१२ श्रीमद्देवीभागवतमहापुराणे द्वादशः स्कन्धः

१२ श्रीमद्देवीभागवतमहापुराणे द्वादशः स्कन्धः

१२.१ प्रथमोऽध्यायः । गायत्रीविचारः ।

नारद उवाच । सदाचारविधिर्देव भवता वर्णितः प्रभो । तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम् ॥ १॥ श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् । व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते ॥ २॥ दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च । तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम् ॥ ३॥ देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् । तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर ॥ ४॥ सदाचारविधौ यश्च गायत्रीविधिरीरितः । तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम् ॥ ५॥ ये गायत्रीगता वर्णास्तत्त्वसङ्ख्यास्त्वयेरिताः । तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने ॥ ६॥ तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो । महत्कौतूहलं मे च मानसे परिवर्तते ॥ ७॥ श्रीनारायणाय उवाच । कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा । गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विजः ॥ ८॥ सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च । सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने ॥ ९॥ न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् । ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम् ॥ १०॥ यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः । हरिशङ्करकञ्जोत्थसूर्यचन्द्रहुताशनैः ॥ ११॥ अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा । छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि ॥ १२॥ वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः । विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १३॥ याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः । गौतमो मुद्गलश्चैव वेदव्यासश्च लोमशः ॥ १४॥ अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा । दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥ १५॥ इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ १६॥ त्रिष्टुभं जगती चैव तथातिजगती मता । शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥ १७॥ विराट्प्रस्तारपङ्क्तिश्च कृतिः प्रकृतिराकृतिः । विकृतिः सकृतिश्चैवाक्षरपङ्क्तिस्तथैव च ॥ १८॥ भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् । इत्येतानि च छन्दांसि कीर्तितानि महामुने ॥ १९॥ दैवतानि श‍ृणु प्राज्ञ तेषामेवानुपूर्वशः । आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥ २०॥ तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् । सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम् ॥ २१॥ बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् । नवमं भगदैवत्यं दशमं चार्यमेश्वरम् ॥ २२॥ गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् । पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम् ॥ २३॥ वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् । मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥ २४॥ अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् । वैष्णवं विंशतितमं वसुदैवतमीरितम् ॥ २५॥ एकविंशतिसङ्ख्याकं द्वाविंशं रुद्रदैवतम् । त्रयोविंशं च कौबेरमाश्विनं तत्त्वसङ्ख्यकम् ॥ २६॥ चतुर्विंशतिवर्णानां देवतानां च सङ्ग्रहः । कथितः परमश्रेष्ठो महापापैकशोधनः । यदाकर्णनमात्रेण साङ्गं जाप्यफलं मुने ॥ २७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १२.१॥

१२.२ द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।

श्रीनारायण उवाच । वर्णानां शक्तयः काश्च ताः श‍ृणुष्व महामुने । वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥ १॥ प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती । विद्रुमा च विशालेशा व्यापिनी विमला तथा ॥ २॥ तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा । पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता ॥ ३॥ चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः । अतः परं वर्णवर्णान्व्याहरामि यथातथम् ॥ ४॥ चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा । स्फटिकाकारकं चैव पद्मपुष्पसमप्रभम् ॥ ५॥ तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् । प्रवालपद्यपत्राभं पद्मरागसमप्रभम् ॥ ६॥ इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् । अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम् ॥ ७॥ हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् । शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा ॥ ८॥ केतकीपुष्पसङ्काशं मल्लिकाकुसुमप्रभम् । करवीरश्च इत्येते क्रमेण परिकीर्तिताः ॥ ९॥ वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः । पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ १०॥ गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च । उपस्थं पायुपादं च पाणी वागपि च क्रमात् ॥ ११॥ प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् । प्राणोऽपानस्तथा व्यानः समानश्च ततः परम् ॥ १२॥ तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु । अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु ॥ १३॥ सुमुखं सम्पुटं चैव विततं विस्मृतं तथा । द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥ १४॥ षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १५॥ विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ १६॥ त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्गकम् । अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः ॥ १७॥ इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने । महापापक्षयकराः कीर्तिदाः कान्तिदा मुने ॥ १८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादस्कन्धे गायत्रिशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ १२.२॥

१२.३ तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् ।

नारद उवाच । स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो । चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ॥ १॥ मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् । देहश्च देवतारूपो मन्त्ररूपो विशेषतः ॥ २॥ कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम् । ऋषिश्छन्दोऽधिदैवं च ध्यानं च विधिवद्विभो ॥ ३॥ श्रीनारायण उवाच । अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा । पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४॥ सर्वान्कामानवाप्नोति देवीरूपश्च जायते । गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः ॥ ५॥ ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद । ब्रह्मरूपा देवतोक्ता गायत्री परमा कला ॥ ६॥ तद्बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः । कीलकं च धियः प्रोक्तं मोक्षार्थे विनियोजनम् ॥ ७॥ चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णेः शिरः स्मृतम् । चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम् ॥ ८॥ चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् । अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम् ॥ ९॥ मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १०॥ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे । ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती ॥ ११॥ पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी । यातुधानी दिशं रक्षेद्यातुधानभयङ्करी ॥ १२॥ पावमानी दिशं रक्षेत्पवमानविलासिनी । दिशं रौद्री च मे पातु रुद्राणी रुद्ररूपिणी ॥ १३॥ ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेत्सर्वाङ्गं भुवनेश्वरी ॥ १४॥ तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् । वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥ १५॥ देवस्य मे तद्धृदयं धीमहीति च गल्लयोः । धियः पदं च मे नेत्रे यः पदं मे ललाटकम् ॥ १६॥ नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् । तत्पदं पातु मूर्धानं सकारः पातु भालकम् ॥ १७॥ चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः । नासापुटं वकारार्णो रेकारस्तु मुखे तथा ॥ १८॥ णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् । आस्यमध्ये भकारार्णो र्गोकारश्चिबुके तथा ॥ १९॥ देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् । स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ २०॥ मकारो हृदयं रक्षेद्धिकार उदरे तथा । धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥ २१॥ गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् । प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम् ॥ २२॥ दकारं गुल्फदेशे तु यकारः पदयुग्मकम् । तकारव्यञ्जनं चैव सर्वाङ्गं मे सदावतु ॥ २३॥ इदं तु कवचं दिव्यं बाधाशतविनाशनम् । चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् ॥ २४॥ मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति । पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ॥ २५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीमन्त्रकवचवर्णनं नाम तृतीयोऽध्यायः ॥ १२.३॥

१२.४ चतुर्थोऽध्यायः । गायत्रीहृदयम् ।

नारद उवाच । भगवन् देवदेवेश भूतभव्यजगत्प्रभो । कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥ अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् । यद्धारणाद्भवेत्युण्यं गायत्रीजपतोऽखिलम् ॥ २॥ श्रीनारायण उवाच । देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् । तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३॥ विराड्रूपां महादेवीं गायत्रीं वेदमातरम् । ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४॥ पिण्डब्रह्माण्डयोरैक्याद्भावयेत्स्वतनौ तथा । देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥ नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः । ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥ अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् । गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥ गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी । पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥ न्यासः द्यौर्मूर्ध्नि दैवतं । दन्तपङ्क्तावश्विनौ । उभे सन्ध्ये चोष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये पर्जन्यः । आकाशमुदरं । नाभावन्तरिक्षं । कट्यो- रिन्द्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलास- मलये ऊरू । विश्वेदेवा जान्वोः । जङ्घायां कौशिकः । गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पत- योऽङ्गुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि । अस्थिषु ग्रहाः । असृङ्मांसमृतवः । संवत्सरा वै निमिषम् । अहोरात्रावादित्यश्चन्द्रमाः । प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये । ॐ तत्सवितुर्वरेण्याय नमः । ॐ तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः । तत्प्रातरादित्यप्रतिष्ठायै नमः । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायम्प्रातरधीयानो अपापो भवति । सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति । अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । अभोज्यभोजनापूतो भवति । अचोष्यचोष- णात्पूतो भवति । असाध्यसाधनात्पूतो भवति । दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो भवति । पङ्क्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो भवति । अथाब्रह्मचारी ब्रह्मचारी भवति । अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशत- सहस्रगायत्र्या जप्यानि फलानि भवन्ति । अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति । ब्रह्मलोके महीयते । इत्याह भगवान् श्रीनारायणः । इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ १२.४॥

१२.५ पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् ।

नारद उवाव भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥ श्रीनारायण उवाच । आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २॥ त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती । बाह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३॥ प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४॥ हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५॥ यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते । सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६॥ रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ७॥ सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ ८॥ आनन्दजननी दुर्गा दशधा परिपढ्यते । वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९॥ गरिष्ठा च वरार्हा च वरारोहा च सप्तमी । नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १०॥ भागीरथी मर्त्यलोके पाताले भोगवत्यपि । त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ ११॥ भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी । भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ १२॥ महर्लोके महासिद्धिर्जनलोके जनेत्यपि । तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३॥ कमला विष्णुलोके च गायत्री ब्रह्मलोकदा । रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी । १४॥ अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे । साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५॥ ततः परा परा शक्तिः परमा त्वं हि गीयसे । इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ १६॥ गङ्गा च यमुना चैव विपाशा च सरस्वती । सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥ १७॥ गोदावरी शतद्रूश्च कावेरी देवलोकगा । कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८॥ गण्डकी तापिनी तोया गोमती वेत्रवत्यपि । इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥ १९॥ गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च । अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २०॥ नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१॥ तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा ॥ २२॥ शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३॥ तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते । इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४॥ महापापप्रशमनं महासिद्धिविधायकम् । य इदं कीर्तयेत्स्तोत्रं सन्ध्याकाले समाहितः ॥ २५॥ अपुत्रः प्राप्नुयात्युत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६॥ भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७॥ यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ २८॥ श‍ृणुयाद्योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीगायत्रीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ १२.५॥

१२.६ षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् ।

नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १॥ सर्वपापहरं देव येन विद्या प्रवर्तते । केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २॥ ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् । ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३॥ वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः । श्रीनारायण उवाच । साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४॥ श‍ृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् । नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५॥ सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते । अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६॥ छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता । हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७॥ अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः । अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८॥ रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९॥ अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी । अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १०॥ अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता । अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११॥ अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी । अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२॥ अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा । अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३॥ अजा चाजमुखावासाप्यरविन्दनिभानना । अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४॥ असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता । आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५॥ आदित्यपदवीचाराप्यादित्यपरिसेविता । आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६॥ आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता । आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७॥ आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी । आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८॥ इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा । इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९॥ इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी । इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ २०॥ इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता । उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१॥ उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा । ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२॥ ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी । ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ २३॥ ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी । ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४॥ ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी । लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५॥ एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता । ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६॥ ओङ्कारा ह्योषधी चोता चोतप्रोतनिवासिनी । और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७॥ अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी । कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८॥ कमला कामिनी कान्ता कामदा कालकण्ठिनी । करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९॥ कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी । कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३०॥ कालजिह्वा करालास्या कालिका कालरूपिणी । कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१॥ कौशिकी कमलाकारा कामचारप्रभञ्जिनी । कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥ ३२॥ केसरी केशवनुता कदम्बकुसुमप्रिया । कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३॥ काममाता क्रतुमती कामरूपा कृपावती । कुमारी कुण्डनिलया किराती कीरवाहना । ३४॥ कैकेयी कोकिलालापा केतकी कुसुमप्रिया । कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५॥ कलहंसगतिः कक्षा कृतकौतुकमङ्गला । कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः ॥ ३६॥ कर्पूरलेपना कृष्णा कपिला कुहराश्रया । कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७॥ खड्गखेटकरा खर्वा खेचरी खगवाहना । खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८॥ खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी । खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९॥ गायत्री गोमती गीता गान्धारी गानलोलुपा । गौतमी गामिनी गाथा गन्धर्वाप्सरसेविता ॥ ४०॥ गोविन्दचरणाक्रान्ता गुणत्रयविभाविता । गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१॥ गुहावासा गुणवती गुरुपापप्रणाशिनी । गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२॥ गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा । गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३॥ गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी । घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४॥ घृणिमन्त्रमयी घोषा घनसम्पातदायिनी । घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ ४५॥ घनारिमण्डला घूर्णा घृताची घनवेगिनी । ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६॥ चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता । चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७॥ चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला । चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८॥ चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका । चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९॥ चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता । चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५०॥ चारुहोमप्रिया चार्वाचरिता चक्रबाहुका । चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१॥ चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी । चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२॥ चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी । छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३॥ छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी । छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४॥ छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया । जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५॥ जाह्नवी जटिला जेत्री जरामरणवर्जिता । जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६॥ जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया । जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७॥ जनित्री जह्नुतनया जगत्त्रयहितैषिणी । ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८॥ जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता । ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ ५९॥ जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला । झिञ्झिका झणनिर्घोषा झञ्झामारुतवेगिनी ॥ ६०॥ झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता । टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१॥ टङ्कीगणकृताघोषा टङ्कनीयमहोरसा । टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२॥ डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता । डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३॥ डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा । ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४॥ नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी । त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५॥ त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी । तरुणादित्यसङ्काशा तामसी तुहिना तुरा ॥ ६६॥ त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना । त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७॥ तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी । तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८॥ त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी । ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९॥ तन्तुजालसमायुक्ता तारहारावलिप्रिया । तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७०॥ तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता । तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी ॥ ७१॥ त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः । तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा ॥ ७२॥ त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी । तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३॥ तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः । थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४॥ दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी । देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५॥ देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा । दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६॥ दण्डकारण्यनिलया दण्डिनी देवपूजिता । देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७॥ दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी । धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८॥ धरन्धरा धराधारा धनदा धान्यदोहिनी । धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९॥ धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा । धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८०॥ नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका । नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१॥ नारायणप्रिया नित्या निर्मला निर्गुणा निधिः । निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२॥ नादबिन्दुकलातीता नादबिन्दुकलात्मिका । नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३॥ नरकक्लेशशमनी नारायणपदोद्भवा । निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४॥ नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका । नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५॥ नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी । नवनीतप्रिया नारी नीलजीमूतनिःस्वना ॥ ८६॥ निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी । नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७॥ नवजाम्बूनदप्रख्या नागलोकाधिदेवता । नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८॥ निमग्नारक्तनयना निर्घातसमनिःस्वना । नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९॥ पार्वती परमोदारा परब्रह्मात्मिका परा । पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९०॥ परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी । पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१॥ पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा । पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२॥ पावनी पादसहिता पेशला पवनाशिनी । प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३॥ पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा । पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४॥ पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी । पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५॥ पतिव्रता पवित्राङ्गी पुष्पहासपरायणा । प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६॥ पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी । पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७॥ प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा । पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८॥ पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी । प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९॥ प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः । पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ १००॥ परमाया परज्योतिः परप्रीतिः परागतिः । पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ १०१॥ पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी । पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२॥ पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया । पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३॥ पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता । पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४॥ पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा । पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५॥ पञ्चमात्रात्मिका पृध्वी पथिका पृथुदोहिनी । पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६॥ पुण्यप्रजा पारदात्री परमार्गैकगोचरा । प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७॥ फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः । फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८॥ बालबाला बहुमता बालातपनिभांशुका । बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ ११२॥ बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया । बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११०॥ बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता । बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११॥ बालाकिनी बिलाहारा बिलवासा बहूदका । बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२॥ बहुबाहुयुता बीजरूपिणी बहुरूपिणी । बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३॥ बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी । बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४॥ वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा । बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५॥ बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा । बाला बाणासनवती वडवानलवेगिनी ॥ ११६॥ ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी । भवानी भीषणवती भाविनी भयहारिणी ॥ ११७॥ भद्रकाली भुजङ्गाक्षी भारती भारताशया । भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८॥ भामिनी भोगनिरता भद्रदा भूरिविक्रमा । भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९॥ भागीरथी भोगवती भवनस्था भिषग्वरा । भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२०॥ भर्गात्मिका भीमवती भवबन्धविमोचिनी । भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१॥ भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी । माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२॥ महादेवी महाभागा मालिनी मीनलोचना । मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३॥ मानवी मधुसम्भूता मिथिलापुरवासिनी । मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४॥ मन्दोदरी महामाया मैथिली मसृणप्रिया । महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५॥ माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता । मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६॥ मधुरद्राविणी मुद्रा मलया मलयान्विता । मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७॥ महामारी महावीरा महाश्यामा मनुस्तुता । मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८॥ मूलाधारस्थिता मुग्धा मणिपूरकवासिनी । मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९॥ योगासना योगगम्या योगा यौवनकाश्रया । यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३०॥ यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी । यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१॥ यकारादिहकारान्ता याजुषी यज्ञरूपिणी । यामिनी योगनिरता यातुधानभयङ्करी ॥ १३२॥ रुक्मिणी रमणी रामा रेवती रेणुका रतिः । रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३॥ रोहिणी राज्यदा रेवा रमा राजीवलोचना । राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४॥ रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५॥ रमणीययुगाधारा राजिताखिलभूतला । रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६॥ रोगेशी रोगशमनी राविणी रोमहर्षिणी । रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७॥ रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा । लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८॥ लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता । लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९॥ वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः । वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४०॥ विनता व्योममध्यस्था वारिजासनसंस्थिता । वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१॥ वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया । विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२॥ वामदेवप्रिया वेला वज्रिणी वसुदोहिनी । वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३॥ वासवी वामजननी वैकुण्ठनिलया वरा । व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४॥ शाकम्भरी शिवा शान्ता शारदा शरणागतिः । शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५॥ शोभावती शिवाकारा शङ्करार्धशरीरिणी । शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६॥ शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७॥ श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी । शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८॥ षडाधारस्थिता देवी षण्मुखप्रियकारिणी । षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥ १४९॥ सरस्वती सदाधारा सर्वमङ्गलकारिणी । सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५०॥ सर्वावासा सदानन्दा सुस्तनी सागराम्बरा । सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१॥ सप्तर्षिमण्डलगता सोममण्डलवासिनी । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२॥ सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३॥ हिरण्यवर्णा हरिणी ह्रीङ्कारी हंसवाहिनी । क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४॥ गायत्री चैव सावित्री पार्वती च सरस्वती । वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५॥ इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद । पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६॥ एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि । अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७॥ जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः । यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८॥ सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै । भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९॥ यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६०॥ इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् । पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१॥ मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् । रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२॥ बह्महत्यासुरापानसुवर्णस्तेयिनो नराः । गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३॥ असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः । पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ १६४॥ इदं रहस्यममलं मयोक्तं पद्मजोद्भव । ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ १६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीसहस्रनामस्तोत्रवर्णनं नाम षष्ठोऽध्यायः ॥ १२.६॥

१२.७ सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् ।

नारद उवाच । श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् । स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम् ॥ १॥ अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् । विना येन न सिध्येत देवीमन्त्रेऽधिकारिता ॥ २॥ ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च । सामान्यविधिना सर्वं विस्तरेण वद प्रभो ॥ ३॥ श्रीनारायण उवाच । श‍ृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवाग्निगुरुपूजादावधिकारो यया भवेत् ॥ ४॥ दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या । सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः ॥ ५॥ अवश्यं सा तु कर्तव्या यतो बहुफला मता । गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ ॥ ६॥ गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च । स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च ॥ ७॥ कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् । यागमण्डपमासाद्य विशेत्तत्रासने वरे ॥ ८॥ आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् । सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत् ॥ ९॥ वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् । प्रोक्षयेद्द्वारमखिलं ततः पूजां समाचरेत् ॥ १०॥ ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् । सरस्वतीं नाममन्त्रैः पूजयेद्गन्धपुष्पकैः ॥ ११॥ द्वारदक्षिणशाखायां गङ्गां विघ्नेशमर्चयेत् । द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम् ॥ १२॥ देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः । सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः ॥ १३॥ दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु । अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान् ॥ १४ वामशाखां स्मृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा । प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च ॥ १५॥ तेन चार्घ्यजलेनापि नैरृत्यां दिशि पूजयेत् । वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः ॥ १६॥ ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च । तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः ॥ १७॥ सर्वं देवीमयं चेदं भावयेन्मनसा किल । मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छरणुना ॥ १८॥ शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् । हुम्मन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः ॥ १९॥ धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः । मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः ॥ २०॥ ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने । पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत् ॥ २१॥ विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् । प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम् ॥ २२॥ भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना । ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने ॥ २३॥ न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् । देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः ॥ २४॥ शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः । दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः ॥ २५॥ प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् । मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते ॥ २६॥ ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् । एवमेव तु सर्वेषु न्यसेक्त्यानेषु वै मुने ॥ २७॥ मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः । अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात् ॥ २८॥ नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः । प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम् ॥ २९॥ वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् । स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः ॥ ३०॥ ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् । दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च ॥ ३१॥ वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् । ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम् ॥ ३२॥ वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः । नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत् ॥ ३३॥ पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम । अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः ॥ ३४॥ मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले । प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान् ॥ ३५॥ न्यसेत्कलायुतान्मन्त्री सङ्क्षेपात्ता वदाम्यहम् । सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः ॥ ३६॥ दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् । सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि ॥ ३७॥ आत्मानमन्तरात्मानं परमात्मानमेव च । ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना ॥ ३८॥ अमुकासनाय नम इति मन्त्रेण साधकः । आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम् ॥ ३९॥ कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् । मानसैरुपचारैश्च पूजयेत्तां यथाविधि ॥ ४०॥ मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः । याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते ॥ ४१॥ श्रीनारायण उवाच । ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् । चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत् ॥ ४२॥ मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् । षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः ॥ ४३॥ अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् । आधारपात्रमादाय शङ्खस्य मुनिसत्तम ॥ ४४॥ अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले । मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने ॥ ४५॥ अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि । मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः ॥ ४६॥ आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु । दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः ॥ ४७॥ ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् । स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन् ॥ ४८॥ अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने । अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः ॥ ४९॥ शं शङ्खाय पदं प्रोच्य नम इत्येतदुच्चरेत् । प्रोक्षयेत्तेन तं शङ्खं तस्मिन्द्वादश पूजयेत् ॥ ५०॥ सूर्यस्य द्वादश कलास्तपन्याद्या यथाक्रमम् । विलोममातृकां प्रोच्य मूलमन्त्रं विलोमकम् ॥ ५१॥ जलैरापूरयेच्छङ्खं तत्र चेन्दोः कलां न्यसेत् । ॐ सोममण्डलायोक्त्वान्ते षोडशकलात्मने ॥ ५२॥ अमुकार्घ्यामृतायेति हृन्मन्त्रान्तो मनुः स्मृतः । पूजयेन्मनुना तेन जलं तु सृणिमुद्रया ॥ ५३॥ तीर्थान्यावाह्य तत्रैवाप्यष्टकृत्वो जपेन्मनुम् । षडङ्गानि जले न्यस्य हृदा सम्पूजयेदपः ॥ ५४॥ अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया । ततो दक्षिणदिग्भागे शङ्खस्य प्रोक्षणीं न्यसेत् ॥ ५५॥ शङ्खाम्बु किञ्चिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः । पूजाद्रव्यं निजात्मानं विशुद्धं भावयेत्ततः ॥ ५६॥ श्रीनारायणाय उवाच । ततः स्वपुरतो वेद्यां सर्वतोभद्रमण्डलम् । संलिख्य कर्णिकामध्यं पूरयेच्छालितण्डुलैः ॥ ५७॥ आस्तीर्य दर्भांस्तत्रैव न्यसेत्कूर्चं सलक्षणम् । आधारशक्तिमारभ्य पीठमन्वन्तमर्चयेत् ॥ ५८॥ निर्व्रणं कुम्भमादायाप्यस्त्राद्भिः क्षालितान्तरम् । तन्तुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च ॥ ५९॥ नवरत्नोदरं कूर्चयुतं गन्धादिपूजितम् । स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः ॥ ६०॥ ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः । मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने ॥ ६१॥ मूलमन्त्रं च सञ्जप्य पूरयेद्देवताधिया । अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः ॥ ६२॥ छादयेत्कुम्भवदनं चषकं सफलाक्षतम् । संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत् ॥ ६३॥ प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् । आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम् ॥ ६४॥ ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः । स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत् ॥ ६५॥ पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् । मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत् ॥ ६६॥ वाससी च ततो दद्याद्रक्ते क्षौमे सुनिर्मले । नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः ॥ ६७॥ मनुना पुटितैर्वर्णैर्मातृकाया विधानतः । देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत् ॥ ६८॥ गन्धः कालागुरुभवः कर्पूरेण समन्वितः । काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने ॥ ६९॥ कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् । धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः ॥ ७०॥ मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा । दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः ॥ ७१॥ प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा । ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च ॥ ७२॥ साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् । दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् ॥ ७३॥ मूर्तिस्थां देवतां तत्रावाह्य सम्पूज्य च क्रमात् । तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः ॥ ७४॥ पञ्चविंशतिवारं तु पायसेन ससर्पिषा । हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने ॥ ७५॥ गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् । वह्निं विसृज्य हविषा परितो विकिरेद्बलिम् ॥ ७६॥ देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् । पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे ॥ ७७॥ दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् । जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते ॥ ७८॥ कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् । रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा ॥ ७९॥ अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् । कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम् ॥ ८०॥ पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः । तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः ॥ ८१॥ श्रीनारायण उवाच । ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने । प्रवक्ष्यामि समासेन यथाविधि विधानतः ॥ ८२॥ मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः । प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु ॥ ८३॥ अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् । प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः ॥ ८४॥ प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् । आधारशक्तिमारभ्य पीठमन्त्रावसानकम् ॥ ८५॥ तस्मिन्पीठे समावाह्य शिवौ परमकारणौ । गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः ॥ ८६॥ देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु । कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत् ॥ ८७॥ अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् । क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः ॥ ८८॥ संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् । चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत् ॥ ८९॥ सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः । शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत् ॥ ९०॥ अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः । कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः ॥ ९१॥ शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् । आचामयेत्ततो देवं देवीं च जगदम्बिकाम् ॥ ९२॥ चित्पिङ्गल हनदहपचयुग्मं ततः परम् । सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने ॥ ९३॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ ९४॥ मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् । ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः ॥ ९५॥ सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः । धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् ॥ ९६॥ जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् । ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम् ॥ ९७॥ इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् । परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित् ॥ ९८॥ दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ । त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम् ॥ ९९॥ यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ । तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने ॥ १००॥ वैश्वानर ततो जातवेदः पश्चादिहावह । लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय ॥ १०१॥ वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् । मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा ॥ १०२॥ रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका । पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम् ॥ १०३॥ दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी । जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ १०४॥ अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः । कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ॥ १०५॥ ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः । लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान् ॥ १०६॥ श्रीनारायण उवाच । ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च । कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम् ॥ १०७॥ दक्षिणाद्घृतभागात्तु वह्नेर्दक्षिणलोचने । जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः ॥ १०८॥ सोमाय स्वाहेति मध्याद्घृतमादाय सत्तम । अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः ॥ ११२॥ पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे । अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः ॥ ११०॥ सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः । जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम् ॥ १११॥ ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः । गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने ॥ ११२॥ गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः । जातकर्म नामकर्माप्युपनिष्क्रमणं तथा ॥ ११३॥ अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च । महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम् ॥ ११४॥ गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः । ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत् ॥ ११५॥ जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः । पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत् ॥ ११६॥ घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च । पिधाय तां तु तेनैव मुने तिष्ठन्निजासने ॥ ११७॥ वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः । महागणेशमन्त्रेण जुहुयादाहुतीर्दश ॥ ११८॥ वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् । वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसङ्ख्यया ॥ ११९॥ मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च । वह्निदेवतयोरैक्यं भावयन्नात्मना सह ॥ १२०॥ एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः । षडङ्गं देवतानां च जुहुयादाहुतीः पृथक् ॥ १२१॥ एकादशैव जुहुयादाहुतीर्मुनिसत्तम । एतेन नाडीसन्धानं वह्निदेवतयोर्मुने ॥ १२२॥ एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च । एकैकक्रमयोगेन घृतेन जुहुयान्मुने ॥ १२३॥ ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः । देवतामूलमन्त्रेण गजान्तकसहस्रकम् ॥ १२४॥ एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने । तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि ॥ १२५॥ ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् । वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम् ॥ १२६॥ कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् । नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः ॥ १२७॥ कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे । गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत् ॥ १२८॥ तच्चैतन्यं निजे देहे भावयेत्सङ्गतं त्विति । ततः शिष्यतनुस्थानामध्वनां परिशोधनम् ॥ १२९॥ कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् । येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे ॥ १३०॥ श्रीनारायण उवाच । तनौ ध्यायेत्तु शिष्यस्य षडध्वनः कमेण तु । पादयोस्तु कलाध्वानमन्धौ तत्त्वाध्वकं पुनः ॥ १३१॥ नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि । पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि ॥ १३२॥ शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः । शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन् ॥ १३३॥ ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि । षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत् ॥ १३४॥ पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः । आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत् ॥ १३५॥ पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् । पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा ॥ १३६॥ एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि । ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः ॥ १३७॥ नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् । पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः ॥ १३८॥ नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे । भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना ॥ १३९॥ मन्त्रोदितांस्तथा न्यासान्कृत्वा शिष्यतनौ ततः । मण्डले वेशयेच्छिष्यमन्यस्मिन्कुम्भसंस्थितान् ॥ १४०॥ पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् । कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः ॥ १४१॥ वर्धनीजलसेकं च कुर्याद्रक्षार्थमञ्जसा । ततः शिष्यः समुत्थाय वाससी परिधाय च ॥ १४२॥ कृतभस्मावलेपश्च संविशेद्गुरुसन्निधौ । ततो गुरुः स्वकीयात्तु हृदयान्निर्गतां शिवाम् ॥ १४३॥ प्रविष्टां शिष्यहृदये भावयेत्करुणानिधिः । पूजयेद्गन्धपुष्पाद्यैरैक्यं वै भावयंस्तयोः ॥ १४४॥ ततस्त्रिंशो दक्षकर्णे शिष्यस्योपदिशेद्गुरुः । महामन्त्रं महादेव्याः स्वहस्तं शिरसि न्यसन् ॥ १४५॥ अष्टोत्तरशतं मन्त्रं शिष्योऽपि प्रजपेन्मुने । दण्डवत्प्रणमेद्भूमौ तं गुरुं देवतात्मकम् ॥ १४६॥ सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः । ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्चापि भोजयेत् ॥ १४७॥ सुवासिनीः कुमारीश्च बटुकांश्चैव सर्वशः । दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः ॥ १४८॥ कृतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् । इति ते कथितः सम्यग्दीक्षाविधिरनुत्तमः ॥ १४९॥ विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते ॥ १५०॥ वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् । तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी ॥ १५१॥ तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा । श्रीनारायण उवाच । इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया ॥ १५२॥ अतः परं पराम्बाया भज नित्यं पदाम्बुजम् । नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः ॥ १५३॥ व्यास उवाच । इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् । समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम् ॥ १५४॥ नारायणस्तु भगवान् मुनिवर्यशिखामणिः । नारदोऽपि ततो नत्वा गुरुं नारायणं परम् । जगाम सद्यस्तपसे देवीदर्शनलालसः ॥ १५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः ॥ १२.७॥

१२.८ अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् ।

जनमेजय उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर । द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता ॥ १॥ सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो । तां विहाय द्विजाः कस्माद्गृह्णीयुश्चान्यदेवताः ॥ २॥ दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे । कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥ ३॥ दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः । दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः ॥ ४॥ किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति । बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः ॥ ५॥ अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः । न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति ॥ ६॥ किमत्र कारणं तस्माद्वद वेदविदांवर । मणिद्वीपस्य महिमा वर्णितो भवता पुरा ॥ ७॥ कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् । तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ ॥ ८॥ प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत । सूत उवाच । इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः ॥ ९॥ निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः । यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते ॥ १०॥ व्यास उवाच । सम्यक्पृष्टं त्वया राजन् समये समयोचितम् । वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे ॥ ११॥ पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे । शतवर्षं महाराज महाविस्मयकारकम् ॥ १२॥ नानाशस्त्रप्रहरणं नानामायाविचित्रितम् । जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप ॥ १३॥ पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि । भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि ॥ १४॥ ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् । चक्रुः परस्परं मोहात्साभिमानाः समन्ततः ॥ १५॥ जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः । सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥ १६॥ सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः । अस्मदग्रे पामराणां दैत्यानां चैव का कथा ॥ १७॥ पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः । तेषामनुग्रहं कर्तुं तदैव जगदम्बिका ॥ १८॥ प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ १९॥ विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् । अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम् ॥ २०॥ सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति । दैत्यानां चेष्टितं किं वा माया कापि महीयसी ॥ २१॥ केनचिन्निर्मिता वाथ देवानां स्मयकारिणी । सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम् ॥ २२॥ यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि । बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया ॥ २३॥ ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः । गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम् ॥ २४॥ ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि । सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम् ॥ २५॥ वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ । तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ २६॥ वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः । अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ २७॥ सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति । तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम् ॥ २८॥ दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि । तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः ॥ २९॥ न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति । पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक् ॥ ३०॥ वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः । ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥ ३१॥ त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् । त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥ ३२॥ त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि । नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः ॥ ३३॥ सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् । साभिमानो जगामाशु यत्र यक्षं विराजते ॥ ३४॥ यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया । कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ३५॥ ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् । मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत् ॥ ३६॥ वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि । मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत् ॥ ३७॥ इति श्रुत्वा वायुवाणीं निजगाद परं महः । तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ ३८॥ नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् । श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ ३९॥ उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह । लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ ४०॥ वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् । नैतंज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ ४१॥ अलौकिकं भाति यक्षं तेजः परमदारुणम् । ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ ४२॥ देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः । तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ ४३॥ प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् । अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ ४४॥ अतीव लज्जितो जातो वासवो देवराडपि । यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ ४५॥ अतः परं न गन्तव्यं मया तु सुरसंसदि । किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ ४६॥ देहत्यागो वरस्तस्मान्मानो हि महतां धनम् । माने नष्टे जीवितं तु मृतितुल्यं न संशयः ॥ ४७॥ इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः । चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ ४८॥ तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले । मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ ४९॥ ततो जजाप परमं मायाबीजं परात्परम् । लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ ५०॥ अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ । तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ ५१॥ तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् । भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ ५२॥ बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् । चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान् ॥ ५३॥ दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् । भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ ५४॥ त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् । चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम् ॥ ५५॥ दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् । प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ ५६॥ रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् । उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ ५७॥ निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् । ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥ ५८॥ प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः । दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः ॥ ५९॥ तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः । उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ ६०॥ प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने । इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ ६१॥ रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् । मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ ६२॥ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ ६३॥ ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् । द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ ६४॥ भागद्वयवती यस्मात्सृजामि सकलं जगत् । तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ ६५॥ मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः । सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ ६६॥ चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता । साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ ६७॥ प्रलये सर्वजगतो मदभिन्नैव तिष्ठति । प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ ६८॥ रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च । अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते ॥ ६९॥ बहिर्मुखा तु या माया तमःशब्देन सोच्यते । बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ ७०॥ रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम । गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ ७१॥ रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् । तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ ७२॥ स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः । रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ ७३॥ साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी । अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम् ॥ ७४॥ निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते । निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ ७५॥ साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च । प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ ७६॥ सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि । ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ ७७॥ मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति । इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता ॥ ७८॥ मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा । युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ ७९॥ कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् । स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ ८०॥ तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः । अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ ८१॥ अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् । निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ ८२॥ अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् । मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ ८३॥ व्यास उवाच । इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी । अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ ८४॥ ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् । सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ ८५॥ त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः । यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ ८६॥ एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः । तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ ८७॥ न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् । न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ ८८॥ गायत्र्युपासना नित्या सर्ववेदैः समीरिता । यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ ८९॥ तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि । गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ ९०॥ कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् । विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः ॥ ९१॥ शिवोपास्तिरतो विप्रो नरकं याति सर्वथा । तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः । देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः ॥ ९२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नामाष्टमोऽध्यायः ॥ १२.८॥

१२.९ नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् ।

व्यास उवाच । कदाचिदथ काले तु दशपञ्चसमा विभो । प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥ १॥ अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् । गहे गृहे शवानां तु सङ्ख्या कर्तुं न शक्यते ॥ २॥ केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः । शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः ॥ ३॥ बालकं बालजननी स्त्रियं पुरुष एव च । भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः ॥ ४॥ ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् । तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति ॥ ५॥ सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना । गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना ॥ ६॥ सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः । एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः ॥ ७॥ सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः । पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः ॥ ८॥ पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः । दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः ॥ ९॥ आसनाद्युपचारैश्च पूजयामास वाडवान् । चकार कुशलप्रश्नं ततश्चागमकारणम् ॥ १०॥ ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः । दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः ॥ ११॥ युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा । का चिन्ता भवतां विप्रा मयि दासे विराजति ॥ १२॥ धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः । येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥ १३॥ ते सर्वे पादरजसा पावयन्ति गृहं मम । को मदन्यो भवेद्धन्यो भवतां समनुग्रहात् ॥ १४॥ स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः । व्यास उवाच । इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः ॥ १५॥ गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः । नमो देवि महाविद्ये वेदमातः परात्परे ॥ १६॥ व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि । साम्यावस्थात्मिके मातर्नमो ह्रीङ्काररूपिणि ॥ १७॥ स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् । भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम् ॥ १८॥ तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् । सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम् ॥ १९॥ प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् । सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम् ॥ २०॥ सर्वभूतारणे देवि क्षमस्व परमेश्वरि । इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥ २१॥ पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम् । उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि ॥ २२॥ तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति । इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला ॥ २३॥ अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः । षड्रसा विविधा राजंस्तृणानि विविधानि च ॥ २४॥ भूषणानि च दिव्यानि क्षौमानि वसनानि च । यज्ञानां च समारम्भाः पात्राणि विविधानि च ॥ २५॥ यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः । तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः ॥ २६॥ अथाहूय मुनीन्सर्वान्मुनिराड् गौतमस्तदा । धनं धान्यं भूषणानि वसनानि ददौ मुदा ॥ २७॥ गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः । निर्गतान्यज्ञसम्भारान्स्रुक्स्रुवप्रभृतीन्ददौ ॥ २८॥ ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः । स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम् ॥ २९॥ यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते । तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥ ३०॥ देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः । मुनयो देवसदृशा वस्त्रचन्दनभूषणैः ॥ ३१॥ नित्योत्सवः प्रववृते मुनेराश्रममण्डले । न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित् ॥ ३२॥ स मुनेराश्रमो जातः समन्ताच्छतयोजनः । अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः ॥ ३३॥ तांश्च सर्वान्पुपोषायं दत्त्वाभयमथात्मवान् । नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः ॥ ३४॥ सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः । सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः ॥ ३५॥ अहो अयं नः किल कल्पपादपो मनोरथान्पूरयति प्रतिष्ठितः । नोचेदकाण्डे क्व हविर्वपा वा सुदुर्लभा यत्र तु जीवनाशा ॥ ३६॥ इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् । पुत्रवन्मुनिराड् गर्वगन्धेन परिवर्जितः ॥ ३७॥ गायत्र्याः परमं स्थानं चकार मुनिसत्तमः । यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका ॥ ३८॥ त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः । अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते ॥ ३९॥ मध्याह्ने युवती वृद्धा सायङ्काले तु दृश्यते । तत्रैकदा समायातो नारदो मुनिसत्तमः ॥ ४०॥ रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् । निषसाद सभामध्ये मुनीनां भावितात्मनाम् ॥ ४१॥ गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः । कथाश्चकार विविधा यशसो गौतमस्य च ॥ ४२॥ ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः । जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥ ४३॥ श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः । धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥ ४४॥ इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ । ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः ॥ ४५॥ तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः । अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः ॥ ४६॥ उत्कर्षं तु मुनेः श्रुत्वासूयया खेदमागताः । यथास्य न यशो भूयात्कर्तव्यं सर्वथैव हि ॥ ४७॥ काले समागते पश्चादिति सर्वैस्तु निश्चितम् । ततः कालेन कियताप्यभूद्वृष्टिर्धरातले ॥ ४८॥ सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम । श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः ॥ ४९॥ गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे । धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी ॥ ५०॥ कालस्य महिमा राजन् वक्तुं केन हि शक्यते । गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप ॥ ५१॥ जगाम सा च शालायां होमकाले मुनेस्तदा । हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे ॥ ५२॥ गौर्हतानेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः । होमं समाप्य मुनिराङ् विस्मयं परमं गतः ॥ ५३॥ समाधिमीलिताक्षः संश्चिन्तयामास कारणम् । कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥ ५४॥ दधार कोपं परमं प्रलये रुद्रकोपवत् । शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः ॥ ५५॥ वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे । भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः ॥ ५६॥ वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५७॥ शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५८॥ मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५९॥ देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६०॥ देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६१॥ देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६२॥ शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६३॥ रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६४॥ श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६५॥ अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६६॥ नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६७॥ स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६८॥ गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६९॥ कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ७०॥ श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः । शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः ॥ ७१॥ कापालिकमतासक्ता बौद्धशास्त्ररताः सदा । पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ ७२॥ पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा । भार्याविकयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७३॥ वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा । धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७४॥ पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते । बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ ७५॥ मातृकन्यागामिनश्च भगिनीगामिनस्तथा । परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ ७६॥ युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा । मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥ ७७॥ किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी । गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ ७८॥ अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः । व्यास उवाच । वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः ॥ ७९॥ जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः । प्रणनाम महादेवीं सापि देवी परात्परा ॥ ८०॥ ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह । अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ ८१॥ उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा । भुजङ्गायार्पितं दुग्धं विषायैवोपजायते ॥ ८२॥ शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी । इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥ ८३॥ ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः । गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत् ॥ ८४॥ ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा । प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि ॥ ८५॥ नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः । प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ ८६॥ प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् । करुणापूर्णहृदयो मुनिस्तान्समुवाच ह ॥ ८७॥ कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः । न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ ८८॥ ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् । मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ ८९॥ मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा । तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम् ॥ ९०॥ व्यास उवाच । इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः । प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ ९१॥ एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति । कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥ ९२॥ भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये । सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥ ९३॥ वेदभक्तिविहीनाश्च पाखण्डमतगामिनः । अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ ९४॥ मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् । तप्तमुद्राङ्किताः केचित्कामाचाररताः परे ॥ ९५॥ कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे । पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥ ९६॥ लम्पटाः परदारेषु दुराचारपरायणाः । कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ ९७॥ तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी । न विष्णूपासना नित्या न शिवोपासना तथा ॥ ९८॥ नित्या चोपासना शक्तेर्यां विना तु पतत्यधः । सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ ॥ ९९॥ अतः परं मणिद्वीपवर्णनं श‍ृणु सुन्दरम् । यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ १००॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणं नाम नवमोऽध्यायः ॥ १२.९॥

१२.१० दशमोऽध्यायः । मणिद्वीपवर्णनम् ।

व्यास उवाच । ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ १॥ सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ २॥ सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया । कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ ३॥ गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ ४॥ छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् । छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ ५॥ बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि । मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ ६॥ मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः । रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः ॥ ७॥ वीचिसङ्घर्षसञ्जातलहरीकणशीतलः । नानाध्वजसमायुक्तनानापोतगतागतैः ॥ ८॥ विराजमानः परितस्तीररत्नद्रुमो महान् । तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ ९॥ सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ १०॥ रक्षका निवसन्त्यत्र मोदमानाः समन्ततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ ११॥ नानागणैः परिवृतो देवीभक्तियुतैर्नृप । दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ १२॥ तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि । विमानशतसङ्घर्षघण्टास्वनसमाकुलः ॥ १३॥ हयहेषाखराघातबधिरीकृतदिङ्मुखः । गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ १४॥ सेवका देवसङ्घानां भ्राजन्ते तत्र भूमिप । तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित् ॥ १५॥ कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले । पदे पदे मिष्टवारिपरिपूर्णसरांसि च ॥ १६॥ वाटिका विविधा राजन् रत्नद्रुमविराजिताः । तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ १७॥ सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ १८॥ गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ १९॥ निरन्तरं पुष्पयुताः सदा फलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः ॥ २०॥ पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः । देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ २१॥ लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा । पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ २२॥ तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः । पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ २३॥ अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः । गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ २४॥ चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः । कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ २५॥ खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः । क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ २६॥ रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च । तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ २७॥ इत्यादितरुजातीनां वनान्युपवनानि च । नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ २८॥ कोकिलारावसंयुक्ता गुञ्जद्भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ २९॥ नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ ३०॥ पारावतशुकव्रातसारिकापक्षमारुतैः । हंसपक्षसमुद्भूतावातव्रातैश्चलद्द्रुमम् ॥ ३१॥ सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ ३२॥ नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः । नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ ३३॥ कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ ३४॥ द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका । येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ ३५॥ पत्राणि काञ्चनाभानि रत्नबीजफलानि च । दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ ३६॥ तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ ३७॥ पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः । मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ३८॥ क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः । अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ ३९॥ दशयोजनपर्यन्तं कुसुमामोदवायुना । पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः ॥ ४०॥ शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् । वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ ४१॥ ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसङ्ख्यया ॥ ४२॥ सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप । दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ ४३॥ हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् । अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ ४४॥ ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ४५॥ सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ ४६॥ विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्किलैः । पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ ४७॥ प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः । सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ ४८॥ प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् । हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ ४९॥ सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः । विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः ॥ ५०॥ वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः । सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ ५१॥ नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी । अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका ॥ ५२॥ वर्षयन्ती चिपुणिका वारिधारा च सम्मताः । वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ ५३॥ नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराखिला ॥ ५४॥ नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः । सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ ५५॥ वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः । वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ ५६॥ ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः । आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ५७॥ पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका । नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ ५८॥ अधिष्ठातात्र सम्प्रोक्तः शरदृतुरनामयः । इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ ५९॥ नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः । पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ६०॥ दीप्यमानो महाश‍ृङ्गैर्वर्तते रौप्यसालकः । पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ ६१॥ दशयोजनगन्धीनि कुसुमानि समन्ततः । मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ ६२॥ तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः । सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप ॥ ६३॥ सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते । वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ ६४॥ रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् । सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ ६५॥ मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता । कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ ६६॥ याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते । तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ ६७॥ तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते । मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ ६८॥ नानाविलाससंयुक्तो नानागणसमावृतः । निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ ६९॥ नानाभोगसमुत्पन्नमहानन्दसमन्विताः । साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः ॥ ७०॥ स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् । पुष्परागमयः सालः कुङ्कुमारुणविग्रहः ॥ ७१॥ पुष्परागमयी भूमिर्वनान्युपवनानि च । रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ ७२॥ प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः । वनभूः पक्षिणश्चैव रत्नवर्णजलानि च ॥ ७३॥ मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च । प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ ७४॥ परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो । तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ ७५॥ दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् । दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ ७६॥ पूर्वाशायां समुत्तुङ्गश‍ृङ्गा पूरमरावती । नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते ॥ ७७॥ स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका । समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ ७८॥ ऐरावतसमारूढो वज्रहस्तः प्रतापवान् । देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ ७९॥ देवाङ्गनागणयुता शची तत्र विराजते । वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप ॥ ८०॥ स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते । निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ ८१॥ याम्याशायां यमपुरी तत्र दण्डधरो महान् । स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ ८२॥ निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् । नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ ८३॥ खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् । वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ ८४॥ महाझषसमारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ ८५॥ समास्ते वारुणे लोके वरुणानीरताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ ८६॥ वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ ८७॥ मरुद्गणैः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप ॥ ८८॥ यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः । नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ ८९॥ मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ ९०॥ इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ ९१॥ अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ ९२॥ स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः । स्वसमानैरसङ्ख्यातरुद्रैः शूलवरायुधैः ॥ ९३॥ विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ ९४॥ दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः । अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः ॥ ९५॥ रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ ९६॥ नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन् विराजते ॥ ९७॥ मुण्डमालाधरो नागवलयो नागकन्धरः । व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ ९८॥ चिताभस्माङ्ग लिप्ताङ्गः प्रमथादिगणावृतः । निनदड्डमरुध्वानैर्बधिरीकृतदिङ्मुखः ॥ ९९॥ अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः । भूतसङ्घसमाविष्टो भूतावासो महेश्वरः । ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ १००॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥ १२.१०॥

१२.११ एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।

व्यास उवाच । पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १॥ दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ २॥ मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरा वीरा रत्नभूषणभूषिताः ॥ ३॥ प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः । समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ ४॥ स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि श‍ृणु त्वं जनमेजय ॥ ५॥ पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा ॥ ६॥ त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ॥ ७॥ विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८॥ सन्ध्या माता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना ॥ ९॥ त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १०॥ रथरेखाह्वया पश्चाच्छशिरेखा तथापरा । गगनवेगा पवनवेगा वेगा चैव ततः परम् ॥ ११॥ अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा । अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ १२॥ अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका । क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ १३॥ सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता । उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ १४॥ ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् । जलं पिबामः सकलं संहरामो विभावसुम् ॥ १५॥ पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् । इति वाचं सङ्गिरन्ते क्रोधसंरक्तलोचनाः ॥ १६॥ चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा । दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः ॥ १७॥ पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा । शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८॥ एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने । शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ १९॥ किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २०॥ रथानां गणना नास्ति हयानां करिणां तथा । शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ २१॥ पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२॥ भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ २३॥ पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च । गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ २४॥ तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५॥ प्रत्येकलोकवासिन्यः परिवार्य समन्ततः । गोमेदसाले सन्नद्धाः पिशाचवदना नृप ॥ २६॥ स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ २७॥ वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८॥ सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९॥ रथानां नैव गणना वाहनानां तथैव च । सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३०॥ तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१॥ रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा । कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२॥ विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३॥ इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४॥ अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५॥ पराजयो न चैतासां कदाचित्क्वचिदस्ति हि । गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६॥ दशयोजनतुङ्गोऽसौ गोपुरद्वारसंयुतः । कपाटश‍ृङ्खलाबद्धो नववृक्षसमुज्ज्वलः ॥ ३७॥ सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् । गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च ॥ ३८॥ वृक्षालवालतरवः सारङ्गा अपि तादृशाः । दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः ॥ ३९॥ तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः । एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४०॥ तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः । काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१॥ काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः । नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ ४२॥ नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् । धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ ४३॥ काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः । काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ ४४॥ पुष्पभूषणनिर्मात्र्यः पुष्पश‍ृङ्गारकारिकाः । नानाविलासचतुरा बह्व्य एवंविधाः पराः ॥ ४५॥ निबद्धपरिधानीया युवत्यः सकला अपि । देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ ४६॥ एता दूत्यः स्मृता देव्यः श‍ृङ्गारमदगर्विताः । तासां नामानि वक्ष्यामि श‍ृणु मे नृपसत्तम ॥ ४७॥ अनङ्गरूपा प्रथमाप्यनङ्गमदना परा । तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८॥ ततो भुवनवेगा स्यात्तथा भुवनपालिका । स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला ॥ ४९॥ विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः । रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५०॥ धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१॥ अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च । सदनानि विराजन्ते नानावाहनहेतिभिः ॥ ५२॥ वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः । दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ ५३॥ वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ ५४॥ वापीकूपतडागाश्च स्रवन्तीनां तटानि च । बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ ५५॥ तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् । निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६॥ प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७॥ वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः । अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८॥ ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९॥ तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ ६०॥ दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा । हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१॥ तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२॥ कोटिशस्तु विमानानि नानाचिह्नान्वितानि च । नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३॥ वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः । दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४॥ तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च । वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५॥ तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् । षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६॥ तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७॥ तासां नामानि वक्ष्यामि श‍ृणु मे नृपसत्तम । कराली विकराली च तथोमा च सरस्वती ॥ ६८॥ श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ ६९॥ नीलजीमूतसङ्काशाः करवालकराम्बुजाः । समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ ७०॥ सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१॥ ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः । नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ ७२॥ एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३॥ मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४॥ मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५॥ सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः ॥ ७६॥ कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७॥ नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ ७८॥ तासां नामानि वक्ष्यामि मत्तः श‍ृणु नृपोत्तम । अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ ७९॥ अनङ्गमदना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम् ॥ ८०॥ शशिरेखा च गगनरेखा चैव ततः परम् । पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१॥ विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतोऽपरः ॥ ८२॥ सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् । नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः ॥ ८३॥ मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्र विस्तीर्णं कोणस्था देवताः श‍ृणु ॥ ८४॥ पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः । कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ ८५॥ तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६॥ स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि । ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७॥ व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि । रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा ॥ ८८॥ सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ ८९॥ सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९०॥ महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१॥ गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि । चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ ९२॥ ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि । अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ ९३॥ दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ ९४॥ देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ ९५॥ पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते । श‍ृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६॥ ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७॥ विभूतयो गणेशस्य या याः सन्ति नृपोत्तम । ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८॥ प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९॥ महामारकतस्याग्रे शतयोजनदैर्घ्यवान् । प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः ॥ १००॥ मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१॥ हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२॥ पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः । देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ १०३॥ प्रवालसालादग्रे तु नवरत्नविनिर्मितः । बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ १०४॥ तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्नमयान्येव तडागाश्च सरांसि च ॥ १०५॥ श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि । महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६॥ निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७॥ सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि । नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८॥ तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् । सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ ११२॥ विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे पद्मरागादि- मणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ॥ १२.११॥

१२.१२ द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।

व्यास उवाच । तदेव देवीसदनं मध्यभागे विराजते । सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १॥ श‍ृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च । ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ २॥ एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः । नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ ३॥ कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः । तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४॥ मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः । असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५॥ महापद्माटवी तद्वद्रत्नसोपाननिर्मिता । सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६॥ हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा । वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७॥ श‍ृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः । सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८॥ मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा । ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९॥ चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् । मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १०॥ चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः । सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२॥ तस्योपरि महादेवो भुवनेशो विराजते । या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३॥ सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः । कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४॥ पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः । हरिणाभीतिपरशून् वरं च निजबाहुभिः ॥ १५॥ दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् । कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६॥ शुद्धस्फटिकसङ्काशस्त्रिनेत्रः शीतलद्युतिः । वामाङ्गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७॥ नवरत्नगणाकीर्णकाञ्चीदामविराजिता । तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा ॥ १८॥ कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । ललाटकान्तिविभवविजितार्थसुधाकरा ॥ १९॥ बिम्बकान्तितिरस्कारिरदच्छदविराजिता । लसत्कुङ्कुमकस्तुरीतिलकोद्भासितानना ॥ २०॥ दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका । उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१॥ चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता । पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी ॥ २२॥ विचित्रविविधाकल्पा कम्बुसङ्काशकन्धरा । दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता ॥ २३॥ अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका । मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४॥ कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना । जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५॥ माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता । पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६॥ कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा । रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता ॥ २७॥ मणिमुक्तासरापारलसत्पदकसन्ततिः । रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा ॥ २८॥ कञ्चुकीगुम्फितापारनानारत्नततिद्युतिः । मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९॥ सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा । वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया ॥ ३०॥ सर्वश‍ृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी । सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ ३१॥ निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी । कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ ३२॥ नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः । सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ ३३॥ इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता । लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ ३४॥ बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः । जया च विजया चैवाप्यजिता चापराजिता ॥ ३५॥ नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नव । पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ ३६॥ यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ । नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ ३७॥ सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः । सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ ३८॥ सा देवी भुवनेशानी तद्वामाङ्के विराजते । सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा ॥ ३९॥ चिन्तामणिगृहस्यास्य प्रमाणं श‍ृणु भूमिप । सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ ४०॥ तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः । अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ ४१॥ सङ्कोचश्च विकासश्च जायतेऽस्य निरन्तरम् । पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ ४२॥ शालानां चैव सर्वेषां सर्वकान्तिपरावधि । चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ ४३॥ ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः । देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ ४४॥ श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप । देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ ४५॥ ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा । घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ ४६॥ स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः । द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ ४७॥ आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः । मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ ४८॥ यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि । न रोगपलितं वापि जरा वापि कदाचन ॥ ४९॥ न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा । सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः ॥ ५०॥ भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् । केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ ५१॥ सरूपतां गताः केचित्सार्ष्टितां च परे गताः । या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ ५२॥ समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् । सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ ५३॥ महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् । कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ ५४॥ इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् । न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ ५५॥ एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः । क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि ॥ ५६॥ विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् । विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ ५७॥ क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि । हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ ५८॥ कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् । क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित् ॥ ५९॥ रत्नश‍ृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् । रत्नपत्रै रत्नफलैर्वक्षैश्च परिमण्डितम् ॥ ६०॥ नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् । कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ ६१॥ सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् । तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः ॥ ६२॥ सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् । मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ ६३॥ चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् । रत्नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ ६४॥ वृक्षवातमहागन्धवातवातसुपूरितम् । धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम् ॥ ६५॥ मणिजालकसच्छिद्रतरलोदरकान्तिभिः । दिङ्मोहजनकं चैतद्दर्पणोदरसंयुतम् ॥ ६६॥ ऐश्वर्यस्य समग्रस्य श‍ृङ्गारस्याखिलस्य च । सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै ॥ ६७॥ पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च । सकलाया दयायाश्च समाप्तिरिह भूपते ॥ ६८॥ राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु । आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ ६९॥ इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् । महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७०॥ एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ ७१॥ अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ ७२॥ नवीनगृहनिर्माणे वास्तुयागे तथैव च । पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ ७३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२.१२॥

१२.१३ त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।

व्यास उवाच । इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ । नारायणेन यत्प्रोक्तं नारदाय महात्मने ॥ १॥ श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्भुतम् । कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः ॥ २॥ कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै । खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम् ॥ ३॥ गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् । यथाविधिविधानेन जन्मसाफल्यदायकम् ॥ ४॥ सूत उवाच । तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् । तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम् ॥ ५॥ दीक्षाविधिं विधानेन जग्राह नृपसत्तमः । तत आहूय धौम्यादीन्नवरात्रसमागमे ॥ ६॥ अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः । ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम् ॥ ७॥ श्रीदेव्यग्रेऽम्बिकाप्रीत्यै देवीभागवतं परम् । ब्राह्मणान्भोजयामासाप्यसङ्ख्यातान्सुवासिनीः ॥ ८॥ कुमारीर्वटुकादींश्च दीनानाथांस्तथैव च । द्रव्यप्रदानैस्तान्सर्वान् सन्तोष्य वसुधाधिपः ॥ ९॥ समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि । तावदेव हि चाकाशान्नारदः समवातरत् ॥ १०॥ रणयन्महतीं वीणां ज्वलदग्निशिखोपमः । ससम्भमः समुत्थाय दृष्ट्वा तं नारदं मुनिम् ॥ ११॥ आसनाद्युपचारैश्च पूजयामास भूमिपः । कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम् ॥ १२॥ राजोवाच । कुत आगमनं साधो ब्रूहि किं करवाणि ते । सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात् ॥ १३॥ इति राज्ञो वचः श्रुत्वा प्रोवाच मुनिसत्तमः । अद्याश्चर्यं मया दृष्टं देवलोके नृपोत्तम ॥ १४॥ तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविस्मितः । पिता ते दुर्गतिं प्राप्तो निजकर्मविपर्ययात् ॥ १५॥ स एवायं दिव्यरूपवपुर्भूत्वाधुनैव हि । देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः ॥ १६॥ विमानवरमारुह्य मणिद्वीपं गतोऽभवत् । देवीभागवतस्यास्य श्रवणोत्थफलेन च ॥ १७॥ अम्बामखफलेनापि पिता ते सुगतिं गतः । धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ॥ १८॥ नरकादुद्धृतस्तातस्त्वया तु कुलभूषण । देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत् ॥ १९॥ सूत उवाच । नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः । पपात पादाम्बुजयोर्व्यासस्याद्भुतकर्मणः ॥ २०॥ तवानुग्रहतो देव कृतार्थोऽहं महामुने । किं मया प्रतिकर्तव्यं नमस्कारादृते तव ॥ २१॥ अनुग्राह्यः सदैवाहमेवमेव त्वया मुने । इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च ॥ २२॥ उवाच वचनं श्लक्ष्णं भगवान् बादरायणः । राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम् ॥ २३॥ देवीभागवतं चैव पठ नित्यं समाहितः । अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः ॥ २४॥ अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् । सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च ॥ २५॥ देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् । सारमेतत्पुराणानां वेदानां चैव सर्वशः ॥ २६॥ मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते । समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम ॥ २७॥ पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय । पठितव्यं प्रयत्नेन तदेव विबुधोत्तमैः ॥ २८॥ इत्युक्त्वा नृपवर्यं तं जगाम मुनिराट् ततः । जग्मुश्चैव यथास्थानं धौम्यादिमुनयोऽमलाः ॥ २९॥ देवीभागवतस्यैव प्रशंसां चक्रुरुत्तमाम् । राजा शशास धरणीं ततः सन्तुष्टमानसः । देवीभागवतं चैव पठच्छृण्वन्तिरन्तरम् ॥ ३०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनं नाम त्रयोदशोऽध्यायः ॥ १२.१३॥

१२.१४ चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।

सूत उवाच । अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् । श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम् ॥ १॥ उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने । शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा ॥ २॥ तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे । अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम् ॥ ३॥ देवीभागवतं नाम पुराणं ग्रथितं पुरा । अद्यापि देवलोके तद्बहुविस्तीर्णमस्ति हि ॥ ४॥ नानेन सदृशं पुण्यं पवित्रं पापनाशनम् । पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ ५॥ पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः । व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः ॥ ६॥ लिखित्वा निजहस्तेन लेखकेनाथवा मुने । प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ॥ ७॥ दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् । सालङ्कृतां सवत्सां च कपिलां हेममालिनीम् ॥ ८॥ भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् । सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह ॥ ९॥ देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः । पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः ॥ १०॥ पुराणदानेनैतेन भूदानस्य फलं लभेत् । इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत् ॥ ११॥ नित्यं यः श‍ृणुयाद्भक्त्या देवीभागवतं परम् । न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ॥ १२॥ अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् । विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः ॥ १३॥ वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना । श्रवणादस्य तद्दोषान्निवर्तेत न संशयः ॥ १४॥ यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति । तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ॥ १५॥ नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः । ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः ॥ १६॥ मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः । शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति ॥ १७॥ प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः । एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत् ॥ १८॥ शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि । तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने ॥ १९॥ नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः । तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम् ॥ २०॥ वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा । सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये ॥ २१॥ पठितव्यं प्रयत्नेन नवरात्रचतुष्टये । वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने ॥ २२॥ पठितव्यं प्रयत्नेन विरोधो नात्र कस्यचित् । उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा ॥ २३॥ तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः । स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः ॥ २४॥ श‍ृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः । किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः ॥ २५॥ वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः । वेदपाठसमं पाठे श्रवणे च तथैव हि ॥ २६॥ सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् । नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात् ॥ २७॥ इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः । पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम् ॥ २८॥ प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः । निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः ॥ २९॥ नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः । संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि ॥ ३०॥ इति स मुनिवराणामग्रतः श्रावयित्वा सकलनिगमगुह्यं दौर्गमेतत्पुराणम् । नतमथ मुनिसङ्घं वर्धयित्वाऽऽशिषाम्बा- चरणकमलभृङ्गो निर्जगामाथ सूतः ॥ ३१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीमद्देवीभागवतमहापुराण- श्रवणफलवर्णनं नाम चतुर्दशोऽध्यायः ॥ १२.१४॥ ॥ इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धः समाप्तः ॥ ॥ इति श्रीमद्देवीभागवतमहापुराणे उत्तरार्धः सम्पूर्णः ॥ ॥ इति श्रीमद्देवीभागवतमहापुराणं समाप्तम् ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 12
% File name             : devIbhAgavatam12.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 12
% engtitle              : devIbhAgavatamahApurANam skandhaH 12
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org