१० श्रीमद्देवीभागवतमहापुराणे दशमः स्कन्धः
१०.१ प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।
नारद उवाच ।
नारायण धराधार सर्वपालनकारण ।
भवतोदीरितं देवीचरितं पापनाशनम् ॥ १॥
मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी ।
यदाकारेण कुरुते प्रादुर्भावं महेश्वरी ॥ २॥
तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् ।
यथा च येन येनेह पूजिता संस्तुतापि हि ॥ ३॥
मनोरथान्पूरयति भक्तानां भक्तवत्सला ।
तन्नः शुभूषमाणानां देवीचरितमुत्तमम् ॥ ४॥
वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् ।
श्रीनारायण उवाच ।
आकर्णय महर्षे त्वं चरितं पापनाशनम् ॥ ५॥
भक्तानां भक्तिजननं महासम्पत्तिकारकम् ।
जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः ॥ ६॥
आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः ।
स चतुर्मुख आसाद्य प्रादुर्भावं महामते ॥ ७॥
मनुं स्वायम्भुवं नाम जनयामास मानसात् ।
स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः ॥ ८॥
शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम् ।
स मनुः क्षीरसिन्धोश्च तीरे परमपावने ॥ ९॥
देवीमाराधयामास महाभाग्यफलप्रदाम् ।
मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः ॥ १०॥
उपासते स्म तां देवीं वाग्भवं स जपन् रहः ।
निराहारो जितश्वासो नियमव्रतकर्शितः ॥ ११॥
एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः ।
शतवर्षं जितः कामः क्रोधस्तेन महात्मना ॥ १२॥
भेजे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि ।
तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी ॥ १३॥
उवाच वचनं दिव्यं वरं वरय भूमिप ।
तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः ॥ १४॥
वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् ।
मनुरुवाच ।
जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १५॥
मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले ।
त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ १६॥
वैकुण्ठः पालयत्येव हरः संहरते क्षणात् ।
शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ १७॥
प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् ।
यादसामधिपः पाशी पालनं मादृशामपि ॥ १८॥
कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः ।
हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ १९॥
त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः ।
अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ २०॥
तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे ।
वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ २१॥
तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि ।
ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ २२॥
तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे ।
जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ २३॥
ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि ।
पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ २४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥ १०.१॥
१०.२ द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् ।
श्रीदेव्युवाच ।
भूमिपाल महाबाहो सर्वमेतद्भविष्यति ।
यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप ॥ १॥
अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा ।
वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम् ॥ २॥
राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि ।
मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत् ॥ ३॥
एवं वरान्महादेवी तस्मै दत्त्वा महात्मने ।
पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम् ॥ ४॥
योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्भवमहर्षिणा ।
भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन् ॥ ५॥
सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी ।
बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम ॥ ६॥
ऋषय ऊचुः ।
कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् ।
भानुमार्गावरोधं च किमर्थं कृतवानसौ ॥ ७॥
कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् ।
प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद ॥ ८॥
न हि तृप्यामहे साधो त्वदास्यगलितामृतम् ।
देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते ॥ ९॥
सूत उवाच ।
आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् ।
महावनसमूहाढ्यो महापादपसंवृतः ॥ १०॥
सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः ।
मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि ॥ ११॥
वानराः शशका ऋक्षाः शृगालाश्च समन्ततः ।
विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः ॥ १२॥
नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः ।
अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः ॥ १३॥
एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् ।
देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः ॥ १४॥
तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् ।
पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत् ॥ १५॥
सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् ।
विन्ध्य उवाच ।
देवर्षे कथ्यतां जात आगमः कुत उत्तमः ॥ १६॥
तवागमनतो जातमनर्घ्यं मम मन्दिरम् ।
तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः ॥ १७॥
अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद ।
नारद उवाच ।
ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ ॥ १८॥
तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् ।
सर्वेषां लोकपालानां भवनानि समन्ततः ॥ १९॥
मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च ।
इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत् ॥ २०॥
उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् ।
उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम ॥ २१॥
इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः ।
अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम् ॥ २२॥
गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल ।
सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम् ॥ २३॥
एवमेव च कैलासः शिवस्यावसथः प्रभुः ।
पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः ॥ २४॥
निषधः पर्वतो नीलो गन्धमादन एव च ।
पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः ॥ २५॥
यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् ।
सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः ॥ २६॥
आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् ।
सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः ॥ २७॥
एवम्मानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः ।
अस्तु नैतावता कृत्यं तपोबलवतां नग ।
प्रसङ्गतो मयोक्तं ते गमिष्यामि निजं गृहम् ॥ २८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे विन्ध्योपाख्यानवर्णनं नाम द्वितीयोऽध्यायः ॥ १०.२॥
१०.३ तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।
सूत उवाच ।
एवं समुपदिश्यायं देवर्षिः परमः स्वराट् ।
जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः ॥ १॥
गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् ।
नैव शान्तिं स लेभे च सदान्तःकृतशोचनः ॥ २॥
कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् ।
नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत् ॥ ३॥
(धिगुत्साहं च मानं च धिङ्मे कीर्तिं च धिक्कुलम्)
धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः ।
एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम् ॥ ४॥
प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी ।
मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः ॥ ५॥
सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः ।
तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः ॥ ६॥
तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् ।
एवं मार्गे निरुद्धे तु मया दिनकरस्य च ॥ ७॥
भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् ।
एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः ॥ ८॥
महोन्नतैः शृङ्गवरैः सर्वं व्याप्य व्यवस्थितः ।
कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा ॥ ९॥
एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी ।
प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः ॥ १०॥
कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ ।
प्रकाशते स्म विमलं नभो भानुकरैः शुभैः ॥ ११॥
विकासं नलिनी भेजे मीलनं च कुमुद्वती ।
स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे ॥ १२॥
हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् ।
प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः ॥ १३॥
एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् ।
ज्वलन्तीं चिरकालीनविरहादिव कामिनीम् ॥ १४॥
भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च ।
याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः ॥ १५॥
न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् ।
अनूरुरुवाच ।
भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः ॥ १६॥
स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् ।
सूत उवाच ।
अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन् ॥ १७॥
अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः ।
प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः ॥ १८॥
निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् ।
राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते ॥ १९॥
स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली ।
एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः ॥ २०॥
नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत ।
चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥ २१॥
संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः ।
यदा निरुद्धः सविता गिरिणा स्पर्धया तदा ॥ २२॥
नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् ।
एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च ॥ २३॥
निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे ।
प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः ॥ २४॥
मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः ।
हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् ।
देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः ॥ २५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनं नाम तृतीयोऽध्यायः ॥ १०.३॥
१०.४ चतुर्थोऽध्यायः । रुद्रप्रार्थनम् ।
सूत उवाच ।
ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा ।
पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ १॥
उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः ।
देवदेवं गिरिशयं शशिलोलितशेखरम् ॥ २॥
देववा ऊचुः ।
जय देव गणाध्यक्ष उमालालितपङ्कज ।
अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥ ३॥
महामायाविलसितस्थानाय परमात्मने ।
वृषाङ्कायामरेशाय कैलासस्थितिशालिने ॥ ४॥
अहिर्बुध्न्याय मान्याय मनवे मानदायिने ।
अजाय बहुरूपाय स्वात्मारामाय शम्भवे ॥ ५॥
गणनाथाय देवाय गिरिशाय नमोऽस्तु ते ।
महाविभूतिदात्रे ते महाविष्णुस्तुताय च ॥ ६॥
विष्णुहृत्कञ्जवासाय महायोगरताय च ।
योगगम्याय योगाय योगिनां पतये नमः ॥ ७॥
योगीशाय नमस्तुभ्यं योगानां फलदायिने ।
दीनदानपरायापि दयासागरमूर्तये ॥ ८॥
आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये ।
वृषध्वजाय कालाय कालकालाय ते नमः ॥ ९॥
सूत उवाच ।
एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः ।
प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान् ॥ १०॥
श्रीभगवानुवाच ।
प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः ।
मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥ ११॥
देवा ऊचुः ।
सर्वदेवेश गिरिश शशिमौलिविराजित ।
आर्तानां शङ्करस्त्वं च शं विधेहि महाबल ॥ १२॥
पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः ।
भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ ॥ १३॥
तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव ।
भानुसञ्चाररोधेन कालज्ञानं कथं भवेत् ॥ १४॥
नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् ।
अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥ १५॥
दुःखनाशकरो देव प्रसीद गिरिजापते ।
श्रीशिव उवाच ।
नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः ॥ १६॥
इममेवं वदिष्यामो भगवन्तं रमाधवम् ।
सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक् ॥ १७॥
गोविन्दो भगवान्विष्णुः सर्वकारणकारणः ।
तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति ॥ १८॥
इत्येवमाकर्ण्य गिरीशभाषितं
देवाश्च सेन्द्राः सपयोजसम्भवाः ।
रुद्रं पुरस्कृत्य च वेपमाना
वैकुण्ठलोकं प्रतिजग्मुरञ्जसा ॥ १९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे रुद्रप्रार्थनं नाम चतुर्थोऽध्यायः ॥ १०.४॥
१०.५ पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् ।
सूत उवाच ।
ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् ।
विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥ १॥
स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः ।
देवा ऊचुः ।
जय विष्णो रमेशाद्य महापुरुष पूर्वज ॥ २॥
दैत्यारे कामजनक सर्वकामफलप्रद ।
महावराह गोविन्द महायज्ञस्वरूपक ॥ ३॥
महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण ।
मत्स्यावतारे वेदानामुद्धाराधाररूपक ॥ ४॥
सत्यव्रत धराधीश मत्स्यरूपाय ते नमः ।
जयाकूपार दैत्यारे सुरकार्यसमर्पक ॥ ५॥
अमृताप्तिकरेशान कूर्मरूपाय ते नमः ।
जयादिदैत्यनाशार्थमादिसूकररूपधृक् ॥ ६॥
मह्युद्धारकृतोद्योगकोलरूपाय ते नमः ।
नारसिंहं वपुः कृत्वा महादैत्यं ददार यः ॥ ७॥
करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः ।
वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम् ॥ ८॥
बलिं सञ्छलयामास तस्मै वामनरूपिणे ।
दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥ ९॥
रेणुकागर्भजाताय जामदग्न्याय ते नमः ।
दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे ॥ १०॥
श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च ।
कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः ॥ ११॥
भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः ।
धर्मं संस्थापयामास पापं कृत्वा सुदूरतः ॥ १२॥
तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो ।
दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥ १३॥
बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः ।
म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥ १४॥
कल्किरूपं समादध्यौ देवदेवाय ते नमः ।
दशावतारास्ते देव भक्तानां रक्षणाय वै ॥ १५॥
दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् ।
जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥ १६॥
रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः ।
इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥ १७॥
प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः ।
तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥ १८॥
उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः ।
श्रीभगवानुवाच -
प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥ १९॥
भवतां नाशयिष्यामि दुःखं परमदुःसहम् ।
वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥ २०॥
ददामि परमप्रीतः स्तवस्यास्य प्रसादतः ।
य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥ २१॥
मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा ।
अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः ॥ २२॥
नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः ।
न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा ॥ २३॥
नाकालमरणं तस्य कदापि च भविष्यति ।
सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः ॥ २४॥
सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः ।
किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम् ॥ २५॥
एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः ।
देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम् ॥ २६॥
नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च ।
एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः ।
प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम् ॥ २७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे श्रीविष्णुना देवेभ्यो वरप्रदानं नाम पञ्चमोऽध्यायः ॥ १०.५॥
१०.६ षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् ।
सूत उवाच ।
श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि ।
प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे ॥ १॥
देवा ऊचुः ।
देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण ।
विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि ॥ २॥
तेन भानुविरोधेन सर्व एव महाविभो ।
अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि ॥ ३॥
श्रीभगवानुवाच ।
या कर्त्री सर्वजगतामाद्या च कुलवर्धनी ।
देवी भगवती तस्याः पूजकः परमद्युतिः ॥ ४॥
अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते ।
तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः ॥ ५॥
तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् ।
याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम् ॥ ६॥
सूत उवाच ।
एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः ।
प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम् ॥ ७॥
क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् ।
मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः ॥ ८॥
सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः ।
आगत्य मुनिवर्यस्य चाश्रमं परमं महत् ॥ ९॥
प्रशान्तश्वापदाकीर्णं नानापादपसङ्कुलम् ।
मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम् ॥ १०॥
महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि ।
मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि ॥ ११॥
समाश्रितं परमया लक्ष्म्या मुनिवरं तदा ।
दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः ॥ १२॥
देवा ऊचुः ।
जय द्विजगणाधीश मान्य पूज्य धरासुर ।
वातापीबलनाशाय नमस्ते कुम्भयोनये ॥ १३॥
लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव ।
सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते ॥ १४॥
यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभाञ्ज्यपि ।
तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते ॥ १५॥
काशपुष्पविकासाय लङ्कावासप्रियाय च ।
जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते ॥ १६॥
जय सर्वामरस्तव्य गुणराशे महामुने ।
वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते ॥ १७॥
प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः ।
दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते ॥ १८॥
इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः ।
प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः ॥ १९॥
मुनिरुवाच ।
भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः ।
लोकपाला महात्मानो निग्रहानुग्रहक्षमाः ॥ २०॥
योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् ।
सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः ॥ २१॥
वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् ।
मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम् ॥ २२॥
रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः ।
दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः ॥ २३॥
तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् ।
अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः ॥ २४॥
एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः ।
प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम् ॥ २५॥
महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः ।
त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम् ॥ २६॥
तद्वृद्धिं स्तम्भय मुने निजया तपसः श्रिया ।
भवतस्तेजसागस्त्य नूनं नम्रो भविष्यति ।
एतदेवास्मदीयं च कार्यं कर्तव्यमस्ति हि ॥ २७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे अगस्त्याश्वासनवर्णनं नाम षष्ठोऽध्यायः ॥ १०.६॥
१०.७ सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।
सूत उवाच ।
इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः ।
करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः ॥ १॥
अङ्गीकृते तदा कार्ये मुनिना कुम्भजन्मना ।
देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः ॥ २॥
ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः ।
पत्नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम् ॥ ३॥
अये नृपसुते प्राप्तो विघ्नोऽनर्थस्य कारकः ।
भानुमार्गनिरोधेन कृतो विन्ध्यमहीभृता ॥ ४॥
आज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् ।
काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः ॥ ५॥
अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ।
किन्तु विघ्ना भविष्यन्ति काश्यां निवसतां सताम् ॥ ६॥
सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये ।
इत्येवमुक्त्वा भार्यां तां मुनिः परमतापनः ॥ ७॥
मणिकर्ण्यां समाप्लुत्य दृष्ट्वा विश्वेश्वरं विभुम् ।
दण्डपाणिं समभ्यर्च्य कालराजं समागतः ॥ ८॥
कालराज महाबाहो भक्तानां भयहारक ।
कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः ॥ ९॥
त्वं काशीवासविघ्नानां नाशको भक्तरक्षकः ।
मां किं दूरयसे स्वामिन् भक्तार्तिविनिवारक ॥ १०॥
परापवादो नोक्तो मे न पैशुन्यं न चानृतम् ।
केन कर्मविपाकेन काश्या दूरं करोषि माम् ॥ ११॥
एवं प्रार्थ्य च तं कालनाथं कुम्भोद्भवो मुनिः ।
जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम् ॥ १२॥
तं दृष्ट्वाभ्यर्च्य सम्प्रार्थ्य ततः पुर्या विनिर्गतः ।
लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम् ॥ १३॥
काशीविरहसन्तप्तो महाभाग्यनिधिर्मुनिः ।
संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया ॥ १४॥
तपोयानमिवारुह्य निमिषार्धेन वै मुनिः ।
अग्रे ददर्श तं विन्ध्यं रुद्धाम्बरमथोन्नतम् ॥ १५॥
चकम्पे चाचलस्तूर्णं दृष्ट्वैवाग्रे स्थितं मुनिम् ।
गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव ॥ १६॥
दण्डवत्पतितो भूमौ साष्टाङ्गं भक्तिभावितः ।
तं दृष्ट्वा नम्रशिखरं विन्ध्यं नाम महागिरिम् ॥ १७॥
प्रसन्नवदनोऽगस्त्यो मुनिर्विन्ध्यमथाब्रवीत् ।
वत्सैवं तिष्ठ तावत्त्वं यावदागम्यते मया ॥ १८॥
अशक्तोऽहं गण्डशैलारोहणे तव पुत्रक ।
एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः ॥ १९॥
आरुह्य तस्य शिखराण्यवारुहदनुक्रमात् ।
गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि ॥ २०॥
मलयाचलमासाद्य तत्राश्रमपरोऽभवत् ।
सापि देवी तत्र विन्ध्यमागता मनुपूजिता ॥ २१॥
लोकेषु प्रथिता विन्ध्यवासिनीति च शौनक ।
सूत उवाच ।
एतच्चरित्रं परमं शत्रुनाशनमुत्तमम् ॥ २२॥
अगस्त्यविन्ध्यनगयोराख्यानं पापनाशनम् ।
राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम् ॥ २३॥
वैश्यानां धान्यधनदं शूद्राणां सुखदं तथा ।
धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥ २४॥
कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात् ।
एवं स्वायम्भुवमनुर्देवीमाराध्य भक्तितः ॥ २५॥
लेभे राज्यं धरायाश्च निजमन्वन्तराश्रयम् ।
इत्येतद्वर्णितं सौम्य मया मन्वन्तराश्रितम् ।
आद्यं चरित्रं श्रीदेव्याः किं पुनः कथयामि ते ॥ २६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे विन्ध्यवृद्ध्यवरोधवर्णनं नाम सप्तमोऽध्यायः ॥ १०.७॥
१०.८ अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् ।
शौनक उवाच ।
आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः ।
अन्येषामुद्भवं ब्रूहि मनूनां दिव्यतेजसाम् ॥ १॥
सूत उवाच ।
एवमाद्यस्य चोत्पत्तिं श्रुत्वा स्वायम्भुवस्य हि ।
अन्येषां क्रमशस्तेषां सम्भूतिं परिपृच्छति ॥ २॥
नारदः परमो ज्ञानी देवीतत्त्वार्थकोविदः ।
नारद उवाच ।
मनूनां मे समाख्याहि सूत्पत्तिं च सनातन ॥ ३॥
श्रीनारायण उवाच ।
प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने ।
देव्याराधनतो येन प्राप्तं राज्यमकण्टकम् ॥ ४॥
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
राज्यपालनकर्तारौ विख्यातौ वसुधातले ॥ ५॥
द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः ।
प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः ॥ ६॥
स स्वारोचिषनामापि कालिन्दीकूलतो मनुः ।
निवासं कल्पयामास सर्वसत्त्वप्रियङ्करः ॥ ७॥
जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः ।
देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः ॥ ८॥
एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः ।
देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः ॥ ९॥
ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता ।
ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम् ॥ १०॥
आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् ।
एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः ॥ ११॥
आधिपत्यं च लेभे स सर्वारातिविवर्जितम् ।
धर्मं संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः ॥ १२॥
भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् ।
तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ॥ १३॥
गङ्गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः ।
वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत् ॥ १४॥
स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः ।
राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम् ॥ १५॥
राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च ।
सोऽप्याजगाम पदवीं राजर्षिवरभाविताम् ॥ १६॥
चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः ।
नर्मदादक्षिणे कूले समाराध्य जगन्मयीम् ॥ १७॥
महेश्वरीं कामराजकूटजापपरायणः ।
वासन्ते शारदे काले नवरात्रसपर्यया ॥ १८॥
तोषयामास देवेशीं जलजाक्षीमनूपमाम् ।
तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः ॥ १९॥
अकण्टकं महद्राज्यं बुभुजे गतसाध्वसः ।
पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान् ॥ २०॥
उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् ।
पञ्चमो मनुराख्यातो रैवतस्तामसानुजः ॥ २१॥
कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् ।
बीजं परमवाग्दर्पदायकं साधकाश्रयम् ॥ २२॥
एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् ।
बलमप्रहतं लोके सर्वसिद्धिविधायकम् ॥ २३॥
सन्ततिं चिरकालीनां पुत्रपौत्रमयीं शुभाम् ।
धर्मान्व्यस्य व्यवस्थाप्य विषयानुपभुज्य च ।
जगामाप्रतिमः शूरो महेन्द्रालयमुत्तमम् ॥ २४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे मनूत्पत्तिवर्णनं नाम अष्टमोऽध्यायः ॥ १०.८॥
१०.९ नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां चित्रं देवीमाहाक्त्यमुत्तमम् ।
अङ्गपुत्रेण मनुना यथाऽऽप्तं राज्यमुत्तमम् ॥ १॥
अङ्गस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः ।
षष्ठः सुपुलहं नाम ब्रह्मर्षिं शरणं गतः ॥ २॥
ब्रह्मर्षे त्वामहं प्राप्तः शरणं प्रणतार्तिहन् ।
शाधि मां किङ्करंस्वामिन् येनाहं प्राप्नुयां श्रियम् ॥ ३॥
मेदिन्याश्चाधिपत्यं मे स्याद्यथावदखण्डितम् ।
अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम् ॥ ४॥
सन्ततिश्चिरकालीनाप्यखण्डं वय उत्तमम् ।
अन्तेऽपवर्गलाभश्च स्यात्तथोपदिशाद्य मे ॥ ५॥
इत्येवं वचनं तस्य मनोः कर्णपथेऽभवत् ।
प्रत्युवाच मुनिः श्रीमान् देव्याः संराधनं परम् ॥ ६॥
राजन्नाकर्णय वचो मम श्रोत्रसुखं महत् ।
शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत् ॥ ७॥
चाक्षुष उवाच ।
कीदृगाराधनं देव्यास्तस्याः परमपावनम् ।
केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि ॥ ८॥
मुनिरुवाच ।
राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम् ।
वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा ॥ ९॥
त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि ।
न बीजं वाग्भवादन्यदस्ति राजन्यनन्दन ॥ १०॥
जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम् ।
एतस्य जापात्पाद्मोऽपि सृष्टिकर्ता महाबलः ॥ ११॥
विष्णुर्यज्जपतः सृष्टिपालकः परिकीर्तितः ।
महेश्वरोऽपि संहर्ता यज्जपादभवन्नृप ॥ १२॥
लोकपालास्तथान्येऽपि निग्रहानुग्रहक्षमाः ।
यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः ॥ १३॥
एवं त्वमपि राजन्य महेशीं जगदम्बिकाम् ।
समाराध्य महर्द्धिं च लप्स्यसेऽचिरकालतः ॥ १४॥
एवं स मुनिवर्येण पुलहेन प्रबोधितः ।
अङ्गपुत्रस्तपस्तप्तुं जगाम विरजां नदीम् ॥ १५॥
स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः ।
बीजस्य पृथिवीपालः शीर्णपर्णाशनो विभुः ॥ १६॥
प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः ।
तृतीयेऽब्दे पवनभुक् तस्थौ स्थाणुरिवाचलः ॥ १७॥
एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः ।
वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता ॥ १८॥
तथा च देव्याः परमं मन्त्रं सज्जपतो रहः ।
प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी ॥ १९॥
तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी ।
उवाचाङ्गतनूजं तं प्रसन्ना ललिताक्षरम् ॥ २०॥
देव्युवाच ।
पृथिवीपाल ते यत्स्याच्चिन्तितं परमं वरम् ।
तद् ब्रूहि सम्प्रदास्यामि तपसा ते सुतोषिता ॥ २१॥
चाक्षुष उवाच ।
जानासि देवदेवेशि यत्प्रार्थ्यं मनसेप्सितम् ।
अन्तर्यामिस्वरूपेण तत्सर्वं देवपूजिते ॥ २२॥
तथापि मम भाग्येन जातं यत्तव दर्शनम् ।
ब्रवीमि देवि मे देहि राज्यं मन्वन्तराश्रितम् ॥ २३॥
देव्युवाच ।
दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम ।
पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः ॥ २४॥
राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः ।
एवं दत्त्वा परं देवी मनवे वरमुत्तमम् ॥ २५॥
जगामादर्शनं सद्यस्तेन भक्त्या च संस्तुता ।
सोऽपि राजा मनुः षष्ठः प्रसादात्तु तदाश्रयात् ॥ २६॥
बभूव मनुमान्योऽसौ सार्वभौमसुखैर्वृतः ।
पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः ॥ २७॥
देवीभक्ताश्च शूराश्च महाबलपराक्रमाः ।
अन्यत्र माननीयाश्च महाराज्यसुखास्पदाः ॥ २८॥
एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः ।
बभूव मनुवर्योऽसौ जगामान्ते शिवापदम् ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे चाक्षुषमनुवृत्तवर्णनं नाम नवमोऽध्यायः ॥ १०.९॥
१०.१० दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् ।
श्रीनारायण उवाच ।
सप्तमो मनुराख्यातो मनुर्वैवस्वतः प्रभुः ।
श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम् ॥ १॥
स च वैवस्वतमनुः परदेव्याः प्रसादतः ।
तथा तत्तपसा चैव जातो मन्वन्तराधिपः ॥ २॥
अष्टमो मनुराख्यातः सावर्णिः प्रथितः क्षितौ ।
स जन्मान्तर आराध्य देवीं तद्वरलाभतः ॥ ३॥
जातो मन्वन्तरपतिः सर्वराजन्यपूजितः ।
महापराक्रमी धीरो देवीभक्तिपरायणः ॥ ४॥
नारद उवाव
कथं जन्मान्तरे तेन मनुनाराधनं कृतम् ।
देव्याः पृथिव्युद्भवायास्तन्ममाख्यातुमर्हसि ॥ ५॥
श्रीनारायण उवाच ।
चैत्रवंशसमुद्भूतो राजा स्वारोचिषेऽन्तरे ।
सुरथो नाम विख्यातो महाबलपराक्रमः ॥ ६॥
गुणग्राही धनुर्धारी मान्यः श्रेष्ठः कविः कृती ।
धनसङ्ग्रहकर्ता च दाता याचकमण्डले ॥ ७॥
अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली ।
तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः ॥ ८॥
शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः ।
रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि ॥ ९॥
तदा स सुरथो नाम राजा सैन्यसमावृतः ।
निर्ययौ नगरात्स्वीयात्सर्वशत्रुनिबर्हणः ॥ १०॥
तदा स समरे राजा सुरथः शत्रुभिर्जितः ।
अमात्यैर्मन्त्रिभिश्चैव तस्य कोशगतं धनम् ॥ ११॥
हृतं सर्वमशेषेण तदातप्यत भूमिपः ।
निष्कासितश्च नगरात्स राजा परमद्युतिः ॥ १२॥
जगामाश्वमथारुह्य मृगयामिषतो वनम् ।
एकाकी विजनेऽरण्ये बभ्रामोद्भ्रान्तमानसः ॥ १३॥
मुनेः कस्यचिदागत्य स्वाश्रमं शान्तमानसः ।
प्रशान्तजन्तुसंयुक्तं मुनिशिष्यगणैर्युतम् ॥ १४॥
उवास कञ्चित्कालं स राजा परमशोभने ।
आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेधसः ॥ १५॥
एकदा स महीपालो मुनिं पूजावसानके ।
काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः ॥ १६॥
मुने मम मनोदुःखं बाधते चाधिसम्भवम् ।
ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च सन्ततम् ॥ १७॥
शत्रुभिर्निर्जितस्यापि हृतराज्यस्य सर्वशः ।
तथापि तेषु मनसि ममत्वं जायते स्फुटम् ॥ १८॥
किं करोमि क्व गच्छामि कथं शर्म लभे मुने ।
त्वदनुग्रहमाशासे वद वेदविदां वर ॥ १९॥
मुनिरुवाच ।
आकर्णय महीपाल महाश्चर्यकरं परम् ।
देवीमाहात्म्यमतुलं सर्वकामप्रदं परम् ॥ २०॥
जगन्मयी महामाया विष्णुब्रह्महरोद्भवा ।
सा बलादपहृत्यैव जन्तूनां मानसानि हि ॥ २१॥
मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप ।
सा सृजत्यखिलं विश्वं सा पालयति सर्वदा ॥ २२॥
संहारे हररूपेण संहरत्येव भूमिप ।
कामदात्री महामाया कालरात्रिर्दुरत्यया ॥ २३॥
विश्वसंहारिणी काली कमला कमलालया ।
तस्यां सर्वं जगज्जातं तस्यां विश्वं प्रतिष्ठितम् ॥ २४॥
लयमेष्यति तस्यां च तस्मात्सैव परात्परा ।
तस्या देव्याः प्रसादश्च यस्योपरि भवेन्नृप ।
स एव मोहमत्येति नान्यथा धरणीपते ॥ २५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां दशमस्कन्धे
सुरथनृपतिवृमत्तवर्णनं नाम दशमोऽध्यायः ॥ १०.१०॥
१०.११ एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।
राजोवाच ।
का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर ।
का मोहयति सत्त्वानि कारणं किं भवेद् द्विज ॥ १॥
कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका ।
सर्वमाख्याहि भूदेव कृपया मम सर्वतः ॥ २॥
मुनिरुवाच ।
राजन् देव्याः स्वरूपं ते वर्णयामि निशामय ।
यथा चोत्पतिता देवी येन वा सा जगन्मयी ॥ ३॥
यदा नारायणो देवो विश्वं संहृत्य योगराट् ।
आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत् ॥ ४॥
तदा प्रस्वापवशगो देवदेवो जनार्दनः ।
तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ ॥ ५॥
ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ ।
तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ ॥ ६॥
निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् ।
निद्रितो भगवानीशो दानवौ च दुरासदौ ॥ ७॥
किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् ।
एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः ॥ ८॥
बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी ।
यस्या वशं गतो देवो निद्रितो भगवान् हरिः ॥ ९॥
तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् ।
ब्रह्मोवाच ।
देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे ॥ १०॥
जगन्माये महामाये समुद्रशयने शिवे ।
त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः ॥ ११॥
कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा ।
व्यापिनी वशगा मान्या महानन्दैकशेवधिः ॥ १२॥
महनीया महाराध्या माया मधुमती मही ।
परापराणां सर्वेषां परमा त्वं प्रकीर्तिता ॥ १३॥
लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा ।
कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी ॥ १४॥
परमा परमेशानी परानन्दपरायणा ।
एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका ॥ १५॥
त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका ।
पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च ॥ १६॥
सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा ।
अष्टमी वसुनाथा च नवग्रहमयीश्वरी ॥ १७॥
नवरागकला रम्या नवसङ्ख्या नवेश्वरी ।
दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा ॥ १८॥
एकादशात्मिका चैकादशरुद्रनिषेविता ।
एकादशीतिथिप्रीता एकादशगणाधिपा ॥ १९॥
द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः ।
त्रयोदशात्मिका देवी त्रयोदशगणप्रिया ॥ २०॥
त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता ।
चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः ॥ २१॥
पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः ।
षोडशी षोडशभुजा षोडशेन्दुकलामयी ॥ २२॥
षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा ।
एवंरूपासि देवेशि निर्गुणे तामसोदये ॥ २३॥
त्वया गृहीतो भगवान्देवदेवो रमापतिः ।
एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ ॥ २४॥
एतयोश्च वधार्थाय देवेशं प्रतिबोधय ।
मुनिरुवाच ।
एवं स्तुता भगवती तामसी भगवत्प्रिया ॥ २५॥
देवदेवं तदा त्यक्त्वा मोहयामास दानवौ ।
तदैव भगवान्विष्णुः परमात्मा जगत्पतिः ॥ २६॥
प्रबोधमाप देवेशो ददृशे दानवोत्तमौ ।
तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम् ॥ २७॥
युद्धाय कृतसङ्कल्पौ जग्मतुः सन्निधिं हरेः ।
युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः ॥ २८॥
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ ॥ २९॥
व्रियतां वर इत्येवमूचतुः परमेश्वरम् ।
एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः ॥ ३०॥
वव्रे वध्याबुभौ मेऽद्य भवेतामिति निश्चितम् ।
तौ तदातिबलौ देवं पुनरेवोचतुर्हरिम् ॥ ३१॥
आवां जहि न यत्रोर्वी पयसा च परिप्लुता ।
तथेत्युक्त्वा भगवता गदाशङ्खभृता नृप ॥ ३२॥
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ।
एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप ॥ ३३॥
महाकाली महाराज सर्वयोगेश्वरेश्वरी ।
महालक्ष्म्यास्तथोत्पत्तिं निशामय महीपते ॥ ३४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां दशमस्कन्धे देवीमाहात्म्ये
मधुकैटभवधवर्णनं नाम एकादशोऽध्यायः ॥ १०.११॥
१०.१२ द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।
मुनिरुवाच ।
महिषीगर्भसम्भूतो महाबलपराक्रमः ।
देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १
सर्वेषां लोकपालानामधिकारान्महासुरः ।
बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम् ॥ २॥
ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः ।
ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ ३॥
यत्रोत्तमौ देवदेवौ संस्थितौ शङ्कराच्युतौ ।
वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ ४॥
देवानां चैव सर्वेषां स्थानानि तरसासुरः ।
विनिर्जित्य स्वयं भुङ्क्ते बलवीर्यमदोद्धतः ॥ ५॥
महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ ।
वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ ६॥
एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः ।
चकार कोपं सुबहुं तथा शङ्करपद्मजौ ॥ ७॥
एवं कोपयुतस्यास्य हरेरास्यान्महीपते ।
तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ ८॥
अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् ।
शरीरादुद्भवं प्राप हर्षयद्विबुधाधिपान् ॥ ९॥
यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत ।
केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ १०॥
सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः ।
वारुणेन ततो भूप जङ्घोरू सम्बभूवतुः ॥ ११॥
नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा ।
पादाङ्गुल्यो भानवेन वासवेन कराङ्गुली ॥ १२॥
कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा ।
प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ १३॥
पावकेन च सञ्जातं लोचनत्रितयं शुभम् ।
सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ १४॥
कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप ।
सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ १५॥
शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् ।
हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ १६॥
वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् ।
कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ १७॥
दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ ।
कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ १८॥
समुद्रो निर्मलं हारमजरे चाम्बरे नृप ।
चूडामणिं कुण्डले च कटकानि तथाङ्गदे ॥ १९॥
अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ ।
ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ २०॥
विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते ।
हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ २१॥
पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः ।
शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ २२॥
अन्यैरशेषविबुधैर्मानिता सा जगन्मयी ।
तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ २३॥
नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् ।
तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ २४॥
महिषस्य वधार्थाय महानादं चकार ह ।
तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ २५॥
आससाद जगद्धात्रीं सर्वसैन्यसमावृतः ।
ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ २६॥
शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् ।
चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ २७॥
बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः ।
एतैश्चान्यैरसङ्ख्यातैः सङ्ग्रामान्तकसन्निभैः ॥ २८॥
योधैः परिवृतो वीरो महिषो दानवोत्तमः ।
ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ २९॥
जघान योधान्समरे देवी महिषमाश्रितान् ।
ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ ३०॥
आससाद तदा देवीं तूर्णं मायाविशारदः ।
रूपान्तराणि सम्भेजे मायया दानवेश्वरः ॥ ३१॥
तानि तान्यस्य रूपाणि नाशयामास सा तदा ।
ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम् ॥ ३२॥
पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः ।
पातयामास महिषं देवी देवगणान्तकम् ॥ ३३॥
हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश ।
तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥ ३४॥
एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी ।
राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत् ॥ ३५॥
एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः ।
निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः ॥ ३६॥
तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप ।
हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात् ॥ ३७॥
देवा ऊचुः ।
जय देवेशि भक्तानामार्तिनाशनकोविदे ।
दानवान्तकरूपे त्वमजरामरणेऽनघे ॥ ३८॥
देवेशि भक्तिसुलभे महाबलपराक्रमे ।
विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे ॥ ३९॥
सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि ।
महाताण्डवसुप्रीते मोददायिनि माधवि ॥ ४०॥
प्रसीद देवदेवेशि प्रसीद करुणानिधे ।
निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे ॥ ४१॥
उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् ।
एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥ ४२॥
प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् ।
एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता ॥ ४३॥
कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत् ।
प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥ ४४॥
व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् ।
शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः ॥ ४५॥
त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना ।
तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः ॥ ४६॥
बाधते सततं देवि तिरस्कृत्य निजौजसा ।
देव्युवाच ।
देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च ॥ ४७॥
स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः ।
इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी ॥ ४८॥
जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् ।
देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम् ॥ ४९॥
चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः ।
दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम् ॥ ५०॥
कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ ।
देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद ॥ ५१॥
अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन ।
तस्याः सम्भोगयोग्यत्वमस्त्येव तव साम्प्रतम् ॥ ५२॥
तां समानय चार्वङ्गीं भुङ्क्ष्व सौख्यसमन्वितः ।
तादृशी नासुरी नारी न गन्धर्वी न दानवी ॥ ५३॥
न मानवी नापि देवी यादृशी सा मनोहरा ।
एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः ॥ ५४॥
दूतं सम्मेषयामास सुग्रीवं नाम दानवम् ।
स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥ ५५॥
वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः ।
देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः ॥ ५६॥
सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम् ।
तदुक्तं शृणु मे देवि रत्नभोक्ताहमव्ययः ॥ ५७॥
त्वं चापि रत्नभूतासि भज मां चारुलोचने ।
सर्वेषु यानि रत्नानि देवासुरनरेषु च ॥ ५८॥
तानि मय्येव सुभगे भज मां कामजै रसैः ।
देव्युवाच ।
सत्यं वदसि हे दूत दैत्यराजप्रियङ्करम् ॥ ५९॥
प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् ।
भवेत्तां शृणु मे दूत या प्रतिज्ञा मया कृता ॥ ६०॥
यो मे दर्पं विधुनुते यो मे बलमपोहति ।
यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥ ६१॥
तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः ।
गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि ॥ ६२॥
तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः ।
प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥ ६३॥
एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः ।
कथयामास शुम्भाय देव्या वृत्तान्तमादितः ॥ ६४॥
तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः ।
कोपमाहारयामास महान्तं दनुजाधिपः ॥ ६५॥
ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः ।
आदिदेश शृणु वचो धूम्राक्ष मम चादृतः ॥ ६६॥
तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम ।
समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥ ६७॥
इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः ।
षष्ट्यासुराणां सहितः सहस्राणां महाबलः ॥ ६८॥
तुहिनाचलमासाद्य देव्याः सविधमेव सः ।
उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे ॥ ६९॥
शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि ।
नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति ॥ ७०॥
इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा ।
उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल ॥ ७१॥
राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद ।
इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः ॥ ७२॥
भस्मसात्तं चकाराशु हुङ्कारेण महेश्वरी ।
ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥ ७३॥
दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् ।
तद्वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः ॥ ७४॥
चुकोप च महाकोपाद् भ्रुकुटीकुटिलाननः ।
ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥ ७५॥
चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः ।
ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः ॥ ७६॥
देवीं ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात् ।
तानापतत एवासौ जगद्धात्री मदोत्कटा ॥ ७७॥
शूलं गहीत्वा वेगेन पातयामास भूतले ।
ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ ॥ ७८॥
शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा ।
निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम् ॥ ७९॥
देव्याश्च वशगौ जातौ निहतौ च तयासुरौ ।
इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी ॥ ८०॥
विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा ।
एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः ॥ ८१॥
काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च ।
परा परेश्वरी देवी जगत्सर्गं करोति च ॥ ८२॥
पालनं चैव संहारं सैव देवी दधाति हि ।
तां समाश्रय देवेशीं जगन्मोहनिवारिणीम् ॥ ८३॥
महामायां पूज्यतमां सा कार्यं ते विधास्यति ।
श्रीनारायण उवाच ।
इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥ ८४॥
देवीं जगाम शरणं सर्वकामफलप्रदाम् ।
निराहारो यतात्मा च तन्मनाश्च समाहितः ॥ ८५॥
देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः ।
पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥ ८६॥
तदा प्रसन्ना देवेशी जगद्योनिः कृपावती ।
प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥ ८७॥
स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् ।
राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम् ॥ ८८॥
देव्युवाच ।
राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् ।
भविष्यति मया दत्तमस्मिन्नेव भवे तव ॥ ८९॥
अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् ।
भानोर्जन्म समासाद्य सावर्णिर्भविता भवान् ॥ ९०॥
तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् ।
सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान् ॥ ९१॥
एवं दत्त्वा वरं देवी जगामादर्शनं तदा ।
सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः ॥ ९२॥
एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च ।
एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात् ॥ ९३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां दशमस्कन्धे देवीचरित्रसहितं
सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १०.१२॥
१०.१३ त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् ।
यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १॥
आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः ।
करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ २॥
शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः ।
ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ ३॥
निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः ।
देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ ४॥
विविधैरुपचारैस्तां पूजयामासुरादृताः ।
ततश्च सर्व एवैते तपःसारा महाबलाः ॥ ५॥
जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः ।
धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ ६॥
ततस्तेषामादरेणाराधनं कुर्वतां सदा ।
विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ ७॥
बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः ।
मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ ८॥
दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् ।
एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ ९॥
प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः ।
तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ १०॥
तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः ।
राजपुत्रा ऊचुः ।
महेश्वरि जयेशानि परमे करुणालये ॥ ११॥
वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते ।
क्लीङ्कारविग्रहे देवि क्लीङ्कारप्रीतिदायिनि ॥ १२॥
कामराजमनोमोददायिनीश्वरतोषिणि ।
महामाये मोदपरे महासाम्राज्यदायिनि ॥ १३॥
विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि ।
एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ १४॥
प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् ।
देव्युवाच ।
राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ १५॥
निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् ।
वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ १६॥
प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् ।
राजपुत्रा ऊचुः ।
देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ १७॥
भोगा अव्याहता कामं यशस्तेजो मतिश्च ह ।
अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ १८॥
देव्युवाच ।
एवमस्तु च सर्वेषां भवतां यन्मनोगतम् ।
अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ १९॥
भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः ।
सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः ॥ २०॥
अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः ।
भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु ॥ २१॥
श्रीनारायण उवाच ।
एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका ।
अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ २२॥
ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् ।
राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ २३॥
सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले ।
वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ २४॥
भवान्तरे क्रमेणैव सावर्णिपदभागिनः ।
प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ २५॥
अव्याहतबलो देव्याः प्रसादादभवद्विभुः ।
द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ २६॥
बभूव मन्वन्तरपो महादेवीप्रसादतः ।
तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ २७॥
एकादशो महोत्साहस्तपसा स्वेन भावितः ।
चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ २८॥
देवीसमाराधनेन जातो मन्वन्तरेश्वरः ।
पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ २९॥
महाबलो महासत्त्वो बभूव जगदीश्वरः ।
षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ ३०॥
बभूव देवीवरतो जगतां प्रथितः प्रभुः ।
चतुर्दशैते मनवो महातेजोबलैर्युताः ॥ ३१॥
देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः ।
महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥ ३२॥
नारद उवाच ।
केयं सा भ्रामरी देवी कथं जाता किमात्मिका ।
तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥ ३३॥
न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् ।
अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥ ३४॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् ।
अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥ ३५॥
यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे ।
निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥ ३६॥
पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः ।
पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥ ३७॥
स देवाञ्जेतुकामश्च चकार परमं तपः ।
पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति ॥ ३८॥
गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले ।
पक्वपर्णाशनो योगी सन्निरुध्य मरुद्गणम् ॥ ३९॥
गायत्रीजपसंसक्तः सकामस्तमसा युतः ।
दशवर्षसहस्राणि ततो वारिकणाशनः ॥ ४०॥
दशवर्षसहस्राणि ततः पवनभोजनः ।
दशवर्षसहस्राणि निराहारोऽभवत्ततः ॥ ४१॥
एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः ।
ददाह जगतीं सर्वां तदद्भुतमिवाभवत् ॥ ४२॥
किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे ।
सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः ॥ ४३॥
विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः ।
गायत्रीसहितो हंससमारूढो ययौ मुदा ॥ ४४॥
प्राणमात्रावशिष्टं तं धमनीशतसङ्कुलम् ।
शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥ ४५॥
ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् ।
वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥ ४६॥
श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् ।
श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः ॥ ४७॥
उन्मीलिताक्षः पुरतो ददर्श जलजोद्भवम् ।
गायत्रीसहितं देवं चतुर्वेदसमन्वितम् ॥ ४८॥
अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् ।
दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः ॥ ४९॥
वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि ।
श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम् ॥ ५०॥
ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः ।
तदान्येषां तु का वार्ता मरणे दानवोत्तम ॥ ५१॥
वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया ।
नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित् ॥ ५२॥
इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् ।
न युद्धे न च शस्त्रास्त्रान्न पुम्भ्यो नापि योषितः ॥ ५३॥
द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा ।
भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो ॥ ५४॥
बलं च विपुलं देहि येन देवजयो भवेत् ।
इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ ५५॥
दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् ।
ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ ५६॥
दैत्यानाकारयामास ब्रह्मणो वरदर्पितः ।
आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥ ५७॥
दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् ।
दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥ ५८॥
देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति ।
ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्करालयम् ॥ ५९॥
विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् ।
एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥ ६०॥
अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् ।
सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक् ॥ ६१॥
स्वयं चकार तपसा नानारूपधरो मुने ।
स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ॥ ६२॥
शशंसुः शङ्करं देवाः स्वस्वदुःखं पृथक्पृथक् ।
महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम् ॥ ६३॥
न युद्धेन च शस्त्रास्त्रैर्न पुम्भ्यो नापि योषितः ।
द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा ॥ ६४॥
मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः ।
इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः ॥ ६५॥
एतस्मिन्समये तत्र वागभूदशरीरिणी ।
भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति ॥ ६६॥
गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् ।
मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी ॥ ६७॥
श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः ।
बृहस्पतिं समाहूय वचनं प्राह देवराट् ॥ ६८॥
गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति ।
यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥ ६९॥
अस्माभिः परमेशानी सेव्यते ध्यानयोगतः ।
प्रसन्ना सा भगवती साहाय्यं ते करिष्यति ॥ ७०॥
इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् ।
सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना ॥ ७१॥
तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः ।
मायाबीजजपासक्ता देवीमखपरायणाः ॥ ७२॥
बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ ।
आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट् ॥ ७३॥
मुने कुत्रागमः कस्मात्किमर्थमिति मे वद ।
नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च ॥ ७४॥
इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः ।
अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ ७५॥
तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद ।
इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥ ७६॥
तत्याज परमं मन्त्रमभिमानेन सत्तम ।
गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह ॥ ७७॥
कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः ।
ततो वृत्तान्तमखिलं कथयामास वज्रिणे ॥ ७८॥
सन्तुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् ।
एवं बहुगते काले कस्मिंश्चित्समये मुने ॥ ७९॥
प्रादुरासीज्जगन्माता जगन्मङ्गलकारिणी ।
कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी ॥ ८०॥
चित्रानुलेपना देवी चित्रवासोयुगान्विता ।
विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका ॥ ८१॥
वराभयकरा शान्ता करुणामृतसागरा ।
नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ॥ ८२॥
भ्रामरीभिर्विचित्राभिरसङ्ख्याभिः समावृता ।
भ्रमरैर्गायमानैश्च ह्रीङ्कारमनुमन्वहम् ॥ ८३॥
समन्ततः परिवृता कोटिकोटिभिरम्बिका ।
सर्वशृङ्गारवेषाढ्या सर्ववेदप्रशंसिता ॥ ८४॥
सर्वात्मिका सर्वमयी सर्वमङ्गलरूपिणी ।
सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा ॥ ८५॥
दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः ।
तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम् ॥ ८६॥
देवा ऊचुः ।
नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि ।
नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥ ८७॥
सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः ।
नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥ ८८॥
दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले ।
निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥ ८९॥
नमः श्रीकालिके मातर्नमो नीलसरस्वति ।
उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥ ९०॥
नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि ।
नमो भैरवि मातङ्गि धूमावति नमो नमः ॥ ९१॥
छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके ।
नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥ ९२॥
निशुम्भशुम्भदलनि रक्तबीजविनाशिनि ।
धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥ ९३॥
चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे ।
नमस्ते विजये गङ्गे शारदे विकचानने ॥ ९४॥
पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः ।
प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥ ९५॥
विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः ।
देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥ ९६॥
गायत्रि वरदे देवि सावित्रि च सरस्वति ।
नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥ ९७॥
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥ ९८॥
भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता ।
तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥ ९९॥
नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके ।
नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥ १००॥
कृपां कुरु महादेवि मणिद्वीपाधिवासिनि ।
अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥ १०१॥
जय देवि जगन्मातर्जय देवि परात्परे ।
जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥ १०२॥
कल्याणगुणरत्नानामाकरे भुवनेश्वरि ।
प्रसीद परमेशानि प्रसीद जगतोरणे ॥ १०३॥
श्रीनारायण उवाच ।
इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः ।
उवाच जगदम्बा सा मत्तकोकिलभाषिणी ॥ १०४॥
देव्युवाच ।
प्रसन्नाहं सदा देवा वरदेशशिखामणिः ।
ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम् ॥ १०५॥
देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् ।
दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम् ॥ १०६॥
देवब्राह्मणवेदानां हेलनं नाशनं तथा ।
स्थानभ्रंशं सुराणां च कथयामासुरादृताः ॥ १०७॥
ब्रह्मणो वरदानं च यथावत्ते समूचिरे ।
श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा ॥ १०८॥
प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा ।
पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा ॥ ११०॥
जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् ।
मटचीयूथवत्तेषां समुदायस्तु निर्गतः ॥ ११०॥
तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् ।
दिवि पर्वतशृङ्गेषु द्रुमेषु विपिनेष्वपि ॥ १११॥
भ्रमरा एव सञ्जातास्तदद्भुतमिवाभवत् ।
ते सर्वे दैत्यवक्षांसि दारयामासुरुद्गताः ॥ ११२॥
नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः ।
उपायो न च शस्त्राणां तथास्त्राणां तदाभवत् ॥ ११३॥
न युद्धं न च सम्भाषा केवलं मरणं खलु ।
यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा ॥ ११४॥
तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः ।
परस्परं समाचारो न कस्याप्यभवत्तदा ॥ ११५॥
क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्गवाः ।
कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः ॥ ११६॥
आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे ।
किं चित्रं जगदम्बाया यस्या मायेयमीदृशी ॥ ११७॥
ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः ।
निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम् ॥ ११८॥
नानोपचारैर्विविधैर्नानोपायनपाणयः ।
जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥ ११९॥
दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।
पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा ॥ १२०॥
मृदङ्गमुरजावीणाढक्काडमरुनिःस्वनैः ।
घण्टाशङ्खनिनादैश्च व्याप्तमासीज्जगत्त्रयम् ॥ १२१॥
नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा ।
जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥ १२२॥
ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् ।
स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम् ॥ १२३॥
पश्यतामेव देवानामन्तर्धानं गता ततः ।
इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥ १२४॥
पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ।
श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥ १२५॥
एवं मनूनां सर्वेषां चरितं पापनाशनम् ।
देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम् ॥ १२६॥
यश्चैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः ।
सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥ १२७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां दशमस्कन्धे
भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १०.१३॥
॥ इति श्रीमद्देवीभागवते महापुराणे दशमस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide