २२.५/२इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २२.५॥ २२.६/१यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः । २२.६/२पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ २२.६॥ २२.७/१कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् । २२.७/२यश्चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥ २२.७॥ २२.८/१भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः । २२.८/२यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ २२.८॥ २२.९/१सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे । २२.९/२प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ २२.९॥ २२.१०/१राजन्यवैश्यहा चैव तथैव गुरुतल्पगः । २२.१०/२तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ २२.१०॥ २२.११/१माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी । २२.११/२तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ २२.११॥ २२.१२/१सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते । २२.१२/२अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २२.१२॥ २२.१३/१वेददूषयिता यश्च वेदविक्रयकश्च यः । २२.१३/२अगम्यगामी यश्च स्यात् ते यान्ति शबलं द्विजाः ॥ २२.१३॥ २२.१४/१चौरो विमोहे पतति मर्यादादूषकस्तथा । २२.१४/२देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ २२.१४॥ २२.१५/१स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् । २२.१५/२पितृदेवातिथीन् यस्तु पर्यश्नाति नराधमः ॥ २२.१५॥ २२.१६/१लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके । २२.१६/२करोति कर्णिनो यश्च यश्च खड्गादिकृन् नरः ॥ २२.१६॥ २२.१७/१प्रयान्त्येते विशसने नरके भृशदारुणे । २२.१७/२असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ २२.१७॥ २२.१८/१अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । २२.१८/२कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा ॥ २२.१८॥ २२.१९/१लाक्षामांसरसानां च तिलानां लवणस्य च । २२.१९/२विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ २२.१९॥ २२.२०/१मार्जारकुक्कुटच्छाग+ ।श्ववराहविहङ्गमान् । २२.२०/२पोषयन् नरकं याति तमेव द्विजसत्तमाः ॥ २२.२०॥ २२.२१/१रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । २२.२१/२सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ २२.२१॥ २२.२२/१अगारदाही मित्रघ्नः शकुनिग्रामयाजकः । २२.२२/२रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २२.२२॥ २२.२३/१मधुहा ग्रामहन्ता च याति वैतरणीं नरः । २२.२३/२रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ २२.२३॥ २२.२४/१ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये । २२.२४/२असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २२.२४॥ २२.२५/१औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै । २२.२५/२यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ २२.२५॥ २२.२६/१व्रतोपलोपको यश्च स्वाश्रमाद् विच्युतश्च यः । २२.२६/२सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २२.२६॥ २२.२७/१दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः । २२.२७/२पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २२.२७॥ २२.२८/१एते चान्ये च नरकाः शतशोऽथ सहस्रशः । २२.२८/२येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२.२८॥ २२.२९/१तथैव पापान्येतानि तथान्यानि सहस्रशः । २२.२९/२भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ २२.२९॥ २२.३०/१वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । २२.३०/२कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २२.३०॥ २२.३१/१अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । २२.३१/२देवाश्चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान् ॥ २२.३१॥ २२.३२/१स्थावराः कृमयोऽज्वाश्च पक्षिणः पशवो नराः । २२.३२/२धार्मिकास्त्रिदशास्तद्वन् मोक्षिणश्च यथाक्रमम् ॥ २२.३२॥ २२.३३/१सहस्रभागः प्रथमाद् द्वितीयोऽनुक्रमात् तथा । २२.३३/२सर्वे ह्येते महाभागा यावन् मुक्तिसमाश्रयाः ॥ २२.३३॥ २२.३४/१यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । २२.३४/२पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २२.३४॥ २२.३५/१पापानामनुरूपाणि प्रायश्चित्तानि यद् यथा । २२.३५/२तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २२.३५॥ २२.३६/१पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । २२.३६/२प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ २२.३६॥ २२.३७/१प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । २२.३७/२यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ २२.३७॥ २२.३८/१कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । २२.३८/२प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २२.३८॥ २२.३९/१प्रातर्निशि तथा सन्ध्या+ ंअध्याह्नादिषु संस्मरन् । २२.३९/२नारायणमवाप्नोति सद्यः पापक्षयान् नरः ॥ २२.३९॥ २२.४०/१विष्णुसंस्मरणात् क्षीण+ ।समस्तक्लेशसञ्चयः । २२.४०/२मुक्तिं प्रयाति भो विप्रा विष्णोस्तस्यानुकीर्तनात् ॥ २२.४०॥ २२.४१/१वासुदेवे मनो यस्य जपहोमार्चनादिषु । २२.४१/२तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ २२.४१॥ २२.४२/१क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । २२.४२/२क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २२.४२॥ २२.४३/१तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः । २२.४३/२न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः ॥ २२.४३॥ २२.४४/१मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । २२.४४/२नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ २२.४४॥ २२.४५/१वस्त्वेकमेव दुःखाय सुखायेर्ष्योदयाय च । २२.४५/२कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ॥ २२.४५॥ २२.४६/१तद् एव प्रीतये भूत्वा पुनर्दुःखाय जायते । २२.४६/२तद् एव कोपालयतः प्रसादाय च जायते ॥ २२.४६॥ २२.४७/१तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् । २२.४७/२मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥ २२.४७॥ २२.४८/१ज्ञानमेव परं ब्रह्मा+ ।ज्ञानं बन्धाय चेष्यते । २२.४८/२ज्ञानात्मकमिदं विश्वं न ज्ञानाद् विद्यते परम् ॥ २२.४८॥ २२.४९/१विद्याविद्ये हि भो विप्रा ज्ञानमेवावधार्यताम् । २२.४९/२एवमेतद् मयाख्यातं भवतां मण्डलं भुवः ॥ २२.४९॥ २२.५०/१पातालानि च सर्वाणि तथैव नरका द्विजाः । २२.५०/२समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । २२.५०/३सङ्क्षेपात् सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २२.५०॥ २३.१/१मुनय ऊचुः । कथितं भवता सर्वमस्माकं सकलं तथा । २३.१/२भुवर्लोकादिकांल्लोकाञ् श्रोतुमिच्छामहे वयम् ॥ २३.१॥ २३.२/१तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । २३.२/२समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ २३.२॥ २३.३/१लोमहर्षण उवाच । रविचन्द्रमसोर्यावन् मयूखैरवभास्यते । २३.३/२ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २३.३॥ २३.४/१यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला । २३.४/२नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २३.४॥ २३.५/१भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् । २३.५/२लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ २३.५॥ २३.६/१पूर्णे शतसहस्रे तु योजनानां निशाकरात् । २३.६/२नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते ॥ २३.६॥ २३.७/१द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् । २३.७/२तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ २३.७॥ २३.८/१अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । २३.८/२लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ २३.८॥ २३.९/१सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः । २३.९/२सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ २३.९॥ २३.१०/१ऋषिभ्यस्तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः । २३.१०/२मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २३.१०॥ २३.११/१त्रैलोक्यमेतत् कथितं सङ्क्षेपेण द्विजोत्तमाः । २३.११/२इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २३.११॥ २३.१२/१ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः । २३.१२/२एकयोजनकोटी तु महर्लोको विधीयते ॥ २३.१२॥ २३.१३/१द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । २३.१३/२सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ २३.१३॥ २३.१४/१चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् । २३.१४/२वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ २३.१४॥ २३.१५/१षड्गुणेन तपोलोकात् सत्यलोको विराजते । २३.१५/२अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ २३.१५॥ २३.१६/१पादगम्यं तु यत् किञ्चिद् वस्त्वस्ति पृथिवीमयम् । २३.१६/२स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥ २३.१६॥ २३.१७/१भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् । २३.१७/२भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥ २३.१७॥ २३.१८/१ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश । २३.१८/२स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः ॥ २३.१८॥ २३.१९/१त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते । २३.१९/२जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २३.१९॥ २३.२०/१कृतकाकृतको मध्ये महर्लोक इति स्मृतः । २३.२०/२शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति ॥ २३.२०॥ २३.२१/१एते सप्त महालोका मया वः कथिता द्विजाः । २३.२१/२पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २३.२१॥ २३.२२/१एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वमधस्तथा । २३.२२/२कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २३.२२॥ २३.२३/१दशोत्तरेण पयसा द्विजाश्चाण्डं च तद् वृतम् । २३.२३/२स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः ॥ २३.२३॥ २३.२४/१वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः । २३.२४/२आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २३.२४॥ २३.२५/१दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै । २३.२५/२महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २३.२५॥ २३.२६/१अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते । २३.२६/२तद् अनन्तमसङ्ख्यातं प्रमाणेनापि वै यतः ॥ २३.२६॥ २३.२७/१हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः । २३.२७/२अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २३.२७॥ २३.२८/१ईदृशानां तथा तत्र कोटिकोटिशतानि च । २३.२८/२दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमान् इह ॥ २३.२८॥ २३.२९/१प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः । २३.२९/२प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ २३.२९॥ २३.३०/१विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ । २३.३०/२तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३०॥ २३.३१/१क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः । २३.३१/२यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ २३.३१॥ २३.३२/१जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् । २३.३२/२यथा च पादपो मूल+ ।स्कन्धशाखादिसंयुतः ॥ २३.३२॥ २३.३३/१आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः । २३.३३/२प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥ २३.३३॥ २३.३४/१तेऽपि तल्लक्षणद्रव्य+ ।कारणानुगता द्विजाः । २३.३४/२एवमव्याकृतात् पूर्वं जायन्ते महदादयः ॥ २३.३४॥ २३.३५/१विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः । २३.३५/२तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥ २३.३५॥ २३.३६/१बीजाद् वृक्षप्ररोहेण यथा नापचयस्तरोः । २३.३६/२भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ २३.३६॥ २३.३७/१संनिधानाद् यथाकाश+ ।कालाद्याः कारणं तरोः । २३.३७/२तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ २३.३७॥ २३.३८/१व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा । २३.३८/२काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः ॥ २३.३८॥ २३.३९/१तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । २३.३९/२प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥ २३.३९॥ २३.४०/१तथा कर्मस्वनेकेषु देवाद्यास्तनवः स्थिताः । २३.४०/२विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ २३.४०॥ २३.४१/१स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । २३.४१/२जगच्च यो यत्र चेदं यस्मिन् विलयमेष्यति ॥ २३.४१॥ २३.४२/१तद् ब्रह्म परमं धाम सदसत् परमं पदम् । २३.४२/२यस्य सर्वमभेदेन जगद् एतच्चराचरम् ॥ २३.४२॥ २३.४३/१स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । २३.४३/२तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति ॥ २३.४३॥ २३.४४/१कर्ता क्रियाणां स च इज्यते क्रतुः । २३.४४/२स एव तत्कर्मफलं च तस्य यत् । २३.४४/३युगादि यस्माच्च भवेद् अशेषतो । २३.४४/४हरेर्न किञ्चिद् व्यतिरिक्तमस्ति तत् ॥ २३.४४॥ २४.१/१लोमहर्षण उवाच । तारामयं भगवतः शिशुमाराकृति प्रभोः । २४.१/२दिवि रूपं हरेर्यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१॥ २४.२/१सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । २४.२/२भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २४.२॥ २४.३/१सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । २४.३/२वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २४.३॥ २४.४/१शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि । २४.४/२नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ २४.४॥ २४.५/१उत्तानपादतनयस्तमाराध्य प्रजापतिम् । २४.५/२स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २४.५॥ २४.६/१आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । २४.६/२ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ २४.६॥ २४.७/१तद् आधारं जगच्चेदं सदेवासुरमानुषम् । २४.७/२येन विप्रा विधानेन तन् मे शृणुत साम्प्रतम् ॥ २४.७॥ २४.८/१विवस्वान् अष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः । २४.८/२वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ २४.८॥ २४.९/१विवस्वान् अंशुभिस्तीक्ष्णैरादाय जगतो जलम् । २४.९/२सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ २४.९॥ २४.१०/१जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु । २४.१०/२न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ २४.१०॥ २४.११/१अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । २४.११/२संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ २४.११॥ २४.१२/१सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः । २४.१२/२चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः ॥ २४.१२॥ २४.१३/१आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् । २४.१३/२अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २४.१३॥ २४.१४/१तस्य संस्पर्शनिर्धूत+ ।पापपङ्को द्विजोत्तमाः । २४.१४/२न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥ २४.१४॥ २४.१५/१दृष्टसूर्यं हि तद् वारि पतत्यभ्रैर्विना दिवः । २४.१५/२आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥ २४.१५॥ २४.१६/१कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद् दिवः । २४.१६/२दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम् ॥ २४.१६॥ २४.१७/१युग्मर्क्षेषु तु यत् तोयं पतत्यर्कोद्गितं दिवः । २४.१७/२तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ २४.१७॥ २४.१८/१उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः । २४.१८/२आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ २४.१८॥ २४.१९/१यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः । २४.१९/२पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ २४.१९॥ २४.२०/१तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । २४.२०/२साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २४.२०॥ २४.२१/१तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः । २४.२१/२कुर्वतेऽहरहश्चैव देवान् आप्याययन्ति ते ॥ २४.२१॥ २४.२२/१एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । २४.२२/२सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ २४.२२॥ २४.२३/१वृष्ट्या धृतमिदं सर्वं जगत् स्थावरजङ्गमम् । २४.२३/२सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २४.२३॥ २४.२४/१आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः । २४.२४/२ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः ॥ २४.२४॥ २४.२५/१हृदि नारायणस्तस्य शिशुमारस्य संस्थितः । २४.२५/२विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४.२५॥ २४.२६/१एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् । २४.२६/२भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ २४.२६॥ २५.१/१मुनय ऊचुः । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । २५.१/२वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ २५.१॥ २५.२/१लोमहर्षण उवाच । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । २५.२/२विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २५.२॥ २५.३/१मनो विशुद्धं पुरुषस्य तीर्थम् । २५.३/२वाचां तथा चेन्द्रियनिग्रहश्च । २५.३/३एतानि तीर्थानि शरीरजानि । २५.३/४स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ २५.३॥ २५.४/१चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । २५.४/२शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ २५.४॥ २५.५/१न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । २५.५/२दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ २५.५॥ २५.६/१इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः । २५.६/२तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ २५.६॥ २५.७/१तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च । २५.७/२सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ २५.७॥ २५.८/१विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि । २५.८/२प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ २५.८॥ २५.९/१प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । २५.९/२धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ २५.९॥ २५.१०/१पुण्यं च मगधारण्यं दण्डकारण्यमेव च । २५.१०/२गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ २५.१०॥ २५.११/१भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । २५.११/२लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ २५.११॥ २५.१२/१महाबलं कोटितीर्थं सर्वपापहरं तथा । २५.१२/२रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ २५.१२॥ २५.१३/१योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । २५.१३/२तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ २५.१३॥ २५.१४/१सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । २५.१४/२कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ २५.१४॥ २५.१५/१धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । २५.१५/२गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ २५.१५॥ २५.१६/१चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । २५.१६/२दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ २५.१६॥ २५.१७/१तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । २५.१७/२ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ २५.१७॥ २५.१८/१चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशधारकम् । २५.१८/२मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी ॥ २५.१८॥ २५.१९/१लोकपालं मनुवरं सोमाह्वशैलमेव च । २५.१९/२सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ २५.१९॥ २५.२०/१महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । २५.२०/२सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २५.२०॥ २५.२१/१शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् । २५.२१/२बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २५.२१॥ २५.२२/१शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । २५.२२/२अग्निप्रभं च पुंनागं देवप्रभमनुत्तमम् ॥ २५.२२॥ २५.२३/१विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । २५.२३/२सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २५.२३॥ २५.२४/१तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । २५.२४/२मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २५.२४॥ २५.२५/१स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । २५.२५/२कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५.२५॥ २५.२६/१गभस्तितीर्थं च तथा ययातिपतनं शुचि । २५.२६/२कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २५.२६॥ २५.२७/१नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् । २५.२७/२पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम् ॥ २५.२७॥ २५.२८/१तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । २५.२८/२ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २५.२८॥ २५.२९/१शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च । २५.२९/२पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २५.२९॥ २५.३०/१मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । २५.३०/२यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ २५.३०॥ २५.३१/१पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । २५.३१/२दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ २५.३१॥ २५.३२/१गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च । २५.३२/२वस्त्रापदं दारुवलं छायारोहणमेव च ॥ २५.३२॥ २५.३३/१सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च । २५.३३/२वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ २५.३३॥ २५.३४/१द्वीपं सारस्वतं चैव विजयं कामदं तथा । २५.३४/२रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ २५.३४॥ २५.३५/१स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । २५.३५/२सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ २५.३५॥ २५.३६/१दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । २५.३६/२कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ २५.३६॥ २५.३७/१पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । २५.३७/२बदरीवनमासीनं रत्नमूलकमेव च ॥ २५.३७॥ २५.३८/१लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च । २५.३८/२सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥ २५.३८॥ २५.३९/१तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । २५.३९/२कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ २५.३९॥ २५.४०/१स्नानलोमापहं चैव माससंसरकं तथा । २५.४०/२दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ॥ २५.४०॥ २५.४१/१सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । २५.४१/२ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा ॥ २५.४१॥ २५.४२/१कारण्डवं चावेध्यं च त्रिविष्टपमथापरम् । २५.४२/२पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ २५.४२॥ २५.४३/१कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । २५.४३/२दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ २५.४३॥ २५.४४/१अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । २५.४४/२श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ २५.४४॥ २५.४५/१ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । २५.४५/२ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ २५.४५॥ २५.४६/१सौगन्धिकवनं चैव मणितीर्थं सरस्वती । २५.४६/२ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ २५.४६॥ २५.४७/१त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । २५.४७/२शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ २५.४७॥ २५.४८/१क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । २५.४८/२ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ॥ २५.४८॥ २५.४९/१कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च । २५.४९/२स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥ २५.४९॥ २५.५०/१रुद्रावर्तं सुगन्धाश्वं कपिलावनमेव च । २५.५०/२भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ २५.५०॥ २५.५१/१सप्तसारस्वतं चैव तीर्थमौशनसं तथा । २५.५१/२कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ २५.५१॥ २५.५२/१चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । २५.५२/२रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥ २५.५२॥ २५.५३/१स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् । २५.५३/२विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ २५.५३॥ २५.५४/१गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । २५.५४/२इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥ २५.५४॥ २५.५५/१सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । २५.५५/२कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ २५.५५॥ २५.५६/१अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । २५.५६/२अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ २५.५६॥ २५.५७/१वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् । २५.५७/२उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा ॥ २५.५७॥ २५.५८/१महाश्रमो वैतसिका+ ।रूपं सुन्दरिकाश्रमम् । २५.५८/२बाहुतीर्थं चारुनदीं विमलाशोकमेव च ॥ २५.५८॥ २५.५९/१तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । २५.५९/२सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ २५.५९॥ २५.६०/१सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च । २५.६०/२अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ २५.६०॥ २५.६१/१पिशाचमोचनं चैव सुभद्राह्रदमेव च । २५.६१/२कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ २५.६१॥ २५.६२/१ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । २५.६२/२जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ २५.६२॥ २५.६३/१अजामुखसरं चैव घण्टाकर्णह्रदं तथा । २५.६३/२पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ २५.६३॥ २५.६४/१सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । २५.६४/२कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रिका ॥ २५.६४॥ २५.६५/१श्मशानस्तम्भकूपं च विनायकह्रदं तथा । २५.६५/२कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ २५.६५॥ २५.६६/१रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । २५.६६/२भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ २५.६६॥ २५.६७/१ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । २५.६७/२शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ २५.६७॥ २५.६८/१दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । २५.६८/२दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ २५.६८॥ २५.६९/१कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च । २५.६९/२प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ २५.६९॥ २५.७०/१धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च । २५.७०/२पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ २५.७०॥ २५.७१/१ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । २५.७१/२कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ २५.७१॥ २५.७२/१विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च । २५.७२/२निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ॥ २५.७२॥ २५.७३/१देवकूटं च कूपं च वसिष्ठाश्रममेव च । २५.७३/२वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ २५.७३॥ २५.७४/१कुमारधारा श्रीधारा गौरीशिखरमेव च । २५.७४/२शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च ॥ २५.७४॥ २५.७५/१कुमारवासं श्रीवासमौर्वीशीतार्थमेव च । २५.७५/२कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ॥ २५.७५॥ २५.७६/१धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा । २५.७६/२सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ २५.७६॥ २५.७७/१शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् । २५.७७/२पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ २५.७७॥ २५.७८/१रामतीर्थं पितृवनं विरजातीर्थमेव च । २५.७८/२मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ २५.७८॥ २५.७९/१रोहिणीकूपप्रवरमिन्द्रद्युम्नसरं च यत् । २५.७९/२सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ २५.७९॥ २५.८०/१इषुतीर्थं वार्षभं च कावेरीह्रदमेव च । २५.८०/२कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ॥ २५.८०॥ २५.८१/१बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् । २५.८१/२जातीह्रदं देवकूपं कुशप्रवणमेव च ॥ २५.८१॥ २५.८२/१सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । २५.८२/२तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम् ॥ २५.८२॥ २५.८३/१तथान्यच्च महर्षीणामखण्डितह्रदं तथा । २५.८३/२तीर्थेष्वेतेषु विधिवत् सम्यक् श्रद्धासमन्वितः ॥ २५.८३॥ २५.८४/१स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । २५.८४/२देवान् ऋषीन् मनुष्यांश्च पितृन् सन्तर्प्य च क्रमात् ॥ २५.८४॥ २५.८५/१अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम् । २५.८५/२पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ २५.८५॥ २५.८६/१प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः । २५.८६/२यस्त्विदं शृणुयान् नित्यं तीर्थमाहात्म्यमुत्तमम् । २५.८६/३पठेच्च श्रावयेद् वापि सर्वपापैः प्रमुच्यते ॥ २५.८६॥ २६.१/१मुनय ऊचुः । पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् । २६.१/२तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१॥ २६.२/१लोमहर्षण उवाच । इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा । २६.२/२तमहं सम्प्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः ॥ २६.२॥ २६.३/१स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते । २६.३/२नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ २६.३॥ २६.४/१पुंनागैः कर्णिकारैश्च सरलैर्देवदारुभिः । २६.४/२शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ २६.४॥ २६.५/१पाटलाशोकबकुलैः करवीरैः सचम्पकैः । २६.५/२अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ २६.५॥ २६.६/१कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् । २६.६/२महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ २६.६॥ २६.७/१अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् । २६.७/२पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ २६.७॥ २६.८/१पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् । २६.८/२द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ २६.८॥ २६.९/१कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतमः । २६.९/२वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः ॥ २६.९॥ २६.१०/१विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः । २६.१०/२सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ २६.१०॥ २६.११/१माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा । २६.११/२मौद्गल्यस्तृणयज्ञश्च पिप्पलादोऽकृतव्रणः ॥ २६.११॥ २६.१२/१संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा । २६.१२/२शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ २६.१२॥ २६.१३/१नारदः पर्वतश्चैव वैशम्पायनगालवौ । २६.१३/२भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ २६.१३॥ २६.१४/१उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः । २६.१४/२सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ २६.१४॥ २६.१५/१एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः । २६.१५/२रराज स मुनिः श्रीमान् नक्षत्रैरिव चन्द्रमाः ॥ २६.१५॥ २६.१६/१तान् आगतान् मुनीन् सर्वान् पूजयामास वेदवित् । २६.१६/२तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ २६.१६॥ २६.१७/१कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् । २६.१७/२पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ २६.१७॥ २६.१८/१मुनय ऊचुः । मुने वेदांश्च शास्त्राणि पुराणागमभारतम् । २६.१८/२भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ २६.१८॥ २६.१९/१कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे । २६.१९/२रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ २६.१९॥ २६.२०/१इन्द्रियावर्तकलिले दृष्टोर्मिशतसङ्कुले । २६.२०/२मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २६.२०॥ २६.२१/१निमज्जज्जगद् आलोक्य निरालम्बमचेतनम् । २६.२१/२पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २६.२१॥ २६.२२/१श्रेयः किमत्र संसारे भैरवे लोमहर्षणे । २६.२२/२उपदेशप्रदानेन लोकान् उद्धर्तुमर्हसि ॥ २६.२२॥ २६.२३/१दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् । २६.२३/२पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ २६.२३॥ २६.२४/१कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् । २६.२४/२प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २६.२४॥ २६.२५/१मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः । २६.२५/२तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टोऽसि द्विजोत्तम ॥ २६.२५॥ २६.२६/१श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् । २६.२६/२व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित् ॥ २६.२६॥ २६.२७/१व्यास उवाच । शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ । २६.२७/२यः संवादोऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह ॥ २६.२७॥ २६.२८/१मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते । २६.२८/२नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २६.२८॥ २६.२९/१नानापक्षिरुते रम्ये नानाप्रसवनाकुले । २६.२९/२नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २६.२९॥ २६.३०/१नानावर्णशिलाकीर्णे नानाधातुविभूषिते । २६.३०/२नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ २६.३०॥ २६.३१/१तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् । २६.३१/२जगत्पतिं जगद्वन्द्यं जगदाधारमीश्वरम् ॥ २६.३१॥ २६.३२/१देवदानवगन्धर्वैर्यक्षविद्याधरोरगैः । २६.३२/२मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥ २६.३२॥ २६.३३/१केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः । २६.३३/२केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे ॥ २६.३३॥ २६.३४/१एवं प्रमुदिते काले सर्वभूतसमागमे । २६.३४/२नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ २६.३४॥ २६.३५/१भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् । २६.३५/२इममर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः ॥ २६.३५॥ २६.३६/१ऋषय ऊचुः । भगवञ् श्रोतुमिच्छामः कर्मभूमिं महीतले । २६.३६/२वक्तुमर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ २६.३६॥ २६.३७/१व्यास उवाच । तेषां वचनमाकर्ण्य प्राह ब्रह्मा सुरेश्वरः । २६.३७/२पप्रच्छुस्ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः ॥ २६.३७॥ २७.१/१ब्रह्मोवाच । शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् । २७.१/२पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१॥ २७.२/१पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । २७.२/२कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २७.२॥ २७.३/१तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । २७.३/२अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ २७.३॥ २७.४/१ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः । २७.४/२प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः ॥ २७.४॥ २७.५/१धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः । २७.५/२प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः ॥ २७.५॥ २७.६/१इन्द्राद्याश्च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः । २७.६/२कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ २७.६॥ २७.७/१अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । २७.७/२तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ २७.७॥ २७.८/१ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः । २७.८/२तेऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः ॥ २७.८॥ २७.९/१निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । २७.९/२स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम् ॥ २७.९॥ २७.१०/१मुनय ऊचुः । यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । २७.१०/२पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ २७.१०॥ २७.११/१ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । २७.११/२न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ २७.११॥ २७.१२/१तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद । २७.१२/२यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च ॥ २७.१२॥ २७.१३/१तस्माद् वर्षमिदं नाथ ये वास्मिन् वर्षपर्वताः । २७.१३/२भेदाश्च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः ॥ २७.१३॥ २७.१४/१ब्रह्मोवाच । शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । २७.१४/२समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ २७.१४॥ २७.१५/१इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । २७.१५/२नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ २७.१५॥ २७.१६/१अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । २७.१६/२योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः ॥ २७.१६॥ २७.१७/१पूर्वे किराता यस्यासन् पश्चिमे यवनास्तथा । २७.१७/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ २७.१७॥ २७.१८/१इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः । २७.१८/२तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ २७.१८॥ २७.१९/१स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । २७.१९/२महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ॥ २७.१९॥ २७.२०/१विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । २७.२०/२तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २७.२०॥ २७.२१/१विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । २७.२१/२कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २७.२१॥ २७.२२/१वातन्धयो वैद्युतश्च मैनाकः सुरसस्तथा । २७.२२/२तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ २७.२२॥ २७.२३/१पुष्पगिरिर्वैजयन्तो रैवतोऽर्बुद एव च । २७.२३/२ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २७.२३॥ २७.२४/१श्रीपार्वतश्चकोरश्च शतशोऽन्ये च पर्वताः । २७.२४/२तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २७.२४॥ २७.२५/१तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । २७.२५/२गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ २७.२५॥ २७.२६/१यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । २७.२६/२गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २७.२६॥ २७.२७/१विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । २७.२७/२कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७.२७॥ २७.२८/१देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । २७.२८/२वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २७.२८॥ २७.२९/१चर्मण्वती वृषी चैव विदिशा वेदवत्यपि । २७.२९/२सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २७.२९॥ २७.३०/१शोणा महानदी चैव नर्मदा सुरथा क्रिया । २७.३०/२मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ २७.३०॥ २७.३१/१चित्रोत्पला वेत्रवती करमोदा पिशाचिका । २७.३१/२तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ २७.३१॥ २७.३२/१सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । २७.३२/२ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ २७.३२॥ २७.३३/१सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा । २७.३३/२वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ २७.३३॥ २७.३४/१तोया चैव महागौरी दुर्गा चान्तःशिला तथा । २७.३४/२विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ २७.३४॥ २७.३५/१गोदावरी भीमरथी कृष्णवेणा तथापगा । २७.३५/२तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ २७.३५॥ २७.३६/१सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः । २७.३६/२कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ २७.३६॥ २७.३७/१मलयाद्रिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । २७.३७/२पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ २७.३७॥ २७.३८/१लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । २७.३८/२सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ २७.३८॥ २७.३९/१क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः । २७.३९/२सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ २७.३९॥ २७.४०/१विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । २७.४०/२अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ २७.४०॥ २७.४१/१प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः । २७.४१/२मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥ २७.४१॥ २७.४२/१अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह । २७.४२/२मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ २७.४२॥ २७.४३/१सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । २७.४३/२पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ २७.४३॥ २७.४४/१गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । २७.४४/२वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ २७.४४॥ २७.४५/१अपरान्ताश्च शूद्राश्च वाह्लिकाश्च सकेरलाः । २७.४५/२गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ २७.४५॥ २७.४६/१शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः । २७.४६/२माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ २७.४६॥ २७.४७/१क्षत्रियोपमदेशाश्च वैश्यशूद्रकुलानि च । २७.४७/२काम्बोजाश्चैव विप्रेन्द्रा बर्बराश्च सलौकिकाः ॥ २७.४७॥ २७.४८/१वीराश्चैव तुषाराश्च पह्लवाधायता नराः । २७.४८/२आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ २७.४८॥ २७.४९/१लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । २७.४९/२औषध्यश्चलचन्द्रा च किरातानां च जातयः ॥ २७.४९॥ २७.५०/१तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । २७.५०/२शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ २७.५०॥ २७.५१/१एते देशा उदीच्यास्तु प्राच्यान् देशान् निबोधत । २७.५१/२अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ २७.५१॥ २७.५२/१तथापरेऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः । २७.५२/२भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ २७.५२॥ २७.५३/१प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । २७.५३/२मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ २७.५३॥ २७.५४/१अथापरे जनपदा दक्षिणापथवासिनः । २७.५४/२पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ २७.५४॥ २७.५५/१ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । २७.५५/२महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ २७.५५॥ २७.५६/१आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । २७.५६/२पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ २७.५६॥ २७.५७/१पौलिका मौलिकाश्चैव अश्मका भोजवर्धनाः । २७.५७/२कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ २७.५७॥ २७.५८/१दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोधत । २७.५८/२शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ २७.५८॥ २७.५९/१इत्येते ह्यपरान्ताश्च शृणुध्वं विन्ध्यवासिनः । २७.५९/२मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥ २७.५९॥ २७.६०/१उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । २७.६०/२तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ २७.६०॥ २७.६१/१तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । २७.६१/२अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ २७.६१॥ २७.६२/१एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । २७.६२/२अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ २७.६२॥ २७.६३/१नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । २७.६३/२कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥ २७.६३॥ २७.६४/१चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । २७.६४/२कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ २७.६४॥ २७.६५/१एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् । २७.६५/२दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ २७.६५॥ २७.६६/१हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः । २७.६६/२तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ २७.६६॥ २७.६७/१ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । २७.६७/२मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥ २७.६७॥ २७.६८/१स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः । २७.६८/२प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ २७.६८॥ २७.६९/१देवानामपि भो विप्राः सदैवैष मनोरथः । २७.६९/२अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ॥ २७.६९॥ २७.७०/१मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः । २७.७०/२तत्कर्मनिगडग्रस्तैस्तत्कर्मक्षपणोन्मुखैः ॥ २७.७०॥ २७.७१/१न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । २७.७१/२यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥ २७.७१॥ २७.७२/१धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । २७.७२/२धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ २७.७२॥ २७.७३/१प्राप्यते यत्र तपसः फलं परमदुर्लभम् । २७.७३/२सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ २७.७३॥ २७.७४/१तीर्थयात्राफलं चैव गुरुसेवाफलं तथा । २७.७४/२देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ २७.७४॥ २७.७५/१यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । २७.७५/२नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ २७.७५॥ २७.७६/१अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम् । २७.७६/२ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम् ॥ २७.७६॥ २७.७७/१यत् फलं वनवासेन संन्यासेन च यत् फलम् । २७.७७/२इष्टापूर्तफलं चैव तथान्यच्छुभकर्मणाम् ॥ २७.७७॥ २७.७८/१प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । २७.७८/२कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः ॥ २७.७८॥ २७.७९/१एवं सम्यङ् मया प्रोक्तं भारतं वर्षमुत्तमम् । २७.७९/२सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ २७.७९॥ २७.८०/१य इदं शृणुयान् नित्यं पठेद् वा नियतेन्द्रियः । २७.८०/२सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २७.८०॥ २८.१/१ब्रह्मोवाच । तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । २८.१/२ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१॥ २८.२/१समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् । २८.२/२देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः ॥ २८.२॥ २८.३/१तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः । २८.३/२तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ २८.३॥ २८.४/१श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि । २८.४/२प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ २८.४॥ २८.५/१षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः । २८.५/२इतिहासविदश्चैव पुराणार्थविशारदाः ॥ २८.५॥ २८.६/१सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः । २८.६/२अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः ॥ २८.६॥ २८.७/१पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः । २८.७/२निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ २८.७॥ २८.८/१इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः । २८.८/२स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ २८.८॥ २८.९/१कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः । २८.९/२यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ २८.९॥ २८.१०/१मुनय ऊचुः । श्रोतुमिच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् । २८.१०/२तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ २८.१०॥ २८.११/१ब्रह्मोवाच । लवणस्योदधेस्तीरे पवित्रे सुमनोहरे । २८.११/२सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ २८.११॥ २८.१२/१चम्पकाशोकबकुलैः करवीरैः सपाटलैः । २८.१२/२पुंनागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ २८.१२॥ २८.१३/१तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः । २८.१३/२मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ २८.१३॥ २८.१४/१केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः । २८.१४/२कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ २८.१४॥ २८.१५/१सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः । २८.१५/२अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ २८.१५॥ २८.१६/१तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः । २८.१६/२अन्यैश्च विविधैर्वृक्षैः सर्वतः समलङ्कृतम् ॥ २८.१६॥ २८.१७/१क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् । २८.१७/२समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ २८.१७॥ २८.१८/१आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः । २८.१८/२कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ २८.१८॥ २८.१९/१माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः । २८.१९/२कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ २८.१९॥ २८.२०/१कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् । २८.२०/२सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः ॥ २८.२०॥ २८.२१/१देवान् ऋषीन् मनुष्यांश्च पितृन् सन्तर्प्य च द्विजाः । २८.२१/२उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २८.२१॥ २८.२२/१आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः । २८.२२/२उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ २८.२२॥ २८.२३/१विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा । २८.२३/२अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २८.२३॥ २८.२४/१तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् । २८.२४/२रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने ॥ २८.२४॥ २८.२५/१ताम्राभावेऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् । २८.२५/२पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २८.२५॥ २८.२६/१करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः । २८.२६/२आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः ॥ २८.२६॥ २८.२७/१मध्ये चाग्निदले धीमान् नैरृते श्वसने दले । २८.२७/२कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ २८.२७॥ २८.२८/१प्रभूतं विमलं सारमाराध्यं परमं सुखम् । २८.२८/२सम्पूज्य पद्ममावाह्य गगनात् तत्र भास्करम् ॥ २८.२८॥ २८.२९/१कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् । २८.२९/२कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २८.२९॥ २८.३०/१सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् । २८.३०/२पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ २८.३०॥ २८.३१/१सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । २८.३१/२सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ २८.३१॥ २८.३२/१उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसंनिभम् । २८.३२/२ततस्तत् पात्रमादाय जानुभ्यां धरणीं गतः ॥ २८.३२॥ २८.३३/१कृत्वा शिरसि तत् पात्रमेकचित्तस्तु वाग्यतः । २८.३३/२त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ २८.३३॥ २८.३४/१अदीक्षितस्तु तस्यैव नाम्नैवार्घं प्रयच्छति । २८.३४/२श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥ २८.३४॥ २८.३५/१अग्निनिरृतिवाय्वीश+ ंअध्यपूर्वादिदिक्षु च । २८.३५/२हृच्छिरश्च शिखावर्म+ ंएत्राण्यस्त्रं च पूजयेत् ॥ २८.३५॥ २८.३६/१दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यमेव च । २८.३६/२जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ २८.३६॥ २८.३७/१ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः । २८.३७/२ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥ २८.३७॥ २८.३८/१भक्तिभावेन सततं विशुद्धेनान्तरात्मना । २८.३८/२ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम् ॥ २८.३८॥ २८.३९/१त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् । २८.३९/२ये संश्रयन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥ २८.३९॥ २८.४०/१यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् । २८.४०/२तावन् न पूजयेद् विष्णुं शङ्करं वा सुरेश्वरम् ॥ २८.४०॥ २८.४१/१तस्मात् प्रयत्नमास्थाय दद्याद् अर्घ्यं दिने दिने । २८.४१/२आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥ २८.४१॥ २८.४२/१एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः । २८.४२/२आदित्याय शुचिः स्नातः स लभेद् ईप्सितं फलम् ॥ २८.४२॥ २८.४३/१रोगाद् विमुच्यते रोगी वित्तार्थी लभते धनम् । २८.४३/२विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत् ॥ २८.४३॥ २८.४४/१यं यं काममभिध्यायन् सूर्यायार्घ्यं प्रयच्छति । २८.४४/२तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः ॥ २८.४४॥ २८.४५/१स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च । २८.४५/२नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ २८.४५॥ २८.४६/१ततः सूर्यालयं गच्छेत् पुष्पमादाय वाग्यतः । २८.४६/२प्रविश्य पूजयेद् भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ २८.४६॥ २८.४७/१पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः । २८.४७/२गन्धैः पुष्पैस्तथा दीपैर्धूपैर्नैवेद्यकैरपि ॥ २८.४७॥ २८.४८/१दण्डवत् प्रणिपातैश्च जयशब्दैस्तथा स्तवैः । २८.४८/२एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ २८.४८॥ २८.४९/१दशानामश्वमेधानां फलं प्राप्नोति मानवः । २८.४९/२सर्वपापविनिर्मुक्तो युवा दिव्यवपुर्नरः ॥ २८.४९॥ २८.५०/१सप्तावरान् सप्त परान् वंशान् उद्धृत्य भो द्विजाः । २८.५०/२विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ २८.५०॥ २८.५१/१उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति । २८.५१/२भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ २८.५१॥ २८.५२/१पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले । २८.५२/२चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः ॥ २८.५२॥ २८.५३/१योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् । २८.५३/२चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ २८.५३॥ २८.५४/१यः करोति नरस्तत्र पूर्वोक्तं स फलं लभेत् । २८.५४/२शयनोत्थापने भानोः सङ्क्रान्त्यां विषुवायने ॥ २८.५४॥ २८.५५/१वारे रवेस्तिथौ चैव पर्वकालेऽथवा द्विजाः । २८.५५/२ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ २८.५५॥ २८.५६/१विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते । २८.५६/२आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥ २८.५६॥ २८.५७/१रामेश्वर इति ख्यातः सर्वकामफलप्रदः । २८.५७/२ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ ॥ २८.५७॥ २८.५८/१गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः । २८.५८/२प्रणिपातैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ २८.५८॥ २८.५९/१राजसूयफलं सम्यग् वाजिमेधफलं तथा । २८.५९/२प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ २८.५९॥ २८.६०/१कामगेन विमानेन किङ्किणीजालमालिना । २८.६०/२उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ २८.६०॥ २८.६१/१आहूतसम्प्लवं यावद् भुक्त्वा भोगान् मनोरमान् । २८.६१/२पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते ॥ २८.६१॥ २८.६२/१शाङ्करं योगमास्थाय ततो मोक्षं व्रजन्ति ते । २८.६२/२यस्तत्र सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥ २८.६२॥ २८.६३/१स सूर्यलोकमास्थाय देववन् मोदते दिवि । २८.६३/२पुनर्मानुषतां प्राप्य राजा भवति धार्मिकः ॥ २८.६३॥ २८.६४/१योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् । २८.६४/२एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ २८.६४॥ २८.६५/१कोणार्कस्योदधेस्तीरे भुक्तिमुक्तिफलप्रदः ॥ २८.६५॥ २९.१/१मुनय ऊचुः । श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् । २९.१/२भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१॥ २९.२/१न तृप्तिमधिगच्छामः शृण्वन्तः सुखदां कथाम् । २९.२/२तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ २९.२॥ २९.३/१अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर । २९.३/२देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ २९.३॥ २९.४/१प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे । २९.४/२दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ २९.४॥ २९.५/१उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने । २९.५/२अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ २९.५॥ २९.६/१कथं च क्रियते भक्तिः कथं देवः प्रसीदति । २९.६/२एतत् सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २९.६॥ २९.७/१ब्रह्मोवाच । अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः । २९.७/२भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ २९.७॥ २९.८/१मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते । २९.८/२ध्यानं समाधिरित्युक्तं शृणुध्वं सुसमाहिताः ॥ २९.८॥ २९.९/१तत्कथां श्रावयेद् यस्तु तद्भक्तान् पूजयीत वा । २९.९/२अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ २९.९॥ २९.१०/१तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा । २९.१०/२तत्कर्मकृद् भवेद् यस्तु स वै भक्तः सनातनः ॥ २९.१०॥ २९.११/१देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते । २९.११/२कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः ॥ २९.११॥ २९.१२/१नाभ्यसूयेत तद्भक्तान् न निन्द्याच्चान्यदेवताम् । २९.१२/२आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ २९.१२॥ २९.१३/१गच्छंस्तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि । २९.१३/२यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः ॥ २९.१३॥ २९.१४/१एवंविधा त्वियं भक्तिः सदा कार्या विजानता । २९.१४/२भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ २९.१४॥ २९.१५/१क्रियते नियमो यस्तु दानं विप्राय दीयते । २९.१५/२प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ २९.१५॥ २९.१६/१पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् । २९.१६/२प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च ॥ २९.१६॥ २९.१७/१भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । २९.१७/२भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत् ॥ २९.१७॥ २९.१८/१स्तुतिजप्योपहारेण पूजयापि विवस्वतः । २९.१८/२उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ २९.१८॥ २९.१९/१प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः । २९.१९/२तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २९.१९॥ २९.२०/१भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम् । २९.२०/२प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ २९.२०॥ २९.२१/१सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् । २९.२१/२प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ २९.२१॥ २९.२२/१एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् । २९.२२/२नियमव्रतचारी च भवेद् भक्तिसमन्वितः ॥ २९.२२॥ २९.२३/१सप्तम्यां वा महाभागाः सोऽश्वमेधफलं लभेत् । २९.२३/२अहोरात्रोपवासेन पूजयेद् यस्तु भास्करम् ॥ २९.२३॥ २९.२४/१सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् । २९.२४/२कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २९.२४॥ २९.२५/१सर्वरत्नोपहारेण पूजयेद् यस्तु भास्करम् । २९.२५/२पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २९.२५॥ २९.२६/१शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः । २९.२६/२सर्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम् ॥ २९.२६॥ २९.२७/१सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति । २९.२७/२अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ २९.२७॥ २९.२८/१क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत् पुनः । २९.२८/२द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २९.२८॥ २९.२९/१सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी । २९.२९/२शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९.२९॥ २९.३०/१सप्तमी विजया नाम तत्र दत्तं महत् फलम् । २९.३०/२स्नानं दानं तपो होम उपवासस्तथैव च ॥ २९.३०॥ २९.३१/१सर्वं विजयसप्तम्यां महापातकनाशनम् । २९.३१/२ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ २९.३१॥ २९.३२/१यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् । २९.३२/२येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ २९.३२॥ २९.३३/१न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा । २९.३३/२श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ २९.३३॥ २९.३४/१उपलेपनकर्ता तु चिन्तितं लभते फलम् । २९.३४/२चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥ २९.३४॥ २९.३५/१पूजयेत् सोपवासो यः स कामान् ईप्सितांल्लभेत् । २९.३५/२घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ २९.३५॥ २९.३६/१आदित्यं पूजयेद् यस्तु चक्षुषा न स हीयते । २९.३६/२दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ २९.३६॥ २९.३७/१तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् । २९.३७/२अग्निकार्ये च दीपे च महापातकनाशनम् ॥ २९.३७॥ २९.३८/१दीपं ददाति यो नित्यं देवतायतनेषु च । २९.३८/२चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत् ॥ २९.३८॥ २९.३९/१हविर्भिः प्रथमः कल्पो द्वितीयश्चौषधीरसैः । २९.३९/२वसामेदोस्थिनिर्यासैर्न तु देयः कथञ्चन ॥ २९.३९॥ २९.४०/१भवेद् ऊर्ध्वगतिर्दीपो न कदाचिद् अधोगतिः । २९.४०/२दाता दीप्यति चाप्येवं न तिर्यग्गतिमाप्नुयात् ॥ २९.४०॥ २९.४१/१ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत् । २९.४१/२दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ २९.४१॥ २९.४२/१दीपदाता स्वर्गलोके दीपमालेव राजते । २९.४२/२यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ २९.४२॥ २९.४३/१सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया । २९.४३/२रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर्नरः ॥ २९.४३॥ २९.४४/१उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् । २९.४४/२उदयात् परिवर्तेत यावद् अस्तमने स्थितः ॥ २९.४४॥ २९.४५/१जपन्न् अभिमुखः किञ्चिन् मन्त्रं स्तोत्रमथापि वा । २९.४५/२आदित्यव्रतमेतत् तु महापातकनाशनम् ॥ २९.४५॥ २९.४६/१अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् । २९.४६/२उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ २९.४६॥ २९.४७/१सुवर्णधेनुअनड्वाह+ ।वसुधावस्त्रसंयुतम् । २९.४७/२अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ २९.४७॥ २९.४८/१अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैव च । २९.४८/२प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥ २९.४८॥ २९.४९/१नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा । २९.४९/२सघृतं गुग्गुलं वापि रवेर्भक्तिसमन्वितः ॥ २९.४९॥ २९.५०/१तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः । २९.५०/२श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ २९.५०॥ २९.५१/१कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः । २९.५१/२अयने तूत्तरे सूर्यमथवा दक्षिणायने ॥ २९.५१॥ २९.५२/१पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । २९.५२/२विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ २९.५२॥ २९.५३/१पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । २९.५३/२एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ २९.५३॥ २९.५४/१भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते । २९.५४/२कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ २९.५४॥ २९.५५/१बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात् । २९.५५/२घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः ॥ २९.५५॥ २९.५६/१क्षीरेण तर्पणं कृत्वा मनस्तापैर्न युज्यते । २९.५६/२दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः ॥ २९.५६॥ २९.५७/१स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः । २९.५७/२तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ २९.५७॥ २९.५८/१छत्त्रं ध्वजं वितानं वा पताकां चामराणि च । २९.५८/२श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥ २९.५८॥ २९.५९/१यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति । २९.५९/२तत् तस्य शतसाहस्रमुत्पादयति भास्करः ॥ २९.५९॥ २९.६०/१मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् । २९.६०/२सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति ॥ २९.६०॥ २९.६१/१एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम् । २९.६१/२यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशतैरपि ॥ २९.६१॥ ३०.१/१मुनय ऊचुः । अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते । ३०.१/२भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ ३०.१॥ ३०.२/१भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते । ३०.२/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ३०.२॥ ३०.३/१गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । ३०.३/२य इच्छेन् मोक्षमास्थातुं देवतां कां यजेत सः ॥ ३०.३॥ ३०.४/१कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् । ३०.४/२स्वर्गतश्चैव किं कुर्याद् येन न च्यवते पुनः ॥ ३०.४॥ ३०.५/१देवानां चात्र को देवः पितृणां चैव कः पिता । ३०.५/२यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर ॥ ३०.५॥ ३०.६/१कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् । ३०.६/२प्रलये च कमभ्येति तद् भवान् वक्तुमर्हति ॥ ३०.६॥ ३०.७/१ब्रह्मोवाच । उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः । ३०.७/२नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः ॥ ३०.७॥ ३०.८/१अनादिनिधनो ह्येष पुरुषः शाश्वतोऽव्ययः । ३०.८/२तापयत्येष त्रींल्लोकान् भवन् रश्मिभिरुल्बणः ॥ ३०.८॥ ३०.९/१सर्वदेवमयो ह्येष तपतां तपनो वरः । ३०.९/२सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ३०.९॥ ३०.१०/१सङ्क्षिपत्येष भूतानि तथा विसृजते पुनः । ३०.१०/२एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ ३०.१०॥ ३०.११/१एष धाता विधाता च भूतादिर्भूतभावनः । ३०.११/२न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ ३०.११॥ ३०.१२/१पितृणां च पिता ह्येष देवतानां हि देवता । ३०.१२/२ध्रुवं स्थानं स्मृतं ह्येतद् यस्मान् न च्यवते पुनः ॥ ३०.१२॥ ३०.१३/१सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते । ३०.१३/२प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ ३०.१३॥ ३०.१४/१योगिनश्चाप्यसङ्ख्यातास्त्यक्त्वा गृहकलेवरम् । ३०.१४/२वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ ३०.१४॥ ३०.१५/१अस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः । ३०.१५/२वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ ३०.१५॥ ३०.१६/१गृहस्था जनकाद्याश्च राजानो योगधर्मिणः । ३०.१६/२वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ ३०.१६॥ ३०.१७/१वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा । ३०.१७/२योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ ३०.१७॥ ३०.१८/१शुको व्याससुतः श्रीमान् योगधर्ममवाप्य सः । ३०.१८/२आदित्यकिरणान् गत्वा ह्यपुनर्भावमास्थितः ॥ ३०.१८॥ ३०.१९/१शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः । ३०.१९/२प्रत्यक्षोऽयं परो देवः सूर्यस्तिमिरनाशनः ॥ ३०.१९॥ ३०.२०/१तस्माद् अन्यत्र भक्तिर्हि न कार्या शुभमिच्छता । ३०.२०/२यस्माद् दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ ३०.२०॥ ३०.२१/१अतो भवद्भिः सततमभ्यर्च्यो भगवान् रविः । ३०.२१/२स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ३०.२१॥ ३०.२२/१अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः । ३०.२२/२मित्रत्वे च स्थितो यस्मात् तपस्तेपे द्विजोत्तमाः ॥ ३०.२२॥ ३०.२३/१अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च । ३०.२३/२सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश ॥ ३०.२३॥ ३०.२४/१लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे । ३०.२४/२सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः ॥ ३०.२४॥ ३०.२५/१ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् । ३०.२५/२कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ ३०.२५॥ ३०.२६/१इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः । ३०.२६/२विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च ॥ ३०.२६॥ ३०.२७/१आभिर्द्वादशभिस्तेन सूर्येण परमात्मना । ३०.२७/२कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.२७॥ ३०.२८/१तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसञ्ज्ञिता । ३०.२८/२स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ ३०.२८॥ ३०.२९/१द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता । ३०.२९/२स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ ३०.२९॥ ३०.३०/१तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता । ३०.३०/२मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३०.३०॥ ३०.३१/१चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता । ३०.३१/२स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ ३०.३१॥ ३०.३२/१पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता । ३०.३२/२अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३२॥ ३०.३३/१मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता । ३०.३३/२वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥ ३०.३३॥ ३०.३४/१भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता । ३०.३४/२भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ ३०.३४॥ ३०.३५/१मूर्तिर्या त्वष्टमी तस्य विवस्वान् इति विश्रुता । ३०.३५/२अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥ ३०.३५॥ ३०.३६/१नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः । ३०.३६/२प्रादुर्भवति सा नित्यं देवानामरिसूदनी ॥ ३०.३६॥ ३०.३७/१दशमी तस्य या मूर्तिरंशुमान् इति विश्रुता । ३०.३७/२वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ ३०.३७॥ ३०.३८/१मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसञ्ज्ञिता । ३०.३८/२जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ ३०.३८॥ ३०.३९/१मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति सञ्ज्ञिता । ३०.३९/२लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ ३०.३९॥ ३०.४०/१वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा । ३०.४०/२अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः ॥ ३०.४०॥ ३०.४१/१एवं सा जगतां मूर्तिर्हिता विहिता पुरा । ३०.४१/२तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम् ॥ ३०.४१॥ ३०.४२/१आभिर्द्वादशभिस्तेन सवित्रा परमात्मना । ३०.४२/२कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.४२॥ ३०.४३/१तस्माद् ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु । ३०.४३/२भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना ॥ ३०.४३॥ ३०.४४/१इत्येवं द्वादशादित्यान् नमस्कृत्वा तु मानवः । ३०.४४/२नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ ३०.४४॥ ३०.४५/१मुनय ऊचुः । यदि तावद् अयं सूर्यश्चादिदेवः सनातनः । ३०.४५/२ततः कस्मात् तपस्तेपे वरेप्सुः प्राकृतो यथा ॥ ३०.४५॥ ३०.४६/१ब्रह्मोवाच । एतद् वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः । ३०.४६/२पृष्टं मित्रेण यत् पूर्वं नारदाय महात्मने ॥ ३०.४६॥ ३०.४७/१प्राङ् मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः । ३०.४७/२मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥ ३०.४७॥ ३०.४८/१अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे । ३०.४८/२मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत् तदा ॥ ३०.४८॥ ३०.४९/१अथ मेरुगिरेः शृङ्गात् प्रच्युतो गन्धमादनात् । ३०.४९/२नारदस्तु महायोगी सर्वांल्लोकांश्चरन् वशी ॥ ३०.४९॥ ३०.५०/१आजगामाथ तत्रैव यत्र मित्रोऽचरत् तपः । ३०.५०/२तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५०॥ ३०.५१/१योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः । ३०.५१/२धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ ३०.५१॥ ३०.५२/१यः पिता सर्वदेवानां पराणामपि यः परः । ३०.५२/२अयजद् देवताः कास्तु पितृन् वा कान् असौ यजेत् । ३०.५२/३इति सञ्चिन्त्य मनसा तं देवं नारदोऽब्रवीत् ॥ ३०.५२॥ ३०.५३/१नारद उवाच । वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । ३०.५३/२त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥ ३०.५३॥ ३०.५४/१भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम् । ३०.५४/२चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥ ३०.५४॥ ३०.५५/१यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम् । ३०.५५/२पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ ३०.५५॥ ३०.५६/१यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ ३०.५६॥ ३०.५७/१मित्र उवाच । अवाच्यमेतद् वक्तव्यं परं गुह्यं सनातनम् । ३०.५७/२त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम् ॥ ३०.५७॥ ३०.५८/१यत् तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । ३०.५८/२इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ ३०.५८॥ ३०.५९/१स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते । ३०.५९/२त्रिगुणाद् व्यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः ॥ ३०.५९॥ ३०.६०/१हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः । ३०.६०/२महान् इति च योगेषु प्रधानमिति कथ्यते ॥ ३०.६०॥ ३०.६१/१साङ्ख्ये च कथ्यते योगे नामभिर्बहुधात्मकः । ३०.६१/२स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः ॥ ३०.६१॥ ३०.६२/१धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना । ३०.६२/२अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ॥ ३०.६२॥ ३०.६३/१वसन्न् अपि शरीरेषु न स लिप्येत कर्मभिः । ३०.६३/२ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ ३०.६३॥ ३०.६४/१सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् । ३०.६४/२सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥ ३०.६४॥ ३०.६५/१सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः । ३०.६५/२सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३०.६५॥ ३०.६६/१विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । ३०.६६/२एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ ३०.६६॥ ३०.६७/१क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् । ३०.६७/२तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ३०.६७॥ ३०.६८/१अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते । ३०.६८/२विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ ३०.६८॥ ३०.६९/१तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः । ३०.६९/२तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ ३०.६९॥ ३०.७०/१महापुरुषशब्दं हि बिभर्त्येकः सनातनः । ३०.७०/२स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥ ३०.७०॥ ३०.७१/१शतधा सहस्रधा चैव तथा शतसहस्रधा । ३०.७१/२कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ ३०.७१॥ ३०.७२/१आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा । ३०.७२/२भूमे रसविशेषेण तथा गुणरसात् तु सः ॥ ३०.७२॥ ३०.७३/१एक एव यथा वायुर्देहेष्वेव हि पञ्चधा । ३०.७३/२एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ ३०.७३॥ ३०.७४/१स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम् । ३०.७४/२सञ्ज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात् ॥ ३०.७४॥ ३०.७५/१यथा दीपसहस्राणि दीप एकः प्रसूयते । ३०.७५/२तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ ३०.७५॥ ३०.७६/१यदा स बुध्यत्यात्मानं तदा भवति केवलः । ३०.७६/२एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ ३०.७६॥ ३०.७७/१नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ३०.७७/२अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते ॥ ३०.७७॥ ३०.७८/१तस्माद् अव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः । ३०.७८/२अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥ ३०.७८॥ ३०.७९/१तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः । ३०.७९/२लोके च पूज्यते योऽसौ दैवे पित्र्ये च कर्मणि ॥ ३०.७९॥ ३०.८०/१नास्ति तस्मात् परो ह्यन्यः पिता देवोऽपि वा द्विजाः । ३०.८०/२आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥ ३०.८०॥ ३०.८१/१स्वर्गेष्वपि हि ये केचित् तं नमस्यन्ति देहिनः । ३०.८१/२तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ ३०.८१॥ ३०.८२/१तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः । ३०.८२/२भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥ ३०.८२॥ ३०.८३/१स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते । ३०.८३/२एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ ३०.८३॥ ३०.८४/१ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः । ३०.८४/२एतद् अप्यधिकं तेषां यद् एकं प्रविशन्त्युत ॥ ३०.८४॥ ३०.८५/१इति गुह्यसमुद्देशस्तव नारद कीर्तितः । ३०.८५/२अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ ३०.८५॥ ३०.८६/१सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम् । ३०.८६/२सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ ३०.८६॥ ३०.८७/१ब्रह्मोवाच । एवमेतत् पुराख्यातं नारदाय तु भानुना । ३०.८७/२मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥ ३०.८७॥ ३०.८८/१इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः । ३०.८८/२न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥ ३०.८८॥ ३०.८९/१यश्चैतच्छ्रावयेन् नित्यं यश्चैव शृणुयान् नरः । ३०.८९/२स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः ॥ ३०.८९॥ ३०.९०/१मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । ३०.९०/२जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥ ३०.९०॥ ३०.९१/१क्षणेन लभतेऽध्वानमिदं यः पठते मुने । ३०.९१/२यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥ ३०.९१॥ ३०.९२/१तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः । ३०.९२/२स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ ३०.९२॥ ३१.१/१ब्रह्मोवाच । आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः । ३१.१/२भवत्यस्माज्जगत् सर्वं सदेवासुरमानुषम् ॥ ३१.१॥ ३१.२/१रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । ३१.२/२महाद्युतिमतां चैव तेजोऽयं सार्वलौकिकम् ॥ ३१.२॥ ३१.३/१सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । ३१.३/२सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३१.३॥ ३१.४/१अग्नौ प्रास्ताहुतिः सम्यग् आदित्यमुपतिष्ठते । ३१.४/२आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३१.४॥ ३१.५/१सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते । ३१.५/२भावाभावौ हि लोकानामादित्यान् निःसृतौ पुरा ॥ ३१.५॥ ३१.६/१एतत् तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् । ३१.६/२तत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात् पुनः पुनः ॥ ३१.६॥ ३१.७/१क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः । ३१.७/२मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ ३१.७॥ ३१.८/१अथादित्याद् ऋते ह्येषां कालसङ्ख्या न विद्यते । ३१.८/२कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया ॥ ३१.८॥ ३१.९/१ऋतूनामविभागश् ततः पुष्पफलं कुतः । ३१.९/२कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ ३१.९॥ ३१.१०/१अभावो व्यवहाराणां जन्तूनां दिवि चेह च । ३१.१०/२जगत्प्रभावाद् विशते भास्कराद् वारितस्करात् ॥ ३१.१०॥ ३१.११/१नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति । ३१.११/२नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ३१.११॥ ३१.१२/१वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसंनिभः । ३१.१२/२श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३१.१२॥ ३१.१३/१हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः । ३१.१३/२इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ ३१.१३॥ ३१.१४/१ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् । ३१.१४/२अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ ३१.१४॥ ३१.१५/१द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः । ३१.१५/२आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रभाकरः ॥ ३१.१५॥ ३१.१६/१मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः । ३१.१६/२रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ ३१.१६॥ ३१.१७/१विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्यमा । ३१.१७/२विवस्वान् अंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ ३१.१७॥ ३१.१८/१इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः । ३१.१८/२उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ ३१.१८॥ ३१.१९/१विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा । ३१.१९/२विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः ॥ ३१.१९॥ ३१.२०/१पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसञ्ज्ञके । ३१.२०/२इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ ३१.२०॥ ३१.२१/१मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । ३१.२१/२माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ ३१.२१॥ ३१.२२/१शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा । ३१.२२/२दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ ३१.२२॥ ३१.२३/१द्विःसप्तकैर्विवस्वांस्तु अंशुमान् पञ्चभिस्त्रिभिः । ३१.२३/२विवस्वान् इव पर्जन्यो वरुणश्चार्यमा तथा ॥ ३१.२३॥ ३१.२४/१मित्रवद् भगवांस्त्वष्टा सहस्रेण शतेन च । ३१.२४/२इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ ३१.२४॥ ३१.२५/१सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः । ३१.२५/२उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयस्तथा ॥ ३१.२५॥ ३१.२६/१दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । ३१.२६/२एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम् ॥ ३१.२६॥ ३१.२७/१एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः । ३१.२७/२विस्तरेण सहस्रं तु पुनरन्यत् प्रकीर्तितम् ॥ ३१.२७॥ ३१.२८/१मुनय ऊचुः । ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते । ३१.२८/२तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ ३१.२८॥ ३१.२९/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् । ३१.२९/२अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम् ॥ ३१.२९॥ ३१.३०/१यानि नामानि गुह्यानि पवित्राणि शुभानि च । ३१.३०/२तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै ॥ ३१.३०॥ ३१.३१/१विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । ३१.३१/२लोकप्रकाशकः श्रीमांल्लोकचक्षुर्महेश्वरः ॥ ३१.३१॥ ३१.३२/१लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । ३१.३२/२तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ ३१.३२॥ ३१.३३/१गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । ३१.३३/२एकविंशति इत्येष स्तव इष्टः सदा रवेः ॥ ३१.३३॥ ३१.३४/१शरीरारोग्यदश्चैव धनवृद्धियशस्करः । ३१.३४/२स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ३१.३४॥ ३१.३५/१य एतेन द्विजश्रेष्ठा द्विसन्ध्येऽस्तमनोदये । ३१.३५/२स्तौति सूर्यं शुचिर्भूत्वा सर्वपापैः प्रमुच्यते ॥ ३१.३५॥ ३१.३६/१मानसं वाचिकं वापि देहजं कर्मजं तथा । ३१.३६/२एकजप्येन तत् सर्वं नश्यत्यर्कस्य संनिधौ ॥ ३१.३६॥ ३१.३७/१एकजप्यश्च होमश्च सन्ध्योपासनमेव च । ३१.३७/२धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ ३१.३७॥ ३१.३८/१अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे । ३१.३८/२पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः ॥ ३१.३८॥ ३१.३९/१तस्माद् यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः । ३१.३९/२स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ ३१.३९॥ ३२.१/१मुनय ऊचुः । निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः । ३२.१/२पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः ॥ ३२.१॥ ३२.२/१स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः । ३२.२/२सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ ३२.२॥ ३२.३/१ब्रह्मोवाच । दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः । ३२.३/२अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ ३२.३॥ ३२.४/१दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश । ३२.४/२अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ ३२.४॥ ३२.५/१दैत्यान् दितिर्दनुश्चोग्रान् दानवान् बलदर्पितान् । ३२.५/२विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ३२.५॥ ३२.६/१तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः । ३२.६/२व्याप्तमेतज्जगत् सर्वं तेषां तासां च वै मुने ॥ ३२.६॥ ३२.७/१तेषां कश्यपपुत्राणां प्रधाना देवतागणाः । ३२.७/२सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ ३२.७॥ ३२.८/१देवान् यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् । ३२.८/२स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ३२.८॥ ३२.९/१तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः । ३२.९/२ततो निराकृतान् पुत्रान् दैतेयैर्दानवैस्तथा ॥ ३२.९॥ ३२.१०/१हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः । ३२.१०/२आच्छिनद् यज्ञभागांश्च क्षुधा सम्पीडितान् भृशम् ॥ ३२.१०॥ ३२.११/१आराधनाय सवितुः परं यत्नं प्रचक्रमे । ३२.११/२एकाग्रा नियताहारा परं नियममास्थिता । ३२.११/३तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ३२.११॥ ३२.१२/१अदितिरुवाच । नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् । ३२.१२/२धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ ३२.१२॥ ३२.१३/१जगतामुपकाराय त्वामहं स्तौमि गोपते । ३२.१३/२आददानस्य यद् रूपं तीव्रं तस्मै नमाम्यहम् ॥ ३२.१३॥ ३२.१४/१ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् । ३२.१४/२बिभ्रतस्तव यद् रूपमतितीव्रं नतास्मि तत् ॥ ३२.१४॥ ३२.१५/१समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने । ३२.१५/२यद् रूपम् ऋग्यजुःसाम्नामैक्येन तपते तव ॥ ३२.१५॥ ३२.१६/१विश्वमेतत् त्रयीसञ्ज्ञं नमस्तस्मै विभावसो । ३२.१६/२यत् तु तस्मात् परं रूपमोमित्युक्त्वाभिसंहितम् । ३२.१६/३अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ ३२.१६॥ ३२.१७/१ब्रह्मोवाच । एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् । ३२.१७/२निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ ३२.१७॥ ३२.१८/१ततः कालेन महता भगवांस्तपनो द्विजाः । ३२.१८/२प्रत्यक्षतामगात् तस्या दाक्षायण्या द्विजोत्तमाः ॥ ३२.१८॥ ३२.१९/१सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम् । ३२.१९/२भूमौ च संस्थितं भास्वज्+ ।ज्वालाभिरतिदुर्दृशम् । ३२.१९/३तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ ३२.१९॥ ३२.२१/१अदितिरुवाच । जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते । ३२.२१/२प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर । ३२.२१/३भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥ ३२.२१॥ ३२.२२/१ब्रह्मोवाच । ततः स तेजसस्तस्माद् आविर्भूतो विभावसुः । ३२.२२/२अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ ३२.२२॥ ३२.२३/१ततस्तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः । ३२.२३/२प्राह भास्वान् वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ ३२.२३॥ ३२.२४/१प्रणता शिरसा सा तु जानुपीडितमेदिनी । ३२.२४/२प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ ३२.२४॥ ३२.२५/१अदितिरुवाच । देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम । ३२.२५/२यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ ३२.२५॥ ३२.२६/१तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते । ३२.२६/२अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून् ॥ ३२.२६॥ ३२.२७/१यथा मे तनया भूयो यज्ञभागभुजः प्रभो । ३२.२७/२भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ ३२.२७॥ ३२.२८/१तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम । ३२.२८/२कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ ३२.२८॥ ३२.२९/१ब्रह्मोवाच । ततस्तामाह भगवान् भास्करो वारितस्करः । ३२.२९/२प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ ३२.२९॥ ३२.३०/१सूर्य उवाच । सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः । ३२.३०/२त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्याशु निर्वृतः ॥ ३२.३०॥ ३२.३१/१ब्रह्मोवाच । इत्युक्त्वा भगवान् भास्वान् अन्तर्धानमुपागतः । ३२.३१/२निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३२.३१॥ ३२.३२/१ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः । ३२.३२/२ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ ३२.३२॥ ३२.३३/१निवासं सविता चक्रे देवमातुस्तदोदरे । ३२.३३/२कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥ ३२.३३॥ ३२.३४/१शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः । ३२.३४/२ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ॥ ३२.३४॥ ३२.३५/१कश्यप उवाच । किं मारयसि गर्भाण्डमिति नित्योपवासिनी । ३२.३५/२ब्रह्मोवाच । सा च तं प्राह गर्भाण्डमेतत् पश्येति कोपना । ३२.३५/३न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥ ३२.३५॥ ३२.३६/१इत्युक्त्वा तं तदा गर्भमुत्ससर्ज सुरारणिः । ३२.३६/२जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥ ३२.३६॥ ३२.३७/१तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चसम् । ३२.३७/२तुष्टाव प्रणतो भूत्वा वाग्भिराद्याभिरादरात् ॥ ३२.३७॥ ३२.३८/१संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् । ३२.३८/२पद्मपत्त्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ ३२.३८॥ ३२.३९/१अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम् । ३२.३९/२सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी ॥ ३२.३९॥ ३२.४०/१वाग् उवाच । मारितन्तेपतः प्रोक्तमेतद् अण्डं त्वयादितेः । ३२.४०/२तस्मान् मुने सुतस्तेऽयं मार्तण्डाख्यो भविष्यति ॥ ३२.४०॥ ३२.४१/१हनिष्यत्यसुरांश्चायं यज्ञभागहरान् अरीन् । ३२.४१/२देवा निशम्येति वचो गगनात् समुपागतम् ॥ ३२.४१॥ ३२.४२/१प्रहर्षमतुलं याता दानवाश्च हतौजसः । ३२.४२/२ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः ॥ ३२.४२॥ ३२.४३/१सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः । ३२.४३/२तेषां युद्धमभूद् घोरं देवानामसुरैः सह ॥ ३२.४३॥ ३२.४४/१शस्त्रास्त्रवृष्टिसन्दीप्त+ ।समस्तभुवनान्तरम् । ३२.४४/२तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ ३२.४४॥ ३२.४५/१तेजसा दह्यमानास्ते भस्मीभूता महासुराः । ३२.४५/२ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ॥ ३२.४५॥ ३२.४६/१तुष्टुवुस्तेजसां योनिं मार्तण्डमदितिं तथा । ३२.४६/२स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्ववत् ॥ ३२.४६॥ ३२.४७/१भगवान् अपि मार्तण्डः स्वाधिकारमथाकरोत् । ३२.४७/२कदम्बपुष्पवद् भास्वान् अधश्चोर्ध्वं च रश्मिभिः । ३२.४७/३वृतोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ ३२.४७॥ ३२.४८/१मुनय ऊचुः । कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः । ३२.४८/२कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते ॥ ३२.४८॥ ३२.४९/१ब्रह्मोवाच । त्वष्टा तस्मै ददौ कन्यां सञ्ज्ञां नाम विवस्वते । ३२.४९/२प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ ३२.४९॥ ३२.५०/१त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः । ३२.५०/२द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ ३२.५०॥ ३२.५१/१यत् तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः । ३२.५१/२तेनातितापयामास त्रींल्लोकान् सचराचरान् ॥ ३२.५१॥ ३२.५२/१तद् रूपं गोलकाकारं दृष्ट्वा सञ्ज्ञा विवस्वतः । ३२.५२/२असहन्ती महत् तेजः स्वां छायां वाक्यमब्रवीत् ॥ ३२.५२॥ ३२.५३/१सञ्ज्ञोवाच । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । ३२.५३/२निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥ ३२.५३॥ ३२.५४/१इमौ च बालकौ मह्यं कन्या च वरवर्णिनी । ३२.५४/२सम्भाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ३२.५४॥ ३२.५५/१छायोवाच । आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् । ३२.५५/२आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ ३२.५५॥ ३२.५६/१इत्युक्ता व्रीडिता सञ्ज्ञा जगाम पितृमन्दिरम् । ३२.५६/२वत्सराणां सहस्रं तु वसमाना पितुर्गृहे ॥ ३२.५६॥ ३२.५७/१भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः । ३२.५७/२आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस्ततः ॥ ३२.५७॥ ३२.५८/१तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः । ३२.५८/२पितुः समीपं यातायां सञ्ज्ञायां वाक्यतत्परा ॥ ३२.५८॥ ३२.५९/१तद्रूपधारिणी छाया भास्करं समुपस्थिता । ३२.५९/२तस्यां च भगवान् सूर्यः सञ्ज्ञेयमिति चिन्तयन् ॥ ३२.५९॥ ३२.६०/१तथैव जनयामास द्वौ पुत्रौ कन्यकां तथा । ३२.६०/२सञ्ज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥ ३२.६०॥ ३२.६१/१स्नेहं न पूर्वजातानां तथा कृतवती तु सा । ३२.६१/२मनुस्तत् क्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥ ३२.६१॥ ३२.६२/१बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः । ३२.६२/२स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । ३२.६२/३पदा सन्तर्जयामास न तु देहे न्यपातयत् ॥ ३२.६२॥ ३२.६३/१छायोवाच । पदा तर्जयसे यस्मात् पितुर्भार्यां गरीयसीम् । ३२.६३/२तस्मात् तवैष चरणः पतिष्यति न संशयः ॥ ३२.६३॥ ३२.६४/१ब्रह्मोवाच । यमस्तु तेन शापेन भृशं पीडितमानसः । ३२.६४/२मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ ३२.६४॥ ३२.६५/१यम उवाच । स्नेहेन तुल्यमस्मासु माता देव न वर्तते । ३२.६५/२विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ ३२.६५॥ ३२.६६/१तस्यां मयोद्यतः पादो न तु देहे निपातितः । ३२.६६/२बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुमर्हसि ॥ ३२.६६॥ ३२.६७/१शप्तोऽहं तात कोपेन जनन्या तनयो यतः । ३२.६७/२ततो मन्ये न जननीमिमां वै तपतां वर ॥ ३२.६७॥ ३२.६८/१तव प्रसादाच्चरणो भगवन् न पतेद् यथा । ३२.६८/२मातृशापाद् अयं मेऽद्य तथा चिन्तय गोपते ॥ ३२.६८॥ ३२.६९/१रविरुवाच । असंशयं महत् पुत्र भविष्यत्यत्र कारणम् । ३२.६९/२येन त्वामाविशत् क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ ३२.६९॥ ३२.७०/१सर्वेषामेव शापानां प्रतिघातो हि विद्यते । ३२.७०/२न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥ ३२.७०॥ ३२.७१/१न शक्यमेतन् मिथ्या तु कर्तुं मातुर्वचस्तव । ३२.७१/२किञ्चित् तेऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम् ॥ ३२.७१॥ ३२.७२/१कृमयो मांसमादाय प्रयास्यन्ति महीतलम् । ३२.७२/२कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ ३२.७२॥ ३२.७३/१ब्रह्मोवाच । आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै । ३२.७३/२तुल्येष्वप्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥ ३२.७३॥ ३२.७४/१नूनं नैषां त्वं जननी सञ्ज्ञा कापि त्वमागता । ३२.७४/२निर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥ ३२.७४॥ ३२.७५/१सा तत्परिहरन्ती च शापाद् भीता तदा रवेः । ३२.७५/२कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ ३२.७५॥ ३२.७६/१स चापि तं यथान्यायमर्चयित्वा तदा रविम् । ३२.७६/२निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥ ३२.७६॥ ३२.७७/१विश्वकर्मोवाच । तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् । ३२.७७/२असहन्ती तु तत् सञ्ज्ञा वने चरति वै तपः ॥ ३२.७७॥ ३२.७८/१द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् । ३२.७८/२रूपार्थं भवतोऽरण्ये चरन्तीं सुमहत् तपः ॥ ३२.७८॥ ३२.७९/१श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने । ३२.७९/२रूपं निर्वर्तयाम्यद्य तव कान्तं दिवस्पते ॥ ३२.७९॥ ३२.८०/१ब्रह्मोवाच । ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः । ३२.८०/२ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम् ॥ ३२.८०॥ ३२.८१/१विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । ३२.८१/२भ्रमिमारोप्य तत्तेजः+ ।शातनायोपचक्रमे ॥ ३२.८१॥ ३२.८२/१भ्रमताशेषजगतां नाभिभूतेन भास्वता । ३२.८२/२समुद्राद्रिवनोपेता त्वारुरोह मही नभः ॥ ३२.८२॥ ३२.८३/१गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् । ३२.८३/२अधोगतं महाभागा बभूवाक्षिप्तमाकुलम् ॥ ३२.८३॥ ३२.८४/१विक्षिप्तसलिलाः सर्वे बभूवुश्च तथार्णवाः । ३२.८४/२व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ ३२.८४॥ ३२.८५/१ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः । ३२.८५/२त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ ३२.८५॥ ३२.८६/१वेगभ्रमणसम्पात+ ।वायुक्षिप्ताः सहस्रशः । ३२.८६/२व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ ३२.८६॥ ३२.८७/१भास्वद्भ्रमणविभ्रान्त+ ।भूम्याकाशरसातलम् । ३२.८७/२जगद् आकुलमत्यर्थं तदासीन् मुनिसत्तमाः ॥ ३२.८७॥ ३२.८८/१त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः । ३२.८८/२देवाश्च ब्रह्मणा सार्धं भास्वन्तमभितुष्टुवुः ॥ ३२.८८॥ ३२.८९/१आदिदेवोऽसि देवानां जातस्त्वं भूतये भुवः । ३२.८९/२सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ ३२.८९॥ ३२.९०/१स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षदिवाकर । ३२.९०/२इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ ३२.९०॥ ३२.९१/१जय देव जगत्स्वामिञ् जयाशेषजगत्पते । ३२.९१/२ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ ३२.९१॥ ३२.९२/१तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः । ३२.९२/२वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ ३२.९२॥ ३२.९३/१अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः । ३२.९३/२त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ ३२.९३॥ ३२.९४/१त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् । ३२.९४/२सम्पूज्यस्त्वं तु देवेश शं नोऽस्तु जगतां पते ॥ ३२.९४॥ ३२.९५/१शं नोऽस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे । ३२.९५/२ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ ३२.९५॥ ३२.९६/१कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । ३२.९६/२ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ ३२.९६॥ ३२.९७/१सह्यं भवतु तेजस्ते भूतानां भूतभावन । ३२.९७/२ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥ ३२.९७॥ ३२.९८/१उपगायितुमारब्धा गान्धर्वकुशला रविम् । ३२.९८/२षड्जमध्यमगान्धार+ ।गानत्रयविशारदाः ॥ ३२.९८॥ ३२.९९/१मूर्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् । ३२.९९/२विश्वाची च घृताची च उर्वश्यथ तिलोत्तमाः ॥ ३२.९९॥ ३२.१००/१मेनका सहजन्या च रम्भा चाप्सरसां वरा । ३२.१००/२ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ ३२.१००॥ ३२.१०१/१भावहावविलासाद्यान् कुर्वत्योऽभिनयान् बहून् । ३२.१०१/२प्रावाद्यन्त ततस्तत्र वीणा वेण्वादिझर्झराः ॥ ३२.१०१॥ ३२.१०२/१पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः । ३२.१०२/२देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः ॥ ३२.१०२॥ ३२.१०३/१गायद्भिश्चैव नृत्यद्भिर्गन्धर्वैरप्सरोगणैः । ३२.१०३/२तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥ ३२.१०३॥ ३२.१०४/१ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । ३२.१०४/२लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ ३२.१०४॥ ३२.१०५/१ततः कोलाहले तस्मिन् सर्वदेवसमागमे । ३२.१०५/२तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ ३२.१०५॥ ३२.१०६/१आजानुलिखितश्चासौ निपुणं विश्वकर्मणा । ३२.१०६/२नाभ्यनन्दत् तु लिखनं ततस्तेनावतारितः ॥ ३२.१०६॥ ३२.१०७/१न तु निर्भर्त्सितं रूपं तेजसो हननेन तु । ३२.१०७/२कान्तात् कान्ततरं रूपमधिकं शुशुभे ततः ॥ ३२.१०७॥ ३२.१०८/१इति हिमजलघर्मकालहेतोर्। ३२.१०८/२हरकमलासनविष्णुसंस्तुतस्य । ३२.१०८/३तदुपरि लिखनं निशम्य भानोर्। ३२.१०८/४व्रजति दिवाकरलोकमायुषोऽन्ते ॥ ३२.१०८॥ ३२.१०९/१एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः । ३२.१०९/२रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ ३२.१०९॥ ३३.१/१मुनय ऊचुः । भूयोऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् । ३३.१/२न तृप्तिमधिगच्छामः शृण्वन्तस्तां कथां शुभाम् ॥ ३३.१॥ ३३.२/१योऽयं दीप्तो महातेजा वह्निराशिसमप्रभः । ३३.२/२एतद् वेदितुमिच्छामः प्रभावोऽस्य कुतः प्रभो ॥ ३३.२॥ ३३.३/१ब्रह्मोवाच । तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे । ३३.३/२प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ ३३.३॥ ३३.४/१अहङ्कारस्ततो जातो महाभूतप्रवर्तकः । ३३.४/२वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ ३३.४॥ ३३.५/१तस्मिन्न् अण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः । ३३.५/२पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ ३३.५॥ ३३.६/१तत्रैवावस्थितो ह्यासीद् अहं विष्णुर्महेश्वरः । ३३.६/२विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ ३३.६॥ ३३.७/१ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः । ३३.७/२ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ ३३.७॥ ३३.८/१ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् । ३३.८/२दिव्याभिः स्तुतिभिर्देवः स्तुतोऽस्माभिस्तदेश्वरः ॥ ३३.८॥ ३३.९/१आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः । ३३.९/२आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ३३.९॥ ३३.१०/१जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । ३३.१०/२मुनिकिंनरसिद्धानां तथैवोरगपक्षिणाम् ॥ ३३.१०॥ ३३.११/१त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । ३३.११/२वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३३.११॥ ३३.१२/१त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । ३३.१२/२सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ३३.१२॥ ३३.१३/१प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । ३३.१३/२ईश्वरात् परतो विद्या विद्यायाः परतः शिवः ॥ ३३.१३॥ ३३.१४/१शिवात् परतरो देवस्त्वमेव परमेश्वरः । ३३.१४/२सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ३३.१४॥ ३३.१५/१सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । ३३.१५/२भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ३३.१५॥ ३३.१६/१प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । ३३.१६/२दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः ॥ ३३.१६॥ ३३.१७/१सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । ३३.१७/२स्तुतं परममव्यक्तं यद् रूपं तस्य ते नमः ॥ ३३.१७॥ ३३.१८/१वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । ३३.१८/२सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः ॥ ३३.१८॥ ३३.१९/१विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् । ३३.१९/२विश्वस्थितमचिन्त्यं च यद् रूपं तस्य ते नमः ॥ ३३.१९॥ ३३.२०/१परं यज्ञात् परं वेदात् परं लोकात् परं दिवः । ३३.२०/२परमात्मेत्यभिख्यातं यद् रूपं तस्य ते नमः ॥ ३३.२०॥ ३३.२१/१अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् । ३३.२१/२अनादिनिधनं चैव यद् रूपं तस्य ते नमः ॥ ३३.२१॥ ३३.२२/१नमो नमः कारणकारणाय । ३३.२२/२नमो नमः पापविमोचनाय । ३३.२२/३नमो नमस्ते दितिजार्दनाय । ३३.२२/४नमो नमो रोगविमोचनाय ॥ ३३.२२॥ ३३.२३/१नमो नमः सर्ववरप्रदाय । ३३.२३/२नमो नमः सर्वसुखप्रदाय । ३३.२३/३नमो नमः सर्वधनप्रदाय । ३३.२३/४नमो नमः सर्वमतिप्रदाय ॥ ३३.२३॥ ३३.२४/१स्तुतः स भगवान् एवं तैजसं रूपमास्थितः । ३३.२४/२उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ ३३.२४॥ ३३.२५/१देवा ऊचुः । तवातितैजसं रूपं न कश्चित् सोढुमुत्सहेत् । ३३.२५/२सहनीयं तद् भवतु हिताय जगतः प्रभो ॥ ३३.२५॥ ३३.२६/१एवमस्त्विति सोऽप्युक्त्वा भगवान् आदिकृत् प्रभुः । ३३.२६/२लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ ३३.२६॥ ३३.२७/१ततः साङ्ख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः । ३३.२७/२ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ ३३.२७॥ ३३.२८/१सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः । ३३.२८/२सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ ३३.२८॥ ३३.२९/१अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः । ३३.२९/२भानोर्भक्तिनमस्कार+ ।कलां नार्हन्ति षोडशीम् ॥ ३३.२९॥ ३३.३०/१तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् । ३३.३०/२पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३३.३०॥ ३३.३१/१शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् । ३३.३१/२सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ ३३.३१॥ ३३.३२/१मुनय ऊचुः । चिरात् प्रभृति नो ब्रह्मञ् श्रोतुमिच्छा प्रवर्तते । ३३.३२/२नाम्नामष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः ॥ ३३.३२॥ ३३.३३/१ब्रह्मोवाच । अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम । ३३.३३/२भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ ३३.३३॥ ३३.३४/१ओं सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । ३३.३४/२गभस्तिमान् अजः कालो मृत्युर्धाता प्रभाकरः ॥ ३३.३४॥ ३३.३५/१पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । ३३.३५/२सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ३३.३५॥ ३३.३६/१इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः । ३३.३६/२ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३३.३६॥ ३३.३७/१वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । ३३.३७/२धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ३३.३७॥ ३३.३८/१कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । ३३.३८/२कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ॥ ३३.३८॥ ३३.३९/१संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । ३३.३९/२पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३३.३९॥ ३३.४०/१कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । ३३.४०/२वरुणः सागरोऽंशश्च जीमूतो जिवनोऽरिहा ॥ ३३.४०॥ ३३.४१/१भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । ३३.४१/२स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३३.४१॥ ३३.४२/१अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । ३३.४२/२जयो विशालो वरदः सर्वभूतनिषेवितः ॥ ३३.४२॥ ३३.४३/१मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः । ३३.४३/२धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ ३३.४३॥ ३३.४४/१द्वादशात्मा रविर्दक्षः पिता माता पितामहः । ३३.४४/२स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ३३.४४॥ ३३.४५/१देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । ३३.४५/२चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ ३३.४५॥ ३३.४६/१एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः । ३३.४६/२नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ ३३.४६॥ ३३.४७/१सुरगणपितृयक्षसेवितं ह्य्। ३३.४७/२असुरनिशाकरसिद्धवन्दितम् । ३३.४७/३वरकनकहुताशनप्रभम् । ३३.४७/४प्रणिपतितोऽस्मि हिताय भास्करम् ॥ ३३.४७॥ ३३.४८/१सूर्योदये यः सुसमाहितः पठेत् । ३३.४८/२स पुत्रदारान् धनरत्नसञ्चयान् । ३३.४८/३लभेत जातिस्मरतां नरः स तु । ३३.४८/४स्मृतिं च मेधां च स विन्दते पराम् ॥ ३३.४८॥ ३३.४९/१इमं स्तवं देववरस्य यो नरः । ३३.४९/२प्रकीर्तयेच्छुद्धमनाः समाहितः । ३३.४९/३विमुच्यते शोकदवाग्निसागराल् । ३३.४९/४लभेत कामान् मनसा यथेप्सितान् ॥ ३३.४९॥ ३४.१/१ब्रह्मोवाच । योऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः । ३४.१/२उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१॥ ३४.२/१विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् । ३४.२/२गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ ३४.२॥ ३४.३/१जघान पूर्वं दक्षस्य यजतो धरणीतले । ३४.३/२यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३४.३॥ ३४.४/१यस्य प्रतापसन्त्रस्ताः शक्राद्यास्त्रिदिवौकसः । ३४.४/२शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ३४.४॥ ३४.५/१स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः । ३४.५/२पिनाकपाणिर्भगवान् दक्षयज्ञविनाशनः ॥ ३४.५॥ ३४.६/१महादेवोऽकले देशे कृत्तिवासा वृषध्वजः । ३४.६/२एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ३४.६॥ ३४.७/१मुनय ऊचुः । किमर्थं स भवो देवः सर्वभूतहिते रतः । ३४.७/२जघान यज्ञं दक्षस्य देवैः सर्वैरलङ्कृतम् ॥ ३४.७॥ ३४.८/१न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् । ३४.८/२श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ३४.८॥ ३४.९/१ब्रह्मोवाच । दक्षस्यासन्न् अष्ट कन्या याश्चैवं पतिसङ्गताः । ३४.९/२स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद् गृहे ॥ ३४.९॥ ३४.१०/१ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे । ३४.१०/२तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ ३४.१०॥ ३४.११/१नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् । ३४.११/२अकरोत् संनतिं दक्षे न च काञ्चिन् महेश्वरः ॥ ३४.११॥ ३४.१२/१जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः । ३४.१२/२ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ ३४.१२॥ ३४.१३/१जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् । ३४.१३/२ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् । ३४.१३/३ततोऽब्रवीत् सा पितरं देवी क्रोधसमाकुला ॥ ३४.१३॥ ३४.१४/१सत्युवाच । यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो । ३४.१४/२असत्कृतामवस्थां यः कृतवान् असि गर्हिताम् । ३४.१४/३अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ ३४.१४॥ ३४.१५/१ब्रह्मोवाच । एवमुक्तोऽब्रवीद् एनां दक्षः संरक्तलोचनः ॥ ३४.१५॥ ३४.१६/१दक्ष उवाच । त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम । ३४.१६/२तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ ३४.१६॥ ३४.१७/१ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः । ३४.१७/२गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति ॥ ३४.१७॥ ३४.१८/१वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः । ३४.१८/२भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३४.१८॥ ३४.१९/१तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति । ३४.१९/२तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३४.१९॥ ३४.२०/१इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा । ३४.२०/२शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः । ३४.२०/३तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ ३४.२०॥ ३४.२१/१सत्युवाच । वाङ्मनःकर्मभिर्यस्माद् अदुष्टां मां विगर्हसि । ३४.२१/२तस्मात् त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ ३४.२१॥ ३४.२२/१ब्रह्मोवाच । ततस्तेनापमानेन सती दुःखाद् अमर्षिता । ३४.२२/२अब्रवीद् वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ ३४.२२॥ ३४.२३/१सत्युवाच । येनाहमपदेहा वै पुनर्देहेन भास्वता । ३४.२३/२तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः । ३४.२३/३गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ३४.२३॥ ३४.२४/१ब्रह्मोवाच । तत्रैवाथ समासीना रुष्टात्मानं समादधे । ३४.२४/२धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ ३४.२४॥ ३४.२५/१ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः । ३४.२५/२सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ३४.२५॥ ३४.२६/१तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् । ३४.२६/२संवादं च तयोर्बुद्ध्वा याथातथ्येन शङ्करः । ३४.२६/३दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥ ३४.२६॥ ३४.२७/१श्रीशङ्कर उवाच । यस्माद् अवमता दक्ष सहसैवागता सती । ३४.२७/२प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ ३४.२७॥ ३४.२८/१तस्माद् वैवस्वते प्राप्ते पुनरेते महर्षयः । ३४.२८/२उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ ३४.२८॥ ३४.२९/१हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः । ३४.२९/२अभिव्याहृत्य सप्तर्षीन् दक्षं सोऽभ्यशपत् पुनः ॥ ३४.२९॥ ३४.३०/१भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः । ३४.३०/२प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ३४.३०॥ ३४.३१/१दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि । ३४.३१/२कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ ३४.३१॥ ३४.३२/१अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । ३४.३२/२धर्मकामार्थयुक्तेषु कर्मस्विह पुनः पुनः ॥ ३४.३२॥ ३४.३३/१ततो वै व्याहृतो दक्षो रुद्रं सोऽभ्यशपत् पुनः ॥ ३४.३३॥ ३४.३४/१दक्ष उवाच । यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि । ३४.३४/२तस्मात् सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३४.३४॥ ३४.३५/१कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु । ३४.३५/२इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् । ३४.३५/३ततो देवैस्तु ते सार्धं न तु पूजा भविष्यति ॥ ३४.३५॥ ३४.३६/१रुद्र उवाच । चातुर्वर्ण्यं तु देवानां ते चाप्येकत्र भुञ्जते । ३४.३६/२न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥ ३४.३६॥ ३४.३७/१सर्वेषां चैव लोकानामादिर्भूर्लोक उच्यते । ३४.३७/२तमहं धारयाम्येकः स्वेच्छया न तवाज्ञया ॥ ३४.३७॥ ३४.३८/१तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः । ३४.३८/२तस्माद् अहं वसामीह सततं न तवाज्ञया ॥ ३४.३८॥ ३४.३९/१ब्रह्मोवाच । ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा । ३४.३९/२स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ३४.३९॥ ३४.४०/१यदा गृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः । ३४.४०/२समस्तेनेह यज्ञेन सोऽयजद् दैवतैः सह ॥ ३४.४०॥ ३४.४१/१अथ देवी सती यत् ते प्राप्ते वैवस्वतेऽन्तरे । ३४.४१/२मेनायां तामुमां देवीं जनयामास शैलराट् ॥ ३४.४१॥ ३४.४२/१सा तु देवी सती पूर्वमासीत् पश्चाद् उमाभवत् । ३४.४२/२सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ ३४.४२॥ ३४.४३/१यावद् इच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह । ३४.४३/२मारीचं कश्यपं देवी यथादितिरनुव्रता ॥ ३४.४३॥ ३४.४४/१सार्धं नारायणं श्रीस्तु मघवन्तं शची यथा । ३४.४४/२विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥ ३४.४४॥ ३४.४५/१नैतांस्तु विजहत्येता भर्तृन् देव्यः कथञ्चन । ३४.४५/२एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे ॥ ३४.४५॥ ३४.४६/१प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् । ३४.४६/२दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृप ॥ ३४.४६॥ ३४.४७/१जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् । ३४.४७/२भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः ॥ ३४.४७॥ ३४.४८/१आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह । ३४.४८/२देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ३४.४८॥ ३४.४९/१इत्येषोऽनुशयो ह्यासीत् तयोर्जात्यन्तरे गतः । ३४.४९/२प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ३४.४९॥ ३४.५०/१तस्मान् नानुशयः कार्यो वरेष्विह कदाचन । ३४.५०/२जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । ३४.५०/३जन्तोर्न भूतये ख्यातिस्तन् न कार्यं विजानता ॥ ३४.५०॥ ३४.५१/१मुनय ऊचुः । कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती । ३४.५१/२त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥ ३४.५१॥ ३४.५२/१देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह । ३४.५२/२भवेन सह संयोगः संवादश्च तयोः कथम् ॥ ३४.५२॥ ३४.५३/१स्वयंवरः कथं वृत्तस्तस्मिन् महति जन्मनि । ३४.५३/२विवाहश्च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ ३४.५३॥ ३४.५४/१तत् सर्वं विस्तराद् ब्रह्मन् वक्तुमर्हसि साम्प्रतम् । ३४.५४/२श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥ ३४.५४॥ ३४.५५/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् । ३४.५५/२उमाशङ्करयोः पुण्यां सर्वकामफलप्रदाम् ॥ ३४.५५॥ ३४.५६/१कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् । ३४.५६/२अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥ ३४.५६॥ ३४.५७/१केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । ३४.५७/२तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे ॥ ३४.५७॥ ३४.५८/१कश्यप उवाच । अपत्येन महाबाहो सर्वमेतद् अवाप्यते । ३४.५८/२ममाख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥ ३४.५८॥ ३४.५९/१किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । ३४.५९/२वर्तयिष्यामि यच्चापि यथादृष्टं पुराचल ॥ ३४.५९॥ ३४.६०/१वाराणसीमहं गच्छन्न् अपश्यं संस्थितं दिवि । ३४.६०/२विमानं सुनवं दिव्यमनौपम्यं महर्धिमत् ॥ ३४.६०॥ ३४.६१/१तस्याधस्ताद् आर्तनादं गर्तस्थाने शृणोम्यहम् । ३४.६१/२तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ३४.६१॥ ३४.६२/१अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः । ३४.६२/२तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ३४.६२॥ ३४.६३/१अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । ३४.६३/२विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ ३४.६३॥ ३४.६४/१गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । ३४.६४/२अपश्यद् आर्तो दुःखार्तांस्तान् अपृच्छच्च स द्विजः ॥ ३४.६४॥ ३४.६५/१द्विज उवाच । के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । ३४.६५/२दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ३४.६५॥ ३४.६६/१पितर ऊचुः । वयं ते कृतपुण्यस्य पितरः सपितामहाः । ३४.६६/२प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ३४.६६॥ ३४.६७/१नरकोऽयं महाभाग गर्तरूपेण संस्थितः । ३४.६७/२त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ३४.६७॥ ३४.६८/१यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः । ३४.६८/२मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ३४.६८॥ ३४.६९/१यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । ३४.६९/२उत्पादयसि तेनास्मान् मुच्येम वयमेनसः ॥ ३४.६९॥ ३४.७०/१नान्येन तपसा पुत्र तीर्थानां च फलेन च । ३४.७०/२एतत् कुरु महाबुद्धे तारयस्व पितृन् भयात् ॥ ३४.७०॥ ३४.७१/१कश्यप उवाच । स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् । ३४.७१/२पितृन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह ॥ ३४.७१॥ ३४.७२/१स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः । ३४.७२/२सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ ३४.७२॥ ३४.७३/१तस्मात् कृत्वा तपो घोरमपत्यं गुणवद् भृशम् । ३४.७३/२उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ ३४.७३॥ ३४.७४/१ब्रह्मोवाच । स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः । ३४.७४/२तपश्चकाराप्यतुलं येन तुष्टिरभून् मम ॥ ३४.७४॥ ३४.७५/१तदा तमुत्पपाताहं वरदोऽस्मीति चाब्रवम् । ३४.७५/२ब्रूहि तुष्टोऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥ ३४.७५॥ ३४.७६/१हिमवान् उवाच । भगवन् पुत्रमिच्छामि गुणैः सर्वैरलङ्कृतम् । ३४.७६/२एवं वरं प्रयच्छस्व यदि तुष्टोऽसि मे प्रभो ॥ ३४.७६॥ ३४.७७/१ब्रह्मोवाच । तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः । ३४.७७/२तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम् ॥ ३४.७७॥ ३४.७८/१कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत । ३४.७८/२यस्याः प्रभावात् सर्वत्र कीर्तिमाप्स्यसि शोभनाम् ॥ ३४.७८॥ ३४.७९/१अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः । ३४.७९/२पावनश्चैव पुण्येन देवानामपि सर्वतः ॥ ३४.७९॥ ३४.८०/१ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ ३४.८०॥ ३४.८१/१सोऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् । ३४.८१/२अपर्णामेकपर्णां च तथा चैवैकपाटलाम् ॥ ३४.८१॥ ३४.८२/१न्यग्रोधमेकपर्णं तु पाटलं चैकपाटलाम् । ३४.८२/२अशित्वा त्वेकपर्णां तु अनिकेतस्तपोऽचरत् ॥ ३४.८२॥ ३४.८३/१शतं वर्षसहस्राणां दुश्चरं देवदानवैः । ३४.८३/२आहारमेकपर्णं तु एकपर्णा समाचरत् ॥ ३४.८३॥ ३४.८४/१पाटलेन तथैकेन विदधे चैकपाटला । ३४.८४/२पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ ३४.८४॥ ३४.८५/१अपर्णा तु निराहारा तां माता प्रत्यभाषत । ३४.८५/२निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ ३४.८५॥ ३४.८६/१सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी । ३४.८६/२तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ३४.८६॥ ३४.८७/१एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम् । ३४.८७/२एतासां तपसां वृत्तं यावद् भूमिर्धरिष्यति ॥ ३४.८७॥ ३४.८८/१तपःशरीरास्ताः सर्वास्तिस्रो योगं समाश्रिताः । ३४.८८/२सर्वाश्चैव महाभागास्तथा च स्थिरयौवनाः ॥ ३४.८८॥ ३४.८९/१ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । ३४.८९/२अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ३४.८९॥ ३४.९०/१उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । ३४.९०/२महायोगबलोपेता महादेवमुपस्थिता ॥ ३४.९०॥ ३४.९१/१दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः । ३४.९१/२आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ३४.९१॥ ३४.९२/१या तु तासां कुमारीणां तृतीया ह्येकपाटला । ३४.९२/२पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥ ३४.९२॥ ३४.९३/१तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । ३४.९३/२उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ ३४.९३॥ ३४.९४/१अथ तस्यास्तपोयोगात् त्रैलोक्यमखिलं तदा । ३४.९४/२प्रधूपितमिहालक्ष्य वचस्तामहमब्रवम् ॥ ३४.९४॥ ३४.९५/१देवि किं तपसा लोकांस्तापयिष्यसि शोभने । ३४.९५/२त्वया सृष्टमिदं सर्वं मा कृत्वा तद् विनाशय ॥ ३४.९५॥ ३४.९६/१त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा । ३४.९६/२ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ ३४.९६॥ ३४.९७/१देव्युवाच । यदर्थं तपसो ह्यस्य चरणं मे पितामह । ३४.९७/२त्वमेव तद् विजानीषे ततः पृच्छसि किं पुनः ॥ ३४.९७॥ ३४.९८/१ब्रह्मोवाच । ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे । ३४.९८/२स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥ ३४.९८॥ ३४.९९/१शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । ३४.९९/२वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥ ३४.९९॥ ३४.१००/१स देवदेवः परमेश्वरः स्वयम् । ३४.१००/२स्वयम्भुरायास्यति देवि तेऽन्तिकम् । ३४.१००/३उदाररूपो विकृतादिरूपः । ३४.१००/४समानरूपोऽपि न यस्य कस्यचित् ॥ ३४.१००॥ ३४.१०१/१महेश्वरः पर्वतलोकवासी । ३४.१०१/२चराचरेशः प्रथमोऽप्रमेयः । ३४.१०१/३विनेन्दुना हीन्द्रसमानवर्चसा । ३४.१०१/४विभीषणं रूपमिवास्थितो यः ॥ ३४.१०१॥ ३५.१/१ब्रह्मोवाच । ततस्तामब्रुवन् देवास्तदा गत्वा तु सुन्दरीम् । ३५.१/२देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१॥ ३५.२/१स भर्ता तव देवेशो भविता मा तपः कृथाः । ३५.२/२ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ ३५.२॥ ३५.३/१जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह । ३५.३/२सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ ३५.३॥ ३५.४/१द्वारि जातमशोकं च समुपाश्रित्य चास्थिता । ३५.४/२अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ ३५.४॥ ३५.५/१विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च । ३५.५/२विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ३५.५॥ ३५.६/१उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् । ३५.६/२अथोमा योगसंसिद्धा ज्ञात्वा शङ्करमागतम् ॥ ३५.६॥ ३५.७/१अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया । ३५.७/२तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ३५.७॥ ३५.८/१सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ ३५.८॥ ३५.९/१देव्युवाच । भगवन् न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे । ३५.९/२स प्रभुर्मम दाने वै कन्याहं द्विजपुङ्गव ॥ ३५.९॥ ३५.१०/१गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । ३५.१०/२स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम ॥ ३५.१०॥ ३५.११/१ब्रह्मोवाच । ततः स भगवान् देवस्तथैव विकृतः प्रभुः । ३५.११/२उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ३५.११॥ ३५.१२/१स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । ३५.१२/२भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ३५.१२॥ ३५.१३/१शैलेन्द्र उवाच । भगवन् नावमन्येऽहं ब्राह्मणान् भुवि देवताः । ३५.१३/२मनीषितं तु यत् पूर्वं तच्छृणुष्व महामते ॥ ३५.१३॥ ३५.१४/१स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । ३५.१४/२वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति ॥ ३५.१४॥ ३५.१५/१तच्छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः । ३५.१५/२देव्याः समीपमागत्य इदमाह महामनाः ॥ ३५.१५॥ ३५.१६/१शिव उवाच । देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः । ३५.१६/२तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति ॥ ३५.१६॥ ३५.१७/१तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने । ३५.१७/२रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ ३५.१७॥ ३५.१८/१ब्रह्मोवाच । तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । ३५.१८/२भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ३५.१८॥ ३५.१९/१सम्प्राप्योवाच देवेशं मा तेऽभूद् बुद्धिरन्यथा । ३५.१९/२अहं त्वां वरयिष्यामि नाद्भुतं तु कथञ्चन ॥ ३५.१९॥ ३५.२०/१अथवा तेऽस्ति सन्देहो मयि विप्र कथञ्चन । ३५.२०/२इहैव त्वां महाभाग वरयामि मनोगतम् ॥ ३५.२०॥ ३५.२१/१ब्रह्मोवाच । गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता । ३५.२१/२स्कन्धे शम्भोः समाधाय देवी प्राह वृतोऽसि मे ॥ ३५.२१॥ ३५.२२/१ततः स भगवान् देवस्तया देव्या वृतस्तदा । ३५.२२/२उवाच तमशोकं वै वाचा सञ्जीवयन्न् इव ॥ ३५.२२॥ ३५.२३/१शिव उवाच । यस्मात् तव सुपुण्येन स्तबकेन वृतोऽस्म्यहम् । ३५.२३/२तस्मात् त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ ३५.२३॥ ३५.२४/१कामरूपी कामपुष्पः कामदो दयितो मम । ३५.२४/२सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ ३५.२४॥ ३५.२५/१सर्वान्नभक्षकश्चैव अमृतस्वाद एव च । ३५.२५/२सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ ३५.२५॥ ३५.२६/१निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः । ३५.२६/२आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ ३५.२६॥ ३५.२७/१यो हि यास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति । ३५.२७/२यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ ३५.२७॥ ३५.२८/१यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् । ३५.२८/२स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ३५.२८॥ ३५.२९/१ब्रह्मोवाच । एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । ३५.२९/२अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ३५.२९॥ ३५.३०/१सापि देवी गते तस्मिन् भगवत्यमितात्मनि । ३५.३०/२तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३५.३०॥ ३५.३१/१उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ । ३५.३१/२निशेव चन्द्ररहिता न बभौ विमनास्तदा ॥ ३५.३१॥ ३५.३२/१अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा । ३५.३२/२सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च ॥ ३५.३२॥ ३५.३३/१स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । ३५.३३/२क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत् तदा ॥ ३५.३३॥ ३५.३४/१योगमायां समास्थाय प्रपञ्चोद्भवकारणम् । ३५.३४/२तद् रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ ३५.३४॥ ३५.३५/१बाल उवाच । त्रातु मां कश्चिद् इत्याह ग्राहेण हृतचेतसम् । ३५.३५/२धिक् कष्टं बाल एवाहमप्राप्तार्थमनोरथः ॥ ३५.३५॥ ३५.३६/१प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः । ३५.३६/२शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ ३५.३६॥ ३५.३७/१यथा शोचामि पितरं मातरं च तपस्विनीम् । ३५.३७/२ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ ॥ ३५.३७॥ ३५.३८/१प्रियपुत्रावेकपुत्रौ प्राणान् नूनं त्यजिष्यतः । ३५.३८/२अहो बत सुकष्टं वै योऽहं बालोऽकृताश्रमः । ३५.३८/३अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल ॥ ३५.३८॥ ३५.३९/१ब्रह्मोवाच । श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । ३५.३९/२उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ ३५.३९॥ ३५.४०/१सापश्यद् इन्दुवदना बालकं चारुरूपिणम् । ३५.४०/२ग्राहस्य मुखमापन्नं वेपमानमवस्थितम् ॥ ३५.४०॥ ३५.४१/१सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् । ३५.४१/२तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ ३५.४१॥ ३५.४२/१स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । ३५.४२/२अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ ३५.४२॥ ३५.४३/१पार्वत्युवाच । ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । ३५.४३/२विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ३५.४३॥ ३५.४४/१ग्राह उवाच । यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । ३५.४४/२स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ३५.४४॥ ३५.४५/१सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे । ३५.४५/२ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन ॥ ३५.४५॥ ३५.४६/१देव्युवाच । यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम् । ३५.४६/२तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ॥ ३५.४६॥ ३५.४७/१ग्राह उवाच । मा व्ययस्तपसो देवि भृशं बाले शुभानने । ३५.४७/२यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षमवाप्स्यति ॥ ३५.४७॥ ३५.४८/१देव्युवाच । ग्राहाधिप वदस्वाशु यत् सतामविगर्हितम् । ३५.४८/२तत् कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः ॥ ३५.४८॥ ३५.४९/१ग्राह उवाच । यत् कृतं वै तपः किञ्चिद् भवत्या स्वल्पमुत्तमम् । ३५.४९/२तत् सर्वं मे प्रयच्छाशु ततो मोक्षमवाप्स्यति ॥ ३५.४९॥ ३५.५०/१देव्युवाच । जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया । ३५.५०/२तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ ३५.५०॥ ३५.५१/१ब्रह्मोवाच । प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः । ३५.५१/२आदित्य इव मध्याह्ने दुर्निरीक्षस्तदाभवत् । ३५.५१/३उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ ३५.५१॥ ३५.५२/१ग्राह उवाच । देवि किं कृत्यमेतत् ते सुनिश्चित्य महाव्रते । ३५.५२/२तपसोऽप्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ३५.५२॥ ३५.५३/१गृहाण तप एव त्वं बालं चेमं सुमध्यमे । ३५.५३/२तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते । ३५.५३/३सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥ ३५.५३॥ ३५.५४/१देव्युवाच । देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः । ३५.५४/२तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ ३५.५४॥ ३५.५५/१सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । ३५.५५/२न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ३५.५५॥ ३५.५६/१दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते । ३५.५६/२नहि कश्चिन् नरो ग्राह प्रदत्तं पुनराहरेत् ॥ ३५.५६॥ ३५.५७/१दत्तमेतन् मया तुभ्यं नाददानि हि तत् पुनः । ३५.५७/२त्वय्येव रमतामेतद् बालश्चायं विमुच्यताम् ॥ ३५.५७॥ ३५.५८/१ब्रह्मोवाच । तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । ३५.५८/२देवीमादित्यावभासस्तत्रैवान्तरधीयत ॥ ३५.५८॥ ३५.५९/१बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । ३५.५९/२स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ ३५.५९॥ ३५.६०/१तपसोऽपचयं मत्वा देवी हिमगिरीन्द्रजा । ३५.६०/२भूय एव तपः कर्तुमारेभे नियमस्थिता ॥ ३५.६०॥ ३५.६१/१कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् । ३५.६१/२प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत ॥ ३५.६१॥ ३५.६२/१मह्यमेतत् तपो देवि त्वया दत्तं महाव्रते । ३५.६२/२तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ३५.६२॥ ३५.६३/१इति लब्ध्वा वरं देवी तपसोऽक्षयमुत्तमम् । ३५.६३/२स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ ३५.६३॥ ३५.६४/१इदं पठेद् यो हि नरः सदैव । ३५.६४/२बालानुभावाचरणं हि शम्भोः । ३५.६४/३स देहभेदं समवाप्य पूतो । ३५.६४/४भवेद् गणेशस्तु कुमारतुल्यः ॥ ३५.६४॥ ३६.१/१ब्रह्मोवाच । विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले । ३६.१/२अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१॥ ३६.२/१अथ पर्वतराजोऽसौ हिमवान् ध्यानकोविदः । ३६.२/२दुहितुर्देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम् ॥ ३६.२॥ ३६.३/१जानन्न् अपि महाशैलः समयारक्षणेप्सया । ३६.३/२स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ३६.३॥ ३६.४/१देवदानवसिद्धानां सर्वलोकनिवासिनाम् । ३६.४/२वृणुयात् परमेशानं समक्षं यदि मे सुता ॥ ३६.४॥ ३६.५/१तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । ३६.५/२इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ३६.५॥ ३६.६/१आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः । ३६.६/२कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ३६.६॥ ३६.७/१अथैवमाघोषितमात्र एव । ३६.७/२स्वयंवरे तत्र नगेन्द्रपुत्र्याः । ३६.७/३देवादयः सर्वजगन्निवासाः । ३६.७/४समाययुस्तत्र गृहीतवेशाः ॥ ३६.७॥ ३६.८/१प्रफुल्लपद्मासनसंनिविष्टः । ३६.८/२सिद्धैर्वृतो योगिभिरप्रमेयैः । ३६.८/३विज्ञापितस्तेन महीध्रराज्ञा । ३६.८/४आगतस्तदाहं त्रिदिवैरुपेतः ॥ ३६.८॥ ३६.९/१अक्ष्णां सहस्रं सुरराट् स बिभ्रद् । ३६.९/२दिव्याङ्गहारस्रगुदाररूपः । ३६.९/३ऐरावतं सर्वगजेन्द्रमुख्यम् । ३६.९/४स्रवन्मदासारकृतप्रवाहम् ॥ ३६.९॥ ३६.१०/१आरुह्य सर्वामरराट् स वज्रम् । ३६.१०/२बिभ्रत् समागात् पुरतः सुराणाम् । ३६.१०/३तेजःप्रभावाधिकतुल्यरूपी । ३६.१०/४प्रोद्भासयन् सर्वदिशो विवस्वान् ॥ ३६.१०॥ ३६.११/१हैमं विमानं सवलत्पताकम् । ३६.११/२आरूढ आगात् त्वरितं जवेन । ३६.११/३मणिप्रदीप्तोज्ज्वलकुण्डलश्च । ३६.११/४वह्न्यर्कतेजःप्रतिमे विमाने ॥ ३६.११॥ ३६.१२/१समभ्यगात् कश्यपसूनुरेक । ३६.१२/२आदित्यमध्याद् भगनामधारी । ३६.१२/३पीनाङ्गयष्टिः सुकृताङ्गहार+ । ३६.१२/४तेजोबलाज्ञासदृशप्रभावः ॥ ३६.१२॥ ३६.१३/१दण्डं समागृह्य कृतान्त आगाद् । ३६.१३/२आरुह्य भीमं महिषं जवेन । ३६.१३/३महामहीध्रोच्छ्रयपीनगात्रः । ३६.१३/४स्वर्णादिरत्नाञ्चितचारुवेशः ॥ ३६.१३॥ ३६.१४/१समीरणः सर्वजगद्विभर्ता । ३६.१४/२विमानमारुह्य समभ्यगाद् धि । ३६.१४/३सन्तापयन् सर्वसुरासुरेशांस्- । ३६.१४/४तेजोधिकस्तेजसि संनिविष्टः ॥ ३६.१४॥ ३६.१५/१वह्निः समभ्येत्य सुरेन्द्रमध्ये । ३६.१५/२ज्वलन् प्रतस्थौ वरवेशधारी । ३६.१५/३नानामणिप्रज्वलिताङ्गयष्टिर्। ३६.१५/४जगद्वरं दिव्यविमानमग्र्यम् ॥ ३६.१५॥ ३६.१६/१आरुह्य सर्वद्रविणाधिपेशः । ३६.१६/२स राजराजस्त्वरितोऽभ्यगाच्च । ३६.१६/३आप्याययन् सर्वसुरासुरेशान् । ३६.१६/४कान्त्या च वेशेन च चारुरूपः ॥ ३६.१६॥ ३६.१७/१ज्वलन् महारत्नविचित्ररूपम् । ३६.१७/२विमानमारुह्य शशी समायात् । ३६.१७/३श्यामाङ्गयष्टिः सुविचित्रवेशः । ३६.१७/४सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ ३६.१७॥ ३६.१८/१तार्क्ष्यं समारुह्य महीध्रकल्पम् । ३६.१८/२गदाधरोऽसौ त्वरितः समेतः । ३६.१८/३अथाश्विनौ चापि भिषग्वरौ द्वाव्। ३६.१८/४एकं विमानं त्वरयाधिरुह्य ॥ ३६.१८॥ ३६.१९/१मनोहरौ प्रज्वलचारुवेशौ । ३६.१९/२आजग्मतुर्देववरौ सुवीरौ । ३६.१९/३सहस्रनागः स्फुरदग्निवर्णम् । ३६.१९/४बिभ्रत् तदानीं ज्वलनार्कतेजाः ॥ ३६.१९॥ ३६.२०/१सार्धं स नागैरपरैर्महात्मा । ३६.२०/२विमानमारुह्य समभ्यगाच्च । ३६.२०/३दितेः सुतानां च महासुराणाम् । ३६.२०/४वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ ३६.२०॥ ३६.२१/१वरानुरूपं प्रविधाय वेशम् । ३६.२१/२वृन्दं समागात् पुरतः सुराणाम् । ३६.२१/३गन्धर्वराजः स च चारुरूपी । ३६.२१/४दिव्याङ्गदो दिव्यविमानचारी ॥ ३६.२१॥ ३६.२२/१गन्धर्वसङ्घैः सहितोऽप्सरोभिः । ३६.२२/२शक्राज्ञया तत्र समाजगाम । ३६.२२/३अन्ये च देवास्त्रिदिवात् तदानीम् । ३६.२२/४पृथक् पृथक् चारुगृहीतवेशाः ॥ ३६.२२॥ ३६.२३/१आजग्मुरारुह्य विमानपृष्ठम् । ३६.२३/२गन्धर्वयक्षोरगकिंनराश्च । ३६.२३/३शचीपतिस्तत्र सुरेन्द्रमध्ये । ३६.२३/४रराज राजाधिकलक्ष्यमूर्तिः ॥ ३६.२३॥ ३६.२४/१आज्ञाबलैश्वर्यकृतप्रमोदः । ३६.२४/२स्वयंवरं तं समलञ्चकार । ३६.२४/३हेतुस्त्रिलोकस्य जगत्प्रसूतेर्। ३६.२४/४माता च तेषां ससुरासुराणाम् ॥ ३६.२४॥ ३६.२५/१पत्नी च शम्भोः पुरुषस्य धीमतो । ३६.२५/२गीता पुराणे प्रकृतिः परा या । ३६.२५/३दक्षस्य कोपाद् धिमवद्गृहं सा । ३६.२५/४कार्यार्थमायात् त्रिदिवौकसां हि ॥ ३६.२५॥ ३६.२६/१विमानपृष्ठे मणिहेमजुष्टे । ३६.२६/२स्थिता वलच्चामरवीजिताङ्गी । ३६.२६/३सर्वर्तुपुष्पां सुसुगन्धमालाम् । ३६.२६/४प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ३६.२६॥ ३६.२७/१ब्रह्मोवाच । मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । ३६.२७/२शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ ३६.२७॥ ३६.२८/१देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । ३६.२८/२उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ ३६.२८॥ ३६.२९/१ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् । ३६.२९/२ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ ३६.२९॥ ३६.३०/१अथ सा शुद्धसङ्कल्पा काङ्क्षितं प्राप्य सत्पतिम् । ३६.३०/२निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३६.३०॥ ३६.३१/१ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् । ३६.३१/२कोऽयमत्रेति सम्मन्त्र्य चुक्रुशुर्भृशमोहिताः ॥ ३६.३१॥ ३६.३२/१वज्रमाहारयत् तस्य बाहुमुत्क्षिप्य वृत्रहा । ३६.३२/२स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ ३६.३२॥ ३६.३३/१स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । ३६.३३/२वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३६.३३॥ ३६.३४/१भगो नाम ततो देव आदित्यः काश्यपो बली । ३६.३४/२उत्क्षिप्य आयुधं दीप्तं छेत्तुमिच्छन् विमोहितः ॥ ३६.३४॥ ३६.३५/१तस्यापि भगवान् बाहुं तथैवास्तम्भयत् तदा । ३६.३५/२बलं तेजश्च योगश्च तथैवास्तम्भयद् विभुः ॥ ३६.३५॥ ३६.३६/१शिरः प्रकम्पयन् विष्णुः शङ्करं समवैक्षत । ३६.३६/२अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु च ॥ ३६.३६॥ ३६.३७/१अहं परमसंविग्नो ध्यानमास्थाय सादरम् । ३६.३७/२बुद्धवान् देवदेवेशमुमोत्सङ्गे समास्थितम् ॥ ३६.३७॥ ३६.३८/१ज्ञात्वाहं परमेशानं शीघ्रमुत्थाय सादरम् । ३६.३८/२ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥ ३६.३८॥ ३६.३९/१पुराणैः सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः । ३६.३९/२अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ ३६.३९॥ ३६.४०/१प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तद् अक्षरम् । ३६.४०/२अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ३६.४०॥ ३६.४१/१ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत् प्रकृतेः परः । ३६.४१/२इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ ३६.४१॥ ३६.४२/१पत्नीरूपं समास्थाय जगत्कारणमागता । ३६.४२/२नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ ३६.४२॥ ३६.४३/१प्रसादात् तव देवेश नियोगाच्च मया प्रजाः । ३६.४३/२देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ ३६.४३॥ ३६.४४/१कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे । ३६.४४/२तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ ३६.४४॥ ३६.४५/१स्तम्भितान् सर्वदेवांस्तान् इदं चाहं तदोक्तवान् । ३६.४५/२मूढाश्च देवताः सर्वा नैनं बुध्यत शङ्करम् ॥ ३६.४५॥ ३६.४६/१गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् । ३६.४६/२सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ३६.४६॥ ३६.४७/१ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । ३६.४७/२प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ ३६.४७॥ ३६.४८/१अथ तेषां प्रसन्नोऽभूद् देवदेवो महेश्वरः । ३६.४८/२यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ ३६.४८॥ ३६.४९/१तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । ३६.४९/२वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥ ३६.४९॥ ३६.५०/१तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्वे न्यमीलयन् । ३६.५०/२तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ ३६.५०॥ ३६.५१/१प्रादात् परमदेवेशमपश्यंस्ते तदा विभुम् । ३६.५१/२ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ ३६.५१॥ ३६.५२/१शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः । ३६.५२/२तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ३६.५२॥ ३६.५३/१पादयोः स्थापयामास स्रङ्मालाममितद्युतिः । ३६.५३/२साधु साध्विति ते होचुः सर्वे देवाः पुनर्विभुम् ॥ ३६.५३॥ ३६.५४/१सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः । ३६.५४/२अथास्मिन्न् अन्तरे विप्रास्तमहं दैवतैः सह ॥ ३६.५४॥ ३६.५५/१हिमवन्तं महाशैलमुक्तवांश्च महाद्युतिम् । ३६.५५/२श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां त्वं महान् असि ॥ ३६.५५॥ ३६.५६/१शर्वेण सह सम्बन्धो यस्य तेऽभ्युदयो महान् । ३६.५६/२क्रियतां चारुरुद्वाहः किमर्थं स्थीयते परम् । ३६.५६/३ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥ ३६.५६॥ ३६.५७/१हिमवान् उवाच । त्वमेव कारणं देव यस्य सर्वोदये मम । ३६.५७/२प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । ३६.५७/३उद्वाहस्तु यदा यादृक् तद् विधत्स्व पितामह ॥ ३६.५७॥ ३६.५८/१ब्रह्मोवाच । तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः । ३६.५८/२उद्वाहः क्रियतां देव इत्यहं चोक्तवान् विभुम् ॥ ३६.५८॥ ३६.५९/१मामाह शङ्करो देवो यथेष्टमिति लोकपः । ३६.५९/२तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्मितं पुरम् ॥ ३६.५९॥ ३६.६०/१उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् । ३६.६०/२रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥ ३६.६०॥ ३६.६१/१मूर्तिमन्त उपागम्य अलञ्चक्रुः पुरोत्तमम् । ३६.६१/२चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ ३६.६१॥ ३६.६२/१भास्वत्स्फटिकभित्तिश्च मुक्ताहारप्रलम्बिता । ३६.६२/२तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ ३६.६२॥ ३६.६३/१शुशुभे देवदेवस्य महेशस्य महात्मनः । ३६.६३/२सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ ३६.६३॥ ३६.६४/१सौरभेयं मनोरम्यं गन्धमादाय मारुतः । ३६.६४/२प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ ३६.६४॥ ३६.६५/१समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । ३६.६५/२देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ३६.६५॥ ३६.६६/१गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । ३६.६६/२औदकाः खेचराश्चान्ये किंनरा देवचारणाः ॥ ३६.६६॥ ३६.६७/१तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः । ३६.६७/२रम्याण्यादाय वाद्यानि तत्राजग्मुस्तदा पुरम् ॥ ३६.६७॥ ३६.६८/१ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः । ३६.६८/२पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः ॥ ३६.६८॥ ३६.६९/१जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । ३६.६९/२गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ३६.६९॥ ३६.७०/१ऋतवः षट् समं तत्र नानागन्धसुखावहाः । ३६.७०/२उद्वाहः शङ्करस्येति मूर्तिमन्त उपस्थिताः ॥ ३६.७०॥ ३६.७१/१नीलजीमूतसङ्काशैर्मन्त्रध्वनिप्रहर्षिभिः । ३६.७१/२केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ ३६.७१॥ ३६.७२/१विलोलपिङ्गलस्पष्ट+ ।विद्युल्लेखाविहासिता । ३६.७२/२कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥ ३६.७२॥ ३६.७३/१प्रत्यग्रसञ्जातशिलीन्ध्रकन्दली+ । ३६.७३/२लताद्रुमाद्युद्गतपल्लवा शुभा । ३६.७३/३शुभाम्बुधाराप्रणयप्रबोधितैर्। ३६.७३/४महालसैर्भेकगणैश्च नादिता ॥ ३६.७३॥ ३६.७४/१प्रियेषु मानोद्धतमानसानाम् । ३६.७४/२मनस्विनीनामपि कामिनीनाम् । ३६.७४/३मयूरकेकाभिरुतैः क्षणेन । ३६.७४/४मनोहरैर्मानविभङ्गहेतुभिः ॥ ३६.७४॥ ३६.७५/१तथा विवर्णोज्ज्वलचारुमूर्तिना । ३६.७५/२शशाङ्कलेखाकुटिलेन सर्वतः । ३६.७५/३पयोदसङ्घातसमीपवर्तिना । ३६.७५/४महेन्द्रचापेन भृशं विराजिता ॥ ३६.७५॥ ३६.७६/१विचित्रपुष्पाम्बुभवैः सुगन्धिभिर्। ३६.७६/२घनाम्बुसम्पर्कतया सुशीतलैः । ३६.७६/३विकम्पयन्ती पवनैर्मनोहरैः । ३६.७६/४सुराङ्गनानामलकावलीः शुभाः ॥ ३६.७६॥ ३६.७७/१गर्जत्पयोदस्थगितेन्दुबिम्बा । ३६.७७/२नवाम्बुसिक्तोदकचारुदूर्वा । ३६.७७/३निरीक्षिता सादरमुत्सुकाभिर्। ३६.७७/४निश्वासधूम्रं पथिकाङ्गनाभिः ॥ ३६.७७॥ ३६.७८/१हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । ३६.७८/२चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ ३६.७८॥ ३६.७९/१असितजलदधीरध्वानवित्रस्तहंसा । ३६.७९/२विमलसलिलधारोत्पातनम्रोत्पलाग्रा । ३६.७९/३सुरभिकुसुमरेणुक्।ल्प्तसर्वाङ्गशोभा । ३६.७९/४गिरिदुहितृविवाहे प्रावृड् आविर्बभूव ॥ ३६.७९॥ ३६.८०/१मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी । ३६.८०/२हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ ३६.८०॥ ३६.८१/१विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । ३६.८१/२प्रफुल्लेन्दीवरश्याम+ ।विलोचनमनोहरा ॥ ३६.८१॥ ३६.८२/१पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । ३६.८२/२नवश्यामलताश्याम+ ।रोमराजिपुरस्कृता ॥ ३६.८२॥ ३६.८३/१चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना । ३६.८३/२प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ३६.८३॥ ३६.८४/१समदालिकुलोद्गीत+ ंअधुरस्वरभाषिणी । ३६.८४/२चलत्कुमुदसङ्घात+ ॅहारुकुण्डलशोभिनी ॥ ३६.८४॥ ३६.८५/१रक्ताशोकप्रशाखोत्थ+ ।पल्लवाङ्गुलिधारिणी । ३६.८५/२तत्पुष्पसञ्चयमयैर्वासोभिः समलङ्कृता ॥ ३६.८५॥ ३६.८६/१रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । ३६.८६/२कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ ३६.८६॥ ३६.८७/१सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता । ३६.८७/२प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ ३६.८७॥ ३६.८८/१निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना । ३६.८८/२नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी । ३६.८८/३नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसाम् । ३६.८८/४तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ३६.८८॥ ३६.८९/१अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा । ३६.८९/२ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥ ३६.८९॥ ३६.९०/१ताभ्याम् ऋतुभ्यां सम्प्राप्तो हिमवान् स नगोत्तमः । ३६.९०/२प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ ३६.९०॥ ३६.९१/१तेन प्रालेयवर्षेण घनेनैव हिमालयः । ३६.९१/२अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ३६.९१॥ ३६.९२/१ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः । ३६.९२/२साधूपचारात् सहसा कृतार्थ इव दुर्जनः ॥ ३६.९२॥ ३६.९३/१प्रालेयपटलच्छन्नैः शृङ्गैस्तु शुशुभे नगः । ३६.९३/२छत्त्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥ ३६.९३॥ ३६.९४/१मनोभवोद्रेककराः सुराणाम् । ३६.९४/२सुराङ्गनानां च मुहुः समीराः । ३६.९४/३स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः । ३६.९४/४पद्मोत्पलानां कुसुमैरुपेताः ॥ ३६.९४॥ ३६.९५/१विवाहे गुरुकन्याया वसन्तः समगाद् ऋतुः ॥ ३६.९५॥ ३६.९६/१ईषत्समुद्भिन्नपयोधराग्रा । ३६.९६/२नार्यो यथा रम्यतरा बभूवुः । ३६.९६/३नात्युष्णशीतानि पयःसरांसि । ३६.९६/४किञ्जल्कचूर्णैः कपिलीकृतानि । ३६.९६/५चक्राह्वयुग्मैरुपनादितानि । ३६.९६/६ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ३६.९६॥ ३६.९७/१प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः । ३६.९७/२तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ ३६.९७॥ ३६.९८/१हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः । ३६.९८/२शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ३६.९८॥ ३६.९९/१फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । ३६.९९/२कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ ३६.९९॥ ३६.१००/१तस्मिन्न् ऋतौ शुभ्रकदम्बनीपास्- । ३६.१००/२तालाः स्तमालाः सरलाः कपित्थाः ॥ ३६.१००॥ ३६.१०१/१अशोकसर्जार्जुनकोविदाराः । ३६.१०१/२पुंनागनागेश्वरकर्णिकाराः । ३६.१०१/३लवङ्गतालागुरुसप्तपर्णा । ३६.१०१/४न्यग्रोधशोभाञ्जननारिकेलाः ॥ ३६.१०१॥ ३६.१०२/१वृक्षास्तथान्ये फलपुष्पवन्तो । ३६.१०२/२दृश्या बभूवुः सुमनोहराङ्गाः । ३६.१०२/३जलाशयाश्चैव सुवर्णतोयाश् । ३६.१०२/४चक्राङ्गकारण्डवहंसजुष्टाः ॥ ३६.१०२॥ ३६.१०३/१कोयष्टिदात्यूहबलाकयुक्ता । ३६.१०३/२दृश्यास्तु पद्मोत्पलमीनपूर्णाः । ३६.१०३/३खगाश्च नानाविधभूषिताङ्गा । ३६.१०३/४दृश्यास्तु वृक्षेषु सुचित्रपक्षाः ॥ ३६.१०३॥ ३६.१०४/१क्रीडासु युक्तान् अथ तर्जयन्तः । ३६.१०४/२कुर्वन्ति शब्दं मदनेरिताङ्गाः । ३६.१०४/३तस्मिन् गिरावद्रिसुताविवाहे । ३६.१०४/४ववुश्च वाताः सुखशीतलाङ्गाः ॥ ३६.१०४॥ ३६.१०५/१पुष्पाणि शुभ्राण्यपि पातयन्तः । ३६.१०५/२शनैर्नगेभ्यो मलयाद्रिजाताः । ३६.१०५/३तथैव सर्वे ऋतवश्च पुण्याश् । ३६.१०५/४चकाशिरेऽन्योन्यविमिश्रिताङ्गाः ॥ ३६.१०५॥ ३६.१०६/१येषां सुलिङ्गानि च कीर्तितानि । ३६.१०६/२ते तत्र आसन् सुमनोज्ञरूपाः ॥ ३६.१०६॥ ३६.१०७/१समदालिकुलोद्गीत+ ।शिलाकुसुमसञ्चयैः । ३६.१०७/२परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ ३६.१०७॥ ३६.१०८/१नीलानि नीलाम्बुरुहैः पयांसि । ३६.१०८/२गौराणि गौरैश्च मृणालदण्डैः । ३६.१०८/३रक्तैश्च रक्तानि भृशं कृतानि । ३६.१०८/४मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ ३६.१०८॥ ३६.१०९/१हैमानि विस्तीर्णजलेषु केषुचिन् । ३६.१०९/२निरन्तरं चारुतराणि केषुचित् । ३६.१०९/३वैदूर्यनालानि सरःसु केषुचित् । ३६.१०९/४प्रजज्ञिरे पद्मवनानि सर्वतः ॥ ३६.१०९॥ ३६.११०/१वाप्यस्तत्राभवन् रम्याः कमलोत्पलपुष्पिताः । ३६.११०/२नानाविहङ्गसञ्जुष्टा हैमसोपानपङ्क्तयः ॥ ३६.११०॥ ३६.१११/१शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । ३६.१११/२समुच्छ्रितान्यविरलैर्हेमानीव बभुर्द्विजाः ॥ ३६.१११॥ ३६.११२/१ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः । ३६.११२/२सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ३६.११२॥ ३६.११३/१कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः । ३६.११३/२गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ ३६.११३॥ ३६.११४/१चारुरावविजुष्टानि किंशुकानां वनानि च । ३६.११४/२पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ ३६.११४॥ ३६.११५/१तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । ३६.११५/२नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु ॥ ३६.११५॥ ३६.११६/१निकामपुष्पैः सुविशालशाखैः । ३६.११६/२समुच्छ्रितैश्चन्दनचम्पकैश्च । ३६.११६/३प्रमत्तपुंस्कोकिलसम्प्रलापैर्। ३६.११६/४हिमाचलोऽतीव तदा रराज ॥ ३६.११६॥ ३६.११७/१श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानाम् । ३६.११७/२चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः । ३६.११७/३तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः । ३६.११७/४सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ ३६.११७॥ ३६.११८/१पटुः सूर्यातपश्चापि प्रायशोऽल्पजलाशयः । ३६.११८/२देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम् ॥ ३६.११८॥ ३६.११९/१स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । ३६.११९/२शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ ३६.११९॥ ३६.१२०/१तथापि च गिरौ तत्र वायवः सुमनोहराः । ३६.१२०/२ववुः पाटलविस्तीर्ण+ ।कदम्बार्जुनगन्धिनः ॥ ३६.१२०॥ ३६.१२१/१वाप्यः प्रफुल्लपद्मौघ+ ।केसरारुणमूर्तयः । ३६.१२१/२अभवंस्तटसङ्घुष्ट+ ।फलहंसकदम्बकाः ॥ ३६.१२१॥ ३६.१२२/१तथा कुरबकाश्चापि कुसुमापाण्डुमूर्तयः । ३६.१२२/२सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः ॥ ३६.१२२॥ ३६.१२३/१बकुलाश्च नितम्बेषु विशालेषु महीभृतः । ३६.१२३/२उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ ३६.१२३॥ ३६.१२४/१इति कुसुमविचित्रसर्ववृक्षा । ३६.१२४/२विविधविहङ्गमनादरम्यदेशाः । ३६.१२४/३हिमगिरितनयाविवाहभूत्यै । ३६.१२४/४षड् उपययुरृतवो मुनिप्रवीराः ॥ ३६.१२४॥ ३६.१२५/१तत एवं प्रवृत्ते तु सर्वभूतसमागमे । ३६.१२५/२नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ ३६.१२५॥ ३६.१२६/१शैलपुत्रीमलङ्कृत्य योग्याभरणसम्पदा । ३६.१२६/२पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥ ३६.१२६॥ ३६.१२७/१ततस्तु पुनरेवेशमहं चैवोक्तवान् विभुम् । ३६.१२७/२हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ ३६.१२७॥ ३६.१२८/१ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः । ३६.१२८/२मामाह शङ्करश्चैवं देवदेवो जगत्पतिः ॥ ३६.१२८॥ ३६.१२९/१शिव उवाच । यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् । ३६.१२९/२कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ ३६.१२९॥ ३६.१३०/१ब्रह्मोवाच । ततश्चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् । ३६.१३०/२हस्तं देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥ ३६.१३०॥ ३६.१३१/१ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः । ३६.१३१/२श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ ३६.१३१॥ ३६.१३२/१यथोक्तविधिना हुत्वा सर्पिस्तद् अमृतं हविः । ३६.१३२/२ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ ३६.१३२॥ ३६.१३३/१मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः । ३६.१३३/२पुत्रैश्च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ ३६.१३३॥ ३६.१३४/१वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् । ३६.१३४/२योगेनैव तयोर्विप्रास्तद् उमापरमेशयोः ॥ ३६.१३४॥ ३६.१३५/१उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् । ३६.१३५/२इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् । ३६.१३५/३उद्वाहश्चैव देवस्य शृणुध्वं परमाद्भुतम् ॥ ३६.१३५॥ ३७.१/१ब्रह्मोवाच । अथ वृत्ते विवाहे तु भवस्यामिततेजसः । ३७.१/२प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः । ३७.१/३तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१॥ ३७.२/१देवा ऊचुः । नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । ३७.२/२नमः पवनवेगाय विरूपायाजिताय च । ३७.२/३नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३७.२॥ ३७.३/१नमो नीलशिखण्डाय अम्बिकापतये नमः । ३७.३/२नमः पवनरूपाय शतरूपाय वै नमः ॥ ३७.३॥ ३७.४/१नमो भैरवरूपाय विरूपनयनाय च । ३७.४/२नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ३७.४॥ ३७.५/१नमो देववयस्याय वेदाङ्गाय नमो नमः । ३७.५/२विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ ३७.५॥ ३७.६/१चराचराधिपतये शमनाय नमो नमः । ३७.६/२सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ३७.६॥ ३७.७/१नमः कपालमालाय कपालसूत्रधारिणे । ३७.७/२नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ३७.७॥ ३७.८/१नमस्त्रैलोक्यनाथाय पशुलोकरताय च । ३७.८/२नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ३७.८॥ ३७.९/१नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे । ३७.९/२भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ३७.९॥ ३७.१०/१नमः पिनाकशूलासि+ ।खड्गमुद्गरधारिणे । ३७.१०/२नमोऽस्तु कालकालाय तृतीयनयनाय च ॥ ३७.१०॥ ३७.११/१अन्तकान्तकृते चैव नमः पर्वतवासिने । ३७.११/२सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ३७.११॥ ३७.१२/१दैत्यानां योगनाशाय योगिनां गुरवे नमः । ३७.१२/२शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ ३७.१२॥ ३७.१३/१नमः श्मशानरतये श्मशानवरदाय च । ३७.१३/२नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ ३७.१३॥ ३७.१४/१गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे । ३७.१४/२नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ३७.१४॥ ३७.१५/१सलिले तप्यमानाय योगैश्वर्यप्रदाय च । ३७.१५/२नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ३७.१५॥ ३७.१६/१नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । ३७.१६/२नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ ३७.१६॥ ३७.१७/१नमः पित्रेऽथ साङ्ख्याय विश्वेदेवाय वै नमः । ३७.१७/२नमः शर्वाय उग्राय शिवाय वरदाय च ॥ ३७.१७॥ ३७.१८/१नमो भीमाय सेनान्ये पशूनां पतये नमः । ३७.१८/२शुचये वैरिहानाय सद्योजाताय वै नमः ॥ ३७.१८॥ ३७.१९/१महादेवाय चित्राय विचित्राय च वै नमः । ३७.१९/२प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ ३७.१९॥ ३७.२०/१पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च । ३७.२०/२नमः पुरुषसंयोग+ ।प्रधानगुणकारिणे ॥ ३७.२०॥ ३७.२१/१प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ३७.२१/२कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ ३७.२१॥ ३७.२२/१कालज्ञाय च सर्वेषां नमो नियमकारिणे । ३७.२२/२नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ३७.२२॥ ३७.२३/१नमस्ते देवदेवेश नमस्ते भूतभावन । ३७.२३/२शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ ३७.२३॥ ३७.२४/१ब्रह्मोवाच । एवं स भगवान् देवो जगत्पतिरुमापतिः । ३७.२४/२स्तूयमानः सुरैः सर्वैरमरान् इदमब्रवीत् ॥ ३७.२४॥ ३७.२५/१श्रीशङ्कर उवाच । द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः । ३७.२५/२वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ ३७.२५॥ ३७.२६/१ब्रह्मोवाच । ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ ३७.२६॥ ३७.२७/१देवा ऊचुः । तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् । ३७.२७/२यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ३७.२७॥ ३७.२८/१ब्रह्मोवाच । एवमस्त्विति तान् उक्त्वा विसृज्य च सुरान् हरः । ३७.२८/२लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ ३७.२८॥ ३७.२९/१यस्तु हरोत्सवमद्भुतमेनम् । ३७.२९/२गायति दैवतविप्रसमक्षम् । ३७.२९/३सोऽप्रतिरूपगणेशसमानो । ३७.२९/४देहविपर्ययमेत्य सुखी स्यात् ॥ ३७.२९॥ ३७.३०/१ब्रह्मोवाच । विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच्च यः । ३७.३०/२स सर्वलोकगो देवैः पूज्यतेऽमरराड् इव ॥ ३७.३०॥ ३८.१/१ब्रह्मोवाच । प्रविष्टे भवनं देवे सूपविष्टे वरासने । ३८.१/२स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१॥ ३८.२/१तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । ३८.२/२लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ ३८.२॥ ३८.३/१ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । ३८.३/२चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३८.३॥ ३८.४/१अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः । ३८.४/२नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ३८.४॥ ३८.५/१ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । ३८.५/२सहसा रतिभर्तारमदहत् सपरिच्छदम् ॥ ३८.५॥ ३८.६/१स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् । ३८.६/२प्रसादयंश्च तं देवं पपात धरणीतले ॥ ३८.६॥ ३८.७/१अथ सोऽग्निपरीताङ्गो मन्मथो लोकतापनः । ३८.७/२पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ३८.७॥ ३८.८/१पत्नी तु करुणं तस्य विललाप सुदुःखिता । ३८.८/२देवीं देवं च दुःखार्ता अयाचत् करुणावती ॥ ३८.८॥ ३८.९/१तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ । ३८.९/२ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ३८.९॥ ३८.१०/१उमामहेश्वरावूचतुः । दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । ३८.१०/२अशरीरोऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ ३८.१०॥ ३८.११/१यदा तु विष्णुर्भगवान् वसुदेवसुतः शुभे । ३८.११/२तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ ३८.११॥ ३८.१२/१ब्रह्मोवाच । ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना । ३८.१२/२जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ३८.१२॥ ३८.१३/१दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः । ३८.१३/२रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ ३८.१३॥ ३८.१४/१कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च । ३८.१४/२निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ ३८.१४॥ ३८.१५/१नदीतीरेषु कान्तेषु किंनराचरितेषु च । ३८.१५/२शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ ३८.१५॥ ३८.१६/१वनराजिषु रम्यासु नानापक्षिरुतेषु च । ३८.१६/२तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ ३८.१६॥ ३८.१७/१एतेषु पुण्येषु मनोहरेषु । ३८.१७/२देशेषु विद्याधरभूषितेषु । ३८.१७/३गन्धर्वयक्षामरसेवितेषु । ३८.१७/४रेमे स देव्या सहितस्त्रिनेत्रः ॥ ३८.१७॥ ३८.१८/१देवैः सहेन्द्रैर्मुनियक्षसिद्धैर्। ३८.१८/२गन्धर्वविद्याधरदैत्यमुख्यैः । ३८.१८/३अन्यैश्च सर्वैर्विविधैर्वृतोऽसौ । ३८.१८/४तस्मिन् नगे हर्षमवाप शम्भुः ॥ ३८.१८॥ ३८.१९/१नृत्यन्ति तत्राप्सरसः सुरेशा । ३८.१९/२गायन्ति गन्धर्वगणाः प्रहृष्टाः । ३८.१९/३दिव्यानि वाद्यान्यथ वादयन्ति । ३८.१९/४केचिद् द्रुतं देववरं स्तुवन्ति ॥ ३८.१९॥ ३८.२०/१एवं स देवः स्वगणैरुपेतो । ३८.२०/२महाबलैः शक्रयमाग्नितुल्यैः । ३८.२०/३देव्याः प्रियार्थं भगनेत्रहन्ता । ३८.२०/४गिरिं न तत्याज तदा महात्मा ॥ ३८.२०॥ ३८.२१/१ऋषय ऊचुः । देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा । ३८.२१/२अकरोत् किं महादेव एतद् इच्छाम वेदितुम् ॥ ३८.२१॥ ३८.२२/१ब्रह्मोवाच । भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया । ३८.२२/२गणेशैर्विविधाकारैर्हासं सञ्जनयन् मुहुः ॥ ३८.२२॥ ३८.२३/१देवीं बालेन्दुतिलको रमयंश्च रराम च । ३८.२३/२महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ ३८.२३॥ ३८.२४/१अथ देव्याससादैका मातरं परमेश्वरी । ३८.२४/२आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ ३८.२४॥ ३८.२५/१अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् । ३८.२५/२आसनेन महार्हेणऽसम्पादयद् अनिन्दिताम् । ३८.२५/३आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ ३८.२५॥ ३८.२६/१मेनोवाच । चिरस्यागमनं तेऽद्य वद पुत्रि शुभेक्षणे । ३८.२६/२दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि सङ्गता ॥ ३८.२६॥ ३८.२७/१ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः । ३८.२७/२उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ ३८.२७॥ ३८.२८/१ब्रह्मोवाच । सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् । ३८.२८/२महत्या क्षमया युक्ता न किञ्चित् तामुवाच ह । ३८.२८/३विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ ३८.२८॥ ३८.२९/१पार्वत्युवाच । भगवन् देवदेवेश नेह वत्स्यामि भूधरे । ३८.२९/२अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ ३८.२९॥ ३८.३०/१देव उवाच । सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि । ३८.३०/२अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३८.३०॥ ३८.३१/१इदानीं स्वयमेव त्वं वासमन्यत्र शोभने । ३८.३१/२कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते ॥ ३८.३१॥ ३८.३२/१देव्युवाच । गृहं गतास्मि देवेश पितुरद्य महात्मनः । ३८.३२/२दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ ३८.३२॥ ३८.३३/१आसनादिभिरभ्यर्च्य सा मामेवमभाषत । ३८.३३/२उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ ३८.३३॥ ३८.३४/१क्रीडते नहि देवानां क्रीडा भवति तादृशी । ३८.३४/२यत् किल त्वं महादेव गणैश्च विविधैस्तथा । ३८.३४/३रमसे तद् अनिष्टं हि मम मातुर्वृषध्वज ॥ ३८.३४॥ ३८.३५/१ब्रह्मोवाच । ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ ३८.३५॥ ३८.३६/१देव उवाच । एवमेव न सन्देहः कस्मान् मन्युरभूत् तव । ३८.३६/२कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥ ३८.३६॥ ३८.३७/१अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च । ३८.३७/२विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने ॥ ३८.३७॥ ३८.३८/१मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव । ३८.३८/२नहि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥ ३८.३८॥ ३८.३९/१देव्युवाच । न मेऽस्ति बन्धुभिः किञ्चित् कृत्यं सुरवरेश्वर । ३८.३९/२तथा कुरु महादेव यथाहं सुखमाप्नुयाम् ॥ ३८.३९॥ ३८.४०/१ब्रह्मोवाच । श्रुत्वा स देव्या वचनं सुरेशस्- । ३८.४०/२तस्याः प्रियार्थे स्वगिरिं विहाय । ३८.४०/३जगाम मेरुं सुरसिद्धसेवितम् । ३८.४०/४भार्यासहायः स्वगणैश्च युक्तः ॥ ३८.४०॥ ३९.१/१ऋषय ऊचुः । प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे । ३९.१/२विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥ ३९.१॥ ३९.२/१देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः । ३९.२/२कथं विनाशितो यज्ञो दक्षस्यामिततेजसः । ३९.२/३महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात् ॥ ३९.२॥ ३९.३/१ब्रह्मोवाच । वर्णयिष्यामि वो विप्रा महादेवेन वै यथा । ३९.३/२क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३९.३॥ ३९.४/१पुरा मेरोर्द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् । ३९.४/२ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ३९.४॥ ३९.५/१अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् । ३९.५/२तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ३९.५॥ ३९.६/१पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह । ३९.६/२शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ३९.६॥ ३९.७/१आदित्याश्च महात्मानो वसवश्च महौजसः । ३९.७/२तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ ३९.७॥ ३९.८/१तथा वैश्रवणो राजा गुह्यकैः परिवारितः । ३९.८/२यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥ ३९.८॥ ३९.९/१उपासते महात्मानमुशना च महामुनिः । ३९.९/२सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ३९.९॥ ३९.१०/१अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च । ३९.१०/२विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३९.१०॥ ३९.११/१अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः । ३९.११/२ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ ३९.११॥ ३९.१२/१सर्वर्तुकुसुमोपेतः पुष्पवन्तोऽभवन् द्रुमाः । ३९.१२/२तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ ३९.१२॥ ३९.१३/१महादेवं पशुपतिं पर्युपासत तत्र वै । ३९.१३/२भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३९.१३॥ ३९.१४/१राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः । ३९.१४/२बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ ३९.१४॥ ३९.१५/१देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः । ३९.१५/२नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः ॥ ३९.१५॥ ३९.१६/१प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । ३९.१६/२गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ ३९.१६॥ ३९.१७/१पर्युपासत तं देवं रूपिणी द्विजसत्तमाः । ३९.१७/२एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ ३९.१७॥ ३९.१८/१देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत । ३९.१८/२कस्यचित् त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ ३९.१८॥ ३९.१९/१पूर्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत । ३९.१९/२ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ ३९.१९॥ ३९.२०/१स्वर्गस्थानाद् अथागम्य दक्षमापेदिरे तथा । ३९.२०/२ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ ३९.२०॥ ३९.२१/१देवस्यानुमतेऽगच्छन् गङ्गाद्वारमिति श्रुतिः । ३९.२१/२गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ ३९.२१॥ ३९.२२/१ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् । ३९.२२/२पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ ३९.२२॥ ३९.२३/१सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् । ३९.२३/२आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ ३९.२३॥ ३९.२४/१विष्णुना सहिताः सर्व आगता यज्ञभागिनः । ३९.२४/२ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ ३९.२४॥ ३९.२५/१अश्विनौ मरुतश्चैव नानादेवगणैः सह । ३९.२५/२एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ ३९.२५॥ ३९.२६/१जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः । ३९.२६/२आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ ३९.२६॥ ३९.२७/१विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । ३९.२७/२तान् दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ ३९.२७॥ ३९.२८/१दधीचिरुवाच । अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । ३९.२८/२नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ ३९.२८॥ ३९.२९/१ब्रह्मोवाच । एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ३९.२९॥ ३९.३०/१दधीचिरुवाच । पूज्यं च पशुभर्तारं कस्मान् नार्चयसे प्रभुम् ॥ ३९.३०॥ ३९.३१/१दक्ष उवाच । सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । ३९.३१/२एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ ३९.३१॥ ३९.३२/१दधीचिरुवाच । सर्वेषामेकमन्त्रोऽयं ममेशो न निमन्त्रितः । ३९.३२/२यथाहं शङ्कराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् । ३९.३२/३तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥ ३९.३२॥ ३९.३३/१दक्ष उवाच । दक्ष उवाच । विष्णोश्च भागा विविधाः प्रदत्तास्- । ३९.३३/२तथा च रुद्रेभ्य उत प्रदत्ताः । ३९.३३/३अन्येऽपि देवा निजभागयुक्ता । ३९.३३/४ददामि भागं न तु शङ्कराय ॥ ३९.३३॥ ३९.३४/१ब्रह्मोवाच । गतास्तु देवता ज्ञात्वा शैलराजसुता तदा । ३९.३४/२उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ ३९.३४॥ ३९.३५/१उमोवाच । भगवन् कुत्र यान्त्येते देवाः शक्रपुरोगमाः । ३९.३५/२ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् ॥ ३९.३५॥ ३९.३६/१महेश्वर उवाच । दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । ३९.३६/२हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३९.३६॥ ३९.३७/१देव्युवाच । यज्ञमेतं महाभाग किमर्थं नानुगच्छसि । ३९.३७/२केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ ३९.३७॥ ३९.३८/१महेश्वर उवाच । सुरैरेव महाभागे सर्वमेतद् अनुष्ठितम् । ३९.३८/२यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३९.३८॥ ३९.३९/१पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि । ३९.३९/२न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ ३९.३९॥ ३९.४०/१उमोवाच । भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः । ३९.४०/२अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ३९.४०॥ ३९.४१/१अनेन तु महाभाग प्रतिषेधेन भागतः । ३९.४१/२अतीव दुःखमापन्ना वेपथुश्च महान् अयम् ॥ ३९.४१॥ ३९.४२/१किं नाम दानं नियमं तपो वा । ३९.४२/२कुर्यामहं येन पतिर्ममाद्य । ३९.४२/३लभेत भागं भगवान् अचिन्त्यो । ३९.४२/४यज्ञस्य चेन्द्राद्यमरैर्विचित्रम् ॥ ३९.४२॥ ३९.४३/१ब्रह्मोवाच । एवं ब्रुवाणां भगवान् विचिन्त्य । ३९.४३/२पत्नीं प्रहृष्टः क्षुभितामुवाच । ३९.४३/३महेश्वर उवाच । न वेत्सि मां देवि कृशोदराङ्गि । ३९.४३/४किं नाम युक्तं वचनं तवेदम् ॥ ३९.४३॥ ३९.४४/१अहं विजानामि विशालनेत्रे । ३९.४४/२ध्यानेन सर्वे च विदन्ति सन्तः । ३९.४४/३तवाद्य मोहेन सहेन्द्रदेवा । ३९.४४/४लोकत्रयं सर्वमथो विनष्टम् ॥ ३९.४४॥ ३९.४५/१मामध्वरेशं नितरां स्तुवन्ति । ३९.४५/२रथन्तरं साम गायन्ति मह्यम् । ३९.४५/३मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति । ३९.४५/४ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ३९.४५॥ ३९.४६/१देव्युवाच । विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि । ३९.४६/२स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥ ३९.४६॥ ३९.४७/१भगवान् उवाच । नात्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि । ३९.४७/२संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ ३९.४७॥ ३९.४८/१ब्रह्मोवाच । इत्युक्त्वा भगवान् पत्नीमुमां प्राणैरपि प्रियाम् । ३९.४८/२सोऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसम्भवम् ॥ ३९.४८॥ ३९.४९/१तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वरः । ३९.४९/२नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ ३९.४९॥ ३९.५०/१ब्रह्मोवाच । ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया । ३९.५०/२देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ ३९.५०॥ ३९.५१/१मन्युना च महाभीमा भद्रकाली महेश्वरी । ३९.५१/२आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ ३९.५१॥ ३९.५२/१स एष भगवान् क्रोधः प्रेतावासकृतालयः । ३९.५२/२वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ ३९.५२॥ ३९.५३/१सोऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् । ३९.५३/२रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान् ॥ ३९.५३॥ ३९.५४/१रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः । ३९.५४/२ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ॥ ३९.५४॥ ३९.५५/१ततः किलकिलाशब्द आकाशं पूरयन्न् इव । ३९.५५/२समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः ॥ ३९.५५॥ ३९.५६/१तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः । ३९.५६/२पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ॥ ३९.५६॥ ३९.५७/१मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः । ३९.५७/२अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ ३९.५७॥ ३९.५८/१ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः । ३९.५८/२ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ ३९.५८॥ ३९.५९/१एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः । ३९.५९/२प्रभञ्जन्त्यपरे यूपान् घोरान् उत्पाटयन्ति च ॥ ३९.५९॥ ३९.६०/१प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे । ३९.६०/२त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ ३९.६०॥ ३९.६१/१चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च । ३९.६१/२शीर्यमाणान्यदृश्यन्त तारा इव नभस्तलात् ॥ ३९.६१॥ ३९.६२/१दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः । ३९.६२/२क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥ ३९.६२॥ ३९.६३/१मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः । ३९.६३/२षड्रसान् निवहन्त्यन्या गुडकुल्या मनोरमाः ॥ ३९.६३॥ ३९.६४/१उच्चावचानि मांसानि भक्ष्याणि विविधानि च । ३९.६४/२यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ ३९.६४॥ ३९.६५/१भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च । ३९.६५/२रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ ३९.६५॥ ३९.६६/१भक्षयन्तोऽथ शैलाभा भीषयन्तश्च सर्वतः । ३९.६६/२क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ ३९.६६॥ ३९.६७/१एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् । ३९.६७/२रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥ ३९.६७॥ ३९.६८/१तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः । ३९.६८/२चक्रुरन्ये तथा नादान् सर्वभूतभयङ्करान् ॥ ३९.६८॥ ३९.६९/१छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयङ्करम् । ३९.६९/२ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः । ३९.६९/३ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति ॥ ३९.६९॥ ३९.७०/१वीरभद्र उवाच । नाहं देवो न दैत्यो वा न च भोक्तुमिहागतः । ३९.७०/२नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ ३९.७०॥ ३९.७१/१दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः । ३९.७१/२वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः ॥ ३९.७१॥ ३९.७२/१भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता । ३९.७२/२प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥ ३९.७२॥ ३९.७३/१शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् । ३९.७३/२वरं क्रोधोऽपि देवस्य न वरः परिचारकैः ॥ ३९.७३॥ ३९.७४/१ब्रह्मोवाच । निखातोत्पाटितैर्यूपैरपविद्धैस्ततस्ततः । ३९.७४/२उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥ ३९.७४॥ ३९.७५/१पक्षवातविनिर्धूतैः शिवारुतविनादितैः । ३९.७५/२स तस्य यज्ञो नृपतेर्बाध्यमानस्तदा गणैः ॥ ३९.७५॥ ३९.७६/१आस्थाय मृगरूपं वै खमेवाभ्यपतत् तदा । ३९.७६/२तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ ३९.७६॥ ३९.७७/१धनुरादाय बाणं च तदर्थमगमत् प्रभुः । ३९.७७/२ततस्तस्य गणेशस्य क्रोधाद् अमिततेजसः ॥ ३९.७७॥ ३९.७८/१ललाटात् प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह । ३९.७८/२तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ ३९.७८॥ ३९.७९/१प्रादुर्भूतो महान् अग्निर्ज्वलत्कालानलोपमः । ३९.७९/२तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ ३९.७९॥ ३९.८०/१ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर्विभीषणः । ३९.८०/२ऊर्ध्वकेशोऽतिरोमाङ्गः शोणकर्णस्तथैव च ॥ ३९.८०॥ ३९.८१/१करालकृष्णवर्णश्च रक्तवासास्तथैव च । ३९.८१/२तं यज्ञं स महासत्त्वोऽदहत् कक्षमिवानलः ॥ ३९.८१॥ ३९.८२/१देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश । ३९.८२/२तेन तस्मिन् विचरता विक्रमेण तदा तु वै ॥ ३९.८२॥ ३९.८३/१पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः । ३९.८३/२महाभूते प्रवृत्ते तु देवलोकभयङ्करे ॥ ३९.८३॥ ३९.८४/१तदा चाहं महादेवमब्रवं प्रतिपूजयन् । ३९.८४/२भवतेऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ ३९.८४॥ ३९.८५/१क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया । ३९.८५/२इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥ ३९.८५॥ ३९.८६/१तव क्रोधान् महादेव न शान्तिमुपलेभिरे । ३९.८६/२यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभ ॥ ३९.८६॥ ३९.८७/१ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति । ३९.८७/२एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ॥ ३९.८७॥ ३९.८८/१समर्था सकला पृथ्वी बहुधा सृज्यतामयम् । ३९.८८/२इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥ ३९.८८॥ ३९.८९/१भगवान् मां तथेत्याह देवदेवः पिनाकधृक् । ३९.८९/२परां च प्रीतिमगमत् स स्वयं च पिनाकधृक् ॥ ३९.८९॥ ३९.९०/१दक्षोऽपि मनसा देवं भवं शरणमन्वगात् । ३९.९०/२प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ ३९.९०॥ ३९.९१/१विधार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् । ३९.९१/२स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते ॥ ३९.९१॥ ३९.९२/१श्राविते च महाख्याने देवानां पितृभिः सह । ३९.९२/२तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । ३९.९२/३भीतः शङ्कितचित्तस्तु सबाष्पवदनेक्षणः ॥ ३९.९२॥ ३९.९३/१दक्ष उवाच । यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः । ३९.९३/२यदि चाहमनुग्राह्यो यदि देयो वरो मम ॥ ३९.९३॥ ३९.९४/१यद् भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् । ३९.९४/२चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् ॥ ३९.९४॥ ३९.९५/१दीर्घकालेन महता प्रयत्नेन च सञ्चितम् । ३९.९५/२न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर ॥ ३९.९५॥ ३९.९६/१ब्रह्मोवाच । तथास्त्वित्याह भगवान् भगनेत्रहरो हरः । ३९.९६/२धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ ३९.९६॥ ३९.९७/१जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् । ३९.९७/२नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥ ३९.९७॥ ४०.१/१ब्रह्मोवाच । एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः । ४०.१/२प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१॥ ४०.२/१दक्ष उवाच । नमस्ते देवदेवेश नमस्तेऽन्धकसूदन । ४०.२/२देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ ४०.२॥ ४०.३/१सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । ४०.३/२सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ ४०.३॥ ४०.४/१सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि । ४०.४/२शङ्कुकर्णो महाकर्णः कुम्भकर्णोऽर्णवालयः ॥ ४०.४॥ ४०.५/१गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते । ४०.५/२शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ४०.५॥ ४०.६/१गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः । ४०.६/२देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ४०.६॥ ४०.७/१मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः । ४०.७/२त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ४०.७॥ ४०.८/१त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् । ४०.८/२आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ४०.८॥ ४०.९/१क्रिया करणकार्ये च कर्ता कारणमेव च । ४०.९/२असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ ४०.९॥ ४०.१०/१नमो भवाय शर्वाय रुद्राय वरदाय च । ४०.१०/२पशूनां पतये चैव नमोऽस्त्वन्धकघातिने ॥ ४०.१०॥ ४०.११/१त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । ४०.११/२त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ४०.११॥ ४०.१२/१नमश्चण्डाय मुण्डाय विश्वचण्डधराय च । ४०.१२/२दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ ४०.१२॥ ४०.१३/१नमोऽर्धदण्डिकेशाय शुष्काय विकृताय च । ४०.१३/२विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ ४०.१३॥ ४०.१४/१नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च । ४०.१४/२सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ ४०.१४॥ ४०.१५/१नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । ४०.१५/२नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ४०.१५॥ ४०.१६/१हिरण्यकृतचूडाय हिरण्यपतये नमः । ४०.१६/२शत्रुघाताय चण्डाय पर्णसङ्घशयाय च ॥ ४०.१६॥ ४०.१७/१नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । ४०.१७/२सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ ४०.१७॥ ४०.१८/१नमो होमाय मन्त्राय शुक्लध्वजपताकिने । ४०.१८/२नमोऽनम्याय नम्याय नमः किलकिलाय च ॥ ४०.१८॥ ४०.१९/१नमस्त्वां शयमानाय शयितायोत्थिताय च । ४०.१९/२स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ ४०.१९॥ ४०.२०/१नमो नर्तनशीलाय मुखवादित्रकारिणे । ४०.२०/२बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ ४०.२०॥ ४०.२१/१नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । ४०.२१/२उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ ४०.२१॥ ४०.२२/१नमः कपालहस्ताय सितभस्मप्रियाय च । ४०.२२/२विभीषणाय भीमाय भीष्मव्रतधराय च ॥ ४०.२२॥ ४०.२३/१नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । ४०.२३/२पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ ४०.२३॥ ४०.२४/१अघोरघोररूपाय घोराघोरतराय च । ४०.२४/२नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ ४०.२४॥ ४०.२५/१नमो बुद्धाय शुद्धाय संविभागप्रियाय च । ४०.२५/२पवनाय पतङ्गाय नमः साङ्ख्यपराय च ॥ ४०.२५॥ ४०.२६/१नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । ४०.२६/२सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ ४०.२६॥ ४०.२७/१प्राणदण्डाय नित्याय नमस्ते लोहिताय च । ४०.२७/२हूंहूङ्काराय रुद्राय भगाकारप्रियाय च ॥ ४०.२७॥ ४०.२८/१नमोऽपारवते नित्यं गिरिवृक्षप्रियाय च । ४०.२८/२नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ ४०.२८॥ ४०.२९/१यज्ञवाहाय दान्ताय तप्याय च भगाय च । ४०.२९/२नमस्तटाय तट्याय तटिनीपतये नमः ॥ ४०.२९॥ ४०.३०/१अन्नदायान्नपतये नमस्त्वन्नभुजाय च । ४०.३०/२नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ४०.३०॥ ४०.३१/१सहस्रोद्धतशूलाय सहस्रनयनाय च । ४०.३१/२नमो बालार्कवर्णाय बालरूपधराय च ॥ ४०.३१॥ ४०.३२/१नमो बालार्करूपाय बालक्रीडनकाय च । ४०.३२/२नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ ४०.३२॥ ४०.३३/१तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । ४०.३३/२नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ४०.३३॥ ४०.३४/१वर्णाश्रमाणां विधिवत् पृथग्धर्मप्रवर्तिने । ४०.३४/२नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ४०.३४॥ ४०.३५/१श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । ४०.३५/२धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ४०.३५॥ ४०.३६/१साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । ४०.३६/२नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ ४०.३६॥ ४०.३७/१कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ४०.३७/२ईशान रुद्रसङ्घात हरिकेश नमोऽस्तु ते ॥ ४०.३७॥ ४०.३८/१त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमोऽस्तु ते । ४०.३८/२कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ४०.३८॥ ४०.३९/१सर्वगर्हित सर्वघ्न सद्योजात नमोऽस्तु ते । ४०.३९/२उन्मादन शतावर्त+ ।गङ्गातोयार्द्रमूर्धज ॥ ४०.३९॥ ४०.४०/१चन्द्रार्धसंयुगावर्त मेघावर्त नमोऽस्तु ते । ४०.४०/२नमोऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४०.४०॥ ४०.४१/१अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल । ४०.४१/२जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ ४०.४१॥ ४०.४२/१त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः । ४०.४२/२चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ ४०.४२॥ ४०.४३/१त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । ४०.४३/२सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४०.४३॥ ४०.४४/१ऋक्सामानि तथौङ्कारमाहुस्त्वां ब्रह्मवादिनः । ४०.४४/२हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ ४०.४४॥ ४०.४५/१गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । ४०.४५/२यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ ४०.४५॥ ४०.४६/१पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः । ४०.४६/२ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश्च ये ॥ ४०.४६॥ ४०.४७/१त्वमेवाश्रमसङ्घाश्च विद्युत् स्तनितमेव च । ४०.४७/२संवत्सरस्त्वम् ऋतवो मासा मासार्धमेव च ॥ ४०.४७॥ ४०.४८/१कला काष्ठा निमेषाश्च नक्षत्राणि युगानि च । ४०.४८/२वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४०.४८॥ ४०.४९/१सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् । ४०.४९/२क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ ४०.४९॥ ४०.५०/१वज्रं प्रहरणानां च व्रतानां सत्यमेव च । ४०.५०/२त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ ४०.५०॥ ४०.५१/१व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ । ४०.५१/२त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ४०.५१॥ ४०.५२/१छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः । ४०.५२/२दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ॥ ४०.५२॥ ४०.५३/१इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । ४०.५३/२लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ ४०.५३॥ ४०.५४/१द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । ४०.५४/२आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ॥ ४०.५४॥ ४०.५५/१हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः । ४०.५५/२कद्रुश्च कपिलो बभ्रुः कपोतो मच्छकस्तथा ॥ ४०.५५॥ ४०.५६/१सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः । ४०.५६/२सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ४०.५६॥ ४०.५७/१त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः । ४०.५७/२उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ ४०.५७॥ ४०.५८/१होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । ४०.५८/२त्रिसौपर्णस्तथा ब्रह्मन् यजुषां शतरुद्रियम् ॥ ४०.५८॥ ४०.५९/१पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । ४०.५९/२प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ ४०.५९॥ ४०.६०/१प्राणोऽपानः समानश्च उदानो व्यान एव च । ४०.६०/२उन्मेषश्च निमेषश्च क्षुत्तृङ्जृम्भा तथैव च ॥ ४०.६०॥ ४०.६१/१लोहिताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः । ४०.६१/२शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ ४०.६१॥ ४०.६२/१गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । ४०.६२/२मत्स्यो जालो जलोऽजय्यो जलव्यालः कुटीचरः ॥ ४०.६२॥ ४०.६३/१विकालश्च सुकालश्च दुष्कालः कालनाशनः । ४०.६३/२मृत्युश्चैवाक्षयोऽन्तश्च क्षमामायाकरोत्करः ॥ ४०.६३॥ ४०.६४/१संवर्तो वर्तकश्चैव संवर्तकबलाहकौ । ४०.६४/२घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ४०.६४॥ ४०.६५/१ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् । ४०.६५/२चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ४०.६५॥ ४०.६६/१चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च ह । ४०.६६/२क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ ४०.६६॥ ४०.६७/१रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः । ४०.६७/२शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ ४०.६७॥ ४०.६८/१भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः । ४०.६८/२स्वाहा स्वधा वषट्कारो नमस्कार नमोऽस्तु ते ॥ ४०.६८॥ ४०.६९/१गूढव्रतश्च गूढश्च गूढव्रतनिषेवितः । ४०.६९/२तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ ४०.६९॥ ४०.७०/१धाता विधाता सन्धाता निधाता धारणो धरः । ४०.७०/२तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ ४०.७०॥ ४०.७१/१भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः । ४०.७१/२भूर्भुवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ ४०.७१॥ ४०.७२/१ब्रह्मावर्तः सुरावर्तः कामावर्त नमोऽस्तु ते । ४०.७२/२कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ४०.७२॥ ४०.७३/१गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः । ४०.७३/२त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ४०.७३॥ ४०.७४/१अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखोऽमुखः । ४०.७४/२चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ ४०.७४॥ ४०.७५/१हिरण्यगर्भः शकुनिर्धनदोऽर्थपतिर्विराट् । ४०.७५/२अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ४०.७५॥ ४०.७६/१तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः । ४०.७६/२दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ४०.७६॥ ४०.७७/१दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । ४०.७७/२शशः शशाङ्कनयन+ ।शीतोष्णः क्षुत् तृषा जरा ॥ ४०.७७॥ ४०.७८/१आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः । ४०.७८/२सह्यो यज्ञमृगव्याधो व्याधीनामाकरोऽकरः ॥ ४०.७८॥ ४०.७९/१शिखण्डी पुण्डरीकश्च पुण्डरीकावलोकनः । ४०.७९/२दण्डधृक् चक्रदण्डश्च रौद्रभागविनाशनः ॥ ४०.७९॥ ४०.८०/१विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः । ४०.८०/२मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ ४०.८०॥ ४०.८१/१वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः । ४०.८१/२वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ४०.८१॥ ४०.८२/१चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । ४०.८२/२अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ ४०.८२॥ ४०.८३/१न ब्रह्मा न च गोविन्दः पुराणर्षयो न च । ४०.८३/२माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ४०.८३॥ ४०.८४/१शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् । ४०.८४/२ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ ४०.८४॥ ४०.८५/१रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते । ४०.८५/२भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ ४०.८५॥ ४०.८६/१यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् । ४०.८६/२तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ४०.८६॥ ४०.८७/१यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ४०.८७/२ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ४०.८७॥ ४०.८८/१सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । ४०.८८/२यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ ४०.८८॥ ४०.८९/१प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ४०.८९/२ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ४०.८९॥ ४०.९०/१अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । ४०.९०/२रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ४०.९०॥ ४०.९१/१येनाप्युत्पादिता गर्भा अपो भागगताश्च ये । ४०.९१/२तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ४०.९१॥ ४०.९२/१येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । ४०.९२/२हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ ४०.९२॥ ४०.९३/१ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । ४०.९३/२वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ४०.९३॥ ४०.९४/१चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । ४०.९४/२हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ४०.९४॥ ४०.९५/१येषु पञ्चसु भूतेषु दिशासु विदिशासु च । ४०.९५/२इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ४०.९५॥ ४०.९६/१रसातलगता ये च ये च तस्मात् परं गताः । ४०.९६/२नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ ४०.९६॥ ४०.९७/१सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः । ४०.९७/२सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ४०.९७॥ ४०.९८/१त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः । ४०.९८/२त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ४०.९८॥ ४०.९९/१अथवा मायया देव मोहितः सूक्ष्मया तव । ४०.९९/२तस्मात् तु कारणाद् वापि त्वं मया न निमन्त्रितः ॥ ४०.९९॥ ४०.१००/१प्रसीद मम देवेश त्वमेव शरणं मम । ४०.१००/२त्वं गतिस्त्वं प्रतिष्ठा च न चान्योऽस्तीति मे मतिः ॥ ४०.१००॥ ४०.१०१/१ब्रह्मोवाच । स्तुत्वैवं स महादेवं विरराम महामतिः । ४०.१०१/२भगवान् अपि सुप्रीतः पुनर्दक्षमभाषत ॥ ४०.१०१॥ ४०.१०२/१श्रीभगवान् उवाच । परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । ४०.१०२/२बहुना तु किमुक्तेन मत्समीपं गमिष्यसि ॥ ४०.१०२॥ ४०.१०३/१ब्रह्मोवाच । तथैवमब्रवीद् वाक्यं त्रैलोक्याधिपतिर्भवः । ४०.१०३/२कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ ४०.१०३॥ ४०.१०४/१श्रीशिव उवाच । दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति । ४०.१०४/२अहं यज्ञहनस्तुभ्यं दृष्टमेतत् पुरानघ ॥ ४०.१०४॥ ४०.१०५/१भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत । ४०.१०५/२प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु ॥ ४०.१०५॥ ४०.१०६/१अश्वमेधसहस्रस्य वाजपेयशतस्य वै । ४०.१०६/२प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ ४०.१०६॥ ४०.१०७/१वेदान् षडङ्गान् बुध्यस्व साङ्ख्ययोगांश्च कृत्स्नशः । ४०.१०७/२तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ४०.१०७॥ ४०.१०८/१अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् । ४०.१०८/२वर्णाश्रमकृतैर्धर्मैर्विनीतं न क्वचित् क्वचित् ॥ ४०.१०८॥ ४०.१०९/१समागतं व्यवसितं पशुपाशविमोक्षणम् । ४०.१०९/२सर्वेषामाश्रमाणां च मया पाशुपतं व्रतम् ॥ ४०.१०९॥ ४०.११०/१उत्पादितं दक्ष शुभं सर्वपापविमोचनम् । ४०.११०/२अस्य चीर्णस्य यत् सम्यक् फलं भवति पुष्कलम् । ४०.११०/३तच्चास्तु सुमहाभाग मानसस्त्यज्यतां ज्वरः ॥ ४०.११०॥ ४०.१११/१ब्रह्मोवाच । एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः । ४०.१११/२अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ ४०.१११॥ ४०.११२/१अवाप्य च तथा भागं यथोक्तं चोमया भवः । ४०.११२/२ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत् तदा ॥ ४०.११२॥ ४०.११३/१शान्त्यर्थं सर्वभूतानां शृणुध्वमथ वै द्विजाः । ४०.११३/२शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ ४०.११३॥ ४०.११४/१अपां तु नीलिकां विद्यान् निर्मोको भुजगेषु च । ४०.११४/२खोरकः सौरभेयाणामूखरः पृथिवीतले ॥ ४०.११४॥ ४०.११५/१शुनामपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् । ४०.११५/२रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ॥ ४०.११५॥ ४०.११६/१नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् । ४०.११६/२जनानामपि भेदश्च सर्वेषामिति नः श्रुतम् ॥ ४०.११६॥ ४०.११७/१शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः । ४०.११७/२शार्दूलेष्वथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ ४०.११७॥ ४०.११८/१मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः । ४०.११८/२मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ ४०.११८॥ ४०.११९/१एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः । ४०.११९/२नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ४०.११९॥ ४०.१२०/१इमां ज्वरोत्पत्तिमदीनमानसः । ४०.१२०/२पठेत् सदा यः सुसमाहितो नरः । ४०.१२०/३विमुक्तरोगः स नरो मुदायुतो । ४०.१२०/४लभेत कामांश्च यथामनीषितान् ॥ ४०.१२०॥ ४०.१२१/१दक्षप्रोक्तं स्तवं चापि कीर्तयेद् यः शृणोति वा । ४०.१२१/२नाशुभं प्राप्नुयात् किञ्चिद् दीर्घमायुरवाप्नुयात् ॥ ४०.१२१॥ ४०.१२२/१यथा सर्वेषु देवेषु वरिष्ठो भगवान् भवः । ४०.१२२/२तथा स्तवो वरिष्ठोऽयं स्तवानां दक्षनिर्मितः ॥ ४०.१२२॥ ४०.१२३/१यशःस्वर्गसुरैश्वर्य+ ।वित्तादिजयकाङ्क्षिभिः । ४०.१२३/२स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ४०.१२३॥ ४०.१२४/१व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः । ४०.१२४/२राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ४०.१२४॥ ४०.१२५/१अनेनैव च देहेन गणानां च महेश्वरात् । ४०.१२५/२इह लोके सुखं प्राप्य गणराड् उपजायते ॥ ४०.१२५॥ ४०.१२६/१न यक्षा न पिशाचा वा न नागा न विनायकाः । ४०.१२६/२कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ४०.१२६॥ ४०.१२७/१शृणुयाद् वा इदं नारी भक्त्याथ भवभाविता । ४०.१२७/२पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ ४०.१२७॥ ४०.१२८/१शृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्यभीक्ष्णशः । ४०.१२८/२तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ४०.१२८॥ ४०.१२९/१मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । ४०.१२९/२सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ ४०.१२९॥ ४०.१३०/१देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च । ४०.१३०/२बलिं विभजतः कृत्वा दमेन नियमेन च ॥ ४०.१३०॥ ४०.१३१/१ततः प्रयुक्तो गृह्णीयान् नामान्याशु यथाक्रमम् । ४०.१३१/२ईप्सितांल्लभतेऽप्यर्थान् कामान् भोगांश्च मानवः ॥ ४०.१३१॥ ४०.१३२/१मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः । ४०.१३२/२सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ ४०.१३२॥ ४०.१३३/१पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । ४०.१३३/२मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ ४०.१३३॥ ४०.१३४/१वृषेण विनियुक्तेन विमानेन विराजते । ४०.१३४/२आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ४०.१३४॥ ४०.१३५/१इत्याह भगवान् व्यासः पराशरसुतः प्रभुः । ४०.१३५/२नैतद् वेदयते कश्चिन् नैतच्छ्राव्यं च कस्यचित् ॥ ४०.१३५॥ ४०.१३६/१श्रुत्वेमं परमं गुह्यं येऽपि स्युः पापयोनयः । ४०.१३६/२वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ४०.१३६॥ ४०.१३७/१श्रावयेद् यश्च विप्रेभ्यः सदा पर्वसु पर्वसु । ४०.१३७/२रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ४०.१३७॥ ४१.१/१लोमहर्षण उवाच । श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् । ४१.१/२रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१॥ ४१.२/१पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् । ४१.२/२उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ ४१.२॥ ४१.३/१दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् । ४१.३/२पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ४१.३॥ ४१.४/१यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः । ४१.४/२हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ ४१.४॥ ४१.५/१पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः । ४१.५/२पृष्टः प्रोवाच तान् व्यासः क्षेत्रमेकाम्रकं पुनः ॥ ४१.५॥ ४१.६/१व्यास उवाच । ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुङ्गवाः । ४१.६/२प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ४१.६॥ ४१.७/१ऋषय ऊचुः । अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् । ४१.७/२दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ४१.७॥ ४१.८/१एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् । ४१.८/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४१.८॥ ४१.९/१व्यास उवाच । तेषां तद् वचनं श्रुत्वा लोकनाथश्चतुर्मुखः । ४१.९/२प्रोवाच शम्भोस्तत् क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ४१.९॥ ४१.१०/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ४१.१०/२सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ ४१.१०॥ ४१.११/१लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् । ४१.११/२एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ४१.११॥ ४१.१२/१एकाम्रवृक्षस्तत्रासीत् पुरा कल्पे द्विजोत्तमाः । ४१.१२/२नाम्ना तस्यैव तत् क्षेत्रमेकाम्रकमिति श्रुतम् ॥ ४१.१२॥ ४१.१३/१हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् । ४१.१३/२विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ ४१.१३॥ ४१.१४/१गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् । ४१.१४/२नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ ४१.१४॥ ४१.१५/१पुराट्टालकसंयुक्तं रथिभिः समलङ्कृतम् । ४१.१५/२राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ ४१.१५॥ ४१.१६/१मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् । ४१.१६/२रक्षितं शस्त्रसङ्घैश्च परिखाभिरलङ्कृतम् ॥ ४१.१६॥ ४१.१७/१सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः । ४१.१७/२समीरणोद्धताभिश्च पताकाभिरलङ्कृतम् ॥ ४१.१७॥ ४१.१८/१नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः । ४१.१८/२वीणावेणुमृदङ्गैश्च क्षेपणीभिरलङ्कृतम् ॥ ४१.१८॥ ४१.१९/१देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः । ४१.१९/२पूजाविचित्ररचितैः सर्वत्र समलङ्कृतम् ॥ ४१.१९॥ ४१.२०/१स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः । ४१.२०/२हारैरलङ्कृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ ४१.२०॥ ४१.२१/१पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः । ४१.२१/२स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ ४१.२१॥ ४१.२२/१सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः । ४१.२२/२सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ ४१.२२॥ ४१.२३/१दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसंनिभाः । ४१.२३/२हंसवारणगामिन्यः कुचभारावनामिताः ॥ ४१.२३॥ ४१.२४/१दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः । ४१.२४/२मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ ४१.२४॥ ४१.२५/१ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः । ४१.२५/२ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ ४१.२५॥ ४१.२६/१सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः । ४१.२६/२दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ ४१.२६॥ ४१.२७/१क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः । ४१.२७/२स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ ४१.२७॥ ४१.२८/१पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः । ४१.२८/२सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ ४१.२८॥ ४१.२९/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः । ४१.२९/२स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ ४१.२९॥ ४१.३०/१अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः । ४१.३०/२घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ ४१.३०॥ ४१.३१/१उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा । ४१.३१/२विश्वाचीसहजन्याभाः प्रम्लोचासदृशास्तथा ॥ ४१.३१॥ ४१.३२/१सर्वास्ताः प्रियवादिन्यः सर्वा विहसिताननाः । ४१.३२/२कलाकौशलसंयुक्ताः सर्वास्ता गुणसंयुताः ॥ ४१.३२॥ ४१.३३/१एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः । ४१.३३/२निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ ४१.३३॥ ४१.३४/१प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः । ४१.३४/२न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ ४१.३४॥ ४१.३५/१यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः । ४१.३५/२न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ ४१.३५॥ ४१.३६/१न रोगिणो न मलिना न कदर्या न मायिनः । ४१.३६/२न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ ४१.३६॥ ४१.३७/१तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते । ४१.३७/२सर्वत्र सुखसञ्चारं सर्वसत्त्वसुखावहम् ॥ ४१.३७॥ ४१.३८/१नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् । ४१.३८/२कर्णिकारैश्च पनसैश्चम्पकैर्नागकेसरैः ॥ ४१.३८॥ ४१.३९/१पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः । ४१.३९/२चूतनिम्बकदम्बैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.३९॥ ४१.४०/१नीपकैर्धवखदिरैर्लताभिश्च विराजितम् । ४१.४०/२शालैस्तालैस्तमालैश्च नारिकेलैः शुभाञ्जनैः ॥ ४१.४०॥ ४१.४१/१अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः । ४१.४१/२लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥ ४१.४१॥ ४१.४२/१पलाशैर्मुचुकुन्दैश्च पारिजातैः सकुब्जकैः । ४१.४२/२कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥ ४१.४२॥ ४१.४३/१केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः । ४१.४३/२मन्दारकुन्दपुष्पैश्च तथान्यैः पुष्पजातिभिः ॥ ४१.४३॥ ४१.४४/१नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः । ४१.४४/२फलभारानतैर्वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ ४१.४४॥ ४१.४५/१चकोरैः शतपत्त्रैश्च भृङ्गराजैश्च कोकिलैः । ४१.४५/२कलविङ्कैर्मयूरैश्च प्रियपुत्रैः शुकैस्तथा ॥ ४१.४५॥ ४१.४६/१जीवञ्जीवकहारीतैश्चातकैर्वनवेष्टितैः । ४१.४६/२नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥ ४१.४६॥ ४१.४७/१दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ४१.४७/२नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥ ४१.४७॥ ४१.४८/१कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः । ४१.४८/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४१.४८॥ ४१.४९/१कारण्डवैः प्लवैर्हंसैस्तथान्यैर्जलचारिभिः । ४१.४९/२एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥ ४१.४९॥ ४१.५०/१नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः । ४१.५०/२आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ ४१.५०॥ ४१.५१/१हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः । ४१.५१/२पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥ ४१.५१॥ ४१.५२/१पुष्करिण्यस्तडागानि वाप्यः कूपाश्च सागराः । ४१.५२/२तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक् ॥ ४१.५२॥ ४१.५३/१सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह । ४१.५३/२तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः ॥ ४१.५३॥ ४१.५४/१चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् । ४१.५४/२अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ ४१.५४॥ ४१.५५/१यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः । ४१.५५/२विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ ४१.५५॥ ४१.५६/१देवान् ऋषीन् मनुष्यांश्च पितृन् सन्तर्प्य वाग्यतः । ४१.५६/२तिलोदकेन विधिना नामगोत्रविधानवित् ॥ ४१.५६॥ ४१.५७/१स्नात्वैवं विधिवत् तत्र सोऽश्वमेधफलं लभेत् । ४१.५७/२ग्रहोपरागे विषुवे सङ्क्रान्त्यामयने तथा ॥ ४१.५७॥ ४१.५८/१युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ । ४१.५८/२ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ ४१.५८॥ ४१.५९/१अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै । ४१.५९/२पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस्तटे ॥ ४१.५९॥ ४१.६०/१पितृणामक्षयां तृप्तिं ते कुर्वन्ति न संशयः । ४१.६०/२ततः शम्भोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ ४१.६०॥ ४१.६१/१प्रविश्य पूजयेच्छर्वं कृत्वा तं त्रिः प्रदक्षिणम् । ४१.६१/२घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ ४१.६१॥ ४१.६२/१चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च । ४१.६२/२ततः सम्पूजयेद् देवं चन्द्रमौलिमुमापतिम् ॥ ४१.६२॥ ४१.६३/१पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः । ४१.६३/२आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् ॥ ४१.६३॥ ४१.६४/१अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् । ४१.६४/२एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ ४१.६४॥ ४१.६५/१धूपदीपैश्च नैवेद्यैरुपहारैस्तथा स्तवैः । ४१.६५/२दण्डवत्प्रणिपातैश्च गीतैर्वाद्यैर्मनोहरैः ॥ ४१.६५॥ ४१.६६/१नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः । ४१.६६/२एवं सम्पूज्य विधिवद् देवदेवमुमापतिम् ॥ ४१.६६॥ ४१.६७/१सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । ४१.६७/२कुलैकविंशमुद्धृत्य दिव्याभरणभूषिताः ॥ ४१.६७॥ ४१.६८/१सौवर्णेन विमानेन किङ्किणीजालमालिना । ४१.६८/२उपगीयमानो गन्धर्वैरप्सरोभिरलङ्कृतः ॥ ४१.६८॥ ४१.६९/१उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति । ४१.६९/२भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ ४१.६९॥ ४१.७०/१तल्लोकवासिभिः सार्धं यावद् आभूतसम्प्लवम् । ४१.७०/२ततस्तस्माद् इहायातः पृथिव्यां पुण्यसङ्क्षये ॥ ४१.७०॥ ४१.७१/१जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः । ४१.७१/२योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४१.७१॥ ४१.७२/१शयनोत्थापने चैव सङ्क्रान्त्यामयने तथा । ४१.७२/२अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ ४१.७२॥ ४१.७३/१ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् । ४१.७३/२विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ ४१.७३॥ ४१.७४/१सर्वकालेऽपि तं देवं ये पश्यन्ति सुमेधसः । ४१.७४/२तेऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ ४१.७४॥ ४१.७५/१देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा । ४१.७५/२योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम् ॥ ४१.७५॥ ४१.७६/१तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसञ्ज्ञितम् । ४१.७६/२पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ ४१.७६॥ ४१.७७/१आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् । ४१.७७/२सर्वपापविनिर्मुक्ता विमानवरमास्थिताः ॥ ४१.७७॥ ४१.७८/१उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते । ४१.७८/२तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥ ४१.७८॥ ४१.७९/१भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् । ४१.७९/२पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले ॥ ४१.७९॥ ४१.८०/१अथवा योगिनां गेहे वेदवेदाङ्गपारगाः । ४१.८०/२उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ ४१.८०॥ ४१.८१/१मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः । ४१.८१/२योगं शम्भोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ ४१.८१॥ ४१.८२/१तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः । ४१.८२/२पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरेऽपि वा ॥ ४१.८२॥ ४१.८३/१चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति । ४१.८३/२दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥ ४१.८३॥ ४१.८४/१स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः । ४१.८४/२धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥ ४१.८४॥ ४१.८५/१दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा । ४१.८५/२सम्पूज्यैवं विधानेन शिवलोकं व्रजेन् नरः ॥ ४१.८५॥ ४१.८६/१नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता । ४१.८६/२पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥ ४१.८६॥ ४१.८७/१कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः । ४१.८७/२तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात् ॥ ४१.८७॥ ४१.८८/१तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा । ४१.८८/२माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ ४१.८८॥ ४१.८९/१यस्मिन् यस्मिंस्तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि । ४१.८९/२पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ ४१.८९॥ ४१.९०/१गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा । ४१.९०/२कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९०॥ ४१.९१/१स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने । ४१.९१/२प्राप्नोत्यभिमतान् कामाञ् शिवलोकं स गच्छति ॥ ४१.९१॥ ४१.९२/१यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः । ४१.९२/२कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ ४१.९२॥ ४१.९३/१एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे । ४१.९३/२स्नानं करोति यस्तत्र मोक्षं स लभते ध्रुवम् ॥ ४१.९३॥ ४२.१/१ब्रह्मोवाच । विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता । ४२.१/२यस्याः सन्दर्शनान् मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१॥ ४२.२/१सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च । ४२.२/२नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ ४२.२॥ ४२.३/१अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः । ४२.३/२सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ४२.३॥ ४२.४/१आस्ते वैतरणी तत्र सर्वपापहरा नदी । ४२.४/२यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४२.४॥ ४२.५/१आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् । ४२.५/२दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ४२.५॥ ४२.६/१कापिले गोग्रहे सोमे तीर्थे चालाबुसञ्ज्ञिते । ४२.६/२मृत्युञ्जये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ४२.६॥ ४२.७/१तीर्थेष्वेतेषु मतिमान् विरजे संयतेन्द्रियः । ४२.७/२गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च ॥ ४२.७॥ ४२.८/१सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ४२.८/२उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ ४२.८॥ ४२.९/१विरजे यो मम क्षेत्रे पिण्डदानं करोति वै । ४२.९/२स करोत्यक्षयां तृप्तिं पितृणां नात्र संशयः ॥ ४२.९॥ ४२.१०/१मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् । ४२.१०/२परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ ४२.१०॥ ४२.११/१स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् । ४२.११/२पश्येद् देवीं च वाराहीं स याति त्रिदशालयम् ॥ ४२.११॥ ४२.१२/१सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च । ४२.१२/२तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ ४२.१२॥ ४२.१३/१समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः । ४२.१३/२आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ ४२.१३॥ ४२.१४/१सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् । ४२.१४/२दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४२.१४॥ ४२.१५/१अशोकार्जुनपुंनागैर्बकुलैः सरलद्रुमैः । ४२.१५/२पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ ४२.१५॥ ४२.१६/१चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः । ४२.१६/२कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ ४२.१६॥ ४२.१७/१प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः । ४२.१७/२सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ ४२.१७॥ ४२.१८/१मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः । ४२.१८/२खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ ४२.१८॥ ४२.१९/१अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः । ४२.१९/२शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ ४२.१९॥ ४२.२०/१सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः । ४२.२०/२मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ ४२.२०॥ ४२.२१/१श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः । ४२.२१/२मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ ४२.२१॥ ४२.२२/१चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । ४२.२२/२कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४२.२२॥ ४२.२३/१प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः । ४२.२३/२श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ ४२.२३॥ ४२.२४/१केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः । ४२.२४/२मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ ४२.२४॥ ४२.२५/१जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः । ४२.२५/२मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ ४२.२५॥ ४२.२६/१अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः । ४२.२६/२लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ ४२.२६॥ ४२.२७/१दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । ४२.२७/२नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ ४२.२७॥ ४२.२८/१सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । ४२.२८/२कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ४२.२८॥ ४२.२९/१कह्लारैः कमलैश्चापि आचितानि समन्ततः । ४२.२९/२कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४२.२९॥ ४२.३०/१कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः । ४२.३०/२दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ४२.३०॥ ४२.३१/१एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः । ४२.३१/२खगैर्जलचरैश्चान्यैः कुसुमैश्च जलोद्भवैः ॥ ४२.३१॥ ४२.३२/१एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः । ४२.३२/२ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ ४२.३२॥ ४२.३३/१स्वधर्मनिरतैर्वर्णैस्तथान्यैः समलङ्कृतम् । ४२.३३/२हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ ४२.३३॥ ४२.३४/१अशेषविद्यानिलयं सर्वधर्मगुणाकरम् । ४२.३४/२एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ ४२.३४॥ ४२.३५/१आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः । ४२.३५/२यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता ॥ ४२.३५॥ ४२.३६/१तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः । ४२.३६/२यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ ४२.३६॥ ४२.३७/१जगद्व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् । ४२.३७/२अहं रुद्रश्च शक्रश्च देवाश्चाग्निपुरोगमाः ॥ ४२.३७॥ ४२.३८/१निवसामो मुनिश्रेष्ठास्तस्मिन् देशे सदा वयम् । ४२.३८/२गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ ४२.३८॥ ४२.३९/१यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः । ४२.३९/२ऋषयो वालखिल्याश्च कश्यपाद्याः प्रजेश्वराः ॥ ४२.३९॥ ४२.४०/१सुपर्णाः किंनरा नागास्तथान्ये स्वर्गवासिनः । ४२.४०/२साङ्गाश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥ ४२.४०॥ ४२.४१/१इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः । ४२.४१/२नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ४२.४१॥ ४२.४२/१सागराश्च तथा शैलास्तस्मिन् देशे व्यवस्थिताः । ४२.४२/२एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ४२.४२॥ ४२.४३/१सर्वोपभोगसहिते वासः कस्य न रोचते । ४२.४३/२श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः ॥ ४२.४३॥ ४२.४४/१आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः । ४२.४४/२धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ ४२.४४॥ ४२.४५/१तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् । ४२.४५/२स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ ४२.४५॥ ४२.४६/१ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । ४२.४६/२सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥ ४२.४६॥ ४२.४७/१ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् । ४२.४७/२चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ ४२.४७॥ ४२.४८/१चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् । ४२.४८/२सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ४२.४८॥ ४२.४९/१त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ ४२.४९॥ ४३.१/१ब्रह्मोवाच । पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः । ४३.१/२बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥ ४३.१॥ ४३.२/१सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः । ४३.२/२रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ ४३.२॥ ४३.३/१यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः । ४३.३/२धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ४३.३॥ ४३.४/१वल्लभो नरनारीणां पौर्णमास्यां यथा शशी । ४३.४/२आदित्य इव दुष्प्रेक्ष्यः शत्रुसङ्घभयङ्करः ॥ ४३.४॥ ४३.५/१वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः । ४३.५/२अध्येता योगसाङ्ख्यानां मुमुक्षुर्धर्मतत्परः ॥ ४३.५॥ ४३.६/१एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः । ४३.६/२तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ ४३.६॥ ४३.७/१कथमाराधयिष्यामि देवदेवं जनार्दनम् । ४३.७/२कस्मिन् क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ४३.७॥ ४३.८/१एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् । ४३.८/२आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ ४३.८॥ ४३.९/१तानि सर्वाणि सन्त्यज्य जगामायतनं पुनः । ४३.९/२विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.९॥ ४३.१०/१स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः । ४३.१०/२अयजच्चाश्वमेधेन विधिवद् भूरिदक्षिणः ॥ ४३.१०॥ ४३.११/१कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् । ४३.११/२तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ४३.११॥ ४३.१२/१पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः । ४३.१२/२स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ ४३.१२॥ ४३.१३/१भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् । ४३.१३/२प्रसादाद् देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ४३.१३॥ ४३.१४/१मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः । ४३.१४/२सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥ ४३.१४॥ ४३.१५/१मुनय ऊचुः । कस्मात् स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः । ४३.१५/२जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.१५॥ ४३.१६/१गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः । ४३.१६/२वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम् ॥ ४३.१६॥ ४३.१७/१कथं स सर्वफलदे क्षेत्रे परमदुर्लभे । ४३.१७/२प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ ४३.१७॥ ४३.१८/१कथं स कृष्णं रामं च सुभद्रां च प्रजापते । ४३.१८/२निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम् ॥ ४३.१८॥ ४३.१९/१कथं तत्र महीपालः प्रासादे भुवनोत्तमे । ४३.१९/२स्थापयामास मतिमान् कृष्णादींस्त्रिदशार्चितान् ॥ ४३.१९॥ ४३.२०/१एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् । ४३.२०/२वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ ४३.२०॥ ४३.२१/१न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै । ४३.२१/२श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४३.२१॥ ४३.२२/१ब्रह्मोवाच । साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् । ४३.२२/२सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ४३.२२॥ ४३.२३/१वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे । ४३.२३/२शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ ४३.२३॥ ४३.२४/१अवन्ती नाम नगरी मालवे भुवि विश्रुता । ४३.२४/२बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ ४३.२४॥ ४३.२५/१हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा । ४३.२५/२दृढयन्त्रार्गलद्वारा परिखाभिरलङ्कृता ॥ ४३.२५॥ ४३.२६/१नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया । ४३.२६/२रथ्यापणवती रम्या । ४३.२६/३सुविभक्तचतुष्पथा ॥ ४३.२६॥ ४३.२७/१गृहगोपुरसम्बाधा वीथीभिः समलङ्कृता । ४३.२७/२राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ ४३.२७॥ ४३.२८/१अनेकशतसाहस्रैः प्रासादैः समलङ्कृता । ४३.२८/२यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ ४३.२८॥ ४३.२९/१नानावर्णपताकाभिर्ध्वजैश्च समलङ्कृता । ४३.२९/२हस्त्यश्वरथसङ्कीर्णा पदातिगणसङ्कुला ॥ ४३.२९॥ ४३.३०/१नानायोधसमाकीर्णा नानाजनपदैर्युता । ४३.३०/२ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ ४३.३०॥ ४३.३१/१समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलङ्कृता । ४३.३१/२न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ ४३.३१॥ ४३.३२/१न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः । ४३.३२/२सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ ४३.३२॥ ४३.३३/१क्रीडन्ति स्म दिवा रात्रौ हृष्टास्तत्र पृथक् पृथक् । ४३.३३/२सुवेषाः पुरुषास्तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ ४३.३३॥ ४३.३४/१सुरूपाः सुगुणाश्चैव दिव्यालङ्कारभूषिताः । ४३.३४/२कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ ४३.३४॥ ४३.३५/१सुकेशाः सुकपोलाश्च सुमुखाः श्मश्रुधारिणः । ४३.३५/२ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ ४३.३५॥ ४३.३६/१दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् । ४३.३६/२स्त्रियस्तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ ४३.३६॥ ४३.३७/१हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः । ४३.३७/२सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ ४३.३७॥ ४३.३८/१सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः । ४३.३८/२हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ ४३.३८॥ ४३.३९/१बिम्बौष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः । ४३.३९/२सुवर्णाभरणोपेताः सर्वालङ्कारभूषिताः ॥ ४३.३९॥ ४३.४०/१श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः । ४३.४०/२दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४३.४०॥ ४३.४१/१विदग्धाः सुभगाः कान्ताश्चार्वङ्ग्यः प्रियदर्शनाः । ४३.४१/२रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ ४३.४१॥ ४३.४२/१क्रीडन्त्यश्च मदोन्मत्ताः च । ४३.४२/२गीतवाद्यकथालापै रमयन्त्यश्च ताः स्त्रियः ॥ ४३.४२॥ ४३.४३/१वारमुख्याश्च दृश्यन्ते नृत्यगीतविशारदाः । ४३.४३/२प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ ४३.४३॥ ४३.४४/१अन्याश्च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः । ४३.४४/२पतिव्रताश्च सुभगा गुणैः सर्वैरलङ्कृताः ॥ ४३.४४॥ ४३.४५/१वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः । ४३.४५/२देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥ ४३.४५॥ ४३.४६/१शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः । ४३.४६/२पिप्पलैः कर्णिकारैश्च चन्दनागुरुचम्पकैः ॥ ४३.४६॥ ४३.४७/१पुंनागैर्नारिकेरैश्च पनसैः सरलद्रुमैः । ४३.४७/२नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ ४३.४७॥ ४३.४८/१चूतबिल्वकदम्बैश्च शिंशपैर्धवखादिरैः । ४३.४८/२पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ ४३.४८॥ ४३.४९/१पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा । ४३.४९/२न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥ ४३.४९॥ ४३.५०/१मन्दारैः पारिजातैश्च तिन्तिडीकविभीतकैः । ४३.५०/२प्राचीनामलकैः प्लक्षैर्जम्बूशिरीषपादपैः ॥ ४३.५०॥ ४३.५१/१कालेयैः काञ्चनारैश्च मधुजम्बीरतिन्दुकैः । ४३.५१/२खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ ४३.५१॥ ४३.५२/१कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीजपूरकैः । ४३.५२/२केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ ४३.५२॥ ४३.५३/१मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः । ४३.५३/२मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ ४३.५३॥ ४३.५४/१बहुवारैः कोविदारैर्बदरैः सकरञ्जकैः । ४३.५४/२अन्यैश्च विविधैः पुष्प+ ।वृक्षैश्चान्यैर्मनोहरैः ॥ ४३.५४॥ ४३.५५/१लतागुल्मैर्वितानैश्च उद्यानैर्नन्दनोपमैः । ४३.५५/२सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ ४३.५५॥ ४३.५६/१नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः । ४३.५६/२चकोरैः शतपत्त्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥ ४३.५६॥ ४३.५७/१कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा । ४३.५७/२कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥ ४३.५७॥ ४३.५८/१खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः । ४३.५८/२सरितः पुष्करिण्यश्च सरांसि सुबहूनि च ॥ ४३.५८॥ ४३.५९/१अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः । ४३.५९/२पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥ ४३.५९॥ ४३.६०/१अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः । ४३.६०/२गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ४३.६०॥ ४३.६१/१हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । ४३.६१/२सारसैश्च बलाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥ ४३.६१॥ ४३.६२/१जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः । ४३.६२/२खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥ ४३.६२॥ ४३.६३/१नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः । ४३.६३/२एवं नानाविधैः पुष्पैर्विविधैश्च जलाशयैः ॥ ४३.६३॥ ४३.६४/१विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा । ४३.६४/२जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठितैः ॥ ४३.६४॥ ४३.६५/१देवतायतनैर्दिव्यैः शोभिता सा महापुरी । ४३.६५/२तत्रास्ते भगवान् देवस्त्रिपुरारिस्त्रिलोचनः ॥ ४३.६५॥ ४३.६६/१महाकालेति विख्यातः सर्वकामप्रदः शिवः । ४३.६६/२शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने ॥ ४३.६६॥ ४३.६७/१देवान् पितृन् ऋषींश्चैव सन्तर्प्य विधिवद् बुधः । ४३.६७/२गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम् ॥ ४३.६७॥ ४३.६८/१प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः । ४३.६८/२स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दीपैश्च भक्तितः ॥ ४३.६८॥ ४३.६९/१नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः । ४३.६९/२दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैश्च शङ्करम् ॥ ४३.६९॥ ४३.७०/१सम्पूज्य विधिवद् भक्त्या महाकालं सकृच्छिवम् । ४३.७०/२अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ४३.७०॥ ४३.७१/१पापैः सर्वैर्विनिर्मुक्तो विमानैः सार्वकामिकैः । ४३.७१/२आरुह्य त्रिदिवं याति यत्र शम्भोर्निकेतनम् ॥ ४३.७१॥ ४३.७२/१दिव्यरूपधरः श्रीमान् दिव्यालङ्कारभूषितः । ४३.७२/२भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ४३.७२॥ ४३.७३/१शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः । ४३.७३/२पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले ॥ ४३.७३॥ ४३.७४/१चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः । ४३.७४/२योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ४३.७४॥ ४३.७५/१आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता । ४३.७५/२तस्यां स्नातस्तु विधिवत् सन्तर्प्य पितृदेवताः ॥ ४३.७५॥ ४३.७६/१सर्वपापविनिर्मुक्तो विमानवरमास्थितः । ४३.७६/२भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः ॥ ४३.७६॥ ४३.७७/१आस्ते तत्रैव भगवान् देवदेवो जनार्दनः । ४३.७७/२गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ ४३.७७॥ ४३.७८/१तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः । ४३.७८/२विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ ४३.७८॥ ४३.७९/१सर्वकामसमृद्धेन कामगेनास्थिरेण च । ४३.७९/२उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥ ४३.७९॥ ४३.८०/१भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः । ४३.८०/२आभूतसम्प्लवं यावत् सुरूपः सुभगः सुखी ॥ ४३.८०॥ ४३.८१/१कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले । ४३.८१/२प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ ४३.८१॥ ४३.८२/१वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् । ४३.८२/२विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ ४३.८२॥ ४३.८३/१दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् । ४३.८३/२अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ ४३.८३॥ ४३.८४/१मातरश्च मुनिश्रेष्ठाः सर्वकामफलप्रदाः । ४३.८४/२दृष्ट्वा तान् विधिवद् भक्त्या सम्पूज्य प्रणिपत्य च ॥ ४३.८४॥ ४३.८५/१सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् । ४३.८५/२एवं सा नगरी रम्या राजसिंहेन पालिता ॥ ४३.८५॥ ४३.८६/१नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती । ४३.८६/२पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ ४३.८६॥ ४३.८७/१धनुर्ज्याघोषनिनदा सिद्धसङ्गमभूषिता । ४३.८७/२विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ ४३.८७॥ ४३.८८/१इतिहासपुराणानि शास्त्राणि विविधानि च । ४३.८८/२काव्यालापकथाश्चैव श्रूयन्तेऽहर्निशं द्विजाः ॥ ४३.८८॥ ४३.८९/१एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता । ४३.८९/२यस्यां राजाभवत् पूर्वमिन्द्रद्युम्नो महामतिः ॥ ४३.८९॥ ४४.१/१ब्रह्मोवाच । तस्यां स नृपतिः पूर्वं कुर्वन् राज्यमनुत्तमम् । ४४.१/२पालयामास मतिमान् प्रजाः पुत्रान् इवौरसान् ॥ ४४.१॥ ४४.२/१सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः । ४४.२/२मतिमान् धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ ४४.२॥ ४४.३/१सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरञ्जयः । ४४.३/२आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ ४४.३॥ ४४.४/१वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः । ४४.४/२शारदेन्दुरिवाभाति लक्षणैः समलङ्कृतः ॥ ४४.४॥ ४४.५/१आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा । ४४.५/२दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ ४४.५॥ ४४.६/१सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः । ४४.६/२प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ४४.६॥ ४४.७/१हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् । ४४.७/२रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ ४४.७॥ ४४.८/१एवं सर्वधनैर्युक्तो गुणैः सर्वैरलङ्कृतः । ४४.८/२सर्वकामसमृद्धात्मा कुर्वन् राज्यमकण्टकम् ॥ ४४.८॥ ४४.९/१तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् । ४४.९/२कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ४४.९॥ ४४.१०/१विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् । ४४.१०/२इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ ४४.१०॥ ४४.११/१धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् । ४४.११/२वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ४४.११॥ ४४.१२/१गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् । ४४.१२/२आधाय परमां काष्ठां कृतकृत्योऽभवत् तदा ॥ ४४.१२॥ ४४.१३/१सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् । ४४.१३/२भ्रान्तिज्ञानाद् अतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ ४४.१३॥ ४४.१४/१कथमाराधयिष्यामि देवदेवं सनातनम् । ४४.१४/२पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४.१४॥ ४४.१५/१वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् । ४४.१५/२श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ ४४.१५॥ ४४.१६/१स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः । ४४.१६/२बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ ४४.१६॥ ४४.१७/१अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः । ४४.१७/२रथैर्विमानसङ्काशैः पताकाध्वजसेवितैः ॥ ४४.१७॥ ४४.१८/१सादिनश्च तथा सर्वे प्रासतोमरपाणयः । ४४.१८/२अश्वैः पवनसङ्काशैरनुजग्मुस्तु तं नृपम् ॥ ४४.१८॥ ४४.१९/१हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः । ४४.१९/२ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ ४४.१९॥ ४४.२०/१हेमकक्षैः सपताकैर्घण्टारवविभूषितैः । ४४.२०/२अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ ४४.२०॥ ४४.२१/१असङ्ख्येयाश्च पादाता धनुष्प्रासासिपाणयः । ४४.२१/२दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४४.२१॥ ४४.२२/१अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः । ४४.२२/२सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः ॥ ४४.२२॥ ४४.२३/१अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलङ्कृताः । ४४.२३/२बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ ४४.२३॥ ४४.२४/१दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः । ४४.२४/२दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ ४४.२४॥ ४४.२५/१सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः । ४४.२५/२ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ ४४.२५॥ ४४.२६/१यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः । ४४.२६/२उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ ४४.२६॥ ४४.२७/१वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः । ४४.२७/२ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ ४४.२७॥ ४४.२८/१वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः । ४४.२८/२धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ ४४.२८॥ ४४.२९/१अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः । ४४.२९/२तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ ४४.२९॥ ४४.३०/१रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा । ४४.३०/२तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ ४४.३०॥ ४४.३१/१फलविक्रयिणश्चैव पत्त्रविक्रयिणस्तथा । ४४.३१/२तथा जवसहाराश्च रजकाश्च सहस्रशः ॥ ४४.३१॥ ४४.३२/१गोपाला नापिताश्चैव तथान्ये वस्त्रसूचकाः । ४४.३२/२मेषपालाश्चाजपाला मृगपालाश्च हंसकाः ॥ ४४.३२॥ ४४.३३/१धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये । ४४.३३/२गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥ ४४.३३॥ ४४.३४/१गायना नर्तकाश्चैव तथा मङ्गलपाठकाः । ४४.३४/२शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥ ४४.३४॥ ४४.३५/१कवयः काव्यकर्तारो नानाकाव्यविशारदाः । ४४.३५/२विषघ्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥ ४४.३५॥ ४४.३६/१व्योकारास्ताम्रकाराश्च कांस्यकाराश्च रूठकाः । ४४.३६/२कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥ ४४.३६॥ ४४.३७/१दण्डकाराश्चासिकाराः सुराधूतोपजीविनः । ४४.३७/२मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥ ४४.३७॥ ४४.३८/१तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः । ४४.३८/२लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥ ४४.३८॥ ४४.३९/१गजवैद्याश्च वैद्याश्च नरवैद्याश्च ये नराः । ४४.३९/२वृक्षवैद्याश्च गोवैद्या ये चान्ये छेददाहकाः ॥ ४४.३९॥ ४४.४०/१एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः । ४४.४०/२अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥ ४४.४०॥ ४४.४१/१यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः । ४४.४१/२अनुयान्ति यथा पुत्रास्तथा तं तेऽपि नागराः ॥ ४४.४१॥ ४४.४२/१एवं स नृपतिः श्रीमान् वृतः सर्वैर्महाजनैः । ४४.४२/२हस्त्यश्वरथपादातैर्जगाम च शनैः शनैः ॥ ४४.४२॥ ४४.४३/१एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् । ४४.४३/२सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥ ४४.४३॥ ४४.४४/१ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् । ४४.४४/२अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥ ४४.४४॥ ४४.४५/१नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् । ४४.४५/२वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ ४४.४५॥ ४४.४६/१तीर्थराजं महाशब्दमपारं सुभयङ्करम् । ४४.४६/२मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥ ४४.४६॥ ४४.४७/१मत्स्यैः कूर्मैश्च शङ्खैश्च शुक्तिकानक्रशङ्कुभिः । ४४.४७/२शिंशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥ ४४.४७॥ ४४.४८/१लवणोदं हरेः स्थानं शयनस्य नदीपतिम् । ४४.४८/२सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ ४४.४८॥ ४४.४९/१अनेकावर्तगम्भीरं दानवानां समाश्रयम् । ४४.४९/२अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥ ४४.४९॥ ४४.५०/१विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् । ४४.५०/२सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ ४४.५०॥ ४४.५१/१तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् । ४४.५१/२चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ ४४.५१॥ ४४.५२/१अभेद्यं सर्वभूतानां देवानाममृतालयम् । ४४.५२/२उत्पत्तिस्थितिसंहार+ एतुभूतं सनातनम् ॥ ४४.५२॥ ४४.५३/१उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् । ४४.५३/२दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ ४४.५३॥ ४४.५४/१निवासमकरोत् तत्र वेलामसाद्य सागरीम् । ४४.५४/२पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥ ४४.५४॥ ४४.५५/१वृतं शालैः कदम्बैश्च पुंनागैः सरलद्रुमैः । ४४.५५/२पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥ ४४.५५॥ ४४.५६/१तालैः पिप्पलैः खर्जूरैर्नारङ्गैर्बीजपूरकैः । ४४.५६/२शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥ ४४.५६॥ ४४.५७/१कपित्थैः कर्णिकारैश्च पाटलाशोकचम्पकैः । ४४.५७/२दाडिमैश्च तमालैश्च पारिजातैस्तथार्जुनैः ॥ ४४.५७॥ ४४.५८/१प्राचीनामलकैर्बिल्वैः प्रियङ्गुवटखादिरैः । ४४.५८/२इङ्गुदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुकैः ॥ ४४.५८॥ ४४.५९/१मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः । ४४.५९/२पलाशबदरैर्नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ ४४.५९॥ ४४.६०/१वारकैः कोविदारैश्च भल्लातामलकैस्तथा । ४४.६०/२इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ ४४.६०॥ ४४.६१/१ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः । ४४.६१/२शाखोठकैर्निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ ४४.६१॥ ४४.६२/१गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरुपाटलैः । ४४.६२/२जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥ ४४.६२॥ ४४.६३/१एवं नानाविधैर्वृक्षैस्तथान्यैर्बहुपादपैः । ४४.६३/२कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ ४४.६३॥ ४४.६४/१नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः । ४४.६४/२मयूरवरसङ्घुष्टैः शुकसारिकसङ्कुलैः ॥ ४४.६४॥ ४४.६५/१हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः । ४४.६५/२जीवञ्जीवककाकोलैः कलविङ्कैः कपोतकैः ॥ ४४.६५॥ ४४.६६/१खगैर्नानाविधैश्चान्यैः श्रोत्ररम्यैर्मनोहरैः । ४४.६६/२पुष्पिताग्रेषु वृक्षेषु कूजद्भिश्चार्वधिष्ठितैः ॥ ४४.६६॥ ४४.६७/१केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः । ४४.६७/२मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥ ४४.६७॥ ४४.६८/१कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः । ४४.६८/२मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥ ४४.६८॥ ४४.६९/१अन्यैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः । ४४.६९/२वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥ ४४.६९॥ ४४.७०/१विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः । ४४.७०/२गन्धर्वोरगरक्षोभिर्भूताप्सरसकिंनरैः ॥ ४४.७०॥ ४४.७१/१मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः । ४४.७१/२मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥ ४४.७१॥ ४४.७२/१तथान्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः । ४४.७२/२शार्दूलैर्दीप्तमातङ्गैस्तथान्यैर्वनचारिभिः ॥ ४४.७२॥ ४४.७३/१एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः । ४४.७३/२लतागुल्मवितानैश्च विविधैश्च जलाशयैः ॥ ४४.७३॥ ४४.७४/१हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः । ४४.७४/२कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपशोभितैः ॥ ४४.७४॥ ४४.७५/१कमलैः शतपत्त्रैश्च कह्लारैः कुमुदोत्पलैः । ४४.७५/२खगैर्जलचरैश्चान्यैः पुष्पैर्जलसमुद्भवैः ॥ ४४.७५॥ ४४.७६/१पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः । ४४.७६/२नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥ ४४.७६॥ ४४.७७/१सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः । ४४.७७/२सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥ ४४.७७॥ ४४.७८/१एवं सर्वैः समुदितैः शोभितं सुमनोहरैः । ४४.७८/२ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ ४४.७८॥ ४४.७९/१दशयोजनविस्तीर्णं पञ्चयोजनमायतम् । ४४.७९/२नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ ४४.७९॥ ४५.१/१मुनय ऊचुः । तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे । ४५.१/२किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१॥ ४५.२/१येनासौ नृपतिस्तत्र गत्वा सबलवाहनः । ४५.२/२स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ ४५.२॥ ४५.३/१संशयो नो महान् अत्र विस्मयश्च जगत्पते । ४५.३/२श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ४५.३॥ ४५.४/१ब्रह्मोवाच । शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् । ४५.४/२प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४५.४॥ ४५.५/१सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते । ४५.५/२सिद्धविद्याधरैर्यक्षैः किंनरैरुपशोभिते ॥ ४५.५॥ ४५.६/१देवदानवगन्धर्वैर्नागैरप्सरसां गणैः । ४५.६/२मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ४५.६॥ ४५.७/१अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः । ४५.७/२वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ ४५.७॥ ४५.८/१कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः । ४५.८/२जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः ॥ ४५.८॥ ४५.९/१अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः । ४५.९/२पुंनागाशोकसरल+ ंयग्रोधाम्रातकार्जुनैः ॥ ४५.९॥ ४५.१०/१पारिजाताम्रखदिर+ ंईपबिल्वकदम्बकैः । ४५.१०/२धवखादिरपालाश+ ।शीर्षामलकतिन्दुकैः ॥ ४५.१०॥ ४५.११/१नारिङ्गकोलबकुल+ ।लोध्रदाडिमदारुकैः । ४५.११/२सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ ४५.११॥ ४५.१२/१अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः । ४५.१२/२नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ ४५.१२॥ ४५.१३/१मालतीयूथिकामल्ली+ ।कुन्दबाणकुरुण्टकैः । ४५.१३/२पाटलागस्त्यकुटज+ ंअन्दारकुसुमादिभिः ॥ ४५.१३॥ ४५.१४/१अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः । ४५.१४/२नानाविहगसङ्घैश्च कूजद्भिर्मधुरस्वरैः ॥ ४५.१४॥ ४५.१५/१पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः । ४५.१५/२एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ ४५.१५॥ ४५.१६/१खगैर्नानाविधैश्चैव शोभिते सुरसेविते । ४५.१६/२तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ ४५.१६॥ ४५.१७/१सर्वलोकविधातारं वासुदेवाख्यमव्ययम् । ४५.१७/२प्रणम्य शिरसा देवी लोकानां हितकाम्यया । ४५.१७/३पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ ४५.१७॥ ४५.१८/१श्रीरुवाच । ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् । ४५.१८/२मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ ४५.१८॥ ४५.१९/१लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे । ४५.१९/२येन मुच्येत देवेश अस्मात् संसारसागरात् ॥ ४५.१९॥ ४५.२०/१आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे । ४५.२०/२त्वदृते नास्ति लोकेऽस्मिन् वक्ता संशयनिर्णये ॥ ४५.२०॥ ४५.२१/१ब्रह्मोवाच । श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । ४५.२१/२प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ ४५.२१॥ ४५.२२/१श्रीभगवान् उवाच । सुखोपास्यः सुसाध्यश्चऽभिरामश्च सुसत्फलः । ४५.२२/२आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ ४५.२२॥ ४५.२३/१न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते । ४५.२३/२कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः ॥ ४५.२३॥ ४५.२४/१न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः । ४५.२४/२मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ ४५.२४॥ ४५.२५/१तत् तेऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् । ४५.२५/२भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥ ४५.२५॥ ४५.२६/१आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे । ४५.२६/२प्रलीना देवगन्धर्व+ ।दैत्यविद्याधरोरगाः ॥ ४५.२६॥ ४५.२७/१तमोभूतमिदं सर्वं न प्राज्ञायत किञ्चन । ४५.२७/२तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ ४५.२७॥ ४५.२८/१श्रीमांस्त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः । ४५.२८/२वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ ४५.२८॥ ४५.२९/१सोऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् । ४५.२९/२पद्मकेशरसङ्काशं ब्रह्माणं भूतमव्ययम् ॥ ४५.२९॥ ४५.३०/१तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः । ४५.३०/२पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ४५.३०॥ ४५.३१/१मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च । ४५.३१/२चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ ४५.३१॥ ४५.३२/१ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम् । ४५.३२/२सञ्चिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ ४५.३२॥ ४५.३३/१मरीच्यादीन् मुनीन् सर्वान् देवासुरपितृन् अपि । ४५.३३/२यक्षविद्याधरांश्चान्यान् गङ्गाद्याः सरितस्तथा ॥ ४५.३३॥ ४५.३४/१नरवानरसिंहांश्च विविधांश्च विहङ्गमान् । ४५.३४/२जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस्तथा ॥ ४५.३४॥ ४५.३५/१ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् । ४५.३५/२अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान् पृथक् ॥ ४५.३५॥ ४५.३६/१यत् किञ्चिज्जीवसञ्ज्ञं तु तृणगुल्मपिपीलिकम् । ४५.३६/२ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम् ॥ ४५.३६॥ ४५.३७/१दक्षिणाङ्गे तथात्मानं सञ्चिन्त्य पुरुषं स्वयम् । ४५.३७/२वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥ ४५.३७॥ ४५.३८/१ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः । ४५.३८/२अधमोत्तममध्याश्च मम क्षेत्राणि यानि च ॥ ४५.३८॥ ४५.३९/१एवं सञ्चिन्त्य देवोऽसौ पुरा सलिलयोनिजः । ४५.३९/२जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥ ४५.३९॥ ४५.४०/१ध्यानमात्रेण देवेन स्वयमेव जनार्दनः । ४५.४०/२तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ ४५.४०॥ ४५.४१/१सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः । ४५.४१/२सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः ॥ ४५.४१॥ ४५.४२/१अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः । ४५.४२/२आसनैरर्घ्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥ ४५.४२॥ ४५.४३/१तुष्टाव परमैः स्तोत्रैर्विरिञ्चिः सुसमाहितः । ४५.४३/२ततोऽहमुक्तवान् देवं ब्रह्माणं कमलोद्भवम् । ४५.४३/३कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ ४५.४३॥ ४५.४४/१ब्रह्मोवाच । जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् । ४५.४४/२स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ ४५.४४॥ ४५.४५/१योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च । ४५.४५/२विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥ ४५.४५॥ ४५.४६/१स्थानं जगत्पते मह्यामुत्कृष्टं च यद् उच्यते । ४५.४६/२सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ ४५.४६॥ ४५.४७/१विधातुर्वचनं श्रुत्वा ततोऽहं प्रोक्तवान् प्रिये । ४५.४७/२शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ ४५.४७॥ ४५.४८/१उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् । ४५.४८/२गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ ४५.४८॥ ४५.४९/१भुक्तिमुक्तिप्रदं नृणां क्षेत्रं परमदुर्लभम् । ४५.४९/२महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ ४५.४९॥ ४५.५०/१तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् । ४५.५०/२विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ ४५.५०॥ ४५.५१/१सर्वेषामेव देवानाम् ऋषीणां ब्रह्मचारिणाम् । ४५.५१/२दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ ४५.५१॥ ४५.५२/१नागविद्याधराणां च स्थावरस्य चरस्य च । ४५.५२/२उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः ॥ ४५.५२॥ ४५.५३/१दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति । ४५.५३/२दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४५.५३॥ ४५.५४/१यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे । ४५.५४/२विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥ ४५.५४॥ ४५.५५/१दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् । ४५.५५/२ब्रह्महत्यात् प्रमुच्येत पापेष्वन्येषु का कथा ॥ ४५.५५॥ ४५.५६/१प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः । ४५.५६/२सर्वे विधूतपाप्मानस्ते गताः केशवालयम् ॥ ४५.५६॥ ४५.५७/१न्यग्रोधस्योत्तरे किञ्चिद् दक्षिणे केशवस्य तु । ४५.५७/२प्रासादस्तत्र तिष्ठेत् तु पदं धर्ममयं हि तत् ॥ ४५.५७॥ ४५.५८/१प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् । ४५.५८/२अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ ४५.५८॥ ४५.५९/१गच्छमानांस्तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये । ४५.५९/२मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ ४५.५९॥ ४५.६०/१यम उवाच । नमस्ते भगवन् देव लोकनाथ जगत्पते । ४५.६०/२क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ ४५.६०॥ ४५.६१/१वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् । ४५.६१/२विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥ ४५.६१॥ ४५.६२/१नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । ४५.६२/२सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥ ४५.६२॥ ४५.६३/१सर्वलोकविधातारं सर्वलोकसुखावहम् । ४५.६३/२पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ ४५.६३॥ ४५.६४/१परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् । ४५.६४/२श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ ४५.६४॥ ४५.६५/१पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । ४५.६५/२हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ ४५.६५॥ ४५.६६/१सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । ४५.६६/२कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ ४५.६६॥ ४५.६७/१भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् । ४५.६७/२नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम् ॥ ४५.६७॥ ४५.६८/१इत्येवं धर्मराजस्तु पुरा न्यग्रोधसंनिधौ । ४५.६८/२स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत् तदा ॥ ४५.६८॥ ४५.६९/१तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् । ४५.६९/२स्तोत्रस्य कारणं देवि पृष्टवान् अहमन्तकम् ॥ ४५.६९॥ ४५.७०/१वैवस्वत महाबाहो सर्वदेवोत्तमो ह्यसि । ४५.७०/२किमर्थं स्तुतवान् मां त्वं सङ्क्षेपात् तद् ब्रवीहि मे ॥ ४५.७०॥ ४५.७१/१धर्मराज उवाच । अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे । ४५.७१/२इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ ४५.७१॥ ४५.७२/१तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया । ४५.७२/२श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥ ४५.७२॥ ४५.७३/१अतः कर्तुं न शक्नोमि व्यापारमरिसूदन । ४५.७३/२प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ ४५.७३॥ ४५.७४/१श्रुत्वा वैवस्वतस्यैतद् वाक्यमेतद् उवाच ह । ४५.७४/२यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ ४५.७४॥ ४५.७५/१ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया । ४५.७५/२यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ ४५.७५॥ ४५.७६/१प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः । ४५.७६/२यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥ ४५.७६॥ ४५.७७/१ब्रह्मोवाच । लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः । ४५.७७/२तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ४५.७७॥ ४५.७८/१यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः । ४५.७८/२तं सर्वं कथयामास स तस्यै भगवान् पुरा ॥ ४५.७८॥ ४५.७९/१इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा । ४५.७९/२क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ ४५.७९॥ ४५.८०/१हयमेधस्य यजनं स्वप्नदर्शनमेव च । ४५.८०/२लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥ ४५.८०॥ ४५.८१/१दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः । ४५.८१/२निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥ ४५.८१॥ ४५.८२/१स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे । ४५.८२/२यात्राकाले च विप्रेन्द्राः कल्पसङ्कीर्तनं तथा ॥ ४५.८२॥ ४५.८३/१मार्कण्डेयस्य चरितं स्थापनं शङ्करस्य च । ४५.८३/२पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ ४५.८३॥ ४५.८४/१वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः । ४५.८४/२दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ ४५.८४॥ ४५.८५/१सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः । ४५.८५/२दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा ॥ ४५.८५॥ ४५.८६/१अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् । ४५.८६/२श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ ४५.८६॥ ४५.८७/१उदधेर्दर्शनं चैव स्नानं तर्पणमेव च । ४५.८७/२समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥ ४५.८७॥ ४५.८८/१पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च । ४५.८८/२स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ ४५.८८॥ ४५.८९/१वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः । ४५.८९/२पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः ॥ ४५.८९॥ ४६.१/१मुनय ऊचुः । श्रोतुमिच्छामहे देव कथाशेषं महीपतेः । ४६.१/२तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१॥ ४६.२/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ४६.२/२क्षेत्रसन्दर्शनं चैव कृत्यं तस्य च भूपतेः ॥ ४६.२॥ ४६.३/१गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते । ४६.३/२ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ ४६.३॥ ४६.४/१नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । ४६.४/२स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४६.४॥ ४६.५/१गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी । ४६.५/२महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ४६.५॥ ४६.६/१दक्षिणस्योदधेर्गर्भं शोभिता । ४६.६/२उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ ४६.६॥ ४६.७/१दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः । ४६.७/२हृष्टपुष्टजनाकीर्णा वस्त्रालङ्कारभूषिताः ॥ ४६.७॥ ४६.८/१ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक् पृथक् । ४६.८/२स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ४६.८॥ ४६.९/१ताम्बूलपूर्णवदना मालादामविभूषिताः । ४६.९/२वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ४६.९॥ ४६.१०/१अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः । ४६.१०/२सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ ४६.१०॥ ४६.११/१चत्वारे राजमार्गेषु वनेषूपवनेषु च । ४६.११/२सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ४६.११॥ ४६.१२/१इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः । ४६.१२/२काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ ४६.१२॥ ४६.१३/१स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः । ४६.१३/२सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ ४६.१३॥ ४६.१४/१सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः । ४६.१४/२पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ ४६.१४॥ ४६.१५/१सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलङ्कृताः । ४६.१५/२कदलीगर्भसङ्काशाः पद्मकिञ्जल्कसप्रभाः ॥ ४६.१५॥ ४६.१६/१बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः । ४६.१६/२सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ ४६.१६॥ ४६.१७/१काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः । ४६.१७/२विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ ४६.१७॥ ४६.१८/१कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः । ४६.१८/२ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ ४६.१८॥ ४६.१९/१कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः । ४६.१९/२देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ ४६.१९॥ ४६.२०/१दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः । ४६.२०/२वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ ४६.२०॥ ४६.२१/१शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः । ४६.२१/२क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ ४६.२१॥ ४६.२२/१एवमादि तथानेक+ ।गीतवाद्यविशारदाः । ४६.२२/२दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ ४६.२२॥ ४६.२३/१भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः । ४६.२३/२मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ ४६.२३॥ ४६.२४/१इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् । ४६.२४/२अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ ४६.२४॥ ४६.२५/१जगद्गुरुं परं देवं परं पारं परं पदम् । ४६.२५/२सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ ४६.२५॥ ४६.२६/१इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् । ४६.२६/२कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ ४६.२६॥ ४६.२७/१प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता । ४६.२७/२न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ ४६.२७॥ ४६.२८/१तथा यत्नं करिष्यामि यथा देवो जगत्पतिः । ४६.२८/२प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ ४६.२८॥ ४६.२९/१यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः । ४६.२९/२उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ ४६.२९॥ ४६.३०/१अनन्यमनसा चैव तन्मना नान्यमानसः । ४६.३०/२विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ ४६.३०॥ ४७.१/१ब्रह्मोवाच । एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः । ४७.१/२प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत् तदा ॥ ४७.१॥ ४७.२/१आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् । ४७.२/२भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ ४७.२॥ ४७.३/१ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः । ४७.३/२अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ ४७.३॥ ४७.४/१तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने । ४७.४/२सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४७.४॥ ४७.५/१जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः । ४७.५/२वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ ४७.५॥ ४७.६/१पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः । ४७.६/२ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ४७.६॥ ४७.७/१दत्त्वैवमर्घ्यं विधिवद् आनाय्य स महीपतिः । ४७.७/२कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा । ४७.७/३कोशलाधिपतिं चैव तान् उवाच तदा नृपः ॥ ४७.७॥ ४७.८/१राजोवाच । गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः । ४७.८/२गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ ४७.८॥ ४७.९/१विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् । ४७.९/२निरूप्य सर्वसानूनि *च्छेदयित्वा शिलाः शुभाः । ४७.९/३संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ ४७.९॥ ४७.१०/१ब्रह्मोवाच । एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः । ४७.१०/२पुनरेवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान् ॥ ४७.१०॥ ४७.११/१राजोवाच । गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै । ४७.११/२यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः ॥ ४७.११॥ ४७.१२/१हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः । ४७.१२/२गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ ४७.१२॥ ४७.१३/१ब्रह्मोवाच । एवं दूताः समाज्ञाता राज्ञा तेन महात्मना । ४७.१३/२गत्वा तदा नृपान् ऊचुर्वचनं तस्य भूपतेः ॥ ४७.१३॥ ४७.१४/१श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः । ४७.१४/२आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ ४७.१४॥ ४७.१५/१ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः । ४७.१५/२पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ ४७.१५॥ ४७.१६/१प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः । ४७.१६/२पार्वतीयाश्च ये केचित् तथा द्वीपनिवासिनः ॥ ४७.१६॥ ४७.१७/१रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः । ४७.१७/२सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ ४७.१७॥ ४७.१८/१तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् । ४७.१८/२प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ ४७.१८॥ ४७.१९/१राजोवाच । शृणुध्वं नृपशार्दूला यथा किञ्चिद् ब्रवीम्यहम् । ४७.१९/२अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ ४७.१९॥ ४७.२०/१हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् । ४७.२०/२कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ ४७.२०॥ ४७.२१/१भवद्भिः सुसहायैस्तु सर्वमेतत् करोम्यहम् । ४७.२१/२यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ ४७.२१॥ ४७.२२/१ब्रह्मोवाच । इत्येवं वदमानस्य राजराजस्य धीमतः । ४७.२२/२सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ ४७.२२॥ ४७.२३/१ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः । ४७.२३/२कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ ४७.२३॥ ४७.२४/१वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः । ४७.२४/२गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ ४७.२४॥ ४७.२५/१असङ्ख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा । ४७.२५/२शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ ४७.२५॥ ४७.२६/१सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः । ४७.२६/२श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ ४७.२६॥ ४७.२७/१अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः । ४७.२७/२बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ ४७.२७॥ ४७.२८/१गव्यस्य हविषः कुम्भैः शतशोऽथ सहस्रशः । ४७.२८/२तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ ४७.२८॥ ४७.२९/१राजानः पूरयामासुर्यत् किञ्चिद् द्रव्यसम्भवैः । ४७.२९/२तान् दृष्ट्वा यज्ञसम्भारान् सर्वसम्पत्समन्वितान् ॥ ४७.२९॥ ४७.३०/१यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् । ४७.३०/२शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु ॥ ४७.३०॥ ४७.३१/१ऋषींश्चैव महर्षींश्च देवर्षींश्चैव तापसान् । ४७.३१/२ब्रह्मचारिगृहस्थांश्च वानप्रस्थान् यतींस्तथा ॥ ४७.३१॥ ४७.३२/१स्नातकान् ब्राह्मणांश्चान्यान् अग्निहोत्रे सदा स्थितान् । ४७.३२/२आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान् ॥ ४७.३२॥ ४७.३३/१सदस्याञ् शास्त्रकुशलांस्तथान्यान् पावकान् बहून् । ४७.३३/२दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम् ॥ ४७.३३॥ ४७.३४/१राजोवाच । ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः । ४७.३४/२वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ४७.३४॥ ४७.३५/१ब्रह्मोवाच । इत्युक्तः स तथा चक्रे वचनं तस्य भूपतेः । ४७.३५/२हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ ४७.३५॥ ४७.३६/१ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह । ४७.३६/२ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि ॥ ४७.३६॥ ४७.३७/१तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् । ४७.३७/२कारयामास विप्रोऽसौ यज्ञवाटं यथाविधि ॥ ४७.३७॥ ४७.३८/१प्रासादशतसम्बाधं मणिप्रवरशोभितम् । ४७.३८/२इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ ४७.३८॥ ४७.३९/१स्तम्भान् कनकचित्रांश्च तोरणानि बृहन्ति च । ४७.३९/२यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ ४७.३९॥ ४७.४०/१अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । ४७.४०/२कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ ४७.४०॥ ४७.४१/१ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् । ४७.४१/२कारयामास विधिवच्छालास्तत्राप्यनेकशः ॥ ४७.४१॥ ४७.४२/१प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः । ४७.४२/२रत्नान्यनेकान्यादाय स्त्रियश्चाययुरुत्सवे ॥ ४७.४२॥ ४७.४३/१तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् । ४७.४३/२नदतः सागरस्येव दिविस्पृग् अभवद् ध्वनिः ॥ ४७.४३॥ ४७.४४/१तेषामभ्यागतानां च स राजा मुनिसत्तमाः । ४७.४४/२व्यादिदेशायतनानि शय्याश्चाप्युपचारतः ॥ ४७.४४॥ ४७.४५/१भोजनानि विचित्राणि शालीक्षुयवगोरसैः । ४७.४५/२उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ ४७.४५॥ ४७.४६/१तथा तस्मिन् महायज्ञे बहवो ब्रह्मवादिनः । ४७.४६/२ये च द्विजातिप्रवरास्तत्रासन् द्विजसत्तमाः ॥ ४७.४६॥ ४७.४७/१समाजग्मुः सशिष्यास्तान् प्रतिजग्राह पार्थिवः । ४७.४७/२सर्वांश्च तान् अनुययौ यावद् आवसथान् इति ॥ ४७.४७॥ ४७.४८/१स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः । ४७.४८/२ततः कृत्वा स्वशिल्पं च शिल्पिनोऽन्ये च ये तदा ॥ ४७.४८॥ ४७.४९/१कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् । ४७.४९/२ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः । ४७.४९/३हृष्टरोमाभवद् राजा सह मन्त्रिभिरच्युतः ॥ ४७.४९॥ ४७.५०/१ब्रह्मोवाच । तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः । ४७.५०/२हेतुवादान् बहून् आहुः परस्परजिगीषवः ॥ ४७.५०॥ ४७.५१/१देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः । ४७.५१/२ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥ ४७.५१॥ ४७.५२/१शय्यासनविकारांश्च सुबहून् रत्नसञ्चयान् । ४७.५२/२घटपात्रीकटाहानि कलशान् वर्धमानकान् ॥ ४७.५२॥ ४७.५३/१नहि कश्चिद् असौवर्णमपश्यद् वसुधाधिपः । ४७.५३/२यूपांश्च शास्त्रपठितान् दारवान् हेमभूषितान् ॥ ४७.५३॥ ४७.५४/१उपक्षिप्तान् यथाकालं विधिवद् भूरिवर्चसः । ४७.५४/२स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ ४७.५४॥ ४७.५५/१सर्वान् एव समानीतान् अपश्यंस्तत्र ते नृपाः । ४७.५५/२गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च ॥ ४७.५५॥ ४७.५६/१औदकानि च सत्त्वानि श्वापदानि वयांसि च । ४७.५६/२जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥ ४७.५६॥ ४७.५७/१पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते । ४७.५७/२एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ ४७.५७॥ ४७.५८/१यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः । ४७.५८/२ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत् ॥ ४७.५८॥ ४७.५९/१पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । ४७.५९/२दुन्दुभिर्मेघनिर्घोषान् मुहुर्मुहुरथाकरोत् ॥ ४७.५९॥ ४७.६०/१विननादासकृच्चापि दिवसे दिवसे गते । ४७.६०/२एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥ ४७.६०॥ ४७.६१/१अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान् । ४७.६१/२दधिकुल्याश्च ददृशुः पयसश्च ह्रदांस्तथा ॥ ४७.६१॥ ४७.६२/१जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः । ४७.६२/२द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥ ४७.६२॥ ४७.६३/१तत्र यानि सहस्राणि पुरुषाणां ततस्ततः । ४७.६३/२गृहीत्वा भाजनं जग्मुर्बहूनि द्विजसत्तमाः ॥ ४७.६३॥ ४७.६४/१श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः । ४७.६४/२पर्यवेषयन् द्विजातीञ् शतशोऽथ सहस्रशः ॥ ४७.६४॥ ४७.६५/१विविधान्यनुपानानि पुरुषा येऽनुयायिनः । ४७.६५/२ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ ४७.६५॥ ४७.६६/१समागतान् वेदविदो राज्ञश्च पृथिवीश्वरान् । ४७.६६/२पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः ॥ ४७.६६॥ ४७.६७/१दिग्देशाद् आगतान् राज्ञो महासङ्ग्रामशालिनः । ४७.६७/२नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥ ४७.६७॥ ४७.६८/१पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः । ४७.६८/२इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ ४७.६८॥ ४७.६९/१कुलशीलगुणोपेताः सहस्रैकं शताधिकम् । ४७.६९/२एवं तद्भूपपरम+ ।पत्नीगणसमन्वितम् ॥ ४७.६९॥ ४७.७०/१रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् । ४७.७०/२रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ ४७.७०॥ ४७.७१/१करिणः पर्वताकारान् मदसिक्तान् महाबलान् । ४७.७१/२शतशः कोटिसङ्घातैर्दन्तिभिर्दन्तभूषणैः ॥ ४७.७१॥ ४७.७२/१वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः । ४७.७२/२श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवान्वितैः ॥ ४७.७२॥ ४७.७३/१संनद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः । ४७.७३/२असङ्ख्येयैः पदातैश्च देवपुत्रोपमैस्तथा ॥ ४७.७३॥ ४७.७४/१इत्येवं ददृशे राजा यज्ञसम्भारविस्तरम् । ४७.७४/२मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥ ४७.७४॥ ४७.७५/१राजोवाच । आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् । ४७.७५/२चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ ४७.७५॥ ४७.७६/१विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् । ४७.७६/२कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ ४७.७६॥ ४७.७७/१अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् । ४७.७७/२इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ ४७.७७॥ ४७.७८/१सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् । ४७.७८/२स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥ ४७.७८॥ ४७.७९/१सम्यक् समृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् । ४७.७९/२अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ ४७.७९॥ ४७.८०/१सर्वेषां याचमानानां नास्ति ह्येतन् न भाषयेत् । ४७.८०/२तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्विह । ४७.८०/३प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ ४७.८०॥ ४७.८१/१ब्रह्मोवाच । एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः । ४७.८१/२ददौ सुवर्णसङ्घातं कोटीनां चैव भूषणम् ॥ ४७.८१॥ ४७.८२/१करेणुशतसाहस्रं वाजिनो नियुतानि च । ४७.८२/२अर्बुदं चैव वृषभं स्वर्णशृङ्गीश्च धेनुकाः ॥ ४७.८२॥ ४७.८३/१सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः । ४७.८३/२प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ ४७.८३॥ ४७.८४/१वासांसि च महार्हाणि राङ्कवास्तरणानि च । ४७.८४/२सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥ ४७.८४॥ ४७.८५/१अददात् स महायज्ञे रत्नानि विविधानि च ॥ ४७.८५॥ ४७.८६/१वज्रवैदूर्यमाणिक्य+ ंउक्तिकाद्यानि यानि च । ४७.८६/२अलङ्कारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ ४७.८६॥ ४७.८७/१शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् । ४७.८७/२स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ ४७.८७॥ ४७.८८/१मध्यहीनाश्च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः । ४७.८८/२हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ ४७.८८॥ ४७.८९/१पादनूपुरसंयुक्ताः पट्टदुकूलवाससः । ४७.८९/२एकैकशोऽददात् तस्मिन् काम्याश्च कामिनीर्बहूः ॥ ४७.८९॥ ४७.९०/१अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः । ४७.९०/२भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ ४७.९०॥ ४७.९१/१खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् । ४७.९१/२अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्च खाण्डवान् ॥ ४७.९१॥ ४७.९२/१मधुरांस्तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम् । ४७.९२/२प्रीत्यर्थं सर्वसत्त्वानां दीयतेऽन्नं पुनः पुनः ॥ ४७.९२॥ ४७.९३/१दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते । ४७.९३/२एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ ४७.९३॥ ४७.९४/१गन्धर्वाप्सरसः सिद्धा ऋषयश्च प्रजेश्वराः । ४७.९४/२विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ ४७.९४॥ ४७.९५/१पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः । ४७.९५/२न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः ॥ ४७.९५॥ ४७.९६/१न वोपसर्गो न ग्लानिर्नाधयो व्याधयस्तथा । ४७.९६/२नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ ४७.९६॥ ४७.९७/१हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे । ४७.९७/२ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥ ४७.९७॥ ४७.९८/१न जातं तादृशं यज्ञं धनधान्यसमन्वितम् । ४७.९८/२एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः । ४७.९८/३क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥ ४७.९८॥ ४८.१/१मुनय ऊचुः । ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् । ४८.१/२यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१॥ ४८.२/१केन चैव प्रकारेण तुष्टस्तस्मै स माधवः । ४८.२/२तत् सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ ४८.२॥ ४८.३/१ब्रह्मोवाच । शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् । ४८.३/२कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ४८.३॥ ४८.४/१प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते । ४८.४/२चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ४८.४॥ ४८.५/१न वेद्मि केन देवेशं सर्वेशं लोकपावनम् । ४८.५/२सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ४८.५॥ ४८.६/१चिन्ताविष्टस्त्वभूद् राजा शेते रात्रौ दिवापि न । ४८.६/२न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम् ॥ ४८.६॥ ४८.७/१नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि । ४८.७/२न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ ४८.७॥ ४८.८/१नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च । ४८.८/२सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ ४८.८॥ ४८.९/१बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः । ४८.९/२बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ ४८.९॥ ४८.१०/१शैलमृद्दारुजातेषु प्रशस्तं किं महीतले । ४८.१०/२विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ ४८.१०॥ ४८.११/१एतैरेव त्रयाणां तु दयितं स्यात् सुरार्चितम् । ४८.११/२स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत् ॥ ४८.११॥ ४८.१२/१पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् । ४८.१२/२चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ४८.१२॥ ४९.१/१वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण । ४९.१/२त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१॥ ४९.२/१निर्मलाम्बरसङ्काश नमस्ते पुरुषोत्तम । ४९.२/२सङ्कर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ ४९.२॥ ४९.३/१नमस्ते हेमगर्भाभ नमस्ते मकरध्वज । ४९.३/२रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक ॥ ४९.३॥ ४९.४/१नमस्तेऽञ्जनसङ्काश नमस्ते भक्तवत्सल । ४९.४/२अनिरुद्ध नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ४९.४॥ ४९.५/१नमस्ते विबुधावास नमस्ते विबुधप्रिय । ४९.५/२नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ४९.५॥ ४९.६/१नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध । ४९.६/२चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ४९.६॥ ४९.७/१नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित । ४९.७/२त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ४९.७॥ ४९.८/१प्रलयानलसङ्काश नमस्ते दितिजान्तक । ४९.८/२नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ४९.८॥ ४९.९/१यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा । ४९.९/२तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ४९.९॥ ४९.१०/१तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया । ४९.१०/२तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ ४९.१०॥ ४९.११/१अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो । ४९.११/२दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ ४९.११॥ ४९.१२/१ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः । ४९.१२/२तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ ४९.१२॥ ४९.१३/१मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः । ४९.१३/२प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ ४९.१३॥ ४९.१४/१भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः । ४९.१४/२तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ ४९.१४॥ ४९.१५/१न भेदस्तव देवेश विद्यते परमार्थतः । ४९.१५/२विविधं तव यद् रूपमुक्तं तद् उपचारतः ॥ ४९.१५॥ ४९.१६/१अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः । ४९.१६/२एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ ४९.१६॥ ४९.१७/१परमं तव यद् रूपं भावाभावविवर्जितम् । ४९.१७/२निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ ४९.१७॥ ४९.१८/१सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् । ४९.१८/२तद् देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ ४९.१८॥ ४९.१९/१अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् । ४९.१९/२शङ्खचक्रगदापाणि+ ंउकुटाङ्गदधारिणम् ॥ ४९.१९॥ ४९.२०/१श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् । ४९.२०/२तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ ४९.२०॥ ४९.२१/१देवदेव सुरश्रेष्ठ भक्तानामभयप्रद । ४९.२१/२त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ ४९.२१॥ ४९.२२/१नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे । ४९.२२/२त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन ॥ ४९.२२॥ ४९.२३/१जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः । ४९.२३/२हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ ४९.२३॥ ४९.२४/१पतितोऽहं महारौद्रे घोरे संसारसागरे । ४९.२४/२विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ ४९.२४॥ ४९.२५/१इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले । ४९.२५/२निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ॥ ४९.२५॥ ४९.२६/१मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो । ४९.२६/२नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ ४९.२६॥ ४९.२७/१मया जन्मान्यनेकानि सहस्राण्ययुतानि च । ४९.२७/२विविधान्यनुभूतानि संसारेऽस्मिञ् जनार्दन ॥ ४९.२७॥ ४९.२८/१वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च । ४९.२८/२इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ ४९.२८॥ ४९.२९/१असन्तोषाश्च सन्तोषाः सञ्चयापचया व्ययाः । ४९.२९/२मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ ४९.२९॥ ४९.३०/१भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास्तथा । ४९.३०/२पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ४९.३०॥ ४९.३१/१दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः । ४९.३१/२प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ॥ ४९.३१॥ ४९.३२/१मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले । ४९.३२/२गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ ४९.३२॥ ४९.३३/१दुःखानि यान्यनेकानि बाल्ययौवनगोचरे । ४९.३३/२वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ ४९.३३॥ ४९.३४/१मरणे यानि दुःखानि यममार्गे यमालये । ४९.३४/२मया तान्यनुभूतानि नरके यातनास्तथा ॥ ४९.३४॥ ४९.३५/१कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् । ४९.३५/२महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ ४९.३५॥ ४९.३६/१द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु । ४९.३६/२धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.३६॥ ४९.३७/१नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् । ४९.३७/२गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ ४९.३७॥ ४९.३८/१गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् । ४९.३८/२दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ ४९.३८॥ ४९.३९/१हतो मया हताश्चान्ये घातितो घातितास्तथा । ४९.३९/२दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ ४९.३९॥ ४९.४०/१पितृमातृसुहृद्भ्रातृ+ ।कलत्राणां कृतेन च । ४९.४०/२धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ ४९.४०॥ ४९.४१/१उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन । ४९.४१/२देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ ४९.४१॥ ४९.४२/१न विद्यते तथा स्थानं यत्राहं न गतः प्रभो । ४९.४२/२कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ ४९.४२॥ ४९.४३/१कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च । ४९.४३/२जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ ४९.४३॥ ४९.४४/१याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति । ४९.४४/२तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ ४९.४४॥ ४९.४५/१अधश्चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः । ४९.४५/२एवं संसारचक्रेऽस्मिन् भैरवे रोमहर्षणे ॥ ४९.४५॥ ४९.४६/१भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् । ४९.४६/२न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ ४९.४६॥ ४९.४७/१शोकतृष्णाभिभूतोऽहं कान्दिशीको विचेतनः । ४९.४७/२इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ ४९.४७॥ ४९.४८/१त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे । ४९.४८/२कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ ४९.४८॥ ४९.४९/१त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति । ४९.४९/२देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ॥ ४९.४९॥ ४९.५०/१जीविते मरणे चैव योगक्षेमेऽथवा प्रभो । ४९.५०/२ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः ॥ ४९.५०॥ ४९.५१/१सुगतिस्तु कथं तेषां भवेत् संसारबन्धनात् । ४९.५१/२किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ ४९.५१॥ ४९.५२/१येषां न जायते भक्तिर्जगद्धातरि केशवे । ४९.५२/२प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ ४९.५२॥ ४९.५३/१पतन्ति नरके घोरे जायमानाः पुनः पुनः । ४९.५३/२न तेषां निष्कृतिस्तस्माद् विद्यते नरकार्णवात् ॥ ४९.५३॥ ४९.५४/१ये दूषयन्ति दुर्वृत्तास्त्वां देव पुरुषाधमाः । ४९.५४/२यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ॥ ४९.५४॥ ४९.५५/१तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा । ४९.५५/२आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः ॥ ४९.५५॥ ४९.५६/१अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् । ४९.५६/२न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥ ४९.५६॥ ४९.५७/१कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् । ४९.५७/२तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥ ४९.५७॥ ४९.५८/१तत् क्षमस्वापराधं मे यदि तेऽस्ति दया मयि । ४९.५८/२कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥ ४९.५८॥ ४९.५९/१तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः । ४९.५९/२स्तुतोऽसि यन् मया देव भक्तिभावेन चेतसा । ४९.५९/३साङ्गं भवतु तत् सर्वं वासुदेव नमोऽस्तु ते ॥ ४९.५९॥ ४९.६०/१ब्रह्मोवाच । इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः । ४९.६०/२ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ ४९.६०॥ ४९.६१/१यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः । ४९.६१/२स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम् ॥ ४९.६१॥ ४९.६२/१त्रिसन्ध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः । ४९.६२/२धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ ४९.६२॥ ४९.६३/१यः पठेच्छृणुयाद् वापि श्रावयेद् वा समाहितः । ४९.६३/२स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥ ४९.६३॥ ४९.६४/१धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् । ४९.६४/२गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ ४९.६४॥ ४९.६५/१न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने । ४९.६५/२न दुष्टमतये दद्यान् नाभक्ताय कदाचन ॥ ४९.६५॥ ४९.६६/१दातव्यं भक्तियुक्ताय गुणशीलान्विताय च । ४९.६६/२विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ ४९.६६॥ ४९.६७/१इदं समस्ताघविनाशहेतुः । ४९.६७/२कारुण्यसञ्ज्ञं सुखमोक्षदं च । ४९.६७/३अशेषवाञ्छाफलदं वरिष्ठम् । ४९.६७/४स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ४९.६७॥ ४९.६८/१ये तं सुसूक्ष्मं विमला मुरारिम् । ४९.६८/२ध्यायन्ति नित्यं पुरुषं पुराणम् । ४९.६८/३ते मुक्तिभाजः प्रविशन्ति विष्णुम् । ४९.६८/४मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ॥ ४९.६८॥ ४९.६९/१एकः स देवो भवदुःखहन्ता । ४९.६९/२परः परेषां न ततोऽस्ति चान्यत् । ४९.६९/३द्रष्टा स पाता स तु नाशकर्ता । ४९.६९/४विष्णुः समस्ताखिलसारभूतः ॥ ४९.६९॥ ४९.७०/१किं विद्यया किं स्वगुणैश्च तेषाम् । ४९.७०/२यज्ञैश्च दानैश्च तपोभिरुग्रैः । ४९.७०/३येषां न भक्तिर्भवतीह कृष्णे । ४९.७०/४जगद्गुरौ मोक्षसुखप्रदे च ॥ ४९.७०॥ ४९.७१/१लोके स धन्यः स शुचिः स विद्वान् । ४९.७१/२मखैस्तपोभिः स गुणैर्वरिष्ठः । ४९.७१/३ज्ञाता स दाता स तु सत्यवक्ता । ४९.७१/४यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ ४९.७१॥ ५०.१/१ब्रह्मोवाच । स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् । ५०.१/२वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५०.१॥ ५०.२/१चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले । ५०.२/२वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ ५०.२॥ ५०.३/१कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः । ५०.३/२मम चार्तिहरो देवस्तदासाविति चिन्तयन् ॥ ५०.३॥ ५०.४/१सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः । ५०.४/२आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥ ५०.४॥ ५०.५/१स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् । ५०.५/२शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ ५०.५॥ ५०.६/१शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् । ५०.६/२युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम् ॥ ५०.६॥ ५०.७/१सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् । ५०.७/२स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते ॥ ५०.७॥ ५०.८/१क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया । ५०.८/२तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ॥ ५०.८॥ ५०.९/१यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी । ५०.९/२यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ ५०.९॥ ५०.१०/१गतायामद्य शर्वर्यां निर्मले भास्करोदिते । ५०.१०/२सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ ५०.१०॥ ५०.११/१जलं तथैव वेलायां दृश्यते तत्र वै महत् । ५०.११/२लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ ५०.११॥ ५०.१२/१कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च । ५०.१२/२वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥ ५०.१२॥ ५०.१३/१परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज । ५०.१३/२एकाकी विहरन् राजन् स त्वं पश्यसि पादपम् ॥ ५०.१३॥ ५०.१४/१ईदृक् चिह्नं समालोक्य छेदय त्वमशङ्कितः । ५०.१४/२छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम् ॥ ५०.१४॥ ५०.१५/१दृष्ट्वा तेनैव सञ्चिन्त्य ततो भूपाल दर्शनात् । ५०.१५/२कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ ५०.१५॥ ५०.१६/१ब्रह्मोवाच । एवमुक्त्वा महाभागो जगामादर्शनं हरिः । ५०.१६/२स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥ ५०.१६॥ ५०.१७/१तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः । ५०.१७/२व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम् ॥ ५०.१७॥ ५०.१८/१प्रगतायां रजन्यां तु उत्थितो नान्यमानसः । ५०.१८/२स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः ॥ ५०.१८॥ ५०.१९/१दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च । ५०.१९/२कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ ५०.१९॥ ५०.२०/१न चाश्वो न पदातिश्च न गजो न च सारथिः । ५०.२०/२एकाकी स महावेलां प्रविवेश महीपतिः ॥ ५०.२०॥ ५०.२१/१तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् । ५०.२१/२महातिगमहारोहं पुण्यं विपुलमेव च ॥ ५०.२१॥ ५०.२२/१महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके । ५०.२२/२सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ ५०.२२॥ ५०.२३/१नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः । ५०.२३/२परशुना शातयामास निशितेन दृढेन च ॥ ५०.२३॥ ५०.२४/१द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च । ५०.२४/२निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ ५०.२४॥ ५०.२५/१विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ । ५०.२५/२आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ ॥ ५०.२५॥ ५०.२६/१ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ । ५०.२६/२अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥ ५०.२६॥ ५०.२७/१तावूचतुर्महाराज किमत्र त्वं करिष्यसि । ५०.२७/२किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥ ५०.२७॥ ५०.२८/१असहायो महादुर्गे निर्जने गहने वने । ५०.२८/२महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ ५०.२८॥ ५०.२९/१ब्रह्मोवाच । तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः । ५०.२९/२बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ ५०.२९॥ ५०.३०/१दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ । ५०.३०/२नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ ५०.३०॥ ५०.३१/१राजोवाच । देवदेवमनाद्यन्तमनन्तं जगतां पतिम् । ५०.३१/२आराधयितुं प्रतिमां करोमीति मतिर्मम ॥ ५०.३१॥ ५०.३२/१अहं स देवदेवेन परमेण महात्मना । ५०.३२/२स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥ ५०.३२॥ ५०.३३/१ब्रह्मोवाच । राज्ञस्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च । ५०.३३/२प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥ ५०.३३॥ ५०.३४/१विष्णुरुवाच । साधु साधु महीपाल यद् एतन् मतमुत्तमम् । ५०.३४/२संसारसागरे घोरे कदलीदलसंनिभे ॥ ५०.३४॥ ५०.३५/१निःसारे दुःखबहुले कामक्रोधसमाकुले । ५०.३५/२इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥ ५०.३५॥ ५०.३६/१नानाव्याधिशतावर्ते जलबुद्बुदसंनिभे । ५०.३६/२यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥ ५०.३६॥ ५०.३७/१धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलङ्कृतः । ५०.३७/२सप्रजा पृथिवी धन्या सशैलवनकानना ॥ ५०.३७॥ ५०.३८/१सपुरग्रामनगरा चतुर्वर्णैरलङ्कृता । ५०.३८/२यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥ ५०.३८॥ ५०.३९/१एह्येहि सुमहाभाग द्रुमेऽस्मिन् सुखशीतले । ५०.३९/२आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः ॥ ५०.३९॥ ५०.४०/१अयं मम सहायस्तु आगतः शिल्पिनां वरः । ५०.४०/२विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु । ५०.४०/३मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ॥ ५०.४०॥ ५०.४१/१ब्रह्मोवाच । श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः । ५०.४१/२सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥ ५०.४१॥ ५०.४२/१तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले । ५०.४२/२ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः ॥ ५०.४२॥ ५०.४३/१शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति । ५०.४३/२कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥ ५०.४३॥ ५०.४४/१श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् । ५०.४४/२गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥ ५०.४४॥ ५०.४५/१लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् । ५०.४५/२देवदानवगन्धर्व+ ।यक्षविद्याधरोरगैः ॥ ५०.४५॥ ५०.४६/१न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः । ५०.४६/२भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥ ५०.४६॥ ५०.४७/१तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ ५०.४७॥ ५०.४८/१ब्रह्मोवाच । श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् । ५०.४८/२तत्क्षणात् कारयामास प्रतिमाः शुभलक्षणाः ॥ ५०.४८॥ ५०.४९/१प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् । ५०.४९/२आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥ ५०.४९॥ ५०.५०/१नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् । ५०.५०/२कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥ ५०.५०॥ ५०.५१/१द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम् । ५०.५१/२अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् ॥ ५०.५१॥ ५०.५२/१पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम् । ५०.५२/२चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥ ५०.५२॥ ५०.५३/१तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् । ५०.५३/२विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम् ॥ ५०.५३॥ ५०.५४/१विचित्राभरणोपेतां रत्नहारावलम्बिताम् । ५०.५४/२पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ ५०.५४॥ ५०.५५/१स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः । ५०.५५/२दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलङ्कृताः ॥ ५०.५५॥ ५०.५६/१सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः । ५०.५६/२विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥ ५०.५६॥ ५०.५७/१इन्द्रद्युम्न उवाच । किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ । ५०.५७/२उभौ चाद्भुतकर्माणौ देववृत्तावमानुषौ ॥ ५०.५७॥ ५०.५८/१देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् । ५०.५८/२किं नु ब्रह्महृषीकेशौ किं वसू किमुताश्विनौ ॥ ५०.५८॥ ५०.५९/१न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ । ५०.५९/२युवां गतोऽस्मि शरणमात्मा तु मे प्रकाश्यताम् ॥ ५०.५९॥ ५१.१/१श्रीभगवान् उवाच । नाहं देवो न यक्षो वा न दैत्यो न च देवराट् । ५१.१/२न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ॥ ५१.१॥ ५१.२/१अर्तिहा सर्वलोकानामनन्तबलपौरुषः । ५१.२/२आराधनीयो भूतानामन्तो यस्य न विद्यते ॥ ५१.२॥ ५१.३/१पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते । ५१.३/२यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥ ५१.३॥ ५१.४/१अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवोऽप्यहम् । ५१.४/२इन्द्रोऽहं देवराजश्च जगत्संयमनो यमः ॥ ५१.४॥ ५१.५/१पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ् नृप । ५१.५/२वरुणोऽपां पतिश्चाहं धरित्री च महीधरः ॥ ५१.५॥ ५१.६/१यत् किञ्चिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् । ५१.६/२चराचरं च यद् विश्वं मदन्यन् नास्ति किञ्चन ॥ ५१.६॥ ५१.७/१प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत । ५१.७/२यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम् ॥ ५१.७॥ ५१.८/१मद्दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते । ५१.८/२त्वं पुनर्दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि ॥ ५१.८॥ ५१.९/१ब्रह्मोवाच । श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः । ५१.९/२रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ५१.९॥ ५१.१०/१राजोवाच । श्रियः कान्त नमस्तेऽस्तु श्रीपते पीतवाससे । ५१.१०/२श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ ५१.१०॥ ५१.११/१आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् । ५१.११/२निष्कलं परमं देवं प्रणतोऽस्मि सनातनम् ॥ ५१.११॥ ५१.१२/१शब्दातीतं गुणातीतं भावाभावविवर्जितम् । ५१.१२/२निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ ५१.१२॥ ५१.१३/१प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् । ५१.१३/२सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥ ५१.१३॥ ५१.१४/१शङ्खचक्रधरं देवं गदामुशलधारिणम् । ५१.१४/२नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ ५१.१४॥ ५१.१५/१नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् । ५१.१५/२नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ ५१.१५॥ ५१.१६/१पुनस्त्वां देवदेवेशं नमस्ये वरदं विभुम् । ५१.१६/२सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ ५१.१६॥ ५१.१७/१ब्रह्मोवाच । एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः । ५१.१७/२उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ ५१.१७॥ ५१.१८/१राजोवाच । प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् । ५१.१८/२देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ ५१.१८॥ ५१.१९/१सिद्धविद्याधराः साध्याः किंनरा गुह्यकास्तथा । ५१.१९/२ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ ५१.१९॥ ५१.२०/१परिव्राड्योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः । ५१.२०/२मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम् ॥ ५१.२०॥ ५१.२१/१निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः । ५१.२१/२तत् पदं गन्तुमिच्छामि त्वत्प्रसादात् सुदुर्लभम् ॥ ५१.२१॥ ५१.२२/१श्रीभगवान् उवाच । सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि । ५१.२२/२भविष्यति यथाकामं मत्प्रसादान् न संशयः ॥ ५१.२२॥ ५१.२३/१दश वर्षसहस्राणि तथा नव शतानि च । ५१.२३/२अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ ५१.२३॥ ५१.२४/१प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः । ५१.२४/२पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ ५१.२४॥ ५१.२५/१परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् । ५१.२५/२चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ ५१.२५॥ ५१.२६/१तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् । ५१.२६/२यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ ५१.२६॥ ५१.२७/१कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले । ५१.२७/२यावद् घना नभो यावद् यावच्चन्द्रार्कतारकम् ॥ ५१.२७॥ ५१.२८/१यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः । ५१.२८/२तिष्ठन्ति दिवि देवाश्च तावत् सर्वत्र चाव्यया ॥ ५१.२८॥ ५१.२९/१इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् । ५१.२९/२यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥ ५१.२९॥ ५१.३०/१दापयिष्यति यः पिण्डांस्तटेऽस्मिन् सरसः शुभे । ५१.३०/२कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ ५१.३०॥ ५१.३१/१पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । ५१.३१/२विमानेन वसेत् तत्र यावद् इन्द्राश्चतुर्दश ॥ ५१.३१॥ ५१.३२/१सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते । ५१.३२/२न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः ॥ ५१.३२॥ ५१.३३/१केतकीवनसञ्छन्नो नानापादपसङ्कुलः । ५१.३३/२नारिकेलैरसङ्ख्येयैश्चम्पकैर्बकुलावृतैः ॥ ५१.३३॥ ५१.३४/१अशोकैः कर्णिकारैश्च पुंनागैर्नागकेसरैः । ५१.३४/२पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः ॥ ५१.३४॥ ५१.३५/१न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः । ५१.३५/२हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा ॥ ५१.३५॥ ५१.३६/१करञ्जैर्लकुचैः प्लक्षैः पनसैर्बिल्वधातुकैः । ५१.३६/२अन्यैर्बहुविधैर्वृक्षैः शोभितः समलङ्कृतः ॥ ५१.३६॥ ५१.३७/१आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते । ५१.३७/२ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥ ५१.३७॥ ५१.३८/१मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः । ५१.३८/२क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥ ५१.३८॥ ५१.३९/१चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः । ५१.३९/२वीजयन्तस्तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥ ५१.३९॥ ५१.४०/१ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः । ५१.४०/२वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः ॥ ५१.४०॥ ५१.४१/१नानावर्णपदैः स्तोत्रैरृग्यजुःसामनिस्वनैः । ५१.४१/२करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः ॥ ५१.४१॥ ५१.४२/१ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः । ५१.४२/२नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥ ५१.४२॥ ५१.४३/१पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । ५१.४३/२हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥ ५१.४३॥ ५१.४४/१विमानेनार्कवर्णेन रत्नहारेण भ्राजता । ५१.४४/२सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे ॥ ५१.४४॥ ५१.४५/१तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् । ५१.४५/२कोटीधनपतिः श्रीमांश्चतुर्वेदी भवेद् ध्रुवम् ॥ ५१.४५॥ ५१.४६/१ब्रह्मोवाच । एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः । ५१.४६/२जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥ ५१.४६॥ ५१.४७/१स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः । ५१.४७/२कृतकृत्यमिवात्मानं मेने सन्दर्शनाद् धरेः ॥ ५१.४७॥ ५१.४८/१ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् । ५१.४८/२रथैर्विमानसङ्काशैर्मणिकाञ्चनचित्रितैः ॥ ५१.४८॥ ५१.४९/१संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः । ५१.४९/२आनयामास मतिमान् सामात्यः सपुरोहितः ॥ ५१.४९॥ ५१.५०/१नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः । ५१.५०/२संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५१.५०॥ ५१.५१/१ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे । ५१.५१/२प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥ ५१.५१॥ ५१.५२/१यथोक्तेन विधानेन विधिदृष्टेन कर्मणा । ५१.५२/२आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ ५१.५२॥ ५१.५३/१आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः । ५१.५३/२ऋत्विग्भ्यश्