४ श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः
४.१ प्रथमोऽध्यायः । जनमेजयप्रश्नाः ।
जनमेजय उवाच ।
वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ ।
प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ १॥
शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् ।
श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान् ॥ २॥
देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः ।
कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥ ३॥
देवक्या भार्यया सार्धं किमागः कृतवानसौ ।
देवक्या बालषट्कस्य विनाशश्च कृतः पुनः ॥ ४॥
तेन कंसेन कस्माद्वै ययातिकुलजेन च ।
कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥ ५॥
गोकुले च कथं नीतो भगवान्सात्वतां पतिः ।
गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ ॥ ६॥
देवकीवसुदेवौ च कृष्णस्यामिततेजसः ।
कथं न मोचितौ वृद्धौ पितरौ हरिणामुना ॥ ७॥
जगत्कर्तुं समर्थेन स्थितेन जनकोदरे ।
प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥ ८॥
जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः ।
के ते पुत्राश्च का बाला या कंसेन विपोथिता ॥ ९॥
शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः ।
गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥ १०॥
कार्याणि तत्र तान्येव देहत्यागं च तस्य वै ।
किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे ॥ ११॥
चरितं वासुदेवस्य त्वमाख्याहि यथातथम् ।
नरनारायणौ देवौ पुराणावृषिसत्तमौ ॥ १२॥
धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् ।
यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ॥ १३॥
निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ ।
विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम् ॥ १४॥
तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ ।
प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः ॥ १५॥
विद्यमानशरीरौ तौ कथं देहान्तरं गतौ ।
नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥ १६॥
यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ ।
तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥ १७॥
शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः ।
शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् ॥ १८॥
ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते ।
विपरीतमिदं भाति नरनारायणौ च तौ ॥ १९॥
तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः ।
केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः ॥ २०॥
ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद ।
यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः ॥ २१॥
कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः ।
प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम् ॥ २२॥
वर्तमाने वासुदेवे देवदेवे जनार्दने ।
पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥ २३॥
द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् ।
न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥ २४॥
सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो ।
यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः ॥ २५॥
स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम ।
संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः ॥ २६॥
विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् ।
स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः ॥ २७॥
द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः ।
अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥ २८॥
पापात्मनां विनाशाय धर्मसंस्थापनाय च ।
तत्कथं वासुदेवेन चौरास्ते न निपातिताः ॥ २९॥
यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः ।
स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः ॥ ३०॥
भीष्मद्रोणवधः कामं भूभारहरणे मतः ।
अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः ॥ ३१॥
कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः ।
ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः ॥ ३२॥
दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः ।
पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने ॥ ३३॥
घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् ।
किं तत्पापं महारौद्रं येन ते पीडिताः सदा ॥ ३४॥
द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता ।
रमांशजा च साध्वी च कृष्णभक्तियुता तथा ॥ ३५॥
सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः ।
दुःशासनेन सा केशे गृहीता पीडिता भृशम् ॥ ३६॥
रजस्वला सभायां तु नीता भीतैकवाससा ।
विराटनगरे दासी जाता मत्स्यस्य सा पुनः ॥ ३७॥
धर्षिता कीचकेनाथ रुदती कुररी यथा ।
हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता ॥ ३८॥
मोचिता पाण्डवैः पश्चाद्बलवद्भिर्महात्मभिः ।
पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः ॥ ३९॥
दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते ।
राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः ॥ ४०॥
दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै ।
देवांशानां कथं तेषां संशयोऽयं महान्हि मे ॥ ४१॥
सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः ।
छलेन धनलाभार्थं जानानैर्नश्वरं जगत् ॥ ४२॥
प्रेरिता वासुदेवेन पापे घोरे महात्मना ।
कुलं क्षयितवन्तस्ते हरिणा परमात्मना ॥ ४३॥
वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् ।
योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम् ॥ ४४॥
विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम ।
समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान् ॥ ४५॥
सोऽल्पेनैव तु कालेन विराटतनयासुतः ।
तापसस्य गले सर्पं न्यस्तवान्कथमद्भुतम् ॥ ४६॥
नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्भवः ।
तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने ॥ ४७॥
एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना ।
स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे जनमेजयप्रश्नाः प्रथमोऽध्यायः ॥ ४.१॥
४.२ द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् ।
सूत उवाच ।
एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः ।
परीक्षितसुतं शान्तं ततो वै जनमेजयम् ॥ १॥
उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः ।
व्यास उवाच ।
राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः ॥ २॥
दुर्ज्ञेया किल देवानां मानवानां च का कथा ।
यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम् ॥ ३॥
कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः ।
अनादिनिधना जीवाः कर्मबीजसमुद्भवाः ॥ ४॥
नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः ।
कर्मणा रहितो देहसंयोगो न कदाचन ॥ ५॥
शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् ।
त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये ॥ ६॥
सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः ।
वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल ॥ ७॥
ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप ।
सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा ॥ ८॥
कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः ।
दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप ॥ ९॥
रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि ।
देवानां मानवानाञ्च तिरश्चां च तथा पुनः ॥ १०॥
विकाराः सर्व एवैते देहेन सह सङ्गताः ।
पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः ॥ ११॥
उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते ।
कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान् ॥ १२॥
कपाली च तथा रुद्रः कर्मणैव न संशयः ।
अनादिनिधनं चैतत्कारणं कर्म विद्यते ॥ १३॥
तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् ।
नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा ॥ १४॥
न जानन्ति किमेतद्वै नित्यं वानित्यमेव च ।
मायायां विद्यमानायां जगन्नित्यं प्रतीयते ॥ १५॥
कार्याभावः कथं वाच्यः कारणे सति सर्वथा ।
माया नित्या कारणञ्च सर्वेषां सर्वदा किल ॥ १६॥
कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः ।
भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम् ॥ १७॥
नानायोनिषु राजेन्द्र नानाधर्ममयेषु च ।
इच्छया च भवेञ्चन्म विष्णोरमिततेजसः ॥ १८॥
युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् ।
त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः ॥ १९॥
विण्मूत्रमन्दिरे वासं सन्त्रस्तः कोऽभिवाञ्छति ।
पुष्पावचयलीलां च जलकेलिं सुखासनम् ॥ २०॥
त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् ।
तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम् ॥ २१॥
त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः ।
गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम् ॥ २२॥
मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् ।
सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम् ॥ २३॥
विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः ।
गर्भवासात्परो नास्ति नरको भुवनत्रये ॥ २४॥
तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः ।
हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः ॥ २५॥
यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति ।
गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः ॥ २६॥
वपासंवेष्टनं कूरं किं सुखं तत्र भूपते ।
वरं कारागृहे वासो बन्धनं निगडैर्वरम् ॥ २७॥
अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः ।
गर्भवासे महद्दुःखं दशमासनिवासनम् ॥ २८॥
तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे ।
बालभावे तदा दुःखं मूकाज्ञभावसंयुतम् ॥ २९॥
क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः ।
क्षुधिते रुदिते बाले माता चिन्तातुरा तदा ॥ ३०॥
भेषजं पातुमिच्छन्ती ज्ञात्वा व्याधिव्यथां दृढाम् ।
नानाविधानि दुःखानि बालभावे भवन्ति वै ॥ ३१॥
किं सुखं विबुधा दृष्ट्वा जन्म वाञ्छन्ति चेच्छया ।
सङ्ग्रामममरैः सार्धं सुखं त्यक्त्वा निरन्तरम् ॥ ३२॥
कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् ।
सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः ॥ ३३॥
कृतकर्मविपाकेन प्राप्नुवन्ति सुखासुखे ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
देहवद्भिर्नृभिर्देवैस्तिर्यग्भिश्च नृपोत्तम ॥ ३४॥
तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत् ।
क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः ॥ ३५॥
रामावतारयोगेन देवा वानरतां गताः ।
तथा कृष्णसहायार्थं देवा यादवतां गताः ॥ ३६॥
एवं युगे युगे विष्णुरवताराननेकशः ।
करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम् ॥ ३७॥
पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव ।
अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः ॥ ३८॥
दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् ।
अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना ॥ ३९॥
तदहं सम्प्रवक्ष्यामि कृष्णजन्मकथां शुभाम् ।
स एव भगवान्विष्णुरवतीर्णो यदोः कुले ॥ ४०॥
कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् ।
गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः ॥ ४१॥
कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते ।
अदितिः सुरसा चैवमासतुः पृथिवीपते ॥ ४२॥
देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ ।
वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम् ॥ ४३॥
राजोवाच ।
किं कृतं कश्यपेनागो येन शप्तो महानृषिः ।
सभार्यः स कथं जातस्तद्वदस्व महामते ॥ ४४॥
कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले ।
वासी वैकुण्ठनिलये रमापतिरखण्डितः ॥ ४५॥
निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः ।
नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः ॥ ४६॥
स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे ।
करोति जननं कस्मादत्र मे संशयो महान् ॥ ४७॥
प्राप्य मानुषदेहं तु करोति च विडम्बनम् ।
भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि ॥ ४८॥
कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् ।
सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च ॥ ४९॥
दुष्कृतं सुकृतं चैव वचनं हननं तथा ।
पोषणं चलनं तापो विमर्शश्च विकत्थनम् ॥ ५०॥
लोभो दम्भस्तथा मोहः कपटः शोचनं तथा ।
एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि ॥ ५१॥
स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् ।
करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम् ॥ ५२॥
किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर ।
किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै ॥ ५३॥
गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः ।
यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम् ॥ ५४॥
दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम ।
कथं स भगवान्विष्णुरवतारान्पुनः पुनः ॥ ५५॥
प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना ।
दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे ॥ ५६॥
सीताविरहजं दुःखं सङ्ग्रामश्च पुनः पुनः ।
कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना ॥ ५७॥
तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः ।
गोकुले गमनं चैव गवां चारणमित्युत ॥ ५८॥
कंसस्य हननं कष्टाद् द्वारकागमनं पुनः ।
नानासंसारदुःखानि भुक्तवान्भगवान् कथम् ॥ ५९॥
स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् ।
संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे कर्मणो जन्मादिकारणत्वनिरूपणं नाम द्वितीयोऽध्यायः ॥ ४.२॥
४.३ तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् ।
व्यास उवाच ।
कारणानि बहून्यत्राप्यवतारे हरेः किल ।
सर्वेषां चैव देवानामंशावतरणेष्वपि ॥ १॥
वसुदेवावतारस्य कारणं शृणु तत्त्वतः ।
देवक्याश्चैव रोहिण्या अवतारस्य कारणम् ॥ २॥
एकदा कश्यपः श्रीमान्यज्ञार्थं धेनुमाहरत् ।
याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम् ॥ ३॥
वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् ।
प्रणम्योवाच दीनात्मा स्वदुःखं विनयान्वितः ॥ ४॥
किं करोमि महाभाग मत्तोऽसौ न ददाति गाम् ।
शापो मया विसृष्टोऽस्मै गोपालो भव मानुषे ॥ ५॥
भार्ये द्वे अपि तत्रैव भवेतां चातिदुःखिते ।
यतो वत्सा रुदन्त्यत्र मातृहीनाः सुदुःखिताः ॥ ६॥
मृतवत्सादितिस्तस्माद्भविष्यति धरातले ।
कारागारनिवासा च तेनापि बहुदुःखिता ॥ ७॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य यादोनाथस्य पद्मभूः ।
समाहूय मुनिं तत्र तमुवाच प्रजापतिः ॥ ८॥
कस्मात्त्वया महाभाग लोकपालस्य धेनवः ।
हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च ॥ ९॥
जानन् न्यायं महाभाग परवित्तापहारणम् ।
कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते ॥ १०॥
अहो लोभस्य महिमा महतोऽपि न मुञ्चति ।
लोभं नरकदं नूनं पापाकरमसम्मतम् ॥ ११॥
कश्यपोऽपि न तं त्यक्तुं समर्थः किं करोम्यहम् ।
सर्वदैवाधिकस्तस्माल्लोभो वै कलितो मया ॥ १२॥
धन्यास्ते मुनयः शान्ता जितो यैर्लोभ एव च ।
वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः ॥ १३॥
संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा ।
कश्यपोऽपि दुराचारः कृतस्नेहो दुरात्मना ॥ १४॥
ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् ।
मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम् ॥ १५॥
अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले ।
भार्याभ्यां संयुतस्तत्र गोपालत्वं करिष्यसि ॥ १६॥
व्यास उवाच ।
एवं शप्तः कश्यपोऽसौ वरुणेन च ब्रह्मणा ।
अंशावतरणार्थाय भूभारहरणाय च ॥ १७॥
तथा दित्यादितिः शप्ता शोकसन्तप्तया भृशम् ।
जाता जाता विनश्येरंस्तव पुत्रास्तु सप्त वै ॥ १८॥
जनमेजय उवाच ।
कस्माद्दित्या च भगिनी शप्तेन्द्रजननी मुने ।
कारणं वद शापे च शोकस्तु मुनिसत्तम ॥ १९॥
सूत उवाच ।
पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः ।
राजानं प्रत्युवाचेदं कारणं सुसमाहितः ॥ २०॥
व्यास उवाच ।
राजन् दक्षसुते द्वे तु दितिश्चादितिरुत्तमे ।
कश्यपस्य प्रिये भार्ये बभूवतुरुरुक्रमे ॥ २१॥
अदित्यां मघवा पुत्रो यदाभूदतिवीर्यवान् ।
तदा तु तादृशं पुत्रं चकमे दितिरोजसा ॥ २२॥
पतिमाहासितापाङ्गी पुत्रं मे देहि मानद ।
इन्द्रख्यबलं वीरं धर्मिष्ठं वीर्यवत्तमम् ॥ २३॥
तामुवाच मुनिः कान्ते स्वस्था भव मयोदिते ।
व्रतान्ते भविता तुभ्यं शतक्रतुसमः सुतः ॥ २४॥
सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम् ।
निषिक्तं मुनिना गर्भं बिभ्राणा सुमनोहरम् ॥ २५॥
भूमौ चकार शयनं पयोव्रतपरायणा ।
पवित्रा धारणायुक्ता बभूव वरवर्णिनी ॥ २६॥
एवं जातः सुसम्पूर्णो यदा गर्भोऽतिवीर्यवान् ।
शुभ्रांशुमतिदीप्ताङ्गीं दितिं दृष्ट्वा तु दुःखिता ॥ २७॥
मघवत्सदृशः पुत्रो भविष्यति महाबलः ।
दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल ॥ २८॥
इति चिन्तापरा पुत्रमिन्द्रं चोवाच मानिनी ।
शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेऽतिवीर्यवान् ॥ २९॥
उपायं कुरु नाशाय शत्रोरद्य विचिन्त्य च ।
उत्पत्तिरेव हन्तव्या दित्या गर्भस्य शोभन ॥ ३०॥
वीक्ष्य तामसितापाङ्गीं सपत्नीभावमास्थिताम् ।
दुनोति हृदये चिन्ता सुखमर्मविनाशिनी ॥ ३१॥
राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः ।
तस्मादङ्कुरितं हन्याद्बुद्धिमानहितं किल ॥ ३२॥
लोहशङ्कुरिव क्षिप्तो गर्भो वै हृदये मम ।
येन केनाप्युपायेन पातयाद्य शतक्रतो ॥ ३३॥
सामदानबलेनापि हिंसनीयस्त्वया सुतः ।
दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम् ॥ ३४॥
व्यास उवाच ।
श्रुत्वा मातृवचः शक्रो विचिन्त्य मनसा ततः ।
जगामापरमातुः स समीपममराधिपः ॥ ३५॥
ववन्दे विनयात्पादौ दित्याः पापमतिर्नृप ।
प्रोवाच विनयेनासौ मधुरं विषगर्भितम् ॥ ३६॥
इन्द्र उवाच ।
मातस्त्वं व्रतयुक्तासि क्षीणदेहातिदुर्बला ।
सेवार्थमिह सम्प्राप्तः किं कर्तव्यं वदस्व मे ॥ ३७॥
पादसंवाहनं तेऽहं करिष्यामि पतिव्रते ।
गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम् ॥ ३८॥
न मे किमपि भेदोऽस्ति तथादित्या शपे किल ।
इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत् ॥ ३९॥
संवाहनसुखं प्राप्य निद्रामाप सुलोचना ।
श्रान्ता व्रतकृशा सुप्ता विश्वस्ता परमा सती ॥ ४०॥
तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम् ।
रूपं कृत्वातिसूक्ष्मञ्च शस्त्रपाणिः समाहितः ॥ ४१॥
उदरं प्रविवेशाशु तस्या योगबलेन वै ।
गर्भं चकर्त वज्रेण सप्तधा पविनायकः ॥ ४२॥
रुरोद च तदा बालो वज्रेणाभिहतस्तथा ।
मा रुदेति शनैर्वाक्यमुवाच मघवानमुम् ॥ ४३॥
शकलानि पुनः सप्त सप्तधा कर्तितानि च ।
तदा चैकोनपञ्चाशन्मरुतश्चाभवन्नृप ॥ ४४॥
तदा प्रबुद्धा सुदती ज्ञात्वा गर्भं तथाकृतम् ।
इन्द्रेण छलरूपेण चुकोप भृशदुःखिता ॥ ४५॥
भगिनीकृतं तु सा बुद्ध्वा शशाप कुपिता तदा ।
अदितिं मघवन्तञ्च सत्यव्रतपरायणा ॥ ४६॥
यथा मे कर्तितो गर्भस्तव पुत्रेण छद्मना ।
तथा तन्नाशमायातु राज्यं त्रिभुवनस्य तु ॥ ४७॥
यथा गुप्तेन पापेन मम गर्भो निपातितः ।
अदित्या पापचारिण्या यथा मे घातितः सुतः ॥ ४८॥
तस्याः पुत्रास्तु नश्यन्तु जाता जाताः पुनः पुनः ।
कारागारे वसत्वेषा पुत्रशोकातुरा भृशम् ॥ ४९॥
अन्यजन्मनि चाप्येव मृतापत्या भविष्यति ।
व्यास उवाच ।
इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनन्दनः ॥ ५०॥
उवाच प्रणयोपेतो वचनं शमयन्निव ।
मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तराः ॥ ५१॥
भविष्यन्ति सुराः सर्वे मरुतो मघवत्सखाः ।
शापोऽयं तव वामोरु त्वष्टाविंशेऽथ द्वापरे ॥ ५२॥
अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी ।
वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च ॥ ५३॥
उभयोः शापयोगेन मानुषीयं भविष्यति ।
व्यास उवाच ।
पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा ॥ ५४॥
नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी ।
इति ते कथितं राजन् पूर्वशापस्य कारणम् ॥ ५५॥
अदितिर्देवकी जाता स्वांशेन नृपसत्तम ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे दित्या अदित्यै शापदानं नाम तृतीयोऽध्यायः ॥ ४.३॥
४.४ चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् ।
राजोवाच ।
विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते ।
संसारोऽयं पापरूपः कथं मुच्येत बन्धनात् ॥ १॥
कश्यपस्यापि दायादस्त्रिलोकीविभवे सति ।
कृतवानीदृशं कर्म को न कुर्याज्जुगुप्सितम् ॥ २॥
गर्भे प्रविश्य बालस्य हननं दारुणं किल ।
सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम् ॥ ३॥
शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत ।
कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम् ॥ ४॥
पितामहा मे सङ्ग्रामे कुरुक्षेत्रेऽतिदारुणम् ।
कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो ॥ ५॥
भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः ।
सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः ॥ ६॥
असारतां विजानन्तः संसारस्य सुमेधसः ।
देवांशाश्च कथं चक्रुर्निन्दितं धर्मतत्पराः ॥ ७॥
कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् ।
चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम् ॥ ८॥
आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् ।
पुरुषो विषयासक्तो रागी भवति सर्वथा ॥ ९॥
रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् ।
द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥ १०॥
जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना ।
छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥ ११॥
तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः ।
अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते ॥ १२॥
कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः ।
परलोकपदार्थं वा यशसे वान्यथा किल ॥ १३॥
धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः ।
द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः ॥ १४॥
दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै ।
तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः ॥ १५॥
धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् ।
धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥ १६॥
छलार्थञ्च यदा विष्णुर्वामनोऽभूज्जगत्प्रभुः ।
येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः ॥ १७॥
विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः ।
धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः ॥ १८॥
स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना ।
जितं केन तयोः कृष्ण बलिना वामनेन वा ॥ १९॥
छलकर्मविदा चायं सन्देहोऽत्र महान्मम ।
वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम ॥ २०॥
पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः ।
व्यास उवाच ।
जितं वै बलिना राजन् दत्ता येन च मेदिनी ॥ २१॥
त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् ।
छलनार्थमिदं राजन्वामनत्वं नराधिप ॥ २२॥
सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च ।
सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव ॥ २३॥
दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल ।
माया बलवती भूप त्रिगुणा बहुरूपिणी ॥ २४॥
ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः ।
तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप ॥ २५॥
मिश्रेण जनिता चैव स्थितिरेषा सनातनी ।
वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः ॥ २६॥
सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः ।
दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः ॥ २७॥
अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप ।
नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ॥ २८॥
धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह ।
सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै ॥ २९॥
गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः ।
निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ ३०॥
भवोद्भवे महाराज मायया मोहितस्य वै ।
इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा ॥ ३१॥
करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् ।
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः ॥ ३२॥
सर्वे मायावशा राजन् सानुक्रीडति तैरिह ।
सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत् ॥ ३३॥
असत्यो जायते राजन्कार्यवान्प्रथमं नरः ।
इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः ॥ ३४॥
तदर्थं छलमादत्ते छलात्पापे प्रवर्तते ।
कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः ॥ ३५॥
कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः ।
विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि ॥ ३६॥
अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च ।
सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च ॥ ३७॥
ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि ।
आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा ॥ ३८॥
प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः ।
यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा ॥ ३९॥
अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् ।
अहम्भावकृतं सर्वं प्रभवेद्वै न शौचवत् ॥ ४०॥
रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् ।
प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल ॥ ४१॥
अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि ।
द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः ॥ ४२॥
विपरीतं भवेत्तत्तु फलकाले नृपोत्तम ।
मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत् ॥ ४३॥
तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् ।
कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः ॥ ४४॥
स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् ।
देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि ॥ ४५॥
मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते ।
शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा ॥ ४६॥
करोति सुकृतं तद्वद्विपरीतं भवेत्किल ।
स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम् ॥ ४७॥
दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् ।
प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः ॥ ४८॥
सर्वे ते स्वार्थनिरताः परस्परविरोधिनः ।
सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः ॥ ४९॥
रजोद्भवास्तामसास्तु तिर्यञ्चः परिकीर्तिताः ।
सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम् ॥ ५०॥
तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे ।
सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा ॥ ५१॥
असन्तुष्टा द्वेषपराः परस्परविरोधिनः ।
अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप ॥ ५२॥
रागद्वेषविहीनस्तु स कथं जायते नृप ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे अधमजगतः स्थितिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४.४॥
४.५ पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् ।
व्यास उवाच ।
अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम ।
धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित् ॥ १॥
रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् ।
आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते ॥ २॥
देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा ।
मानुषाणां तिरश्चां च का वार्ता नृप गण्यते ॥ ३॥
द्रोहपरे द्रोहपरो भवेदिति समानता ।
अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता ॥ ४॥
यः कश्चित्तापसः शान्तो जपध्यानपरायणः ।
भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम् ॥ ५॥
सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः ।
मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ ॥ ६॥
कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः ।
अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः ॥ ७॥
वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ ।
तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत् ॥ ८॥
मलिना वासना सत्यं विनाशायेति सर्वथा ।
ब्रह्मणो हृदयाज्जातः पुत्रो धर्म इति स्मृतः ॥ ९॥
ब्राह्मणः सत्यसम्पन्नो वेदधर्मरतः सदा ।
दक्षस्य दुहितारो हि वृता दश महात्मना ॥ १०॥
विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा ।
तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः ॥ ११॥
हरिं कृष्णं नरं चैव तथा नारायणं नृप ।
योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह ॥ १२॥
नरनारायणौ चैव चेरतुस्तप उत्तमम् ।
प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे ॥ १३॥
तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ ।
गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥ १४॥
हरेरंशौ स्थितौ तत्र नरनारायणावृषी ।
पूर्णं वर्षसहस्रं तु चक्राते तप उत्तमम् ॥ १५॥
तापितं च जगत्सर्वं तपसा सचराचरम् ।
नरनारायणाभ्यां च शक्रः क्षोभं तदा ययौ ॥ १६॥
चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् ।
किं कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ ॥ १७॥
सिद्धार्थां सुभृशं श्रेष्ठमासनं मे ग्रहीष्यतः ।
विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि ॥ १८॥
उत्पाद्य कामं क्रोधञ्च लोभं वाप्यतिदारुणम् ।
इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम् ॥ १९॥
विघ्नकामस्तु तरसा जगाम गन्धमादनम् ।
गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः ॥ २०॥
तपसा दीप्तदेहौ तु भास्कराविव चोदितौ ।
ब्रह्मविष्णू किमेतौ वै प्रकटौ वा विभावसू ॥ २१॥
धर्मपुत्रावृषी एतौ तपसा किं करिष्यतः ।
इति सञ्चिन्त्य तौ दृष्ट्वा तदोवाच शचीपतिः ॥ २२॥
किं वा कार्यं महाभागौ ब्रूतं धर्मसुतौ किल ।
ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी ॥ २३॥
अदेयमपि दास्यामि तुष्टोऽस्मि तपसा किल ।
व्यास उवाच ।
एवं पुनः पुनः शक्रस्तावुवाच पुरः स्थितः ॥ २४॥
नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ ।
ततो वै मोहिनीं मायां चकार भयदां वृषः ॥ २५॥
वृकान्सिंहांश्च व्याघ्रांश्च समुत्पाद्याबिभीषयत् ।
वर्षं वातं तथा वह्निं समुत्पाद्य पुनः पुनः ॥ २६॥
भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम् ।
भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी ॥ २७॥
नरनारायणौ दृष्ट्वा शक्रः स्वभवनं गतः ।
वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः ॥ २८॥
व्याघ्रसिंहादिभिः कान्तौ चलितौ नाश्रमात्स्वकात् ।
न तयोर्ध्यानभङ्गं वै कर्तुं कोऽपि क्षमोऽभवत् ॥ २९॥
इन्द्रोऽपि सदनं गत्वा चिन्तयामास दुःखितः ।
चलितौ भयलोभाभ्यां नेमौ मुनिवरोत्तमौ ॥ ३०॥
चिन्तयन्तौ महाविद्यामादिशक्तिं सनातनीम् ।
ईश्वरीं सर्वलोकानां परां प्रकृतिमद्भुताम् ॥ ३१॥
ध्यायतां कः क्षमो लोके बहुमायाविदप्युत ।
यन्मूलाः सकला माया देवासुरकृताः किल ॥ ३२॥
ते कथं बाधितुं शक्ता ध्यायन्ति गतकल्मषाः ।
वाग्बीजं कामबीजञ्च मायाबीजं तथैव च ॥ ३३॥
चित्ते यस्य भवेत्तं तु बाधितुं कोऽपि न क्षमः ।
मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम् ॥ ३४॥
कर्तुं कामवसन्तौ तु समाहूयाब्रवीद्वचः ।
मनोभव वसन्तेन रत्या युक्तो व्रजाधुना ॥ ३५॥
अप्सरोभिः समायुक्तस्तरसा गन्धमादनम् ।
नरनारायणौ तत्र पुराणावृषिसत्तमौ ॥ ३६॥
कुरुतस्तप एकान्ते स्थितौ बदरिकाश्रमे ।
गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणैः ॥ ३७॥
चित्तं कामातुरं कार्यं कुरु कार्यं ममाधुना ।
मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च ॥ ३८॥
वशीकुरु महाभाग मुनी धर्मसुतावपि ।
को ह्यस्मिन् सर्वसंसारे देवो दैत्योऽथ मानवः ॥ ३९॥
यस्ते बाणवशं प्राप्तो न याति भृशताडितः ।
ब्रह्माहं गिरिजानाथश्चन्द्रो वह्निर्विमोहितः ॥ ४०॥
गणना कानयोः काम त्वद्बाणानां पराक्रमे ।
वाराङ्गनागणोऽयं ते सहायार्थं मयेरितः ॥ ४१॥
आगमिष्यति तत्रैव रम्भादीनां मनोरमः ।
एका तिलोत्तमा रम्भा कार्यं साधयितुं क्षमा ॥ ४२॥
त्वमेवैकः क्षमः कामं मिलितैः कस्तु संशयः ।
कुरु कार्यं महाभाग ददामि तव वाञ्छितम् ॥ ४३॥
प्रलोभितौ मयात्यर्थं वरदानैस्तपस्विनौ ।
स्थानान्न चलितौ शान्तौ वृथायं मे गतः श्रमः ॥ ४४॥
तथा वै मायया कृत्वा भीषितौ तापसौ भृशम् ।
तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ ॥ ४५॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा शक्रं प्राह मनोभवः ।
वासवाद्य करिष्यामि कार्यं ते मनसेप्सितम् ॥ ४६॥
यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् ।
ध्यायन्तौ तौ तदास्माकं भवितारौ वशौ मुनी ॥ ४७॥
देवीभक्तं वशीकर्तुं नाहं शक्तः कथञ्चन ।
कामराज महाबीजं चिन्तयन्तं मनस्यलम् ॥ ४८॥
तां देवीं चेन्महाशक्तिं संश्रितौ भक्तिभावतः ।
न तदा मम बाणानां गोचरौ तापसौ किल ॥ ४९॥
इन्द्र उवाच ।
गच्छ त्वं च महाभाग सर्वैस्तत्र समुद्यतैः ।
कार्यं ममातिदुःसाध्यं कर्ता हितमनुत्तमम् ॥ ५०॥
व्यास उवाच ।
इति तेन समादिष्टा ययुः सर्वे समुद्यताः ।
यत्र तौ धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः ॥ ५१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे नरनारायणकथावर्णनं नाम पञ्चमोऽध्यायः ॥ ४.५॥
४.६ षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् ।
व्यास उवाच ।
प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे ।
पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥ १॥
आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा ।
सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः ॥ २॥
बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः ।
वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान् ॥ ३॥
प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः ।
बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम् ॥ ४॥
ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः ।
इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ॥ ५॥
रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् ।
चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥ ६॥
रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे ।
गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम् ॥ ७॥
तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् ।
भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ ॥ ८॥
ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् ।
जातौ चिन्तापरौ तत्र नरनारायणावृषी ॥ ९॥
किमद्य शिशिरापायः सम्भृतः समयं विना ।
प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः ॥ १०॥
कालधर्मविपर्यासः कथमद्य दुरासदः ।
नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः ॥ ११॥
नारायण उवाच ।
पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै ।
कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः ॥ १२॥
शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः ।
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ १३॥
रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका ।
नीलाशोककचा श्यामा विकासिकमलानना ॥ १४॥
नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी ।
प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता ॥ १५॥
बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा ।
पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥ १६॥
बर्हिवृन्दकलापा च सारसस्वननूपुरा ।
वासन्ती बद्धरशना मत्तहंसगतिस्तथा ॥ १७॥
पुत्रजीवांशुकन्यस्तरोमराजिविराजिता ।
वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥ १८॥
अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना ।
तपोविघ्नकरा नूनं देवर्षे परिचिन्तय ॥ १९॥
श्रूयते सुरनारीणां गानं ध्यानविनाशनम् ।
आवयोस्तपिभङ्गाय कृतं मघवता किल ॥ २०॥
ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् ।
विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ॥ २१॥
वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः ।
नान्यत्कारणमस्तीह शतक्रतुकृतिं विना ॥ २२॥
इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ ।
सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा ॥ २३॥
ददर्श भगवान्सर्वान्नरो नारायणस्तथा ।
विस्मयाविष्टमनसौ बभूवतुरुभावपि ॥ २४॥
मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् ।
पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम् ॥ २५॥
प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् ।
चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम् ॥ २६॥
विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम् ।
एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके ॥ २७॥
तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च ।
वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम् ॥ २८॥
प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा ।
दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः ॥ २९॥
जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् ।
तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम् ॥ ३०॥
शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा ।
श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः ॥ ३१॥
आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् ।
भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः ॥ ३२॥
व्यास उवाच ।
साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः ।
इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया ॥ ३३॥
वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल ।
एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम् ॥ ३४॥
इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै ।
तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम् ॥ ३५॥
नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा ।
ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः ॥ ३६॥
तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः ।
प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः ॥ ३७॥
गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः ।
प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः ॥ ३८॥
तां वीक्ष्य विभ्रमकरीं तपसो विभूतिम् ॥
देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः ।
ऊचुश्च तौ प्रमुदिताननपद्यशोभा
रोमोद्गमोल्लसितचारुनिजाङ्गवल्ल्यः ॥ ३९॥
कुर्युः कथं स्तुतिमहो तपसो महत्त्वं
धैर्यं तथैव भवतामभिवीक्ष्य बालाः ।
अस्मत्कटाक्षविषदिग्धशरेण दग्धः
को वा न तत्र भवतां मनसो व्यथा न ॥ ४०॥
ज्ञातौ युवां नरहरेः परमांशभूतौ
देवौ मुनी शमदमादिनिधी सदैव ।
सेवानिमित्तमिह नो गमनं न कामं
कार्यं हरेः शतमखस्य विधातुमेव ॥ ४१॥
भाग्येन केन युवयोः किल दर्शनं नः
सम्पादितं न विदितं खलु सञ्चितं तत् ।
चित्तं क्षमं निजजने विहितं युवाभ्या-
मस्मद्विधे किल कृतागसि तापमुक्तम् ॥ ४२॥
कुर्वन्ति नैव विबुधास्तपसो व्ययं वै
शापेन तुच्छफलदेन महानुभावाः ।
व्यास उवाच ।
इत्थं निशम्य वचनं सुरकामिनीनां
तावूचतुर्मुनिवरौ विनयानतानाम् ॥ ४३॥
प्रीतौ प्रसन्नवदनौ जितकामलोभौ
धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ ।
नरनारायणावूचतुः
ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ ॥ ४४॥
यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् ।
उपायनमियं बाला गच्छत्वद्य मनोहरा ॥ ४५॥
दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा ।
स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च ॥ ४६॥
(न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परं ।)॥
देव्य ऊचुः ।
क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् ।
नारायण सुरश्रेष्ठ भक्त्या परमया मुदा ॥ ४७॥
वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन ।
तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम् ॥ ४८॥
पतिस्त्वं भव देवेश वरमेनं परन्तप ।
भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर ॥ ४९॥
त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः ।
उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया ॥ ५०॥
स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् ।
सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ ॥ ५१॥
वाञ्छितं देहि देवेश सत्यवाग्भव माधव ।
आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम् ॥ ५२॥
कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः ।
भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः ॥ ५३॥
त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते ।
नारायण उवाच ।
पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै ॥ ५४॥
जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः ।
नेच्छा कामे सुखे काचित्सुखधर्मविनाशके ॥ ५५॥
पशूनामपि साधर्म्ये रमेत मतिमान्कथम् ।
अप्सरस ऊचुः ।
शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम् ॥ ५६॥
आनन्दरसमूलं वै नान्यदस्ति सुखं किल ।
अतोऽस्माकं महाराज वचनं कुरु सर्वथा ॥ ५७॥
निर्भरं सुखमासाद्य चरस्व गन्धमादने ।
यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात् ॥ ५८॥
रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे
अप्सरसां नारायणसमीपे प्रार्थनाकरणं नाम षष्ठोऽध्यायः ॥ ४.६॥
४.७ सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् ।
व्यास उवाच ।
इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् ।
विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना ॥ १॥
हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् ।
अहङ्कारादिदं प्राप्तं दुःखं नात्र विचारणा ।
मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः ॥ २॥
मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः ।
दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम् ॥ ३॥
वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् ।
उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै ॥ ४॥
तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः ।
ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै ॥ ५॥
बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् ।
यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः ॥ ६॥
शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः ।
मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः ॥ ७॥
तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् ।
व्यास उवाच ।
इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा ॥ ८॥
विमर्शमकरोच्चित्ते सुखोत्पादनसाधने ।
द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः ॥ ९॥
कामादप्यधिको लोके लोभादपि च दारुणः ।
क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम् ॥ १०॥
दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् ।
यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा ॥ ११॥
देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः ।
व्यास उवाच ।
इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम् ॥ १२॥
उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः ।
नर उवाच ।
नारायण महाभाग कोपं यच्छ महामते ॥ १३॥
शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् ।
पुराहङ्कारदोषेण तपो नष्टं किलावयोः ॥ १४॥
सङ्ग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह ।
दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम् ॥ १५॥
दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम ।
तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर ॥ १६॥
(शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितं ।)॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः ।
जनमेजय उवाच ।
संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना ॥ १७॥
विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा ।
कृतवन्तौ कथं युद्धं नरनारायणावृषी ॥ १८॥
तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ ।
समागमः कथं जातस्तयोर्दैत्यसुतस्य च ॥ १९॥
सङ्ग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना ।
प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः ॥ २०॥
नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ ।
तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम् ॥ २१॥
तदा तपसि धर्मे च श्रम एव हि केवलम् ।
क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च ॥ २२॥
तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् ।
न क्रोधो न च मात्सर्यमहङ्काराङ्कुरं विना ॥ २३॥
अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल ।
वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम् ॥ २४॥
अहङ्काराङ्कुरे जाते व्यर्थं भवति सर्वथा ।
यथा सूर्योदये जाते तमोरूपं न तिष्ठति ॥ २५॥
अहङ्काराङ्कुरस्याग्रे तथा पुण्यं न तिष्ठति ।
प्रह्लादोऽपि महाभाग हरिणा समयुध्यत ॥ २६॥
तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले ।
नरनारायणौ शान्तौ विहाय परमं तपः ॥ २७॥
कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः ।
ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः ॥ २८॥
मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसङ्क्षये ।
अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये ॥ २९॥
न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा ।
मुच्यते लोहनिगडैर्बद्धः काष्ठमयैस्तथा ॥ ३०॥
अहङ्कारनिबद्धस्तु न कदाचिद्विमुच्यते ।
अहङ्कारावृतं सर्वं जगत्स्थावरजङ्गमम् ॥ ३१॥
भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते ।
ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते ॥ ३२॥
मतं मीमांसकानां वै सम्मतं भाति सुव्रत ।
महान्तोऽपि सदा युक्ताः कामक्रोधादिभिर्मुने ॥ ३३॥
मादृशानां कलावस्मिन्का कथा मुनिसत्तम ।
व्यास उवाच ।
कार्यं वै कारणाद्भिन्नं कथं भवति भारत ॥ ३४॥
कटकं कुण्डलञ्चैव सुवर्णसदृशं भवेत् ।
अहङ्कारोद्भवं सर्वं ब्रह्माण्डं सचराचरम् ॥ ३५॥
पटस्तन्तुवशः प्रोक्तस्तद्वियुक्तः कथं भवेत् ।
मायागुणैस्त्रिभिः सर्वं रचितं स्थिरजङ्गमम् ॥ ३६॥
सतृणस्तम्बपर्यन्तं का तत्र परिदेवना ।
ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहङ्कारमोहिताः ॥ ३७॥
भ्रमन्त्यस्मिन्महागाधे संसारे नृपसत्तम ।
वसिष्ठनारदाद्याश्च मुनयो ज्ञानिनः परम् ॥ ३८॥
तेऽभिभूताः संसरन्ति संसारेऽस्मिन्पुनः पुनः ।
न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेषु देहभृत् ॥ ३९॥
एभिर्मायागुणैर्मुक्तः शान्त आत्मसुखे स्थितः ।
कामक्रोधौ तथा लोभो मोहोऽहङ्कारसम्भवः ॥ ४०॥
न मुञ्चन्ति नरं सर्वं देहवन्तं नृपोत्तम ।
अधीत्य वेदशास्त्राणि पुराणानि विचिन्त्य च ॥ ४१॥
कृत्वा तीर्थाटनं दानं ध्यानञ्चैव सुरार्चनम् ।
करोति विषयासक्तः सर्वं कर्म च चौरवत् ॥ ४२॥
विचारयति नो पूर्वं काममोहमदान्वितः ।
कृते युगेऽपि त्रेतायां द्वापरे कुरुनन्दन ॥ ४३॥
विद्धोऽत्रास्ति च धर्मोऽपि का कथाद्य कलौ पुनः ।
स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा ॥ ४४॥
एवंविधोऽस्ति संसारो नात्र कार्या विचारणा ।
साधवो विरला लोके भवन्ति गतमत्सराः ॥ ४५॥
जितक्रोधा जितामर्षा दृष्टान्तार्थं व्यवस्थिताः ।
राजोवाच ।
ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः ॥ ४६॥
जितेन्द्रियाः सदाचारा जितं तैर्भुवनत्रयम् ।
दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः ॥ ४७॥
कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना ।
अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः ॥ ४८॥
न जाने बुद्धिसम्मोहात्किं वा कार्यं भविष्यति ।
मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ॥ ४९॥
करोति निन्दितं कर्म नरकान्न बिभेति च ।
कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे ॥ ५०॥
प्रह्लादेन यथा चोग्रं नरनारायणस्य वै ।
प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे ॥ ५१॥
सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे ।
नरनारायणौ शान्तौ तापसौ मुनिसत्तमौ ॥ ५२॥
कृतवन्तौ तथा युद्धं हेतुना केन मानद ।
वैरं भवति वित्तार्थं दारार्थं वा परस्परम् ॥ ५३॥
एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् ।
प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ ॥ ५४॥
कृतवान्स कथं युद्धं नरनारायणौ मुनी ।
एतद्विस्तरतो ब्रह्मञ्छ्रोतुमिच्छामि कारणम् ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे अहङ्कारावर्तनवर्णनं नाम सप्तमोऽध्यायः ॥ ४.७॥
४.८ अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् ।
सूत उवाच ।
इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै ।
उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः ॥ १॥
जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः ।
चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै ॥ २॥
तस्यैवोद्धरणार्थाय चकार सततं मनः ।
विप्रावमानपापेन यमलोकं गतस्य वै ॥ ३॥
पुन्नामनरकाद्यस्मात्त्रायते पितरं स्वकम् ।
पुत्रेति नाम सार्थं स्यात्तेन तस्य मुनीश्वराः ॥ ४॥
सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा ।
विप्रशापादौत्तरेयं स्नानदानविवर्जितम् ॥ ५॥
पितुर्गतिं निशम्यासौ निर्वेदं गतवान्नृपः ।
पारीक्षितो महाभागः सन्तप्तो भयविह्वलः ॥ ६॥
पप्रच्छाथ मुनिं व्यासं गृहागतमनिन्दितः ।
नरनारायणस्येमां कथां परमविस्मृताम् ॥ ७॥
व्यास उवाच ।
स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप ।
अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः ॥ ८॥
तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके ।
मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः ॥ ९॥
ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते ।
वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥ १०॥
नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् ।
राज्यं चकार तत्रैव प्रजापालनतत्परः ॥ ११॥
कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः ।
जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम् ॥ १२॥
रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् ।
उत्तरन्तं प्रजग्राह नागो विषभयङ्करः ॥ १३॥
गृहीतो भयभीतस्तु पाताले मुनिसत्तमः ।
सस्मार मनसा विष्णुं देवदेवं जनार्दनम् ॥ १४॥
संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः ।
न प्राप च्यवनो दुःखं नीयमानो रसातलम् ॥ १५॥
द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना ।
मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति ॥ १६॥
चचार नागकन्याभिः पूजितो मुनिसत्तमः ।
विवेशाप्यथ नागानां दानवानां महत्पुरम् ॥ १७॥
कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे ।
ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः ॥ १८॥
दृष्ट्वा तं पूजयामास मुनिं दैत्यपतिस्तदा ।
पप्रच्छ कारणं किं ते पातालागमने वद ॥ १९॥
प्रेषितोऽसि किमिन्द्रेण सत्यं ब्रूहि द्विजोत्तम ।
दैत्यविद्वेषयुक्तेन मम राज्यदिदृक्षया ॥ २०॥
च्यवन उवाच ।
किं मे मघवता राजन् यदहं प्रेषितः पुनः ।
दूतकार्यं प्रकुर्वाणः प्राप्तवान्नगरे तव ॥ २१॥
विद्धि मां भृगुपुत्रं तं स्वनेत्रं धर्मतत्परम् ।
मा शङ्कां कुरु दैत्येन्द्र वासवप्रेषितस्य वै ॥ २२॥
स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम ।
नद्यामेवावतीर्णोऽहं गृहीतश्च महाहिना ॥ २३॥
जातोऽसौ निर्विषः सर्पो विष्णोः संस्मरणादिव ।
मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै ॥ २४॥
अत्रागतेन राजेन्द्र मयाप्तं तव दर्शनम् ।
विष्णुभक्तोऽसि दैत्येन्द्र तद्भक्तं मां विचिन्तय ॥ २५॥
व्यास उवाच ।
तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः ।
पप्रच्छ परया प्रीत्या तीर्थानि विविधानि च ॥ २६॥
प्रह्लाद उवाच ।
पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम ।
पाताले च तथाकाशे तानि नो वद विस्तरात् ॥ २७॥
च्यवन उवाच ।
मनोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे ।
तथा मलिनचित्तानां गङ्गापि कीकटाधिका ॥ २८॥
प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् ।
तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै ॥ २९॥
गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च ।
व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे ॥ ३०॥
निषादानां निवासाश्च कैवर्तानां तथापरे ।
हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम ॥ ३१॥
पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा ।
स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः ॥ ३२॥
तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष ।
किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु ॥ ३३॥
कारणं मन एवात्र नान्यद्राजन्विचिन्तय ।
मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता ॥ ३४॥
तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् ।
तत्रैवाचरितं पापमानन्त्याय प्रकल्पते ॥ ३५॥
यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते ।
भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति ॥ ३६॥
प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता ।
शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा ॥ ३७॥
तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति ।
अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात् ॥ ३८॥
(हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् ।)॥
भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया ।
यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम् ॥ ३९॥
प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् ।
अन्येषां चैव तीर्थानां सङ्ख्या नास्ति महीतले ॥ ४०॥
पावनानि च स्थानानि बहूनि नृपसत्तम ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः ॥ ४१॥
नोदयामास दैत्यान्वै हर्षनिर्भरमानसः ।
प्रह्लाद उवाच ।
उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम् ॥ ४२॥
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् ।
व्यास उवाच ।
इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा ॥ ४३॥
तेनैव सह पातालान्निर्ययुः परया मुदा ।
ते समेत्य च दैतेया दानवाश्च महाबलाः ॥ ४४॥
नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः ।
प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः ॥ ४५॥
सरस्वतीं महापुण्यां ददर्श विमलोदकाम् ।
तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः ॥ ४६॥
मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले ।
विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे ॥ ४७॥
चकारातिप्रसन्नात्मा तीर्थे परमपावने ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे प्रह्लादतीर्थयात्रावर्णनं नामाष्टमोऽध्यायः ॥ ४.८॥
४.९ नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् ।
व्यास उवाच ।
कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः ।
न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ १॥
ददर्श बाणानपरान्नानाजातीयकांस्तदा ।
गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान् ॥ २॥
चिन्तयामास मनसा कस्येमे विशिखास्त्विह ।
ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥ ३॥
एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी ।
समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥ ४॥
तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते ।
शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी ॥ ५॥
ध्यानस्थौ तौ महाभागौ नरनारायणावृषी ।
दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥ ६॥
क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः ।
किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥ ७॥
न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि ।
तपसश्चरणं तीव्रं तथा चापस्य धारणम् ॥ ८॥
विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् ।
ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम् ॥ ९॥
क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ ।
धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥ १०॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत ।
का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः ॥ ११॥
सामर्थ्ये सति यत्कुर्यात्तत्सम्पद्येत तस्य हि ।
आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ ॥ १२॥
युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि ।
गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे ॥ १३॥
ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः ।
विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः ॥ १४॥
प्रह्लाद उवाच ।
तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ ।
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ १५॥
न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः ।
का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥ १६॥
व्यास उवाच ।
तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह ।
युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी ॥ १७॥
अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम ।
(युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।)॥
व्यास उवाच ।
तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा ॥ १८॥
प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः ।
येन केनाप्युपायेन जेष्यामि तावुभावपि ॥ १९॥
नरनारायणौ दान्तावृषी तपिसमन्वितौ ।
व्यास उवाच ।
इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥ २०॥
आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह ।
नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् ॥ २१॥
मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव ॥ २२॥
तान्दैत्यराजस्तपनीयपुङ्खै-
श्चिच्छेद बाणैस्तरसा समेत्य ।
समीक्ष्य छिन्नांश्च नरः स्वसृष्टा-
नन्यान्मुमोचाशु रुषान्वितो वै ॥ २३॥
दैत्याथिपस्तानपि तीव्रवेगै-
श्छित्त्वा जघानोरसि तं मुनीन्द्रम् ।
नरोऽपि तं पञ्चभिराशुगैश्च
कुद्धोऽहनद्दैत्यपतिं बाहुदेशे ॥ २४॥
सेन्द्राः सुरास्तत्र तयोर्हि युद्धं
द्रष्टुं विमानैर्गगनस्थिताश्च ।
नरस्य वीर्यं युधि संस्थितस्य
ते तुष्टुवुर्दैत्यपतेश्च भूयः ॥ २५॥
ववर्ष दैत्याधिप आत्तचापः
शिलीमुखानम्बुधरो यथापः ।
आदाय शार्ङ्ग धनुरप्रमेयं
मुमोच बाणाञ्छितहेमपुङ्खान् ॥ २६॥
बभूव युद्धं तुमुलं तयोस्तु
जयैषिणोः पार्थिव देवदैत्ययोः ।
ववर्षुराकाशपथे स्थितास्ते
पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥ २७॥
चुकोप दैत्याधिपतिर्हरौ स
मुमोच बाणानतितीव्रवेगान् ।
चिच्छेद तान्धर्मसुतः सुतीक्ष्णै-
र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु ॥ २८॥
ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः ।
ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् ।
नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ॥ २९॥
तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् ।
सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह ॥ ३०॥
देवानां दानवानाञ्च कुर्वतां जयघोषणम् ।
उभयोः शरवर्षेण छादिते गगने तदा ॥ ३१॥
दिवापि रात्रिसदृशं बभूव तिमिरं महत् ।
ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः ॥ ३२॥
अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् ।
देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः ॥ ३३॥
विद्याधराश्चारणाश्च विस्मयं परमं ययुः ।
नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी ॥ ३४॥
नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा ।
तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च ॥ ३५॥
मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् ।
प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च ॥ ३६॥
करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा ।
व्यास उवाच ।
दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः ॥ ३७॥
चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ ।
नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम् ॥ ३८॥
तरसैकेन बाणेन स चान्यद्धनुराददे ।
नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम् ॥ ३९॥
तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः ।
छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे ॥ ४०॥
नारायणस्तु चिच्छेद विशिखैराशु कोपितः ।
छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे ॥ ४१॥
जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः ।
तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः ॥ ४२॥
चिच्छेद परिघं घोरं दशभिस्तमताडयत् ।
गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम् ॥ ४३॥
जानुदेशे जघानाशु देवं नारायणं रुषा ।
गदया चापि गिरिवत्संस्थितः स्थिरमानसः ॥ ४४॥
धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् ।
गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम् ॥ ४५॥
विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः ।
स तु शक्तिं समादाय प्रह्लादः परवीरहा ॥ ४६॥
चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि ।
तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया ॥ ४७॥
सप्तधा कृतवानाशु सप्तभिस्तं जघान ह ।
दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः ॥ ४८॥
जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे ।
तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः ॥ ४९॥
प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः ।
चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत् ॥ ५०॥
दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः ।
प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह ॥ ५१॥
प्रह्लाद उवाच ।
देवदेव जगनाथ भक्तवत्सल माधव ।
कथं न जितवानाजावहमेतौ तपस्विनौ ।
सङ्ग्रामस्तु मया देव कृतः पूर्णं शतं समाः ॥ ५२॥
सुराणां न जितौ कस्मादिति मे विस्मयो महान् ।
विष्णुरुवाच ।
सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष ॥ ५३॥
तापसौ न जितात्मानौ नरनारायणौ जितौ ।
गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम् ॥ ५४॥
नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते ।
व्यास उवाच ।
इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह ॥ ५५॥
नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनं नाम नवमोऽध्यायः ॥ ४.९॥
४.१० दशमोऽध्यायः । भृगुशापकारणवर्णनम् ।
जनमेजय उवाच ।
सन्देहोऽयं महानत्र पाराशर्य कथानके ।
नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ ॥ १॥
तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा ।
धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ ॥ २॥
कथं रागसमायुक्तौ जातौ युद्धे परस्परम् ।
सङ्ग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम् ॥ ३॥
प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल ।
हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी ॥ ४॥
कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी ।
कथयस्व महाभाग कारणं विग्रहस्य वै ॥ ५॥
(कामिनी कनकं कार्यं कारणं विग्रहस्य वै)॥
युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः ।
तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना ॥ ६॥
मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप ।
कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम् ॥ ७॥
मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् ।
तपसा पीडितो देहः सङ्ग्रामेण पुनः पुनः ॥ ८॥
दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ ।
न राज्यार्थे धने वापि न दारेषु गृहेषु च ॥ ९॥
किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना ।
निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम् ॥ १०॥
दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् ।
सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा ॥ ११॥
न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी ।
धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ ॥ १२॥
कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् ।
त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम् ॥ १३॥
संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति ।
श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः ॥ १४॥
अहङ्कारभवात्पापात्पातितः पृथिवीतले ।
यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः ॥ १५॥
शब्दोच्चारणमात्रेण पातितो वज्रपाणिना ।
अहङ्कारमृते युद्धं न भवत्येव निश्चयः ॥ १६॥
किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् ।
व्यास उवाच ।
राजन् संसारमूलं हि त्रिविधः परिकीर्तितः ॥ १७॥
अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये ।
स कथं मुनिना त्यक्तुं योग्यो देहभृता किल ॥ १८॥
कारणेन विना कार्यं न भवत्येव निश्चयः ।
तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते ॥ १९॥
राजसाद्वा महाभाग तामसात्कलहस्तथा ।
क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित् ॥ २०॥
शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः ।
अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले ॥ २१॥
येनेदं रचितं विश्वं कथं तद्रहितं भवेत् ।
ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी ॥ २२॥
अन्येषां चैव का वार्ता मुनीनां वसुधाधिप ।
अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम् ॥ २३॥
पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् ।
देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते ॥ २४॥
रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् ।
विष्णोरप्यवताराणां सङ्ख्यां जानाति कः पुमान् ॥ २५॥
विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु ।
नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः ॥ २६॥
कामठं सौकरं चैव नारसिंहञ्च वामनम् ।
युगे युगे जगन्नाथो वासुदेवो जनार्दनः ॥ २७॥
अवतारानसङ्ख्यातान्करोति विधियन्त्रितः ।
वैवस्वते महाराज सप्तमे भगवान्हरिः ॥ २८॥
मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः ।
भृगुशापान्महाराज विष्णुर्देववरः प्रभुः ॥ २९॥
अवताराननेकांस्तु कृतवानखिलेश्वरः ।
राजोवाच ।
सन्देहोऽयं महाभाग हृदये मम जायते ॥ ३०॥
भृगुणा भगवान्विष्णुः कथं शप्तः पितामह ।
हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने ॥ ३१॥
यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः ।
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम् ॥ ३२॥
पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः ।
यदा तदा सुरैः सार्धं कृतं सङ्ख्यं परस्परम् ॥ ३३॥
कृते सङ्ख्ये जगत्सर्वं व्याकुलं समजायत ।
हते तस्मिन्नृपे राजा प्रह्लादः समजायत ॥ ३४॥
देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः ।
सङ्ग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा ॥ ३५॥
पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् ।
देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः ॥ ३६॥
निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् ।
विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप ॥ ३७॥
जगाम स तपस्तप्तुं पर्वते गन्धमादने ।
प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह ॥ ३८॥
यतः परस्परं युद्धं जातं परमदारुणम् ।
ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा ॥ ३९॥
विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप ।
ततः पराजिता दैत्याः काव्यस्य शरणं गताः ॥ ४०॥
किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् ।
स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ॥ ४१॥
यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम ।
व्यास उवाच ।
इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः ॥ ४२॥
मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः ।
मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि ॥ ४३॥
करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः ।
व्यास उवाच ।
ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात् ॥ ४४॥
देवैः श्रुतस्तु वृत्तान्तः सर्वैश्चारमुखात्किल ।
तत्र सम्मन्त्र्य ते देवाः शक्रेण च परस्परम् ॥ ४५॥
मन्त्रं चक्रुः सुसंविग्नाः काव्यमन्त्रप्रभावतः ।
योद्धुं गच्छामहे तूर्णं यावन्न च्यावयन्ति वै ॥ ४६॥
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे ।
दैत्याञ्जग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः ॥ ४७॥
जग्मुस्तान्विष्णुसहिता दानवान् हरिणोदिताः ।
वध्यमानास्तु ते दैत्याः सन्त्रस्ता भयपीडिताः ॥ ४८॥
काव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् ।
ताञ्छुक्रः पीडितान्दृष्ट्वा देवैर्दैत्यान्महाबलान् ॥ ४९॥
मा भैष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः ।
दृष्ट्वा काव्यं सुराः सर्वे त्यक्त्वा तान्प्रययुः किल ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे भृगुशापकारणवर्णनं नाम दशमोऽध्यायः ॥ ४.१०॥
४.११ एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् ।
व्यास उवाच ।
तथा गतेषु देवेषु काव्यस्तान्प्रत्युवाच ह ।
ब्रह्मणा पूर्वमुक्तं यच्छ्रुणुध्वं दानवोत्तमाः ॥ १॥
विष्णुर्दैत्यवधे युक्तो हनिष्यति जनार्दनः ।
वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः ॥ २॥
यथा नृसिंहरूपेण हिरण्यकशिपुर्हतः ।
तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा ॥ ३॥
न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् ।
जेतुं यूयं समर्थाः स्थ मया त्राताः सुरानथ ॥ ४॥
तस्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः ।
अहमद्य महादेवं मन्त्रार्थं प्रव्रजामि वै ॥ ५॥
प्राप्य मन्त्रान्महादेवादागमिष्यामि साम्प्रतम् ।
युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः ॥ ६॥
दैत्या ऊचुः ।
पराजिताः कथं स्थातुं पृथिव्यां मुनिसत्तम ।
शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम् ॥ ७॥
निहता बलिनः सर्वे केचिच्छिष्टाश्च दानवाः ।
नाद्य युक्ताश्च सङ्ग्रामे स्थातुमेवं सुखावहाः ॥ ८॥
शुक्र उवाच ।
यावदहं मन्त्रविद्यामानयिष्यामि शङ्करात् ।
तावद्भवद्भिः स्थातव्यं तपोयुक्तैः शमान्वितैः ॥ ९॥
सामदानादयः प्रोक्ता विद्वद्भिः समयोचिताः ।
देशं कालं बलं वीरैर्ज्ञात्वा शक्तिं बलं बुधैः ॥ १०॥
सेवाथ समये कार्या शत्रूणां शुभकाम्यया ।
स्वशक्त्युपचये काले हन्तव्यास्ते मनीषिभिः ॥ ११॥
तदद्य विनयं कृत्वा सामपूर्वं छलेन वै ।
तिष्ठध्वं स्वनिकेतेषु मदागमनकाङ्क्षया ॥ १२॥
प्राप्य मन्त्रान्महादेवादागमिष्यामि दानवाः ।
युध्यामहे पुनर्देवान्मान्त्रमास्थाय वै बलम् ॥ १३॥
इत्युक्त्वाथ भृगुस्तेभ्यो जगाम कृतनिश्चयः ।
महादेवं महाराज मन्त्रार्थं मुनिसत्तमः ॥ १४॥
दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ ।
सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम् ॥ १५॥
प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः ।
असुरैः सहितस्तत्र वचनं नम्रतायुतम् ॥ १६॥
न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तथैव च ।
देवास्तपश्चरिष्यामः संवृता वल्कलैर्युताः ॥ १७॥
प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् ।
ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते ॥ १८॥
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः ।
विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः ॥ १९॥
दैत्या दम्भं समालम्ब्य तापसास्तपिसंयुताः ।
कश्यपस्याश्रमे वासं चक्रुः काव्यागमेच्छया ॥ २०॥
काव्यो गत्वाथ कैलासं महादेवं प्रणम्य च ।
उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः ॥ २१॥
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ ।
पराजयाय देवानामसुराणां जयाय च ॥ २२॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य सर्वज्ञः शङ्करः शिवः ।
चिन्तयामास मनसा किं कर्तव्यमतः परम् ॥ २३॥
सुरेषु द्रोहबुद्ध्यासौ मन्त्रार्थमिह साम्प्रतम् ।
प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च ॥ २४॥
रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः ।
दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः ॥ २५॥
पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः ।
यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥ २६॥
इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः ।
व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर ॥ २७॥
व्यास उवाच ।
इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् ।
धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः ॥ २८॥
ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा ।
दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः ॥ २९॥
विचार्य मनसा सर्वे सङ्ग्रामायोद्यता नृप ।
ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः ॥ ३०॥
तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा ।
आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः ॥ ३१॥
उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः ।
अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान् ॥ ३२॥
न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते ।
दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया ॥ ३३॥
सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः ।
न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः ॥ ३४॥
देवा ऊचुः ।
भवद्भिः प्रेषितः काव्यो मन्त्रार्थं कुहकेन च ।
तपो ज्ञातं हि युष्माकं तेन युध्याम एव हि ॥ ३५॥
सज्जा भवन्तु युद्धाय संरब्धाः शस्त्रपाणयः ।
शत्रुश्छिद्रेण हन्तव्य एष धर्मः सनातनः ॥ ३६॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं दैत्या विचार्य च परस्परम् ।
पलायनपराः सर्वे निर्गता भयविह्वलाः ॥ ३७॥
शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम् ।
दृष्ट्वा तानतिसन्तप्तानभयं च ददावथ ॥ ३८॥
काव्यमातोवाच ।
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ।
मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति ॥ ३९॥
तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः ।
निरायुधा ह्यसम्भ्रान्तास्तत्राश्रमवरेऽसुराः ॥ ४०॥
देवास्तान्विद्रुतान्वीक्ष्य दानवास्ते पदानुगाः ।
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ॥ ४१॥
तत्रागताः सुराः सर्वे हन्तुं दैत्यान्समुद्यताः ।
वारिताः काव्यमात्रापि जघ्नुस्तानाश्रमस्थितान् ॥ ४२॥
हन्यमानान्सुरैर्दृष्ट्वा काव्यमातातिवेपिता ।
उवाच सर्वान्सनिद्रांस्तपसा वै करोम्यहम् ॥ ४३॥
इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च ।
सेन्द्रा निद्रावशं याता देवा मूकवदास्थिताः ॥ ४४॥
इन्द्रं निद्राजितं दृष्ट्वा दीनं विष्णुरभाषत ।
मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम ॥ ४५॥
एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः ।
निर्भयो गतनिद्रश्च बभूव हरिरक्षितः ॥ ४६॥
रक्षितं हरिणा दृष्ट्वा शक्रं तत्र गतव्यथम् ।
काव्यमाता ततः क्रुद्धा वचनं चेदमब्रवीत् ॥ ४७॥
मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात् ।
पश्यतां सर्वदेवानामीदृशं मे तपोबलम् ॥ ४८॥
व्यास उवाच ।
इत्युक्तौ तु तया देवौ विष्ण्विन्द्रौ योगविद्यया ।
अभिभूतौ महात्मानौ स्तब्धौ तौ सम्बभूवतुः ॥ ४९॥
विस्मितास्तु तदा देवा दृष्ट्वा तावतिबाधितौ ।
चक्रुः किलकिलाशब्दं ततस्ते दीनमानसाः ॥ ५०॥
क्रोशमानान्सुरान्दृष्ट्वा विष्णुं प्राह शचीपतिः ।
विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन ॥ ५१॥
जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो ।
तपसा दर्पितां दुष्टां मा विचारय माधव ॥ ५२॥
इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च ।
चक्रं सस्मार तरसा घृणां त्यक्त्वाथ माधवः ॥ ५३॥
स्मृतमात्रं तु सम्प्राप्तं चक्रं विष्णुवशानुगम् ।
दधार च करे क्रुद्धो वधार्थं शक्रनोदितः ॥ ५४॥
गृहीत्वा तत्करे चक्रं शिरश्चिच्छेद रंहसा ।
हतां दृष्ट्वा तु तां शक्रो मुदितश्चाभवत्तदा ॥ ५५॥
देवाश्चातीव सन्तुष्टा हरिं जय जयेति च ।
तुष्टुवुर्मुदिताः सर्वे सञ्जाता विगतज्वराः ॥ ५६॥
इन्द्रविष्णू तु सञ्जातौ तत्क्षणाद्धृदयव्यथौ ।
स्त्रीवधाच्छङ्कमानौ तु भृगोः शापं दुरत्ययम् ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे शुक्रमातुर्वधवर्णनं नामेकादशोऽध्यायः ॥ ४.११॥
४.१२ द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् ।
व्यास उवाच ।
तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः ।
वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥ १॥
भृगुरुवाच ।
अकृत्यं ते कृतं विष्णो जानन्पापं महामते ।
वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः ॥ २॥
आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः ।
तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम् ॥ ३॥
तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् ।
अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा ॥ ४॥
शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते ।
विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात् ॥ ५॥
न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन ।
सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः ॥ ६॥
ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल ।
तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन ॥ ७॥
अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः ।
प्रायो गर्भभवं दुःखं भुङ्क्ष्व पापाज्जनार्दन ॥ ८॥
व्यास उवाच ।
ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः ।
लोकस्य च हितार्थाय जायते मानुषेष्विह ॥ ९॥
राजोवाच ।
भूगुभार्या हता तत्र चक्रेणामिततेजसा ।
गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः ॥ १०॥
व्यास उवाच ।
इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् ।
काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित् ॥ ११॥
अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् ।
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा ॥ १२॥
तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् ।
पश्यन्तु देवताः सर्वा मम तेजोबलं महत् ॥ १३॥
अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् ।
सत्यं शौचं तथा वेदा यदि मे तपसो बलम् ॥ १४॥
व्यास उवाच ।
अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा ।
उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता ॥ १५॥
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव ।
साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम् ॥ १६॥
एवं सञ्चीविता तेन भृगुणा वरवर्णिनी ।
विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत् ॥ १७॥
इन्द्रः सुरानथोवाच मुनिना जीविता सती ।
काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित् ॥ १८॥
व्यास उवाच ।
गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप ।
स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम् ॥ १९॥
विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा ।
उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः ॥ २०॥
गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने ।
समाराधय तन्वङ्गि मत्कृते तं वशं कुरु ॥ २१॥
उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः ।
भयं मे तरसा गत्वा हर तत्र वराश्रमे ॥ २२।
सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा ।
तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे ॥ २३॥
तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा ।
कदलीदलमादाय वीजयामास तं मुनिम् ॥ २४॥
निर्मलं शीतलं वारि समानीय सुवासितम् ।
पानाय कल्पयामास भक्त्या परमया लघु ॥ २५॥
छायां वस्त्रातपत्रेण भास्करे मध्यगे सति ।
रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती ॥ २६॥
फलान्यानीय दिव्यानि पक्वानि मधुराणि च ।
मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च ॥ २७॥
कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः ।
दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये ॥ २८॥
निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् ।
तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः ॥ २९॥
हावभावादिकं किञ्चिद्विकारजननं च तत् ।
न चकार जयन्ती सा शापभीता मुनेस्तदा ॥ ३०॥
स्तुतिं चकार तन्वङ्गी गीर्भिस्तस्य महात्मनः ।
सुभाषिण्यनुकूलाभिः प्रीतिकर्त्रीभिरप्युत ॥ ३१॥
प्रबुद्धे जलमादाय दधाराचमनाय च ।
मनोऽनुकूलं सततं कुर्वन्ती व्यचरत्तदा ॥ ३२॥
इन्द्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः ।
प्रवृत्तिं ज्ञातुकामो वै मुनेस्तस्य जितात्मनः ॥ ३३॥
एवं बहूनि वर्षाणि परिचर्यापराभवत् ।
निर्विकारा जितक्रोधा ब्रह्मचर्यपरा सती ॥ ३४॥
पूर्णे वर्षसहस्रे तु परितुष्टो महेश्वरः ।
वरेण छन्दयामास काव्यं प्रीतमना हरः ॥ ३५॥
ईश्वर उवाच ।
यच्च किञ्चिदपि ब्रह्मन्विद्यते भृगुनन्दन ।
प्रतिपश्यसि यत्सर्वं यच्च वाच्यं न कस्यचित् ॥ ३६॥
सर्वाभिभावकत्वेन भविष्यसि न संशयः ।
अवध्यः सर्वभूतानां प्रजेशश्च द्विजोत्तमः ॥ ३७॥
व्यास उवाच ।
एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत ।
काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत् ॥ ३८॥
कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् ।
किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे ॥ ३९॥
किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने ।
प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते ॥ ४०॥
ततः सा तु मुनिं प्राह जयन्ती मुदितानना ।
चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि ॥ ४१॥
शुक्र उवाच ।
ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् ।
करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया ॥ ४२॥
जयन्त्युवाच ।
शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता ।
जयन्ती नामतश्चाहं जयन्तावरजा मुने ॥ ४३॥
सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना ।
रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम् ॥ ४४॥
शुक्र उवाच ।
मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि ।
सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया ॥ ४५॥
व्यास उवाच ।
एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् ।
तया सहावसद्देव्या दशवर्षाणि भार्गवः ॥ ४६॥
अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः ।
दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम् ॥ ४७॥
अभिजग्मुर्गृहे तस्य मुदितास्ते दिदृक्षवः ।
नापश्यन् रममाणं ते जयन्त्या सह संयुतम् ॥ ४८॥
तदा विमनसः सर्वे जाता भग्नोद्यमाश्च ते ।
चिन्तापरातिदीनाश्च वीक्षमाणाः पुनः पुनः ॥ ४९॥
अदृष्ट्वा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् ।
स्वगृहान्दैत्यवर्यास्ते चिन्ताविष्टा भयातुराः ॥ ५०॥
रममाणं तथा ज्ञात्वा शक्रः प्रोवाच तं गुरुम् ।
बृहस्पतिं महाभाग किं कर्तव्यमितः परम् ॥ ५१॥
गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय ।
अस्माकं कुरु कार्यं त्वं बुद्ध्या सञ्चिन्त्य मानद ॥ ५२॥
तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम् ।
ज्ञात्वा तद्रूपमास्थाय दैत्यान्मति ययौ गुरुः ॥ ५३॥
गत्वा तत्रातिभक्त्यासौ दानवान्समुपाह्वयत् ।
आगतास्तेऽसुराः सर्वे ददृशुः काव्यमग्रतः ॥ ५४॥
प्रणम्य संस्थिताः सर्वे काव्यं मत्वातिमोहिताः ।
न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम् ॥ ५५॥
तानुवाच गुरुः काव्यरूपः प्रच्छन्नमायया ।
स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै ॥ ५६॥
अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया ।
तपसा तोषितः शम्भुर्युष्मत्कल्याणहेतवे ॥ ५७॥
तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः ।
कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः ॥ ५८॥
प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः ।
देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे जयन्त्या शुक्रसहवासवर्णनं नाम द्वादशोऽध्यायः ॥ ४.१२॥
४.१३ त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् ।
राजोवाच ।
किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता ।
छलेनैव हि दैत्यानां पौरोहित्येन धीमता ॥ १॥
गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा ।
सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः ॥ २॥
धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् ।
कथितं मुनिभिर्येन परमात्मापि लभ्यते ॥ ३॥
वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति ।
कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी ॥ ४॥
आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न ।
तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने ॥ ५॥
शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् ।
छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम् ॥ ६॥
देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः ।
तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल ॥ ७॥
अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि ।
तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः ॥ ८॥
क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः ।
का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये ॥ ९॥
हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः ।
सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा ॥ १०॥
कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः ।
छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः ॥ ११॥
वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा ।
एते पापरताः कात्र गतिर्धर्मस्य मानद ॥ १२॥
इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः ।
आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद ॥ १३॥
वचनं कस्य मन्तव्यमुपदेशधियानघ ।
सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा ॥ १४॥
व्यास उवाच ।
किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः ।
देहवान् प्रभवत्येव विकारैः संयुतस्तदा ॥ १५॥
रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः ।
(रागवान्किमकृत्यं वै न करोति नराधिप)॥
रागवानपि चातुर्याद्विदेह इव लक्ष्यते ॥ १६॥
सम्प्राप्ते सङ्कटे सोऽपि गुणैः सम्बाध्यते किल ।
कारणाद्रहितं कार्यं कथं भवितुमर्हति ॥ १७॥
ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् ।
पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा ॥ १८॥
काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप ।
परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च ॥ १९॥
विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते ।
कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः ॥ २०॥
देहवान्कः परित्यक्तुमीशो भवति तान्पुनः ।
संसारोऽयं महाराज सदैवैवंविधः स्मृतः ॥ २१॥
नान्यथा प्रभवत्येव शुभाशुभमयः किल ।
कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम् ॥ २२॥
कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः ।
कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः ॥ २३॥
रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः ।
कदाचिद्दानवैः सार्धं युद्धं परमदारुणम् ॥ २४॥
करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् ।
कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम् ॥ २५॥
सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः ।
शेषे शेते कदाचिद्वै योगनिद्रासमावृतः ॥ २६॥
काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः ।
शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा ॥ २७॥
मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि ।
निशावसाने सञ्जाते जगत्स्थावरजङ्गमम् ॥ २८॥
म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च ।
स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव ॥ २९॥
प्रभवन्ति पुनर्विष्णुहरशक्रादयः सुराः ।
तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते ॥ ३०॥
नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव ।
संसारोऽयं तु सन्दिग्धः कामक्रोधादिभिर्नृप ॥ ३१॥
दुर्लभस्तद्विनिर्मुक्तः पुरुषः परमार्थवित् ।
यो बिभेतीह संसारे स दारान्न करोत्यपि ॥ ३२॥
विमुक्तः सर्वसङ्गेभ्यो विचरत्यविशङ्कितः ।
तस्माद्बृहस्पतेर्भार्या शशिना लम्भिता पुनः ॥ ३३॥
गुरूणा लम्भिता भार्या तथा भ्रातुर्यवीयसः ।
एवं संसारचक्रेऽस्मिन् रागलोभादिभिर्वृतः ॥ ३४॥
गार्हस्थ्यञ्च समास्थाय कथं मुक्तो भवेन्नरः ।
तस्मात्सर्वप्रयत्नेन हित्वा संसारसारताम् ॥ ३५॥
आराधयेन्महेशानीं सच्चिदानन्दरूपिणीम् ।
तन्मायागुणतश्छन्नं जगदेतच्चराचरम् ॥ ३६॥
भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्नृप ।
तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च ॥ ३७॥
मुक्तिं भजेत मतिमान्नान्यः पन्थास्त्वितः परः ।
आराधिता महेशानी न यावत्कुरुते कृपाम् ॥ ३८॥
तावद्भवेत्सुखं कस्मात्कोऽन्योऽस्ति दयया युतः ।
करुणासागरामेतां भजेत्तस्मादमायया ॥ ३९॥
यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते ।
मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी ॥ ४०॥
निःश्रेणिकाग्रात्पतिता अध इत्येव विद्महे ।
अहङ्कारावृतं विश्वं गुणत्रयसमन्वितम् ॥ ४१॥
असत्येनापि सम्बद्धं मुच्यते कथमन्यथा ।
हित्वा सर्वं ततः सर्वेः संसेव्या भुवनेश्वरी ॥ ४२॥
राजोवाच ।
किं कृतं गुरूणा तत्र काव्यरूपधरेण च ।
कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह ॥ ४३॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि यत्कृतं गुरुणा तदा ।
कृत्वा काव्यस्वरूपञ्च प्रच्छन्नेन महात्मना ॥ ४४॥
गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् ।
विश्वासं परमं कृत्वा बभूवुस्तन्मयास्तदा ॥ ४५॥
विद्यार्थं शरणं प्राप्ता भृगुं मत्वातिमोहिताः ।
गुरुणा विप्रलब्धास्ते लोभात्को वा न मुह्यति ॥ ४६॥
दशवर्षात्मके काले सम्पूर्णसमये तदा ।
जयन्त्या सह क्रीडित्वा काव्यो याज्यानचिन्तयत् ॥ ४७॥
आशया मम मार्गं ते पश्यन्तः संस्थिताः किल ।
गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान् ॥ ४८॥
मा देवेभ्यो भयं तेषां मद्भक्तानां भवेदिति ।
सञ्चिन्त्य बुद्धिमास्थाय जयन्तीं प्रत्युवाच ह ॥ ४९॥
देवानेवोपसंयान्ति पुत्रा मे चारुलोचने ।
समयस्तेऽद्य सम्पूर्णो जातोऽयं दशवार्षिकः ॥ ५०॥
तस्माद् गच्छाम्यहं देवि द्रष्टुं याज्यान्सुमध्यमे ।
पुनरेवागमिष्यामि तवान्तिकमनुद्रुतः ॥ ५१॥
तथेति तमुवाचाथ जयन्ती धर्मवित्तमा ।
यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये ॥ ५२॥
तच्छ्रुत्वा वचनं काव्यो जगाम त्वरितस्ततः ।
अपश्यद्दानवानां च पार्श्वे वाचस्पतिं तदा ॥ ५३॥
छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् ।
जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा ॥ ५४॥
भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् ।
अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः ॥ ५५॥
द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः ।
जिह्वास्वादपरैः काममहिंसैव परा मता ॥ ५६॥
एवंविधानि वाक्यानि वेदशास्त्रपराणि च ।
ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः ॥ ५७॥
चिन्तयामास मनसा मम द्वेष्यो गुरुः किल ।
वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः ॥ ५८॥
धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् ।
गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना ॥ ५९॥
प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः ।
गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः ॥ ६०॥
किं किं न लभते लोभान्मलिनीकृतमानसः ।
अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः ॥ ६१॥
शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः ।
वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनं नाम त्रयोदशोऽध्यायः ॥ ४.१३॥
४.१४ चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् ।
व्यास उवाच ।
इति सञ्चिन्त्य मनसा तानुवाच हसन्निव ।
वञ्चिता मत्स्वरूपेण दैत्याः किं गुरुणा किल ॥ १॥
अहं काव्यो गुरुश्चायं देवकार्यप्रसाधकः ।
अनेन वञ्चिता यूयं मद्याज्या नात्र संशयः ॥ २॥
मा श्रद्धध्वं वचोऽस्यार्या दाम्भिकोऽयं मदाकृतिः ।
अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ॥ ३॥
इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः ।
विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः ॥ ४॥
स तान्वीक्ष्य सुसम्भ्रान्तान्गुरुर्वाक्यमुवाच ह ।
गुरुर्वो वञ्चयत्येव मद्रूपोऽयं बृहस्पतिः ॥ ५॥
प्राप्तो वञ्चयितुं युष्मान्देवकार्यार्थसिद्धये ।
मा विश्वासं वचस्तस्य कुरुध्वं दैत्यसत्तमाः ॥ ६॥
प्राप्ता विद्या मया शम्भोर्युष्मानध्यापयामि ताम् ।
देवेभ्यो विजयं नूनं करिष्यामि न संशयः ॥ ७॥
इति श्रुत्वा गुरोर्वाक्यं काव्यरूपधरस्य ते ।
विश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात् ॥ ८॥
काव्येन बहुधा तत्र बोधिताः किल दानवाः ।
बुबुधुर्न गुरोर्मायामोहिताः कालपर्ययात् ॥ ९॥
एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् ।
अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः ॥ १०॥
दशवर्षाणि सततमयं नः शास्ति भार्गवः ।
गच्छ त्वं कुहको भासि नास्माकं गुरुरप्युत ॥ ११॥
इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः ।
जगृहुस्तं गुरुं प्रीत्या प्रणिपत्याभिवाद्य च ॥ १२॥
काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाथ शशाप च ।
दैत्यान्विबोधितान्मत्वा गुरुणा चातिवञ्जितान् ॥ १३॥
यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः ।
तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ॥ १४॥
मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ ।
तदास्य कपटं सर्वं परिज्ञातं भविष्यति ॥ १५॥
व्यास उवाच ।
इत्युक्त्वासौ जगामाशु भार्गवः क्रोधसंयुतः ।
बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः ॥ १६॥
ततः शप्तान्गुरुर्ज्ञात्वा दैत्यांस्ताम्भार्गवेण हि ।
जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च ॥ १७॥
गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् ।
शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः किल ॥ १८॥
निराधाराः कृता नूनं यतध्वं सुरसत्तमाः ।
सङ्ग्रामार्थं महाभाग शापदग्धा मया कृताः ॥ १९॥
इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् ।
जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ॥ २०॥
सङ्ग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः ।
निर्ययुर्मिलिताः सर्वे दानवाभिमुखाः सुराः ॥ २१॥
सुरान्समुद्यतांज्ञात्वा कृतोद्योगान्महाबलान् ।
अन्तर्हितं गुरुं चैव बभूवुश्चिन्तयान्विताः ॥ २२॥
परस्परमथोचुस्ते मोहितास्तस्य मायया ।
सम्प्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः ॥ २३॥
वञ्चयित्वा गतः पापो गुरुः कपटपण्डितः ।
भ्रातृस्त्रीलम्भनः प्रायो मलिनोऽन्तर्बहिः शुचिः ॥ २४॥
किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् ।
कुर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ॥ २५॥
इति सञ्चिन्त्य ते सर्वे मिलिता भयकम्पिताः ।
प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ॥ २६॥
प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा ।
भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ॥ २७॥
मया प्रबोधिता यूयं मोहिता गुरुमायया ।
न गृहीतं वचो योग्यं तदा याज्या हितं शुचि ॥ २८॥
तदावगणितश्चाहं भवद्भिस्तद्वशं गतैः ।
प्राप्तं नूनं मदोन्मत्तैर्ममावमानजं फलम् ॥ २९॥
तत्र गच्छत सत्भ्रष्टा यत्रासौ कपटाकृतिः ।
वञ्चकः सुरकार्यार्थी नाहं तद्वद्धि वञ्चकः ॥ ३०॥
व्यास उवाच ।
एवं ब्रुवन्तं शुक्रं तु वाक्यसन्दिग्धया गिरा ।
प्रह्लादस्तं तदोवाच गहीत्वा चरणौ ततः ॥ ३१॥
प्रह्लाद उवाच ।
भार्गवाद्य समायातान्याज्यानस्मांस्तथातुरान् ।
त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितास्तनयान्हि नः ॥ ३२॥
गते त्वयि तु मन्त्रार्थं शैलूषेण दुरात्मना ।
त्वद्वेषमधुरालापैर्वयं तेन प्रवञ्चिताः ॥ ३३॥
अज्ञानकृतदोषेण नैव कुप्यति शान्तिमान् ।
सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि ॥ ३४॥
ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते ।
ब्रुवन्ति मुनयः सर्वे क्षणकोपा हि साधवः ॥ ३५॥
जलं स्वभावतः शीतं वह्न्यातपसमागमात् ।
भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति ॥ ३६॥
क्रोथश्चाण्डालरूपो वै त्यक्तव्यः सर्वथा बुधैः ।
तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ॥ ३७॥
यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् ।
त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ॥ ३८॥
व्यास उवाच ।
प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा ।
विलोक्य सुमना भूत्वा तानुवाच हसन्निव ॥ ३९॥
न भेतव्यं न गन्तव्यं दानवा वा रसातलम् ।
रक्षयिष्यामि वो याज्यान्मन्त्रैरवितथैः किल ॥ ४०॥
हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम् ।
वचनं मम धर्मज्ञाः श्रुतं यद् ब्रह्मणः पुरा ॥ ४१॥
अवश्यम्भाविनो भावाः प्रभवन्ति शुभाशुभाः ।
दैवं न चान्यथा कर्तुं क्षमः कोऽपि धरातले ॥ ४२॥
अद्य मन्दबला यूयं कालयोगादसंशयम् ।
देवैर्जिताः सकृच्चापि पातालं प्रतिपत्स्यथ ॥ ४३॥
प्राप्तः पर्यायकालो व इति ब्रह्माभ्यभाषत ।
भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत् ॥ ४४॥
युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि ।
दैवयोगाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ४५॥
सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति ।
पौत्रस्त्रैलोक्यविजयी राज्यं प्राप्स्यति ते बलिः ॥ ४६॥
यदा वामनरूपेण हृतं देवेन विष्णुना ।
तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ॥ ४७॥
हृतं येन बले राज्यं देववाञ्छार्थसिद्धये ।
त्वमिन्द्रो भविता चाग्ने स्थिते सावर्णिके मनौ ॥ ४८॥
भार्गव उवाच ।
इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद साम्प्रतम् ।
अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ॥ ४९॥
एकदा वासवेनासौ बलिर्गर्दभरूपभाक् ।
शून्ये गृहे स्थितः कामं भयभीतः शतक्रतोः ॥ ५०॥
पृष्टश्च बहुधा तेन वासवेन बलिस्तदा ।
किमर्थं गार्दभं रूपं कृतवान्दैत्यपुङ्गव ॥ ५१॥
भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता ।
(न लज्जा खररूपेण तव राक्षससत्तम ।)॥
तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ॥ ५२॥
प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो ।
यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ॥ ५३॥
तथाहं खररूपेण संस्थितः कालयोगतः ।
यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ॥ ५४॥
पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् ।
दैवाधीनस्य किं दुःखं किं सुखं पाकशासन ॥ ५५॥
कालः करोति वै नूनं यदिच्छति यथा तथा ।
भार्गव उवाच ।
इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ॥ ५६॥
प्रबोधं प्रापतुः कामं यथास्थानञ्च जग्मतुः ।
इत्येतत्ते समाख्याता मया दैवबलिष्ठता ॥ ५७॥
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ५८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे प्रह्लादेन शुक्रकोपसान्त्वनं नाम चतुर्दशोऽध्यायः ॥ ४.१४॥
४.१५ पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः ।
प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ १॥
ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह ।
कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ २॥
तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः ।
सङ्ग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ ३॥
निरुद्यमानां दैवं हि प्रधानमसुराधिप ।
केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ ४॥
तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् ।
भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ ५॥
इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा ।
सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ ६॥
तेऽपि तत्रासुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ।
सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ ७॥
सङ्ग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् ।
पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ ८॥
वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः ।
जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ ९॥
तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् ।
सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ १०॥
इन्द्र उवाच ।
जय देवि महामाये शूलधारिणि चाम्बिके ।
शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ ११॥
नमस्ते भुवनेशानि शक्तिदर्शननायिके ।
दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ १२॥
महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि ।
प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ १३॥
पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि ।
आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ १४॥
मातः प्रसीद सुमुखी भव हीनसत्त्वां-
स्त्रायस्व नो जननि दैत्यपराजितान् वै ।
त्वं देवि नः शरणदा भुवने प्रमाणा
शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ १५॥
ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति
दुःखान्विताविगतशोकभयास्तथान्ये ।
मोक्षार्थिनो विगतमानविमुक्तसङ्गाः
संसारवारिधिजलं प्रतरन्ति सन्तः ॥ १६॥
त्वं देवि विश्वजननि प्रथितप्रभावा
संरक्षणार्थमुदितार्तिहरप्रतापा ।
संहर्तुमेतदखिलं किल कालरूपा
को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ १७॥
ब्रह्मा हरश्च हरिदश्वरथो हरिश्च
इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च ।
ज्ञातुं क्षमा न मुनयोऽपि महानुभावा
यस्याः प्रभावमतुलं निगमागमाश्च ॥ १८॥
धन्यास्त एव तव भक्तिपरा महान्तः
संसारदुःखरहिताः सुखसिन्धुमग्नाः ।
ये भक्तिभावरहिता न कदापि दुःखा- ॥
म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ १९॥
ये वीज्यमानाः सितचामरैश्च
क्रीडन्ति धन्याः शिबिकाधिरूढाः ।
तैः पूजिता त्वं किल पूर्वदेहे
नानोपहारैरिति चिन्तयामि ॥ २०॥
ये पूज्यमाना वरवारणस्था
विलासिनीवृन्दविलासयुक्ताः ।
सामन्तकैश्चोपनतैर्व्रजन्ति
मन्ये हि तैस्त्वं किल पूजितासि ॥ २१॥
व्यास उवाच ।
एवं स्तुता मघवता देवी विश्वेश्वरी तदा ।
प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ २२॥
शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना ।
रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ २३॥
तानुवाच सुरान्देवी प्रसन्नवदना गिरा ।
भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ २४॥
इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी ।
जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ २५॥
प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् ।
ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ २६॥
देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल ।
महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ २७॥
निहनिष्यति नः सर्वानम्बिका नात्र संशयः ।
वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ २८॥
एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह ।
योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ २९॥
नमुचिस्तानुवाचाथ पलायनपरानिह ।
हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥ ३०॥
तथा कुरु महाभाग यथा दुःखं न जायते ।
व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥ ३१॥
प्रह्लाद उवाच ।
स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् ।
सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ ३२॥
व्यास उवाच ।
इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् ।
तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ ३३॥
मालासर्पवदाभाति यस्यां सर्वं चराचरम् ।
सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः ॥ ३४॥
त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा ।
अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ ३५॥
नमो देवि महामाये सर्वेषां जननी स्मृता ।
को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ ३६॥
मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च ।
तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ ३७॥
यादृशास्तादृशा मातः सुतास्ते दानवाः किल ।
यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ ३८॥
तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत ।
नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ ३९॥
धनदारादिभोगेषु वयं सक्ता दिवानिशम् ।
तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ ४०॥
तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल ।
कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ ४१॥
न तथा विहितं मातस्त्वयि सर्वसमुद्भवे ।
साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ ४२॥
गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः ।
गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ ४३॥
कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः ।
वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ ४४॥
त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् ।
मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ ४५॥
अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे ।
त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ ४६॥
जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् ।
तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ ४७॥
एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके ।
स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ ४८॥
देवासुरैरयं सिन्धुर्मथितः समये क्वचित् ।
विष्णुना विहितो भेदः सुधारत्नच्छलेन वै ॥ ४९॥
त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः ।
तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी ॥ ५०॥
ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् ।
उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ ५१॥
अनयं तादृशं कृत्वा जाता देवास्तु साधवः ।
(अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणं ।)॥
संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ ५२॥
नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् ।
क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ ५३॥
कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् ।
तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ ५४॥
उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः ।
कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ ५५॥
विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः ।
वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ ५६॥
नैकवाक्यं वचस्तेषामपि वेदविदां पुनः ।
यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७॥
निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति ।
शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ ५८॥
गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् ।
गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ ५९॥
शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः ।
विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ ६०॥
अपराधं विना कामं तदा सत्त्ववताम्बिके ।
पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ ६१॥
यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः ।
कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ ६२॥
वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल ।
तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ ६३॥
वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः ।
एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ ६४॥
शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः ।
श्रीदेव्युवाच ।
सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥ ६५॥
कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः ।
कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे ॥ ६६॥
सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा ।
त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ ६७॥
कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि ।
तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम् ॥ ६८॥
ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥ ६९॥
प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः ।
अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥ ७०॥
त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः ।
एतदाख्यानमखिलं यः शृणोति वदत्यथ ॥ ७१॥
सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ ७२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे
देवीकथनेन दानवानां रसातलं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ ४.१५॥
४.१६ षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् ।
जनमेजय उवाच ।
भृगुशापान्मुनिश्रेष्ठ हरेरद्भुतकर्मणः ।
अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो ॥ १॥
विस्तराद्वद धर्मज्ञ अवतारकथा हरेः ।
पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम् ॥ २॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा ।
यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप ॥ ३॥
येन रूपेण यत्कार्यं कृतं नारायणेन वै ।
तत्सर्वं नृप वक्ष्यामि सङ्क्षेपेण तवाधुना ॥ ४॥
धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे ।
नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले ॥ ५॥
अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः ।
दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः ॥ ६॥
ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः ।
पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः ॥ ७॥
अनसूयात्रिपत्नी च सतीनामुत्तमा सती ।
यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः ॥ ८॥
ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् ।
दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे ॥ ९॥
नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये ।
चतुर्थे तु युगे जातो द्विधारूपो मनोहरः ॥ १०॥
हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः ।
चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम् ॥ ११॥
बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा ।
चकार रूपं भगवान् वामनं कश्यपान्मुनेः ॥ १२॥
छलयित्वा मखे भूपं राज्यं तस्य जहार ह ।
पाताले स्थापयामास बलिं वामनरूपधृक् ॥ १३॥
युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः ।
जमदग्निसुतो जातो रामो नाम महाबलः ॥ १४॥
क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः ।
दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने ॥ १५॥
यो वै परशुरामाख्यो हरेरद्भुतकर्मणः ।
अवतारस्तु राजेन्द्र कथितः पापनाशनः ॥ १६॥
त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः ।
नरनारायणांशौ द्वौ जातौ भुवि महाबलौ ॥ १७॥
अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ ।
धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि ॥ १८॥
कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् ।
एवं युगे युगे राजन्नवतारा हरेः किल ॥ १९॥
भवन्ति बहवः कामं प्रकृतेरनुरूपतः ।
प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम् ॥ २०॥
यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् ।
पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत् ॥ २१॥
सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् ।
सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः ॥ २२॥
निरालम्बो निराकारो निःस्पृहश्च परात्परः ।
उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा ॥ २३॥
उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा ।
सा विश्वं कुरुते कामं सा पालयति कामदा ॥ २४॥
कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी ।
तया युक्तोऽसृज द्ब्रह्मा विष्णुः पाति तयान्वितः ॥ २५॥
रुद्रः संहरते कामं तया सम्मिलितः शिवः ।
सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम् ॥ २६॥
कुत्रचित्स्थापयामास दानवानां जयाय च ।
एवमस्मिंश्च संसारे सुखदुःखान्विताः किल ॥ २७॥
भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः ॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे हरेर्नानावतारवर्णनं नाम षोडशोऽध्यायः ॥ ४.१६॥
४.१७ सप्तदशोऽध्यायः । नारायणवरदानम् ।
जनमेजय उवाच ।
वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे ।
एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ १॥
शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः ।
निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥ २॥
किं कृतं मुनिना तेन व्यसने समुपस्थिते ।
ताभिः सङ्कल्पितेनाथ कामार्थाभिर्भृशं मुने ॥ ३॥
शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः ।
याचितेन विवाहार्थं किं कृतं तेन जिष्णुना ॥ ४॥
इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् ।
नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥ ५॥
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः ।
धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥ ६॥
शप्तुकामस्तु सन्दृष्टो नरेणाथ यदा हरिः ।
वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥ ७॥
शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः ।
स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ॥ ८॥
अस्मिञ्जन्मनि चार्वङ्ग्यः कृतसङ्कल्पवानहम् ।
आवाभ्याञ्च न कर्तव्यः सर्वथा दारसङ्ग्रहः ॥ ९॥
तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि ।
धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै ॥ १०॥
शृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः ।
कथं करोमि सम्बन्धं तदभावे सुलोचनाः ॥ ११॥
कारणेन विना कार्यं न भवेदिति निश्चयः ।
कविभिः कथितं शास्त्रे स्थायीभावो रसः किल ॥ १२॥
धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले ।
प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥ १३॥
भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम ।
भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥ १४॥
अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले ।
देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा ॥ १५॥
तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् ।
भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ ॥ १६॥
इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् ।
व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः ॥ १७॥
एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः ।
शक्राय कथयामासुः कारणं सकलं पुनः ॥ १८॥
आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् ।
तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः ॥ १९॥
इन्द्र उवाच ।
अहो धैर्यं मुनेः कामं तथैव च तपोबलम् ।
येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः ॥ २०॥
इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः ।
नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥ २१॥
इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् ।
नारायणस्य सकलं नरस्य च महामुनेः ॥ २२॥
तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च ।
जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ॥ २३॥
राजोवाच ।
कृष्णावतारचरितं विस्तरेण वदस्व मे ।
सन्देहो मम चित्तेऽस्ति तं निवारय मानद ॥ २४॥
ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ ।
देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥ २५॥
कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् ।
ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् ॥ २६॥
जातोऽसौ मथुरायां तु गोकुले स कथं गतः ।
कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥ २७॥
पित्रादिसेवितं देशं समृद्धं पावनं किल ।
त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः ॥ २८॥
कुलञ्च द्विजशापेन कथमुत्सादितं हरेः ।
भारावतारणं कृत्वा वासुदेवः सनातनः ॥ २९॥
देहं मुमोच तरसा जगाम च दिवं हरिः ।
पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी ॥ ३०॥
ते हता वासुदेवेन पार्थेनामितकर्मणा ।
लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः ॥ ३१॥
भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः ।
वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः ॥ ३२॥
सोमदत्तादयः सर्वे निहताः समरे नृपाः ।
तेषामुत्तारितो भारश्चौराणां न हृतः कथम् ॥ ३३॥
कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः ।
सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते ॥ ३४॥
वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः ।
त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह ॥ ३५॥
पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा ।
ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम ॥ ३६॥
द्रौपदी च महाभागा कथं दुःखस्य भागिनी ।
वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल ॥ ३७॥
सभायां सा समानीता रजोदोषसमन्विता ।
बाला दुःशासनेनाथ केशग्रहणकर्शिता ॥ ३८॥
पीडिता सिन्धुराज्ञाथ वनमध्यगता सती ।
तथैव कीचकेनापि पीडिता रुदती भृशम् ॥ ३९॥
पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे ।
सुभद्रायाः सुतो युद्धे बाल एव निपातितः ॥ ४०॥
तथा च देवकीपुत्रा षट् कंसेन निषूदिताः ।
समर्थेनापि हरिणा दैवं न कृतमन्यथा । ४१॥
यादवानां तथा शापः प्रभासे निधनं पुनः ।
कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम् ॥ ४२॥
विष्णुना चेश्वरेणापि साक्षान्नारायणेन च ।
उग्रसेनस्य सेवा वै दासवत्सततं कृता ॥ ४३॥
सन्देहोऽयं महाभाग तत्र नारायणे मुनौ ।
सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम् ॥ ४४॥
हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् ।
ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः ॥ ४५॥
तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् ।
अलौकिकेन हरिणा कृतं कर्म महीतले ॥ ४६॥
हता आयुःक्षये दैत्याः क्लेशेन महता पुनः ।
क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम ॥ ४७॥
रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् ।
कृतं हि वासुदेवेन चौरवच्चरितं तदा ॥ ४८॥
मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् ।
जरासन्धभयात्तेन द्वारकागमनं कृतम् ॥ ४९॥
तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः ।
किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम् ॥ ५०॥
एते चान्ये च बहवः सन्देहा वासवीसुत ।
नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम ॥ ५१॥
गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते ।
पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम् ॥ ५२॥
सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः ।
पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः ॥ ५३॥
भीष्मेणापि कृतं किं वा देवरूपेण भूतले ।
गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम् ॥ ५४॥
धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः ।
येन केनाप्युपायेन पुत्रोत्पादनलक्षणः ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे
सुराङ्गनानां प्रति नारायणवरदानं नाम सप्तदशोऽध्यायः ॥ ४.१७॥
४.१८ अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् ।
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् ।
अवतारकारणं चैव देव्याश्चरितमद्भुतम् ॥ १॥
धरैकदा भराक्रान्ता रुदती चातिकर्शिता ।
गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम् ॥ २॥
पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ ।
केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे ॥ ३॥
तच्छ्रुत्वेला तदोवाच शृणु देवेश मेऽखिलम् ।
दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद ॥ ४॥
जरासन्धो महापापी मागधेषु पतिर्मम ।
शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥ ५॥
रुक्मी च बलवान्कंसो नरकश्च महाबलः ।
शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ ॥ ६॥
सर्वे धर्मविहीनाश्च परस्परविरोधिनः ।
पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः ॥ ७॥
तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो ।
किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता ॥ ८॥
पीडिताहं वराहेण विष्णुना प्रभविष्णुना ।
शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता ॥ ९॥
यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै ।
हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥ १०॥
तदा सूकररूपेण विष्णुना निहतोऽप्यसौ ।
उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता ॥ ११॥
नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी ।
न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम् ॥ १२॥
अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः ।
तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम् ॥ १३॥
तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च ।
पारदो भव भारं मे हर पादौ नमामि ते ॥ १४॥
इन्द्र उवाच ।
इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज ।
अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥ १५॥
तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा ।
शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥ १६॥
सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः ।
महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥ १७॥
कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना ।
पीडितासि च केन त्वं पापाचारेण भूर्वद ॥ १८॥
धरोवाच ।
कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् ।
पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥ १९॥
राजानश्च दुराचाराः परस्परविरोधिनः ।
चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः ॥ २०॥
तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह ।
पीडितास्मि महाराज सैन्यभारेण भूभृताम् ॥ २१॥
ब्रह्योवाच ।
नाहं शक्तस्तथा देवि भारावतरणे तव ।
गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥ २२॥
स ते भारापनोदं वै करिष्यति जनार्दनः ।
पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च ॥ २३॥
तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः ।
व्यास उवाच ।
इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम् ॥ २४॥
जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः ।
तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः ॥ २५॥
ब्रह्मोवाच ।
सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् ।
त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः ॥ २६॥
भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो ।
अमरत्वं त्वया दत्तमस्माकं च रमापते ॥ २७॥
एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये ।
त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः ॥ २८॥
व्यास उवाच ।
इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः ।
दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥ २९॥
पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः ।
ततस्त्वागमने तेषां कारणञ्च सविस्तरम् ॥ ३०॥
तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् ।
भारावतरणं विष्णो कर्तव्यं ते जनार्दन ॥ ३१॥
भुवि धृत्वावतारं त्वं द्वापरान्ते समागते ।
हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे ॥ ३२॥
विष्णुरुवाच ।
नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा ।
नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा ॥ ३३॥
योगमायावशे सर्वमिदं स्थावरजङ्गमम् ।
ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः ॥ ३४॥
यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत ।
तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः ॥ ३५॥
यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल ।
कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे ॥ ३६॥
तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः ।
किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे ॥ ३७॥
कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः ।
जमदग्निसुतः कस्मात्सम्भवेयं पितामह ॥ ३८॥
नृशंसं वा कथं कर्म कृतवानस्मि भूतले ।
क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः ॥ ३९॥
तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः ।
क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि ॥ ४०॥
रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् ।
पदातिश्चीरवासाश्च जटावल्कलवान्पुनः ॥ ४१॥
असहायो ह्यपाथेयो भीषणे निर्जने वने ।
कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः ॥ ४२॥
न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा ।
उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः ॥ ४३॥
लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः ।
वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः ॥ ४४॥
भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः ।
जहार तरसा रक्षो जानकीं शोककर्शिताम् ॥ ४५॥
दुःखार्तेन मया तत्र रुदितञ्च वने वने ।
सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया ॥ ४६॥
अन्यायेन हतो वाली शापाच्चैव निवारितः ।
सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः ॥ ४७॥
बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः ।
विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः ॥ ४८॥
गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल ।
चिन्ता मे महती जाता दैवं किं वा करिष्यति ॥ ४९॥
हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता ।
युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति ॥ ५०॥
प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् ।
राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः ॥ ५१॥
वराटिकापि पित्रा मे न दत्ता वननिर्गमे ।
पदातिरसहायोऽहं धनहीनश्च निर्गतः ॥ ५२॥
चतुर्दशैव वर्षाणि नीतानि च तदा मया ।
क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने ॥ ५३॥
दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः ।
आनीता च पुनः सीता प्राप्तायोध्या मया तथा ॥ ५४॥
वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् ।
प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता ॥ ५५॥
पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा ।
लोकापवादभीतेन त्यक्ता सीता वने मया ॥ ५६॥
कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् ।
पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा ॥ ५७॥
एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् ।
परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा ॥ ५८॥
पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह ।
परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै ॥ ५९॥
परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय ।
तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे ब्रह्माणं प्रति विष्णुवाक्यं नामाष्टादशोऽध्यायः ॥ ४.१८॥
४.१९ एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् ।
यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ १॥
वयं मायावृताः कामं न स्मरामो जगद्गुरुम् ।
परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम् ॥ २॥
अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः ।
न जानीमो वयं धातः परं वस्तु सनातनम् ॥ ३॥
यन्मायामोहितश्चाहं सदा वर्ते परात्मनः ।
परवान्दारुपाञ्चाली मायिकस्य यथा वशे ॥ ४॥
भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता ।
कल्पादौ भवयुक्तेन मयापि च सुधार्णवे ॥ ५॥
मणिद्वीपेऽथ मन्दारविटपे रासमण्डले ।
समाजे तत्र सा दृष्टा श्रुता न वचसापि च ॥ ६॥
तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् ।
सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः ॥ ७॥
व्यास उवाच ।
इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् ।
सस्मरुर्मनसा देवीं योगमायां सनातनीम् ॥ ८॥
स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ ।
पाशाङ्कुशवराभीतिधरा देवी जपारुणा ।
दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम् ॥ ९॥
देवा ऊचुः ।
ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः ।
तथा जगद्यदेतस्या निर्गतं तां नता वयम् ॥ १०॥
यन्मायाशक्तिसङ्कॢप्तं जगत्सर्वं चराचरम् ।
तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥ ११॥
यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् ।
संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥ १२॥
महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ १३॥
मातर्नताः स्म भुवनार्तिहरे प्रसीद
शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे ।
भारं हरस्व विनिहत्य सुरारिवर्गं
मह्या महेश्वरि सतां कुरु शं भवानि ॥ १४॥
यद्यम्बुजाक्षि दयसे न सुरान्कदाचित्
किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् ।
एतत्त्वयैव गदितं ननु यक्षरूपं
धृत्वा तृणं दह हुताश पदाभिलाषैः ॥ १५॥
कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी
बार्हद्रथो बकबकीखरशाल्वमुख्याः ।
येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं
हत्वा हरस्व जगतो भरमाशु मातः ॥ १६॥
ये विष्णुना न निहताः किल शङ्करेण
ये वा विगृह्य जलजाक्षि पुरन्दरेण ।
ते ते मुखं सुखकरं सुसमीक्षमाणाः
सङ्ख्ये शरैर्विनिहता निजलीलया ते ॥ १७॥
शक्तिं विना हरिहरप्रमुखाः सुराश्च ॥
नैवेश्वरा विचलितुं तव देवदेवि ।
किं धारणाविरहितः प्रभुरप्यनन्तो
धर्तुं धराञ्च रजनीशकलावतंसे ॥ १८॥
इन्द्र उवाच ।
वाचा विना विधिरलं भवतीह विश्वं
कर्तुं हरिः किमु रमारहितोऽथ पातुम् ।
संहर्तुमीश उमयोज्झित ईश्वरः किं
ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥ १९॥
विष्णुरुवाच ।
कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं
नापीश्वरस्तव कलारहितस्त्रिलोक्याः ।
कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं
त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥ २०॥
व्यास उवाच ।
एवं स्तुता तदा देवी तानाह विबुधेश्वरान् ।
किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः ॥ २१॥
असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् ।
शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः ॥ २२॥
देवा ऊचुः ।
वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति ।
रुदती वेपमाना च पीडिता दुष्टभूभुजैः ॥ २३॥
भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि ।
देवानामीष्मित कार्यमेतदेवाधुना शिवे ॥ २४॥
घातितस्तु पुरा मातस्त्वया महिषरूपभृत् ।
दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः ॥ २५॥
तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः ।
चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः ॥ २६॥
दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् ।
अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः ॥ २७॥
तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् ।
(भारं हर धरायाश्च दुर्धरं दुष्टभूभुजां ।)॥
व्यास उवाच ।
इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा ॥ २८॥
सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा ।
श्रीदेव्युवाच ।
मयेदं चिन्तितं पूर्वमंशावतरणं सुराः ॥ २९॥
भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् ।
मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः ॥ ३०॥
मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः ।
भवद्भिरपि स्वैरंशैरवतीर्य धरातले ॥ ३१॥
मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः ।
कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ ३२॥
यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः ।
तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ ३३॥
अंशेन भविता तत्र वसुदेवसुतो हरिः ।
तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ ३४॥
कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः ।
कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ ३५॥
शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् ।
मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसङ्क्षयम् ॥ ३६॥
दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् ।
इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ ३७॥
धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः ।
वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ ३८॥
वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् ।
व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ ३९॥
भारावतरणं नूनं करिष्यामि सुरोत्तमाः ।
कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ ४०॥
कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च सङ्क्षयम् ।
असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ ४१॥
जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः ।
ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ ४२॥
भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् ।
भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ ४३॥
प्रभवन्तु सनारीका मथुरायां च गोकुले ।
व्यास उवाच ।
इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ ४४॥
सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च ।
धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ ४५॥
ओषधीवीरुधोपेता बभूव जनमेजय ।
प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् ।
सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ ४६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ ४.१९॥
४.२० विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् ।
व्यास उवाच ।
शृण भारत वक्ष्यामि भारावतरणं तथा ।
कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया ॥ १॥
यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः ।
भृगुशापप्रतापेन महामायाबलेन च ॥ २॥
क्षितिभारसमुत्तारनिमित्तमिति मे मतिः ।
मायया विहितो योगो विष्णोर्जन्म धरातले ॥ ३॥
किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि ।
नर्तयत्यनिशं माया त्रिगुणानपरान्किमु ॥ ४॥
गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् ।
विष्णोरापादितं सम्यग्यया विगतलीलया ॥ ५॥
पुरा रामावतारेऽपि निर्जरा वानराः कृताः ।
विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः ॥ ६॥
अहं ममेति पाशेन सुदृढेन नराधिप ।
योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः ॥ ७॥
तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् ।
यद्भक्तिलेशलेशांशलेशलेशलवांशकम् ॥ ८॥
लब्ध्वा मुक्तो भवेज्जन्तुस्तां न सेवेत को जनः ।
भुवनेशीत्येव वक्त्रे ददाति भुवनत्रयम् ॥ ९॥
मां पाहीत्यस्य वचसो देयाभावादृणान्विता ।
विद्याविद्येति तस्या द्वे रूपे जानीहि पार्थिव ॥ १०॥
विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः ।
ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः ॥ ११॥
अवताराः सर्व एव यन्त्रिता इव दामभिः ।
कदाचिच्च सुखं भुङ्क्ते वैकुण्ठे क्षीरसागरे ॥ १२॥
कदाचित्कुरुते युद्धं दानवैर्बलवत्तरैः ।
हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च ॥ १३॥
कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत ।
कदाचिच्छयने शेते योगनिद्रामुपाश्रितः ॥ १४॥
न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः ।
तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः ॥ १५॥
कुबेरोऽग्नी रवीन्दू च तथान्ये सुरसत्तमाः ।
मुनयः सनकाद्याश्च वसिष्ठाद्यास्तथापरे ॥ १६॥
सर्वेऽम्बावशगा नित्यं पाञ्चालीव नरस्य च ।
नसि प्रोता यथा गावो विचरन्ति वशानुगाः ॥ १७॥
तथैव देवताः सर्वाः कालपाशनियन्त्रिताः ।
हर्षशोकादयो भावा निद्रातन्द्रालसादयः ॥ १८॥
सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः ।
अमरा निर्जराः प्रोक्ता देवाश्च ग्रन्थकारकैः ॥ १९॥
अभिधानतश्चार्थतो न ते नूनं तादृशाः क्वचित् ।
उत्पत्तिस्थितिनाशाख्या भावा येषां निरन्तरम् ॥ २०॥
अमरास्ते कथं वाच्या निर्जराश्च कथं पुनः ।
कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः ॥ २१॥
कथं देवाश्च वक्तव्या व्यसने क्रीडनं कथम् ।
क्षणादुत्पत्तिनाशश्च दृश्यतेऽस्मिन्न संशयः ॥ २२॥
जलजानां च कीटानां मशकानां तथा पुनः ।
उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः ॥ २३॥
ततो वर्षायुषश्चापि शतवर्षायुषस्तथा ।
मनुष्या ह्यमरा देवास्तस्माद् ब्रह्मापरः स्मृतः ॥ २४॥
रुद्रस्तथा तथा विष्णुः क्रमशश्च भवन्ति हि ।
नश्यन्ति क्रमशश्चैव वर्धन्ति चोत्तरोत्तरम् ॥ २५॥
नूनं देहवतो नाशो मृतस्योत्पत्तिरेव च ।
चक्रवद् भ्रमणं राजन् सर्वेषां नात्र संशयः ॥ २६॥
मोहजालावृतो जन्तुर्मुच्यते न कदाचन ।
मायायां विद्यमानायां मोहजालं न नश्यति ॥ २७॥
उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते ।
तथैव नाशः कल्पान्ते ब्रह्मादीनां यथाक्रमम् ॥ २८॥
निमित्तं यस्तु यन्नाशे स घातयति तं नृप ।
नान्यथा तद्भवेन्नूनं विधिना निर्मितं तु यत् ॥ २९॥
जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा ।
तत्तथैव भवेत्कामं नान्यथेह विनिर्णयः ॥ ३०॥
सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करौ ।
न नश्यति तयोः पीडा क्यचित्तद्वैरिसम्भवा ॥ ३१॥
भास्करस्य सुतो मन्दः क्षयी चन्द्रः कलङ्कवान् ।
पश्य राजन् विधेः सूत्रं दुर्वारं महतामपि ॥ ३२॥
वेदकर्ता जगत्स्रष्टा बुद्धिदस्तु चतुर्मुखः ।
सोऽपि विक्लवतां प्राप्तो दृष्ट्वा पुत्रीं सरस्वतीम् ॥ ३३॥
शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् ।
सोऽभवद्दुःखसन्तप्तः कामार्तश्च जनार्तिहा ॥ ३४॥
कामाग्निदग्धदेहस्तु कालिन्द्यां पतितः शिवः ।
सापि श्यामजला जाता तन्निदाघवशान्नृप ॥ ३५॥
कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् ।
गतः प्राप्तोऽथ भृगुणा शप्तः कामातुरो भृशम् ॥ ३६॥
पतत्वद्यैव ते लिङ्गं निर्लज्जेति भृशं किल ।
पपौ चामृतवापीञ्च दानवैर्निर्मितां मुदे ॥ ३७॥
इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ ।
आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः ॥ ३८॥
सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता ।
यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल ॥ ३९॥
राजन् मायाबलं पश्य रामो हि काममोहितः ।
रामो विरहसन्तप्तो रुरोद भृशमातुरः ॥ ४०॥
योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा ।
भक्षिता वा हृता केन रुदन्नुच्चतरं ततः ॥ ४१॥
लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः ।
त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज ॥ ४२॥
आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति ।
शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति ॥ ४३॥
सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता ।
पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता ॥ ४४॥
हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा ।
एह्येहि मृगशावाक्षि मां जीवय कृशोदरि ॥ ४५॥
किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् ।
समाश्वासय दीनं मां प्रियं जनकनन्दिनि ॥ ४६॥
एवं विलपता तेन रामेणामिततेजसा ।
वने वने च भ्रमता नेक्षिता जनकात्मजा ॥ ४७॥
शरण्यः सर्वलोकानां रामः कमललोचनः ।
शरणं वानराणां स गतो मायाविमोहितः ॥ ४८॥
सहायान्वानरान्कृत्वा बबन्ध वरुणालयम् ।
जघान रावणं वीरं कुम्भकर्णं महोदरम् ॥ ४९॥
आनीय च ततः सीतां रामो दिव्यमकारयत् ।
सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना ॥ ५०॥
किं ब्रवीमि महाराज योगमायाबलं महत् ।
यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल ॥ ५१॥
एवं नानावतारेऽत्र विष्णुः शापवशं गतः ।
करोति विविधाश्चेष्टा दैवाधीनः सदैव हि ॥ ५२॥
तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम् ।
प्रभवं मानुषे लोके देवकार्यार्थसिद्धये ॥ ५३॥
कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा ।
लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली ॥ ५४॥
द्विजानां दुःखदः पापो वरदानेन गर्वितः ।
निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै ॥ ५५॥
शत्रुघ्नेनाथ सङ्ग्रामे तं निहत्य मदोत्कटम् ।
वासिता मथुरा नाम पुरी परमशोभना ॥ ५६॥
स तत्र पुष्कराक्षौ द्वौ पुत्रौ शत्रुनिषूदनः ।
निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः ॥ ५७॥
सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे ।
मथुरां मुक्तिदा राजन् ययातितनयः पुरा ॥ ५८॥
श्ण्सेनाभिधः श्द्वस्तत्राभून्मेदिनीपतिः ।
माथुराच्छूरसेनांश्च बुभुजे विषयान्नृप ॥ ५९॥
तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै ।
वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥ ६०॥
वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः ।
उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान् ॥ ६१॥
अदितिर्देवकी जाता देवकस्य सुता तदा ।
शापाद्वै वरुणस्याथ कश्यपानुगता किल ॥ ६२॥
दत्ता सा वसुदेवाय देवकेन महात्मना ।
विवाहे रचिते तत्र वागभूद् गगने तदा ॥ ६३॥
कंस कंस महाभाग देवकीगर्भसम्भवः ।
अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति ॥ ६४॥
तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः ।
देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः ॥ ६५॥
किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा ।
निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम् ॥ ६६॥
उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे ।
इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत् ॥ ६७॥
पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा ।
पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता ॥ ६८॥
प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा ।
प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा ॥ ६९॥
विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः ।
जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत् ॥ ७०॥
कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः ।
पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह ॥ ७१॥
हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् ।
वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः ॥ ७२॥
मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः ।
कृपया मोचयामासुर्देवकीं देवमातरम् ॥ ७३॥
तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् ।
वसुदेवसहायानां कंसेन च महात्मना ॥ ७४॥
वर्तमाने तथा युद्धे दारुणे लोमहर्षणे ।
कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः ॥ ७५॥
पितृष्वसेयं ते वीर पूजनीया च बालिशा ।
न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे ॥ ७६॥
स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा ।
भूतभाषितमात्रेण न कर्तव्या विजानता ॥ ७७॥
अन्तर्हितेन केनापि शत्रुणा तव चास्य वा ।
उदितेति कुतो न स्याद्वागनर्थकरी विभो ॥ ७८॥
यशसस्ते विघाताय वसुदेवगृहस्य च ।
अरिणा रचिता वाणी गुणमायाविदा नृप ॥ ७९॥
बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया ।
यशोमूलविघातार्थमुपायस्त्वरिणा कृतः ॥ ८०॥
पितृष्वसा न हन्तव्या विवाहसमये पुनः ।
भवितव्यं महाराज भवेच्च कथमन्यथा ॥ ८१॥
एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा ।
तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत ॥ ८२॥
कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् ।
दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः ॥ ८३॥
जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो ।
कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः ॥ ८४॥
श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः ।
ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः ॥ ८५॥
न मिथ्या भाषते क्वापि वसुदेवो महामनाः ।
केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा ॥ ८६॥
व्यास उवाच ।
एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः ।
क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः ॥ ८७॥
ततो दुन्दुभयो नेदुर्वादित्राणि च सस्वनुः ।
जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि ॥ ८८॥
प्रसाद्य कंसं प्रतिमोच्य देवकीं
महायशाः शूरसुतस्तदानीम् ।
जगाम गेहं स्वजनानुवृत्तो
नवोढया वीतभयस्तरस्वी ॥ ८९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे कृष्णावतारकथोपक्रमवर्णनं नाम विंशोऽध्यायः ॥ ४.२०॥
४.२१ एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् ।
व्यास उवाच ।
अथ काले तु सम्प्राप्ते देवकी देवरूपिणी ।
गर्भं दधार विधिवद्वसुदेवेन सङ्गता ॥ १॥
पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् ।
रूपावयवसम्पन्नं देवकी प्रथमं यदा ॥ २॥
तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः ।
भावित्वाच्च महाभागो देवकीं देवमातरम् ॥ ३॥
वरोरु समयं मे त्वं जानासि स्वसुतार्पणे ।
मोचिता त्वं महाभागे शपथेन मया तदा ॥ ४॥
इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे ।
(खले कंसे विनाशार्थं दैवे किं वा करिष्यसि ।)॥
विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः ॥ ५॥
सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् ।
भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम् ॥ ६॥
प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् ।
देवक्युवाच ।
स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः ॥ ७॥
तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् ।
लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप ॥ ८॥
पूर्वार्जितानां पापानां विनाशाय महात्मभिः ।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ९॥
द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः ।
मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः ॥ १०॥
तथा कृत्वा नरः पापान्मुच्यते वा न वानघ ।
विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः ॥ ११॥
याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः ।
भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो ॥ १२॥
आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः ।
उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम् ॥ १३॥
भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका ।
अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम् ॥ १४॥
यदा तदा प्रमाणं हि वृथैव परिभाषितम् ।
वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि ॥ १५॥
उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते ।
तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः ॥ १६॥
यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः ।
मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता ॥ १७॥
न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः ।
वसुदेव उवाच ।
निशामय महाभागे सत्यमेतद् ब्रवीमि ते ॥ १८॥
उद्यमः खलु कर्तव्यः फलं दैववशानुगम् ।
त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः ॥ १९॥
प्रवदन्तीह जीवानां पुराणेष्वागमेषु च ।
सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे ॥ २०॥
वर्तमानानि वामोरु विविधानीह देहिनाम् ।
शुभाशुभानि कर्माणि बीजभूतानि यानि च ॥ २१॥
बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा ।
पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः ॥ २२॥
स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै ।
दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम् ॥ २३॥
भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा ।
भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते ॥ २४॥
लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् ।
तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः ॥ २५॥
योजयत्येव तं कालं कर्माणि प्राक्कृतानि च ।
देहेनानेन भाव्यानि शुभानि चाशुभानि च ॥ २६॥
प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने ।
प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि ॥ २७॥
सञ्चितानि तथैवाशु यथार्थं विहितेन च ।
प्रारब्धकर्मणां भोगात्सङ्क्षयो नान्यथा भवेत् ॥ २८॥
तेनायं ते कुमारो वै देयः कंसाय सर्वथा ।
न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम् ॥ २९॥
अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् ।
दैवाधीनं हि सर्वेषां मरणं जननं तथा ॥ ३०॥
तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः ।
सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम् ॥ ३१॥
इहलोको गतो यस्मात्परलोकः कुतस्ततः ।
अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम् ॥ ३२॥
सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति ।
कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये ॥ ३३॥
(सत्यसंरक्षणाद्देवि शुभमेव भविष्यति)॥
व्यास उवाच ।
इत्युक्तवति कान्ते सा देवकी शोकसंयुता ।
ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी ॥ ३४॥
वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् ।
जगाम कंससदनं मार्गे लोकैरभिष्टुतः ॥ ३५॥
लोका ऊचुः ।
पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् ।
स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ ॥ ३६॥
मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः ।
सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम् ॥ ३७॥
यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि ।
व्यास उवाच ।
इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप ॥ ३८॥
ददावस्मै कुमारं तं जातमात्रममानुषम् ।
कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः ॥ ३९॥
गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः ।
धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात् ॥ ४०॥
मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः ।
न हन्तव्यो मया कामं बालोऽयं यातु ते गहम् ॥ ४१॥
अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते ।
इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम् ॥ ४२॥
गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः ।
तमादाय तदा शौरिर्जगाम स्वगृहं मुदा ॥ ४३॥
कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् ।
अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः ॥ ४४॥
अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् ।
साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः ॥ ४५॥
विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति ।
गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः ॥ ४६॥
अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा ।
पप्रच्छ कुशलं राजा तत्रागमनकारणम् ॥ ४७॥
नारदस्तं तदोवाच स्मितपूर्वमिदं वचः ।
कंस कंस महाभाग गतोऽहं हेमपर्वतम् ॥ ४८॥
तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः ।
देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः ॥ ४९॥
वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति ।
तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता ॥ ५०॥
कंस उवाच ।
अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् ।
नारद उवाच ।
न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा । ५१॥
मायाबलं च देवानां न त्वं वेत्सि वदामि किम् ।
रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता ॥ ५२॥
सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः ।
मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया ॥ ५३॥
इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः ।
गतेऽथ नारदे कंसः समाहूयाथ बालकम् ।
पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
कंसेन देवकीप्रथमपुत्रवधवर्णनं नामैकविंशोऽध्यायः ॥ ४.२१॥
४.२२ द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् ।
जनमेजय उवाच ।
किं कृतं पातकं तेन बालकेन पितामह ।
यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ १॥
नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः ।
कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः ॥ २॥
कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः ।
स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥ ३॥
संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् ।
येन कर्मविपाकेन बालको निधनं गतः ॥ ४॥
व्यास उवाच ।
नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः ।
देवकार्यार्थमागत्य सर्वमेतच्चकार ह ॥ ५॥
न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन ।
सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥ ६॥
एवं षड् बालकास्तेन जाता जाता निपातिताः ।
षड् गर्भाः शापयोगेन सम्भूय मरणं गताः ॥ ७॥
शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् ।
स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः ॥ ८॥
ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः ।
ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ९॥
शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः ।
कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते ॥ १०॥
अवतारे परे ते तु हिरण्यकशिपोः सुताः ।
जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥ ११॥
तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः ।
तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ ॥ १२॥
ब्रह्मोवाच ।
शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः ।
तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम् ॥ १३॥
व्यास उवाच ।
ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः ।
ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः ॥ १४॥
गर्भा ऊचुः ।
पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् ।
अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः ॥ १५॥
गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह ।
व्यास उवाच ।
तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति ॥ १६॥
गच्छन्तु वो महाभागाः सत्यमेव न संशयः ।
दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन् ॥ १७॥
हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह ।
यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥ १८॥
वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् ।
युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ १९॥
यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि ।
पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान् ॥ २०॥
ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः ।
पिता वः कालनेमिस्तु तत्र कंसो भविष्यति ॥ २१॥
स एव जातमात्रान्वो वधिष्यति सुदारुणः ।
व्यास उवाच ।
एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः ॥ २२॥
जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः ।
शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥ २३॥
विस्रंसितश्च गर्भोऽसौ योगेन योगमायया ।
नीतश्च रोहिणीगर्भे कृत्वा सङ्कर्षणं बलात् ॥ २४॥
पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा ।
कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥ २५॥
मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् ।
अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥ २६॥
उवास देवकार्यार्थं भारावतरणाय च ।
राजोवाच ।
वसुदेवः कश्यपांशः शेषांशश्च तदाभवत् ॥ २७॥
हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम ।
अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद ॥ २८॥
भाराववतारणार्थं वै क्षितेः प्रार्थनयानघ ।
व्यास उवाच ।
सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः ॥ २९॥
तानहं सम्प्रवक्ष्यामि सङ्क्षेपेण शृणुष्व तान् ।
वसुदेवः कश्यपांशो देवकी च तथादितिः ॥ ३०॥
बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च ।
योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः ॥ ३१॥
तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा ।
नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च ॥ ३२॥
युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत ।
अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ ॥ ३३॥
सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः ।
द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः ॥ ३४॥
समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः ।
देवकस्तु समाख्यातो गन्धर्वपतिरागमे ॥ ३५॥
वसुर्भीष्मो विराटस्तु मरुद्गण इति स्मृतः ।
अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः ॥ ३६॥
मरुद्गणः कृपः प्रोक्तः कृतवर्मा तथापरः ।
दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम् ॥ ३७॥
सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः ।
पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा ॥ ३८॥
सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः ।
द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा ॥ ३९॥
द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः ।
कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा ॥ ४०॥
कृष्णपत्न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः ।
राजानश्च तथा सर्वे असुराः शक्रनोदिताः ॥ ४१॥
हिरण्यकशिपोरंशः शिशुपाल उदाहृतः ।
विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि ॥ ४२॥
कालनेमिस्तथा कंसः केशी हयशिरास्तथा ।
अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः ॥ ४३॥
अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः ।
लम्बः प्रलम्बः सञ्चातः खरोऽसौ धेनुकोऽभवत् ॥ ४४॥
वाराहश्च किशोरश्च दैत्यौ परमदारुणौ ।
मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ ॥ ४५॥
दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः ।
बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः ॥ ४६॥
यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः ।
तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः ॥ ४७॥
अंशावतरणे पूर्वं दैतेया राक्षसास्तथा ।
जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे ॥ ४८॥
एतेषां कथितं राजन्नंशावतरणं नृप ।
सुराणां चासुराणां च पुराणेषु प्रकीर्तितम् ॥ ४९॥
यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः ।
हरिणा च तदा दत्तौ केशौ खलु सितासितौ ॥ ५०॥
श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा ।
भारावतारणार्थं तौ जातौ देवांशसम्भवौ ॥ ५१॥
अंशावतरणं चैतच्छृणोति भक्तिभावतः ।
सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः ॥ ५२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे देवदानवानामंशावतरणवर्णनं नाम द्वाविंशोऽध्यायः ॥ ४.२२॥
४.२३ त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् ।
व्यास उवाच ।
हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना ।
सप्तमे पतिते गर्भे वचनान्नारदस्य च ॥ १॥
अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः ।
प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन् ॥ २॥
समये देवकीगर्भे प्रवेशमकरोद्धरिः ।
अंशेन वसुदेवे तु समागत्य यथाक्रमम् ॥ ३॥
तदेयं योगमाया च यशोदायां यथेच्छया ।
प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये ॥ ४॥
रोहिण्यास्तनयो रामो गोकुले समजायत ।
यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी ॥ ५॥
कारागारे ततः कंसो देवकीं देवसंस्तुताम् ।
स्थापयामास रक्षार्थं सेवकान्समकल्पयत् ॥ ६॥
वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः ।
पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया ॥ ७॥
देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये ।
संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम् ॥ ८॥
सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे ।
प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने ॥ ९॥
कंसस्तु दानवान्सर्वानुवाच भयविह्वलः ।
रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे ॥ १०॥
अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति ।
रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः ॥ ११॥
हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे ।
निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते ॥ १२॥
खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः ।
निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः ॥ १३॥
व्यास उवाच ।
इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः ।
मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम् ॥ १४॥
निशीथे देवकी तत्र वसुदेवमुवाच ह ।
किं करोमि महाराज प्रसवावसरो मम ॥ १५॥
बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः ।
नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा ॥ १६॥
प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि ।
पालयिष्याम्यहं तत्र तवातिमनसा किल ॥ १७॥
अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै ।
किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते ॥ १८॥
व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः ।
दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया ॥ १९॥
परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् ।
इत्युक्त्वा तं महाभागं देवकी देवसम्मतम् ॥ २०॥
बालकं सुषुवे तत्र निशीथे परमाद्भुतम् ।
तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम् ॥ २१॥
पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा ।
पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो ॥ २२॥
अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः ।
वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम् ॥ २३॥
अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः ।
वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह ॥ २४॥
किं करोमि कथं न स्याद्दुःखमस्य कृते मम ।
एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी ॥ २५॥
वसुदेवं समाभाष्य गगने विशदाक्षरा ।
वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः ॥ २६॥
रक्षपालास्तथा सर्वे मया निद्राविमोहिताः ।
विवृतानि कृतान्यष्ट कपाटानि च शृङ्खलाः ॥ २७॥
मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय ।
श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः ॥ २८॥
विवृतं द्वारमालोक्य बभूव तरसा नृप ।
तमादाय ययावाशु द्वारपालैरलक्षितः ॥ २९॥
कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् ।
तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा ॥ ३०॥
योगमायाप्रभावेण ततारानकदुन्दुभिः ।
गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि ॥ ३१॥
नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् ।
तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा ॥ ३२॥
योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी ।
जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे ॥ ३३॥
तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी ।
वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे ॥ ३४॥
तामादाय ययौ शीघ्रं बालिकां मुदिताशयः ।
कारागारे ततो गत्वा देवक्याः शयने सुताम् ॥ ३५॥
निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः ।
रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः ॥ ३६॥
उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि ।
तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः ॥ ३७॥
देवक्याश्च सुतो जातः शीघ्रमेहि महामते ।
तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ ॥ ३८॥
प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् ।
कंस उवाच ।
सुतमानय देवक्या वसुदेव महामते ॥ ३९॥
मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् ।
व्यास उवाच ।
श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः ॥ ४०॥
तामादाय सुतां पाणौ ददौ चाशु रुदन्निव ।
दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः ॥ ४१॥
देववाणी वृथा जाता नारदस्य च भाषितम् ।
वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः ॥ ४२॥
रक्षपालाश्च मे सर्वे सावधाना न संशयः ।
कुतोऽत्र कन्यका कामं क्व गतः स सुतः किल ॥ ४३॥
सन्देहोऽत्र न कर्तव्यः कालस्य विषमा गतिः ।
इति सञ्चिन्त्य तां बालां गृहीत्वा पादयोः खलः ॥ ४४॥
पोथयामास पाषाणे निर्घृणः कुलपांसनः ।
सा करान्निःसृता बाला ययावाकाशमण्डलम् ॥ ४५॥
दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना ।
किं मया हतया पाप जातस्ते बलवान् रिपुः ॥ ४६॥
हनिष्यति दुराराध्यः सर्वथा त्वां नराधमम् ।
इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा ॥ ४७॥
कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा ।
आनाय्य दानवान्सर्वानिदं वचनमब्रवीत् ॥ ४८॥
बकधेनुकवत्सादीन्क्रोधाविष्टो भयातुरः ।
गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये ॥ ४९॥
जातमात्राश्च हन्तव्या बालका यत्र कुत्रचित् ।
पूतनैषा व्रजत्वद्य बालघ्नी नन्दगोकुलम् ॥ ५०॥
जातमात्रान्विनिघ्नन्ती शिशूंस्तत्र ममाज्ञया ।
धेनुको वत्सकः केशी प्रलम्बो बक एव च ॥ ५१॥
सर्वे तिष्ठन्तु तत्रैव मम कार्यचिकीर्षया ।
इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः ॥ ५२॥
चिन्ताविष्टोऽतिदीनात्मा चिन्तयित्वैव तं पुनः ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे कंसं प्रति योगमायावाक्यं नाम त्रयोविंशोऽध्यायः ॥ ४.२३॥
४.२४ चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् ।
व्यास उवाच ।
प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः ।
किंवदन्त्यथ कंसेन श्रुता चारमुखादपि ॥ १॥
जानाति वसुदेवस्य दारास्तत्र वसन्ति हि ।
पशवो दासवर्गश्च सर्वे ते नन्दगोकुले ॥ २॥
तेन शङ्कासमाविष्टो गोकुलं प्रति भारत ।
नारदेनापि तत्सर्वं कथितं कारणं पुरा ॥ ३॥
गोकुले ये च नन्दाद्यास्तत्पत्न्यश्च सुरांशजाः ।
देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल ॥ ४॥
इति नारदवाक्येन बोधितोऽसौ कुलाधमः ।
जातः कोपमना राजन् कंसः परमपापकृत् ॥ ५॥
पूतना निहता तत्र कृष्णेनामिततेजसा ।
बको वत्सासुरश्चापि धेनुकश्च महाबलः ॥ ६॥
प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः ।
श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः ॥ ७॥
तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः ।
धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे ॥ ८॥
अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा ।
आनेतुं रामकृष्णौ च वधायामितविक्रमौ ॥ ९॥
रथमारोप्य गोपालौ गोकुलाद् गान्दिनीसुतः ।
आगतो मथुरायां तु कंसादेशे स्थितः किल ॥ १०॥
तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः ।
हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम् ॥ ११॥
शलं च तोशलं चैव निजघान हरिस्तदा ।
जघान कंसं देवेशः केशेष्वाकृष्य लीलया ॥ १२॥
पितरौ मोचयित्वाथ गतदुःखौ चकार ह ।
उग्रसेनाय राज्यं तद्ददावरिनिषूदनः ॥ १३॥
वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् ।
कारयामास विधिवद् व्रतबन्धं महामनाः ॥ १४॥
उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् ।
विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः ॥ १५॥
जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ ।
मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः ॥ १६॥
मागधस्तु जरासन्धो जामातृवधदुःखितः ।
कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम् ॥ १७॥
स सप्तदशवारं तु कृष्णेन कृतबुद्धिना ।
जितः सङ्ग्राममासाद्य मधुपुर्यां निवासिना ॥ १८॥
पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः ।
सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः ॥ १९॥
श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् ।
आनाय्य च तथा राममुवाच मधुसूदनः ॥ २०॥
भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् ।
किं कर्तव्यं महाभाग यवनः समुपैति वै ॥ २१॥
प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् ।
सुखेन स्थीयते यत्र स देशः खलु पैतृकः ॥ २२॥
सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः ।
शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता ॥ २३॥
यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः ।
शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे ॥ २४॥
तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः ।
तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः ॥ २५॥
द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै ।
कथिता गरुडेनाद्य रम्या द्वारवती पुरी ॥ २६॥
रैवताचलसानिध्ये सिन्धुकूले मनोहरा ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ २७॥
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः ।
शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ २८॥
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः ।
रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ २९॥
अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः ।
कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ ३०॥
शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः ।
संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ ३१॥
तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् ।
तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ ३२॥
ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः ।
पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ ३३॥
पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः ।
तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ ३४॥
यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः ।
प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ ३५॥
प्रययौ भगवांस्तत्र सकालयवनो हरिः ।
तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ ३६॥
तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत ।
मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ ३७॥
प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः ।
तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ ३८॥
वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् ।
जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ ३९॥
उग्रसेनं नृपं कृत्वा विजहार यथारुचि ।
अहरद्रुक्मिणी कामं शिशुपालस्वयंवरात् ॥ ४०॥
राक्षसेन विवाहेन चक्रे दारविधिं हरिः ।
ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम् ॥ ४१॥
कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् ।
पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः ॥ ४२॥
अष्टावेव महीपाल पत्न्यः परमशोभनाः ।
प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम् ॥ ४३॥
जातकर्मादिकं तस्य चकार मधुसूदनः ।
हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा ॥ ४४॥
नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः ।
वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः ॥ ४५॥
जगाम शरणं देवीं भक्तियुक्तेन चेतसा ।
वृत्रासुरादयो दैत्या लीलयैव यया हताः ॥ ४६॥
ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् ।
वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः ॥ ४७॥
श्रीकृष्ण उवाच ।
मातर्मयातितपसा परितोषिता त्वं
प्राग्जन्मनि प्रसुमनादिभिरर्चितासि ।
धर्मात्मजेन बदरीवनखण्डमध्ये
किं विस्मृतो जननि ते त्वयि भक्तिभावः ॥ ४८॥
सूतीगृहादपहृतः किमु बालको मे
केनापि दुष्टमनसाप्यथ कौतुकाद्वा ।
मानापहारकरणाय ममाद्य नूनं
लज्जा तवाम्ब खलु भक्तजनस्य युक्ता ॥ ४९॥
दुर्गो महानतितरां नगरी सुगुप्ता
तत्रापि मेऽस्ति सदनं किल मध्यभागे ।
अन्तःपुरे च पिहितं ननु सूतिगेहं
बालो हृतः खलु तथापि ममैव दोषात् ॥ ५०॥
नाहं गतः परपुरं न च यादवाश्च
रक्षावतीव नगरी किल वीरवर्यैः ।
माया तवैव जननि प्रकटप्रभावा
मे बालकः परिहृतः कुहकेन केन ॥ ५१॥
नो वेद्म्यहं जननि ते चरितं सुगुप्तं
को वेद मन्दमतिरल्पविदेव देही ।
क्वासौ गतो मम भटैर्न च वीक्षितो वा
हर्ताम्बिके जवनिका तव कल्पितेयम् ॥ ५२॥
चित्रं न तेऽत्र पुरतो मम मातृगर्भो
नीतस्त्वयार्धसमये किल माययासौ ।
यं रोहिणी हलधरं सुषुवे प्रसिद्धं
दूरे स्थिता पतिपरा मिथुनं विनापि ॥ ५३॥
सृष्टिं करोषि जगतामनुपालनं च
नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् ।
को वेद तेऽम्ब चरितं दुरितान्तकारि
प्रायेण सर्वमखिलं विहितं त्वयैतत् ॥ ५४॥
उत्पाद्य पुत्रजननप्रभवं प्रमोदं
दत्त्वा पुनर्विरहजं किल दुःखभारम् ।
त्वं क्रीडसे सुललितैः खलु तैर्विहारै-
र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात् ॥ ५५॥
मातास्य रोदिति भृशं कुररीव बाला
दुःखं तनोति मम सन्निधिगा सदैव ।
कष्टं न वेत्सि ललितेऽप्रमितप्रभावे
मातस्त्वमेव शरणं भवपीडितानाम् ॥ ५६॥
सीमा सुखस्य सुतजन्म तदीयनाशो
दुःखस्य देवि भवने विबुधा वदन्ति ।
तत्किं करोमि जननि प्रथमे प्रनष्टे
पुत्रे ममाद्य हृदयं स्फुटतीव मातः ॥ ५७॥
यज्ञं करोमि तव तुष्टिकरं व्रतं वा
दैवं च पूजनमथाखिलदुःखहा त्वम् ।
मातः सुतोऽत्र यदि जीवति दर्शयाशु
त्वं वै क्षमा सकलशोकविनाशनाय ॥ ५८॥
व्यास उवाच ।
एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा ।
प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम् ॥ ५९॥
श्रीदेव्युवाच ।
शोकं मा कुरु देवेश शापोऽयं ते पुरातनः ।
तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात् ॥ ६०॥
अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् ।
आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः ॥ ६१॥
व्यास उवाच ।
इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा ।
भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे देव्या कृष्णशोकापनोदनं नाम चतुर्विंशोऽध्यायः ॥ ४.२४॥
४.२५ पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।
राजोवाच ।
सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव ।
वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च ॥ १॥
नारायणांशसम्भूतो वासुदेवः प्रतापवान् ।
कथं स सूतिकागाराद्धृतो बालो हरेरपि ॥ २॥
सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे ।
प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः ॥ ३॥
न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम् ।
जायते महदाश्चर्यं चित्ते सत्यवतीसुत ॥ ४॥
ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् ।
हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात् ॥ ५॥
व्यास उवाच ।
माया बलवती राजन्नराणां बुद्धिमोहिनी ।
शाम्भवी विश्रुता लोके को वा मोहं न गच्छति ॥ ६॥
मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः ।
भवन्ति देहजा कामं न देवा नासुरास्तदा ॥ ७॥
क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः ।
हर्षश्चैवाभिमानश्च जरामरणमेव च ॥ ८॥
अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः ।
एते देहभवा भावाः प्रभवन्ति नराधिप ॥ ९॥
यथा हेममृगं रामो न बुबोध पुरोगतम् ।
जानक्या हरणञ्चैव जटायुमरणं तथा ॥ १०॥
अभिषेकदिने रामो वनवासं न वेद च ।
तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः ॥ ११॥
अज्ञवद्विचचारासौ पश्यमानो वने वने ।
जानकीं न विवेदाथ रावणेन हृतां बलात् ॥ १२॥
सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् ।
सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम् ॥ १३॥
प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् ।
सङ्ग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे ॥ १४॥
बन्धनं नागपाशेन प्राप रामो महाबलः ।
गरुडान्मोक्षणं पश्चादन्वभूद्रघुनन्दनः ॥ १५॥
अहनद्रावणं सङ्ख्ये कुम्भकर्णं महाबलम् ।
मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः ॥ १६॥
अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः ।
दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम् ॥ १७॥
लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् ।
अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः ॥ १८॥
न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ ।
मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ ॥ १९॥
पातालगमनं चैव जानक्या ज्ञातवान्न च ।
राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः ॥ २०॥
कालस्यागमनञ्चैव न विवेद खरान्तकः ।
मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम् ॥ २१॥
तथैव मानुषान्भावान्नात्र कार्या विचारणा ।
पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः ॥ २२॥
जरासन्धभयात्पश्चाद् द्वारवत्यां गतो हरिः ।
अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत् ॥ २३॥
शिशुपालवृतायाश्च जानन्धर्मं सनातनम् ।
शुशोच बालकं कृष्णः शम्बरेण हृतं बलात् ॥ २४॥
मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः ।
सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल ॥ २५॥
इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् ।
जहार कल्पवृक्षं यः पराभूय शतक्रतुम् ॥ २६॥
मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः ।
बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम् ॥ २७॥
दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी ।
दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ ॥ २८॥
कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् ।
स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः ॥ २९॥
उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः ।
उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः ॥ ३०॥
जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह ।
उग्रं तत्र तपस्तेपे मासमेकं फलाशनः ॥ ३१॥
जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः ।
द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः ॥ ३२॥
तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः ।
षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः ॥ ३३॥
दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः ।
आजगाम वृषारूढः सुरैरिन्द्रादिभिर्भूतः ॥ ३४॥
ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः ।
सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह ॥ ३५॥
तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते ।
ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन ॥ ३६॥
मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् ।
व्यास उवाच ।
तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः ॥ ३७॥
पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः ।
स्तुतिं चकार देवेशो मेघगम्भीरया गिरा ॥ ३८॥
स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः ।
श्रीकृष्ण उवाच ।
देवदेव जगन्ताथ सर्वभूतार्तिनाशन ॥ ३९॥
विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक ।
नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः ॥ ४०॥
शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते ।
धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत ॥ ४१॥
जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् ।
बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो ॥ ४२॥
शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन ।
सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन ॥ ४३॥
त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना ।
गर्भवासे महद्दुःखं प्राप्तं मदनदाहक ॥ ४४॥
जन्मतः कंसभयजमनुभूतं च गोकुले ।
जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा ॥ ४५॥
गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने ।
म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः ॥ ४६॥
त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो ।
ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो ॥ ४७॥
राज्यं सुपुष्टमपि च धर्मरक्षापरेण च ।
उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया ॥ ४८॥
राजासौ यादवानां वै कृतो नः पूर्वजैः किल ।
गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम् ॥ ४९॥
पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा ।
रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम ॥ ५०॥
प्रेरयामास पुत्रार्थं तपसे मदनान्तक ।
सकामेन मया तप्तं तपः पुत्रार्थमद्य वै ॥ ५१॥
लज्जा भवति देवेश प्रार्थनायां जगद्गुरो ।
कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम् ॥ ५२॥
प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् ।
सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो ॥ ५३॥
कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते ।
जानामि दुःखदं शम्भो संसारं दुःखसाधनम् ॥ ५४॥
अनित्यं नाशधर्माणं तथापि विरतिर्न मे ।
शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले ॥ ५५॥
भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः ।
व्यास उवाच ।
इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः ॥ ५६॥
बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन ।
स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम् ॥ ५७॥
तासु पुत्रा दश दश भविष्यन्ति महाबलाः ।
इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः ॥ ५८॥
उवाच गिरिजा देवी प्रणतं मधुसूदनम् ।
कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप ॥ ५९॥
गृहस्थप्रवरो लोके भविष्यति भवानिह ।
ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन ॥ ६०॥
गान्धार्याश्च तथा शापाद्भविता ते कुलक्षयः ।
परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः ॥ ६१॥
गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे ।
सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम् ॥ ६२॥
शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो ।
अवश्यम्भाविभावानां प्रतीकारो न विद्यते ॥ ६३॥
तत्र शोको न कर्तव्यो नूनं मम मतं सदा ।
अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन ॥ ६४॥
चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि ।
व्यास उवाच ।
इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः ॥ ६५॥
उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ ।
यस्माद् ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः ॥ ६६॥
तथापि मायाकल्लोलयोगसङ्क्षुभितान्तराः ।
तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः ॥ ६७॥
यथा यथा पूर्वभवं कर्म तेषां तथा तथा ।
प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी ॥ ६८॥
न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन ।
केवलं जीवमोक्षार्थं यतते भुवनेश्वरी ॥ ६९॥
यदि सा नैव सृज्येत जगदेतच्चराचरम् ।
तदा मायां विना भूतं जडं स्यादेव नित्यशः ॥ ७०॥
तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् ।
करोति सततं देवी प्रेरयत्यनिशं च तत् ॥ ७१॥
तस्माद् ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि ।
मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः ॥ ७२॥
स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी ।
तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी ॥ ७३॥
नातः परतरं किञ्चिदधिकं भुवनत्रये ।
एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः ॥ ७४॥
माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् ।
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥ ७५॥
इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् ।
ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः ॥ ७६॥
नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् ।
मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः ॥ ७७॥
श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः ।
आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात् ॥ ७८॥
ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा ।
तामेव समुपासन्ते सच्चिदानन्दरूपिणीम् ॥ ७९॥
इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ ।
प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि ॥ ८०॥
एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् ।
सर्वपापहरं पुण्यं पुराणं परमाद्भुतम् ॥ ८१॥
य इदं शृणुयान्नित्यं पुराणं वेदसम्मितम् ।
सर्वपापविनिर्मुक्तो देवीलोके महीयते ॥ ८२॥
सूत उवाच ।
एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् ।
पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम् ॥ ८३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे पराशक्तेः सर्वज्ञत्वकथनं नाम पञ्चविंशोऽध्यायः ॥ ४.२५॥
॥ इति श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide