मुद्गलपुराणं खण्डः २ एकदन्तचरितम्

मुद्गलपुराणं खण्डः २ एकदन्तचरितम्

॥ मुद्गलपुराणं खण्डः २॥ ॥ अथ श्रीमुद्गलपुराणे द्वितीयः खण्डः प्रारभ्यते ॥ (Page खं. २ अ. १ पान १)

२.१ ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनकाद्या ऊचुः । सूत त्वया महाभाग कृतकृत्या वयं कृताः । अतुलं वक्रतुण्डस्य चरित्रं श्रावितं महत् ॥ १॥ धन्योऽसि त्वं महाबुद्धे सर्वज्ञोऽसि विशेषतः । परिपृच्छामहेऽतस्त्वां तद्वदस्व यथार्थतः ॥ २॥ श्रुत्वा श्रुत्वा न नस्तृप्तिर्जायतेऽमृतपानवत् । अतस्त्वमेकदन्तस्य चरित्रं वद साम्प्रतम् ॥ ३॥ कस्मिन् ब्रह्मणि संस्थोऽयमेकदन्तो गजाननः । कति तस्यावताराश्च किं कर्म वद निश्चितम् ॥ ४॥ इति सम्प्रार्थितः सूतस्तानुवाच महामुनीन् । प्रश्रयावनतो भूत्वा भक्त्या तेषां प्रणोदितः ॥ ५॥ सूत उवाच । एवमेव च दक्षेण परिपृष्टो महामुनिः । मुद्गलस्तमथोवाच तच्छृणुध्वं मुनीश्वराः ॥ ६॥ दक्ष उवाच । पुरातनं महत्पुण्यमस्ति मे मुनिसत्तम । तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः ॥ ७॥ वक्रतुण्डचरित्रं च श्रुतं तव मुखाम्बुजात् । तेन विश्रान्तता प्राप्ता हृदये मे विशेषतः ॥ ८॥ यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो । हर्षयुक्तः कृतो भक्त्या ढुण्ढेस्तु मुनिसत्तम ॥ ९॥ एकदन्तचरित्रं मे कथयस्व विशेषतः । किङ्कर्मा कथमुत्पन्न एकदन्तो गजाननः ॥ १०॥ किं वाहनसमायुक्तः कीदृशं ब्रह्म तस्य वै । इत्यादि सर्वमाख्यानं वद मां करुणानिधे ॥ ११॥ सूत उवाच । एवं पृष्टो महातेजास्तमुवाच प्रजापतिम् । भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिदे ॥ १२॥ मुद्गल उवाच । श‍ृणु दक्ष त्वया पृष्टं सर्वपापप्रणाशनम् । एकदन्तस्य माहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ १३॥ धन्योऽसि त्वं महाभाग येन ते श्रवणे रतिः । गजाननस्य देवस्य चरित्रे सर्वभावतः ॥ १४॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । गृत्समदस्य संवादं प्रह्लादस्य महात्मनः ॥ १५॥ श्रुत्वा मुद्गलवाक्यं तद् दक्षो हृष्टमना मुने । उवाच तं महर्षिं स प्रश्रयावनतः स्वयम् ॥ १६॥ दक्ष उवाच । ब्रह्मणः सृष्टिमारभ्य सृष्टिमार्गं वद प्रभो । यथा त्रिभुवनं सृष्टं ब्रह्मणा विश्वयोनिना ॥ १७॥ तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति । गृत्समदस्य संवादं यथावद्वर्णय प्रभो ॥ १८॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । सृष्टिमार्गं पुरावृत्तं शापमोहितमादरात् ॥ १९॥ मुद्गल उवाच । श‍ृणु दक्ष महाबुद्धे ब्रह्मा लोकपितामहः । ससर्ज विविधं विश्वं तथा ते कथयाम्यहम् ॥ २०॥ गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे । योगमायां समास्थाय विवेशाऽसौ जनार्दनम् ॥ २१॥ निलीय तस्मिन्नब्दान्ते नाभिपद्माद्विनिःसृतः । वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः ॥ २२॥ तत्र पद्मे समासीनो ध्यायन् हेरम्बमन्तरे । ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु ॥ २३॥ पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशो दश । तस्मिन् जले निमग्नोऽभूद् बभ्राम भ्रान्तमानसः ॥ २४॥ सस्मार गणनाथं तं विभो पाहि भयानकात् । (Page खं. २ अ. १ पान २) मज्जन्तं मां जलात् ढुण्ढे वक्रतुण्ड नमोऽस्तु ते ॥ २५॥ स्मृतिमात्रेण तत्रासौ ददर्श वटमुत्तमम् । तत्र पत्रे गणेशानं सुप्तं दृष्ट्वा प्रहर्षितः ॥ २६॥ त्रिनेत्रं च चतुर्बाहुं शुण्डादण्डविराजितम् । महोदरं शेषनाभिं भालचन्द्रं किरीटिनम् ॥ २७॥ सर्वावयवसम्पूर्णं नानाभूषणभूषितम् । वस्त्रैः सञ्छादितं बालमङ्गुष्ठपरिमाणकम् ॥ २८॥ एतादृशं गणेशानं दृष्ट्वा विस्मितमानसः । महाजले वटो योऽयमवशिष्टः कथं जले ॥ २९॥ वटस्य सन्निधाने स ययौ ब्रह्मा प्रजापते । सिषेच गणनाथश्च जलं ब्रह्मणि शुण्डया ॥ ३०॥ तेन हृष्टः स्वयं ब्रह्मा तुष्टाव स गजाननम् । बद्धाञ्जलिपुटो भूत्वा भक्तिनम्रात्मकन्धरः ॥ ३१॥ ब्रह्मोवाच । नमस्ते गणनाथाय प्रलयाम्बुविहारिणे । वटपत्रशयायैव हेरम्बाय नमो नमः ॥ ३२॥ चतुर्भुजधरायैव नाभिशेषाय ते नमः । गजवक्त्राय सर्वेश लम्बोदर नमोस्तु ते ॥ ३३॥ एकदन्ताय वै तुभ्यं नानाशोभासमन्वित । अङ्गुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४॥ सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च । अनन्तविभवायैव गणेशाय नमो नमः ॥ ३५॥ निर्गुणाय गुणाधार सगुणाय नमो नमः । एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ ३६॥ अनादिबालरूपाय सृष्टिस्थित्यन्तकारिणे । मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ ३७॥ निवारय महाविघ्नं सृष्टिकर्तुर्गजानन । जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ ३८॥ शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल । तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ ३९॥ ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुण्डे ददर्श ह । विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ ४०॥ ततो नानासमीरेण नीतो ब्रह्मा महोदरे । तत्र विश्वं ददर्शाऽसौ नानाश्चर्यमयं पुनः ॥ ४१॥ एवं नानाण्डसंयुक्तमुदरं वीक्ष्य च प्रभोः । रोमद्वारेण ब्रह्माऽसौ बहिर्यातो यथा पुरा ॥ ४२॥ ददर्श तं गणेशानं बालरूपं सुविस्मितः । तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ ४३॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ ४४॥ यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति । यं यं चिन्तयते भावं तं तं दास्यामि निश्चितम् ॥ ४५॥ नाभेः कलमतो विष्णोनिःसृतो वरदानतः । तत्राऽऽदौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामह ॥ ४६॥ तेन त्वं विघ्नसंयुक्तः पुनर्जातो न संशयः । अधुना मे स्मृतिं कृत्वा दृष्ट्वा मां विघ्नवर्जितः ॥ ४७॥ अतः परं विधे किञ्चित्त्वया कार्यं महामते । मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि ॥ ४८॥ यथा दृष्टं मदीयेऽद्य जगत्स्थावरजङ्गमम् । उदरे तादृशं विश्वं सृज त्वं मेऽधुनाज्ञया ॥ ४९॥ इत्युक्त्वान्तर्दधे सद्यो गणेशो बालरूपधृक् । (Page खं. २ अ. २ पान ३) ब्रह्मा पद्मे समासीनो यथापूर्वं बभूव ह ॥ ५०॥ ततो गणेशमन्त्रं च जजाप कमलासनः । पूजयित्वा यथान्यायं ध्यानसंस्थो बभूव ह ॥ ५१॥ तस्य हृद्देशमध्येऽसौ प्रकटोऽभूद्गजाननः । तं ननाम स्वयं ब्रह्मा पूजां चक्रे स मानसीम् ॥ ५२॥ दक्षिणावसरे तत्र सिद्धिर्बुद्धिरुभे परे । आगते हृदि मध्ये च ते ददौ विघ्नहारिणे ॥ ५३॥ यथाशास्त्रविधानेन तस्य पूजां प्रगृह्य सः । अन्तर्धानं ययौ सद्यो गणेशः सर्वनायकः ॥ ५४॥ अन्तर्हिते गणेशाने हृदिस्थे ब्रह्मरूपिणि । तं प्रणम्य स्वयं ब्रह्मा सृष्टिं कर्तुं मनो दधे ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ब्रह्मसृष्टिप्रारम्भो नाम प्रथमोऽध्यायः ॥ २.१

२.२ नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गणेशं मनसा ध्यात्वा सृष्टिं कर्तुं मनो दधे । आदौ तस्य विधेर्देहादविद्या सा विनिःमृता ॥ १॥ सा पञ्चधा ततो भिन्ना स्वयं जाता प्रजापते । तां दृष्ट्वा विस्मितो ब्रह्मा मनसा दुःखितोऽभवत् ॥ २॥ अविद्याभ्रान्तिरूपाऽत्र ह्यनन्तविभवात्मिका । रक्ता कृष्णा तथा श्वेता नानाश्चर्यमयी बभौ ॥ ३॥ त्रिविधानां प्रसूतिश्च जगत्त्रयविमोहिनी । तया विमोहितं विश्वं भ्रान्तियुक्तं बभूव ह ॥ ४॥ तमो मोहो महामोहः श‍ृणु दक्ष महाद्भुतम् । तामिस्रश्चान्धतामिस्रः पञ्चधा जगति स्थिता ॥ ५॥ तमोऽज्ञानस्वरूपं यत्तेन सञ्छादितं जगत् । देहस्वार्थसमायुक्तं बभूव भ्रान्तमानसम् ॥ ६॥ मोहः स कामनायुक्तं कर्म नाना विनिर्ममे । तेन विश्वं शरीरस्य कुरुते कर्मभोगदम् ॥ ७॥ महामोहेन संसृष्टं विकर्म विविधं प्रभो । तेन देहस्य भोगार्थं पापानि कुरुते नरः ॥ ८॥ तामिस्रेण फलं सृष्टं रोगदारिद्र्यकादिकम् । तेनाऽऽधिव्याधिसंयुक्तमभूद्विश्वं प्रपीडितम् ॥ ९॥ अन्धतामिस्रतो दक्ष नरको यातनात्मकः । तेन स्वकर्मदोषेण यातनां बुभुजे जगत् ॥ १०॥ एषाऽविद्यागणेशानं स्मृत्वा स्वार्थपराऽभवत् । ततो ब्रह्मा विनिन्द्यैनां पुनः स्रष्टुं मनो दधे ॥ ११॥ ततस्तस्य शरीरात्तु चतुःपुत्राः प्रजज्ञिरे । सनकश्च महायोगी तथान्यश्च सनन्दनः ॥ १२॥ सनातनोऽपि च सनत्कुमारश्च चतुर्थकः । तेषां मातृस्वरूपेण विद्या ज्ञानात्मिका बभौ ॥ १३॥ बोधरूपां निराकारां साक्षादात्ममयीं पराम् । तां दृष्ट्वा हर्षयुक्तोऽभूद्ब्रह्मा सर्वपितामहः ॥ १४॥ सहजस्य धरस्तत्र सनकः सम्बभौ सुतः । समयोगधरो दक्ष प्रतापी च स नन्दनः ॥ १५॥ ज्ञानयोगमयो योगी सनातन इति स्मृतः । कर्मयोगस्वरूपः सनत्कुमारः स आबभौ ॥ १६॥ तान् दृष्ट्वा हर्षसंयुक्त उवाच जगदीश्वरः । (Page खं. २ अ. ३ पान ४) स्मृत्वाऽसृजत संसृष्टिं गणेशं तैः कृतं तथा ॥ १७॥ नानाविधं योगमार्गं ससृजुस्ते महौजसः । तं दृष्ट्वा नाभ्यनन्दत्स ब्रह्मा प्रोवाच तान् पुनः ॥ १८॥ अलं योगमयीं सृष्टिं मा कुरुध्वं महौजसः । तथेति ते महाभागा ऊचुस्तं संस्थिता बभुः ॥ १९॥ ब्रह्मा ज्ञानमयीं सृष्टिं ततो दृष्ट्वा चुकोप ह । कोषात्तस्य ललाटाद्वै शम्भुः पुत्रो बभूव ह ॥ २०॥ तुष्टाव तेजसा दीप्तं पञ्चवक्त्रधरं प्रभुम् । त्रिनेत्रं दशबाहुं तं चन्द्ररेखाविभूषितम् ॥ २१॥ अर्धनारीनरं प्राज्ञं त्रिशूलादिसुचिह्नितम् । जटाधरं महाकायं व्याघ्रेभाजिनधारकम् ॥ २२॥ सहसा जातमात्रेण रुदितं शङ्करेण च । तं ब्रह्मा सान्त्वयामास किं रोदिषि वृषध्वज ॥ २३॥ ब्रह्माणमवदद्बालः स्थानं देहि पितः प्रभो । मह्यं नामानि सर्वेश कार्यं कथय विस्तरात् ॥ २४॥ तं प्रत्युवाच धाता स रोदनाद्रुद्रसंज्ञितः । शिवः सर्वसुखाधारस्त्वं जातोऽसि महेश्वर ॥ २५॥ वरदानप्रभावेणाधुना सर्वेश्वरः प्रभो । साक्षाच्छङ्करवेषेण पुत्रतां मे समागतः ॥ २६॥ पृथ्वी जलं तथा तेजो वायुराकाशमेव च । चन्द्राः सूर्यो दीक्षितोऽष्टौ तव स्थानानि शङ्कर ॥ २७॥ अष्टमूर्तिधरः शर्वः सर्वेभ्यः फलदायकः । तव नामानि देवेश एकादश भवन्तु वै ॥ २८॥ कुरु सृष्टिं महादेव ध्यात्वा देवं गजाननम् । तथेति सृष्टिमारेभे ध्यात्वा गणपतिं शिवः ॥ २९॥ रुद्रान्नानाविधान् शम्भुः ससर्ज बहुतेजसः । अनन्तान्विविधाकारानमृतात्मप्रधारकान् ॥ ३०॥ तान् दृष्ट्वा ब्रह्मदेवोऽपि मा कुरुष्व जगत्पते । जन्ममृत्युयुतान् शम्भो सृजस्व विविधांस्तथा ॥ ३१॥ ततः शिवो विधातारमुवाच न सृजाम्यहम् । जन्ममृत्युयुतान् देवेत्युक्त्वा तूष्णीं बभूव ह ॥ ३२॥ तेन स्थाणुरिति प्रोक्तं नाम तस्य महात्मनः । ऊर्ध्वरेताः स्वयं शम्भुः स्थितो गणपतिं भजन् ॥ ३३॥ ततो ब्रह्मा मुखेभ्यो वै वेदान् शास्त्रसमन्वितान् । पुराणानि ससर्जाऽसौ तानुवाच कृताञ्जलीन् ॥ ३४॥ सृजध्वं विविधां सृष्टिं तथेति गणपं तदा । तपसा तोषयामासुः ससृजुस्तद्वरैः प्रजाः ॥ ३५॥ कर्माणि विविधानीह ससृजुः परमादरात् । तानि दृष्ट्वा विधाताऽसौ हर्षयुक्तो बभूव ह ॥ ३६॥ ततो यज्ञं समारेभे ब्रह्मा विष्णुमचिन्तयत् । पुत्रार्थं तं महाभागं सोऽपि तत्पुत्रतां गतः ॥ ३७॥ यज्ञाच्चतुर्भुजो देवो यज्ञरूपो जनार्दनः । समुद्भूतः स्वयं विष्णुस्तमुवाच कृताञ्जलिः ॥ ३८॥ आज्ञां देहि पितर्मां त्वं ततस्तं विधिरब्रवीत् । सृष्टिं कुरु गणेश त्वं तथा स्मृत्वा चकार सः ॥ ३९॥ यज्ञान् कर्मसमुद्भूतान ससर्ज विविधान् हरिः । नानाफलप्रदान पूर्णान् कल्पवृक्षानिव प्रभुः ॥ ४०॥ तान् दृष्ट्वा हर्षितो ब्रह्मा ततः स ससृजे पुनः । (Page खं. २ अ. २ पान ५) तस्य देहात्समुत्पन्नाः पुत्रा दश महौजसः ॥ ४१॥ मरीचिर्भृगुरत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्ष त्वमङ्गिराश्चैव वसिष्ठो नारदः प्रभो ॥ ४२॥ तानुवाच स्वयं ब्रह्मा सृजध्वं विविधाः प्रजाः । ओमित्युक्त्वा ययुः सर्वे तपसे वनमुत्तमम् ॥ ४३॥ ततो नारद आद्यन्तमुवाच पितरं मुनिः । नाहं सृजामि देवेश भजामि गणनायकम् ॥ ४४॥ मायामयं सर्वमिदं मिथ्याभूतं भ्रमात्मकम् । श्राम्येज्ज्ञाता तदर्थं यो मूर्खवन्नात्र संशयः ॥ ४५॥ ततस्तं पुनरप्याह सृज त्वं विविधाः प्रजाः । अन्त्ये वयसि देवेशं गणेशं भज पुत्रक ॥ ४६॥ स ऊचे त्वं बोधयसि किमर्थं मां प्रजापते । मिथ्याभूतार्थमादौ कः सृजति भ्रान्तिसंयुतः ॥ ४७॥ ततस्तं शप्तवान् ब्रह्मा पत त्वं शूद्रयोनितः । गन्धर्वश्च तथा भावी नानास्त्रीभोगकारकः ॥ ४८॥ ततस्तं नारदस्तातं शशाप क्रोधसंयुतः । अपूज्यो भविताऽसि त्वं वृथा शपसि मां यतः ॥ ४९॥ ततो नारद एवाऽसौ गत्वा तपसि संस्थितः । गणेशं तोषयामास मन्त्रेणैकाक्षरेण च ॥ ५०॥ दिव्यवर्षशते पूर्णे तं ययौ गणपः स्वयम् । वरं वृणु महाभाग दास्यामि मनसीप्सितम् ॥ ५१॥ ततस्तं स्तुतवान् देवं गणेशं सर्वसिद्धिदम् । अवृणोच्च वरं चेति शापं मे विनिवर्तय ॥ ५२॥ ततस्तं गणराजः स ऊचिवान् भक्तवत्सलः । पितृशापं कथं मिथ्या करोमि वद साम्प्रतम् ॥ ५३॥ मया वरस्तथा दत्तो ब्रह्मणे तेन सत्यवाक् । अतः श‍ृणु महाभाग वचनं मे सदा हितम् ॥ ५४॥ गन्धर्वो भवितासि त्वं तत्र ज्ञानं वदामि ते । सदा स्त्रीभिः समायुक्तं त्वां माया न प्रबाधते ॥ ५५॥ पुनस्त्वं शूद्रयोनौ च भविष्यसि न संशयः । तत्र संन्यासिभिः सङ्गो भविष्यति यदाऽनघ ॥ ५६॥ तेभ्यो ज्ञानं समासाद्य गमिष्यसि वनेषु च । तत्र वैष्णवमार्गेषु त्वं संसक्तो भविष्यसि ॥ ५७॥ तद्देहपतनात् भावी पुनस्त्वं ब्रह्मणः सुतः । नारदो नाऽत्र सन्देहस्तत्र शम्भुं भजिष्यसि ॥ ५८॥ नारायणमुखात्तत्र मां ज्ञात्वा मत्प्रियो मुने । भविष्यसि च योगेन्द्रो गाणपत्यो न संशयः ॥ ५९॥ इत्युक्त्वा गणनाथस्तं तत्रैवान्तरधीयत । नारदस्तं नमस्कृत्य शापं भुक्त्वा दिवं गतः ॥ ६०॥ पुनः स नारदो जातः शिवभक्तिपरायणः । नारायणेन संज्ञप्तो गाणपत्यो बभूव ह ॥ ६१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः ॥ २.२

२.३ नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कथं नारायणेनाऽसौ बोधितो मुनिसत्तमः । तन्मे कथय योगीन्द्र न तृप्यामि कथामृतात् ॥ १॥ मुद्गल उवाच । (Page खं. २ अ. ३ पान ६) एकदा नारदो दक्ष पर्यटञ्छङ्करं गतः । तत्र सम्पूजयन्तं तं गणेशं स ददर्श ह ॥ २॥ मूर्तिं चिन्तामणेः साक्षात् स्थापितां रत्ननिर्मिताम् । शुण्डादण्डमुखीं चैव शङ्करस्तामपूजयत् ॥ ३॥ तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः । प्रययौ तं नमस्कृत्य विकुण्ठे विष्णुमादरात् ॥ ४॥ तं प्रणम्य महातेजा नारदो विनयान्वितः । उवाच भक्तिसंयुक्तो नारायण नमोऽस्तु ते ॥ ५॥ त्वं साक्षाज्जगतामीशो नुद मे संशयं प्रभो । कैलासमगमं द्रष्टुमहं शङ्करमुत्सुकः ॥ ६॥ तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन । अपूजयन्महाभक्त्या रोमाञ्चितशरीरवान् ॥ ७॥ अश्रुप्रवाहसंयुक्तं प्रेम्णा चैव परिप्लुतम् । ध्यानस्थं शङ्करं दृष्ट्वा मौनवानभवं प्रभो ॥ ८॥ तं प्रणम्य महाविष्णो त्वदन्तिकमुपागतः । त्वं चापि गणराजस्य वदसे नाममन्त्रकम् ॥ ९॥ शङ्करान्न परं किञ्चिदव्यक्तं ब्रह्म कथ्यते । शिवो विकारहीनश्च सर्वसिद्धिप्रदो मतः ॥ १०॥ त्वं तदीया महाशक्तिः प्रभो नारायणाह्वया । सदानन्दस्वरूपश्च सर्वात्मा चैव कथ्यते ॥ ११॥ कोऽसौ गणेश्वरो नाम त्वं कथं स्मरसि प्रभो । विश्वनाथः कथं शम्भुस्तं पूजयति नित्यशः ॥ १२॥ एनं मे संशयं देव च्छेत्तुमर्हसि केशव । सर्वज्ञस्त्वं रमानाथ शाधि मां शिष्यमागतम् ॥ १३॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा प्रहृष्टः केशवोऽब्रवीत् । तं गणेशस्य सम्भक्तेः पात्रं दृष्ट्वा यथार्थतः ॥ १४॥ नारायण उवाच । श‍ृणु नारद मे वाक्यं संशयं कुरु मा मुने । योगशान्तिस्वरूपोऽयं गणेशो नात्र संशयः ॥ १५॥ सिद्धिबुद्धिपतिः साक्षात् स्वानन्दाख्ये पुरे स्थितः । तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः ॥ १६॥ विनायकः स एको वै वयं नायकसंयुताः । भजामो भक्तियुक्तास्तं योगशान्त्यर्थमादरात् ॥ १७॥ एकदाऽहं गतस्तत्र कैलासे शङ्करालये । गणेशं पूजयन्तं तं शिवं दृष्ट्वा सुविस्मितः ॥ १८॥ तस्य नित्यविधिं पूर्णं जातं दृष्ट्वा तमब्रवम् । त्वं साक्षान्निर्विकारश्च मोहहीनः सदाशिव ॥ १९॥ अव्यक्तं ब्रह्म यत्प्रोक्तं ब्रह्माधिपतिसंज्ञितम् । त्वमेव वेदवादेषु कथं वदसि विघ्नपम् ॥ २०॥ कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो । सर्वज्ञस्त्वं सदा शम्भुः शिष्यं ते तारयस्व माम् ॥ २१॥ शिव उवाच । श‍ृणु विष्णो रहस्यं मे शान्तिदं योगसेवया । योगपूर्णं गणेशाख्यं ब्रह्मभूयपदप्रदम् ॥ २२॥ पञ्चधा चित्तवृत्तिर्या सा बुद्धिः कथ्यते बुधैः । पञ्चभेदतया सर्वं भुनक्ति प्रकृतिः परा ॥ २३॥ तत्र मोहप्रदा सिद्धिर्नानाभ्रान्तिप्रकाशिका । सिध्यर्थं पञ्चधा चित्तं यत्नयुक्तं बभूव ह ॥ २४॥ धर्मार्थकाममोक्षाणां सिद्धिः सर्वत्र कथ्यते । (Page खं. २ अ. ३ पान ७) ब्रह्मभूयकरी साक्षाज्जानीहि पुरुषोत्तम ॥ २५॥ ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते । धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो ॥ २६॥ तस्य पञ्चविधं चित्तं नास्ति जानीहि निश्चितम् । तदा योगी समाख्यातो गणेशाभेदतां गतः ॥ २७॥ सम्प्रज्ञातसमाधिस्थो गकारः कथ्यते बुधैः । असम्प्रज्ञातरूपो वै णकारो वेदवादिभिः ॥ २८॥ तयोः स्वामी गणेशोऽयं शान्तियोगमयः सदा । नेतिरूपोऽहमव्यक्तस्त्वं समात्मक उच्यसे ॥ २९॥ यत्र कुत्र प्रदृष्टा वै वयं सर्वे भवात्मकाः । भवप्रत्यययोगस्थो गणेशः पञ्चधाऽभवत् ॥ ३०॥ स तु मायामयः प्रोक्तो वेदेषु खलु केशव । मायाहीनो गणेशान उपायप्रत्ययात्मकः ॥ ३१॥ साक्षाद्गणेशरूपे च मायायुक्तवियुक्तता । नास्ति तस्मात्स वै शान्त्या लभ्यते नान्यथा क्वचित् ॥ ३२॥ गणेशोऽहं सदा ब्रह्म ब्रह्मणां पतिरञ्जसा । योगोऽयं गाणपत्याख्यः कथितस्ते मया प्रभो ॥ ३३॥ अनेन विधिना ज्ञानं गाणेशाख्यं भविष्यति । त्यक्त्वा पञ्चविधं चित्तं भव चिन्तामणिः प्रभो ॥ ३४॥ एवमुक्त्वा महादेवो विरराम च नारद । मया ते कथितं ज्ञानं गाणेशाख्यं महामुने ॥ ३५॥ अस्माकं पददाता स ब्रह्मभूयप्रदस्तथा । गणेशः कुलदेवश्च तस्मात्तं प्रभजामहे ॥ ३६॥ मुद्गल उवाच । तं विष्णुं प्रणिपत्याऽथ नारदः प्रययौ मुनिः । तपोवनं समासाद्य योगाभ्यासरतोऽभवत् ॥ ३७॥ गणेशं मनसा ध्यायन्नजपन् मन्त्रमुत्तमम् । दशवर्षेः प्रसन्नोऽभूद्गणेशस्तं ययौ मुनिम् ॥ ३८॥ तं दृष्ट्वा विस्मितोऽत्यन्तं नारदः प्रणनाम च । कृताञ्जलिपुटो भूत्वा तुष्टाव गणपं मुनिः ॥ ३९॥ नारद उवाच । नमामि गणनाथं तं सर्वविघ्नविनाशिनम् । वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥ मनोवाणीविहीनं नो मनोवाणीमयं न च । ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥ त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा । इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥ पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः । रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३॥ नमो नमो गणेशाय विघ्नराजाय ते नमः । भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥ अमेयमायया चैव संयुक्ताय नमो नमः । योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥ विनायकाय सर्वेश नमश्चिन्तामणे नमः । अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥ एकदन्ताय देवाय मायिभ्यो मोहदाय ते । नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥ निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे । महाखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥ अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये । हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥ त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् । (Page खं. २ अ. ४ पान ८) मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥ न भिन्नं परिपश्यामि त्वदृते गणनायक । शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥ भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः । कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥ इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् । मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥ न योगाच्चलनं क्वापि भविष्यति महामुने । सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥ त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् । पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥ इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः । सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥ इत्याख्यानं नारदीयं कथितं ते प्रजापते । श‍ृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीय खण्डे एकदन्तचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ॥ २.३

२.४ मधुकैटभवधो नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो ब्रह्मा ससर्जाऽसौ मुखतो ब्राह्मणान् स्वयम् । बाहुभ्यः क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा ॥ १॥ पद्भ्यः शूद्रान् महादेवः ससर्ज गुणप्रेरितः । संन्यासं शिरसस्तद्वद्वानप्रस्थाश्रमं हृदः ॥ २॥ नाभ्याश्च ब्रह्मचर्यं स जङ्घाभ्यां गृहितां तथा । वर्णाश्रमान् स वै दृष्ट्वा हर्षितोऽभूत् पितामहः ॥ ३॥ ततो धर्मं स्वयं ब्रह्मा ससर्जोरःप्रदेशतः । पृष्ठतोऽधर्मरूपं च सुरदैत्यप्रवर्तकौ ॥ ४॥ ततो देवांश्च गन्धर्वानप्सरोयक्षकादिकान् । असुरान् यातुधानांश्च ससर्ज निजदेहतः ॥ ५॥ सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान् । क्रियायुक्तान् ससार्जाऽसौ स्वदेहं प्रददौ ततः ॥ ६॥ ते सर्वे ब्रह्मणो देहात्समुत्पन्ना महौजसः । व्यवहारयुता दक्ष ववृधुर्न तथापि ते ॥ ७॥ तेषां स्वर्गप्रमाणं च श‍ृणु मुख्यं प्रजापते । सङ्क्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परम् ॥ ८॥ प्रथमो महतः सर्गो ब्रह्मणः स तु कथ्यते । तन्मात्राणां द्वितीयस्तु भूतसर्गः प्रकीर्तितः ॥ ९॥ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः । इत्येते प्राकृताः सर्गाः सम्भूता बुद्धिपूर्वकाः ॥ १०॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यक्योनिः स पञ्चमः ॥ ११॥ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः । ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानवः ॥ १२॥ अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः । नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा ॥ १३॥ विकृताः षट् समाख्याता प्राकृताश्च त्रयो मताः । (Page खं. २ अ. ४ पान ९) नवसर्गाः प्रविज्ञेयाः प्राकृता वैकृता इमे ॥ १४॥ प्राकृता ये त्रयः सर्गा बुद्धिपूर्वाः प्रकीर्तिताः । बुद्धिपूर्वं प्रवर्तन्ते तत्त्वाद्यैः सर्वजन्तवः ॥ १५॥ एवं सृष्ट्वा स्वयं ब्रह्मा प्रजा नानाविधाः प्रभो । ववृधुर्न प्रजास्तस्य तेन सन्दुःखितोऽभवत् ॥ १६॥ ततस्तस्य शरीराद्वै दाम्पत्यं निःसृतं परम् । वामाङ्गात्मकृती रम्या शतरूपा च सा स्मृता ॥ १७॥ दक्षिणाङ्गात्तु सम्भूतः पुरुषः स मनुः स्मृतः । स्वायम्भुवो महाभाग आद्यः क्षत्रियधर्मवित् ॥ १८॥ बद्धाञ्जलिपुटौ चोभौ वचो बह्माणमूचतुः । आज्ञां कुरु महाभाग किं कुर्याव प्रजापते ॥ १९॥ ततो ब्रह्मा स्वयं जातौ तौ जगाद प्रहर्षितः । अतुलां सृजतं सृष्टिं मैथुनीं तपसो बलात् ॥ २०॥ ततस्तौ तं प्रणम्यादौ जग्मतुर्वनमुत्तमम् । प्रतेपाते तपो घोरं विचिन्त्य गणपं हृदि ॥ २१॥ ततो विधातृच्छायायाः कर्दमो मुनिसत्तमः । सनुत्पन्नश्च तं दृष्ट्वा ब्रह्मोवाच सृज प्रजाः ॥ २२॥ स मुनिर्वनमागत्य तताप परमं तपः । विष्णुं ध्यात्वा प्रजाकामः शुक्लरूपं यथाविधि ॥ २३॥ एतस्मिन्नन्तरे जातौ विष्णुकर्णमलोद्भवौ । मधुकैटभनामानौ दैत्यौ परमदारुणौ ॥ २४॥ ताभ्यां स्वभुजवीर्येण जितं त्रिभुवनं तदा । देवाः सर्वे भयोद्विग्नाः पलायन्त दिशासु च ॥ २५॥ ब्रह्माणं भक्षितुं यातौ तेन निद्रा स्तुता तदा । निद्रया विष्णुरव्यक्तो मुक्तः सन्नुत्थितो बभौ ॥ २६॥ तेन युद्धं महाघोरं कृतं ताभ्यां भयानकम् । मल्लयुद्धेन तौ जेतुं न शशाक जनार्दनः ॥ २७॥ पञ्चवर्षसहस्राणि युयुधे हरिरव्ययः । ततो हरिं ममृदतुर्महादैत्यौ बलान्वितौ ॥ २८॥ ततो विष्णुः स्वमात्मानमतंर्धाय पलायत । शरणं शङ्करं चैव ययौ भावसमन्वितः ॥ २९॥ प्रणिपत्य महेशानं जगाद भयसङ्कुलः । वृत्तान्तं युद्धसम्भूतं जयोपायं वदस्व मे ॥ ३०॥ तेन सङ्कथितं तस्मै गणेशो विस्मृतस्त्वया । तमाराधय यत्नेन ततः सिद्धिमवाप्स्यसि ॥ ३१॥ षडक्षरं महामन्त्रं गणेशाय ददौ शिवः । स ययौ तपसे देशे दण्डकारण्यसंज्ञके ॥ ३२॥ तत्र पद्मासनं कृत्वा ध्यात्वा देवं गजाननम् । षडक्षरविधानेन तताप परमं तपः ॥ ३३॥ सहस्रवर्षपर्यन्तं तपस्तप्तं सुदारुणम् । तदा तं वरदानाय विष्णुं गणपतिर्ययौ ॥ ३४॥ तं दृष्ट्वा प्रणनामाथ पूजयामास भक्तितः । महाविष्णुः प्रसन्नात्मा प्रणनाम गजाननम् ॥ ३५॥ बद्धाञ्जलिपुटो भूत्वा तं तुष्टाव गणेश्वरम् । नानाभावसमायुक्तं वरदं भक्तवत्सलम् ॥ ३६॥ श्रीमहाविष्णुरुवाच । नमो गणपते तुभ्यं विघ्नराजाय ते नमः । नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥ सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे । अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥ (Page खं. २ अ. ५ पान १०) निर्गुणाय गुणानां वै चालकाय नमो नमः । नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ ३९॥ ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे । नरकुञ्जररूपाय नानामायामयाय ते ॥ ४०॥ कारणानां च देवेश कारणाय नमो नमः । ज्येष्ठराजाय वै तुभ्यं कारणै रहिताय च ॥ ४१॥ योगिनां हृदि संस्थाय योगिभ्यो योगदायिने । योगरूपधरायैव गणेशाय नमो नमः ॥ ४२॥ मायाश्रयाय मायाया आधाराय नमो नमः । मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ ४३॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे । यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ ४४॥ मनोवाणीविहीनस्त्वं न हि देव कृपाकर । मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ ४५॥ तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः । धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ ४६॥ साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः । जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ ४७॥ इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः । रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ ४८॥ तमुवाच गणाधीशो वरं वृणु जनार्दन । तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ ४९॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विष्णो पठतां श‍ृण्वतां सदा ॥ ५०॥ धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति । ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ ५१॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः । जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ ५२॥ विष्णुरुवाच । यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् । तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ ५३॥ अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा । कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ ५४॥ मधुकैटभनाशार्थमुपायं वद साम्प्रतम् । अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ ५५॥ तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् । युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ ५६॥ तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् । समये वरदानस्य तपसा तोषितेन च ॥ ५७॥ स्वमुखेन यदा मृत्युं दैत्यौ तौ कथयिष्यतः । तदा तेन प्रकारेण जहि दैत्यौ महाबलौ ॥ ५८॥ अहं मायां समाश्रित्य तयोस्तव हृदि प्रभुः । वासं कृत्वा तवाधीनौ करिष्यामि न संशयः ॥ ५९॥ मदीयस्मरणं चित्ते करिष्यति यदा भवान् । जयोपायं तदा विष्णो ज्ञास्यसे दैत्यनाशकम् ॥ ६०॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । विष्णुस्तत्र महामूर्तिं स्थापयामास सुद्विजैः ॥ ६१॥ पूजयामास तां मूर्तिमुपचारैः सुपुष्कलैः । सिद्धिक्षेत्रं सुविख्यातं तदादेः प्रबभूव ह ॥ ६२॥ अनुष्ठाने कृते तत्र नानामिद्धिकरं परम् । क्षेत्रं बभूव विख्यातं गाणेशं सिद्धसेवितम् ॥ ६३॥ (Page खं. २ अ. ५ पान ११) तत्र विष्णुः सदा वासं चक्रे वै भक्तिसंयुतः । सदारः परिवारेणापूजयन्नित्यमादरात् ॥ ६४॥ तं प्रणम्य गणाधीशं ययौ युद्धाय सत्वरः । गणेशं मनसा ध्यात्वा तौ चिच्छेद महाबलौ ॥ ६५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मधुकैटभवधो नाम चतुर्थोऽध्यायः ॥ २.४

२.५ स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नवब्रह्मसुताः प्रोक्तास्तेपुस्ते परमं तपः । दिव्यवर्षसहस्रं च गणेशं हृद्यचिन्तयन् ॥ १॥ एकाक्षरविधानेन पूजयन्तश्च नित्यशः । वायुमात्राशिनः सर्वे तोषयामासुरादरात् ॥ २॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो भक्तवत्सलः । आययौ तान् वरं दातुं मूषकोपरि संस्थितः ॥ ३॥ अनन्तसूर्यसङ्काशं दृष्ट्वा तं हर्षसंयुताः । सौम्यरूपं प्रणेमुस्ते निबद्धकरसम्पुटाः ॥ ४॥ तुष्टुवुः परमात्मानं गणेशं दक्षमुख्यकाः । तद्दर्शनजबोधेन भक्तिनम्रात्मकन्धराः ॥ ५॥ प्रजापतय ऊचुः । नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे । सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ ६॥ योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः । योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ ७॥ स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते । अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ ८॥ ब्रह्मणे विष्णवे चैव शङ्कराय च भानवे । शक्तये चन्द्ररूपाय यमाय च नमो नमः ॥ ९॥ अग्नये नैरृतायैव वारुणाय च वायवे । कुबेराय च रुद्राय शेषाय च नमो नमः ॥ १०॥ ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च । पशवे नररूपाय वृक्षाकाराय ते नमः ॥ ११॥ पर्वताय समुद्राय नदीनदसुरूपिणे । दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥ १२॥ अन्नाय फलरूपाय रसरूपाय ते नमः । पञ्चभूतमयायैव सर्वाकाराय ते नमः ॥ १३॥ चिद्रूपाय च बोधाय विदेहाय नमो नमः । असत्याय च सत्याय समरूपाय साधये ॥ १४॥ स्वानन्दाय ह्ययोगाय योगाय गणधारिणे । गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च ॥ १५॥ चिन्तामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् । चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥ १६॥ मुद्गल उवाच । एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते । तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥ १७॥ भवद्भिर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति । यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥ १८॥ पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति । वन्ध्यदोषहरं धान्यधनदं पशुदं परम् ॥ १९॥ भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरम्भवेत् । (Page खं. २ अ. ५ पान १२) मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥ २०॥ गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः । तं प्रणम्य महाभक्त्या ऊचुः प्राञ्जलयोऽभवन् ॥ २१॥ त ऊचुः । यदि प्रसन्नतां यातस्तदा देहि गजानन । त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥ २२॥ सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक । यद्यदिच्छामहे ढुण्ढे तत्तत् सिध्यतु सर्वदा ॥ २३॥ ओमित्युक्त्वा गणाधीशोन्तर्धानं प्रचकार वै । तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥ २४॥ ततो ब्रह्मा पुनर्दक्षमगादीत् पुत्रमुत्तमम् । शक्तेस्तपस्त्वया कार्यं सा ते पुत्री भविष्यति ॥ २५॥ ततो दक्षेण तपसाराधिता शक्तिरादरात् । शतवर्षे प्रसन्ना सा ययौ तस्यान्तिकं स्वयम् ॥ २६॥ ततस्तां प्रणनामाथ तुष्टाव प्रकृताञ्जलिः । दक्ष उवाच । नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि ॥ २७॥ जगद्धात्र्यै नमस्तुभ्यं जगन्मातर्नमो नमः । सर्वेषां प्राणदात्र्यै ते सर्वरूपिणि ते नमः ॥ २८॥ अनाद्यै चादिभूतायै पार्वत्यै ते नमो नमः । गायत्रिका श्रीसावित्रीरूपायै ते नमो नमः ॥ २९॥ प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि । निर्गुणायै गुणानां वै धारिकायै नमो नमः ॥ ३०॥ प्रसीद भव मे पुत्री दाक्षायणि नमो नमः । ततस्तं पार्वती प्राह भक्तं दक्षप्रजापतिम् ॥ ३१॥ शक्तिरुवाच । भविष्यामि सुता तेऽहं नानारूपधरा सुत । जगच्च पूरयिष्यामि जनयित्वा सुताः सुतान् ॥ ३२॥ त्वया कृतं मदीयं यत्स्तोत्रं ख्यातिं गमिष्यति । सर्वकामप्रदं पूर्णं पठते श‍ृण्वते भवेत् ॥ ३३॥ अन्तर्धानं ययौ देवी पश्यतस्ते प्रजापते । त्वया गणेशनाम्नश्च स्मरणं त्यक्तमद्य वै ॥ ३४॥ मन्त्रस्तस्य परित्यक्तः स्वेन दुर्बुद्धिधारिणा । त्वया तिरस्कृता पुत्री सती भस्मत्वमागता ॥ ३५॥ त्वमपि शोकसंयुक्तः कृतो विघ्नेश्वरेण वै । पूर्वसंस्कारयोगेन स्मृतिस्तव समागता ॥ ३६॥ अधुना भावयुक्तस्तं श‍ृणु मे तत्कथामृतम् । राज्यलक्ष्मीश्च सम्प्राप्ता यं च तस्य प्रमाददा ॥ ३७॥ तया युक्तः पुमान् सद्यो मदान्धो जायते किल । अतः सन्तश्च नेच्छन्ति लक्ष्मीं ज्ञानविनाशिनीम् ॥ ३८॥ मनुः स्वायम्भुवः ख्यातः सपत्नीको ययौ वनम् । अष्टाक्षरविधानेन तोषयामास विघ्नपम् ॥ ३९॥ तताप स तपो घोरं दिव्यवर्षसहस्रकम् । प्रसन्नोऽभूत्तदा तस्मै वरं दातुं समाययौ ॥ ४०॥ तं दृष्ट्वा प्रणनामादौ मनुः स्वायम्भुवः प्रभो । पूजयन् परया भक्या ततस्तुष्टाव विघ्नपम् ॥ ४१॥ स्वायम्भुव उवाच । नमस्ते गजवक्त्राय हेरम्बाय नमो नमः । ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ ४२॥ नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने । गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३॥ नरकुञ्जररूपाय योगाभेदाय ते नमः । चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४॥ (Page खं. २ अ. ५ पान १३) नानाभोगधरायैवानन्तलीलास्वरूपिणे । विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५॥ सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः । स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ ४६॥ नमस्ते मूषकारूढसर्वान्तरसुभोगिने । नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७॥ सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे । भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८॥ वेदोपनिषदां लभ्यमहावाक्यमयाय ते । ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः । योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ ५०॥ तथापि तव जातेन दर्शनेन गजानन । स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ ५१॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ ५२॥ धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो । विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ ५३॥ इति स्तुत्वा गणाधीशं भक्त्या परमया युतः । सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ ५४॥ तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् । वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ ५५॥ कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् । पठते श‍ृण्वते चापि सर्वदं प्रभविष्यति ॥ ५६॥ पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ ५७॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । दृढभक्तिकरं मे च भविष्यति न संशयः ॥ ५८॥ इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः । स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ ५९॥ मनुरुवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ ६०॥ सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् । प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ ६१॥ यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा । तव भक्तेषु वासो मे सदा भवतु मानद ॥ ६२॥ तथेति तमुवाचादावन्तर्धानं चकार ह । गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते स्वायम्भुववरप्रदानं नाम पञ्चमोऽध्यायः ॥ २.५

२.६ दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः स्वायम्भुवो यातो ब्रह्माणं प्रणनाम सः । शतरूपा तथा तं वै जग्मतुस्तौ तदाज्ञया ॥ १॥ (Page खं. २ अ. ७ पान १४) राज्यं चकार धर्मेण मनुः शस्त्रधरः प्रभुः । धर्मयुक्तो महातेजा गाणपत्यप्रियोऽभवत् ॥ २॥ द्वौ पुत्रौ शतरूपायाः कन्यास्तिस्रः प्रजापते । मैथुनेनैव मार्गेण समुत्पाद्य बभौ मनुः ॥ ३॥ प्रियव्रतोत्तानपादौ पुत्रौ तस्य च धीमतः । आकूतिर्देवहूतिश्च प्रसूतिश्च सुलोचनाः ॥ ४॥ कन्यास्तिस्रः समाख्याता मनोस्तस्य महात्मनः । प्रसूतिं स ददौ तुभ्यमाकूतिं रुचये तथा ॥ ५॥ देवहूतिं मनुस्तत्र कर्दमाय ददौ स्वयम् । एवमादि महाराजश्चकार विधिनोदितः ॥ ६॥ कर्दमस्तपसा विष्णुं तोषयामास यत्नतः । शतवर्षैः प्रसन्नोऽभूद्ययौ दातुं वरं द्विजम् ॥ ७॥ तं ययाचे स पुत्रस्त्वं भव मे जगदीश्वर । वरं दत्त्वा स्वयं विष्णुर्ययौ वैकुण्ठमञ्जसा ॥ ८॥ ततः स देवहूत्यां वै विष्णुः कपिलरूपधृक् । तस्य पुत्रत्वमापन्नो वरदानप्रभावतः ॥ ९॥ आकूत्यां मिथुनं जज्ञे रुचेर्वै मानसं परम् । यज्ञश्च दक्षिणा देवी याभ्यां संवर्धितं जगत् ॥ १०॥ यज्ञो विष्णुर्महाभागो दक्षिणायां सुतान् शुभान् । द्वादशाजनयच्चैव यामा देवाश्च ते स्मृताः ॥ ११॥ ततो यज्ञस्तपोयुक्तः सस्त्रीकश्चाभवत् प्रभुः । गणपं योगमार्गेण तोषयामास सर्वदा ॥ १२॥ कृत्वा मणिमयीं मूर्तिं गणेशस्य चतुर्भुजाम् । नित्यं मुनिगणैर्युक्तोऽपूजयत् भक्तिभावितः ॥ १३॥ ततो गणपतिः प्रीतो ददौ योगं महाद्भुतम् । तेन योगीन्द्रमुख्योऽसौ गाणपत्यो बभूव ह ॥ १४॥ हेरम्बेति सदा मन्त्रं यज्ञो हर्षाज्जजाप ह । शिष्येभ्यः प्रददौ योगं गाणपत्यं मुदान्वितः ॥ १५॥ प्रसूत्यां जनयामास कन्या दक्षः प्रजापतिः । चतुर्विंशति सङ्ख्याता शक्त्यंशाः सर्वमातरः ॥ १६॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ १७॥ ददौ धर्माय पत्न्यर्थं दक्षो हृष्टमना मुने । ब्रह्मणा नोदितश्चैव तासां सूतिं वदामि ते ॥ १८॥ श्रद्धापुत्रः स्मृतः कामोऽर्थश्च लक्ष्मीसुतोऽभवत् । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोषसंज्ञितः ॥ १९॥ पुष्ट्यां लाभः सुतो जज्ञे मेधापुत्रः शमः स्मृतः । क्रियायाश्च स्मृतौ पुत्रौ दण्डः समय एव च ॥ २०॥ बुद्धया बोधोऽभवत्पुत्रश्चाप्रमादः प्रकीर्तितः । लज्जाया विनयश्चैव वपुषो व्यवसायकः ॥ २१॥ शान्तिपुत्रस्तथा क्षेमः सिद्धेः सिद्धः सुतोऽभवत् । यशःकीर्तिसुतः प्रोक्त इत्येते धर्मसूनवः ॥ २२॥ कामस्याऽभूत् सुतो हर्ष आनन्दश्चापरः स्मृतः । इत्येष सुखरूपस्तु सर्गो धर्मस्य कीर्तितः ॥ २३॥ प्रसङ्गात्तं वदिष्यामि सर्गोऽधर्मस्य दुःखदः । ब्रह्मणः पृष्ठतस्तद्वन्मिथुनं सम्बभूव ह ॥ २४॥ अधर्मश्च तथा हिंसा तयोः पुत्रोऽनृतः स्मृतः । निकृतिश्च सुता प्रोक्ता तयोर्जज्ञे भयं तथा ॥ २५॥ नरकश्च तथा माया वेदना च सुते स्मृते । (Page खं. २ अ. ६ पान १५) भयाज्जज्ञे च मायायां मृत्युः सर्वापहारकः ॥ २६॥ नरकाद्वेनायां च दुःखं संसारकारकम् । मृत्योर्व्याधिर्जरा शोकस्तृष्णा क्रोधश्च जज्ञिरे ॥ २७॥ दुःखोदर्काः स्मृताः सर्वे ह्यधर्मप्रभवा मुने । नैतेषां प्रसवश्चास्ति सर्वे ते तूर्ध्वरतेसः ॥ २८॥ एकादश सुताः शिष्टास्तासां वंशं निबोधय । सतीं ददौ स रुद्राय ख्यातिं च भृगवे तथा ॥ २९॥ मरीचये च सम्भूतिं स्मृतिमङ्गिरसे ददौ । पुलस्त्याय तथा प्रीतिं क्षमां च पुलहाय वै ॥ ३०॥ सन्ततिं क्रतवे चासावनसूयां तथाऽत्रये । ददावूर्जां वसिष्ठाय मुने स्वाहां च वह्नये ॥ ३१॥ पितृभ्यश्च स्वधां देवीं ददौ दक्षः प्रहर्षितः । नियोगाद्ब्रह्मणः साक्षात्तासां वंशं वदामि ते ॥ ३२॥ सत्यां च शङ्कराज्जज्ञे कार्तिकेयो महाबलः । देवसेनापतित्वेऽसावभिषिक्तश्च वेधसा ॥ ३३॥ ख्यात्यां भृगोः समुत्पन्ना लक्ष्मीनारायणप्रिया । देवौ धातृविधातारौ मेरोर्जामातरौ स्मृतौ ॥ ३४॥ अयतिर्नियतिश्चैव कन्ये मेरोश्च ते मुने । तयोर्धातृविधातृभ्यां जातौ श्रेष्ठौ सुताबुभौ ॥ ३५॥ मृकण्डोऽन्यस्तथा प्राणो मार्कण्डेयो मृकण्डजः । तथा वेदशिराः प्रोक्तः प्राणस्य द्युतिमान् सुतः ॥ ३६॥ मरीचिरपि सम्भूत्यां पूर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणमण्डितम् ॥ ३७॥ कृषिर्वृष्टिस्तथा कृष्टिश्चतुर्थ्यपचितिर्मुने । विरजाः पर्वतश्चैव पूर्णमासस्य तौ सुतौ ॥ ३८॥ क्षमा च सुषुवे पुत्रान् पुलहाच्च प्रजापतेः । कर्मश्रेष्ठं वरीयांसं सहिष्णुं मुनिपुङ्गवम् ॥ ३९॥ तथा वनकवीनासं तपस्तेजस्विनं सुतम् । अत्रेर्वंशं प्रवक्ष्यामि श‍ृणु शौनक चादरात् ॥ ४०॥ अत्रिः सञ्जनयामासानसूयायां सुताञ्छुभान् । सोमं दुर्वाससं चैव दत्तं योगधरं तथा ॥ ४१॥ त्रयो देवा इमे प्रोक्ता अत्रेः पुत्रा महात्मनः । ब्रह्मा भवश्च विष्णुश्च कलांशेन प्रजाधराः ॥ ४२॥ स्मृत्यामङ्गिरसो जज्ञे सिनीवाली सुलोचना । कुहूराका तथा पुत्र्यनुमतिश्च पतिव्रता ॥ ४३॥ प्रीत्यां पुलस्त्ययोगीशादयोनिरभवत्सुतः । पूर्वजन्मनि विप्रेशोऽगस्त्योऽयं परिकीर्तितः ॥ ४४॥ देवबाहुस्तथा कन्या सर्वाङ्गैः शोभिनी स्मृता । सन्तत्यां षष्टिसाहस्रीं पुत्राणामसृजत् क्रतुः ॥ ४५॥ त ऊर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः । सप्त पुत्रान् स ऊर्जायां वसिष्ठोऽजनयत्प्रभुः ॥ ४६॥ कन्यां कमलपत्राक्षीं चित्रकेतुः सुरोचकः । विरजा मित्रसंज्ञश्च उल्बणो वसुभृत्परः ॥ ४७॥ घुमान् शक्त्यादयश्चान्ये सप्तपुत्रा महौजसः । योऽसौ रुद्रात्मको वह्निः स्वाहायां त्रीन् सुतांस्तथा ॥ ४८॥ जनयामास तेजस्वी तेऽग्नयः परिकीर्तिताः । पावकः पवमानश्च शुचिस्तेऽजनयन् सुतान् ॥ ४९॥ प्रत्येकं वै पञ्चदशैकोनपञ्चाशदग्नयः । सर्वे तेजस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ॥ ५०॥ निर्मथ्यः पवमानस्तु ससुतः परिकीर्तितः । वैद्युतः पावकः प्रोक्तः ससुतः शास्त्रसम्मतः ॥ ५१॥ सूर्ये तपति योऽग्निश्च स पुत्रस्तु शुचिः स्मृतः । (Page खं. २ अ. ७ पान १६) सर्वत्रगः स रुद्रात्मा ब्रह्मपुत्रोऽग्निरुच्यते ॥ ५२॥ अमूर्तयोऽग्निष्वात्ता हि साङ्गा बर्हिषदः स्मृताः । पितरश्च स्वधा तेभ्योऽसूत द्वे तनये तथा ॥ ५३॥ मेना च धरणी नाम्नी ते उभे ब्रह्मवित्तमे । असूत मेना मैनाकं क्रौञ्चं हिमवतो मुने ॥ ५४॥ गङ्गां लोकपवित्रां च पार्वतीं परमेश्वरीम् । ते उभे शङ्करं देवं लेभाते पतिमुत्तमम् ॥ ५५॥ तपसा गिरिराजेन मेनयाराधिता सती । वरदानप्रभावेण पार्वती तनयाऽभवत् ॥ ५६॥ धरणी मेरुशैलस्य पत्नी कन्ये प्रजापते । सुषुवे चायतिं चैव नियतिं कथिते पुरा ॥ ५७॥ एषा दक्षस्य कन्यासु सन्ततिः कथिता मया । पठते श‍ृण्वत चैव सर्वकामफलप्रदा ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः ॥ २.६

२.७ भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षकन्याप्रसूतेभ्यः पितरः परमादृताः । गणेशाराधनं तेभ्यो ददुः प्रत्येकमादरात् ॥ १॥ नानामन्त्रान्यथान्यायं साधयित्वा च ते वने । गत्वाऽजपंश्च हेरम्बं ध्यात्वा तपसि संस्थितः ॥ २॥ ततो वर्षसहस्रेण परितुष्टा गजाननः । वरं दातुं ययौ तत्र भक्तिभावेन तोषितः ॥ ३॥ तं दृष्ट्वा तुष्टुवुः सर्वे बद्धाञ्जलिपुटाः प्रभुम् । भक्तिभावसमायुक्ता गणेशं सर्वसिद्धिदम् ॥ ४॥ ऋषिपुत्रा ऊचुः । नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे । ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥ मनोवागतिरूपाय मनोवारगम्यमूर्तये । योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥ निराकाराय विघ्नेश भक्तविघ्ननिवारक । शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ ७॥ सृष्टिरक्षणसंहारकारिणे ते नमो नमः । सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥ मायाविकारहीनाय मायिने मोहदायिने । मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९॥ अनन्तविभयायैवानन्तोदारपराक्रम । अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १०॥ वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् । स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११॥ धन्यो नो जनको देव वयं धन्यतमा विभो । विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ १२॥ वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि । यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३॥ स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन । यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४॥ एवमुक्त्वा पूजयन्त उपचारैरनेकशः । (Page खं. २ अ. ७ पान १७) प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ १५॥ ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् । तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६॥ भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा । सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । यः श‍ृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ १८॥ एकविंशतिवारं च पठेत्तावद्दिनानि यः । स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २०॥ स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः । सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१॥ शौनक उवाच । अत्रिपुत्रा महाभागा ब्रह्मविष्णुशिवात्मकाः । तच्चरित्रं विस्तरतः श्रोतुमिच्छामि तद्वद ॥ २२॥ सूत उवाच । ब्रह्मणोंऽशसमुद्भूतश्चन्द्रस्तपसि संस्थितः । गणेशात्स वरं लब्ध्वाऽमृतरूपो बभूव ह ॥ २३॥ कलाभिः सर्वदेवानां पोषकः स तथा नृणाम् । किरणैरन्नभावस्य वृद्धिकृत् सर्वदाऽभवत् ॥ २४॥ दत्तो विष्णुकलांशेन सम्भूतो योगधारकः । क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः ॥ २५॥ जडोन्मत्तपिशाचादिबालानन्दादिका मुने । अवस्थाः साधयामास नानाभूमिप्रकाशिकाः ॥ २६॥ तं दृष्ट्वा योगिनं सर्वे सेवायामभवन् पराः । द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावतः ॥ २७॥ क्षणं विश्राममत्यन्तं न लेभे मुनिसत्तमः । दत्तो विह्वलतां यातः किङ्करोमीत्यचिन्तयत् ॥ २८॥ ततस्तेन जले विप्र ममज्जे योगधारणात् । प्रतीक्षयन्तस्तत्तीरे स्थिताः सर्वेऽभवन् जनाः ॥ २९॥ ततो दत्तेन सिध्या च मोक्षलक्ष्मीः प्रकाशिता । गृहीत्वा वामभागे तां निःसृतो जलामध्यतः ॥ ३०॥ दक्षिणे मद्यकुम्भं स हस्ते धृत्वा पपौ स्वयम् । स्त्रिया सह विलासेन भोगयुक्तो बभूव ह ॥ ३१॥ त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः । सुखेन योगमास्थाय संस्थितोऽत्रिसमुद्भवः ॥ ३२॥ गते कियति काले च देवासुरसमुद्भवम् । युद्धं दारुणरूपं वै जातं तत्र समीपतः ॥ ३३॥ दैत्यैर्देवास्ततो भग्नाः पलायन्त दिशो दश । तत्राऽऽययुः सुसम्भीता रक्ष रक्षेति चाब्रुवन् ॥ ३४॥ ततो सुरा ययुः सर्वे नग्नशस्त्रधरा बलात् । तान् दृष्ट्वाऽमरसङ्घास्ते पलायनपरा बत ॥ ३५॥ दैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपां सुरूपिणीम् । तां गृहीत्वा ययुः सर्वे धृत्वा मोहेन मस्तके ॥ ३६॥ मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु सन्धृता । तदा तेषां जयप्राप्तिर्जातासीन्नात्र संशयः ॥ ३७॥ अतो निस्तेजसा स्पृष्टा दैत्या देवैः प्रपीडिताः । पलायन्त भयात् सर्वे पातालं विविशुः पुनः ॥ ३८॥ मोक्षलक्ष्मीस्ततस्तेषां पश्यतां मुनिसत्तम । अन्तर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता ॥ ३९॥ शौनक उवाच । सूत कूटं त्वया प्रोक्तं न बुद्धं तन्मयाधुना । (Page खं. २ अ. ७ पान १८) मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥ ४०॥ सूत उवाच । सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् । व्यासात् सर्वज्ञमुख्याच्च श‍ृणु शौनक यत्नतः ॥ ४१॥ रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः । परद्रव्यहराः सर्वे परस्त्रीगामिनस्तथा ॥ ४२॥ परापकारकर्तारो जन्तुभ्यो दुःखदाः स्मृताः । सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥ ४३॥ साधूनां मुनिमुख्यानां देवानां योगिनां तथा । वेदशास्त्रपुराणानां निन्दका भयदायकाः ॥ ४४॥ इत्यादिबहुभिर्दोषैः संयुक्तास्ते महासुराः । सदा भोगप्रिया ज्ञेया मुक्तौ नार्हा अतः कदा ॥ ४५॥ देहं सर्वक्रियाणां ते कर्तारं प्राप्य दैत्यपाः । सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो दधुः ॥ ४६॥ अतस्तैश्चरणाघातैर्हता मुक्तिर्विशेषतः । भोगलक्ष्मीः शिरोभिस्तैर्वन्दिता तत्र यत्नतः ॥ ४७॥ देवर्षयः सदा यत्नैर्मुक्तिमिच्छन्ति सर्वदा । अतस्ते मस्तके देवीं धारयामासुरञ्जसा ॥ ४८॥ असुरैर्योगिसङ्गेन धृता मुक्तिर्यदा मुने । शिरस्यपि शुभा सा न कारणं कथयामि ते ॥ ४९॥ दुराचारादिसंयुक्ता भोगबुद्धिपरायणाः । तेभ्यः कुतः सा शुभदा कुपिता तान्निहन्ति वै ॥ ५०॥ गृहीता विषयासक्तैर्नेच्छिता पश्य शौनक । चरणाघातकैर्देवी ताडिता च तदा भवेत् ॥ ५१॥ अतो भोगेप्सुभिर्विप्र वन्द्या भोगप्रदायिनी । यदि मुक्तिर्दुराचारैर्धृता तान्नाशयिष्यति ॥ ५२॥ इति ते कथितं सर्वं कारणं मुनिसत्तम । तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता ॥ ५३॥ यत्र भोगः प्रियो नित्यं तत्र मुक्तिर्न विद्यते । यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुतो भवेत् ॥ ५४॥ वासानायुक्तरूपा च भोगलक्ष्मीर्न संशयः । निर्वासनमयी मोक्षलक्ष्मीर्जानीहि शौनक ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ॥ २.७

२.८ दत्तचरितं नामाऽष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं दत्तसयोगेन योगभूमिं समाचरन् । नानाचेष्टायुतो दक्ष अवधूतः प्रकाशते ॥ १॥ गोवद्भक्षणसंयुक्तः पशुवत्पक्षिवत्कदा । मूत्रादिदेहचेष्टां स चकार मुनिसत्तमः ॥ २॥ सहजावस्थया युक्तो बभूवान्तेऽत्रिसम्भवः । तत्रान्तर्यामितां ज्ञात्वा खेदयुक्तो बभूव ह ॥ ३॥ व्यक्ताव्यक्तसमेत्यादिनानाब्रह्मसुसंस्थितः । योगेन न स शान्तोऽभूद्ययौ स्वपितरं ततः ॥ ४॥ प्रणम्य भगवानत्रिं दत्तो योगिसमावृतम् । साक्षाद्ब्रह्ममयं पूर्णं प्राञ्जलिः पुरतोऽभवत् ॥ ५॥ (Page खं. २ अ. ८ पान १९) अत्रिणा मानितः सोऽपि निषसादासने स्वयम् । उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुतः ॥ ६॥ दत्त उवाच । स्वामिन्नानाविधं ब्रह्म मया योगेन साधितम् । तत्रोपाधिः समादृष्ट उपाधिरहितोऽभवम् ॥ ७॥ उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः । तत्त्यक्त्वा तूर्यभूतोऽहं सहजे संस्थितोऽभवम् ॥ ८॥ तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभो । तेन शान्तिविहीनोऽहं किं करोमि वदस्व भोः ॥ ९॥ सहजान्न परं ब्रह्म लभ्यते योगसेवया । अतो मां शान्तियोगं त्वं कथयस्व महामुने ॥ १०॥ दत्तस्य वचनं श्रुत्वा ब्रह्मपुत्रो महातपाः । अत्रिस्तूवाच तं पुत्रं शान्तिमिच्छन्तमादरात् ॥ ११॥ श‍ृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् । ब्रह्मणा कथितं मे तं येन शान्तोऽहमञ्जसा ॥ १२॥ अस्माकं कुलदेव त्वं प्राप्तो गणपतिः प्रभुः । स वै शिवादिदेवानां कुलदेवः प्रकीर्तितः ॥ १३॥ शान्तियोगस्वरूपं त्वं तं जानीहि महामते । भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥ १४॥ गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत । तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥ १५॥ नामरूपात्मकं सर्वं जगद्ब्रह्म प्रकथ्यते । तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥ १६॥ तत्रामृतमयं सौरमात्माकारेण संस्थितम् । सद्रूपं तद्विजानीहि ब्रह्म वेदे प्रकीर्तितम् ॥ १७॥ तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् । सदसन्मयमेवं च विष्णुं जानीहि वेदतः ॥ १८॥ तेभ्यो विलक्षणं तुर्यं नेति रूपं प्रकीर्तितम् । निर्मोहशिवसंज्ञं च स्वाधीनं ब्रह्म तद् बुधैः ॥ १९॥ चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः । स तु मायामयः साक्षाद्गणेशो वेदवादिभिः ॥ २०॥ अन्तर्बाह्या क्रिया सर्वा ब्रह्माकारा प्रदृश्यते । कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥ २१॥ ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् । तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥ २२॥ ज्ञानानां कर्मणां चैवाभेदयोगः समात्मकः । आनन्दात्मकरूपो यं द्वैधनाशे स आप्यते ॥ २३॥ स्वेच्छया कर्मयोगश्च धृतो येन महात्मना । स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥ २४॥ स्वेच्छया स त्रिभिर्हीनः सहजाख्यः प्रकथ्यते । सदा स्वाधीनरूपश्च स्वेच्छया क्रीडति स्वयम् ॥ २५॥ ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः । तत्र स्वाधीनता त्रेधा पराधीनकता कुतः ॥ २६॥ ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च । उत्थानं नास्ति संयोगात् स्वस्वरूपिणि योगतः ॥ २७॥ स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् । सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥ २८॥ अयोगात्मकयोगश्च सदा संयोगवर्जितः । जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥ २९॥ सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः । स्वकीया भेदहीनत्वान्निर्वृत्तिर्योगिभिर्धृता ॥ ३०॥ ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं पुनः । (Page खं. २ अ. ८ पान २०) स्वानन्दनाशतो लभ्यं ब्रह्मभूयमयोगकम् ॥ ३१॥ ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः । न स्वानन्दात्मकः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३२॥ क्रीडात्मकगणेशानः स्वानन्दः परिकीर्तितः । संयोगात्मकरूपेण स्वस्वरूपिणि तिष्ठति ॥ ३३॥ क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः । निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥ ३४॥ संयोगायोगयोश्चैव तयोर्नाशे गणेश्वरः । शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥ ३५॥ पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः । मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥ ३६॥ पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक । तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥ ३७॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते । ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥ ३८॥ पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत । तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥ ३९॥ धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् । ऐश्वर्यं मोहदं जन्तुर्यत्र भ्रमति लालसी ॥ ४०॥ पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च । जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥ ४१॥ पञ्चचित्तप्रणाशे व पञ्चैश्वर्ये लयं गते । अधुना गणराजस्त्वं भविताऽसि न संशयः ॥ ४२॥ त्यजावधूतमार्गं त्वं भव मुख्योऽवधूतकः । अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥ ४३॥ अतः शान्तिं भजस्व त्वं दत्तयोगेन सत्वरम् । ददामि ते महामन्त्रं गणेशस्य विधानतः ॥ ४४॥ तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः । अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥ ४५॥ साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदां वरः । गङ्गाया दक्षिणे तीरे पूजयामास विघ्नपम् ॥ ४६॥ त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् । अभजत्तं सुभावेन गणपं हृदि चिन्तयन् ॥ ४७॥ महायोगी स्वयं दत्तो वर्षेणैकेन शौनक । शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥ ४८॥ तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया । भक्तवात्सल्यतो देव आश्रमे सुखशान्तिदे ॥ ४९॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः । तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥ ५०॥ श्रीदत्त उवाच । नमो गणपते तुभ्यं नमो योगस्वरूपिणे । योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥ ५१॥ सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारक । नानाविहारशीलाय गणेशाय नमो नमः ॥ ५२॥ सिद्धिदात्रे नमस्तुभ्यं नानैश्वर्यप्रदायिने । मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥ ५३॥ स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे । नानामायाविहाराय विघ्नेशाय नमो नमः ॥ ५४॥ साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते । परादुत्थानरूपाय विदेहाय नमो नमः ॥ ५५॥ बोधाय सर्वरूपाय देहदेहिमयाय च । स्वत उत्थानरूपाय प्रकृतिप्रलयाय ते ॥ ५६॥ साहङ्काराय देवाय जगदीशाय ते नमः । (Page खं. २ अ. ८ पान २१) महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥ ५७॥ नादात्मकगुणेशाय नानावेषप्रधारिणे । ब्रह्मणे सृष्टिकर्त्रे ते पितामह नमोऽस्तु ते ॥ ५८॥ हरये पालकायैव नानादेहधराय ते । संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥ ५९॥ शक्तये च क्रियामूर्ते देवमानवरूपिणे । नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥ ६०॥ स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः । जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ ६१॥ किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् । वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥ ६२॥ धन्यो देहो मदीयोद्य पितरौ कुलमेव च । विद्यायोगस्तपश्चैव त्वदङ्घ्रियुगदर्शनात् ॥ ६३॥ इत्युक्त्वा भक्तिभावेन सम्प्लुतोऽसौ महामुनिः । ननर्त हृष्टरोमासावानन्दाश्रु सृजन्मुहुः ॥ ६४॥ ततस्तं स्वकरे धृत्वा गणनाथः स सस्वजे । उवाच योगिनं पूर्णं वचनं परमाद्भुतम् ॥ ६५॥ श्रीगणेश उवाच । धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् । त्वं पूर्णां लभसे शान्तिमचलां मयि सर्वदा ॥ ६६॥ न भेदस्ते कदाचित्ते भविष्यति महामुने । त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥ ६७॥ गाणेशज्ञानमाहात्म्यं त्वयात्रेश्च मुखाच्छ्रुतम् । साक्षात्कारकरं तस्माद् विज्ञानक्षेत्रकं त्विदम् ॥ ६८॥ विज्ञानगणपो दत्तनाम्नाख्यातो भवाम्यहम् । दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥ ६९॥ अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः । शान्तियोगं सदा तेभ्यो दास्यामि तव सन्निधौ ॥ ७०॥ पुराऽत्र तु शिवेनैव ज्ञानं साक्षात्कृतं परम् । विज्ञानेश्वरनामेति स मया शङ्करः कृतः ॥ ७१॥ तस्यात्र सन्निधौ स्थित्वा त्वया ज्ञानं प्रसाधितम् । अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥ ७२॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । पठतां श‍ृण्वतां नॄणां ब्रह्मभूयकरं तथा ॥ ७३॥ धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति । सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥ ७४॥ इत्युक्त्वान्तर्दधे तत्र गणेशो भक्तवत्सलः । दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥ ७५॥ ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः । योगाभेदमयत्वेन जात आत्मनिवेदकः ॥ ७६॥ दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् । स्वामिन्यसौ सेवकोऽपि तदाकारेण संस्थितः ॥ ७७॥ इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी । दत्तेन साधिता मुख्या शान्तियोगप्रयत्नतः ॥ ७८॥ एतस्मिन्नन्तरे तत्र प्रकटोऽभूत् स्वयं शिवः । विज्ञानेश्वरनामाऽसौ दत्तं तं परिषस्वजे ॥ ७९॥ अहो दत्त महाभाग मम मित्रत्वमागतः । अत्रैवैनं गणेशानमध्यायं योगसेवया ॥ ८०॥ ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह । गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥ ८१॥ विज्ञानगणराजेति नाम चक्रे महर्षिभिः । (Page खं. २ अ. ८ पान २२) क्षेत्रं तदादेर्विख्यातं बभूव गणपस्य तत् ॥ ८२॥ विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् । सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥ ८३॥ ज्येष्ठशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । अतस्तत्र महोत्साहस्तद्दिने कुर्वते नराः ॥ ८४॥ योगिभिर्देवगन्धर्वैः सिद्धैर्नागैश्च मानुषैः । नानाजनैस्तथा दक्षसेवितं क्षेत्रमुत्तमम् ॥ ८५॥ एतद्दत्तस्य माहात्म्यं यः श‍ृणोति नरोत्तमः । पठेद्वा भविता तस्य सर्वसिद्धिर्न संशयः ॥ ८६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते दत्तचरितं नामाऽष्टमोऽध्यायः ॥ २.८

२.९ प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । दुर्वासाः शङ्करस्यांशस्तताप परमं तपः । नेति ब्रह्मणि सञ्जातो ब्रह्मभूतो महामुनिः ॥ १॥ तमतिक्रोधसंयुक्तमशान्तं शान्तिलालसम् । संवीक्ष्य दत्तवज्ज्ञानं ददावत्रिर्महामुनिः ॥ २॥ मयूरेशक्षेत्रके स गणेशध्यानमास्थितः । स्वभक्त्या गणराजेन शान्तियोगयुतः कृतः ॥ ३॥ तदारभ्य महायोगी दुर्वासाः शान्तिधारकः । क्रोधहीनस्वभावः स सञ्जातो ब्रह्मवित्तमः ॥ ४॥ एतदत्रिसुतानां ते चरितं कथितं मया । यथा दक्षाय भो विप्र मुद्गलेन प्रकाशितम् ॥ ५॥ अधुना कथयिष्यामि स्वायम्भुवजसन्ततेः । चरितं सर्वपापघ्नं कथितं मुद्गलेन यत् ॥ ६॥ शौनक उवाच । कथं मुद्गलविप्रेण कथितं तस्य धीमतः । चरित्रं वद सर्वं मे यथा दक्षेण संश्रुतम् ॥ ७॥ सूत उवाच । शापमोहितदक्षस्तु श्रुत्वात्रेयसमुद्भवम् । चरितं योगरूपं स मुद्गलं पुनरब्रवीत् ॥ ८॥ दक्ष उवाच । धन्योऽत्रिर्यस्य पुत्रा वै गाणपत्या महौजसः । योगिनो योगदातारः श्रुतं तेषां चरित्रकम् ॥ ९॥ अधुना वद मे ब्रह्मन् सृष्टिमार्गं पुरातनम् । स्वायम्भुवमनोः पुत्रौ चक्रतुः किं महौजसौ ॥ १०॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हर्षयुक्तेन चेतसा । जगाद तं महायोगी मुद्गलः परमार्थवित् ॥ ११॥ मुद्गल उवाच । स्वायम्भुवमनोः पुत्रौ सञ्जातो पूर्णधार्मिको । प्रियव्रतोत्तानपादौ नाम्ना ख्यातौ प्रजापती ॥ १२॥ जगाम साधनरतो वनं ज्येष्ठः प्रियव्रतः । देहादि नश्वरं मत्वाऽभूत्स खिन्नो मनुस्ततः ॥ १३॥ जगाम नारदस्तत्र सहसा तं मनुर्जगौ । पुत्रं प्रियव्रतं विप्र बोधयस्व विधानतः ॥ १४॥ तथेति नारदस्तत्र ययौ तस्य महाश्रमम् । तं दृष्ट्वोत्थाय राजर्षिः प्रणनाम कृताञ्जलिः ॥ १५॥ स्वकीयाज्ञावशं पुत्रं मानसे वीक्ष्य संस्थितम् । तं जगाद महातेजा नारदो राजसत्तमम् ॥ १६॥ (Page खं. २ अ. ९ पान २३) नारद उवाच । श‍ृणु पुत्र महाभाग प्रियव्रत महामते । देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥ १७॥ तथापि नरदेहोऽयमृणत्रयसमन्वितः । नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥ १८॥ सर्वेषामन्नरूपोऽयं नरदेहो न संशयः । तस्य पोषणमत्यन्तं कर्तव्यं देहधारिणा ॥ १९॥ स्वधर्मपालनेनैव वर्णाश्रमविधानतः । देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥ २०॥ यज्ञादिभिरृणं दैवं श्राद्धाद्यैश्चैव पैतृकम् । पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥ २१॥ अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः । कुरु राज्यं महाभाग स्वधर्मनिरतो मुदा ॥ २२॥ पुत्रेषु राज्यमात्मीयं स्थापयित्वा च शाश्वतम् । पश्चात्त्वं वनमाविश्य योगाभ्यासरतो भव ॥ २३॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा हर्षितो राजसत्तमः । उवाच तं मनोः पुत्रः प्राञ्जलिः श्रद्धयान्वितः ॥ २४॥ प्रियव्रत उवाच । स्वामिन्विज्ञप्तुमिच्छामि वद मे त्वं महामते । केनोपायेन योगीन्द्र ब्रह्मभूतो भवेन्नरः ॥ २५॥ नारद उवाच । श‍ृणु पुत्र प्रवक्ष्यामि ब्रह्मभूयपदप्रदम् । मार्गं संसाध्य शान्तिं च लभते मानवः स्वयम् ॥ २६॥ गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् । ब्रह्मभूतो भवेज्जन्तुः साधनेन महामते ॥ २७॥ गणशब्दः समूहस्य वाचकः परिकीर्तितः । समूहा योगरूपाश्च बाह्यान्तरविभेदतः ॥ २८॥ अन्नानां सकलानां च समूहेन्नमयं सुत । कथितं ब्रह्म वेदेषु एवं नानागणाः स्मृताः ॥ २९॥ तेषां पतिं गणेशानं तं ज्ञात्वा योगिनः पुरा । शान्तिं प्राप्ता विशेषेण शान्तियोगमयं परम् ॥ ३०॥ अस्माकं कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः । तमाराधय यत्नेन ततः क्षेमं भविष्यति ॥ ३१॥ गुणेशो गणराज सम्पूज्य वै भक्तिभावतः । बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः ॥ ३२॥ तस्य पुत्राः समाख्याता ब्रह्मविष्णुमहेश्वराः । सूर्यः शक्तिश्च पञ्चैते तं समाराध्य भोगिनः ॥ ३३॥ ततस्ते शान्तिमत्यन्तं प्राप्ता विश्वेश्वराः सुत । ब्रह्मणश्च वयं पुत्रा भजामस्तं गणाधिपम् ॥ ३४॥ ततो योगीन्द्रमुख्याश्च वयं जाताः प्रियव्रत । सर्वज्ञानसमायुक्ता बन्धहीना विशेषतः ॥ ३५॥ तथा त्वमपि राजेन्द्र गणेशं भज भावतः । तवातः सुलभं सर्वं भविष्यति सदानघ ॥ ३६॥ तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः । गणेशाराधनं सर्वं बोधयामास यत्नतः ॥ ३७॥ एतस्मिन्नन्तरे तत्र ब्रह्मणा सह सङ्गतः । स्वायम्भुवो मनुः सुज्ञस्तौ दृष्ट्वा प्रणतौ सुतौ ॥ ३८॥ ब्रह्मणा बोधितोऽत्यन्तं पुनः पौत्रः प्रियव्रतः । मनुना सहराजर्षिर्ययौ स्वनगरे तदा ॥ ३९॥ पुत्रौ स्वायम्भुवो राज्ये समास्थाप्य वनं ययौ । योगेनाराधयामास गणेशं भक्तिसंयुतः ॥ ४०॥ क्रमेण पञ्चभूमीनां चित्तस्य परतो गतः । त्यक्त्वा चित्तं महायोगी ब्रह्मभूतो बभूव ह ॥ ४१॥ शान्तियोगं समाश्रित्य ब्रह्मलोकं जगाम ह । तत्रैव संस्थितोऽभूत्स गणेशभजने रतः ॥ ४२॥ (Page खं. २ अ. १० पान २४) प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् । धर्मेण नीतिदानेन त्यागेन यश आर्जयत् ॥ ४३॥ स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः । मुदिताः सत्यशीलाच स्थिते राज्ये प्रिय व्रते ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥ २.९

२.१० द्वीपवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतस्य पुत्राश्च दशोत्पन्ना महौजसः । तेजस्विनो धर्मशीला विख्याता बलवत्तराः ॥ १॥ आग्नीध्र इध्मजिह्वश्च यज्ञबाहुस्तथा महान् । वीरो हिरण्यरेताश्च सवनो घृतपृष्ठकः ॥ २॥ मेधातिथिर्वीतिहोत्रः कविः पितृसमा बभुः । कविः सवनवीरौ च न राज्ये दधिरे मतिम् ॥ ३॥ सप्तद्वीपेश्वरास्तेन सप्त पुत्राः कृताः परे । जम्बुद्वीपेश्वरं पुत्रं आग्नीध्रमकरोन्नृपः ॥ ४॥ प्लक्षद्वीपेश्वरस्तेनेध्मजिह्वश्च कृतः सुतः । शाल्मले वै यज्ञबाहुं राजा तमभिषिक्तवान् ॥ ५॥ हिरण्यरेतसं चक्रे कुशद्वीपेश्वरं सुतम् । क्रौञ्चद्वीपेश्वरं चैव घृतपृष्ठं चकार ह ॥ ६॥ मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतम् । पुष्करेशं स राजा तु वीतिहोत्रं चकार ह ॥ ७॥ ततः प्रियव्रतो राजा वनं प्राप्तः प्रतापवान् । नारदाद्योगमास्थाय गाणपत्यो बभूव ह ॥ ८॥ अन्ते गणेशरूपश्च सञ्जातो योगसेवया । प्रियव्रतसमो राजा न भूतो न भविष्यति ॥ ९॥ पुष्करे वीतिहोत्रस्य द्वौ पुत्रौ सम्बभूवतुः । रमणो धातकिर्नाम महावीर्यौ सुधर्मिणौ ॥ १०॥ रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः । धातकेश्चापि खण्डोऽयं बुधैर्धातकिरुच्यते ॥ ११॥ एकोद्रिर्मानसाख्यश्च तन्मध्ये वलयाकृतिः । योजनानां सहस्त्राणि दशोत्सेधः सन्नान्ततः ॥ १२॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । तत्र ब्रह्मा स्वयं साक्षाद् द्वीपे तिष्ठति पुष्करे ॥ १३॥ तं सुरा मानवाद्याश्च पूजयन्ति निरन्तरम् । स्वादूदकेन वै दक्ष वृतो द्वीपः समन्ततः ॥ १४॥ योजनानां चतुःषष्टिलक्षं सिन्धुश्व सोऽद्भुतः । तत्रान्ते पर्वतो रम्यो लोकालोकाह्वयः स्मृतः ॥ १५॥ एकत्र लोकसंवास एकतो लोकवर्जितः । लोकालोकाचलादत्र प्रकाशश्चन्द्रसूर्ययोः ॥ १६॥ तस्मात्परत्र भो दक्ष अन्धकारः समन्ततः । लोकालोकाचलस्तेन कथितो मुनिभिः पुरा ॥ १७॥ पुष्करे बहवो नद्यो मानसाचलसम्भवाः । स्वादूदकाः पुण्यरूपा निर्मलाः सर्वभावतः ॥ १८॥ तासां जलस्य पानेन रोगा नश्यन्ति दुःखदाः । (Page खं. २ अ. १० पान २५) क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥ १९॥ शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् । पवमानस्ततः पूर्वौ पुरोजवमनोजवौ ॥ २०॥ धूम्रानीकश्चित्ररेफो बहुरूपो जगद्धरः । सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥ २१॥ पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते । मनोजवस्य तन्नाम्ना खण्डमन्यत्प्रकथ्यते ॥ २२॥ पवमानस्य खण्डं वै पावमानात्मकं तथा । धौम्रानीकं चतुर्थं वै पञ्चमं चैत्ररेफकम् ॥ २३॥ बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् । पालयामासुरव्यग्राः स्वं स्वं खण्डं प्रजापते ॥ २४॥ दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् । नराणां दोषहीनानां सदा यौवनशालिनाम् ॥ २५॥ दधिमण्डोदकाख्येन संवृतो द्वीप उत्तमः । तावन्मानेन युक्तेन योजनानां प्रजापते ॥ २६॥ विस्तारो योजनानां च द्वात्रिंशल्लक्षसम्मितः । द्वीपस्य च नरास्तत्र यजन्ते वायुमीश्वरम् ॥ २७॥ क्रौञ्चद्वीपस्य विस्तारो लक्षषोडशकं मुने । योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥ २८॥ पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः । अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥ २९॥ घृतपृष्ठसुतास्तत्र सप्त खण्डेश्वराः स्मृताः । स्वस्वनाम्ना समाख्याताः खण्डास्तेषां प्रजापते ॥ ३०॥ आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः । भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥ ३१॥ एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् । यजन्त्यापोमयं तत्र सदा नारायणं जनाः ॥ ३२॥ क्षीरोदेन समन्ताच्च संवृतो द्वीप आदरात् । तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥ ३३॥ हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः । वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥ ३४॥ सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः । स्वस्वनाम्ना च तेषां वै खण्डाः सप्त प्रजापते ॥ ३५॥ तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः । नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥ ३६॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । योजनानां कुशद्वीपश्चाष्टलक्षप्रमाणकः ॥ ३७॥ घृतोदेनावृतः सम्यक् तावदायामरूपिणा । सर्वतस्तत्र देवेशं हव्यवाहं यजन्ति ते ॥ ३८॥ शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः । सुरोचनः सौमनस्यो रमणो देववर्षकः ॥ ३९॥ आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः । तत्तन्नाम्ना च विख्याताः खण्डास्तेषां प्रजापते ॥ ४०॥ नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै । योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥ ४१॥ सुरोदेनावृतः सोऽपि तावदायामरूपिणा । नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥ ४२॥ प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा । शिवो यवयसश्चैव क्षान्तक्षेमसुभद्रकाः ॥ ४३॥ अमृतोऽभयसंज्ञश्च सप्तैते परिकीर्तिताः । स्वस्वनामाङ्किताः खण्डास्तेषां तत्र प्रकीर्तिताः ॥ ४४॥ (Page खं. २ अ. ११ पान २६) गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः । नराणां जीवनं तत्र पञ्चवर्षसहस्रकम् ॥ ४५॥ द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः । इक्षूणां च रसोदेन तावता परिसंवृतः ॥ ४६॥ लक्षद्वीपे यजन्ते वै सूर्यं धर्मपरायणाः । वृष्टिसंस्राविणं देवं तेजोरूपेण संस्थितम् ॥ ४७॥ प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तिमेषु वै । वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥ ४८॥ पुष्करे सर्वधर्मज्ञा एकमार्गं समाश्रिताः । एकवर्णाश्रमास्तत्र समशीलाः प्रजापते ॥ ४९॥ न तेषु युगमानं च युगधर्मः स्वभावतः । सदा समानः कालश्च स्वर्धमस्तादृशः स्मृतः ॥ ५०॥ न लोभो न च मात्सर्यं परस्परहिते रताः । नरास्ते पुण्यशीला वै स्वदाररततोषिणः ॥ ५१॥ कर्मणां फलभोक्तारो तेषु द्वीपेषु शौनक । बभूवुर्भाविकाः सर्वे देववत् क्रीडने रताः ॥ ५२॥ स्वस्वद्वीपस्थितं देवमभजंस्ते ततः सुखम् । सम्प्रापुस्ते जनाः सर्वे सालोक्यादिचतुष्टयम् ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ॥ २.१०

२.११ भूगोलवर्णनं नामैकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जम्बुद्वीपेऽश्वरस्याथ नवपुत्रा बभूविरे । नाभिः किम्पुरुषश्चैव तथा हरिरिलावृतः ॥ १॥ हिरण्मयः कुरू रम्यो भद्राश्वः केतुमालकः । स्वस्वनामाङ्कितान् खण्डान् पिता तेभ्यो ददौ स्वयम् ॥ २॥ एवं दत्त्वा च सप्तैते प्रियव्रतसुतास्ततः । ययुर्वनं तपस्तप्त्वा गाणपत्या बभूविरे ॥ ३॥ ययुर्गाणेश्वरं धाम ते त्वन्ते ब्रह्मवादिनः । पुनरावृत्तिशून्यं यद्योगाभेदं प्रभावतः ॥ ४॥ जम्बुद्वीपस्य विस्तार एकलक्षं समन्ततः । योजनानां तथा दक्ष लवणोदेन संवृतः ॥ ५॥ तत्र मध्ये महाशैलो मेरुर्हेममयः शुभः । नानाधातुविचित्राङ्गो नानौषधिसमन्वितः ॥ ६॥ नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः । गुहाभिश्च तथा दक्ष नानाजन्तुसमन्वितः ॥ ७॥ लक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः । षष्टिसाहस्रमेतस्य योजनानां प्रमाणकम् ॥ ८॥ बहिस्थितेस्तथा द्वात्रिंशत्सहस्रमधःस्थितेः । अष्टसाहस्रकं चैव योजनानां समन्ततः ॥ ९॥ अध ऊर्ध्वविभेदेन स्थितोऽसौ कनकाचलः । पद्माकारस्वरूपेण भूमिमध्ये स्थितो बभौ ॥ १०॥ पद्मपत्रसमानेन ह्याकारेण व्यवस्थिताः । पर्वताः परितस्तस्य नानाधातुमया बभुः ॥ ११॥ तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणाम् । योगिनां रक्षसां चैव सिद्धानां च महात्मनाम् ॥ १२॥ नागेन्द्राणां मुनीन्द्राणां गन्धर्वाणां प्रजापते । पिशाचानां च भूतानां निवासा अद्भुता बभुः ॥ १३॥ (Page खं. २ अ. ११ पान २७) उद्यानानि विचित्राणि देवक्रीडनकानि च । जराशोकहराण्येव जलानि खलु सर्वतः ॥ १४॥ कैलासाद्यष्ट शैलेन्द्रा दिक्षु तस्य व्यवस्थिताः । तेषु रुद्रादिदेवेन्द्रा वसन्ति दिगधीश्वराः ॥ १५॥ मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्ठिनः । इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ १६॥ तस्य दक्षिणभागे च द्वीपखण्डास्त्रयोऽभवन् । उत्तरे च तथा खण्डास्त्रयस्तस्य प्रकीर्तिताः ॥ १७॥ पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि सम्मतौ । मध्ये समन्ततो वर्ष एकस्तस्य प्रजापते ॥ १८॥ एवं खण्डाः समाख्याता नव द्वीपे च मध्यमे । हिमाचलादयस्तेषु मर्यादागिरयः स्मृताः ॥ १९॥ द्विसहस्रं समुत्सेधो योजनानां प्रजापते । अष्टौ चैव प्रविस्तारा महाशैला समन्ततः ॥ २०॥ सहस्रं योजनानां च खण्डे खण्डे च विस्तरः । प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च ॥ २१॥ वर्षेषु पर्वताश्चैव नद्यो नानाविधाः स्मृताः । तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः ॥ २२॥ अजनाभविहीनाश्च खण्डा अष्टौ प्रकीर्तिताः । तेषु स्वाभाविकी सिद्धिः स्थिरभावेन संस्थिता ॥ २३॥ सदा यौवनयुक्ताश्च नरा नार्यः सुरूपिणः । देववत्सुखभोक्तारो बभुः साधुगुणान्विताः ॥ २४॥ परस्परेषु संसक्ताः समकालप्रभोगिनः । वर्णाश्रमरताः सर्वे धर्मयुक्ता दयान्विताः ॥ २५॥ न तत्र युगधर्मश्च सदा सामान्यधर्मिणाम् । शीतोष्णादिभवं दुःखं नास्ति खण्डेषु मानद ॥ २६॥ एकादशशतान्येव सहस्रं तेषु कुत्रचित् । शतानि द्वादशाप्येव त्रयोदशशतानि च ॥ २७॥ शतानि कुत्रचित्पञ्च दशाप्येव प्रजापते । शतानि पञ्चवर्षाणि जीवन्ति किल मानवाः ॥ २८॥ नाभेः खण्डोऽजनाभश्च हिमाचलसमीपगः । कर्मात्मकः समाख्यातः सर्वमान्यो बभूव ह ॥ २९॥ तत्र कर्माणि कृत्वा तु नरा यान्ति समन्ततः । द्वीपेषु खण्डेषु तथा तथा पातालभूमिषु ॥ ३०॥ स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च । तेषु भुक्त्वा पुनर्ह्यत्र यान्ति कर्मार्थमञ्जसा ॥ ३१॥ अथवा पापकर्माणि कृत्वात्रैव व्रजन्ति ते । नरकेषु नरा नार्यः पुनरत्र प्रयान्ति च ॥ ३२॥ अत्र योगेन योगीन्द्रो भवेद्वै नात्र संशयः । गाणपत्यस्वरूपं च तद्भक्त्या लभते नरः ॥ ३३॥ अतः श्रेष्ठतमः प्रोक्तो वर्षोऽयं च हिमालयः । सर्वदातृत्वमापन्नो मान्यस्तेषां प्रजापते ॥ ३४॥ भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः । शीतोष्णादिसमायुक्तो नानारोगसमन्वितः ॥ ३५॥ तत्र वर्णाश्च चत्वारस्तेषां वै व्यभिचारतः । वर्णा नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो ॥ ३६॥ अस्मिन् युगभवं मानं युगधर्माः समन्ततः । नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः ॥ ३७॥ बहवोऽग्रे बभुः शैला विन्ध्यसह्याद्रिकादयः । तेभ्यः प्रसूता नद्यश्च बह्व्यः सर्वत्र संस्थिताः ॥ ३८॥ पुण्यदाः स्नानमात्रेण मिष्टतोया महामते । नराः कर्मकरास्तत्र त्रिविधाचारसंयुताः ॥ ३९॥ तीर्थानि सर्वदेवानां स्थानानि त्वग्रजन्मनाम् । तत्सेवकानामधिककर्मोत्थफलदानि वै ॥ ४०॥ एवमाद्यगुणैर्युक्तो जना भो वर्ष एव च । कर्मणां भरणात्सुज्ञैर्भारतोऽयं प्रकीर्तितः ॥ ४१॥ एतद्भूमण्डलं कृत्स्नं कथितं ते समासतः । श्रवणात्पठनाच्चापि पापापहरणं भवेत् ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरित्रे भूगोलवर्णनं नामैकादशोऽध्यायः ॥ २.११

२.१२ सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रसङ्गात्सर्वलोकानां वच्मि वै संस्थितिं पराम् । स्वर्गाणामपि सङ्क्षेपान्मुख्यानां कथयामि ते ॥ १॥ भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महो जनः । तपोलोकस्तथासत्यो लोकास्त्वण्डोद्भवाः स्मृताः ॥ २॥ अर्यमा चन्द्रमा यावत्किरणैरवभासते । तावान् भूर्लोक आख्यातः पुराणेषु प्रजापते ॥ ३॥ पद्भयां नरैर्भवेद्गम्यः स एवं शास्त्रसम्मतः । भूर्लोकः कथितो दक्ष सप्तद्वीपात्मकः खलु ॥ ४॥ प्रमाणमखिलं यावद्भूर्लोकस्य समन्ततः । तावच्चैव भुवर्लोके परिमाणं च कथ्यते ॥ ५॥ भूर्लोकात्सूर्यपर्यन्तं भुवर्लोकः प्रकीर्तितः । तस्माच्च ध्रुवपर्यन्तं स्वर्लोकः कथितो बुधैः ॥ ६॥ तत्र वायोः समाख्याता नेमयोऽष्टविधाः प्रभो । आवहः प्रवहश्चैव तथैवान्नवहः परः ॥ ७॥ संवहो विवहश्वाथ तदूर्ध्वं च परावहः । तथा परिवहश्चोर्ध्वं वहस्तस्मात्परः स्मृतः ॥ ८॥ भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् । लक्षे दिवाकरात्प्रोक्तं चन्द्रमण्डलमास्थितम् ॥ ९॥ नक्षत्रमण्डलं कृत्स्नं तस्माल्लक्षे प्रकाशते । द्वे लक्षयोजने तस्मात् ग्रहाणां मण्डलं स्मृतम् ॥ १०॥ तस्माल्लक्षे ऋषीणां यन्मण्डलं च प्रकाशते । ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः ॥ ११॥ मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । वायुरश्मिधरः सोऽपि चालयन् ज्योतिषां गणम् ॥ १२॥ दशयोजनसाहस्रं मण्डलं भास्करस्य च । तथा द्वादशसाहस्रं मण्डलं शशिनः स्मृतम् ॥ १३॥ सूर्याधस्तात् स्थितो राहुर्दशसाहस्रयोजनः । त्रयोदशसहस्रं च मण्डलं तस्य कथ्यते ॥ १४॥ तमोमयं तमःस्थानं गत्या पर्वणि धावति । छायया सूर्यचन्द्रौ वा आच्छादयति सत्वरम् ॥ १५॥ तदेव ग्रहणं दक्ष कथ्यते शास्त्रवादिभिः । अखिलं तमसा व्याप्तं मण्डलं रविसोमयोः ॥ १६॥ (Page खं. २ अ. १२ पान २९) चन्द्रस्य षोडशो भागो मण्डलं भार्गवस्य च । भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ १७॥ बृहस्पतेः पादहीनं मण्डलं भौमसौरयोः । विस्ताराच्च तयोः पादहीनं सौम्यस्य मण्डलम् ॥ १८॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पञ्चचत्वारि त्रीणि द्वे योजनानि वै ॥ १९॥ सर्वेभ्योऽपि निकृष्टानि ताराणां मण्डलानि तु । योजनाध्यर्धमात्राणि तेभ्यो न्यूनं न विद्यते ॥ २०॥ उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोङ्गिराश्च भौमश्च विज्ञेया मन्दगामिनः ॥ २१॥ तेभ्योधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ २२॥ अयने द्वे समास्थाय भानुश्चरति सर्वदा । प्रभुः सर्वग्रहाणां स सर्वाधस्तात्प्रसर्पति ॥ २३॥ विस्तीर्णं मण्डलं कृत्वा चरत्यूर्ध्वं ततः शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ २४॥ नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधः स्मृतः । भौमः सोमसुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः ॥ २५॥ शनैश्चरस्ततो ह्यूर्ध्वं तस्मात् सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ॥ २६॥ नवयोजनसाहस्रो भास्करस्य रथः स्मृतः । ईषादण्डस्तथैवास्य द्विगुणो वै प्रजापते ॥ २७॥ लक्षप्रमाणमक्षश्च ध्रुवाधारेण संस्थितः । द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ २८॥ चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितम् । गायत्रीमुख्यकास्तस्य सप्त छन्दोमया हयाः ॥ २९॥ दक्षिणायनमासाद्य क्षिप्रं क्षिप्रं प्रसर्पति । यदोत्तरगतो भानुरक्षिप्रं चैव सर्पति ॥ ३०॥ मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे ॥ ३१॥ उत्तरे तु कुबेरस्य तन्नामानि निबोध मे । अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३२॥ ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः । उदये च महेन्द्रस्य नगर्यां स प्रकाशते ॥ ३३॥ यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्य तु । निशामध्ये च कौबेर्यामेवं चरति भास्करः ॥ ३४॥ उदयास्तमयेनायं सर्वकालसमानगः । अशेषासु दिशास्वेष सर्वासु विदिशासु च ॥ ३५॥ कुलालचक्रवल्लोके भ्रमत्येवं दिनेश्वरः । स्वस्वबोधसमानं च भिन्नं कालं प्रकाशयन् ॥ ३६॥ करोत्यहस्तथा रात्रिं किरणैः स्थापयन् प्रजाः । दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ॥ ३७॥ जलं स्थलं नभः प्रोक्तं लोकानां स्थानमुत्तमम् । आदित्यमूलमेतच्च त्रिविधं नात्र संशयः ॥ ३८॥ भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् । मध्यभागे तदाधारमन्ते तत्र प्रतिष्ठितम् ॥ ३९॥ ब्रह्मविष्णुमहेशेन्द्रचन्द्रताराग्निनागजम् । वीरुद्विप्रोदकानां यत्तेजस्तद्रविसम्भवम् ॥ ४०॥ द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् । विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥ ४१॥ सर्वात्मा सर्वलोकेशो गणेशांशः प्रभाकरः । मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः ॥ २.१२

२.१३ नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रवेः कलांशसम्भूता द्वादशान्ये च भानवः । द्वादशस्वेव मासेषु ते तपन्ति रथस्थिताः ॥ १॥ सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिः तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ २॥ धातार्यमाऽथ मित्रश्च वरुणः शक्रसंज्ञितः । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ ३॥ भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते च भानवः । तपन्ति रथसंस्था वै वसन्तादिक्रमेण च ॥ ४॥ पुलस्त्यः पुलहोऽथात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ५॥ जमदग्निः कौशिकोऽथ मुनयो ब्रह्मवादिनः । स्तुवन्ति पुरतो देवं छन्दोभिर्विविधैस्तस्था ॥ ६॥ रथकृच्च रथौजा वै रथचित्रः स्वबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ ७॥ तार्क्ष्यश्चारिष्टनेमिर्वै रथजित्सत्यजित्तथा । ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसङ्ग्रहम् ॥ ८॥ अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथा व्याधो वातो विद्युद्दिवाकरः ॥ ९॥ ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथापरः । राक्षसप्रवरा एते प्रयान्ति पुरतः क्रमात् ॥ १०॥ वासुकिः कङ्कनीरश्च तक्षको नागमुख्यकः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ ११॥ धनञ्जयो महापद्मस्तथा कर्कोटकोऽपरः । कम्बलाश्वतरौ चैव वहन्त्येते प्रभाकरम् ॥ १२॥ नागा द्वादशमासेषु प्रजाधीश यथाक्रमम् । तुम्बरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ॥ १३॥ उग्रसेनो वसुरुचिरवीवसुरथापरः । चित्रसेनस्तथोर्णायुर्धृतराष्ट्रः प्रजापते ॥ १४॥ सूर्यवर्चा द्वादशैते गन्धर्वा गायनाः पुरः । घनस्तनी च रम्भा वै तथान्या पुञ्जिकस्थली ॥ १५॥ मेनका सहजन्या च प्रम्लोचाऽथ प्रजापते । अनुम्लोचा घृताची च विश्वाची चोर्वशी परा ॥ १६॥ अन्या च पूर्वचित्तिर्या भास्करं च तिलोत्तमा । ताण्डवैस्तोषयन्त्येनं वसन्तादिषु वै क्रमात् ॥ १७॥ एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु । सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ १८॥ ग्रथितैः स्ववचोभिस्तं स्तुवन्ति मुनयो रविम् । (Page खं. २ अ. १३ पान ३१) गन्धर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥ १९॥ ग्रामणीर्ह्यक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् । सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति तम् ॥ २०॥ वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् । एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ॥ २१॥ भूतानामशुभं कर्म व्यपोहन्त्यनुकीर्तिताः । एते सहैव सूर्येण भ्रमन्ति दिवि सर्वदा ॥ २२॥ विमानेऽधिष्ठिता नित्यं कामगे वातरंहसि । वर्षन्तश्च तपन्तश्च ह्लादयन्तः सदा प्रजाः ॥ २३॥ गोपायन्तीह भूतानि सर्वाण्येते युगक्षये । एतेषां रूपमास्थाय सूर्यस्तपति नित्यशः ॥ २४॥ अहोरात्रव्यवस्थानां कारणं स प्रजापतिः । पितृदेवमनुष्यादिनित्यमाप्याययेद्रविः ॥ २५॥ एवमेष गणेशांशो देवदेवो दिवाकरः । करोति नियतं कालं कालात्मा भगवान् स्वयम् ॥ २६॥ अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमन्ति ते । दिवाकरकरैः पुष्टा तं रविं वातरश्मिभिः ॥ २७॥ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश ते वै क्षपाकराः ॥ २८॥ वीथ्याश्रयेण नक्षत्रं चरत्येव रविर्यथा । ह्रासवृद्धिसमायुक्तो ध्रुवाधारेण सर्वदा ॥ २९॥ स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते कलामात्रः सततं वर्धते ततः ॥ ३०॥ कृष्णे पीतं सुरैः सोममाप्याययति नित्यदा । एकेन रश्मिना दक्ष सुषुम्नाख्येन भास्करः ॥ ३१॥ एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । दृश्यते पौर्णमासीस्था सम्पूर्णा दिवसैः क्रमात् ॥ ३२॥ सम्पूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबन्ति देवताः सर्वाः क्रमेणामृतभोजिनः ॥ ३३॥ ततः पञ्चदशे भागे किञ्चिच्छेषे कलात्मके । पितरश्चापराह्णे तं जघन्यं पर्युपासते ॥ ३४॥ पिबन्ति द्विलवं कालं शिष्टा तस्य कला तु या । स्वधामृतमयी पुण्या सा चन्द्रस्यामृतात्मिका ॥ ३५॥ निःसृतं तदमायां तु गभस्तिभ्यः स्वधामृतम् । मासतृप्तिकरं तेषां पितरः सन्ति निर्वृताः ॥ ३६॥ न सोमस्य विनाशः स्यात्सुधादेवस्य पानतः । एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा ॥ ३७॥ सोमपुत्रस्य सिंहैश्च चतुर्भिर्वायुवेगिभिः । स्यन्दनस्तैः समायुक्तस्तेनासौ याति सर्वतः ॥ ३८॥ भार्गवस्य तथाष्टाश्वः स्यन्दनो हेमनिर्मितः । अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः ॥ ३९॥ बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः । रथोऽष्टनीलगृध्रैश्च मन्दस्यायसनिर्मितः ॥ ४०॥ स्वर्भानोः कृष्णसिंहैश्च युक्तः केतोः कपोतकैः । एते नवग्रहाणां वै समाख्याता महारथाः ॥ ४१॥ सर्वे ध्रुवे समाबद्धा वातरश्मिभिरादरात् । ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा ॥ ४२॥ भ्रमति भ्रामयत्येतान् सर्वाशानिलरश्मिभिः । अतो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापते ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः ॥ २.१३ (Page खं. २ अ. १४ पान ३२)

२.१४ ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः । कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥ १॥ जनलोको महर्लोकात् कोटियोजनदूरगः । सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥ २॥ जनलोकात्तपोलोकः कोटियोजनदूरगः । वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥ ३॥ सत्यलोकस्तपोलोकात्कोटियोजनदूरगः । अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥ ४॥ तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः । आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ ५॥ वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः । व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥ ६॥ द्वारं तद्योगिनामेकं गच्छतां गणपं परम् । न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ ७॥ तस्मादूर्ध्वं निरालम्बं विश्वरूपविवर्जितम् । सत्यलोकान्तमेतद्वै वैराटं रूपमुत्तमम् ॥ ८॥ पञ्चकोटियुतं पूर्णं तस्माद्दशगुणा मही । ब्रह्माकारा च विज्ञेया पञ्चाशत्कोटिविस्तरा ॥ ९॥ विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते । शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥ १०॥ तेजः पुञ्जमये दक्ष महामायासमाश्रिते । निष्कामाः शक्तिभक्ता ये तत्र गच्छन्ति योगिनः ॥ ११॥ दशसाहस्रविस्तारे समन्ताज्जनसङ्कुले । योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥ १२॥ स्वतेजसा विनिर्माय पुरुषान् समरूपिणः । तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥ १३॥ तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः । योजनानां महातेजः पुञ्जरूपो विराजते ॥ १४॥ निराधारे सदा नित्ये निष्कामास्तत्र यान्ति वै । शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥ १५॥ अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः । तत्र गच्छन्ति ते दक्ष भानुतेजःसमप्रभाः ॥ १६॥ तस्यापि विस्तरस्तावान् शक्तिलोकसमेन वै । तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥ १७॥ स्ववामाङ्गाच्च निर्माय मायां कर्ममयीं प्रभुः । संज्ञां तया सदा रेमे पुरुषो ब्रह्मसंज्ञितः ॥ १८॥ तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः । सदाविकुण्ठवासीय आनन्दमयमूर्तिमान् ॥ १९॥ विस्तारस्तस्य लोकस्य विकुण्ठस्य प्रमाणतः । अयुतं योजनानां च समन्ताच्च विराजते ॥ २०॥ निराधारे सदा नित्ये ज्योतीरूपमये परे । तत्र गच्छन्ति निष्कामा वैष्णवा भक्तितत्पराः ॥ २१॥ सदानन्दसमायुक्तास्तत्र नित्यसुखे रताः । जनास्तिष्ठन्ति नार्यश्च स्वेच्छागतिविहारिणः ॥ २२॥ वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते । दक्षिणाङ्गान् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥ २३॥ सदानन्दमयः साक्षात् विष्णुः परमधर्मवित् । द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥ २४॥ तस्मात्षोडशसङ्ख्यासु योजनानां च कोटिषु । दूरे शङ्करलोकश्च कैलासः परमाद्भुतः ॥ २५॥ (Page खं. २ अ. १५ पान ३३) निराधारे सदा लोके मोहहीने सुखप्रदे । निष्कामाः शिवभक्ताश्च तत्र गच्छन्ति मानवाः ॥ २६॥ ज्योतिर्मयस्वरूपे च सदा कल्याणदायके । लोके तत्र स्वयं शम्भुर्वसति स्वेच्छया मुने ॥ २७॥ अयुतं योजनानां च तस्य विस्तार एव च । तत्र योगेन योगज्ञः शङ्करः क्रीडति प्रभुः ॥ २८॥ वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं प्रजापते । पुरुषाकारमेतस्य शङ्करस्य महात्मनः ॥ २९॥ संयोगे च तयोर्दक्ष आनन्दः परिकीर्तितः । नारायणमयी शक्तिरर्धनारीनरः शिवः ॥ ३०॥ सा शक्तिस्तस्य देवस्य त्रिधा रूपधरा बभौ । कृता भिन्ना शिवेनापि जगदानन्ददायिनी ॥ ३१॥ तया व्यक्तो महादेवो मोहहीनः स्वभावतः । क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥ ३२॥ तस्याः परं पृथिव्यास्तु ब्रह्म स्वानन्दसंज्ञितम् । तत्पदान्न परं किञ्चिद्वेदादौ सुप्रतिष्ठितम् ॥ ३३॥ स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् । चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥ ३४॥ अव्यक्तं शिवसंज्ञं च ब्रह्म निर्मोहरूपकम् । तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥ ३५॥ तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् । तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥ ३६॥ तेषामभेदसम्प्राप्तिः स्वानन्दः परिकीर्तितः । एवं तत्त्वेषु सर्वेषु स्वस्वस्वानन्द उच्यते ॥ ३७॥ ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः । तत्र क्रमार्थंं स्वानन्दः स्वमहिन्नि स्थितोऽभवत् ॥ ३८॥ अन्ते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः । स्वानन्दः सर्वसंयोगे समाधिः पूर्व उच्यते ॥ ३९॥ स्थाने स्थाने निजानन्दे गणेशः संस्थितः स्वयम् । कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥ ४०॥ एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते । अतिसङ्क्षेपभावेन श्रवणात् सर्वकामदाः ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ २.१४

२.१५ सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अतलं वितलं चैव सुतलं च तलातलम् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ १॥ अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् । अयुते योजनानां वै विस्तारो लक्षयोजनः ॥ २॥ मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः । तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥ ३॥ वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् । अयुते योजनानां तद्विवरं चैव संस्थितम् ॥ ४॥ तत्र नागासुराश्चैव वसन्ति सुखभोगिनः । कम्बलः शङ्कुकर्णश्च हयग्रीवश्च जुम्भकः ॥ ५॥ (Page खं. २ अ. १५ पान ३४) सुतलं पीतवर्णं तदधस्तद्वत्प्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥ ६॥ कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसन्ति विहारिणः ॥ ७॥ तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः । मयासुरादयश्चैव बाणान्धकमुखाः परे ॥ ८॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः । कालकेया महादेहा निवातकवचास्तथा ॥ ९॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥ १०॥ हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्रशः । देवानां भयमुत्सृज्य निवसन्ति प्रजापते ॥ ११॥ रसातलं शैलमयमधस्तद्वत् स्थितं महत् । वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥ १२॥ विवरे सर्वशोभाढये नानासौख्यप्रदे परे । तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसन्ति वै ॥ १३॥ पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् । तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥ १४॥ तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते । भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥ १५॥ पातालविवरेष्वत्र गृहा नानाविधाः कृताः । वनानि च तथा ग्रामा नगराणि प्रजापते ॥ १६॥ विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः । मन्दिराणि प्रभावन्ति सोत्पलानि सरांसि च ॥ १७॥ तत्र स्वर्गसमं दक्ष भोगं कुर्वन्ति जन्तवः । हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥ १८॥ अपारायुः समायुक्ता महातेजस एव ते । देवादीनां सुदुर्धर्षा वसन्ति च्छन्दचारिणः ॥ १९॥ तस्मादधः सहस्राणि योजनानि प्रजापते । त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥ २०॥ गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः । विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥ २१॥ सहस्रानन एकोऽसौ महाभागो महाबलः । यस्य विषभवा ज्वाला दहेत्तु सकलं जगत् ॥ २२॥ मृत्युवर्जित एकोऽसौ तेनानन्तः प्रकीर्तितः । ब्रह्मणो दिवसान्ते वै लयं कृत्वा स्वयं स्थितः ॥ २३॥ अभजन्नागराजास्तं वासुकिप्रमुखाः सदा । असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ २४॥ उपासते विलीनास्तं तथान्या नागयोषितः । नानाकामप्रसिद्धयर्थमनन्तं भक्तितत्पराः ॥ २५॥ तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः । स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥ २६॥ तत्र तं वरुणाद्याश्च सेवन्ते भावतत्पराः । साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ २७॥ योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् । वराहरूपधारी च विष्णुः परपुरञ्जयः ॥ २८॥ तं धरित्रीमुखाः सर्वे सेवन्ते भक्तितत्पराः । महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥ २९॥ शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः । कूर्मो वराहरूपस्याधारेण समवस्थितः ॥ ३०॥ (Page खं. २ अ. १६ पान ३५) वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥ ३१॥ तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः । अन्धतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३॥ लोहदण्डस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥ ३४॥ नरकेषु प्रपच्यन्ते पापकारिण एव ये । एतावान् ब्रह्मगोलस्ते सङ्क्षेपेण निरूपितः ॥ ३५॥ विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते । शापमोहस्य वेगेन तव भ्रान्तिः समागता ॥ ३६॥ गणेशाराधनेनाद्य भ्रान्तिनाशो भविष्यति । तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥ ३७॥ एवं सर्वेषु सामान्यं ब्रह्माण्डेषु बभौ जगत् । अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥ ३८॥ इदं गणपते रूपं ब्रह्माण्डात्मकमास्थितम् । कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ ३९॥ यः श‍ृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् । भुक्तिमुक्तिकरं भावि पापकञ्चुकनाशनम् ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते सप्तपातालवर्णनं नाम पञ्चदशोऽध्यायः ॥ २.१५

२.१६ ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः । नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥ १॥ यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् । पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ २॥ तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते । एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ ३॥ नवयोगिन एवान्येऽभवन् सर्वत्र सम्मताः । गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ ४॥ कविर्हरिश्चान्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ५॥ सदा योगधरा मुख्या ऊर्ध्वरेतस एव च । सर्वगाः सर्वसम्मान्या भ्रमन्ति भुवनेषु च ॥ ६॥ नव तत्र च राजानो जम्बुद्वीपे प्रजापते । खण्डेषु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥ ७॥ सभ्रातॄणां नवानां वै संराट् भावेन संस्थितः । एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥ ८॥ तत्र नाना तपः कृत्वा क्रमेण स बभूव च । अवधूतो महाभागो योगमभ्यस्य योगवित् ॥ ९॥ नानायोगविभेदेन नानाभूमिं विशोधयन् । जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥ १०॥ सहजं शाङ्करं ब्रह्म मोहहीनं चतुर्थकम् । स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥ ११॥ तेनासौ शाम्भवो जातः शिवमार्गप्रकाशकः । (Page खं. २ अ. १६ पान ३६) यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् । दृष्ट्वा शान्तिं परित्यज्य विस्मितः प्रबभूव सः ॥ १३॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न योगीन्द्रस्ततो भवेत् ॥ १४॥ एवं विचार्य विक्षेपाच्छङ्करालयमाययौ । तं प्रणम्य स्थितो योगी शिवसम्मानितो भृशम् ॥ १५॥ तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६॥ ततोऽवसरमासाद्य शिवं नत्वा कृताञ्जलिः । जगाद तं स योगीन्द्रो भक्तियुक्तेन चेतसा ॥ १७॥ ऋषभ उवाच । नमस्ते शङ्करायैव नमस्ते योगरूपिणे । नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥ १८॥ शान्तियोगं वद स्वामिन् पूर्णशान्तिप्रदायकम् । दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥ १९॥ सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः । तत्र स्वाधीनता दृष्टा तया शान्तिर्गता च मे ॥ २०॥ मुद्गल उवाच । ऋषभस्य वचः श्रुत्वा शङ्करो हर्षनिर्भरः । जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ २१॥ शिव उवाच । त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् । कथयामि महाप्रीत्या श‍ृणुष्वैकाग्रमानसः ॥ २२॥ शान्तियोगात्मकः साक्षाद्वेदेषु कथितः पुरा । गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ २३॥ तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् । अन्ते चेदं तदाकारं योगेन भवति प्रभो ॥ २४॥ सामवेदे प्रकथितं श‍ृणु वेदरहस्यकम् । येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥ २५॥ मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् । गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ २६॥ मनोवाणीविहीनं च सयोगायोगसंस्थितम् । णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ २७॥ विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥ २८॥ ब्रह्माणि तु णकाराच्च सम्प्रसूतानि योगिभिः । निरोधात्मकरूपाणि कथितानि समन्ततः ॥ २९॥ गकारश्च णकारश्चाह्वये गणपतेः स्थितौ । ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ ३०॥ तयोः स्वामी गणेशानो योगरूपेण संस्थितः । तं भजस्व विधानेन शान्तिमार्गेण पुत्रक ॥ ३१॥ मनोवाणीमयं सर्वं गणेशाकारभावितम् । मनोवाणीविहीनं च तदाकारं प्रभावय ॥ ३२॥ मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते । मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥ ३३॥ चित्तस्य पञ्च भूमीनां प्रकाशकृदयं स्मृतः । तेन चिन्तामणिर्नाम जातोऽसौ गणनायकः ॥ ३४॥ तं भजस्व महायोगिन् योगाकारेण संस्थितः । भूमीनां त्यागमार्गेण शान्तिं चित्तस्य चाप्स्यसि ॥ ३५॥ गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः । मायया भ्रान्तिरुत्पन्ना तां त्यक्वा सुखमाप्स्यसि ॥ ३६॥ इत्युक्त्वा विररामाथ शिवः शिवकरः सताम् । (Page खं. २ अ. १६ पान ३७) ऋषभोऽपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७॥ कथितं शङ्करेणैवमभ्यस्यन् योगमुत्तमम् । क्रमेण पूर्वयोगी स जातो शान्तिस्वरूपधृक् ॥ ३८॥ तथापि गणपं दक्ष न मुमोच क्षणं मुनिः । तेन तस्य समीपेऽसौ गणेशानः समाययौ ॥ ३९॥ आगतं गणपं दृष्ट्वा भक्तिभावेन यन्त्रितम् । प्रणनाम स साष्टाङ्गं हर्षगद्गदभाषणः ॥ ४०॥ सरोमाञ्चशरीरश्च साश्रुनेत्रो महायशाः । तुष्ट्वाव तं गणाधीशं प्राञ्जलिर्हृष्टमानसः ॥ ४१॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२॥ निराकाराय नित्याय जगदाकारमूर्तये । अनन्ताय परेशाय परात्परतराय ते ॥ ४३॥ आदिमध्यान्तहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५॥ योगाय योगदात्रे च योगाकाराय ते नमः । योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६॥ सर्वादये गणाध्यक्ष सर्वपूज्याय ढुण्ढये । सर्वान्ते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७॥ हेरम्बाय निजानन्दवासिने सिद्धसेवित । सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८॥ धर्मार्थकाममोक्षाणां दायकाय नमो नमः । ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९॥ किं स्तौमि त्वां गणाधीश योगशान्तिमयं प्रभो । यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५०॥ तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१॥ मुद्गल उवाच । इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः । गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२॥ जगाद गणनाथः स ऋषभं भक्तमुत्तमम् । शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३॥ गणेश उवाच । मदीया भक्तिरत्यन्तं भविष्यत्यचलानघ । स्तोत्रं त्वया कृतं मे तु शान्तिदं प्रभविष्यति ॥ ५४॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । श्रवणान्नात्र सन्देहो भावपूर्णं मतं मम ॥ ५५॥ इत्युक्त्वान्तर्दधे देवो गणेशो गणवल्लभः । ऋषभश्च सदा शान्तो योगी गाणेशतां गतः ॥ ५६॥ इदं चरित्रं मुख्यं वै यः श‍ृणोति नरोत्तमः । ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ ५७॥ भविष्यति न सन्देहो ब्रह्मभूयप्रदायकम् । शान्तिदं शान्तचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥ २.१६ (Page खं. २ अ. १७ पान ३८)

२.१७ पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ऋषभेण कृता चर्या नानायोगप्रकाशिनी । आदौ तां भूमिपो दृष्ट्वा जगृहेऽर्हद्गृहे स्थितः ॥ १॥ दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै । पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २॥ जैनमागः समुत्पन्नस्तदादिश्च प्रजापते । भरतेन स सञ्च्छन्नो कर्ममार्गानुसारिणा ॥ ३॥ स एव कलिकाले वै भविष्यति गृहे गृहे । नरास्तं सङ्ग्रहीष्यन्ति कलिदोषेण संयुताः ॥ ४॥ ऋषभेण गृहं त्यक्त्वा धृतः संन्यासिना महान् । गृहस्थैः सन्धृतो मार्गो नरकप्रद उच्यते ॥ ५॥ ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः । राज्यं चकार धर्मेण रञ्जयन् सकलाः प्रजाः ॥ ६॥ पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः । तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ ७॥ शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः । तताप तप उग्रं स राजा परमधर्मवित् ॥ ८॥ एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् । अकस्मात्सिंहसन्नादो बभूव भयदायकः ॥ ९॥ तं श्रुत्वा हरिणी तत्रान्तर्वत्नी सहसा स्वनम् । उत्पपात नदीं तां वै भयेन च पलायत ॥ १०॥ उत्पतन्त्या नदीतोये गर्भस्तस्याः पपात ह । साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ ११॥ भरतेन मृगो बालो जलस्थः सन्धृतोऽभवत् । करुणायुतचित्तेन पालितश्च स यत्नतः ॥ १२॥ ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः । लालयामास भावेन खेलयामास भूमिपः ॥ १३॥ क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् । मृगे चासक्तचित्तस्य सङ्गदोषमपश्यतः ॥ १४॥ एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः । ययौ वनान्तरे कुत्र न ज्ञातः साधुनाऽमुना ॥ १५॥ भरतस्तं मृगं तत्र न ददर्श यदा प्रभो । तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ १६॥ न ददर्श मृगं कुत्र विललाप महीपतिः । नित्यं शोकसमायुक्तः कालेन स ममार च ॥ १७॥ मरणे स मृगस्तेन सन्दृष्टः स्वसमीपगः । बभूव मृगयोनौ स सङ्गदोषप्रभावतः ॥ १८॥ तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् । ज्ञानयुक्तः स्वयं सङ्गात्स भीतो विचचार ह ॥ १९॥ मृगसङ्गं परित्यज्य ययौ पूर्वाश्रमे ततः । तत्राहिंसासमायुक्तो द्वन्द्वभावपराङ्मुखः ॥ २०॥ शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् । तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥ २१॥ एकदा वनमध्ये स मृगो बभ्राम लीलया । अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ २२॥ मुनीश्वरास्तत्र केचिदवसंस्तत्परायणाः । महाभागास्तपोयुक्ता गणेशभजने रताः ॥ २३॥ तत्राऽसौ मृगजातिस्थो भरतो मुनिसन्न्निधौ । वासं चकार संहृष्टः साधुसङ्गपरायणः ॥ २४॥ एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् । तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ २५॥ (Page खं. २ अ. १७ पान ३९) तं सम्पूज्य महाभक्त्या पुलहः सर्वसंयुतः । तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६॥ परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः । आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७॥ पुलह उवाच । तात दुःखयुताः सर्वे जन्तवः केन भोगिनः । मोक्षिणो ब्रह्मभूताश्च जायन्ते तद्वदस्व मे ॥ २८॥ मुद्गल उवाच । पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् । पुत्रं विनयसंयुक्तं कृतप्राञ्जलिमास्थितम् ॥ २९॥ ब्रह्मोवाच । श‍ृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् । तत्सर्वं सर्वपापघ्नं शान्तिमार्गप्रकाशकम् ॥ ३०॥ विघ्नराजमनादृत्य नरा दुःखसमन्विताः । जायन्ते सर्वलोकेषु विघ्नयुक्ता भयातुराः ॥ ३१॥ यद् यद् दुःखकरं तत्तद्विघ्नरूपं न संशयः । नरकादि महाघोरं विकर्मफलदं मतम् ॥ ३२॥ कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् । तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥ ३३॥ स्वर्गेषु द्वन्द्वभावश्च विद्यते नात्र संशयः । स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥ ३४॥ दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते । भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ ३५॥ उत्पत्तिनाशसंयुक्तं ब्रह्माण्डं सकलं मतम् । त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥ ३६॥ अकर्मणा नरो मोक्षं लभते नात्र संशयः । स एव विघ्नसंयुक्तो मोक्षश्च श‍ृणु तं सुत ॥ ३७॥ देही देहैश्चतुर्भिश्च मोहितो बन्धनं गतः । स एव साधनं कृत्वा बन्धहीनः प्रजायते ॥ ३८॥ मोहेन युक्तो हीनोऽयं देही सर्वत्र सम्मतः । तदेव विघ्नरूपं च तत्र प्राप्तं महामते ॥ ३९॥ देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् । विकल्पेन द्विधाभूतं स्वत उत्थानसंज्ञकम् ॥ ४०॥ निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् । तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥ ४१॥ साङ्ख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते । अस्वात्मनिष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥ ४२॥ स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् । समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥ ४३॥ तदेव विघ्नरूपं चाप्यपरोत्थानभावतः । साङ्ख्यं ब्रह्म न सन्देहो बीजमुत्थानधारकम् ॥ ४४॥ सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् । अतो योगिभिरत्यन्तं मानितं न कदाचन ॥ ४५॥ स्वानन्दं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् । तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥ ४६॥ सर्वाभेदस्वरूपेण संयोगात्मक उच्यते । स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥ ४७॥ तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुतम् । तस्माज्जातमिदं तत्र योगेनाभेदतां गतम् ॥ ४८॥ अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् । अतो न मान्यतां प्राप्तं शान्तिमार्गेषु सर्वदा ॥ ४९॥ ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् । न तस्य कस्यचिद्योगस्तत्र कुत्रापि नो भवेत् ॥ ५०॥ ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् । व्यतिरेकात्मको दोषो ह्यशान्तिकर उच्यते ॥ ५१॥ (Page खं. २ अ. १८ पान ४०) संयोगित्वमयोगत्वं त्यक्त्वा शान्तिमवाप्स्यसि । तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥ ५२॥ चित्तभूमिस्वरूपं यत् पञ्चधा त्यज विप्रप । योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥ ५३॥ पञ्चधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता । पञ्चधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥ ५४॥ तत्र बिम्बं गणेशस्य पतितं योगरूपतः । द्वैधं मायायुतं प्रोक्तं बिम्बभावं त्यज प्रभो ॥ ५५॥ आदौ पुरा मया पुत्र कथितं कुलदैवतम् । गणेशरूपमस्माकं त्वयाराधितमादरात् ॥ ५६॥ तेन त्वं पात्रभूतश्च योगशान्तेर्महामुने । अधुना कथितं पुत्र पूर्णशान्तिस्वरूपकम् ॥ ५७॥ शान्तियोगेन नित्यं त्वं तं भजस्व विधानतः । भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥ ५८॥ एवमुक्त्वा स्वयं ब्रह्मांऽतर्दधे स प्रजापते । पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥ ५९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ २.१७

२.१८ भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । क्रमेण योगशान्तिं च प्राप्तोऽसौ पुलहः स्वयम् । नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुतः ॥ १॥ ध्याननिष्ठः सदा योगी तमेवाचिन्तयत् प्रभुम् । ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ २॥ न बुबोध स तं विप्रो ध्याननिष्ठतया यदा । तदा हृदि स्थितो ढुण्ढिर्गणेशेन प्रलोपितः ॥ ३॥ अन्तर्हितं हृदिस्थं तं गणेशं न ददशे ह । तदा भ्रान्त इवापश्यद्ददर्श गणपं बहिः ॥ ४॥ उत्थाय सहसा विप्रस्तं ननाम कृताञ्जलिः । विधिवत् पूजयामास विनायकमनामयम् ॥ ५॥ पूजयित्वा नमस्कृत्य तं तुष्टाव कृताञ्जलिः । सरोमाञ्चशरीरः सन् हर्षगद्गदया गिरा ॥ ६॥ पुलह उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७॥ ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः । साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८॥ अनामयाय देवायाऽप्रतर्क्याय महौजसे । वक्रतुण्डाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ९॥ स्वानन्दवासिने तुभ्यं भक्तसंरक्षकाय च । योगानां पतये चैव योगदायिन्नमो नमः ॥ १०॥ शान्ताय शान्तरूपाय शान्तीनां पतये नमः । भक्तेभ्यः शान्तिदात्रे च योगशान्ताय ते नमः ॥ ११॥ नानावताररूपाय जगदाधारमूर्तये । सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२॥ सर्ववन्द्याय वै तुभ्यं सर्वादौ संस्थिताय च । (Page खं. २ अ. १८ पान ४१) सर्वान्त एकरूपाय मध्ये नानास्वरूपिणे ॥ १३॥ आदिमध्यान्तहीनाय सृष्टिस्थित्यन्तकारिणे । अनन्तोदरसंस्थाय लम्बोदर नमोऽस्तु ते ॥ १४॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशाङ्कुशधरायैव स्तुताय च विभूतिभिः ॥ १६॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥ १७॥ यं वेदवादिनः स्तोतुं वेदाः साङ्गाश्च योगिनः । शिवविष्णुमुखा देवा न समर्था भवन्ति वै ॥ १८॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां ढुण्ढे व्यभिचारविवर्जिताम् ॥ २०॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१॥ गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानन्ददायिका ॥ २२॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शान्तियोगप्रदायकम् ॥ २४॥ यः पठिष्यति वै मर्त्यः श‍ृणुयात्सर्वसौख्यभाक् । भविष्यति न सन्देहो यथा त्वं स तथा भवेत ॥ २५॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवान्तर्दधे प्रभुः । पुलहस्तत्र सन्तस्थावभजत्तं गणाधिपम् ॥ २६॥ मृगरूपधरस्तत्र भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥ २७॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥ २८॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा हृष्टस्तत्र वासं चकार सः ॥ २९॥ ततस्तेन च सङ्गीतं तच्छृणुष्व प्रजापते । अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥ ३०॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् । तत्रापि मृगसङ्गेन सञ्जातो मृगरूपधृक् ॥ ३१॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो वै जयन् वै विनमुल्बणम् ॥ ३२॥ विघ्नराजप्रसादेन विघ्नं निघ्नन्ति दुर्जयम् । शिवविष्ण्वादयः सर्वे जन्तवश्च तथा परे ॥ ३३॥ धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं सम्प्राप्तं ज्ञानमुत्तमम् ॥ ३४॥ गाणपत्यो महायोगी दृष्टो वै पुलहो मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥ ३५॥ येनाहं गाणपत्यानां सङ्गे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥ ३६॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥ २.१८

२.१९ चौरवधो नामैकोनविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आङ्गिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥ १॥ तत्रापि सङ्गभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २॥ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं दृढं कृतम् ॥ ३॥ जडवत्सङ्गसम्भीतो बभूव ब्राह्मणोत्तमः । चातुर्यं सकलं तेन गोपितं सर्वसन्निधौ ॥ ४॥ विवाहादिभयात् सर्वं जडत्वं सम्प्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥ ५॥ तस्योपवीतदानं स चकाराङ्गिरसो मुनिः । पश्चात् सन्ध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६॥ पित्रा कथितमत्यन्तं न जग्राह महामतिः । अन्यथा स चकारापि ताडितो यदि योगिपः ॥ ७॥ हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् । सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥ ८॥ पुनः पित्रा च सम्पृष्टं न सस्मार तदा स्वयम् । जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥ ९॥ ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते । जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥ १०॥ तत्रादरापमानादि तिरस्कारादिकं महत् । सम्बभूव च तेनापि जडवत्त्यक्तमेव च ॥ ११॥ लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् । निन्दास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥ १२॥ जडत्वादिकदोषेण विवाहादिकमस्य च । न कृतं जनकेनैव तेनानन्दमवाप सः ॥ १३॥ ततः कालेन निधनं गतस्तस्य पिता मुनिः । माता सती गुणयुता सहगा सम्बभूव ह ॥ १४॥ मातुः सपत्नीजाताश्च भ्रातरो नव चाऽभवन् । तेषामधीनतां यातो द्विजोऽसौ शान्तियोगधृक् ॥ १५॥ भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् । उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥ १६॥ वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् । चक्रुः स्नेहं परित्यज्य कुलपांसुं वदन्ति ते ॥ १७॥ तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् । अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥ १८॥ तदपि भातृजायास्ता अन्नं तस्मै च नो ददुः । द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥ १९॥ क्षुधया पीडितो योगी गाणपत्यः प्रजापते । भ्रमन्नन्नार्थमत्यन्तं गेहे गेहे विचक्षणः ॥ २०॥ तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः । चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥ २१॥ ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् । ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥ २२॥ ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे । स्वकर्मकारिणं चक्रुर्भ्रातरो हर्षसंयुताः ॥ २३॥ तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् । सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥ २४॥ कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः । भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥ २५॥ तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च । (Page खं. २ अ. २० पान ४३) अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥ २६॥ तत्र चित्रमभूद्यत्तु तत् श‍ृणुष्व प्रजापते । चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥ २७॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥ २८॥ द्रव्यं तस्य तथा प्राप्तं तेन सम्प्रेषिताः स्वकाः । चौरा रात्रौ श्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥ तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः । योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥ ३०॥ तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः । भोजनं स चकारापि स्वादु विपेन्द्रसत्तमः ॥ ३१॥ तं पुरस्कृत्य वादित्रैर्निनदद्भिर्ययौ खलः । देवीसन्निधिमानन्दात् पूजितं परमादरात् ॥ ३२॥ पूजयित्वा महाकाली ततस्तं मुनिपुङ्गवम् । पुरस्कृत्यासिना हन्तुं नग्नं खड्गं चकार सः ॥ ३३॥ मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः । न किञ्चित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥ ३४॥ अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः । तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥ ३५॥ एतस्मिन्नन्तरे तत्र देवी कोपसमन्विता । गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥ ३६॥ खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया । तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७॥ अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः । चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८॥ तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः । स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ २.१९

२.२० जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सिन्धुदेशाधिपो राजा रहूगण इति स्मृतः । पूर्वसंस्कारयोगेन ह्यन्तर्निष्ठो बभूव ह ॥ १॥ राजा शान्त्यर्थमत्यन्तं यत्नवान प्राप तां न सः । ययौ गङ्गासमीपस्थं कपिलाश्रममादरात् ॥ २॥ गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुङ्गवात् । निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥ ३॥ गच्छन्मार्गे त्वरायुक्तः श्रान्तवाहो महीपतिः । धृत्वाऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥ ४॥ तत्र दैवप्रसङ्गेन समालब्धं महामुनिम् । आङ्गिरसवरं तं ते चक्रुवार्हकमञ्जसा ॥ ५॥ ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् । वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥ ६॥ अहिंसापरमो योगी मार्गे जन्तुमवेक्ष्य सः । स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥ ७॥ तेन सर्वे बभूवुश्च वाहका मन्दगामिनः । दोलायिता च शिबिस्का तया राजा सुदुःखितः ॥ ८॥ (Page खं. २ अ. २० पान ४४) ततः क्रोधसमाविष्टो रहूगण उवाच तान् । सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥ ९॥ ततो भीताश्च ते सर्व तमूचुरधुना नृप । आनीतः सुदुरात्मायं यथा चलति मद्यपः ॥ १०॥ ततो राजा महात्मानमुवाच शठ किं त्वया । उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥ ११॥ ततो भाविबलेनासावाङ्गिरस उवाच ह । ज्ञात्वा तं योगमिच्छन्तं पात्रभूतमनादरात् ॥ १२॥ जडभरत उवाच । मायामयमिदं सर्वं भ्रान्तिरूपमसत्यकम् । तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥ १३॥ वयं द्वन्द्वं प्रेषयित्वा समभावेन संस्थिताः । शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥ १४॥ तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम साम्प्रतम् । तदधीना भवामः किमज्ञानेन वदत्ययम् ॥ १५॥ इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् । आङ्गिरसो महायोगी चचाल गणपं भजन् ॥ १६॥ राजा श्रुतं महावाक्यं योगग्रन्थितमुत्तमम् । भयभीतश्च तेनासावुत्पपात महीतले ॥ १७॥ दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुतम् । बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥ १८॥ प्रणनाम स साष्टाङ्गं कृताञ्जलिपुरः स्थितः । जगाद भयभीतो वै रहूगणः स धर्मवित् ॥ १९॥ रहूगण उवाच । क्षमापराधमतुलं मम ब्रह्मन् दयानिधे । अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥ २०॥ अवधूता महात्मानश्चरन्ति यत्र कुत्र वै । तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥ २१॥ कपिलः किं नारदश्चाङ्गिरा पुलहकः क्रतुः । दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥ २२॥ अहं बिभेमि विपेन्द्र ब्राह्मणानामधर्षणात् । न ब्राह्मणसमं किञ्चिद्दैवतं सचराचरे ॥ २३॥ साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः । कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥ २४॥ ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् । देवस्थानेषु देवानामुदरे नात्र संशयः ॥ २५॥ ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपदप्रदम् । उद्धाराय जनानां वै ब्राह्मणाः सम्मताः किल ॥ २६॥ मन्त्राधीना देवगणा मन्त्रा विप्राधीना मताः । देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥ २७॥ मन्त्रहीनं च यत्कर्म निष्फलं जायते किल । कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥ २८॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः । योगिनश्च भवन्तीह तारका जगति स्थिताः ॥ २९॥ सर्वेषां गुरवो विप्रा ज्ञानदास्तेन सम्मताः । साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥ ३०॥ तेषां हेलनमात्रेण पतन्ति शिवमुख्यकाः । सेवनेन च तेषां वै सर्वं स लभते जनः ॥ ३१॥ ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः । पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥ ३२॥ अतो बिभेमि विप्रेश वद कस्त्वं महामते । विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥ ३३॥ एवमुक्त्वा पुनः पादौ गृह्य तं प्रणनाम सः । (Page खं. २ अ. २१ पान ४५) पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥ ३४॥ ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् । उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥ २.२०

२.२१ रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । आह माङ्गिरसो नाम जडभरतः प्रकथ्यते । स्वायम्भुवश्च भरतोऽधुना जडश्च तेन वै ॥ १॥ मा चिन्तां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् । हेलनं मम देहस्य पापदं न भविष्यति ॥ २॥ गच्छ राजन्यथेच्छ त्वं मत्तो वै न भयं तव । गमिष्यामि स्वतन्त्रोऽहं प्रारब्धेन नियन्त्रितः ॥ ३॥ मुद्गल उवाच । तस्य योगीन्द्रमुख्यस्य श्रुत्वा वचनमुत्तमम् । रहूगण उवाचाथ तं प्रणम्य महायशाः ॥ ४॥ रहूगण उवाच । धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः । तपो विद्या यशो दानं तवाङ्घ्रियुगदर्शनात् ॥ ५॥ अहं सिन्धुमहीपालो रहूगण इति स्मृतः । राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥ ६॥ शान्त्यर्थं कपिलं यामि गौतमीतीरवासिनम् । त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥ ७॥ मां शिष्यं तारय मुने योगबोधेन सत्तम । साक्षात् शान्तिं वद विभो यया शान्तो भवाम्यहम् ॥ ८॥ तस्य तद्वचनं श्रुत्वा कृपया परया युतः । जगाद तं नृपेन्द्रं स आङ्गिरसो महाद्युतिः ॥ ९॥ श‍ृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् । कथयामि तथापि त्वां योगशान्तिकरं परम् ॥ १०॥ देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः । भ्रान्त्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥ ११॥ देहानां ब्रह्म यत्प्रोक्तं बिन्दुमात्रं च दृश्यते । देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥ १२॥ तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः । स्वतोत्थानमिदं ब्रह्म विकल्पाद्विविधं मतम् ॥ १३॥ बोधनाशे महीपाल उत्थानं जायते न च । साङ्ख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥ १४॥ यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् । ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥ १५॥ तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् । स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ १६॥ स्वतः परत उत्थानहीनं स्वानन्दवाचकम् । संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥ १७॥ स्वानन्द पञ्चभेदं च स्वयं सर्वत्र संस्थितम् । सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥ १८॥ स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् । तयोरनुभवो यः स्यात्तस्य रूपं तदेव च ॥ १९॥ (Page खं. २ अ. २२ पान ४६) ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् । जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥ २०॥ नामरूपमयं सर्वमसत्यं परिकीर्तितम् । शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥ २१॥ नामरूपात्मकं यत्तत्सदा खण्डमयं स्मृतम् । अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ २२॥ तयोरभेदकर्ताऽसौ विष्णुरानन्दसंज्ञितः । द्वयोः समं च तद्ब्रह्म भावाभावमयं परम् ॥ २३॥ त्रिभिर्हीनं तुरीयं यन्नेति कर्ता शिवः स्मृतः । अव्यक्तं मोहहीनं यत् स्वाधीनं ब्रह्म तन्मतम् ॥ २४॥ चतुर्णां चैव संयोगो यत्राभेदमयः स्मृतः । स एव स्वस्वरूपाख्यो मायायुक्तो विनायकः ॥ २५॥ संयोगनाशकारी चायोगः सर्वत्र समन्तः । निर्मायिको गणेशः स कथितो योगिभिर्नृप ॥ २६॥ अयोगे योगिनां राजन्निवृत्तिरुपजायते । स्वकीयभेदहीनत्वात्तद्ब्रह्मायोगसंज्ञकम् ॥ २७॥ अत एव स्वनाशाख्यनिवृत्या तच्च लभ्यते । मायया सर्वसंयोगे तद्धीनं ब्रह्म तत् स्मृतम् ॥ २८॥ अयोगश्चैव संयोगो योगे तौ न प्रपश्यति । तदेव गणनाथो हि योगशान्तिमयः स्मृतः ॥ २९॥ मायायुक्तश्च मायावी मायाहीनश्च केवलः । तदेव भ्रान्तिमात्रं यत्त्यक्तव्यं योगिभिः सदा ॥ ३०॥ चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं महामते । मोहदं द्विविधं त्यक्त्वा शान्तिरूपो भविष्यसि ॥ ३१॥ एवमुक्त्वा महायोगी विरराम प्रजापते । सोऽपि तं प्रणनामाथ राज्यं त्यक्त्वा वनं ययौ ॥ ३२॥ एवं रहूगणो राजा साधयित्वा विधानतः । शान्तिं प्राप्तो महातेजा गाणपत्यो बभूव ह ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते रहूगणसिद्धिप्राप्तिवर्णनं नामैकविंशोऽध्यायः ॥ २.२१

२.२२ जडभरतचरितं नाम द्वाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तत आङ्गिरसो योगी विचचार महीतले । मयूरेशस्य स क्षेत्रं आययौ दैवयोगतः ॥ १॥ तत्र पूर्वावतारं च गणेशस्य महात्मनः । दृष्ट्वा ज्ञात्वा स्थितस्तं स ध्यायन्नेकत्र मूढवत् ॥ २॥ वर्षमात्रे गते तस्य दर्शनार्थं ययौ स्वयम् । गणेशो मूषकारूढः सिद्धिबुद्धिसमन्वितः ॥ ३॥ तं दृष्ट्वा प्रणनामादौ तुष्टाव प्राञ्जलिः प्रभुम् । रोमाञ्ची साश्रुनेत्रः स भक्तिभावनिमज्जितः ॥ ४॥ जडभरत उवाच । नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे । विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ ५॥ सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन । भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ ६॥ (Page खं. २ अ. २२ पान ४७) बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ ७॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च । स्वानन्दवासिने देव वक्रतुण्डाय ते नमः ॥ ८॥ नानाविहारयुक्तायानन्तरूपाय ते नमः । अमेयाय सदायोगशान्तिस्थाय नमो नमः ॥ ९॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥ १०॥ मया किं ते कृतं देव दर्शनार्थं किमागतः । भक्त्या समं न किञ्चित्ते प्रियं ज्ञातं मयाधुना ॥ ११॥ भक्त्या त्वां हृदि सन्ध्यायन् संस्थितो जडवत्प्रभो । त्वमेव मोहितो भक्त्या मम सन्न्निधिगः कृतः ॥ १२॥ अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतम् । यया त्वं शान्तियोगस्थो मोहितः सहसाऽऽगतः ॥ १३॥ त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक । किं ददामि गणेशान येन तुष्टो भविष्यसि ॥ १४॥ अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः । वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥ १५॥ भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् । देहि नाथ दयासिन्धो नान्यद् याचे कदाचन ॥ १६॥ एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः । प्रेम्णा ननर्त योगीन्द्रस्तमुवाच गणाधिपः ॥ १७॥ गणेश उवाच । भविता सुदृढा भक्तिर्मम ते मुनिसत्तम । व्यभिचारविहीना ते न चाङ्गिरस संशयः ॥ १८॥ त्वया कृतमिदं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभाग मम प्रीतिकरं परम् ॥ १९॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः । श‍ृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥ २०॥ एवमुक्वान्तर्दधेऽसौ गणनाथः प्रजापते । स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ २१॥ अन्ते गणेशरूपोऽसौ जातो योगीन्द्रसत्तमः । गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥ २२॥ गणेशोत्तरभागे च सम्मुखे क्रोशदूरकम् । स्थानमाङ्गिरसस्याऽपि भरतस्य जडात्मनः ॥ २३॥ कुर्वन्ति दर्शनं तस्य तत्र ये मानवादयः । तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥ २४॥ चरितं भरतस्येदं कथितं परमाद्भुतम् । श‍ृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥ २५॥ एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् । उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥ २६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥ २.२२ (Page खं. २ अ. २३ पान ४८)

२.२३ ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । स्वायम्भुवमनोः पुत्र उत्तानपादसंज्ञितः । स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः ॥ १॥ तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा । सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः ॥ २॥ सुरुच्या स्ववशं नीतो तया राजा विमोहितः । सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥ ३॥ एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् । आरोढुमिच्छन्नुत्सङ्गे संस्थितस्तस्य सन्निधौ ॥ ४॥ तत्रावमानितस्तेन सुरुच्या दुष्टभावतः । ततो ध्रुवो वनं दक्ष जगाम क्रोधसंयुतः ॥ ५॥ मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः । तं ननाम महाबुद्धिर्बालोऽयं धर्मधारकः ॥ ६॥ वृत्तान्तमखिलं ज्ञात्वा नारदेन महात्मना । उपदिष्टो महामन्त्रो विष्णोश्च द्वादशाक्षरः ॥ ७॥ नारदं स प्रणम्याऽऽदौ मथुरायां ययौ ततः । तपश्चकार तत्राऽसौ ध्यायन्विष्णुं सनातनम् ॥ ८॥ सहस्रवर्षमत्यन्तं तताप परमं तपः । प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावतः ॥ ९॥ ददौ राज्यमखण्डं वै पृथिव्याः परमाद्भुतम् । अन्ते स्वर्गस्य राज्यं च पदं विष्णोर्ध्रुवात्मकम् ॥ १०॥ ततः स्वगृहमागत्य ननाम पितरौ ध्रुवः । तं राजा मानयामास बहुलं तेजसा युतम् ॥ ११॥ कालेन तं ध्रुवं राजा चकार स नराधिपः । वनं ययौ महातेजास्तताप परमं तपः ॥ १२॥ तत्रागत्य च गाणेशो नारदस्तमुवाच सः । भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव ॥ १३॥ शिवविष्ण्वादयो देवा योगिनः सनकादयः । वसिष्ठाद्या ऋषिगणा भजन्ते तं न संशयः ॥ १४॥ न गणेशं विना शान्तिर्लभ्यते नात्र संशयः । स्वायम्भुवादिभूपालैः सेवितो गणनायकः ॥ १५॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् । राजा मन्त्रप्रभावेण गाणपत्यो बभूव ह ॥ १६॥ मरणे गणनाथं वै सस्मार स नृपोत्तमः । सायुज्यं गणनाथस्य प्राप्तं तस्य महात्मनः ॥ १७॥ ध्रुवो राज्यं चकाराथ धर्मयुक्तो महीपतिः । जगाम सहसा तत्र नारदः करुणानिधिः ॥ १८॥ तं दृष्ट्वा प्रणनामाऽसौ पूजयामास भक्तितः । स्वगुरुं पूर्णभावेन कृताञ्जलिपुटः स्थितः ॥ १९॥ तमुवाच महायोगी नारदो दिव्यदर्शनः । स्वशिष्यं भक्तिसंयुक्तं दयया च दयानिधिः ॥ २०॥ नारद उवाच । श‍ृणु ध्रुव वचो रम्यं विकुण्ठादागतोऽधुना । विष्णुना प्रेषितोऽहं वै तव हेतोर्महामते ॥ २१॥ मयूरेशस्य यत्क्षेत्रं भुवि ब्रह्ममयं परम् । तत्र गत्वा महायात्रां कुरु त्वं विधिवत्सुत ॥ २२॥ तेनाक्षयपदं ते वै भविष्यति मदीयकम् । अन्यथा विघ्नसंयुक्तः पतिष्यसि न संशयः ॥ २३॥ अन्यच्च कथितं तेन विष्णुना करुणावता । एकाक्षरं गणेशस्य महामन्त्रं जपेति वै ॥ २४॥ तेन मन्त्रप्रभावेण लये ब्रह्मदिनात्यये । लयं ध्रुवपदं गच्छेत्तदा त्वं शान्तिमेष्यसि ॥ २५॥ ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः । अन्यथा योगशान्तिं त्वं न प्राप्स्यसि कदाचन ॥ २६॥ (Page खं. २ अ. २४ पान ४९) ततस्तं नारदो योगी ददौ मन्त्रं विधानतः । एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः ॥ २७॥ मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः । चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥ २८॥ गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः । अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ २९॥ देवालयं चकाराऽसौ महामौल्यं सुविस्तृतम् । सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः ॥ ३०॥ नाम तस्याऽकरोद्राजा तदा ध्रुवविनायकः । वर्षमासं निवासं च ध्रुवस्तत्र चकार ह ॥ ३१॥ पश्चात् स्वनगरे गत्वा राज्यं चक्रे महाबलः । जगाम स्वर्गमन्ते स ध्रुवाख्यं ज्योतिषां धरम् ॥ ३२॥ तस्मिन् गणपतिं ध्यायन् संस्थितोऽसौ महायशाः । ध्रुवस्थानस्य नाशेंऽते गतः स्वानन्दमञ्जसा ॥ ३३॥ ध्रुवं विनायकं दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलाम् । लभते मानवस्तत्र श्रुत्वा ध्रौव्यमिदं तथा ॥ ३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ध्रुवचरित्रं नाम त्रयोविंशोऽध्यायः ॥ २.२३

२.२४ पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवस्यान्वयसम्भूतोंऽगस्तेजस्वी महीपतिः । धर्मात्मा सर्वमान्यश्च पितृवत् पालकोऽभवत् ॥ १॥ मृत्युकन्याऽभवद्भार्या राज्ञस्तस्य महात्मनः । तस्यां तस्मात् समुत्पन्नः पुत्रो वेनःसुदारुणः ॥ २॥ तं पिता शिक्षयन् श्रान्तो न साधुरभवत् सुतः । राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगाम ह ॥ ३॥ ततो राजविहीने च देशे चोराः प्रबभ्रमुः । तैर्लुण्ठितं जनानां स्म सर्वस्वं यत्र तत्र हि ॥ ४॥ प्रजाः सर्वा भयोद्विग्ना ब्राह्मणान् शरणं ययुः । ब्राह्मणै राज्य आसिक्तः स वेनः पैतृके ततः ॥ ५॥ स राज्यं प्राप्य दुर्धर्षश्चोरान् हत्वा समन्ततः । राज्यं चकार देशेषु कम्पयन् वसुधातलम् ॥ ६॥ नयमार्गं परित्यज्य यथेच्छाचारकोऽभवत् । तेन वर्णाश्रमाचारसंयुता दुःखिताः कृताः ॥ ७॥ पुनस्ते तापसांस्तान्वै शरणं जग्मुरादरात् । तापसैर्वारितो वेनस्तानुवाच द्विजोत्तमान् ॥ ८॥ वेन उवाच । अहं पूज्यश्च सर्वेषां पालको नात्र संशयः । मां भजध्वं मुनीन्द्रा वै योगक्षेमकरं सदा ॥ ९॥ तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः । शापेन मारयामासुस्तं नृपं नयवर्जितम् ॥ १०॥ तस्याङ्गं वाममेवादौ ममन्थुर्नृपहेतवे । तस्मात् क्रूरः समुत्पन्नस्यस्य पापमयो नरः ॥ ११॥ ह्रस्वकायः श्यामवर्णः श्मश्रुलः पिङ्गलोचनः । तं दृष्ट्वा ब्राह्मणाः प्रोचुर्निषीदेति प्रजापते ॥ १२॥ ततो निषादनामाऽसौ जातस्तस्मै वनान्तरे । (Page खं. २ अ. २४ पान ५०) स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥ १३॥ पुनश्च दक्षिणाङ्गं ते ममन्थुर्द्विजसत्तमाः । वेनस्य दम्पती तस्मात् समुद्भूतौ महौजसौ ॥ १४॥ विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा । ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥ १५॥ पृथुनामा महीपालो विख्यातोऽभूच्च मण्डले । स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ १६॥ तेन संवर्धिता लोका वर्णाश्रमयुता विधे । पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥ १७॥ गते कियति काले वै लोका अन्नविवर्जिताः । क्षुधया पीडिताः सर्वे तं नृपं शरणं ययुः ॥ १८॥ वेनस्याधर्मभावेन भूम्या सर्वं समाहृतम् । पुनर्दातुमशक्ता वै धर्मरूपे नराधिपे ॥ १९॥ लोकानां दुःखमाकर्ण्य कुपितोऽसौ नराधिपः । विचार्य धनुरादाय शरं श्रेष्ठं युयोज च ॥ २०॥ भूमिं हन्तुं मनश्चक्रे ह्याकर्णाकर्षितं धनुः । यावद्बाणं स चिक्षेप तावद्भीता वसुन्धरा ॥ २१॥ गोरूपेण भयोद्विग्ना यत्र तत्र पलायत । आत्तबाणो नृपः पश्चाद्ययौ यम इवापरः ॥ २२॥ शरणं नाऽपतद्भूमिस्तमेव शरणं ययौ । उवाच प्राञ्जलिर्भूत्वा नृपं कम्पसमन्विता ॥ २३॥ स्त्रियं मां गां कथं हंसि भूमिपाल वसुन्धराम् । शरणागतरूपां ते रक्ष क्षत्रकुलोद्भव ॥ २४॥ भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः । श‍ृणु त्वां मारयिष्यामि मच्छासनपराङ्मुखीम् ॥ २५॥ जीवितुं चेच्छसि प्राज्ञे तदान्नं विविधं धरे । कुरु प्रकटरूपं त्वं सर्वकालं न संशयः ॥ २६॥ ततस्तं विनयं कृत्वा सा जगाद वसुन्धरा । मया ग्रस्ता समग्रा या ओषध्यश्च नृपात्मज ॥ २७॥ भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः । अतस्त्वं मां समामादौ कुरु पार्थिवसत्तम ॥ २८॥ गोरूपाहं स्थिता भूप वत्सं कृत्वा स्वभावजम् । सकला दुग्धरूपेणौषधीस्ते प्रददाम्यहम् ॥ २९॥ दोहकः कल्प्यतां शीघ्रं तदा सर्वं शुभं भवेत् । अन्यथा मां महीपाल हनिष्यसि वृथा कथम् ॥ ३०॥ तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः । पर्वतांश्चूर्णयामास समां भूमिं चकार ह ॥ ३१॥ पुरग्रामादिकानां तु रचना रचिता ततः । तेनैव पृथुना दक्ष यथायोग्यं धरातले ॥ ३२॥ तदादिर्नगराद्यानां रचना सम्प्रवर्तिता । पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी ततोऽभवत् ॥ ३३॥ मनुं वत्सं ततः कृत्वा दोहकश्चाऽभवत्स्वयम् । षड्रसान्नमयं दुग्धं दुदोह नृपसत्तमः ॥ ३४॥ ततः सर्वे त्रिलोकस्था दुदुहुस्तां वसुन्धराम् । स्वस्वान्नमयदुग्धं ते जगृहुः परमादृताः ॥ ३५॥ ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः । दोहको दुग्धमादाय संस्थितो विगतज्वरः ॥ ३६॥ रुद्रं वत्सं ततः कृत्वा दोहकः पिशितात्मकम् । कालाग्निरुद्रसंज्ञश्च दुदोह हरजीवनम् ॥ ३७॥ विष्णुं वत्सं समादाय यजमानश्च दोहकः । यज्ञाधारमयं दुग्धं दुदोह खलु कर्मजम् ॥ ३८॥ (Page खं. २ अ. २५ पान ५१) सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् । ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ ३९॥ शेषं वत्सं च सङ्गृह्य दुदोहाऽपि च वासुकिः । सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ ४०॥ शिवं वत्सं प्रकल्प्यैव दोहको नन्दिकेश्वरः । विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ ४१॥ एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् । चराचरमया जीवा ईश्वराश्च प्रजापते ॥ ४२॥ पृथुस्तां पूजयामास धरणीं धरणीप्रियः । पुत्रीत्वे पालिता हर्षात्सा स्थिता मुदिता तथा ॥ ४३॥ एवं दुग्ध्वा धरित्रीं स पृथुः पृथुपराक्रमः । राज्यं चकार नीतिज्ञः पृथिव्यामेकराट् स्वयम् ॥ ४४॥ ततो यज्ञांश्चकाराऽसौ शतसङ्ख्यान् महाबलः । अश्वमेधाभिधान् राजा भूरिदक्षिणसंयुतान् ॥ ४५॥ तस्य यज्ञे स्वयं ब्रह्मा विष्णुः शङ्कर एव च । इन्द्राद्या आययुः सर्वे गन्धर्वाद्या महामते ॥ ४६॥ ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः । जना नानाविधा जग्मुः सस्त्रीकाश्च विशेषतः ॥ ४७॥ अन्त्ये यज्ञे समारब्धे शक्रश्चिन्तातुरो भृशम् । जटाचीरधरो भूत्वा तस्याश्चं सहसाऽऽहरत् ॥ ४८॥ तस्य पुत्रेण सन्दृष्टस्तपस्वीति च मोचितः । हयं त्यक्त्वा भयोद्विग्नोन्तर्धानं तु चकार सः ॥ ४९॥ पुनरस्थिधरो भूत्वा भस्मना लेपकारकः । जहाराश्वं तथा राजपुत्रेण न स ताडितः ॥ ५०॥ एवं षड्वारमश्वं स सञ्जहार पुरन्दरः । ततस्तं हन्तुमुद्युक्तः पृथुः पृथुपराक्रमः ॥ ५१॥ तं ब्रह्मा सान्त्वयामास महेन्द्रं न जघान ह । एकोनशतयज्ञान् स चक्रे वै तेजसा युतः ॥ ५२॥ ब्रह्मणा नोदितः साक्षादिन्द्रस्तं प्रणनाम ह । पृथुर्वैरं समुत्सृज्य देवेन्द्रं तं प्रसस्वजे ॥ ५३॥ सकलाः पूजितास्तेन देवाद्याः स्वस्थलं ययुः । सोऽपि राज्यं स्वधर्मस्थश्चक्रे वै पालयन् प्रजाः ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पृथुयशोवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २.२४

२.२५ पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जनानां धर्ममार्गं सो शिक्षयन्नृपसत्तमः । विष्णुरूपः स्वयं साक्षाद्विष्णुतुल्यपराक्रमः ॥ १॥ संस्थितः स्वपुरे राजा लोकान् संरञ्जयन् प्रभो । तत्राऽऽजग्मुश्च योगीन्द्राः सनकाद्या विधेः सुताः ॥ २॥ चत्वारः सूर्यसङ्काशाः सदा बालवयोन्विताः । पूर्वेषां पूर्वजा मान्या गतभ्रान्तय एव ते ॥ ३॥ तान् दृष्ट्वा सहसोत्थाय सम्भ्रमेण नरोत्तमः । ननाम दण्डवद्भूमौ शिरः संस्थाप्य पादयोः ॥ ४॥ उत्थाय तान् महाभक्त्या पाद्यार्घ्यैर्विष्टरादिभिः । अपूजयत्स विधिवत् हर्षितोऽत्यन्तभावतः ॥ ५॥ (Page खं. २ अ. २५ पान ५२) पादसंवाहनं तेषां चकार स्वयमादरात् । उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः ॥ ६॥ पृथुरुवाच । धन्येयं धरणी त्वद्य धन्यं नगरमुत्तमम् । मन्दिरं सत्कृतं सर्वं भवतामागमेन मे ॥ ७॥ धन्यो वंशो कुलं धन्यं पितरौ ज्ञानमाश्रमः । तपो विद्यादिकं मे च भवतां पाददर्शनात् ॥ ८॥ सनाथोऽहं कृतोऽनाथो भवद्भिर्नात्र संशयः । अनुग्रहः कृतोऽत्यन्तं विशेषेण दयालुभिः ॥ ९॥ पूर्वजन्मार्जितं मे किं फलितं पुण्यमुत्तमम् । अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणाम् ॥ १०॥ निःस्पृहा योगनिष्ठा ये सर्वज्ञाः स्वपरायणम् । दृष्ट्वा कुर्वन्ति कार्यार्थमाज्ञां तस्य हिताय च ॥ ११॥ अत आज्ञां महाभागा मम कुर्वन्तु साम्प्रतम् । तयाऽहं कृतकृत्यश्च भवामि न च संशयः ॥ १२॥ मुद्गल उवाच । पृथोर्वचनमाकर्ण्य सनकाद्यास्तमब्रुवन् । तृप्ता भावेन तस्याथ योगीन्द्रा योगभाविताः ॥ १३॥ सनकाद्या ऊचुः । धन्योऽसि नृपवर्य त्वं पृथो पृथुपराक्रम । विनयं तेऽद्य दृष्ट्वा वै सन्तुष्टा वयमादरात् ॥ १४॥ न कार्यलिप्सया युक्ता वयं नग्ना महामते । दर्शनार्थं च ते याताः साधो स्वर्गे श्रुतं यशः ॥ १५॥ आज्ञां देहि गमिष्यामि ब्रह्मलोकं सनातनम् । कीर्तिः श्रुता तथा दृष्ट्वा तृप्ता हर्षसमन्विताः ॥ १६॥ तेषां तद्वचनं श्रुत्वा पृथुस्तान् विनयान्वितः । जगाद भक्तिसंयुक्तो योगीन्द्रान्नृपसत्तमः ॥ १७॥ पृथुरुवाच । भुक्तं राज्यं महाभागा नानाभोगसमन्वितम् । अधुना शान्तिसिध्यर्थं योगं ब्रूत तपोधनाः ॥ १८॥ पृथोर्वचनमत्यन्तं श्रुतं योगिभिरादरात् । पात्रं दृष्ट्वा महाभागा ऊचुस्तं ब्रह्म शाश्वतम् ॥ १९॥ सनकाद्या ऊचुः । धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता । निर्वेदं राज्यभोगेभ्यः सम्प्राप्ता पृथुलश्रवः ॥ २०॥ योगशान्तिमयं पूर्णं गाणेशं विद्धि भूमिप । तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ २१॥ एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् । वटमूले समासीनमद्राक्ष्म ध्यानसंस्थितम् ॥ २२॥ तं प्रणम्य स्थिताः सर्वे वयं विनयसंयुताः । स्तोत्रैस्तं बोधयन्तश्च ततः शर्वो बुबोध वै ॥ २३॥ त्यक्त्वा ध्यानं गणेशाय नम इत्यवदत्ततः । श्रुत्वा भ्रान्ता वयं तं स्म पृच्छामः संशयान्विताः ॥ २४॥ कोऽसौ गणाधिपः स्वामिन् कथं नमसि तं प्रभो । शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ २५॥ अस्माकं वचनं श्रुत्वा शिवो हर्षसमन्वितः । जगाद ज्ञानमाद्यं यद्गाणपत्यं सुशान्तिदम् ॥ २६॥ शिव उवाच । ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते । स्वाधीनं सहजं विप्राः पराधीनं त्रिधा भवेत् ॥ २७॥ कर्मयोगादिभेदेन वेदे वै वेदवादिभिः । नानाविधं वर्णितं यद्ब्रह्म तन्माययान्वितम् ॥ २८॥ कर्मणां सकलानां संयोगो ब्रह्मणि जायते । तेन कर्मात्मकं ब्रह्म तद्वद् ज्ञानात्मकं मतम् ॥ २९॥ समूहवाची शब्दश्च गण इत्यभिधीयते । बाह्यान्तरादिभेदानां संयोगे तु समूहकः ॥ ३०॥ (Page खं. २ अ. २५ पान ५३) अन्नप्राणादिका शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः ॥ ३१॥ संयोगायोगकाद्या ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ ३२॥ गणो योगात्मकः प्रोक्तस्तस्मात्तस्य गणा वयम् । योगरूपा विशेषेण नमामो भक्तिसंयुताः ॥ ३३॥ माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः । तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ ३४॥ ब्रह्मभूतास्ते भवन्ति योगीन्द्रा गाणपाः स्मृताः । अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ ३५॥ चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका । तत्रैश्वर्यं च यत्प्रोक्तं सिद्धिः सा परमाद्भुता ॥ ३६॥ तत्र यद्बिम्बभावेन गणेशः प्रतितिष्ठति । मायाभ्यां मोहितोऽत्यन्तं सर्वत्राऽसौ विराजते ॥ ३७॥ बिम्बिभावं परित्यज्य गणेशस्यैव सेवया । पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ ३८॥ गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते । संयोगश्च तथा योगः शान्तियोगं लभे ततः ॥ ३९॥ न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः । योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ ४०॥ एतदेव मदीयं यत् गुह्यं ध्यानं प्रकीर्तितम् । अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ ४१॥ एवमुक्त्वा महायोगी विरराम स शङ्करः । उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ ४२॥ विचरामो महीमेतां स्वर्गेषु विवरेषु च । योगमार्गेण योगीशा गाणपत्याः स्वभावतः ॥ ४३॥ गणेशदर्शने जातलालसा वयमादरात् । तस्मिन् काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ ४४॥ काशीराजो महाभक्तो गाणपत्यपरायणः । तस्य गेहे गतो देवः स्वस्य वै कार्यसाधनात् ॥ ४५॥ दर्शनार्थं वयं तत्र गताः काश्यां महामते । प्रपश्यामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ ४६॥ तं प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः । बालरूपधरं देवं स्म स्तुमो बालयूथगम् ॥ ४७॥ सनकादय ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ ४८॥ गणेशाय सदा मायाधार चैतद्विवर्जित । भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ४९॥ त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा । योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ५०॥ आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ५१॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५२॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् । मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ५३॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ५४॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ५५॥ (Page खं. २ अ. २६ पान ५४) इत्युक्त्वा मौनमास्थाय नमामो दण्डवत् स्म तम् । उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ५६॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभागाः पठते श‍ृण्वते सदा ॥ ५७॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः । भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८॥ एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा । बालकैः सह योगात्मा काश्यपः पूर्ववन्नृप ॥ ५९॥ वयं काशीपते राजन् दर्शनार्थं गतास्ततः । तेनाऽपि मानिताः सम्यक् भुक्त्वा याताः पदे पुनः ॥ ६०॥ एतत्ते कथितं सर्वं योगशान्तिमयं महत् । ज्ञानपूर्णं गणेशाख्यं तं भजस्व नराधिप ॥ ६१॥ मुद्गल उवाच । एवमुक्त्वा विधेर्लोके ययुस्ते सनकादयः । पृथुः पुत्रेषु राज्यं स्वं विभज्य च वनं ययौ ॥ ६२॥ तत्र योगक्रमणैव गाणपत्यो बभूव ह । पत्न्या सह विनीतात्मा गणेशेंऽते लयं ययौ ॥ ६३॥ एतत् पृथुलकीर्तेश्च चरितं कथितं पृथोः । श‍ृणुयाद्यः पठेद्वापि सर्वदं तस्य तद् भवेत् ॥ ६४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पृथुचरित्रं नाम पञ्चविंशतितमोऽध्यायः ॥ २.२५

२.२६ प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तदन्वये च सम्भूतो बर्हिषो नाम पार्थिवः । धर्मात्मा शस्त्रधारी स प्रजानां पालने रतः ॥ १॥ स यज्ञान्विविधान् चक्रे कर्ममार्गपरायणः । प्राचीनाग्रकुशैः सर्वान् छादयामास मेदिनीम् ॥ २॥ मृगयार्थं वनं यातः समुद्रतनयां तदा । उपयेमे स भूपालस्तस्यां पुत्रा दशाऽभवन् ॥ ३॥ सर्वे समानवर्णास्ते समाचाराः प्रजापते । समानमानसास्तेन नाम्नाऽऽख्याताः प्रचेतसः ॥ ४॥ प्रजार्थं ते समुद्रस्य समीपे तपसि स्थिताः । सरो नारायणाख्यं च तत्र विष्णुमपूजयन् ॥ ५॥ प्राचीनबर्हिराजर्षिं स्वगृहे कर्मकारकम् । स्थितं ज्ञात्वा समायातो नारदः करुणानिधिः ॥ ६॥ तं राजाऽपूजयत् भक्त्या कृताञ्जलिपुटः स्थितः । तमुवाच मुनिश्रेष्ठो राजानं ज्ञानदायकः ॥ ७॥ नारद उवाच । किं राजन् कर्मणा ते वै भविष्यति वद प्रभो । बन्धदं कर्म वेदेषु प्रोक्तं तन्नात्र संशयः ॥ ८॥ यज्ञैर्नानाविधैः सर्वं कृतं कर्म त्वया महत् । घोरं हिंसात्मकं नित्यं नानापशुवधाश्रयम् ॥ ९॥ प्रहताः पशवः सर्वे त्वां प्रतीक्षन्त ओजसा । वधार्थं तव चात्यन्तं क्रोधयुक्ता न संशयः ॥ १०॥ अधुना वृद्धरूपस्त्वं त्यक्त्वा कर्म महीपते । कर्माङ्कुराग्निरूपं वै ज्ञानमार्गं समाश्रय ॥ ११॥ (Page खं. २ अ. २६ पान ५५) मुद्गल उवाच । नारदस्य वचः श्रुत्वा विस्मितः स नृपोऽब्रवीत् । तं पुनस्तस्य भावज्ञो विनयेन समन्वितः ॥ १२॥ प्राचीनबर्हिरुवाच । अहं कर्मपरं भावं जानामि मुनिसत्तम । कर्मणा लभते जन्तुर्जानामि न च संशयः ॥ १३॥ वद ज्ञानं विभो किं तत् कर्म मूलनिकृन्तनम् । दयया च दयासिन्धो मां तारय भवार्णवात् ॥ १४॥ तस्य तद्वचनं श्रुत्वा ज्ञात्वा कर्मपरायणम् । कर्मणा शुद्धरूपं तमुवाच मुनिसत्तमः ॥ १५॥ नारद उवाच । ज्ञानं योगमयं विद्धि योगोऽभेदात्मकः स्मृतः । ब्रह्मणि ब्रह्मभूतश्च योगी योगेन जायते ॥ १६॥ देहेऽस्मिन् पश्य राजेन्द्र बिम्बं गणपतेः स्मृतम् । मोहयुक्तं तदाकारं जीवरूपं हृदि स्थितम् ॥ १७॥ पञ्चधा चित्तवृत्तिश्च वर्तते नृपसत्तम । क्षिप्ता मूढा च विक्षिप्तैकाग्राऽपि च निरोधिका ॥ १८॥ यत्र क्षिप्तं नरेणैव चित्तं तज्ज्ञायते हृदा । तदेव क्षिप्तरूपं त्वं चित्तं जानीहि पार्थिव ॥ १९॥ क्षिप्तं चित्तं नरेणैतन् मूढवत्तन्न बुध्यति । अन्यथा च भवेज्ज्ञानं मूढरूपं च तत्स्मृतम् ॥ २०॥ मुमुक्षूणां भवेच्चित्तं विक्षिप्तं ब्रह्मलालसम् । न संसारसुखे मग्नं तन्न ब्रह्मणि सङ्गतम् ॥ २१॥ एकाग्रं सर्वभावेषु ह्यात्माकारेण संस्थितम् । अन्तर्ज्ञानेन तद्रूपं पश्येद्वै योगसेवया ॥ २२॥ निरोधं देहदेहिभ्यो हीनं निर्वृतिदायकम् । संयोगायोगरूपान्तं लभते योगसेवया ॥ २३॥ पञ्चधा कथितं भूप चित्तं सा बुद्धिरुत्तमा । जानीहि हृदये स्थित्वा गणपेन च खेलति ॥ २४॥ पञ्चधा चित्तवृत्तिर्या तत्र मोहः प्रकीर्तितः । स्वस्वस्थानकरूपस्थैश्चर्यरूपो महीपते ॥ २५॥ ऐश्वर्यभ्रान्तिरूपा सा सिद्धिः सर्वत्र वर्तते । धर्मार्थकाममोक्षाणां ब्रह्मणः पञ्चधा स्मृता ॥ २६॥ भ्रामयन्तीह भूतानि गणपेन च खेलति । मया सा कथिता माया नृप नास्त्यत्र संशयः ॥ २७॥ ज्ञानरूपा स्वयं बुद्धिरैश्वर्यात् सिद्धिरुच्यते । तयोर्बिबं गणेशस्य भ्रमाढ्यं जीवसंज्ञितम् ॥ २८॥ मायामयं सदा जातं माया सौख्ये प्रलालसम् । बन्धयुक्तं महीपाल हृदि पश्य प्रकाशकम् ॥ २९॥ पञ्चधा चित्तवृत्तिश्च तेन सर्वा प्रकाशिता । चिन्तामणिरिति ख्यातिं गणेशस्य वदन्त्यतः ॥ ३०॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः । नादरूपश्चतुर्थो वै बिन्दुस्तेषां परा गतिः ॥ ३१॥ देहेषु देहभोगस्थो देही भ्रान्त्या चतुर्विधः । एकोऽपि ब्रह्म तेषां वै सोऽहं विद्धि नराधिप ॥ ३२॥ तद्योगे स्वत उत्थानं ब्रह्म वेदे प्रतिष्ठितम् । सत्यं परत उत्थानरूपं सौख्यमयं परम् ॥ ३३॥ तयोर्योगे स्वसंवेद्यं ब्रह्म पञ्चविधं स्मृतम् । सत्यासत्यसमाकारनेतिभेदात्मकं परम् ॥ ३४॥ संयोगो ब्रह्मणां यत्र योगाभेदेन शाश्वतः । समाधिसुखदः प्रोक्तः स्वानन्द इति कथ्यते ॥ ३५॥ अयोगमेतद्रहितं ब्रह्मनिर्वृतिदायकम् । संयोगायोगयोर्नाशे योगः शान्तिप्रदायकः ॥ ३६॥ (Page खं. २ अ. २६ पान ५६) गणेशोऽयं महाराज समूहानां पतिः स्मृतः । समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥ ३७॥ तं भजस्व महीपाल हृदिस्थं गणनायकम् । बुद्धिप्रकाशकं पूर्णं बुद्धीशं शान्तिदायकम् ॥ ३८॥ एवमुक्त्वा महायोगी नारदो विरराम ह । सोऽपि श्रुत्वा प्रणम्यादावुवाच मुनिपुङ्गवम् ॥ ३९॥ प्राचीनबर्हिरुवाच । भो भो योगिन् दयासिन्धो तारितोऽहं त्वयाधुना । मत्समीपस्थिता विप्रा न जानन्ति त्विदं परम् ॥ ४०॥ नारदोंऽतर्दधे सद्यः प्रययौ गणपं स्मरन् । वीणागानरतो योगी स्वेच्छाचारी सदासुखी ॥ ४१॥ प्राचीनबर्हिराजर्षिस्त्यक्त्वाऽमात्येषु सत्वरम् । राज्यं वनं ययौ सोऽपि गणेशध्यानतत्परः ॥ ४२॥ नारदेन यथा तस्य कथितं ज्ञानमुत्तमम् । यथायोगं क्रमेणापि योगी गाणेशकोऽभवत् ॥ ४३॥ अन्ते लयं ययौ राजा गणेशे ब्रह्मरूपिणि । ब्रह्मभूतो नृपश्रेष्ठः कथितोऽसौ प्रजापते ॥ ४४॥ प्राचीनबर्हिराजर्षेश्चरितं यः श‍ृणोति च । पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेत् ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः ॥ २.२६

२.२७ प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्राचीनबर्हिषः पुत्रास्तेपुस्ते तप उत्तमम् । सहस्रवर्षपर्यन्तं ततस्तुष्टो जनार्दनः ॥ १॥ आययौ तान् वरं दातुं गरुडस्थश्चतुर्भुजः । तं दृष्ट्वा ते प्रणेमुश्चापूजयंस्तुष्टुवुर्मुदा ॥ २॥ प्रचेतस ऊचुः । नमस्ते केशवायैव नमस्ते भूतभावन । निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥ ३॥ आदिमध्यान्तहीनाय वासुदेवाय ते नमः । सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥ ४॥ लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥ ५॥ भुक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः । नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥ ६॥ वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः । वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥ ७॥ एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः । सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥ ८॥ तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः । यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥ ९॥ भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां श‍ृण्वतां चैव मत्प्रसादकरं परम् ॥ १०॥ एवमुक्वान्तर्दधेऽसौ विष्णुः परपुरञ्जयः । तेऽपि त्यक्त्वाऽऽश्रमं सद्यो जग्मुः स्वगृहमुत्तमम् ॥ ११॥ गच्छतां पथि तेषां वै मार्गे वृक्षा अनेकशः । अराजके समुत्पन्ना मार्गरोधनकारकाः ॥ १२॥ (Page खं. २ अ. २७ पान ५७) तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् । तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥ १३॥ तेषु स्वल्पस्थितेष्वेव चन्द्रस्तत्र समागतः । प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ १४॥ ऋषिवीर्यात्समुत्पन्नाऽप्सरः सुद्रुमपालिता । प्रगृह्य तां शान्तिमाप्ता अग्निं चक्रुः सुशान्तिदम् ॥ १५॥ स्वराज्यं प्राप्य ते सर्वे पालयामासुरादरात् । प्रजाः पुत्रानिवाध्यक्षा यन्त्रितास्ते प्रचेतसः ॥ १६॥ मारिषायां प्रचेतोभ्यो दक्ष त्वं त्वभवस्तदा । रुद्रशापेन सर्वज्ञस्तथा वै तेजसा युतः ॥ १७॥ गणेशवरदानेन ब्रह्मपुत्र त्वमञ्जसा । न गमिष्यति ते दक्ष प्रजापालो भविष्यसि ॥ १८॥ त्वां च राज्ये समास्थाप्य वनं चायुः प्रचेतसः । तेपुस्तत्र तपो घोरं योगशान्त्यर्थमादरात् ॥ १९॥ तत्राऽपि नारदो योगी गणेशे गानतत्परः । आययौ परमप्रीतः प्रचेतसां हितं चरन् ॥ २०॥ तं दृष्ट्वा हर्षिताः सर्वे महौजस्काः प्रचेतसः । नेमुः सम्पूज्य तं भक्त्या स्थिताःप्राञ्जलयोऽभवन् ॥ २१॥ तानुवाच मुनिश्रेष्ठः किमिच्छावः प्रचेतसः । ब्रूत तां पूरयिष्यामि भवतां भावतोषितः ॥ २२॥ नारदस्य वचः श्रुत्वा प्रोचुस्तं ते प्रचेतसः । वद त्वं शान्तिदं योगं कृपया करुणानिधे ॥ २३॥ श्रुत्वा स वचनं तेषां हर्षेण महताऽऽवृतः । उवाच सकलं योगं योगशान्तिपदप्रदम् ॥ २४॥ नारद उवाच । शान्तियोगात्मकं भूपा गणेशं कथयन्ति वै । योगज्ञा ब्रह्मभूताश्च तं भजध्वं प्रचेतसः ॥ २५॥ अहं गणेशाभिन्नश्च योगोऽयं शान्तिदायकः । कथितो विष्णुना पूर्वं मह्यं शान्तिप्रदः परः ॥ २६॥ तेन शान्तिं समास्थाय चरामि गणपं स्मरन् । गतभ्रान्तिश्च सर्वत्र हर्षयुक्तेन चेतसा ॥ २७॥ चित्तस्य पञ्चभूमीनां भ्रान्तिं त्यक्त्वा नरः सदा । योगरूपो न सन्देहो भवेद्वै शान्तिरूपगः ॥ २८॥ सर्वं मायामयं प्रोक्तं भ्रान्तिदं बुद्धिलालितम् । त्यक्त्वा तद् योगिनः शान्ता भवेतैव प्रचेतसः ॥ २९॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया ययौ । हेरम्बेति स्मरन् स्वर्गे कैलासे हर्षसंयुतः ॥ ३०॥ तेऽपि प्रचेतसः सर्वे कथितं योगमादरात् । क्रमेण साधयित्वा तं गाणपा अभवन् पराः ॥ ३१॥ अन्ते गणेशदेहे ते तदाकाराः प्रजापते । जाता ब्रह्ममयाः शान्ता महौजस्काः प्रचेतसः ॥ ३२॥ प्रचेतसां चरित्रं यः पठेद्वै यः श‍ृणोति वा । तस्य भुक्तिश्च मुक्तिर्वै भविष्यति सुखप्रदा ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्रचेतसां चरितं नाम सप्तविंशतितमोऽध्यायः ॥ २.२७ (Page खं. २ अ. २८ पान ५८)

२.२८ कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षः प्राचेतसो राजा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ १॥ गणेशवरदानेन स सिद्धः ससृजे प्रजाः । देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ २॥ नानाविधाः प्रजाः सृष्ट्वाऽवर्धन्त नयदा तदा । धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥ ३॥ दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः । तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥ ४॥ तथेति तं प्रणम्यादौ गतास्तपस आदरात् । तेषां मार्गे ब्रह्मपुत्रो नारदः सहसाऽऽगतः ॥ ५॥ उवाच विधिवत्तान् स योगमार्गं सनातनम् । तेन युक्ताश्च ते सर्वे न चक्रुः सृष्टिमुत्तमाम् ॥ ६॥ कर्ममार्गं परित्यज्य गाणपत्याश्च तेऽभवन् । गताः स्वेच्छाचराः सर्वे भ्रमहीना जितेन्द्रियाः ॥ ७॥ ज्ञात्वा नष्टान् स्वपुत्रान् स पुनर्दक्षः ससर्ज ह । असिक्न्यां चैव पुत्राणां सहस्रं तेजसा युतम् ॥ ८॥ स तानुवाच प्रीतात्मा तपसा स्मृष्टिमुत्तमाम् । कुरुध्वं ते प्रणम्याऽऽदौ तं वनं ययुरादरात् ॥ ९॥ पुनस्तान्नारदस्तद्वद्ददौ ज्ञानं सुनिर्मलम् । तेऽपि योगयुताः सर्वे ययुः स्वेच्छाविहारिणः ॥ १०॥ ज्ञात्वा वृत्तान्तमुग्रं वै दक्षः क्रोधसमन्वितः । शशाप नारदं ब्रह्मपुत्रं परमभाविकम् ॥ ११॥ त्वया पुत्रा मदीयाश्च नाशिताः कर्ममार्गतः । वर्णाश्रमक्रमेणैव युक्ता भ्रष्टाः कृताः खलु ॥ १२॥ नारद त्वमतो दुष्ट प्रजाहीनो भविष्यसि । द्विमुहूर्तात् परं कालं न स्थातुं शक्यते त्वया ॥ १३॥ यत्र कुत्र महीदेशे स्वर्गे पातालके पदे । भ्रमिष्यसि महादुष्ट मच्छापान्नात्र संशयः ॥ १४॥ एवं शप्त्वा स्वयं दक्षो ययौ ब्रह्माणमादरात् । तं प्रणम्य जगन्नाथमुवाच विनयान्वितः ॥ १५॥ सृष्टिं करोमि देवेश केन मार्गेण तद्वद । नारदो दुष्टभावेन मोघां सृष्टिं स मेऽकरोत् ॥ १६॥ तमुवाच ततो ब्रह्मा सृज कन्याः सुलोचनाः । तथेति स ययौ स्थानं स्वकीयं स्रष्टुमारभत् ॥ १७॥ षष्टिं दक्षोऽसृजत्कन्या वीरिण्यां तेजसान्वितः । चारुरूपा महाभागा मातरः सर्वदेहिनाम् ॥ १८॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिमब्जाय चतस्रोऽरिष्टनेमये ॥ १९॥ द्वे ददौ बहुपुत्राय द्वे कृशाश्वाय भावतः । द्वे चाप्यङ्गिरसे तद्वद्वक्ष्ये तासां च विस्तरम् ॥ २०॥ मरुत्वती वसुर्यामी लम्बा भानुररुन्धती । सङ्कल्पा च मुहूर्ता वै साध्या विश्वा च भामिनी ॥ २१॥ धर्मपत्न्यो दशैताश्च तासां पुत्रान्निबोध च । विश्वेदेवाश्च विश्वायाः साध्यासाध्यानजीजनत् ॥ २२॥ मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः । भानोश्च भानवः सर्वे मुहूर्ताया मुहूर्तकाः ॥ २३॥ लम्बाया नादघोषौ च यामीजो नागवीथिकः । पृथिव्यां विषमं सर्वमरुन्धत्यामजायत ॥ २४॥ सङ्कल्पायास्तु सङ्कल्पा धर्मपुत्रा इमे स्मृताः । (Page खं. २ अ. २८ पान ५९) तेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगत् ॥ २५॥ आपो ध्रुवोऽथ सोमश्च धन्यश्चैवानलोऽनिलः । प्रत्यूषोऽथ प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २६॥ अदितिश्च दितिः कद्रुररिष्टा सुरसा दनुः । सुरभिर्विनता चैव ताम्रा क्रोधवशा त्विरा ॥ २७॥ मुनिः खशा च धर्मज्ञा तासां पुत्रान्निबोध वै । विवस्वानथ धाता च भगस्त्वष्टा तथांशकः ॥ २८॥ वरुणाद्याश्च ये देवा ते सर्वे चादितेः सुताः । दितेश्च सकला दैत्याः पुत्राः शास्त्रेषु सम्मताः ॥ २९॥ तथैव च दनोः पुत्रास्ताराद्या दानवाः स्मृताः । तारोऽथ विप्रचित्तिश्च शम्बरः कपिलस्तथा ॥ ३०॥ स्वर्भानुः सङ्करश्चैव वृषपर्वा च वीर्यवान् । प्राधान्येनासुराः श्रेष्ठा दानवाः कथिता मया ॥ ३१॥ सुरसायाः सहस्रं च सर्पाणामभवत्तथा । अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् ॥ ३२॥ शेषाद्याश्च महानागाः कद्रोः पुत्राः प्रजापते । ताम्रा च जनयामास कन्याषट्कं सुलोचनम् ॥ ३३॥ शुकी श्येनी च भासी च सुग्रीवा ग्रन्थिका शुचिः । तासां पुत्रादिभिः सर्वं पक्षिवृन्दं बभूव ह ॥ ३४॥ सुरभिर्जनयामास महिषीर्गाः प्रजापते । इरा वृक्षलता वल्ली तृणजातीश्च सर्वशः ॥ ३५॥ मुनेः पुत्रास्तथा प्रोक्ता यक्षाः पुण्यजनास्तथा । रक्षोगणं क्रोधवशा जनयामास दारुणम् ॥ ३६॥ विनतायाश्च पुत्रौ द्वावरुणो गरुडोऽपरः । खशायाः खेचराः पुत्राः प्रेताद्याश्च प्रजापते ॥ ३७॥ एते कश्यपदायादा जङ्गमस्थावरात्मकाः । वैवस्वतेन्तरे ह्यस्मिन् प्रख्याताः कथिता मया ॥ ३८॥ अरिष्टनेमिपुत्राश्च वेधसो रूपधारकाः । बहुपुत्रस्य पत्न्योस्तु चतस्रो विद्युतः स्मृताः ॥ ३९॥ तथा चाङ्गिरसः पत्न्योरृषयो वृषसत्कृताः । कृशाश्वस्य च देवर्षिदेवः प्रहरणः सुतः ॥ ४०॥ एते युगसहस्रान्ते जायन्ते पुनरेव च । मन्वन्तरेषु सर्वेषु तुल्यकार्यैः स्वनामभिः ॥ ४१॥ पुत्रान् ब्रह्मर्षिरुत्पाद्य कश्यपस्तोषवर्जितः । तताप तप उग्रं वै पुत्रार्थे परमार्थवित् ॥ ४२॥ तस्यैवं तपतः पुत्रौ प्रादुर्भूतौ महौजसौ । वत्सरश्चासितो नाम्ना तावुभौ ब्रह्मवादिनौ ॥ ४३॥ वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः । रैभ्याच्च जज्ञिरे रुद्राः पुत्रा द्युतिमतां वराः ॥ ४४॥ च्यवनस्य सुता भार्या नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ ४५॥ असिताच्चैकपर्णायां ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रो योगाचार्यश्च स स्मृतः ॥ ४६॥ शाण्डिल्यः परमो योगी सर्वतत्त्वार्थविच्छुचिः । इत्याद्या बहवः पुत्राः कश्यपस्य मयोदिताः ॥ ४७॥ एते च स्मरणाज्जन्तोः कामपूरा भवन्ति च । पठनान्नात्र सन्देहो मूलरूपाः प्रकीर्तिताः ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कश्यपसृष्टिवर्णनं नाम अष्टाविंशतितमोऽध्यायः ॥ २.२८ (Page खं. २ अ. २१ पान ६०)

२.२९ वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तृणबिन्दोः सुता श्रेष्ठा नाम्नेलविलका स्मृता । पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः ॥ १॥ तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः । तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥ २॥ पुष्पोत्कटा तथा राका कैकसी देववर्णिनी । ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥ ३॥ कैकस्यजनयत्पुत्रं रावणं लोकरावणम् । कुम्भकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥ ४॥ रावणः कुम्भकर्णश्च प्रतापी च बिभीषणः । तपस्तेपुः सुविपुलं सहस्त्रदशकाब्दकम् ॥ ५॥ प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययौ । रावणो वरयामास राज्यं निहतकण्टकम् ॥ ६॥ भूर्भुवःस्वस्त्रयाणां स लोकानां बलगर्वितः । सर्वेभ्यश्चामृतिं तद्वद्विस्मृतौ कपिमानुषौ ॥ ७॥ कुम्भकर्णोऽभवद्वाण्या मोहितो वरमुत्तमम् । षण्मासनिद्रया युक्तं वव्रे तं वरदं प्रभुम् ॥ ८॥ बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरम् । वरयामास धातारं विष्णुभक्तिं सुभावतः ॥ ९॥ ब्रह्मा दत्वा वरांस्तेभ्यो ययौ स्थानं निजं ततः । ते रक्षःप्रवरा जातास्त्रिषु लोकेषु विश्रुताः ॥ १०॥ जित्वा त्रिभुवनं दक्ष रावणः षष्टिलक्षकम् । वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः ॥ ११॥ रामेण स हतो दुष्टः कुम्भकर्णश्च रावणः । बिभीषणं ततो राज्ये स्थापयामास राघवः ॥ १२॥ तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ १३॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूद्गजाननः । भक्तिं स्वचरणे तस्मै ददौ शङ्करमित्रताम् ॥ १४॥ उत्तराशापतिं चक्रे धनपालाभिधं तथा । ततो देवेषु विख्यातः कुबेरः प्रबभूव ह ॥ १५॥ पुष्पोत्कटा विश्रवसोऽजनयच्च महोदरम् । महापार्श्वं प्रहस्तं च खरं कुम्भीनसीं सुताम् ॥ १६॥ राका सञ्जनयामास त्रिशिरस्कं च दूषणम् । विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापते ॥ १७॥ इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । विख्याताः पुरुषश्रेष्ठा राक्षसानां महाबलाः ॥ १८॥ पुलहस्य मृगाः सर्वे पुत्रा व्यालाश्च दंष्ट्रिणः । पिशाचा बहवो भूताः शूकरा हस्तिनस्तथा ॥ १९॥ अनपत्यः क्रतुश्चात्र स्मृतो वैवस्वतान्तरे । मरीचेः कश्यपः पुत्रः स जातो वै प्रजापतिः ॥ २०॥ भृगोः पुत्रस्तु मेधावी दैत्याचार्यो महायशाः । स्वाध्यायनिरतः काव्यो बभूवे च प्रजापते ॥ २१॥ शैवमार्गरतो भूत्वा सदा शङ्करपूजकः । कैलासं प्राप शान्त्यर्थं बोधितोऽभूत् हरेण च ॥ २२॥ शान्तियोगस्य सिद्ध्यर्थं गणेशमभजत् कविः । क्रमेण शान्तिमापन्नो गाणपत्यो बभूव सः ॥ २३॥ अत्रेः पुत्रोऽभवत् सोमोऽमृतरूपमयो महान् । अरुन्धत्यां वसिष्ठाद्वै शक्तिः पुत्रो बभूव ह ॥ २४॥ तस्मात् पराशरः साक्षात्तपोनिधिरजायत । शङ्करस्य सदा भक्तिं चकार परमादरात् ॥ २५॥ (Page खं. २ अ. २९ पान ६१) वसिष्ठं योगशास्त्रज्ञं पितामहमनिन्दितम् । स्वकर्मकुशलं शान्तमपृच्छच्छान्तिहेतवे ॥ २६॥ पराशर उवाच । शिवोऽयं मोहहीनश्च नेति कर्ताव्ययः स्मृतः । कथं ब्रह्मणि निर्मोहे भवेन् मोहो भ्रमपदः ॥ २७॥ मुद्गल उवाच । पराशरवचः श्रुत्वा वसिष्ठस्तमुवाच ह । हर्षयुक्तः स्वपौत्राय शान्तियोगं सनातनम् ॥ २८॥ वसिष्ठ उवाच । श‍ृणु पुत्र प्रवक्ष्यामि ब्रह्मणा कथितं च मे । योगं शान्तिकरं तुभ्यं कथयामि विशेषतः ॥ २९॥ अहं शान्त्यर्थमत्यन्तं भ्रमितो ना लभे च ताम् । गतो लोके प्रविख्याते ब्रह्मणः परमेष्ठिनः ॥ ३०॥ तत्र सम्पूजयन्तं वै ब्रह्माणं दृष्टवानहम् । गणेशमूर्तिं वै पुत्र संस्थितोऽहं प्रणम्य ताम् ॥ ३१॥ पूजाविधिं समाप्याऽसौ सभायां समुपागतः । तत्राऽहं विनतो भूत्वा ह्यवदं तं महाद्युतिम् ॥ ३२॥ त्वत्तः सर्वाणि भूतानि जायन्ते नात्र संशयः । त्वयि नाथ प्रलीयन्ते परं त्वत्तो न विद्यते ॥ ३३॥ त्वयाऽसौ पूजितः कस्मात् कः श्रेष्ठो वद साम्प्रतम् । बहुवर्षमहं भ्रान्तो नाऽलभे शान्तिमुत्तमाम् ॥ ३४॥ मदीयवचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद मां यथायोग्यं पात्रं दृष्ट्वा पितामहः ॥ ३५॥ ब्रह्मोवाच । श‍ृणु पुत्र महाभाग गणेशो योगशान्तिदः । अस्माकं कुलदेवश्च सर्वेषां सोऽपि निश्चितम् ॥ ३६॥ तस्माद्वयं समुत्पन्नास्तेन संस्थापिताः पदे । सर्वसिद्धिप्रदातारं तं भजामि निरन्तरम् ॥ ३७॥ अन्ते तत्रैव लीनाश्च वयं पुत्र न संशयः । तस्मादादौ गणेशानः पूज्यो माता पिता स्मृतः ॥ ३८॥ ज्येष्ठराजपदं पश्य वेदेषु कथितं सुत । तस्माज्ज्येष्ठो न वेदेष्वादिः सर्वेभ्यो गणेश्वरः ॥ ३९॥ य आदिः स भवेदन्ते कथितं शास्त्रसम्मतम् । अतस्तत्र वयं लीना भविष्यामो न संशयः ॥ ४०॥ मध्ये नानाविधः सोऽपि कलांशेन गजाननः । प्रक्रीडति कलांशाश्च वयं तस्य स्मृताः सुत ॥ ४१॥ शान्तिमिच्छसि चेत्पुत्र तां वदामि समासतः । पञ्चधा चित्तवृत्तिं त्वं त्यक्त्वा शान्तो भविष्यसि ॥ ४२॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चिन्तामणिः समाख्यातस्तेन चित्तं प्रकाशितम् ॥ ४३॥ अहं गणेशरूपश्चेत् संयोगायोगता च मे । नास्ति ह्यतो भिन्नभावस्तेन भ्रान्तिर्गता भवेत् ॥ ४४॥ जगत् सुब्रह्म सुप्रोक्तमैश्वर्यमतुलं बुधैः । जानीहि सिद्धिरूपं त्वं भ्रान्तिदायकमञ्जसा ॥ ४५॥ जगद्ब्रह्ममयाकारा बुद्धिः शास्त्रेषु कथ्यते । पञ्चधा सा समाख्याता चित्तरूपा न संशयः ॥ ४६॥ तयोः प्रकाशकं बिम्बं गणेशस्य महात्मनः । मोहितं पश्य मायाभ्यां तदाकारं हृदि स्थितम् ॥ ४७॥ बिम्बभावं त्यज त्वं वै तदा शान्तिं गमिष्यसि । चित्तमैश्वर्यमोहश्च बिम्बं नैव प्रदृश्यते ॥ ४८॥ एवमुक्त्वा स्वयं मां स विरराम पितामहः । अहं प्रणम्य तं देवं प्रादक्षिण्येन निर्गतः ॥ ४९॥ (Page खं. २ अ. ३० पान ६२) गत्वा वनान्तरं पुत्र अतपं तप उत्तमम् । एकाक्षरेण मन्त्रेण ध्यात्वा जपपरायणः ॥ ५०॥ क्रमेण योगभूमीनां भ्रान्तिं त्यक्त्वा महामुने । चिन्तामणिः स्वयं साक्षादभवं शान्तियोगधृक् ॥ ५१॥ तथाऽपि गणराजस्य मन्त्रध्यानं महात्मनः । दर्शनार्थं तपश्चोग्रमकार्षं च हितावहम् ॥ ५२॥ पूर्णे वर्षशते वै मां ययौ देवो गजाननः । प्रत्यक्षं मूषकारूढो योगशान्तिस्वरूपधृक् ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २.२९

२.३० पराशरवरप्रदानं नाम त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः । ननाम दण्डवद्भूमौ तं तुष्टाव यथामति ॥ १॥ वसिष्ठ उवाच । अद्येयं धरणी धन्या पितरौ तप आश्रमः । विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २॥ त्वं कर्ता कारणं चैव कारणानां न संशयः । गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३॥ सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः । योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४॥ तथाऽपि भक्तिपाशेन यन्त्रितस्त्वं गजानन । अनुग्रहार्थमायातो नामरूपधरः प्रभो ॥ ५॥ त्वद्दर्शनजबोधेन स्तौमि त्वां ब्रह्मनायकम् । वेदादिभिः सहाद्यैश्च संस्तुतं योगिभिः परम् ॥ ६॥ नमस्ते गणनाथाय नमस्ते सर्वसाक्षिणे । सर्वाकाराय वै तुभ्यं स्वसंवेद्याय ते नमः ॥ ७॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । अमेयशक्तये देव देव तुभ्यं नमो नमः ॥ ८॥ असम्प्रज्ञाततुण्डाय सम्प्रज्ञातशरीरिणे । तयोर्योगे च योगात्मदेहाय तु नमो नमः ॥ ९॥ शान्तियोगप्रकाशाय शान्तियोगमयाय ते । योगिभ्यो योगदात्रे च योगेशाय नमो नमः ॥ १०॥ वक्रतुण्डाय वै तुभ्यमेकदन्तधराय च । ब्रह्माकारात्मकानां ते चिह्नानां धारिणे नमः ॥ ११॥ स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवत् । ननर्त हृष्टरोमा वै देहभानविवर्जितः ॥ १२॥ निमग्नं तं भक्तिरसे वीक्ष्य देवो गजाननः । तमुवाच महाभक्तं भावज्ञो भावपूरकः ॥ १३॥ गणेश उवाच । त्वया कृतमिदं वै यत् स्तोत्रं भक्तिरसप्रदम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १४॥ मदीया भक्तिरचला तवानघ भविष्यति । स्मृतमात्रश्च ते गेहं यास्यामि मुनिसत्तम ॥ १५॥ एवमुक्त्वा गणाधीशोंऽतर्दधे मम पश्यतः । सोहं तं हृदये पश्यन् स्थितः शान्तिसमन्वितः ॥ १६॥ गाणपत्यस्वभावेन मूर्तिपूजापरायणः । वसिष्ठोऽहं महाभागो योगिवन्द्यो बभूव ह ॥ १७॥ (Page खं. २ अ. ३० पान ६३) वसिष्ठ उवाच । एतत्ते कथितं वत्स शान्तियोगप्रदं शुभम् । ज्ञानं तेनैव मार्गेण गणेशं भज भक्तितः ॥ १८॥ एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः । वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥ १९॥ पितामहेन यज्ज्ञानं कथितं योगदं महत् । तादृशं साधितं तेन योगभूमिक्रमेण च ॥ २०॥ त्यक्त्वा भूमिं स्वयं योगी गाणपत्यो बभूव ह । तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं प्रभुः ॥ २१॥ तथापि मुनिना तेन पत्न्या वत्सलया सह । तपस्तप्तं महाघोरं गणेशस्य महात्मनः ॥ २२॥ सङ्कल्पं पुत्रकामार्थं चकार स महामुनिः । गणराजः स्वयं मे वै भविता पुत्र उत्तमः ॥ २३॥ दशवर्षसहस्रैस्तं प्रसन्नो गणनायकः । वरं दातुं समायातो भक्तिभावेन तोषितः ॥ २४॥ तं दृष्ट्वा सहसोत्थाय प्रणम्य प्रकृताञ्जलिः । तुष्टाव सुस्थिरो भूत्वा पत्न्या साकमुदारधीः ॥ २५॥ पराशर उवाच । नमस्ते गजवक्त्राय नराकाराय ते नमः । नरकुञ्जररूपाय गणेशाय नमो नमः ॥ २६॥ निर्गुणाय गुणाधाररूपिणे परमात्मने । परात्पराय देवायानादिसिद्धाय ते नमः ॥ २७॥ अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे । अनन्तविभवायैव गकाराय च ते नमः ॥ २८॥ सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते । सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ २९॥ तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः । स्वानन्दवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥ ३०॥ किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः । सम्पादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥ ३१॥ यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो । आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥ ३२॥ अस्माकं कुलदेवश्च त्वमेव गणनायक । ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥ ३३॥ पुत्रभावेन देवेश भजेयं संसृतौ गतः । संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥ ३४॥ श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् । तमुवाच गणाधीशो भक्तं योगधरं परम् ॥ ३५॥ गणेश उवाच । त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् । तव पुत्रो भविष्यामि गजासुरवधाय च ॥ ३६॥ त्वया स्तोत्रं कृतं यच्च तत्सर्वेच्छितदं भवेत् । भुक्तिमुक्तिकरं तेषां पठतां श‍ृण्वतां नृणाम् ॥ ३७॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । पराशरः प्रसन्नात्मा सपत्नीको बभूव ह ॥ ३८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पराशरवरप्रदानं नाम त्रिंशोऽध्यायः ॥ २.३० (Page खं. २ अ. ३१ पान ६४)

२.३१ पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः । वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ १॥ यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो । तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥ २॥ सूत उवाच । दक्षस्य वचनं रम्यं श्रुत्वा योगीन्द्रसत्तमः । जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ ३॥ मुद्गल उवाच । श‍ृणु दक्ष पुरावृत्तमितिहासं वदामि तम् । पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥ ४॥ महिषासुरनाशं च चकार जगदम्बिका । तस्य पुत्रो महातेजा गजासुर इति स्मृतः ॥ ५॥ पितुर्वधेन सन्तप्तो देवानां वधकाङ्क्षया । शुक्रोपदिष्टमन्त्रेण शङ्कराराधने रतः ॥ ६॥ तताप स तपो घोरं निराहारसमन्वितः । पञ्चाक्षरविधानेन तोषयामास शङ्करम् ॥ ७॥ दशवर्षसहस्रैस्तु प्रसन्नोऽभूच्छिवः स्वयम् । आययौ तं वरं दातुं गजासुरतपोवने ॥ ८॥ काष्ठवत्संस्थितं दैत्यं दृष्ट्वा विस्मयमागतः । जगाद तं स्वभक्तं वै शङ्करः करुणानिधिः ॥ ९॥ शिव उवाच । वरं वरय मत्तस्त्वं गजासुर महामते । तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् ॥ १०॥ शङ्करस्य वचः श्रुत्वा हर्षयुक्तो महासुरः । उपचारैः षोडशभिः प्रणम्यापूजयच्छिवम् ॥ ११॥ अथर्वशिरसा शम्भुं तुष्टावासुरनायकः । वरं वव्रे महाक्रूरं तच्छ्रुणुष्व प्रजापते ॥ १२॥ गजासुर उवाच । यदि तुष्टोऽसि देवेश वरं देहि महेश्वर । ब्रह्माण्डवासिनः सर्वे तेभ्यो मृत्युर्न मे भवेत् ॥ १३॥ राज्यं ब्रह्माण्डगोलस्य देहि सामर्थ्यमुत्तम् । सर्वातिगं महेशान नान्यं याचे परं वरम् ॥ १४॥ तथेति तमुवाचाथ शिवोंऽतर्धानगोऽभवत् । हर्षयुक्तो महादैत्यस्ततो गेहं समाययौ ॥ १५॥ मात्रा सम्मानितः सोऽपि सुहृद्भिश्च गजासुरः । दैत्याः समाययुः सर्वे गृहे तस्य महात्मनः ॥ १६॥ स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः । ततो मुनिगणैः सार्धमभिषेकं चकार सः ॥ १७॥ दैत्यानां दानवां च राजाभूत् स गजासुरः । तैर्युक्तः पृथिवीं जित्वा ययौ स्वर्गं महाबलः ॥ १८॥ देवाः पलायिताः सर्वे ज्ञात्वा क्रूरं गजासुरम् । शङ्करं ते समाश्रित्य स्थिताः सर्वे भयातुराः ॥ १९॥ दैत्यैः समावृतः सोऽपि कैलासमगमत्ततः । शङ्करः क्रोधसंयुक्तस्तं ययौ देवसंवृतः ॥ २०॥ युद्धाय शङ्करं तेनागतं ज्ञात्वा महासुरः । स्वयं सैन्यं पुरस्कृत्याययौ रणविधित्सया ॥ २१॥ देवानां दानवानां च युद्धं परमदारुणम् । सञ्जातं च ततो दैत्याः पलायनपरा ययुः ॥ २२॥ तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यः प्रतापवान् । बाणवृष्टिं महोग्रां स ससर्ज सुरनाशिनीम् ॥ २३॥ बाणैर्निपतितास्तस्य देवाः सर्वे धरातले । छिन्नाङ्गा मरणप्रायाः प्रलयं मेनिरे तदा ॥ २४॥ इन्द्रादयश्च दिक्पालाः पतिता बाणपीडिताः । गदया विष्णुमहनत् सोऽपि भूतलमाश्रितः ॥ २५॥ ततः क्रोधसमायुक्तः शङ्करः शूलमाददे । तेनाहनन् महादैत्यं प्रलयाग्निसमेन सः ॥ २६॥ (Page खं. २ अ. ३१ पान ६५) त्रिशूलेन हतः सोऽपि न चचाल सुराधिपः । वरदानप्रभावेण शस्त्राणि व्यर्थतां ययुः ॥ २७॥ सहसागत्य दैत्येशो धृत्वा पादं प्रहस्य वै । भ्रामयित्वा महेशानं चिक्षेप रणमूर्धनि ॥ २८॥ ततो देवगणाः सर्वे पलायनपरायणाः । ययुर्दश दिशो रक्षो दैत्यसन्त्रासतापिताः ॥ २९॥ दैत्योऽपि शिवलोकं तं दैत्यैः सह समाययौ । स्थापयामास देवानां पदेषु श्रेष्ठदानवान् ॥ ३०॥ विकुण्ठादिपदेष्वेते स्थितास्तेन सुमानिताः । स्वर्गभोगकराः सर्वे कृता दैत्याः सुरारिणा ॥ ३१॥ कैलासे संहरं दैत्यं स्थापयामास वीर्यवान् । स्वयं समागतो दक्ष पृथिव्यां दैत्यपैर्वृतः ॥ ३२॥ महिषाख्यपुरे दुष्टः संस्थितो दैत्यपैः सह । चकार सोऽतुलं राज्यं त्रैलोक्यस्य महाबलः ॥ ३३॥ गते बहुतरे काले देवाः सर्वे भयातुराः । पर्वतान्तरसङ्गुप्ताः संस्थिता अभवन् द्विजैः ॥ ३४॥ विचारमखिलाश्चक्रुर्गजासुरवधाय ते । तत्र विष्णुर्जगादेदं वचनं सर्वतोषदम् ॥ ३५॥ विष्णुरुवाच । ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न विद्यते । दैत्यस्य वरदानेन तेन सर्वे पराजिताः ॥ ३६॥ स्वानन्दलोकगः साक्षाद्गणेशो देवनायकः । ब्रह्माण्डवर्जितो ब्रह्म तस्मात्तस्य मृतिर्भवेत् ॥ ३७॥ अतस्तं देवदेवेशं तपसा पुष्कलेन वै । सर्व आराधयामैव देवाः सर्षिगणाः परम् ॥ ३८॥ स हत्वा तं महादैत्यं प्रदास्यति पदानि वः । हितं यदि सुराः कार्यं वचनं मे सुखप्रदम् ॥ ३९॥ विष्णोर्वचनमाकर्ण्य देवा मुनिगणास्तथा । साधुसाध्विति तत्रोचुर्बभुस्तपसि संस्थिताः ॥ ४०॥ केचिन् मन्त्रजपं चक्रुः केचिन्नामजपं तथा । केचिन् मानसपूजायां निरताश्च बभूविरे ॥ ४१॥ केचिद् ध्यानं गणेशस्य चक्रुः केचित् स्तुतिं विभोः । निराहारं तथा केचिद्वायुपत्रादिभक्षकाः ॥ ४२॥ केचिद्धोमं च पञ्चाग्निं धूम्रपानं तथाऽपरे । इत्यादि तपसा देवं तोषयामासुरादरात् ॥ ४३॥ शतवर्षे तु तेषां वै प्रादुर्भूतो गजाननः । पुरतस्तानुवाचेदं वचनं भक्तवत्सलः ॥ ४४॥ गणेश उवाच । देवाश्च मुनयः सर्वे वरं ब्रूत हृदीप्सितम् । दुर्लभं त्वपि तद्दास्ये तपसा तोषितो भृशम् ॥ ४५॥ गणेशवचनं श्रुत्वा दृष्ट्वा देवं पुरःस्थितम् । प्रणेमुर्मुनयो देवा दण्डवत् पृथिवीतले ॥ ४६॥ परयाऽपूजयन् भक्त्या ब्रह्मेशं ब्रह्मभाविताः । तुष्टुवुः सम्प्रहृष्टाश्च सरोमाञ्चाः प्रजापते ॥ ४७॥ देवर्षय ऊचुः । नमो नमो गणेशाय गणपालकमूर्तये । गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ ४८॥ मूषकारूढकायैवानादिरूपाय ते नमः । आकारादिविहीनायाकारिरूपाय ते नमः ॥ ४९॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ ५०॥ नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये । बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ ५१॥ स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः । योगरूपाय शान्ताय योगानां पतये नमः ॥ ५२॥ आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः । (Page खं. २ अ. ३२ पान ६६) पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ ५३॥ वक्रतुण्डाय देवाय लम्बोदरधराय च । सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ ५४॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन । वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ ५५॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ ५६॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । कृतांऽजलिपुटा देवं गणेशं सर्वनायकम् ॥ ५७॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ ५८॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ ५९॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ ६०॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ ६१॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ ६२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ६३॥ पठतां श‍ृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ ६४॥ इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ ६५॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥ ६६॥ स बालो ववृधे तत्र हर्षयन् मातरं निजाम् । पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥ ६७॥ पञ्चमे व्रतबन्धं च चकार मुनिसत्तमः । वेदानध्यापयामास साङ्गांस्तान् गणपाय च ॥ ६८॥ विवाहमकरोत्तस्य सिद्धिर्बुद्धिश्च शाश्वते । मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥ ६९॥ इति ते कथितं सर्वं पराशरसुतस्य च । चरितं गणनाथस्य दैत्यस्य श‍ृणु चेष्टितम् ॥ ७०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥ २.३१

२.३२ गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा तं सभायां वै संस्थितं दैत्यनायकम् । आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥ १॥ दैत्येन मानितो दक्ष तमुवाच महामुनिः । श‍ृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥ २॥ अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः । आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥ ३॥ इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः । दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥ ४॥ आययौ यत्र देवाश्च मुनयः संस्थिताः खलः । दैत्यैः समावृतः सर्वैर्महाबलपराक्रमैः ॥ ५॥ (Page खं. २ अ. ३२ पान ६७) धृत्वा स सकलान् देवान् खलः सर्षिगणांस्तदा । तान् हन्तुं शस्त्रमादत्ते तावत्तैर्विघ्नपः स्मृतः ॥ ६॥ स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकार ह । दैत्यस्य तेन दैत्येन मानसे धारितं महत् ॥ ७॥ ममाधीना इमे विप्रा देवाश्चैव न संशयः । एषां दण्डः प्रकर्तव्यो येन सत्वं गमिष्यति ॥ ८॥ पश्चात्कियति कालेऽहं हनिष्यामि बलात्किल । एवं निश्चितसङ्कल्पस्तानुवाच गजासुरः ॥ ९॥ गजासुर उवाच । देवा मुनिगणाः सर्वे वचः श‍ृण्वन्तु मे हितम् । कर्तव्यं जीवितुं तच्च यदीच्छथ च सत्वरैः ॥ १०॥ कर्णौ सम्पीड्य पाणिभ्यामुत्तमाङ्गं धरातले । नित्यमास्फालयध्वं वै मम पादस्य सन्निधौ ॥ ११॥ तदा मुञ्चामि देवेशान्नान्यथा मुनिसत्तमान् । शिरच्छेदं च सर्वेषां करिष्यामि न संशयः ॥ १२॥ भवद्भिः प्रार्थितो देवो गणेशो देववल्लभः । पराशरसुतो जातः कुरुध्वं तेन संयुताः ॥ १३॥ एवं तस्य वचः श्रुत्वोवाच तं विष्णुरादरात् । गणेशं मनसा स्मृत्वा सामयुक्तं वचः शुभम् ॥ १४॥ त्वया यः कथितो दण्डो वयं तं करवामहै । सर्वान् देवमुनीन् मुञ्च गमिष्यामो गजाननम् ॥ १५॥ आनयित्वा च देवेशं तेन सार्धं प्रयत्नतः । त्वत्पादकमले नित्यं करिष्यामो यथातथम् ॥ १६॥ गणेशमायया भ्रान्तो दैत्यराजः प्रतापवान् । सकलान् मोचयामास देवानृषिसमन्वितान् ॥ १७॥ दिवसे पञ्चमे प्राप्ते नागता मे प्रसन्निधौ । तदा सर्वान् हनिष्यामि गणेशेन समन्वितान् ॥ १८॥ तथेत्युक्त्वा गताः सर्वे पराशरगृहं प्रति । गजाननं तत्र दृष्ट्वा प्रणेमुर्दण्डवत् क्षितौ ॥ १९॥ पराशरो विस्मितोऽसौ पूजयामास तान् स्वयम् । सहसा सकलान् प्राप्तान मुनीन् देवान् विशेषतः ॥ २०॥ पराशरेण संयुक्ताः सर्वे तेऽकथयंस्तदा । स्तुत्वा च विविधैः स्तोत्रैर्गजासुरविचेष्टितम् ॥ २१॥ कर्णौ सम्पीड्य देवेश शिरःस्फालनमञ्जसा । कथं कुर्मोऽसुरस्याग्रे चरणावनताः प्रभो ॥ २२॥ नीचस्य नमनाद्देव मरणं हि वरं स्मृतम् । तस्मात्त्वं जहि देवान् वा मुनीन् दैत्यान् गजानन ॥ २३॥ मुद्गल उवाच । देवादीनां वचः श्रुत्वा स्मित्वा तानब्रवीत् प्रभुः । भक्तवत्सलभावेन यन्त्रितः स प्रजापते ॥ २४॥ गणेश उवाच । चिन्ता नैव प्रकर्तव्या हनिष्याम्यसुरं क्षणात् । कुरुध्वं मे वचो रम्यं सर्वेषां सुखदं भवेत् ॥ २५॥ दैत्येन्द्रेण प्रकथितो दण्ड एव स मे प्रियः । मम पादस्य सामीप्ये कुरुध्वं सर्वभावतः ॥ २६॥ तदा दैत्यं महाघोरं हनिष्यामि प्रपश्यताम् । भवतां नात्र सन्देहः क्षणार्धेन च सत्तमाः ॥ २७॥ गणेशस्य वचो रम्यं श्रुत्वा देवर्षिसत्तमाः । परस्परं मुखालोकमकुर्वन् स्मितपूर्वकम् ॥ २८॥ तत्र शम्भुरुवाचेदं वचनं हितकारकम् । अस्माकं कुलदेवोऽयं तस्मात् कुर्वन्तु सत्तमाः ॥ २९॥ इत्युक्त्वा शङ्करस्तत्र पाणिभिः श्रवसि स्वयम् । (Page खं. २ अ. ३२ पान ६८) पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥ ३०॥ मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् । श्रुत्वा गजाननो हृष्टो बभूव परमं तदा ॥ ३१॥ ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा । मुनिभिश्च कृतं दक्ष ततोऽत्यन्तं मुमोद सः ॥ ३२॥ भूत्वा तु मूषकारूढो चतुरायुधभूषितः । गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥ ३३॥ महिषाख्ये पुरे गत्वा सिंहनादं चकार सः । तेन भ्रान्ताश्चासुरास्ते गजदैत्यस्तथा स्वयम् ॥ ३४॥ एतस्मिन्नन्तरे तत्र गुल्मस्था असुरा ययुः । छिन्नभिन्नीकृताङ्गा वै शसंसुर्देवचेष्टितम् ॥ ३५॥ असुरा ऊचुः । गणेशेन समायुक्ता देवा मुनिगणाः प्रभो । आययुर्योद्धुमत्यन्तं मदयुक्ता गजासुर ॥ ३६॥ तेषां वचनमाकर्ण्य गजदैत्यः प्रतापवान् । सर्वानाज्ञापयामास दैत्यान् सज्जीभवन्त्विति ॥ ३७॥ स्वयं सुसज्जितो भूत्वा रथारूढश्च निर्ययौ । अनु तं दैत्यसैन्येशा दैत्यास्ते निर्ययुः पुरात् ॥ ३८॥ अपारसेनया युक्तं तं ददर्श गजासुरम् । गजाननः प्रसन्नात्मा कालस्य भयदायकः ॥ ३९॥ ततो गजासुरः कोपाद्दैत्यानाज्ञापयत्तदा । संहरध्वं सुरान् सर्वान् मुनीन् यक्षादिसंयुतान् ॥ ४०॥ दैत्येन्द्रेण समाज्ञप्ता असुरा जयशालिनः । अस्त्रैः शस्त्रैश्च ते देवान् पीडयामासुरोजसा ॥ ४१॥ देवाः क्रोधसमाविष्टा मरणे कृतनिश्चयाः । दैत्यान् प्रहरणैर्जघ्नुः शस्त्रैर्नानाविधैस्तदा ॥ ४२॥ दैत्यानां चैव देवानां युद्धं परमदारुणम् । बभूव तुमुलं तत्र परस्परविनाशनम् ॥ ४३॥ असृङ्नदी प्रवृत्ता च महौघा वीरमोहिनी । भग्ना दैत्यगणास्तत्र प्रहारपरिपीडिताः ॥ ४४॥ त्यक्त्वा दैत्यगणा लज्जां पलायन्त दिशो दश । तत् दृष्ट्वा दैत्यराजस्तु विस्मितोऽभूत् प्रजापते ॥ ४५॥ ततो दैत्याधिपाः क्रूराः प्रधानप्रमुखा रणम् । आययुर्देवसेनां ते निर्जघ्नुश्च महाबलाः ॥ ४६॥ तत इन्द्रादिभिस्ते वै रणं कृत्वा सुदारुणम् । निहता मूर्च्छिताः केचिद्रणे भूमौ निपातिताः ॥ ४७॥ हा हा दैत्यगणाः कृत्वा पलायन्त दिशो दश । तत् दृष्ट्वा दैत्यराजः स विस्मयं परमं ययौ ॥ ४८॥ विपरीतं मया दृष्टं वह्निः शीतो यथाऽभवत् । तथा देवैर्मदीयेयं सेना सर्वा पराजिता ॥ ४९॥ एवं मनसि सन्तप्तः क्रोधारुणविलोचनः । रथारूढः स्वयं योद्धुमाययौ स गजासुरः ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरसैन्यवधो नाम द्वात्रिंशोऽध्यायः ॥ २.३२ (Page खं. २ अ. ३३ पान ६९)

२.३३ गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । समागतं महादैत्यं दृष्ट्वा देवा भयातुराः । गजाननं निजं नाथं ययुर्वृत्तान्तमीरितुम् ॥ १॥ स वृत्तान्तं देवमुखात् श्रुत्वा क्रोधसमन्वितः । परशुं पाशमुग्रं च गदां धृत्वा ययौ तदा ॥ २॥ मूषकारूढमाद्यं तं पुरुषं दैत्यनायकः । दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः ॥ ३॥ गजासुर उवाच । किमर्थं रणभूमौ त्वमागतो ब्राह्मणाधम । तपः कार्यं त्वया नित्यं कथं क्षात्रं समाश्रितः ॥ ४॥ ब्रह्मादयो जिता येन तेन सार्धं त्वया द्विज । युद्धं कर्तव्यमत्यन्तं वृथा मरणमाप्स्यसि ॥ ५॥ गच्छ स्वमाश्रमं विप्र न हन्मि त्वां समागतम् । बालभावात् कृतं कर्म सहेहं नात्र संशयः ॥ ६॥ इत्युक्तवन्तमालोक्य शम्भुः क्रोधसमन्वितः । उवाच तं महादैत्यं वचस्तद्धितकाम्यया ॥ ७॥ शिव उवाच । मूर्खोऽसि दैत्यराज त्वं नायं ब्राह्मणसत्तमः । गणेशोऽयं सदा सेव्यो योगिभिः परमादृतैः ॥ ८॥ पराशरस्य पुत्रोऽभूत्तपसाराधितः स्वयम् । वरदानप्रभावेण त्वां हनिष्यति निश्चितम् ॥ ९॥ त्यक्त्वा वैरं गणेशं च शरणं दैत्यनायक । एहि नोचेच्च सर्वस्वं हित्वा मृत्युमवाप्स्यसि ॥ १०॥ वस पातालभूमौ त्वं न गणेशो हनिष्यति । एवं श्रुत्वा वचः शम्भुं जघान गदयाऽसुरः ॥ ११॥ मूर्च्छया पतितो भूमौ शङ्करस्तत्र सङ्गरे । शस्त्रास्त्रैस्तेन दैत्येन मूर्च्छिताश्च कृताः सुराः ॥ १२॥ विष्ण्वाद्याश्च रणे तत्र पतिताः पीडिता भृशम् । दैत्याधिपं ततो दृष्ट्वा गणेशोऽस्त्रमुपाददे ॥ १३॥ परशुं मन्त्रयामास संहारास्त्रविधानतः । तत्याज दैत्यसेनायां महास्त्रं यमसन्निभम् ॥ १४॥ हताः परशुना दैत्या यत्र तत्र स्थिता मृधे । पश्यतो दैत्यराजस्य प्रधानाश्च मृताः सुताः ॥ १५॥ संहारास्त्रनिवृत्त्यर्थं नानायत्नमथाकरोत् । सर्वं तन्निष्फलं जातं गजदैत्यस्य संयुगे ॥ १६॥ एक एव महादैत्यो वरदानप्रभावतः । स संहारादुर्वरितो हतः परशुना न च ॥ १७॥ ततो दैत्यो ययौ क्रोधात्समीपे विघ्नपस्य च । शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धोद्यतोऽभवत् ॥ १८॥ तादृशं तं गणेशानो दृष्ट्वा क्रोधसमन्वितः । दर्शयामास दैत्याय रूपं स्वानन्दगं परम् ॥ १९॥ अनन्तादित्यसङ्काशं गजवक्त्रविराजितम् । ज्योतिषां ज्योतिरापूर्णं योगरूपं सुशान्तिदम् ॥ २०॥ तं धर्तुं दैत्यराजः स्म यतते निकटस्थितम् । आकाशवन्न तद्रूपं हस्तगं चाऽभवत् प्रभोः ॥ २१॥ आश्चर्यं हृदये मत्वा दैत्येशो विह्वलो भृशम् । अहो मया धृतो ढुण्ढिर्हस्तगो मे न हस्तगः ॥ २२॥ किमिदं कौतुकं पूर्णं गणेशोऽयं सनातनः । ब्रह्माकारो न सन्देहो हनिष्यति स मां ध्रुवम् ॥ २३॥ धन्यं जन्म मदीयं वै पितरावाश्रमादिकम् । गणेशहस्तशस्त्रेण मरिष्यामि न संशयः ॥ २४॥ शुकाद्या योगिनो यं वै प्राप्ता योगैः सुदुश्चरैः । आयासेन विना सोऽयं मया प्राप्तो गजाननः ॥ २५॥ (Page खं. २ अ. ३४ पान ७०) तं प्रणम्य महाभक्त्या दैत्येशो वरकाङ्क्षया । जगाद गणनाथं वै भावभावितमादरात् ॥ २६॥ ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक । वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ २७॥ न संसारसुखे चित्तं मदीयं ते प्रदर्शनात् । त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥ २८॥ प्रार्थयन्तं महादैत्यमङ्कुशेन जघान तम् । गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ २९॥ शङ्कराद्याः सुरास्तत्र मुनयो मोहसंयुताः । न विदुश्चेष्टितं तस्य बभुर्भ्रान्ता इव स्थिताः ॥ ३०॥ हतं दैत्यं समालोक्य हर्षितास्ते तदाऽभवन् । गणेशोऽपि स्वकं रूपं लीनं कृत्वा स्थितः पुरः ॥ ३१॥ पूर्वाकारं च तं दृष्ट्वा तुष्टुवुस्ते सुरर्षयः । सम्पूज्य भक्तिभावेन नेमुश्च ननृतुः पुरः ॥ ३२॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ ३३॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दावासिने नमः ॥ ३४॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३५॥ प्रकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥ ३६॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ३७॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ३८॥ देवरक्षाकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ३९॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्युसंहीनो महाश्चर्यं कृतं विभो ॥ ४०॥ हते दैत्येऽधुना कृत्स्नं जगत् सन्तोषमेष्यति । स्वाहास्वधायुतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ४१॥ एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः । प्रणम्य तूष्णीम्भावं ते सम्प्राप्ता विगतज्वराः ॥ ४२॥ कर्णौ सम्पीड्य गणपचरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ४३॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ ४४॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सितम् । एतादृशं प्रियं मे च नमनं नात्र संशयः ॥ ४५॥ एवमुक्त्वा स तान् सर्वान् सिद्धिबुद्ध्यादिसंयुतः । अन्तर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥ ४६॥ पिता पराशरस्तस्य माता वै वत्सला प्रभोः । शोकसागरमग्नौ तौ श्रुत्वा वार्तां निपेततुः ॥ ४७॥ ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः । योगशान्तिमयं ज्ञानं बोधयामास शाश्वतम् ॥ ४८॥ मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह । तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥ ४९॥ देहव्यापारिता तत्र कर्तव्या हृदि शान्तिदम् । (Page खं. २ अ. ३४ पान ७१) योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥ ५०॥ एवमुक्त्वा हृदिस्थोऽसौ गणेशोंऽतर्दधे ततः । कृतवन्तौ महाभागौ तथा दक्षसुयोगिनौ ॥ ५१॥ अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा । दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥ ५२॥ एतत्ते कथितं सर्वं गजासुरवधाश्रितम् । चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ ५३॥ यः श‍ृणोति नरो भक्त्या पठेद्वा तु प्रजापते । तस्मै भुक्तिप्रदं पूर्णं मुक्तिदं प्रभविष्यति ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गजासुरवधाख्यानं नाम त्रयस्त्रिंशोऽध्यायः ॥ २.३३

२.३४ व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पराशरस्य पुत्रोऽभूत् व्यासः साक्षाज्जनार्दनः । वेदादिभागसिद्ध्यर्थं देवैः सम्प्रार्थितः पुरा ॥ १॥ स एव ज्ञानगर्वेण न सस्मार गजाननम् । नमनं न प्रकर्तव्यं मया विष्णुस्वरूपिणा ॥ २॥ ततस्तस्य गतं ज्ञानं सकलं वेदशास्त्रजम् । प्रययौ दुःखितस्तेन ब्रह्माणं शरणं पुरा ॥ ३॥ ब्रह्मणा बोधितो व्यासः पुराणं श्रुतवान् प्रभोः । गाणेशमादिभूतं तत्तेन स ज्ञानवानऽभूत् ॥ ४॥ तपस्तप्त्वा सुविपुलं गाणपत्यो बभूव ह । शान्तियोगधरः साक्षाद्व्यासो नारायणः स्वयम् ॥ ५॥ ततो व्यासेन वेदानां शाखा भिन्नाः कृताः पराः । सौलभ्यार्थं नराणां वै कर्मादिज्ञानसिद्धये ॥ ६॥ आदौ वेदं यजुःसंज्ञं तं चतुर्धा विभज्य सः । चातुर्होत्रं चकारैव कर्म सर्वं प्रजापते ॥ ७॥ यजुषाध्वर्यवं चक्रे ऋग्भिर्होतृत्वमञ्जसा । उद्गातृत्वं चकाराऽसौ सामभिः सर्वसम्मतः ॥ ८॥ ब्राह्ममेवाकरोद्विप्रोऽथर्वभिः सुसमाहितः । एवं चतुर्विधं कर्म कृत्वा मान्यो बभूव ह ॥ ९॥ मन्त्रैर्युक्ता पुरा तेन संहिता विविधा कृता । यज्ञार्थं ब्राह्मणं प्रोक्तं योगार्थं यदरण्यकम् ॥ १०॥ पैलं शिष्यं महाबुद्धिमृग्वेदे भेदधारकम् । वैशम्पायनमेवं स यजुषां भेदधारकम् ॥ ११॥ जैमिनिं सामवेदस्य पारगं प्रचकार ह । अथर्वधारकं विप्रं सुमन्तुं मुनिसत्तमः ॥ १२॥ तेन चाष्टौ कृता भेदा ऋग्वेदस्य महात्मना । षडशीतिः कृता भेदा यजुर्वेदस्य वै तथा ॥ १३॥ एकं सहस्रं शाखानां सामवेदस्य वै कृतम् । अथर्वणस्तथा भेदा कृता नव विवेकिना ॥ १४॥ पुराणमेकरूपं वै शिष्याय प्रददौ मुनिः । रोमहर्षणसंज्ञाय सूताय नतरूपिणे ॥ १५॥ पुराणस्य कृता भेदा अष्टादश महात्मना । पुराणोपपुराणाख्या द्विविधा संहिता स्मृता ॥ १६॥ ब्राह्मं च वैष्णवं पाद्मं शैवं भागवतं तथा । (Page खं. २ अ. ३४ पान ७२) भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥ १७॥ आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च । लैङ्गं गारुडकं स्कान्दं ब्रह्माण्डं च प्रजापते ॥ १८॥ अष्टादश पुराणानि कथितानि विशेषतः । तथैवोपपुराणानि कथयामि प्रजापते ॥ १९॥ गाणेशं नारदीयं च नारसिंहं च कापिलम् । नान्दिकेयं च वारुण्यं दौर्वाससमथाम्बिकम् ॥ २०॥ कालिकेयं च मारीचमौशनसं च भार्गवम् । सानत्कुमारकं चैव कौमारं च प्रजापते ॥ २१॥ माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् । अष्टादश पुराणानि कथितानि समासतः ॥ २२॥ धर्माधर्मव्यवस्थार्थं चक्रे भारतमुत्तमम् । एतत्सर्वं स जग्राह व्यासात् सूतो महामतिः ॥ २३॥ एतानि गाणपत्यानि ज्ञातव्यानि विचक्षणैः । अन्यानि सेतिहासानि गणेशस्तुतिमन्ति वै ॥ २४॥ श्रुत्वा सुवचनं तस्य मोहिता मुनयः पुनः । ऊचुः सूतं महाप्रज्ञं संशयच्छेदनाय ते ॥ २५॥ शौनकाद्या ऊचुः । कथं सूत शिवादीनां पुराणानि महामते । प्रोक्तानि गाणपत्यानि वद संशयमुक्तये ॥ २६॥ तेषां वचनमाकर्ण्य सूतः सर्वार्थकोविदः । जगाद तान् महाबुद्धिः संशयच्छेदनं वचः ॥ २७॥ सूत उवाच । गणेशस्य स्वरूपं यत् पञ्चधा व्यासभाषितम् । ज्ञातव्यं मुनिशार्दूलास्तेषां भेदं वदाम्यहम् ॥ २८॥ आद्यं ब्राह्मं पुराणं यद्गाणपत्यं प्रकीर्तितम् । निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः ॥ २९॥ हृदयेषु जनानां वै बुद्धीनां यत् प्रकाशकृत् । तदेव तस्य रूपं तद्ध्यायन्ति त्यागिनः प्रभोः ॥ ३०॥ आकारादि विहीनं तत् साक्षिभूतं सदा परम् । मनोवाणीविहीनं च ज्ञातव्यं न्यासिभिर्मुने ॥ ३१॥ तं ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः । संन्यासिनो हृदिस्थं ते गणेशं बुद्धिचालकम् ॥ ३२॥ अन्यदन्त्यं पुराणं यद्ब्रह्माण्डं गणपस्य तत् । तत्रोङ्कारमयाकारः सगुणो वर्णितः प्रभुः ॥ ३३॥ जगद्विहारकारी स पञ्चधा प्रबभूव ह । प्रणवः प्रणवाकारो गजानन उदाहृतः ॥ ३४॥ अकारोकारको चैव मकारो नाद आबभौ । बिन्दुः पञ्च विभज्यात्मा नानाखेलं करोति सः ॥ ३५॥ जगदाकाररूपेण स्थितं विघ्नेशमादरात् । ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणम् ॥ ३६॥ स्मरन्ति तं द्विजा नित्यं वेदादौ कर्मसिद्धये । ब्रह्माण्डाकारविघ्नेशः सगुणः परिकीर्तितः ॥ ३७॥ तथैवोपपुराणेषु गाणेशं चाद्यमञ्जसा । पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च ॥ ३८॥ सगुणं जगदाकारं निर्गुणं बुद्धिचालकम् । तयोर्ज्ञानप्रसिद्ध्यर्थं मूर्तिमन्तं स्तुवन्ति ते ॥ ३९॥ गजवक्त्रादिचिह्नैश्च चिह्नितं गणनायकम् । मन्त्रादिना भजन्ते तं भावयुक्ता महर्षयः ॥ ४०॥ तस्योपासनमात्रेण सगुणं निर्गुणं तथा । सुलभं प्राप्यते ब्रह्म योगिभिस्तापसोत्तमैः ॥ ४१॥ अन्त्यं मौद्गलमेतच्च पुराणोपनिषत्परम् । तत्र विघ्नेशमाहात्म्यं योगाकारं प्रकीर्तितम् ॥ ४२॥ (Page खं. २ अ. ३५ पान ७३) सगुणं निर्गुणं ब्रह्म मूर्तिरूपधरं मुने । त्रयाणां योगरूपं वै मुद्गलेन प्रकाशितम् ॥ ४३॥ योगिनः शुकमुख्यास्तं प्रभजन्ति यथातथम् । योगेनाभेदसंज्ञेन वर्णाश्रमविवर्जिताः ॥ ४४॥ तस्मादादौ गणेशस्य पूजनं सर्वसम्मतम् । अन्ते सोऽपि न सन्देहो वेदान्तेषु विशेषतः ॥ ४५॥ य आदिः प्रलयान्ते स तिष्ठेद्वै सर्वसम्मतम् । तस्मादाद्यन्तभागेषु पुराणेषु गणेश्वरः ॥ ४६॥ पञ्चमं मध्यरूपं च गणेशस्य महात्मनः । कलांशेन प्रसङ्ख्यातं नामरूपधरं मुने ॥ ४७॥ शिवविष्ण्वादिभेदैश्च स खेलति गजाननः । तेषां मध्ये पुराणानि व्यासेन कथितानि वै ॥ ४८॥ तस्मात् सर्वपुराणेषु गणेशस्यैव वर्णनम् । कथितं नात्र सन्देहो व्यासेनामितबुद्धिना ॥ ४९॥ इदं पञ्चविधं रूपं गणेशस्य महात्मनः । यो जानाति नरः सोऽपि मोहहीनो भविष्यति ॥ ५०॥ चतुर्विधं गणेशस्य पूजनं कथितं सदा । सर्वारम्भेषु सिद्धीनां दायकं भक्तिकारिणे ॥ ५१॥ मूर्तिपूजनमेकं च द्वितीयं प्रणवात्मकम् । तृतीयं बुद्धिदं चैव शान्तिरूपं चतुर्थकम् ॥ ५२॥ अत आदौ जनाः केचिद् ग्रन्थेषु ब्रह्मरूपकम् । स्मरन्ति वा पूजयन्ति सर्वसिद्धिप्रदायकम् ॥ ५३॥ केचिद् बुद्धिप्रदं देवं हृदिस्थं संस्मरन्ति वा । पूजयन्ति द्विजेन्द्राद्याः सर्वदा गणनायकम् ॥ ५४॥ केचिदोङ्काररूपं तं पूजयन्ति स्मरन्ति वा । सर्वादौ सर्वसिद्धीनां दायकं विघ्ननायकम् ॥ ५५॥ केचिन् मूर्तिधरं देवं पूजयन्ति स्मरन्ति वा । सर्वादौ गणनाथं च ज्ञातव्यं शास्त्रसम्मतम् ॥ ५६॥ अत आदौ तथा मध्ये सर्वांऽते स गजाननः । शोभते योगरूपेण शान्तिदो भक्तवत्सलः ॥ ५७॥ ब्रह्मणा बोधितो व्यासो गाणपत्यः प्रतापवान् । गणेशप्राप्तिकामार्थं नानाभेदं चकार सः ॥ ५८॥ वासनाच्छेदनार्थं च जनानां योगसिद्धये । शिवादीनां पुराणानि क्रमार्थ वर्णितानि वै ॥ ५९॥ एतद्व्यासस्य माहात्म्यं कथितं सकलं तव । यः श‍ृणोति नरो भक्त्या पठेद्वै तस्य सर्वदम् ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते व्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः ॥ २.३४

२.३५ शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्यासस्याऽपि सुतो जज्ञे शुकः साक्षाच्छिवः स्वयम् । तपसाराधितस्तेन योगिनां स शिरोमणिः ॥ १॥ शुको गर्भाद्विनिःसृत्य सङ्गभीत्याऽपलायत । सङ्गेन ज्ञानभङ्गो वै जायते विषयात्मनाम् ॥ २॥ तं गच्छन्तं समालोक्य व्यासो वै धावितोऽभवत् । बोधयन् हेतुभिर्वाक्यैर्नानाक्रममयैः सुतम् ॥ ३॥ तिष्ठ तिष्ठ महायोगिन् श‍ृणु मे परमं वचः । प्रथमं ब्रह्मचर्यं च ततो गार्हस्थ्यमञ्जसा ॥ ४॥ ततो वनाश्रमः प्रोक्तस्ततः सन्यास आदरात् । क्रमेण सेविता एते तदा योगः सुसिध्यति ॥ ५॥ अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेत् । अथवा भ्रष्टभावेन नारकी धर्मनाशतः ॥ ६॥ अतो मनोजयार्थं त्वं क्रममार्गं समाचर । अन्ते योगीन्द्रसंसेव्यो भविष्यसि न संशयः ॥ ७॥ सहसा मा चर त्वं वै त्यागं परमदुस्तरम् । मनश्चञ्चलभावेन पतिष्यसि न संशयः ॥ ८॥ इत्याद्यैर्विविधैर्वाक्यैः सुतो व्यासेन बोधितः । सङ्गस्यैव भयाद्योगी न बुबोध शुको मुने ॥ ९॥ व्यासोऽपि भावि च ज्ञात्वा ययौ स्वस्याश्रमं स्वयम् । गणेशं मनसा ध्यात्वा संस्थितश्चिन्तयान्वितः ॥ १०॥ एतस्मिन्नन्तरे तत्र ब्रह्मा स्वयमुपागतः । तं प्रणम्य शुकस्याऽपि वृत्तान्तमवदन्मुनिः ॥ ११॥ ततस्तं प्रत्युवाचाथ ब्रह्मा चिन्तां तु मा कुरु । शुको न भविता शम्भुर्भ्रष्टो वै नात्र संशयः ॥ १२॥ एवमाश्वास्य तं व्यासं तस्य पूजां प्रगृह्य सः । ययौ स्वभवनं ब्रह्मा व्यासो वै हर्षितोऽभवत् ॥ १३॥ शुकः स नर्मदातीरे संस्थितो योगसेवया । सर्वत्र ब्रह्मभावेनाचिन्तयद्ब्रह्म शाश्वतम् ॥ १४॥ सम्प्रज्ञातोऽष्टधा तेन साधितो वेदमार्गतः । असम्प्रज्ञातयोगेषु संस्थितो योगिसत्तमः ॥ १५॥ शुकेश्वरस्तत्र साक्षाच्छङ्करस्तिष्ठति प्रभुः । शिवेन हृदि संस्थेन बोधितो बादरायणिः ॥ १६॥ गुरुणा तेन हीनोऽयं शुको योगं समभ्यसत् । योगभूमिक्रमेणैवासाधयद्योगमुत्तमम् ॥ १७॥ स्वत उत्थानकं ब्रह्म साधयित्वा विधानतः । प्राप्तं परत उत्थानं तेन साङ्ख्यं महात्मना ॥ १८॥ तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले । बभ्राम पृथिवीं सर्वां विदेहोऽसौ महामुनिः ॥ १९॥ ब्रह्म साङ्ख्यं निराधारं दृष्ट्वा संशयवानभूत् । तदर्थं जनकं सोऽपि ययौ हर्षसमन्वितम् ॥ २०॥ जनकेन तथा साङ्ख्यं विदेहं कथितं परम् । ततः संशयहीनश्च जातो वैयासकिः प्रभुः ॥ २१॥ साङ्ख्ये बोधस्य नाशः स्यात्तत् दृष्ट्वा विस्मितो मुनिः । विचारमकरोच्चित्ते योगभावेन भावितः ॥ २२॥ बोधेनोत्थानकं जन्तोर्जायते नात्र संशयः । बोधहीनेन योगेनोत्थानं नास्य भवेत् कदा ॥ २३॥ ब्रह्म योगमयं प्रोक्तं तत्रोत्थानविहीनता । उत्थानं विद्यते नैव ब्रह्माकारं प्रवर्तते ॥ २४॥ साङ्ख्यं ब्रह्म विदेहत्वान्मतं चोपाधिवर्जितम् । न मुख्यं शान्तिदं प्रोक्तं योगीन्द्रैर्योगचिन्तकैः ॥ २५॥ व्यासेन वेदशाखाश्च कृता भिन्ना महात्मना । पुराणानि विभिन्नानि कृतानि समवेदिना ॥ २६॥ अहं तं शरणं यामि तातं शान्त्यर्थमादरात् । स एव सर्ववित् साक्षाच्छान्तिदाता भविष्यति ॥ २७॥ विचार्य मतिमानेवं शुको हर्षसमन्वितः । आगत्य निकटे तस्य तं ननाम कृताञ्जलिः ॥ २८॥ तत्र व्यासोऽपि योगिभ्यः प्रावदद्योगमुत्तमम् । तं श्रुत्वा हर्षितो भूत्वा शुको वच उवाच तम् ॥ २९॥ स्वामिञ्छृणु मदीयं वै प्रश्नं योगप्रसिद्धये । शान्तियोगस्य दाता कः कीदृशो योग उत्तमः ॥ ३०॥ (Page खं. २ अ. ३६ पान ७५) वद मां करुणासिन्धो योगिभ्यो योगदायक । योगीन्द्रस्त्वं न सन्देहो भ्रान्त्याऽहं भ्रमितोऽभवम् ॥ ३१॥ शुकस्य वचनं श्रुत्वा तं व्यासः प्रत्युवाच ह । श‍ृणुष्व त्वं महाभाग योगं शान्तिप्रदायकम् ॥ ३२॥ गणेशः शान्तिरूपश्च योगशान्तिप्रदायकः । तं भजस्व महायोगिन् तेन शान्तो भविष्यसि ॥ ३३॥ ब्रह्मणा बोधितोऽहं तं भजामि गणनायकम् । तेन सर्वज्ञतां यातो योगीन्द्रैः सेवितोऽभवम् ॥ ३४॥ गणो धातुः समूहे च कथितो नात्र संशयः । बाह्यान्तरादिसंयोगे समूहो भवति प्रभो ॥ ३५॥ ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः । संयोगायोगयोगेन प्राप्यते योगिभिः परः ॥ ३६॥ एवमुक्त्वा गणेशस्य वेदपादस्तवं ददौ । रचितं विष्णुना पूर्वं शान्तियोगप्रदायकम् ॥ ३७॥ येन विष्णुः सुशान्तोऽभूदिहलोके सुखात्मकः । जातः पालकभावेन भगवन्नामधारकः ॥ ३८॥ प्रगृह्य साधयामास शुकस्तं परमाद्भुतम् । गाणपत्यो बभूवाथ योगिवन्द्यो महाद्युतिः ॥ ३९॥ नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः । जपति स्नेहभावेन दिवानक्तमखण्डितम् ॥ ४०॥ एतच्छुकस्य माहात्म्यं कथितं ते प्रजापते । पठते श‍ृण्वते सर्वसुखदं प्रभवेत् परम् ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः ॥ २.३५

२.३६ गौतमचरितं नाम षट्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । त्रयः पुत्रा अङ्गिरसो बभूवुर्ब्रह्मवादिनः । गाणपत्या महाभागाः सर्वज्ञाः सुखदायिनः ॥ १॥ उतथ्यः प्रथमः प्रोक्तो द्वितीयस्तु बृहस्पतिः । संवर्तश्च तृतीयोऽभूद्योगशास्त्रपरायणः ॥ २॥ शिक्षितोङ्गिरसा पुत्र उतथ्यः स्वल्पकालतः । ब्रह्मभूतोऽभवत्सद्यो गाणपत्यो विशेषवित् ॥ ३॥ बृहस्पतिः क्रमेणैव योगभूमिविशारदः । भूमीनां साधने सक्तोऽभवच्छैवः स्वभावतः ॥ ४॥ तत्र स्वाधीनतां दृष्ट्वा शान्त्यर्थं शङ्करं ययौ । शिवेन गणराजस्य मन्त्रो दत्तः षडक्षरः ॥ ५॥ शान्तियोगस्य रूपं यत् कथितं तत् प्रविस्तरात् । शिवं नत्वा वनं सोऽपि ययौ दक्षबृहस्पतिः ॥ ६॥ स नित्यं गणपं ध्यात्वाऽपूजयत्तं विधानतः । दर्शनार्थं गणेशस्य लालसाभून्महामतेः ॥ ७॥ योगमार्गेण योगी स जातः शान्तिधरः स्वयम् । गाणपत्यत्वमापन्नः शिवतुल्यो बृहस्पतिः ॥ ८॥ तुष्टस्तदा गणेशानो ययौ तस्याश्रमं प्रभुः । स्तुतः सम्पूजितस्तेन तुतोष गणनायकः ॥ ९॥ अखण्डभक्तिभावं स ददौ तस्मै महात्मने । अन्तर्धाय स्वमात्मानं गणेशः स्वालयं ययौ ॥ १०॥ प्रकथ्यते महायोगी तदारभ्य बृहस्पतिः । (Page खं. २ अ. ३६ पान ७६) ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपदमागतः ॥ ११॥ संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः । यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥ १२॥ स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् । सहजं ब्रह्म काशीस्थो ध्यायद्वै शाङ्करं सदा ॥ १३॥ ततः कदाचिद्राजेन्द्रो मरुत्तो यज्ञकाम्यया । उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥ १४॥ तद्वृत्तान्तं समादाय देवेन्द्रः प्राब्रवीद् गुरुम् । मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥ १५॥ देवानां वा मनुष्याणामेकपक्षधरो भव । तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥ १६॥ मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः । काश्यां संवर्तकं राजन्नानीय कुरु सद्गुरुम् ॥ १७॥ जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः । प्रातःकाले प्रणामार्थं शङ्करस्य च गच्छति ॥ १८॥ शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् । विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥ १९॥ एवमुक्त्वा गतो योगी नारदः सोऽपि हर्षितः । तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ २०॥ दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः । छलितश्चेष्टया दक्ष न मुमोच तथाऽपि तम् ॥ २१॥ संवर्तस्तस्य वृत्तान्तं श्रुत्वा स्वयमुपागतः । यज्ञार्थं तस्य राजर्षेरुपाध्यायो बभूव ह । जीवेन तस्य वृत्तान्तो ज्ञातस्तेनापि भूमिपः ॥ २२॥ छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ २३॥ मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा । गुरुणा प्रेरितो देव इन्द्रो वज्रं समाक्षिपत् ॥ २४॥ संवर्तेन च तद्वज्रं कृतं मोघं समाधिना । शरणं तद्भयादिन्द्रो ययौ देवगणैः स तम् ॥ २५॥ ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः । समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥ २६॥ समाधितत्परत्वेन ज्ञातं तेनापि शाम्भवम् । स्वाधीनं तद्भवेन्मुख्यं ब्रह्मशान्तिप्रदं कदा ॥ २७॥ ययावङ्गिरसं प्रष्टुं तेन योगः प्रकाशितः । शान्तियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥ २८॥ संवर्तेन तथा दक्ष साधितो योग उत्तमः । शान्तिरूपधरो योगी संवर्तः प्रबभूव ह ॥ २९॥ आगत्य संस्थितः सोऽपि क्षेत्रे स्वानन्दरूपिणि । मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥ ३०॥ तेषां पुत्रा महाभागा जाताः सर्वज्ञसम्मताः । क्रमेणान्ते च ते सर्वे गाणपत्या बभूविरे ॥ ३१॥ प्रोक्ता दीर्घतमस्काद्यास्तेषां पुत्रादिभिस्तथा । गणेशो मनसा भक्त्याऽखण्डभावेन सन्धृतः ॥ ३२॥ गौतमस्तत्र मुख्यश्च शान्तिमार्गपरायणः । विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥ ३३॥ कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा । बभूव द्वादशाब्दान् या तया सम्पीडितं जगत् ॥ ३४॥ पीडां दृष्ट्वा जनानां स दयायुक्तो बभूव ह । गौतमं शङ्करं देवं वृष्टिहेतोर्नुनोद सः ॥ ३५॥ ततस्तं शङ्करः साक्षादवोचद् भक्तमुत्तमम् । (Page खं. २ अ. ३६ पान ७७) अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥ ३६॥ चालितुं न समर्थस्तं कोऽपि ब्रह्माण्डमण्डले । अतोभिमानमुत्सृज्य तिष्ठ त्वं मुनिसत्तम ॥ ३७॥ शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह । गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥ ३८॥ गौतम उवाच । किमिदं नाथ वदसि त्वमीशः सर्वसम्मतः । कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥ ३९॥ गौतमस्याभिमानं तं दृष्ट्वा शम्भुः सुविस्मितः । भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥ ४०॥ श‍ृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा । विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥ ४१॥ नायकेन विहीनोऽयं सर्वेषां स विशेषतः । नायकस्तेन नामाऽभूद्विनायक इति स्फुटम् ॥ ४२॥ वयं तदाज्ञया सर्वे वर्तेमहि न संशयः । गमनं वेदमार्गेणास्माकं सर्वत्र सम्मतम् ॥ ४३॥ उत्पथे गमनं नश्चेत्तदा विघ्नं करोति सः । अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥ ४४॥ एवमुक्त्वा महादेवो ददौ तस्मै षडक्षरम् । मन्त्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥ ४५॥ गौतमस्तं प्रणम्यादौ तपसे वनमाययौ । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ ४६॥ एवं वर्षेण तं ढुण्ढिर्ययौ दातुं वरं प्रभुः । तं दृष्ट्वा हर्षितोऽत्यन्तं ननाम मुनिसत्तमः ॥ ४७॥ अथर्वशिरसा तेन संस्तुतो गणनायकः । प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥ ४८॥ स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि । गाणपत्यं च सम्पूर्णं मां कुरुष्व गजानन ॥ ४९॥ अनावृष्टिभवं दुःखं जहि देव विनायक । एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥ ५०॥ तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम । तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥ ५१॥ सायङ्काले च बीजेभ्यः क्षिप्तेभ्यो भूमिमण्डले । सस्यानां वै समुत्पत्तिः प्रातःकाले भविष्यति ॥ ५२॥ तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् । समागतान् तथाभूतान् समये मुनिसत्तम ॥ ५३॥ नित्यं प्रमुदिताः सर्वे भविष्यन्ति तवाश्रमे । समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥ ५४॥ मदीया भक्तिरचला भविष्यति तथा परा । योगशान्तिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥ ५५॥ एवमुक्त्वा गणेशानो गतः स्वानन्दके पुरे । गौतमो गाणपत्यश्च तद्दिनात् सम्बभूव ह ॥ ५६॥ स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् । अनावृष्टिभवं दुःखं जनानां स निराकरोत् ॥ ५७॥ तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते । तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥ ५८॥ क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने । तत्र सर्वत्र सञ्जाता वृष्टिर्वै दुःखहारिणी ॥ ५९॥ ततो मुनिगणैः सर्वैर्विपरीतं विचारितम् । गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ ६०॥ सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति । (Page खं. २ अ. ३६ पान ७८) अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥ ६१॥ ततस्तैर्मायया गौश्च कृत्वा गौतमसन्निधौ । प्रेषिता सा हुतद्रव्यं भक्षयामास वै मुनेः ॥ ६२॥ गौतमेन स्वहस्तेन ताडिता मृदुभावतः । स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥ ६३॥ ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः । गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥ ६४॥ गौतमेन तपः कृत्वा प्रार्थिता स्वर्गवाहिनी । त्र्यम्बकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ ६५॥ तत्र स्नानेन सद्यो वै पवित्रो गौतमोऽभवत् । गोवधादिमहापापं गच्छति स्नानमात्रतः ॥ ६६॥ ततः कदाचिद्विप्रेशो गौतमो ध्यानमाश्रितः । विचारमकरोच्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥ ६७॥ छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया । ततः कोपपरीताङ्गः शशाप ब्राह्मणान् मुनिः ॥ ६८॥ वेदबाह्या भविष्यन्ति कृतघ्ना ये मर्हषयः । मदीयच्छलनेनैव पातकेन न संशयः ॥ ६९॥ ततस्ते शापयोगेन भ्रान्ता जाता महर्षयः । ज्ञात्वाऽकस्माद् द्विजाः शापं सम्भीता अभवंस्ततः ॥ ७०॥ शङ्करं शरणं सर्वे ययुर्देवं महर्षयः । शङ्करः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥ ७१॥ समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् । मार्गं ततो हरिः शम्भुमुवाच वचनं हितम् ॥ ७२॥ विष्णुरुवाच । वेदबाह्यद्विजानां यत्कर्म सर्वं निरर्थकम् । न गतिः कुत्र देहान्ते तेषां शम्भो न संशयः ॥ ७३॥ अतस्तेषां हितार्थाय ग्रन्थाः कार्याः सदाशिव । मोहदाश्च जनानां ते भजतां नरकप्रदाः ॥ ७४॥ ततः शिवेन वामं च तन्त्रं तत्र प्रकाशितम् । विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥ ७५॥ ऋषिभिश्च तथान्यानि शास्त्राणि रचितानि वै । कापालादीनि भो दक्ष मोहदानि विशेषतः ॥ ७६॥ फलानि तत्र दत्तानि भजतां शम्भुनामुना । विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥ ७७॥ नरा ये तानि सेवन्ते नारकाः सम्भवन्ति ते । इहामुत्र विहीनाश्च शास्त्राधारप्रवर्तिनः ॥ ७८॥ जनानां भजतां सर्वे पापांशास्ते महर्षयः । स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥ ७९॥ तत्र ते पापकर्माणो भविष्यन्ति विशेषतः । तेषु मार्गेषु संसक्ताः प्रपतिष्यन्ति रौरवे ॥ ८०॥ पुनः शुद्धा भविष्यन्ति नराः कृतयुगे प्रभो । तत्रैव योगमार्गेण गमिष्यन्त्यपुनर्भवम् ॥ ८१॥ एवं तेषां हितार्थाय शिवाद्यै रचितानि वै । शास्त्राणि चतुरैस्तानि न सेव्यानि कदाचन ॥ ८२॥ वेदाधारयुतं शास्त्रं तदेव सुखदं परम् । तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥ ८३॥ न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः । युक्तं गौतमशापेन महाभयकरं मतम् ॥ ८४॥ कलौ पापा विभूमानो भविष्यन्ति महर्षयः । (Page खं. २ अ. ३७ पान ७९) नरस्तैः कथितं शास्त्रं नवामादिकमाचरेत् ॥ ८५॥ इदं गौतममाहात्म्यं यः श‍ृणोति नरो भवेत् । पठेद्वा मलहीनः सन्निहामुत्र सुखी परम् ॥ ८६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ॥ २.३६

२.३७ नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दितेः पुत्रौ महावीर्यो कश्यपात् सम्बभूवतुः । सन्ध्यायामृतुदानेन दैत्यौ परमदारुणौ ॥ १॥ ताभ्यां तप्तं तपो घोरं दिव्यवर्षसहस्रकम् । तयोस्तपःप्रभावेण ब्रह्मा तु वरदोऽभवत् ॥ २॥ मरणं सर्वभूतेभ्यो न भवेदीप्सितं वरम् । ताभ्यां दत्त्वा स्वयं ब्रह्मा स्वस्थानमगमत् पुनः ॥ ३॥ सायङ्कालं च शुष्कार्द्रं विस्मरन्तौ महासुरौ । तदेव मरणस्थानं तयोर्जातं प्रजापते ॥ ४॥ वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जितम् । हिरण्यकशिपुर्ज्येष्ठश्चक्रे वै राज्यमुत्तमम् ॥ ५॥ कर्ममार्गं द्विषन् सर्वं देवब्राह्मणदुःखदः । राज्यं चक्रे सुदुष्टात्मा परस्त्रीमद्यलालसः ॥ ६॥ उपोषणेन संयुक्ता देवा इन्द्रपुरोगमाः । ब्रह्माणं ते पुरस्कृत्य शरण्यं विष्णुमाययुः ॥ ७॥ ततश्च विष्णुना तत्र धृतं रूपं भयप्रदम् । नारसिंहं महोग्रं वै सर्वेभ्यो भयदायकम् ॥ ८॥ आययौ दैत्यराजस्य नगरे क्रोधसंयुतः । शब्दैः सभुवनं घोरैर्नादयामास तत्क्षणात् ॥ ९॥ भीता दैत्यगणाः सर्वे शशंसुस्तस्य चेष्टितम् । राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुः स्वयम् ॥ १०॥ दैत्यैः समावृतो योद्धुं ययौ तेन महाबलः । क्रूरः समागतः सोऽपि नृसिंहाकृतिधारकः ॥ ११॥ मेरुमन्दरसङ्काशं वपुर्यस्य विराजितम् । तेजसा वह्निसङ्काशो योद्धुकामो सुरैः प्रभो ॥ १२॥ प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसत्तमः । नृसिंहं योधयामास शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १३॥ नृसिंहेन हता दैत्या बहवो रणमण्डले । शोणितौघवहा नद्यः सम्प्रवृत्ता दिशो दश ॥ १४॥ खड्गादिभिर्महास्त्रैश्च नखैर्युक्तः स देवराट् । नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ ॥ १५॥ तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः । वैष्णवं ज्ञानमत्यन्तं प्रादुर्भूतं विशेषतः ॥ १६॥ एतस्मिन्नन्तरे तत्र गदया ताडितः प्रभुः । नृसिंहो दैत्यराजेन पतितो मूर्च्छया भृशम् ॥ १७॥ द्विमुहूर्तात् सुसम्भूतः स्वस्थदेहो महाबलः । अशक्तं मानयामासात्मानं तेन पलायत ॥ १८॥ हिरण्यकशिपुः सर्वैर्विजयी स्वगृहं ययौ । चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः ॥ १९॥ पितरं बोधयामास विष्णुमानन्दरूपिणम् । शरणं याहि सर्वत्र समं दैत्यपतेऽधुना ॥ २०॥ पुत्रस्य वचनं श्रुत्वा क्रोधाविष्टो महासुरः । मुष्टिना ताडयामासं शत्रु मे किं समाश्रितः ॥ २१॥ तदाऽपि दृढभावेन न चचाल स वैष्णवः । प्रह्लादश्चाधिकां भक्तिं चकार प्रेमसंयुतः ॥ २२॥ ततो जले स्थले ह्यग्नौ हिरण्यकशिपुः स्वयम् । विषैः सोऽपीडयत्पुत्रं निष्फलो विष्णुना कृतः ॥ २३॥ शस्त्रैरस्त्रादिभिः पुत्रमारणाय समुद्यतः । प्रह्लादो न ममाराऽसौ रक्षितो विष्णुना सदा ॥ २४॥ एवं पितुः सुतस्याऽपि द्वन्द्वे प्राप्त प्रजापते । काले क्रान्ते तु किञ्चिद्वै नृसिंहचरितं श‍ृणु ॥ २५॥ वैकुण्ठे सुखमासीनं नारायणमनामयम् । ययौ तत्र नृसिंहस्तं प्रणनाम भयातुरः ॥ २६॥ वृत्तान्तं नृहरेस्तस्य श्रुत्वा सोऽपि सुविस्मितः । कारणं चिन्तयामास विचारेण जनार्दनः ॥ २७॥ गणेशं वै विस्मृतवान् ततो दैत्यो न निर्जितः । अष्टाक्षरं गणेशस्य मन्त्रं तस्मै ददौ स्वयम् ॥ २८॥ वने सोऽपि समासीनस्तताप परमं तपः । निराहारेण संयुक्तोऽध्यायत्तं गणपं हृदि ॥ २९॥ एकवर्षे गते तत्र ययौ विघ्नपतिः स्वयम् । वरेण च्छन्दयामास नृसिंहं भक्तमुत्तमम् ॥ ३०॥ प्रणम्यापूज्य विघ्नेशं परमेशं कृताञ्जलिः । सूक्तैर्गाणेशसंज्ञैस्तं तुष्टाव नृहरिः स्वयम् ॥ ३१॥ ययाचे देवदेवेशं भक्तिं ते देहि विघ्नप । जयं दैत्यरणे स्वामिंस्तथेति गणपोऽब्रवीत् ॥ ३२॥ अन्तर्धानं गतः सद्यो गणेशो भक्तपालकः । नृसिंहो हर्षसंयुक्तो दैत्यं हन्तुं ययौ ततः ॥ ३३॥ एतस्मिन्नन्तरे दक्ष हिरण्यकशिपुः स्वयम् । प्रह्लादं हन्तुमारेभे स्वयं खड्गधरोऽभवत् ॥ ३४॥ प्रह्लादेन स्मृतो विष्णुः प्रकटोऽभूत्तदन्तरे । नृसिंहः कालरूपश्च तलेनाऽताडयत् खलम् ॥ ३५॥ मूर्च्छितो दैत्यराजस्तु लेभे संज्ञां महाबलः । गदां धृत्वा नृसिंहं तं युयुधे सैनिकैः सह ॥ ३६॥ नृसिंहाङ्गात् समुद्भूता नृसिंहा बहवस्ततः । सैन्यं तन्नाशयामासुर्हिरण्यकशिपोः परम् ॥ ३७॥ ततः क्रोधपरीताङ्गः सायङ्काले दितेः सुतम् । धृत्वा नखैर्महादैत्यं दारयामास केशवः ॥ ३८॥ न शुष्कार्द्रमयैः स्वस्य नखैस्तेन विदारितः । ममार दैत्यराजोऽपि देवास्तं तुष्टुवुर्हरिम् ॥ ३९॥ स्तुतः सम्पूजितो विष्णुर्नृसिंहो गणपं स्मरन् । अन्तर्धानं ययौ सद्यो देवास्ते स्वपदं ययुः ॥ ४०॥ इदं नरहरेः प्रोक्तं माहात्म्यं यः श‍ृणोति वा । पठति प्रभवेत्तस्य सर्वदं नात्र संशयः ॥ ४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥ २.३७ (Page खं. २ अ. ३८ पान ८१)

२.३८ वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । हिरण्यकशिपौ नष्टे हिरण्याक्षं च दैत्यपाः । राजानं कारयामासुः सोऽपि चक्रे तथाऽखिलम् ॥ १॥ भ्रातुर्वधेन सन्तप्तो देवान् जित्वा महाबलः । तेषां मूलविनाशार्थं मतिं चक्रे च दैत्यपः ॥ २॥ तत्र तेन विचारेण सम्प्राप्तं ज्ञानमुत्तमम् । कर्मनाशे च देवानां मरणं प्रभविष्यति ॥ ३॥ कर्मरूपमयं तेषाममृतं नात्र संशयः । अन्ने नष्टे कथं देवाः स्थास्यन्ति तनुधारकाः ॥ ४॥ कर्ममूलमयीं भूमिं प्रगृह्य प्रययौ खलः । पातालं दैत्यराजस्तु खेलयन् स्वेच्छया स्वयम् ॥ ५॥ देवाश्च मुनयो जग्मुस्ततः सर्वे प्रजापतिम् । नष्टे चराचरे भूम्यां शशंसुर्दैत्यचेष्टितम् ॥ ६॥ ब्रह्मणा नोदिताः सर्वे वैकुण्ठं जग्मुरादरात् । तुष्टुवुस्तं रमानाथं शशंसुश्चेष्टितं महत् ॥ ७॥ ततः सोऽपि दयायुक्तः सौकरं रूपमास्थितः । कैलासे गणपं चेष्ट्वा ययौ पातालमोजसा ॥ ८॥ तत्र दंष्ट्राग्रसंयुक्तां पृथ्वीं कृत्वा बहिः प्रभुः । निर्ययौ तं हिरण्याक्षो योद्धुकामः समाययौ ॥ ९॥ ततो युद्धं महाघोरं तयोर्जातं प्रजापते । शुष्कार्द्रदंष्ट्रया दुष्टं सन्ध्याकाले जघान सः ॥ १०॥ ममार सहसा दैत्यो वराहो धरणीसुतः । निर्गत्य स्थापयामास पृथ्वीं पूर्ववदच्युतः ॥ ११॥ संस्थाप्य पृथ्वीं वाराहो मयूरेशं समाययौ । अक्षरब्रह्मरूपश्च सर्वेभ्यो ज्ञानदायकः ॥ १२॥ स्त्रीस्वरूपेण पृथिवी पत्नीभावेन तं ययौ । कर्ममूलमयी प्रोक्ताऽक्षराधारा सुखप्रदा ॥ १३॥ तत्रानुष्ठानमत्यन्तं चक्रतुर्भक्तितत्परौ । दृढवाससुसिद्ध्यर्थं क्षेत्रे स्वानन्दरूपिणि ॥ १४॥ प्रसन्नो भगवांस्तत्र गणेशो देवनायकः । वरदस्तौ ययौ प्रीत्योवाच संवृणुतं वरम् ॥ १५॥ ततस्ताभ्यां प्रणम्यादौ पूजितो गणनायकः । नामाष्टकेन साम्ना वै संस्तुतो भक्तिभावितः ॥ १६॥ वरं तौ वृणुतां क्षेत्रे स्वानन्दे देहि विघ्नप । वासं भक्तिसुसिद्ध्यर्थं ब्रह्मभूतसुखप्रदे ॥ १७॥ तयोर्वचनमाकर्ण्य गणेशः कृपया युतः । भक्तिं ज्ञात्वा महोग्रां वै सूर्यं प्रोवाच हर्षितः ॥ १८॥ गणेश उवाच । शुक्लगत्यात्मकं द्वारं त्वदीयं मुक्तिदं परम् । तत्र पृथ्वी वराहौ च तवाङ्गे कुरु मानद ॥ १९॥ तथेति कृतवान् सूर्यः संस्थितौ द्वारि तावुभौ । उत्तराङ्गं गणेशस्याश्रित्य पूजां प्रचक्रतुः ॥ २०॥ इदं वराहरूपस्य माहात्म्यं कथितं मया । श्रवणात् पठनात् सर्वमुक्तिदं प्रभवेन्नृणाम् ॥ २१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥ २.३८ (Page खं. २ अ. ३९ पान ८२)

२.३९ च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो दैत्यपदे राजा प्रह्लादो वैष्णवोऽभवत् । स तु वैरं समुत्सृज्य देवैः सम्मानितो बभौ ॥ १॥ गते कियति काले च गृहे तस्य महात्मनः । विधाता दैत्यराजस्याययौ प्रीत्या प्रजापते ॥ २॥ स तु दुष्टैर्महादैत्यैः क्रमेण भ्रंशितोऽसुरः । संसर्गदोषयुक्तोभून्न तं मेने पितामहम् ॥ ३॥ क्रोधेन विधिना तत्र शप्तोऽसौ वैष्णवाधमः । ज्ञानं प्रह्लाद नष्टं च त्वदीयं प्रभविष्यति ॥ ४॥ प्रह्लादमेवं शप्त्वा स ययौ स्थानं निजं विधिः । प्रह्लादश्च तथा दैत्यैर्देवानां हनने रतः ॥ ५॥ न मेने मनसा विष्णुं शम्भुं वामरनायकम् । जित्वा देवान् समस्तान् स राज्यं चक्रेऽसुराधिपः ॥ ६॥ प्रह्लादः स ततो देवैर्मित्रभावेन धारितः । सहनं कृतमत्यन्तं तद्दौरात्म्यस्य चादरात् ॥ ७॥ देवैर्विष्णुसहायैश्च कालेन विजिता बलात् । दैत्याः प्रह्लादमत्यन्तं संरक्ष्य सुरनायकैः ॥ ८॥ स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः । भ्रमन् समाययौ द्रष्टुं शक्तो गृत्समदो महान् ॥ ९॥ तं दृष्ट्वा दैत्यराजः स प्रणनाम महायशाः । स्वासने तं समावेश्य पूजयामास भक्तितः ॥ १०॥ भक्तो मुनिवरं दैत्यः पादसंवाहने स्थितः । उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः ॥ ११॥ प्रल्हाद उवाच । धन्यं मेऽद्य कुलं ज्ञानं विद्या दानादिकं च यत् । तवाङ्घ्रियुगुलं दृष्ट्वा पवित्रो नात्र संशयः ॥ १२॥ मुने योगीन्द्रमुख्यस्त्वं तव दर्शनमुत्तमम् । न भवेत् पापकाराणां भुक्तिमुक्तिक्रमप्रदम् ॥ १३॥ अहं शप्तश्च योगीन्द्र विधिना तेन मोहितः । असुरैः संवृतोऽत्यन्तं दुष्टकर्मरतोऽभवम् ॥ १४॥ स्त्रीमद्यादिरतो नित्यं ज्ञानहीनो निरन्तरम् । देवानां द्वेषबुद्ध्या वै छेदने प्रयतोऽभवम् ॥ १५॥ अधुना पादपद्मस्य दर्शनेन महामुने । ज्ञानस्य स्फूर्तिरल्पा मे सञ्जाता नात्र संशयः ॥ १६॥ पूर्वपुण्यबलेनैव जातं ते दर्शनं महत् । आसुरी प्रकृतिर्मेऽद्य गता तेन महामुने ॥ १७॥ वद ज्ञानं महायोगिंस्तारयस्व भवार्णवात् । मां वै शरणार्थिनं विप्र शिष्यं ते च जगद्गुरो ॥ १८॥ मुद्गल उवाच । एवं सम्प्रार्थितो दक्ष मुनिर्गृत्समदो महान् । कृपया परयाऽऽविष्टस्तमुवाच विशेषतः ॥ १९॥ गृत्समद उवाच । श‍ृणु प्रह्लाद वक्ष्यामि ज्ञानं शान्तिसुखप्रदम् । गणनाथं भजस्व त्वं विघ्नहीनो भविष्यसि ॥ २०॥ मदासुरश्च दैत्येशो हृदये ते प्रतापवान् । आसुरेण स्वभावेन संस्थितो ज्ञानखण्डकः ॥ २१॥ अतस्तमेकदन्तस्य भजनेन जहि प्रभो । तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेत् ॥ २२॥ इति तस्य वचः श्रुत्वा प्रह्लादस्तं पुनर्जगौ । कोऽसौ मदासुरः पापी हृदये तिष्ठति प्रभो ॥ २३॥ एकदन्तस्य भजनं कीदृशं वद साम्प्रतम् । मदासुरस्य हन्ताऽसौ कथं जातो गजाननः ॥ २४॥ एतत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते । शिष्याय सकलं विप्र येन ज्ञानं दृढं भवेत् ॥ २५॥ (Page खं. २ अ. ३९ पान ८३) मुद्गल उवाच । प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् । मदासुरस्य माहात्म्यमेकदन्ताश्रितं प्रभो ॥ २६॥ गृत्समद उवाच । श‍ृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । चरित्रमेकदन्तस्य सर्वसिद्धिप्रदायकम् ॥ २७॥ एकदा राक्षसः कश्चिद्ययौ भृग्वाश्रमं महान् । महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥ २८॥ स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् । सुलोमा किं भृगोः पत्नी त्वं हि मां वद साम्प्रतम् ॥ २९॥ मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् । एतस्मिन्नन्तरे कन्या याचिता भृगुणाऽभवत् ॥ ३०॥ मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता । तस्माद्भृगोर्हरिष्यामि भार्यां चाऽहं न संशयः ॥ ३१॥ तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह । सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥ ३२॥ राक्षस उवाच । अग्ने वद महाभाग त्वं साक्षी सर्वसम्मतः । इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥ ३३॥ राक्षसस्य वचः श्रुत्वा न किञ्चित्तं वचोऽब्रवीत् । उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ ३४॥ पुनस्तेन च सम्पृष्टोऽग्निर्नोवाच सुदुर्मतिम् । पुनः पृष्टस्तथाग्निस्तमुवाच भयसङ्कुलः ॥ ३५॥ अजानता नरः पृष्टः संशये प्रसमुद्यते । कथयेत्तं न पापीयान् भवेद्वै सोऽपि निश्चितम् ॥ ३६॥ अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः । आदौ राज्ञा च सन्दातुं कथिता राक्षसाय सा ॥ ३७॥ अतस्त्वं राक्षसो भागी मतः शास्त्रे न संशयः । तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥ ३८॥ अतः कन्यां प्रदातुं वै नराय दृढनिश्चयः । न कर्तव्योऽसुरेश त्वं विचारय महामते ॥ ३९॥ यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् । तस्मै सा वै प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥ ४०॥ आशाभङ्गमयं पापं सम्प्राप्तं तस्य दैत्यप । न कन्या दृष्यते तत्रान्यस्मै दत्ता नराय चेत् ॥ ४१॥ ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः । पत्नी भृगोरियं साधो मा गृह्णीष्व परस्त्रियम् ॥ ४२॥ अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ । अन्तर्वत्नीं रुदन्तीं च मूर्च्छितां स विहायसा ॥ ४३॥ तस्यामुदरवासी च भृगोस्तेजोधरो मुनिः । कुपितो राक्षसं हन्तुं च्युतो वै जठरात् स्वयम् ॥ ४४॥ तस्य क्रोधानलेनैव भस्मसादभवत्क्षणात् । राक्षसः सोऽपि सङ्गृह्य पुत्रं स्वगृहमाययौ ॥ ४५॥ दुःखिता रुदती देवी सुलोमा भयविह्वला । वनाद् भृगुः समायातस्तस्मिन् काले प्रतापवान् ॥ ४६॥ रुदन्त्या कथितस्तस्मै वृत्तान्तो मुनिभायर्या । तं श्रुत्वा कुपितो योगी साक्षाद्रुद्रैवाऽपरः ॥ ४७॥ उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना । सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥ ४८॥ एवं शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः । सुलोमां सान्त्वयामास पुत्रं स्वं प्रशशंस ह ॥ ४९॥ उदरात्तु च्युतः क्रोधाच्च्यवनो नाम सत्तमः । तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ ५०॥ सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् । पत्न्या पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥ २.३९

२.४० अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः । अंर्तधाय स्वमात्मानं स्थितः परमदुःखितः ॥ १॥ अग्निं विना च सर्वत्र हाहाकारो महानभूत् । मुनयः सहिता देवैर्ब्रह्माणं शरणं ययुः ॥ २॥ मुनय ऊचुः । शप्तोऽग्निर्भृगुणा स्वामिन्नन्तर्धाय ययौ स्वयम् । कर्महीना वयं नाथ वह्निहीना भवामहे ॥ ३॥ शरणं त्वां प्रपन्नाः स्मो रक्ष रक्ष पितामह । नोचेच्चराचरं सर्वं नश्यत्यत्र न संशयः ॥ ४॥ श्रुत्वा स वचनं तेषां तैः सहाऽग्निं ययौ विधिः । सान्त्वयामास तं वाक्यैर्वेदानां परमाद्भुतैः ॥ ५॥ ब्रह्मोवाच । अग्ने श‍ृणु महाभाग वेदेषु कथितं महत् । सर्वभक्षः शुचिष्मान् वै तव नाम विनिश्चितम् ॥ ६॥ भृगोर्नैवापराधोऽस्ति भावि जातं न संशयः । मा कुरुष्व वृथा चिन्तां भव सौम्यो महामते ॥ ७॥ अतस्त्वं सर्वभक्षोऽपि पवित्रः परमो मतः । भक्षदोषविहीनस्त्वं भविताऽसि न संशयः ॥ ८॥ वचः श्रुत्वा चुकोपाऽग्निः प्रलयं कर्तुमुद्यतः । ज्वालाः सांवर्तिकाः क्रोधाच्चिक्षेप स चराचरे ॥ ९॥ ज्वालाभिर्दह्यमानास्ते ब्रह्माद्याः प्रययुस्ततः । गणेशं मनसा ध्यात्वा स्थिताऽभयसमन्विताः ॥ १०॥ एतस्मिन्नन्तरे तत्रैकदन्तो ब्राह्मणोऽभवत् । आययावग्निसान्निध्ये तमुवाच हितं वचः ॥ ११॥ ब्राह्मण उवाच । अग्ने किं क्षुभितोऽत्यन्तं हरसि त्वं कथं जगत् । अकाले क्रोधसंयुक्तो न स्मृतस्ते विनायकः ॥ १२॥ स्वातन्त्र्यं पश्य यत्रास्ति मा गर्वं कुरु देवप । विनायकं परित्यज्य स्वातन्त्र्यं न भवेद्यतः ॥ १३॥ एवमुक्तोऽपि तं विप्रं ददाह स्वीयतेजसा । प्रहस्य स मुनीन्द्रोऽसावुवाच गणनायकः ॥ १४॥ शलाकां चन् महावह्ने दहसि त्वं स्वसत्तया । मया दत्तां स्वसामर्थ्यात्तदैवं सचराचरम् ॥ १५॥ एवमुक्त्वा शलाकां स तत्र चिक्षेप भूसुरः । न तां शक्तो दाहयितुं जातो वह्निः स्वसत्तया ॥ १६॥ ततस्तं प्रणनामाथ गतगर्वो हुताशनः । को विनायकनामा वै सर्वेषां नायकः स्मृतः ॥ १७॥ वद मे करुणासिन्धो तं भजामि विशेषतः । त्वं कोऽसि विप्ररूपेण प्रमोहयसि मां प्रभो ॥ १८॥ शान्तमग्निमुवाचाऽथ विप्ररूपी गजाननः । (Page खं. २ अ. ४० पान ८५) बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥ १९॥ विप्र उवाच । स्वानन्दवासिनं विद्धि विनायकमनामयम् । सर्वेषां नायकं पूर्णं नायकैर्वर्जितं परम् ॥ २०॥ शान्तियोगेन शान्तिज्ञास्तं भजन्ते द्विजोत्तमाः । तं योगं तेऽभिधास्यामि श‍ृणुष्वैकमनाः प्रभो ॥ २१॥ एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः । सम्प्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥ २२॥ संयोगायोगभेदैश्च संयुक्तं ब्रह्म यत् स्मृतम् । असम्प्रज्ञातरूपस्थं विद्धि तद्योगसेवया ॥ २३॥ सम्प्रज्ञातासम्प्रज्ञातयोगे वै शान्तिदायकः । शान्तियोगः समाख्यातो गाणेशो हव्यवाहन ॥ २४॥ गणाः समूहरूपाश्च तेषां स्वामी गजाननः । तं भजस्व महातेजो वह्ने भक्तिसमन्वितः ॥ २५॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । विधियुक्तं स दैत्येन्द्र गाणेशं सर्वसिद्धिदम् ॥ २६॥ दर्शयामास रूपं स्वं त्यक्त्वा ब्राह्मणरूपकम् । गजाननादि चिह्नैश्च चिह्नितं भक्तपालकम् ॥ २७॥ तं दृष्ट्वा निपपातोर्व्यां वह्निर्हर्षसमन्वितः । तावदन्तर्हितं रूपं ततः खिन्नोऽभवच्छुचिः ॥ २८॥ स्वर्गं त्यक्त्वा वनं वह्निर्ययौ योगविधित्सया । समाधिना तपस्तेपे गणेशप्राप्तिहेतवे ॥ २९॥ दिव्यवर्षशतेनैव तं ययौ भक्तवत्सलः । गजाननः प्रसन्नात्मा परमात्मा परात्परः ॥ ३०॥ दृष्ट्वाग्निं तपसा युक्तं स्वभक्तं प्रत्युवाच ह । वरं वृणु महाभाग तुष्टोऽहं तपसा च ते ॥ ३१॥ गृत्समद उवाच । गणेशवचनं रम्यं श्रुत्वा हर्षसमन्वितः । ननाम दण्डवद्भूमौ भावयुक्तेन चेतसा ॥ ३२॥ पूजयित्वा यथान्यायं तुष्टाव स कृताञ्जलिः । हव्यवाहः प्रसन्नात्मा गणेशं योगशान्तिदम् ॥ ३३॥ अग्निरुवाच । नमस्ते विघ्ननाशाय भक्तानां हितकारक । नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ ३४॥ नमो मूषकवाहाय गजवक्त्राय धीमते । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ ३५॥ चतुर्भुजधरायैव चतुर्वर्गप्रदायिने । एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३६॥ लम्बोदराय देवाय गजकर्णाय ढुण्ढये । योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ३७॥ योगिभ्यो योगदात्रे च योगिनां पतये नमः । चराचरमयायैव प्रणवाकृतिधारिणे ॥ ३८॥ सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक । सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ३९॥ अनन्तानन देवेश प्रसीद करुणानिधे । दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ४०॥ धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक । कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ४१॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ४२॥ तव भक्तिं दृढां देहि यया मोहो विनश्यति । तव भक्तैः सहावासो ममास्तु गणनायक ॥ ४३॥ यदा सङ्कटसंयुक्तस्तदा स्मरणतस्तव । निःसङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ४४॥ एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः । तमुवाच गणाध्यक्षो भक्तवत्सलभावतः ॥ ४५॥ गणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति नृणां चैव श‍ृण्वतां पठतां सदा ॥ ४६॥ यं यं चिन्तयसे कामं तं तं दास्यामि शाश्वतम् । भक्तिभावेन सन्तुष्टो भृशं स्तोत्रेण संस्थितः ॥ ४७॥ मदीया भक्तिरचला भविष्यति सदाऽनघ । सङ्कटं स्मरणेनैव मदीयेन विनश्यति ॥ ४८॥ भृगुर्मम विशेषेण भक्तोऽसौ शान्तियोगधृक् । तस्यापि वचनं मिथ्या न करोमि कदाचन ॥ ४९॥ यद्यपि त्वं सर्वभक्षः पवित्रो भविता सदा । पूर्ववत् सर्वमान्यं त्वां करिष्यन्ति द्विजादयः ॥ ५०॥ सर्वभक्षे च ते दुःखं हरामि श‍ृणु मे वचः । प्राप्तं शुभाशुभं तत्रामृतभुक्त्वं भविष्यसि ॥ ५१॥ सर्वभक्षणरूपा ये विकारा न भवन्ति ते । अमृताशी मया तत्र त्वं कृतोऽसि न संशयः ॥ ५२॥ एवमुक्त्वा गणाधीशोंऽतर्धानमगमत् स्वयम् । वह्निहर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ ५३॥ तदहाद्दहनो दैत्य सर्वभक्षो बभूव ह । शुचिश्चामृतभुग् देवो योगशान्तिधरः स्वयम् ॥ ५४॥ गाणपत्यस्वभावेनाभजत्तं गणनायकम् । गणेशभक्तसङ्गेषु निरतः सोऽसुरेश्वर ॥ ५५॥ एतदग्नेश्च माहात्म्यं यः श‍ृणोति नरोत्तमः । पठेद्वा भविता तस्य कामोप्यत्यन्तदुर्लभः ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॥ २.४०

२.४१ च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोः पुत्रश्च योगीशं भृगुं नत्वा ययौ वनम् । तताप तप उग्रं वै प्रयागे स जले स्थितः ॥ १॥ दशवर्षसहस्राणि गतानि तपतो मुनेः । तस्यैव तेजसा सर्वं व्याप्तं ब्रह्माण्डमण्डलम् ॥ २॥ एकदा धीवरैस्तत्र जले जालैर्महामते । गृहीता मत्स्यकाद्याश्च दैवात् सोऽपि समागतः ॥ ३॥ दृष्ट्वा मुनिवरं सर्वे भयभीता ययुर्नृपम् । धीवरा नहुषं सर्वमूचुर्वृत्तान्तमादरात् ॥ ४॥ भयभीतो नृपस्तत्र प्रधानैर्ब्राह्मणैर्वृतः । मुनिं ययौ महाभागं प्रणम्य स पुरःस्थितः ॥ ५॥ मत्स्या जलवियोगेन व्याकुला मरणोन्मुखाः । तान् स्वर्गे स्थापयामास सांसर्गिकसुभावतः ॥ ६॥ कृताञ्जलिपुटं दृष्ट्वा नहुषं मुनिसत्तमः । उवाच मोचय प्राज्ञ धृतं धीवरतोऽधुना ॥ ७॥ मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय । श्रुत्वा तस्य वचः सर्वमूचे वै धीवरान्नृपः ॥ ८॥ शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः । भवद्भिश्च महाभागैस्ततस्तं मुनिरब्रवीत् ॥ ९॥ (Page खं. २ अ. ४१ पान ८७) शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् । ततो राजा धनं लक्षं मौल्यं च कृतवान् मुनेः ॥ १०॥ न योग्यं मुनिना तत्र कथितं स ततो नृपः । ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥ ११॥ मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः । नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥ १२॥ तथाऽपि मुनिना मान्यं न कृतं तत्ततो नृपः । राज्यमर्धं ततो मौल्यं धीवरान् दातुमुद्यतः ॥ १३॥ मुनिना कथितं तत्र मम योग्यं न मूल्यकम् । ततो राज्यं स सम्पूर्णं मौल्यं तस्य चकार ह ॥ १४॥ ततोऽपि मुनिना दैत्य न मान्यं तत्कृतं ततः । भयभीतो नृपोऽमात्यैः कर्तव्यं नाभ्यपद्यत ॥ १५॥ अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति । मां तत्र नैव सन्देहो मद्दैवेन प्रचोदितः ॥ १६॥ ततस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीत् । ब्राह्मणैः सह राजेन्द्र देहि मौल्यं विचार्य च ॥ १७॥ ततस्तत्राययौ योगी गाणपत्यो महायशाः । भरद्वाजः स तं दृष्ट्वा नहुषः प्रणनाम ह ॥ १८॥ भरद्वाजेन वृत्तान्तो ज्ञातः सर्वो ह्यशेषतः । उवाच नृपशार्दूलं चिन्तां मा कुरु भूमिप ॥ १९॥ ब्राह्मणानां गवां राजन् कुलमेकं द्विधा कृतम् । कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् ॥ २०॥ हविष्यं गोभिरत्यन्तं धृतं वै यज्ञसिद्धये । मन्त्राश्च ब्राह्मणैस्तत्र धृतास्तद्वन्न संशयः ॥ २१॥ गां दत्वा धीवरेभ्यस्त्वं बन्धहीनं मुनिं कुरु । एवमुक्त्वा भरद्वाजो ययौ स्वेच्छाचरो मुनिः ॥ २२॥ तथा नहुषभूपेन कृतं दृष्ट्वा प्रहर्षितः । च्यवनो मुनिशार्दूल आशिषं विविधां ददौ ॥ २३॥ तं नृपं मानयित्वा स ययौ वनमनुत्तमम् । सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः ॥ २४॥ तत्र स्थित्वा तपस्तेपे महोग्रं तेजसा युतः । निराहारेण संयुक्तो वर्षाणां च सहस्रकम् ॥ २५॥ एतस्मिन्नन्तरे तत्र शर्यातिश्च नृपो ययौ । मृगयाभिरतो दैवात् मुदा युक्तस्तदाऽऽश्रमे ॥ २६॥ तत्र तस्य शरीरे च वल्मीकस्तृणसंयुतः । जातस्तदपि घोरं वै तताप स तपो महत् ॥ २७॥ नरान् सर्वान्निवार्यैव संस्थितस्तत्र भूमिपः । मा कुरुध्वं प्रवेशं सच्च्यवनाश्रममण्डले ॥ २८॥ एतस्मिन्नन्तरे तत्र सुकन्या ससखी ययौ । वनं क्रीडार्थमुग्रेण तपसा संयुतं मुनेः ॥ २९॥ भ्रमन्त्या चालिभिस्तत्र दृष्टो वल्मीक उत्तमः । तत्र ज्योतिर्मये नेत्रे दृष्ट्वा सा विस्मिताऽभवत् ॥ ३०॥ अज्ञानेन तथा मुग्धभावाद्वै कण्टकेन च । कन्यया चक्षुषी भिन्ने ज्योतीरूपे महामुनेः ॥ ३१॥ ताभ्यां रक्तं प्रसुस्राव दृष्ट्वा सा भयसङ्कुला । स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ॥ ३२॥ ततः पुरीषमूत्रे वै सैन्यानां बन्धमागते । भूपस्य तेन शर्यातिर्भयभीतो बभूव ह ॥ ३३॥ पप्रच्छ सर्वलोकान् स मुनेराश्रममण्डले । छिद्रं केन कृतं घोरं येन सङ्कुपितो मुनिः ॥ ३४॥ ततः सा राजकन्या तं पितरं प्राह लज्जिता । क्षुभिता भयभीता वै सुकन्या रचिताञ्जलिः ॥ ३५॥ वने क्रीडनभावेन वल्मीके कण्टकेन च । विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥ ३६॥ ततो राजा वनं गत्वा वल्मीके संस्थितं मुनिम् । स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥ ३७॥ ततस्तं राजशार्दूलमुवाच भृगुनन्दनः । अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक ॥ ३८॥ अतो मदीयसेवार्थं कन्यां देहि महामते । तदा सुखयुतं सर्वं भविष्यति न संशयः ॥ ३९॥ ततो राजा स्वयं भीतो ददौ कन्यां सुलोचनम् । तस्मै ससैन्यमादाय स्वपुरं प्रययौ मुदा ॥ ४०॥ सुकन्या राजपुत्री सा पतिं प्राप्य महामुनिम् । च्यवनं सेवने सक्ता त्यक्त्वा देहभ्रमं बभौ ॥ ४१॥ ततः कदाचित्तत्रैवाऽश्विनौ तौ भिषजां वरौ । आगतौ मुनिशार्दूलं प्रणम्य च पुरः स्थितौ ॥ ४२॥ मुनिः प्रोवाच तौ तत्र मां च यौवनशालिनम् । कुरुतं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतम् ॥ ४३॥ ततस्तं मुनिशार्दूलमूचतुश्चाश्विनौ वचः । देवैः साकं यज्ञभुजौ कुर्वावां तपसो बलात् ॥ ४४॥ तथेति मुनिना प्रोक्तं सभार्यं मुनिसत्तमम् । गृहीत्वा चाश्विनौ कुण्डं ययतू रूपदं परम् ॥ ४५॥ तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः । रूपलावण्यसंयुक्ताः कामदेवोपमा बभुः ॥ ४६॥ एकरूपधरान् दृष्ट्वा सुकन्या विस्मिताऽभवत् । नमोश्विभ्यां च मे भर्ता दातव्यो देवसत्तमौ ॥ ४७॥ तस्याः सतीस्वभावेन सन्तुष्टौ ददतुर्मुनिम् । च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं ययौ ॥ ४८॥ कदाचिन्नृपवर्यं तं शर्यातिं स्वाश्रमागतम् । सुकन्या तं पुरो दृष्ट्वा पितरं सस्वजे सती ॥ ४९॥ दृष्ट्वा मुनिवरं राजा यौवनस्थं महाद्युतिम् । पप्रच्छ तनयां वृत्तं तया सर्वं प्रकाशितम् ॥ ५०॥ ततस्तं प्रणनामाथ नृपस्तेनाऽपि मानितः । यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं ययौ ॥ ५१॥ शर्यातिर्यज्ञसम्भारांश्चक्रे वै हर्षितो भृशम् । आरेभे मुनिभिर्यज्ञं सर्वसम्पद्विराजितः ॥ ५२॥ तत्र देवा मुदा सर्वे ययुरप्सरसां गणाः । मुनयश्च महाभागा नानादिग्भ्यः समाययुः ॥ ५३॥ वर्णाः सर्वे तथा तत्र मानवानां समाययुः । द्रष्टुं प्रह्लादयज्ञं तमानन्देन समन्विताः ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते च्यवनतपोवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ २.४१ (Page खं. २ अ. ४२ पान ८९)

२.४२ भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ । कृत्वा चावहितौ तत्र तत इन्द्रोऽब्रवीद्वचः ॥ १॥ इन्द्र उवाच । अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता । यज्ञभागे तयोः स्वामिन् माह्वेयति वदाम्यहम् ॥ २॥ अभवन् मुनिमुख्यो सौ त्यक्त्वेन्द्रवचनं ततः । समुद्युक्तश्च तौ तत्राह्वयितुं त्वसुरेश्वर ॥ ३॥ तत इन्द्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः । वज्रेणैव हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥ ४॥ च्यवनेन सहायेनाश्विनौ तत्रागतौ मखे । अश्विनौ तौ तदा दृष्ट्वा वज्रं दध्रे पुरन्दरः ॥ ५॥ च्यवनेन सवज्रस्तु तस्य प्रस्तम्भितो भुजः । तपसा स्वप्रभावेण मदं संससृजे मुनिः ॥ ६॥ ग्रसितुं स ययाविन्द्रं च्यवनेन प्रचोदितः । विस्मिता मुनयो देवा दृष्ट्वा वीर्यं महामुनेः ॥ ७॥ विकरालमुखं वीरं लेलिहान नभस्तलम् । अञ्जनाद्रिसमं श्यामं ददृशुस्तं मदं मखे ॥ ८॥ भयभीतास्ततो देवसेना मुनिगणा जनाः । अन्ये प्रदुद्रुवुस्तत्र त्यक्त्वा यज्ञं दिशो दश ॥ ९॥ मदस्तु ग्रसितुं तत्रेन्द्रसान्निध्यं समाययौ । तं दृष्ट्वा भयभीतः स च्यवनं शरणं ययौ ॥ १०॥ इन्द्र उवाच । अश्विनौ भागसंयुक्तौ मया मान्यौ कृतौ मुने । मदान् मां रक्ष विप्रेश ग्रसिष्यति न संशयः ॥ ११॥ ततस्तेनाभयं दत्तमिन्द्राय शरणार्थिने । मदं च तपसा स्वेन वारयामास भार्गवः ॥ १२॥ समाप्य च्यवनो यज्ञं ययौ पितृगृहे मुनिः । प्रणनाम सभार्यस्तं भृगुं योगविदांवरम् ॥ १३॥ तेन सम्मानितः पुत्रस्तपःसिद्धश्च सन्निधौ । च्यवनश्च कियत्कालमवसत् सेवनोत्सुकः ॥ १४॥ कदाचिच्च्यवनं विप्रं भृगुः परमतत्त्ववित् । उवाच ज्ञानसिद्ध्यर्थं स्वसुतं कृपया युतः ॥ १५॥ भृगुरुवाच । श‍ृणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया । मदः स्वतपसा सृष्टो देवेन्द्रस्य भयावहः ॥ १६॥ तपोबलमदेनैवं कुरुषे कर्म तापस । मदयुक्तोऽसि पुत्र त्वं त्यज तं योगसेवया ॥ १७॥ श‍ृणु वृत्तान्तमादौ त्वं मदीयं कथयामि ते । मया तन्मदयुक्तेन तपोवीर्येण यत्कृतम् ॥ १८॥ सततं तपसा युक्तो प्रतपामि तपो महत् । मध्ये मुनीनां सर्वेषां श्रेष्ठोऽहं तपसाऽभवम् ॥ १९॥ एकदा मुनयः सर्वे मिलिता गौतमीतटे । सिंहस्थे च गुरौ पुत्र तत्र वादो भवन्महान् ॥ २०॥ पितामहं परं श्रेष्ठं जानामि सगुणं सुत । ब्रह्मरूपं महात्मानं सर्वस्रष्टारमञ्जसा ॥ २१॥ सगुणं केचिदूचुश्च भिन्नदेहधरं शिवम् । केचिद्विष्णुं तथा ब्रह्मन् केचिद्ब्रह्माणमञ्जसा ॥ २२॥ तत्र सर्वैरहं पुत्र प्रेषितः कार्यसिद्धये । परीक्षार्थं तपःसिद्धस्त्रिष्वेवं निश्चयार्थिभिः ॥ २३॥ अहं पितामहं श्रेष्ठं जानाम्यत्र न संशयः । तं ययौ पितरं सिद्धं परीक्षार्थं महामुने ॥ २४॥ तमप्रणम्य विश्वेशं समासीनो महासने । मां दृष्ट्वा दुर्विनीतं स कुपितश्च पितामहः ॥ २५॥ उवाच मां सुरश्रेष्ठः किं मदेन समन्वितः । (Page खं. २ अ. ४२ पान ९०) समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥ २६॥ ततोऽवदं सुता चाऽऽदौ पत्नीभावेन सन्धृता । त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥ २७॥ तातस्तु क्षुभितोऽत्यन्तं स च मां शप्तुमुद्यतः । तातं तं दण्डवद्भूमौ नतोऽहं भक्तिसंयुतः ॥ २८॥ अवदं तं महाभागं मां क्षमस्व महागसम् । परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥ २९॥ क्षमस्वेदं कृतं कर्म त्वं श्रेष्ठः सर्वभावतः । स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥ ३०॥ दृष्ट्वा मां तापसं पुत्र भ्रातरं सहसा शिवः । आलिङ्गितुं समायातो निजभक्तसुखप्रदः ॥ ३१॥ अवदन् महदत्यन्तं दुर्वचस्तं परीक्षितुम् । मा मां स्पृश पिशाचेश वर्णाश्रमविवर्जित ॥ ३२॥ नरमस्तकमात्रादिचिह्नयुक्तोऽशुचिः सदा । नाम्ना शिवोऽशिवस्त्वं वै ज्ञातं ते चेष्टितं मया ॥ ३३॥ इति मद्गिरमाकर्ण्य क्रोधयुक्तः सदाशिवः । तृतीयं नेत्रमुद्धाट्य ज्वालितुं चोद्यतोऽभवत् ॥ ३४॥ ततस्तं स्तुतवान् पुत्र प्रणतो दण्डवत् क्षितौ । परीक्षार्थमिदं कर्म कृतं त्वं क्षन्तुमर्हसि ॥ ३५॥ ब्राह्मणं मां विदित्वा स क्रोधं संहृत्य शङ्करः । संस्थितस्तत्र कैलासे वैकुण्ठे गतवानहम् ॥ ३६॥ लक्षम्या सह समासीनं विष्णुं दृष्ट्वा प्रहर्षितः । सोऽपि लक्ष्म्या नतः सद्यः पादयोर्मम पुत्रक ॥ ३७॥ मया निर्भर्त्सितोऽत्यन्तं पादं मा स्पृश दुर्मते । स्त्रीवेषधारी जातोऽसि त्वं तेन मलिनो मतः ॥ ३८॥ मदीया स्त्री त्वया दुष्ट वर्धिता गर्हितं कृतम् । इत्याद्यैर्विविधैर्वाक्यर्मयाऽसौ निन्दितो भृशम् ॥ ३९॥ ततो विष्णुः स्वयं पुत्र कृताञ्जलिपुटः स्थितः । मया क्रोधेन पादेन हृदि सन्ताडितस्तदा ॥ ४०॥ तथाऽपि न चुकोपाऽसौ पादं धृत्वा मदीयकम् । ताडनश्रमयुक्तं संवाहितं तं चकार ह ॥ ४१॥ तदैव हृदये तेन ब्राह्मणप्रियकाम्यया । पुत्र लाञ्छनमेवेदं भृगुपादाङ्कितं धृतम् ॥ ४२॥ अहं च निश्चयं कृत्वा गतो ब्राह्मणसंसदि । कथितः सर्ववृत्तान्तः श्रेष्ठो नारायणः स्मृतः ॥ ४३॥ क्षमा यत्र भवेद्विप्रास्तत्र सर्वं प्रतिष्ठितम् । क्रमेण प्राप्यते ब्रह्म क्षमायुक्तेन चेतसा ॥ ४४॥ ततोऽहं वैष्णवो जातो यदा विष्णुपरायणः । कदाचिद्दक्षयज्ञे वै विष्णुर्मुख्यो बभूव ह ॥ ४५॥ शम्भुं त्यक्त्वा हरिं मुख्यं दृष्ट्वाऽहं यज्ञकर्मणि । मुख्यत्वमास्थितः पुत्र यज्ञकर्मप्रवर्तकः ॥ ४६॥ पार्वती तत्र दग्धातः शम्भुः कोपसमन्वितः । मृतां सतीं स विज्ञायाययौ गणसमावृतः ॥ ४७॥ विष्णुं निर्जित्य दक्षं तं हत्वा यज्ञः प्रणाशितः । मदीयं चिबुकं तत्र वीरभद्रेण पातितम् ॥ ४८॥ ब्रह्मणा सान्त्वितः शम्भुर्दक्षं सञ्जीव्य तं मखम् । चकार स्वयमेवेशः सम्पूर्णं भागसंयुतः ॥ ४९॥ आजं च चिबुकं मे च कृतं तेन महात्मना । नन्दिना शापितस्तत्र वारुणिर्ह्यभवं किल ॥ ५०॥ ततोऽहं मानसे पुत्र विस्मितः शङ्करं स्मरन् । कालरूपी स्वयं शम्भुः कालाधीनमिदं जगत् ॥ ५१॥ ईश्वरोऽयं शिवः प्रोक्तः परं तस्मान्न विद्यते । (Page खं. २ अ. ४२ पान ९१) विचार्य शङ्करं चित्ते धृत्वाऽहं भजने रतः ॥ ५२॥ शैवो जातोऽहमत्यन्तं भस्माङ्गालेपने रतः । नानापाशुपतैर्मार्गैरभजं शङ्करं सदा ॥ ५३॥ एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले । शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥ ५४॥ तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे । उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥ ५५॥ गायत्रीं मुख्यभावां वै प्राप्तां वीक्ष्य महासती । सावित्री कोपसंयुक्ता शशाप सकलामरान् ॥ ५६॥ जलरूपा भवन्तो वै भविष्यन्ति न संशयः । ज्येष्ठां सन्त्यज्य यज्ञोऽयमारब्धस्तेन भोः सुराः ॥ ५७॥ जलरूपास्ततो देवाः शम्भुमुख्या बभूविरे । देवस्त्रीभिर्गणेशस्य तपः कृत्वा विमोचिताः ॥ ५८॥ पुनश्च देवरूपास्ते जातास्तस्य प्रसादतः । गणेशस्य न सन्देहोंशरूपेण जले स्थितः ॥ ५९॥ तदा मया च विज्ञातो गणेशो विघ्ननायकः । सर्वसत्ताधरः पुत्र स्वभावाच्च निरङ्कुशः ॥ ६०॥ नामतो गणपस्तत्र स्वयमेव मखो महान् । ध्वंसितोऽनेन देवाश्च जलरूपाः कृताः सुत ॥ ६१॥ पुनश्च भक्तिभावेन सन्तुष्टो यज्ञमाययौ । देवरूपांश्चकाराऽसौ देवानेवाऽकरोन् मखम् ॥ ६२॥ सर्वत्र संस्थितोऽयं वै तेनेदृक् च चकार ह । इति मत्वा गणेशस्य भजने तत्परोऽभवम् ॥ ६३॥ ततः कदाचिद्व्यासस्य सङ्गतिर्मे महामते । जाता भाग्यवशेनैव मया पृष्टो महामुनिः ॥ ६४॥ व्यास त्वं वेदशाखानां मुने कर्ता न संशयः । पुराणानां विभागस्य भारतस्य महामते ॥ ६५॥ वेदेषु च पुराणेषु किं सारं सर्वसम्मतम् । वद मां त्वं दयासिन्धो येन शान्तिं लभेन्नरः ॥ ६६॥ अवदत् स महाभागो गाणेशं पदमुत्तमम् । पुराणं गणनाथस्य श्रावयामास मां सुत ॥ ६७॥ ततोऽहं योगमार्गेण साधयित्वा गणेश्वरम् । मदादिं सर्वमुत्सृज्य शान्तिं प्राप्तो न संशयः ॥ ६८॥ मदेनाऽहं परिभ्रष्टः परीक्षां कर्तुमुद्यतः । सर्वज्ञोऽहं परीक्षायां समर्थः श‍ृणु पुत्रक ॥ ६९॥ अतस्त्वं भज विघ्नेशं मम पुत्र कृताज्ञया । शान्तिं प्राप्स्यसि सर्वत्र गाणपत्यो भविष्यसि ॥ ७०॥ सर्वत्र व्यापकत्वेन मदोयं संस्थितोऽभवत् । त्वया सृष्टोऽधुना पापी पीडयिष्यति निश्चितम् ॥ ७१॥ तपसा मदयुक्तेन किं कृतं पुत्र दुःखदम् । अधुना गणपं भक्त्या भज योगस्य सेवया ॥ ७२॥ इत्युक्त्वा विररामाऽथ भृगुः सर्वार्थकोविदः । शान्तिं योगप्रदः साक्षाद्गाणपत्यो महायशाः ॥ ७३॥ इदं भृगोश्चरित्रं यः श‍ृणुयाद्वा पठेन्नरः । स लभेदीप्सितं सर्वं प्रह्लादाऽत्र न संशयः ॥ ७४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भृगुचरितं नाम द्विचत्वारिंशोऽध्यायः ॥ २.४२

२.४३ च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् । तं प्रणम्य महाभक्त्या प्रपच्छ स कृताञ्जलिः ॥ १॥ च्यवन उवाच । क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया । मदस्य भागहीनौ तावश्विनौ भागसंयुतौ ॥ २॥ अधुना गणनाथस्य ज्ञानं मे वद शान्तिदम् । मदादिकं समुत्सृज्य येन शान्तो भवाम्यहम् ॥ ३॥ गृत्समद उवाच । तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राह सिद्धिदम् । योगं पूर्णं गणेशाख्यं तं श‍ृणुष्व वदाम्यहम् ॥ ४॥ भृगुरुवाच । गणेशो ब्रह्मरूपोऽयं पूर्णशान्तिमयः स्मृतः । भेदाभेदादियोगेन गणेशः प्राप्यते नरैः ॥ ५॥ मायामयमिदं सर्वं भेदाभेदमयं सुत । त्यक्त्वा गणेश्वरत्वेन न चित्तं सम्भवेत् कदा ॥ ६॥ तदा चित्तस्य वृत्तीनां पञ्चानां नाश एव च । जायते नाऽत्र सन्देहो योगशान्तिमयो भवेत् ॥ ७॥ अतस्त्वं गणराजं तं भज योगस्य सेवया । मयोक्तेन विधानेन शान्तियुक्तो भविष्यसि ॥ ८॥ इत्युक्त्वा विररामाऽथ भृगुः शान्तिसमन्वितः । तं प्रणम्य ययौ सोऽपि च्यवनः परामादृतः ॥ ९॥ वने गत्वा तपस्तप्तं तेन योगप्रदायकम् । क्रमेण चित्तभूमीनां शोधनं च कृतं बलात् ॥ १०॥ शमश्चैव दमस्तेन सेवितौ भूमिनाशनात् । सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारतः ॥ ११॥ शान्तियोगं समासाद्य तदाकारेण संस्थितः । गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ १२॥ तं गणेशो ययौ दैत्य मूषकोपरि संस्थितः । गजाननश्चतुर्बाहुः प्रतापी च महोदरः ॥ १३॥ तं दृष्ट्वा दण्डवद्भूमौ पतितश्च्यवनो मुनिः । पूजयित्वा विधानेन ततः स्तोतुं प्रचक्रमे ॥ १४॥ हेरम्बस्योपनिषदा संस्तुतो गणनायकः । ततः प्रसन्नतां यातः प्रददौ वरमुत्तमम् ॥ १५॥ गणेश उवाच । यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । योगशान्तिस्थभावेन सदा तिष्ठसि मानद ॥ १६॥ भक्तिर्मदीयपादे वै दृढा तव भविष्यति । स्मृतोऽहं पुरतो विप्र तुभ्यं दास्यामि दर्शनम् ॥ १७॥ एवमुक्त्वा गणाधीशोन्तर्धानमगमत् प्रभुः । तेनाऽपि स्थापिता मूतिर्गणेशस्य चतुर्भुजा ॥ १८॥ च्यवनाश्रमवासी स तदहात् गणपोऽभवत् । दर्शनात् स्मरणात् सद्यो भुक्तिर्मुक्तिश्च जायते ॥ १९॥ एतत्ते कथितं पुण्यं च्यवनस्य महात्मनः । आख्यानं सर्वदोषघ्नं नानासिद्धिफलप्रदम् ॥ २०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते च्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॥ २.४३ (Page खं. २ अ. ४४ पान ९३)

२.४४ मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । श्रुतं च्यवनमाहात्म्यं विश्रान्तं मे च मानसम् । मदस्य चरितं ब्रूहि किं चकार महामुने ॥ १॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी प्रतापवान् । गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥ २॥ गृत्समद उवाच । श‍ृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् । च्यवनेन स संसृष्टो मदः पातालमाययौ ॥ ३॥ विचार्य बलवान् दैत्यैर्ययौ शुक्रं महामुनिम् । तं प्रणम्य स्थितो दूरं बद्धाञ्जलिपुटो मदः ॥ ४॥ विनयेन समायुक्तं मदं दृष्ट्वा स भार्गवः । काव्यस्तं मानयामास कुतः कोऽसि वदस्व माम् ॥ ५॥ ततः स हर्षितो भूत्वा जगाद मुनिसत्तमम् । च्यवनाच्च समुत्पन्नं भार्गवं विद्धि मां मुने ॥ ६॥ तव भ्रातृसुतोऽहं वै शरणं त्वामुपागतः । शिष्यं मां कुरु योगीश येनाऽहं मानितो भुवि ॥ ७॥ ब्रह्माण्डस्य महद्राज्यं कर्तुमिच्छामि भार्गव । मदोऽहं मदरूपेण जेष्यामि त्वत्प्रसादतः ॥ ८॥ इति तस्य वचः श्रुत्वा नातिहृष्टेन चेतसा । मदं तं शिष्यभावेन जग्राह मुनिसत्तमः ॥ ९॥ शक्तिमन्त्रं ददौ तस्मै कविः सर्वार्थकोविदः । एकाक्षरविधानेन सहितं भार्गवाग्रणीः ॥ १०॥ स ययौ तं नमस्कृत्य वनं तपसि संस्थितः । निराहारयुतो दैत्यः शक्तिध्यानपरायणः ॥ ११॥ तस्य देहे समुत्पन्नो वल्मीको बहुकालतः । लतातरुसमायुक्तस्तथाऽपि तपसि स्थितः ॥ १२॥ अस्थिमात्रावशिष्टोऽभूदजपन् मनुमादरात् । ध्यानं साङ्गं चकाराऽसौ स्थिरचित्तेन तापसः ॥ १३॥ दिव्यवर्षसहस्राणि पञ्च वै तपतः किल । गतानि दैत्यराजेन्द्रातुरं सर्वं तदाऽभवत् ॥ १४॥ ततः शक्तिर्ययौ तस्याऽश्रमे भक्तिप्रभाविता । सिंहारूढा महाभागा शक्तिभिः संवृता परा ॥ १५॥ पुरुषाकृतिसंस्था तु तदधीनाश्चरन्ति ताः । पुरतो भक्तिसंयुक्ताः प्रकृतीनां महाबलाः ॥ १६॥ बोधयामास सा शक्तिरादिमाया मदं ततः । स्वभक्तं तापसं नैव स बुबोध मदासुरः ॥ १७॥ ततस्तया जलेनैव मार्जिताङ्गो महामदः । सावधानोऽभवत्तत्र दृष्ट्वा शक्तिं समुत्थितः ॥ १८॥ तां प्रणम्य महाभक्त्याऽपूजयन् भक्तिसंयुतः । कृत्वा करपुटं देवीं तुष्टाव च यथामति ॥ १९॥ मद उवाच । नमामि त्वां महामाये सर्वशक्तिसमन्विताम् । त्वदाधारमिदं सर्वं शक्तियुक्तं प्रवर्तते ॥ २०॥ अनादिमप्रमेयां त्वां न जानन्ति महर्षयः । वेदान्तवेद्यरूपां वै नमामि परमेश्वरीम् ॥ २१॥ नानाभेदकरीं देवीं नानाभेदविवर्जिताम् । भेदाभेदमयीं त्वाऽहं नमामि सकलेश्वरीम् ॥ २२॥ पार्वतीं दक्षपुत्रीं च हिमाचलसुतां तथा । समुद्रतनयां लक्ष्मीं सावित्रीं त्वां नमाम्यहम् ॥ २३॥ त्वां स्वाहां त्वां स्वधां चैव वषट्कारात्मिकां शिवाम् । बुद्धिरूपां देवमयीं ज्ञानरूपां नमाम्यहम् ॥ २४॥ सिद्धिदां सर्वकार्येषु सिद्धिरूपां तपस्विनीम् । योगिनीं योगदात्रीं वै योगेशीं त्वां नमाम्यहम् ॥ २५॥ (Page खं. २ अ. ४४ पान ९४) त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः । देवाः स्कन्दश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥ २६॥ धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् । यत्तवाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥ २७॥ इत्युक्त्वा संस्थितस्तूष्णीं भावेन स मदासुरः । तमुवाच महाशक्तिर्भक्तिभावेन यन्त्रिता ॥ २८॥ शक्तिरुवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति महाभाग सर्वकामफलप्रदम् ॥ २९॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । पठतां श‍ृण्वतां सर्वं सुखदं च महासुर ॥ ३०॥ वरान् वरय दास्यामि त्वया स्तोत्रेण तोषिता । तपसोग्रेण दैत्येन्द्र दुर्लभान् मनसि स्थितान् ॥ ३१॥ गृत्समद उवाच । देव्या वचनमाकर्ण्य हर्षितः स मदासुरः । तां प्रणम्य जगादाऽथ वरान् परसुदुर्लभान् ॥ ३२॥ मदासुर उवाच । यदि देवि प्रसन्ना त्वं यदि देया वराः पराः । तर्हि मे मरणं कुत्र न भवेत्त्वं तथा कुरु ॥ ३३॥ देहि मे सकलं राज्यं त्रैलोक्यस्य जगन्मयि । यद्यदिच्छामि तत्तद्वै प्रसिद्ध्यतु सदाशिवे ॥ ३४॥ त्वं च प्रकृतिरूपा वै त्वत्तः सर्वं समुद्भवम् । पञ्चधा तन्ममाधीनं जननि त्वं सदा कुरु ॥ ३५॥ ततस्तं जगदम्बा सोवाच विस्मितमानसा । यदुत्पन्नं महादैत्य तस्मात्ते मरणं न हि ॥ ३६॥ पञ्चधा यद्विभक्तं तत्तवाधीनं भविष्यति । यद्यदिच्छसि तत्तद्वै सफलं सर्वदा भवेत् ॥ ३७॥ आरोग्यमचलं राज्यं ब्रह्माण्डस्य भविष्यति । न समस्ते च दैत्येन्द्र युद्धे कश्चिद्भवेदपि ॥ ३८॥ इत्युक्त्वान्तर्दधे देवी जगन्माताऽसुरेश्वर । मदश्च हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ ३९॥ प्रमादासुरकन्यां वै सालसां रूपशालिनीम् । उपयेमे विधानेन दैत्यैः सम्मानितो भृशम् ॥ ४०॥ विलासदं ततस्तेन नगरं वासितं बभौ । तत्राययुश्च वासार्थं दिग्भ्यो दैत्या महासुराः ॥ ४१॥ अमात्यास्तस्य चत्वारः सञ्जाता लोकविश्रुताः । बाणस्त्रिपुरनामा वै तारकः शङ्खसंज्ञकः ॥ ४२॥ दैत्यैस्तत्र समानीतः कविः परमयोगवित् । ब्राह्मणैः सह तं राज्ये सिषेच स मदासुरम् ॥ ४३॥ दैत्यानां राक्षसानां चासुराणां पतिरादरात् । जातो मदासुरस्तत्र हर्षिता दैत्यपा बभुः ॥ ४४॥ पुत्रास्त्रयः समुत्पन्नाः सालसायां मदासुरात् । विलासी लोलुपश्चैव धनप्रिय इति स्मृताः ॥ ४५॥ एवं राज्यं चकाराऽसौ दैत्यानामसुरेश्वरः । गर्वेण तेन वा को वै न दध्रे बलसंयुतः ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरस्य राज्याभिषेको नाम चतुश्चत्वारिंशोऽध्यायः ॥ २.४४ (Page खं. २ अ. ४५ पान ९५)

२.४५ मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः कदाचिद्दैत्येन्द्रैर्बोधितोऽभून् मदासुरः । विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्वितः ॥ १॥ स शुक्रमुपसङ्गम्य तं प्रणम्य विशेषतः । सङ्गृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥ २॥ नानादिग्भ्यः समायाता असुरा दैत्यपास्ततः । सन्नद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥ ३॥ चतुरङ्गबलैर्युक्तः सङ्ख्यातीतैर्मदासुरः । निर्ययौ दिग्जयार्थं स संस्तुतो बन्दिभिर्नृपः ॥ ४॥ दैत्याः केऽपि महाघोरा निःसृतास्तत्पुरो बभुः । मेरुमन्दरसङ्काशा यमाय भयदायकाः ॥ ५॥ नानाशस्त्रास्त्रसंयुक्ताः कवचादिसमावृताः । नानावाहनगास्ते वै कम्पयन्तो वसुन्धराम् ॥ ६॥ केचित्पाषाणहस्ताश्च केचिद् वृक्षधरास्तथा । पर्वतस्य धराः केचिन् महाबलपराक्रमाः ॥ ७॥ नानाभयङ्कराकारा बभुः सैन्ये समन्ततः । तदा संशयिताः सर्वे ब्रह्माण्डे लोकसङ्कुले ॥ ८॥ पृथिवीजयने सक्ता दैत्याः परमदारुणाः । आदौ तत्रासुरेशानमदासुरसुचोदिताः ॥ ९॥ केचित् कृत्वा मृता युद्धं केचित्तान् शरणं ययुः । राजानो भयसंयुक्ताः केचिच्च्यवनमाश्रिताः ॥ १०॥ प्रलयं मेनिरे लोका भूमिस्थाः सर्वशस्तदा । दैत्या भूमण्डलं जित्वाऽभवंस्ते हर्षसंयुताः ॥ ११॥ सप्तद्वीपवतीं पृथ्वीं जित्वा दैत्या महासुराः । देवानां जयने बुद्धिं चक्रुः परमदारुणाः ॥ १२॥ वायुवेगसमाः सर्वे गताः स्वर्गं क्षणार्धतः । वनानि ते बभञ्जुश्च देवोद्यानानि दैत्यप ॥ १३॥ देवैः संज्ञापितस्तत्र सुरेन्द्रः क्रोधसंयुतः । युद्धाय शस्त्रसंयुक्तैर्देवैर्वै तत्परोऽभवत् ॥ १४॥ बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः । सुरेश्वरो द्विजेन्द्रेण मानितो भक्तिसंयुतः ॥ १५॥ तत इन्द्रं जगादाऽसौ महाकान्तिर्बृहस्पतिः । श‍ृण देवेन्द्र वाक्यं मे कालकर्मयुतं महत् ॥ १६॥ शक्तेः स वरदानेन दुर्जयः स मदासुरः । अतः सर्वं परित्यज्य पलायध्वं सुरेश्वराः ॥ १७॥ एवमुक्ते च जीवेन पलायन्त च देवताः । बृहस्पतिसमायुक्तास्त्यक्त्वा स्वर्गादिकं भयात् ॥ १८॥ ततो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितम् । दैत्यैर्युक्तः सुसंहृष्ट आययावमरावतीम् ॥ १९॥ तत्रेन्द्रासनगो भूत्वा रराज स मदासुरः । सेव्यमानोऽप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥ २०॥ विविधैर्दिव्यभोगैः स सेव्यमानोऽमरैस्तथा । बलदर्पसमायुक्तो दैत्यैर्नानाविधैर्बभौ ॥ २१॥ देवानां स पदेष्वेव स्थापयामास दैत्यपान् । तारकाद्या महावीर्याः संस्थिता बुभुजुः सुखम् ॥ २२॥ ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महत् । विधाता स्थानमुत्सृज्य कैलासं तद्भयाद्ययौ ॥ २३॥ सत्यलोके सुराः सर्वे बभ्रमुर्यत्र तत्र वै । नानाभोगयुता दुष्टा रेजिरे मदसंयुताः ॥ २४॥ विमानैर्वाह्यमानास्ते मनोवेगैः सुखप्रदैः । कामगैश्च महादैत्या मेनिरे कृतकृत्यताम् ॥ २५॥ मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः । मुदं लेभेऽसुरेशानैः संवृतः कालभीतिदैः ॥ २६॥ (Page खं. २ अ. ४५ पान ९६) ततस्तैः संवृतो दैत्यो ययौ वैकुण्ठमादरात् । ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥ २७॥ सोऽपि कैलासमगमद्विष्णुः स्वैः पार्षदैर्वृतः । मदासुरो महादुष्टो वैकुण्ठे संस्थितोऽभवत् ॥ २८॥ नारायणासने संस्थो दैत्यराजैर्महाबलैः । संवृतः शुशुभेऽतीव नानाभोगसमन्वितः ॥ २९॥ सुखं चानुपमं तत्र वैकुण्ठे विष्णुना कृतम् । तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः ॥ ३०॥ विमानानि विचित्राणि देवोद्यानानि सर्वशः । कल्पवृक्षयुतान्येते दैत्यपाः समभुञ्जत ॥ ३१॥ ततस्तैः सहितो वीरः प्रतापी स मदासुरः । कैलासं शङ्करस्थानं ययौ रणविधित्सया ॥ ३२॥ शिवोऽपि स्वगणैर्युक्तो देवैर्विष्ण्वादिभिर्वृतः । शक्तिलोकं जगामाऽथ भयसङ्कुलितो मदात् ॥ ३३॥ दैत्येश्वरो महादैत्यैः कैलासे संस्थितोऽभवत् । अतुलं सुखमत्यन्तं बुभुजे तैः समन्वितः ॥ ३४॥ शिवेन रचितं पुण्यं कैलासे कल्पितप्रदम् । नानाश्चर्ययुतं हृष्टो दैत्यस्तद्बुभुजे बलात् ॥ ३५॥ मोहितो भोगभावेन धन्यं चैव मदासुरः । मेने स्वं सर्वदनुजैस्त्रिपुरप्रमुखैः खलैः ॥ ३६॥ देवाः सर्वे ययुः शक्तेर्लोकं तद्भयसङ्कुलाः । शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिताऽभवत् ॥ ३७॥ शिवादीनादिमाया सा जगाद वदतां वरा । जगतश्च जगन्माता सृष्टिस्थित्यन्तकारिणी ॥ ३८॥ आदिशक्तिरुवाच । मा भयं देवदेवेशाः कुरुध्वं मम सन्निधौ । तिष्ठताऽत्र न दैत्योऽयं कदापि त्वागमिष्यति ॥ ३९॥ मदीयवरदानेन गर्वयुक्तो बभूव ह । मदासुरो महाभागो वचो मम करिष्यति ॥ ४०॥ आगमिष्यति दैत्यश्चेत्तदा मां पूजयिष्यति । मदीयमवमानं वै न करिष्यति देवपः ॥ ४१॥ कदाचित्तेन गर्वेण ममलोकनिवासिनः । पीडिताश्चेत् क्षणं सद्यो हनिष्यामि न संशयः ॥ ४२॥ एवमाश्वासिता देवाः शक्त्या ते तत्र संस्थिताः । भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः ॥ २.४५ (Page खं. २ अ. ४६ पान ९७)

२.४६ तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैलासे दैत्यपैर्युक्तः संस्थितोऽभून मदासुरः । कियत्कालं प्रभुञ्जानो भोगान् परमदुर्लभान् ॥ १॥ गते कियति काले च त्रिपुराद्यास्तमब्रुवन् । देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥ २॥ त्रिपुराद्या ऊचुः । श‍ृणु राजन् महाभाग मदासुर हितं वचः । देवाः शम्भुमुखाः सर्वे शक्तिलोकं गता बभुः ॥ ३॥ तत्र शक्त्या विशेषेण मानिताः सुरसत्तमाः । भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥ ४॥ अस्माकं शत्रवः सर्वे देवा दैत्य मताः सदा । दैत्यानां कदने सक्ताः समर्थाश्चेन्न संशयः ॥ ५॥ हिरण्याक्षादयः सर्वे सूदिता देवपैः पुरा । छिद्रदर्शनसंयुक्तैरस्माकं तैर्विशेषतः ॥ ६॥ सर्वत्र ख्यातिमत्यन्तं जानन्ति सकला जनाः । देवानां वैरिभावं च परस्परवधे रतम् ॥ ७॥ अस्माकं शक्तिरत्यन्तं वैरिभावे प्रवर्तिता । मान्या तदपि दैत्येन्द्र देवानां सा हिते रता ॥ ८॥ अतः शक्तिपुरे स्वामिन् गमिष्यामो न संशयः । हनिष्यामोऽमरान् सर्वान् वैरिभावं समाश्रितान् ॥ ९॥ दैत्यानां वचनं श्रुत्वा प्रतापी स मदासुरः । उवाच तान् महादैत्यो विनयेन समन्वितः ॥ १०॥ मदासुर उवाच । श‍ृणुध्वं त्रिपुराद्या मे वचनं हितकारकम् । शक्तिप्रसादसम्भूतमैश्वर्यं सकलं च मे ॥ ११॥ इष्टा देवी मदीया सा तां भजामि विशेषतः । अतस्तस्या हितं मान्यं कर्तव्यं सकलैः सदा ॥ १२॥ तां च देवा ययुः सर्वे शरणं नात्र संशयः । मदीयदासभावेन यन्त्रिता शक्तिरादरात् ॥ १३॥ देवानां पक्षपातेन सह तैर्नागताऽभवत् । अस्माकं तु वधार्थाय महामाया च दानवाः ॥ १४॥ अतः प्रभजने तस्या आसक्ता ये भवन्ति वै । ते सम्मान्या मया नित्यं मा वैरं कुरुताऽसुराः ॥ १५॥ मदासुरवचः श्रुत्वा दैत्यपास्तं पुनर्जगुः । क्रोधयुक्ता मदोत्सिक्ता देवानां तु वधे रताः ॥ १६॥ दैत्येशा ऊचुः । मदासुर श‍ृणु स्वामिन् पुरावृत्तं कथानकम् । हिरण्यकशिपुः प्रोक्तो ब्रह्मलब्धवरो महान् ॥ १७॥ अभवन् बहवश्चान्ये दैत्येशा देवशत्रवः । देवपक्षाश्रयं सर्वे त्यक्त्वा स्वं धर्ममाश्रिताः ॥ १८॥ कश्यपस्य सुतौ चैव तावुभौ देवसंश्रयम् । त्यक्त्वा तु देवसंहारे दैत्येशौ तत्परौ पुरा ॥ १९॥ अतस्त्वयाऽपि कर्तव्यं देवानां मूलनाशनम् । असुराश्च सुराः प्रोक्ता वेदेऽपि च विरोधिनः ॥ २०॥ शक्तिलोकं गमिष्यामो भक्तियुक्ता वयं प्रभो । देवास्तान्निर्दलिष्यामः खलु शक्तेः प्रसन्निधौ ॥ २१॥ यदि शक्तिर्महामायाऽस्माकं पक्षं समाश्रिता । तदा तां पूजयिष्यामः कुलदैवतमादरात् ॥ २२॥ अन्यथा योधयिष्यामो वयं शक्त्या न संशयः । शत्रुपक्षाश्रितां ज्ञात्वा नाऽत्र दोषः प्रवर्तते ॥ २३॥ दैत्येशानां वचः श्रुत्वा दुर्मतिः स मदासुरः । तथेति सत्यमत्यन्तं मानयामास दैत्यपः ॥ २४॥ तदैव दैत्यसंयुक्तो ययौ लोकं मदासुरः । शक्तेश्च सन्निधौ दूतं प्रेषयामास दुर्मतिः ॥ २५॥ (Page खं. २ अ. ४६ पान ९८) तारकं प्रजगादाऽसौ गच्छ देवीं महाबल । सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥ २६॥ तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् । तारको मानितस्तैस्तु देवैः परमदारुणः ॥ २७॥ नत्वा शक्तिं महामायां कृताञ्जलिपुटोऽसुरः । तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥ २८॥ तारकासुर उवाच । श‍ृणु शक्ते महामाये आगतः स मदासुरः । दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥ २९॥ तेनोदितं च शक्ते त्वं वचनं श‍ृणु मानदे । भक्तेन भक्तिसंयुक्तं भावज्ञे जगदम्बिके ॥ ३०॥ अस्माकं कुलदेवी तु त्वमेवात्र न संशयः । असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥ ३१॥ यत्राऽसुरा विराजन्ति सुरास्तत्र हतप्रभाः । भवन्ति नात्र सन्देहः स्वभावाच्छत्रवो मताः ॥ ३२॥ अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिताऽसुरैः । अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥ ३३॥ प्रणमन्तो वयं यावत्तावद्देवनिकृन्तनम् । करिष्यामो न सन्देहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥ ३४॥ एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदम्बिके । असुराणां सुराणां वा पूजिता सततं परे ॥ ३५॥ इत्येवं कथितं देवि मदस्य वचनं मया । कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥ ३६॥ गृत्समद उवाच । मदस्य वचनं क्रूरं तारकेण प्रकाशितम् । तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥ ३७॥ शक्तिरुवाच । मदीयं जगदम्बेति नाम वेदे प्रकाशितम् । केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥ ३८॥ यथा देवास्तथा दैत्या मान्या मे नात्र संशयः । देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥ ३९॥ पाताले राज्यमानन्दाद्दैत्यैः कर्तव्यमञ्जसा । स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥ ४०॥ विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः । अतो दैत्यैः प्रगन्तव्यं पाताले वै मदाज्ञया ॥ ४१॥ शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः । उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥ ४२॥ तारक उवाच । मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते । तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥ ४३॥ कर्मणा त्वं प्रसृजसि जगन्ति जगदम्बिके । कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥ ४४॥ कर्मणा दैत्यराजश्च प्रतापी स मदासुरः । ब्रह्माण्डाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥ ४५॥ युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि । असुरैश्च महाभागैर्गच्छामि मदसन्निधौ ॥ ४६॥ एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः । जगाम शक्तिलोकाद्वै मददैत्यस्य सन्निधौ ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ २.४६ (Page खं. २ अ. ४७ पान ९९)

२.४७ इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः । दैत्यैः सह महासाधो प्रह्लन्नश्चाभवत् खलः ॥ १॥ मदासुरं प्रणम्याऽसौ कथयामास तारकः । वृत्तान्तं देवपक्षे च संश्रितं कुलदैवतम् ॥ २॥ तच्छ्रुत्वा मद्यपो दैत्यः प्रतापी स मदासुरः । क्रोधयुक्तोऽभवत्तत्र देवान् हन्तुं समुद्यतः ॥ ३॥ सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः । शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥ ४॥ पुरःप्रान्ते स्थितान् शक्तेर्गणान् परमविश्रुतान् । ताञ्जघ्नुश्च महादैत्याः शस्त्रैः परमदारुणैः ॥ ५॥ छिन्नाङ्गास्ते पलायन्त गताः स्वनगरेऽभवन् । वृत्तान्तं कथयामासुर्दैत्यानामागमात्मकम् ॥ ६॥ श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः । शङ्करादिभिरन्वीता ययौ सङ्ग्राममण्डलम् ॥ ७॥ सिंहारूढा चतुर्बाहुः खड्गचर्मधरा बभौ । धनुर्बाणधरा क्रोधान्नानाशक्तिसमन्विता ॥ ८॥ वामाङ्गाच्छ्रीः समुत्पन्ना सावित्री दक्षिणाङ्गतः । हृदयात् पुरतः संज्ञा तासां सैन्यं पृथग्बभौ ॥ ९॥ विष्णुशङ्करमुख्याश्च सन्नद्धा वाहने स्थिताः । स्वस्वसैन्येन संयुक्ता बभुः कालसमाः पुरः ॥ १०॥ इत्यादिशक्तिभिः शक्तैर्देवैर्वै संयुतं महत् । सैन्यं दैत्येन्द्रमुख्यैस्तैर्दृष्टं परमदारुणम् ॥ ११॥ ततो दैत्यैश्च शस्त्रौघैस्ताडितं सहसा बलात् । शक्तिसैन्यं महाघोरं क्रोधयुक्तं बभूव ह ॥ १२॥ शक्त्या सम्प्रेषिता देवा युयुधू रणमण्डले । कालिकाद्या महायुद्धे शक्तयः कुपिता भृशम् ॥ १३॥ अकस्मान्मिलिते सैन्ये परस्परजयैषिणी । दैत्यानां चैव देवानां मरणे कृतनिश्चये ॥ १४॥ सैन्यानां रजसा तत्र हृतं ज्ञानं समन्ततः । न प्रकाशो रवेरासीत् स्वपरज्ञानकारकः ॥ १५॥ हेषितैः क्ष्वेडितैस्तत्र बृंहितै रथनेमिभिः । वादित्राणां महाशब्दैर्नादयुक्ता दिशोऽभवन् ॥ १६॥ शङ्खनादैः सिंहनादैर्नानानादैश्च दैत्यप । बधिरा इव योधास्ते सञ्जाता रणमूर्धनि ॥ १७॥ शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुः समन्ततः । द्रुमैः पर्वतखण्डैश्च स्वान् परान् युद्धदुर्मदाः ॥ १८॥ मृताः केचित् क्षताः केचित् केचिच्छस्त्रधरा बभुः । निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः ॥ १९॥ भग्ने शस्त्रे समग्रे ते मल्लयुद्धपरायणाः । युयुधुः क्रोधसंयुक्ताः शस्त्रहीनास्तथाऽपरे ॥ २०॥ कबन्धा युयुधुस्तत्र शस्त्रहस्ता महाबलाः । स्वान् परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः ॥ २१॥ बाणैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परम् । खड्गैः खड्गांस्तथा चान्ये गदाभिश्च गदा भृशम् ॥ २२॥ तोमरैश्च महावीराः पर्शुभिस्तु तथाऽपरे । भिन्दिपालैश्च पाशैश्च परिजघ्नुः परस्परम् ॥ २३॥ रथारूढा गजारूढैर्गजारूढाः पदातिभिः । अश्वारूढैस्तथाऽन्येऽपि युयुधुर्जातसम्भ्रमाः ॥ २४॥ तुमुलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् । उभयोर्नाशकं घोरं वक्तुं नैव प्रशक्यते ॥ २५॥ प्रवाहबहुलै रक्तै रजः सम्प्लावितं महत् । प्रकाशस्तत्र सञ्जातः स्वपरज्ञानकारकः ॥ २६॥ (Page खं. २ अ. ४७ पान १००) प्रबोध्य केचिद्दैत्यांस्तान सुरा जघ्नुर्महाबलाः । असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥ २७॥ शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजह्रिरे । शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥ २८॥ दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमण्डलम् । छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥ २९॥ मेरुशीताचलप्रख्या दैत्या देवाः स्थिता बभुः । चेलुर्न च पदं तत्र परस्परवधे रताः ॥ ३०॥ अभवन् शोणितौघानां महानद्यः समन्ततः । देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥ ३१॥ मेदोमांसमहापङ्काः प्रपेतुर्धरणीतले । देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥ ३२॥ मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे । मृतानां न च सङ्ख्याऽऽसीन् मार्गरोधनकारिणाम् ॥ ३३॥ असृक्प्रवाहजस्तत्र पूरः सन्ददृशे जनैः । जलौघ इव दैत्येन्द्र महामोहप्रवर्धनः ॥ ३४॥ मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च । नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥ ३५॥ मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खण्डिताः । तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुरादृताः ॥ ३६॥ एवं दश दिनान्येव दिवारात्रं महारणम् । बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥ ३७॥ पलायनपरा देवास्ततो जाता महारणे । दशदिक्षु भयोद्विग्नाः पलायन्ताऽसुरेश्वर ॥ ३८॥ तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः । सङ्ग्राममकरोद्घोरं दैत्यनाशकरं परम् ॥ ३९॥ वज्रपातेनासुरान् स चूर्णयामास वेगतः । देवेन्द्रो विविधैरन्यैर्यमाद्या आयुधैस्तथा ॥ ४०॥ मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः । मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥ ४१॥ शक्त्यादिशस्त्रपातेन वह्निचन्द्रयमादयः । असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥ ४२॥ ततो भग्नं बलं सर्वं दैत्यानां भयसङ्कुलम् । दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥ ४३॥ ततः संहर्षिता देवास्तथा देवगणाः परे । जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥ ४४॥ ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः । आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥ ४५॥ आगत्य रणभूमिं स तमुवाच पुरन्दरम् । गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥ ४६॥ तारक उवाच । किं त्वं युध्यसि देवेन्द्र दैत्यपैः परमादृतैः । मया युक्तैकबाणेन न समोऽसि सुराधिप ॥ ४७॥ बलेन यदि संयुक्तस्तदा किममरावतीम् । त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥ ४८॥ इति तस्य वचः श्रुत्वा सुरेन्द्रस्तमुवाच ह । क्रोधसंरक्तचक्षुर्भिर्भक्षयन्निव दानवान् ॥ ४९॥ इन्द्र उवाच । तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् । आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥ ५०॥ पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् । हत्वाऽभिवाद्य शक्तिं च गमिष्याम्यमरावतीम् ॥ ५१॥ (Page खं. २ अ. ४८ पान १०१) आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् । अधुना शक्तिसंयुक्तः कदनं ते करोम्यहम् ॥ ५२॥ किं बहूक्तेन दैत्येन्द्र दर्शय स्वपराक्रमम् । नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते इन्द्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥ २.४७

२.४८ इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं गदित्वा देवेन्द्रो दैत्येन्द्रं क्रोधसंयुतम् । तारकं शरवर्षेण ववर्ष रणमण्डले ॥ १॥ एकस्मान् मन्त्रिताद्बाणादनन्तैर्निःसृतैः शरैः । बभूवुर्दैत्यसङ्घाताः पीडितास्तैः समन्ततः ॥ २॥ ततो दैत्यः स दैत्येशाः प्रधानप्रमुखाः स्थिताः । शरवर्षाणि सर्वत्र चक्रुः परमदारुणाः ॥ ३॥ तैबाणैर्देवसैन्यानां हता वीरा अनेकशः । छिन्नाङ्गाः पतितास्तत्र रुधिरौघप्रवर्षिणः ॥ ४॥ यत्र तत्र पलायन्त देवा भयसमाकुलाः । त्रातारं नाभ्यपद्यन्त प्रलयेषु यथा प्रजाः ॥ ५॥ तेषां तत्कर्म दृष्ट्वा ते ववृषुः सुरपा शरान् । अग्निधर्मादयस्तत्र कालमृत्यूपमान दृढान् ॥ ६॥ तैराहतं बलं पूर्णं दैत्यानां यत्र तत्र ते । मृता मुमूर्षवः सर्वे बभूवू राक्षसा मृधे ॥ ७॥ ततोऽतिकुपितो दैत्यस्तारकोऽतिभयानकः । निष्कास्य सुदृढं बाणं मोचयामास दारुणम् ॥ ८॥ आकर्णं धनुराकृष्य दीप्तो बाणो सुरेश्वर । इन्द्रस्य सहसागत्य हृदि सम्पतितोऽभवत् ॥ ९॥ तेन सम्पीडितो देवो मूर्च्छितो देवनायकः । मुहूर्तात् सावधानोऽभूद्वज्रं हस्ते समाददे ॥ १०॥ वज्रेण ताडितोऽत्यन्तं तारको दैत्यपुङ्गवः । पतितः स धरापृष्ठे गतप्राण इवाऽभवत् ॥ ११॥ एवं वरुणवन्ह्याद्यैर्वायुधर्मकुबेरकैः । हता दैत्या अनेके च पतिता मूर्च्छिता मृताः ॥ १२॥ हाहाकारश्च सर्वत्र दैत्यसैन्ये प्रवर्तितः । पलायन्त च दिक्प्रान्ते त्रासिता देवनायकैः ॥ १३॥ ततः शुक्रेण ते सर्वे तारकाद्या महासुराः । विद्यया सावधानाश्च कृता युद्धाय सज्जिताः ॥ १४॥ अग्निमन्त्रसमायुक्तं बाणं धनुषि सन्दधे । तारकः क्रोधसंयुक्तो दाहकं स मुमोच ह ॥ १५॥ पतितो देवसैन्ये च बाणस्तस्मान् महाबलः । निःसृतः पुरुषस्तत्र भक्षयामास वै सुरान् ॥ १६॥ मेरुमन्दरसङ्काशो विचचार महाबलः । देवसैन्येषु दैत्येन्द्र प्रलयाग्निसमोऽदहन् ॥ १७॥ अग्निज्वालाश्च सर्वत्र समुद्भूता भयानकाः । अदहद्देवसङ्घांस्तान् वाहनैः सहितान् मृधे ॥ १८॥ हाहाकाररवा देवाः पलायनमकुर्वत । (Page खं. २ अ. ४८ पान १०२) तत्रापि पुरुषोऽत्यन्तं भक्षयामास चामरान् ॥ १९॥ ततः क्रोधसमायुक्तो महेन्द्रो वारुणं महत् । अस्त्रं धनुषि सङ्गृह्य मृधे तत्याज दारुणम् ॥ २०॥ तस्माच्च जलधाराऽभूत् समन्तान्निःसृता बहु । ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥ २१॥ जलौघेन महावह्निः प्रशान्तः सहसा कृतः । अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥ २२॥ ततो देवगणाः सर्वे सावधाना बभूविरे । दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥ २३॥ विद्युज्ज्वालाभिरत्यन्तं दग्धाः केचिन् महासुराः । जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥ २४॥ दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च । हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥ २५॥ ततः स तारको दैत्यः क्रोधसंरक्तलोचनः । वाय्वस्त्रं तन्निवृत्त्यर्थं सन्दधेऽतिभयानकम् ॥ २६॥ मुमोच धनुराकृष्य देवसैन्ये महासुरः । तेन वारुणमस्त्रं च ग्रस्तं वै शान्तिमागमत् ॥ २७॥ वायुना प्रबलेनैव घूर्णिता देववाहिनी । शुष्कपत्रसमा तत्र बभ्राम समराङ्गणे ॥ २८॥ ततः समागतो दैत्यस्तारकोऽतिभयानकः । खड्गेन देवराजं तं जघानार्मषतो दृढम् ॥ २९॥ खड्गाघातेन देवेन्द्रं पतितं मूर्च्छया भृशम् । सङ्गृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥ ३०॥ मदासुरस्य सान्निध्ये स्थापयामास देवपम् । मदेन मूर्च्छितो देवो बद्धः पाशैः समन्ततः ॥ ३१॥ ततो हाहाकृतं सर्वैः पलायत दिशो दश । सैन्यं देवगणानां वै विनाथं भयसङ्कुलम् ॥ ३२॥ यमं च सहसाऽऽगत्य गदया हृदि विव्यथे । तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥ ३३॥ सङ्गृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः । एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥ ३४॥ अनाथं देवसैन्यं तत् पलायत भयाकुलम् । मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥ ३५॥ एवं निर्जित्य दैत्येन्द्रा जहृषुर्नादसंयुताः । देवाः सर्वे भयोद्विग्नाः शरणं शङ्करं ययुः ॥ ३६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते इन्द्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥ २.४८ (Page खं. २ अ. ४९ पान १०३)

२.४९ शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । विष्णुना सहितो देवैस्ततः सर्वैः सुसंवृतः । गणैः सुदारुणैस्तत्र ययौ शम्भू रणस्थलम् ॥ १॥ समागतं शिवं ज्ञात्वा तारकः क्रोधसंयुतः । उवाच तं महादेवं गर्वयुक्तेन चेतसा ॥ २॥ तारक उवाच । किमागतोऽसि सङ्ग्रामे मदेन त्वं सदाशिव । सिंहेन शशको युद्धं किं करिष्यति मां वद ॥ ३॥ मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितम् । संहारकारिणं सद्यो महासंहारकारकः ॥ ४॥ वचः श्रुत्वा त्रिशूलेन तारकः शम्भुना हतः । स मृतस्तत्क्षणाद्दैत्यः पतितो भग्नवृक्षवत् ॥ ५॥ ततश्चक्रेण देवेशः केशवो दैत्यनायकान् । मारयामास सङ्क्रुद्धः सकलान्यत्र तत्र च ॥ ६॥ ततोऽतिभयसंयुक्ताः पलायन्त दिशो दश । दत्याः प्राणपरीप्सार्थं हाहाकारकरा भृशम् ॥ ७॥ देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः । शुक्रस्य तु भयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः ॥ ८॥ देवेशानां च दैत्येशा दृष्ट्वाऽतीवपराक्रमम् । बाणस्त्रिपुरशङ्खौ च ससैन्या आययुर्मृधे ॥ ९॥ कोलाहलं प्रकुर्वाणाः शङ्खशब्दैः समन्ततः । ववृषुः शस्त्रधाराभिर्वर्षाकाले यथा घनाः ॥ १०॥ ततः परस्परं युद्धं नियतं सम्बभूव ह । देवानां चैव दैत्यानां विनाशकरमद्भुतम् ॥ ११॥ बाणः सूर्यं ययौ क्रुद्धः शङ्खो विष्णुं महाबलः । रुद्रं च त्रिपुरो वेगात् परसैन्यनिबर्हणः ॥ १२॥ अन्ये च शतशस्तत्र दैत्या देवान् समाययुः । गदितुं न भवेच्छक्यं बहुत्वाद्युद्धमद्भुतम् ॥ १३॥ क्रोधयुक्ता निजघ्नुस्ते दानवा देवमुख्यकान् । शस्त्रास्त्रैर्विविधैः क्रुद्धा वृक्षैर्वै पर्वतैर्मृधे ॥ १४॥ दैत्यानां बलमुत्कृष्टं ज्ञात्वा देवा महाबलाः । यत्नयुक्ताश्च सङ्ग्रामे युयुधुः शस्त्रपाणयः ॥ १५॥ एवं त्रिदिवसं युद्धं सञ्जातं दारुणं महत् । देवसेना ततो भग्ना भयभीता समन्ततः ॥ १६॥ जघान शङ्करोऽत्यन्तं क्रोधयुक्तो महाबलम् । गदया त्रिपुरं तत्र ततः परमदुर्जयम् ॥ १७॥ जघान गदया शम्भुं सोऽपि तं च पराक्रमी । गदायुद्धं महत्तत्र बभूवाऽतिभयानकम् ॥ १८॥ ततस्त्रिशूलघातेन हतो दैत्यः पपात ह । त्रिपुरो मूर्च्छयात्यन्तं पीडितः शङ्करेण सः ॥ १९॥ ज्वालया रविणा तत्र बाणो भूमौ निपातितः । चक्रेण विष्णुना दुष्टः शङ्खः समर्दितोऽभवत् ॥ २०॥ धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेऽमराः । पाशैर्बद्ध्वा ततो दुष्टान् पुनरुत्पातशङ्कया ॥ २१॥ ततो दैत्या हताः सर्वे देवैर्दैवगणैर्मृधे । मृता मुमूर्षवः केचिच्छरणं ते ययुः सुरान् ॥ २२॥ विजयं प्राप्य देवेन्द्रा हर्षिताः सम्बभूविरे । जगर्जुर्जयशब्देन प्राट्टहासं प्रचक्रिरे ॥ २३॥ ततो मदासुरः क्रुद्धो ज्ञात्वा वृत्तान्तमद्भुतम् । संरक्तनयनो दुष्टो ययौ रणविधित्सया ॥ २४॥ शुक्रेण सहितः सोऽपि महावीरैः समावृतः । रथारूढः स्वपुत्रैश्च सङ्ग्रामे सन्दधे मनः ॥ २५॥ ततस्तं दैत्यमुख्यं वै तनयाश्च समाययुः । सङ्ग्रामार्थं महावीर्यास्त्रयो देवैः शिवादिभिः ॥ २६॥ (Page खं. २ अ. ४९ पान १०४) धनप्रियश्च सङ्ग्रामे सूर्यं विव्याध सायकैः । उवाच गर्वसहितो रविं त्रैलोक्यभाविनम् ॥ २७॥ धनप्रिय उवाच । श‍ृणु दुष्टार्यमंस्त्वं मे वचनं हितकारकम् । गच्छ शीघ्रं महाबाहो नोचेन् मृत्युमुपेष्यसि ॥ २८॥ त्वया दैत्या हताः पूर्वं भुङ्क्ष्व तेषां फलं महत् । न मुञ्चामि महादुष्ट जीवन्तं त्वां च काश्यप ॥ २९॥ ततः सूर्येण खड्गेन हतो दैत्यो महाबलः । पपात मूर्च्छयाऽऽविष्टः पुनः संज्ञां च सोऽलभत् ॥ ३०॥ आगत्य काश्यपं दैत्यपुत्रो वेगसमन्वितः । खड्गेन तीक्ष्णधारेण जघान दृढमञ्जसा ॥ ३१॥ दृढाघातेन सूर्यः स पतितो मूर्च्छया भृशम् । तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ ॥ ३२॥ प्रणम्य पितरं पुत्रो ननन्द ह धनप्रियः । पाशैर्बद्ध्वा दृढं सूर्यं चिक्षेप विवरेऽसुरः ॥ ३३॥ विलासी विष्णुमागत्य क्रोधेन महताऽऽवृतः । बाणजालैः समाच्छाद्योवाच तं दारुणं वचः ॥ ३४॥ त्वया विष्णो मदीया वै सेना सन्नाशिता बलात् । गृहीता दैत्यवर्याश्च नाऽहं तत्र स्थितोऽभवम् ॥ ३५॥ अधुना शस्त्रघातेन हतस्त्वं गच्छसि प्रभो । मृत्योर्भुवनमुग्रं यन्न त्वां मुञ्चामि कर्हिचित् ॥ ३६॥ ततः क्रोधसमाविष्टो विष्णुश्चक्रेण दैत्यपम् । विलासिनं जघानाऽथ चक्रे सम्मूर्च्छितं खलम् ॥ ३७॥ क्षणेन सावधानोऽभूदागत्य गदया विभुम् । हृदि विव्याध दुष्टोऽसौ पपात गरुडाद्धरिः ॥ ३८॥ तं धृत्वा दैत्यपुत्रः स ययौ स्वस्थानमुत्तमम् । पितरं प्रणनामाऽथ पित्रा सम्मानितोऽभवत् ॥ ३९॥ बद्ध्वा पाशैर्महाविष्णुं चिक्षेप विवरे मदः । दैत्या हर्षसमायुक्ता जगर्जुश्च भयानकम् ॥ ४०॥ लोलुपश्च समागम्य शङ्करं वृषभध्वजम् । उवाच कोपरक्ताक्षः श‍ृणु त्वं नीललोहित ॥ ४१॥ मदीयमतुलं सैन्यं त्वया युधि निपातितम् । अधुना त्वां हनिष्यामि फलदाता भवाम्यहम् ॥ ४२॥ ब्रुवन्तं तं ततो मूर्खं त्रिशूलेन जघान ह । शङ्करः क्रोधसंयुक्तः सोऽपतन् मूर्च्छया भृशम् ॥ ४३॥ शुक्रेण सहसाऽऽगत्य सावधानः कृतोऽसुरः । लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् ॥ ४४॥ अकस्माज्जलधिस्तत्र व्याप्तः सर्वभयावहः । अग्निश्च सर्वतः सर्वान् दाहयामास भैरवः ॥ ४५॥ नानाशस्त्रधरा अन्ये नग्नास्ते शूलपाणयः । नग्नास्त्रियश्च शस्त्रौघैर्मारयामासुरञ्जसा ॥ ४६॥ शङ्करो विस्मितो भूत्वा पश्चाद्भयसमन्वितः । मोहितो मायया तत्र लोलुपेनासुरेश्वर ॥ ४७॥ एतस्मिन्नन्तरे तत्र समुद्रे सर्वतः स्थिते । ममज्ज तत्र देवेशः शिवः प्रह्लाद मोहतः ॥ ४८॥ कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे । मज्जन्तं शङ्करं धृत्वा लोलुपः स्वस्थलं ययौ ॥ ४९॥ पित्राऽसौ मानितोऽत्यन्तं पाशैर्बद्ध्वा सदाशिवम् । (Page खं. २ अ. ५० पान १०५) चिक्षेप विवरे दैत्यो लोलुपः सर्वलोलुपः ॥ ५०॥ ततो हाहारवं कृत्वा देवा देवागणा मृधे । शरणं जगदम्बां ते ययुः सन्त्रासतापिताः ॥ ५१॥ दैत्येन्द्रा हर्षिताः सर्वे जगर्जुर्घनवद्भृशम् । कुर्वन्तो वाद्यशब्दान् वै जयशब्दकरा भृशम् ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शिवादिदेवपराजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ २.४९

२.५० मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । शिवविष्ण्वादिदेवेषु गृहीतेषु महाबलैः । दैत्यपुत्रैः सुराणां च सैन्ये त्रासः प्रवर्तितः ॥ १॥ देवा देवगणाः केऽपि क्षता भग्नास्तथाऽपरे । मृता मुमूर्षवस्तत्र गृहीता दैत्यपैर्मृधे ॥ २॥ केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः । शशंसुः सर्ववृत्तान्तं शक्तये भयविह्वलाः ॥ ३॥ वृत्तान्तमतुलं श्रुत्वा दैत्यानां कर्मसम्भवम् । क्रोधयुक्ता महामाया ययौ सङ्ग्राममण्डलम् ॥ ४॥ आगतां जगदम्बां तां स्वयं ज्ञात्वा मदासुरः । पुत्रैः प्रधानमुख्यैश्च नानावीरैर्वृतो ययौ ॥ ५॥ समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता । जगदम्बा रणे तत्र धनुः सज्जमथाऽकरोत् ॥ ६॥ धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः । मूर्च्छिताः केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ॥ ७॥ ततः शङ्खनिनादं वै चकार स मदासुरः । महता तस्य नादेन व्याप्तं सर्वं जगत्त्रयम् ॥ ८॥ ततः शङ्खनिनादैश्च देवीनां पूरितं नभः । दैत्येन्द्राणां च सर्वत्र महान् कोलाहलो ह्यभूत् ॥ ९॥ सिंहनादैर्जगर्जुस्ते वीरा वै शक्तयस्तथा । विनेदुर्बहुवाद्यानि सुरा हर्षं समाययुः ॥ १०॥ एतस्मिन्नन्तरे तत्र कालिका क्रोधसंयुता । शक्तिभिः संवृता क्रूरा दैत्यसैन्यं ममर्द ह ॥ ११॥ त्रिशूलेन तथा पाशैः शस्त्रैर्नानाविधैर्मृधे । शक्तिभिश्छेदिता दैत्याः पलायन्त दिशो दश ॥ १२॥ ततः क्रोधसमायुक्ता दैत्यपुत्राः समाययुः । ववृषुर्बाणजालानि कालरूपाणि संयुगे ॥ १३॥ तेषां बाणैर्हतास्तत्र देवानां शक्तयो गणाः । हाहाकाररवाः सर्वे पलायन्त भयाकुलाः ॥ १४॥ ततः काली समाक्रुद्धा रूपं कृत्वा भयानकम् । जघान दैत्यसेनां तां समन्तात् प्रलयप्रभा ॥ १५॥ गृहीत्वा दैत्यपुत्रान् वै बद्ध्वा पाशैर्महामदान् । चिक्षिपुर्विवरे संज्ञालक्ष्मीसावित्र्य आहवे ॥ १६॥ ततः क्रोधसमायुक्तो मददैत्यः प्रतापवान् । धनुः सज्जमथो कृत्वा मुमोच शरमुल्बणम् ॥ १७॥ संहारास्त्रान् महाघोरात्तस्माज्जातो महाबलः । पुरुषः पर्वताकारः शक्तीनां बुभुजे बलम् ॥ १८॥ अस्त्रस्य तत्र दैत्येन्द्र ज्वालया पीडिता रणे । (Page खं. २ अ. ५० पान १०६) शक्तयश्च मृता दग्धा दुद्रुवुर्यत्र तत्र ताः ॥ १९॥ निःसहाया भयोद्विग्नाः कालीमुख्याः प्रदुद्रुवुः । महामायासमीपे ताः संस्थिताः सञ्जगुः कथाः ॥ २०॥ ततः क्रोधसमाविष्टां स्वयं शक्तिं समागताम् । सिंहारूढां स तां दृष्ट्वा दैत्येन्द्रः प्रणनाम च ॥ २१॥ उवाच शक्तिं गर्वेण पूरितोऽसौ महासुरः । देवांस्त्यक्त्वा जगन्मातरस्माकं पक्षमाश्रय ॥ २२॥ नोचेत्त्वां कर्मणां देवीं हनिष्यामि न संशयः । सदेवां सपरीवारां पश्य मे पौरुषं महत् ॥ २३॥ ततः क्रोधसमायुक्ता शूलं चिक्षेप वै रणे । वधाय दैत्यराजस्य महामाया प्रभावतः ॥ २४॥ त्रिशूलेनाऽऽहतो दुष्टः प्रह्लाद न चचाल ह । मदासुरो जगर्जासावतिक्रोधयुतोऽभवत् ॥ २५॥ शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपः । ययौ शक्तिर्महद्रूपं कृत्वा प्रययुधे ततः ॥ २६॥ न शक्यते वर्णयितुं युद्धं घोरं तयोर्महत् । बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परम् ॥ २७॥ परस्परं जयन्तौ तौ जल्पन्तौ साधु साध्विति । दिवसानि गतान्येव त्रीणि तत्रासुरेश्वर ॥ २८॥ वरदानबलेनैव तेन क्षीणबला कृता । शक्तिस्त्वशक्तिरूपा च जाता कर्मप्रभावतः ॥ २९॥ ममर्द देहपातेन महाशक्तिं महासुरः । मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः ॥ ३०॥ अन्याश्च शक्तयस्तेन धृताः काश्चित्पलायिताः । हाहाकारश्च सर्वत्राऽभवच्छक्तिबले महान् ॥ ३१॥ दैत्येन्द्रो वारयामास शक्तीनां कदने रतान् । उवाच कुलदेव्यश्च शक्तयो नो न संशयः ॥ ३२॥ ततो मदासुरेणैव मोचिताः स्वसुतास्त्रयः । प्रधानादि महादैत्या धृता देवै रणे पुरा ॥ ३३॥ शक्तिलोकं समासाद्य गर्वितः स मदासुरः । भोगांश्च विविधांस्तत्र बुभुजे ज्ञातिभिः सह ॥ ३४॥ न ममर्ष निजात्मानं मोहितो दैत्यनायकः । स्त्रीमांसमदिरासक्तः प्रबभूवासुरेश्वर ॥ ३५॥ ततः शक्तिं समानीयोवाच गर्वसमन्वितः । देवैः सह महाशक्ते गच्छ यत्र च ते रुचिः ॥ ३६॥ उवाच मोहितो वाक्यं शिवादीन् समदासुरः । गच्छन्तु यत्र कुत्राऽपि ममाज्ञा वशगाः सुराः ॥ ३७॥ शक्तिं प्रणम्य दैत्येन्द्र ऊचिवान् भक्तिसंयुतः । अस्माकं पक्षमाश्रित्य वस त्वं पूजिता मया ॥ ३८॥ ततस्तं शक्तिरादृत्योवाच म्लानमुखश्रिया । देवैः सह गमिष्यामि यत्र कुत्र महासुर ॥ ३९॥ ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः । अनादृत्य महामायां साऽऽगता देवसंयुता ॥ ४०॥ वनेषु गिरिदर्यां च संस्थिता भयसङ्कुला । देवैः सह जगन्माता निःसृता दारुणाद्भयात् ॥ ४१॥ दैत्योऽपि दैत्यपैस्तत्र संवृतो बुभुजे सुखम् । शक्तिलोकभवं वीरः कर्मणा निर्मितं परम् ॥ ४२॥ ततो बाणादयस्तेनाऽभवंश्च स्थापिताः सुताः । देवानां च पदे मुख्याः शक्तिलोके तथा कृताः ॥ ४३॥ पृथिव्यां नगरे दुष्ट आययौ स विलासदे । तत्र स्थित्वा त्रिलोकस्य राज्यं चक्रे मदासुरः ॥ ४४॥ (Page खं. २ अ. ५१ पान १०७) ततः पातालविवरे प्रेषयामास दैत्यपः । त्रिपुरं शेषनागेन्द्रजयनाय महाबलम् ॥ ४५॥ शेषो ज्ञात्वा च वृत्तान्तं साम चक्रे पुरैव च । दैत्येन वार्षिकं भागं ददौ जग्राह शासनम् ॥ ४६॥ एवं मदासुरो दुष्टो जित्वा ब्रह्माण्डमण्डलम् । राज्यं चकार सर्वेषां भुवनानां प्रतापवान् ॥ ४७॥ अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् । भोगान् सर्वान् स आहृत्य बुभुजे ज्ञातिभिः सह ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरविजयो नाम पञ्चाशत्तमोऽध्यायः ॥ २.५०

२.५१ सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । श‍ृणु प्रह्लाद दैत्यस्य चेष्टितं परमाद्भुतम् । मदासुरस्य सर्वं यन् मदमोहकरं महत् ॥ १॥ ततः कियति काले स गते दुष्टैर्महासुरः । बभौ परिवृतो दैत्यैर्महाबलपराक्रमैः ॥ २॥ तत्र तं त्रिपुरो दुष्ट उक्तवान् दत्यपैः सह । कृताञ्जलिपुटो भूत्वा वचनं साहसं खलः ॥ ३॥ त्रिपुर उवाच । श‍ृणु प्रभो महाराज दैत्यानां हितकारकम् । वचनं सुखदं साध्यमखण्डानन्ददायकम् ॥ ४॥ जित्वा त्रिभुवनं पूर्वे दैत्याः सन्तोषमाययुः । हिरण्यकशिपुस्तत्राद्यो महान् परमद्युतिः ॥ ५॥ मृत्युभीतिविहीनोऽयमानन्देन समावृतः । अखिलं बुभुजे राज्यं त्रिलोकस्य न संशयः ॥ ६॥ वने गिरिगुहासंस्था देवाश्छद्मप्रदर्शिनः । शत्रवस्तत्र कालेन ससृजुर्नरसिंहकम् ॥ ७॥ नृसिंहेन हतो नूनं हिरण्यकशिपुः प्रभुः । एवं क्रमेण श्रेष्ठा ये ते हता दैत्यपाः क्रमात् ॥ ८॥ अधुना त्वं तथा जातो ब्रह्माण्डाधिपतिः स्वयम् । देवान मुक्त्वा महाराज किं स्थितोऽसि विचारय ॥ ९॥ अस्माकं शत्रवो नित्यं देवा वेदे प्रतिष्ठिताः । कथं मित्राणि ते राजन् भविष्यन्ति वद प्रभो ॥ १०॥ अतस्तेषां विनाशाय यतस्व नृपसत्तम । नोचेत्त्वां कालयोगेन हनिष्यन्ति न संशयः ॥ ११॥ शस्त्रास्त्रैः पीडिता देवा न मरिष्यन्ति कर्हिचित् । अमराः कथिता वेदे घोररूपा न संशयः ॥ १२॥ तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितम् । कर्मनाशाद् भवेत् पूर्णं कर्मान्ना देवता यतः ॥ १३॥ तस्मात् कर्मकरा विप्रास्ताडनीया न संशयः । आसुरं कर्म कुर्वन्तो मन्तव्यास्ते त्वयाऽनिशम् ॥ १४॥ अन्ये वर्णाश्रमस्था ये ब्राह्मणाः कर्मकारकाः । नष्टेषु विप्रजातेषु सर्वे नष्टा भवन्ति ते ॥ १५॥ अत आज्ञापय प्राज्ञ असुरान् कर्मखण्डने । सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् ॥ १६॥ एवमुक्त्वा महादैत्यं तूष्णीं भावेन संस्थितम् । (Page खं. २ अ. ५१ पान १०८) सदसि त्रिपुरं वीक्ष्य तमुवाच मदासुरः ॥ १७॥ मदासुर उवाच । समीचीनं त्वया प्रोक्तमसि त्रिपुर बुद्धिमान् । यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ॥ १८॥ ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतोऽसुरः । पृथिव्यां यत्र तत्राऽपि कर्मखण्डनकोऽभवत् ॥ १९॥ धृता मुनिगणास्तेन ताडिता वधिता बहु । केचित्तदाज्ञया युक्ताः संस्थिताः कर्मदूषकाः ॥ २०॥ केचिन् मुनिगणा दुष्टं शरणं तं ययुस्ततः । तस्याज्ञावर्तिनो भूत्वा संस्थिता ब्राह्मणाधमाः ॥ २१॥ केचिच्च दुद्रुवुस्तस्य वनेषु ब्राह्मणा भयात् । तत्र स्थिताः स्वधर्मस्थं कर्म चक्रुर्गतज्वराः ॥ २२॥ सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः । सिंहादीनां समीपस्था अवसन् कर्मसिद्धये ॥ २३॥ एवं द्विजाः स्थितास्तत्र न ज्ञाता दैत्यपेन ते । कर्मभ्रष्टाः स्वभावेन ब्राह्मणा बहवोऽभवन् ॥ २४॥ तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते । बभञ्जुर्दैत्यचाराश्च यत्र तत्रासुरेश्वर ॥ २५॥ आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च । वर्णेषु ब्राह्मणाद्येषु दुष्टसङ्करकारकम् ॥ २६॥ ततो हाहाऽकरोत् सर्वं जगत्तेन दुरात्मना । स्वधर्मवर्जितं दुःखाज्जातं दुष्टप्रपीडितम् ॥ २७॥ न स्वाहा न वषट्कारो न स्वधादिकमुत्तमम् । तेन देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः ॥ २८॥ उपोषणैश्च संयुक्ता जाताः कालेन देवपाः । सगणाः परिवारण निस्तेजस्का बभूविरे ॥ २९॥ ततो देवगणाः सर्वे दैत्यस्य वधकाङ्क्षिणः । मिलितास्तत्र चोपायं लेभिरे न वधस्य च ॥ ३०॥ सनत्कुमारश्च महायोगी तत्रादराद्ययौ । सहसा भाग्ययोगेन सर्वेषां हितकारकः ॥ ३१॥ तं दृष्ट्वा देवपाः सर्वे समुत्तस्थुः प्रणम्य तम् । पूजयामासुरत्यन्तमुपचारैर्मनोहरैः ॥ ३२॥ कन्दमूलादिकं तत्र निवेद्य च सुभक्तितः । पप्रच्छुस्तं मदस्यैते मरणोपायमञ्जसा ॥ ३३॥ देवा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं देहाश्च पूर्वजाः । तवाङ्घ्रिदर्शनाद्योगिन् कृतकृत्या वयं ततः ॥ ३४॥ मदासुरेण बलिना जिताः सर्वे महामुने । अतस्तस्य वधार्थं नो वदोपायं महामते ॥ ३५॥ साधवो देवता विप्राः पीडितास्तेन योगिप । अतःसाध्वादिरक्षार्थं वद सर्वज्ञ ते नमः ॥ ३६॥ समशीलो भवान् साक्षान् मूर्तं ब्रह्मेव संस्थितः । तथापि दोषसंयुक्तमेकं हन्ता भव प्रभो ॥ ३७॥ अतिदुष्टमनादृत्य जगत्सर्वं सुखी कुरु । न हत्वा त्वं स्वयं साक्षान् मार्गदर्शी भवस्व नः ॥ ३८॥ साधवः समशीलाश्च मार्गं सन्दर्शयन्ति ते । दीनानां धर्मनिष्ठानामनाथानां महामुने ॥ ३९॥ सत्कर्मनिरतान् जन्तून् सदा कुर्वन्ति साधवः । विकर्मणश्च संहारस्तत्र सञ्जायते यथा ॥ ४०॥ न हिंसा सा महायोगिन् विकर्महितकारिका । भवज्ज्ञानेन चाज्ञानं नाशयन्ति सुसाधवः ॥ ४१॥ अतस्त्वं वद नाशार्थमुपायं करवामहै । धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यतः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते सनत्कुमारदेवसमागमो नामैकपञ्चाशत्तमोऽध्यायः ॥ २.५१ (Page खं. २ अ. ५२ पान १०९)

२.५२ एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दीनस्वभावेन प्रार्थितो मुनिसत्तमः । सनत्कुमार आनन्ददायकं तानुवाच ह ॥ १॥ सनत्कुमार उवाच । श‍ृणुतेशादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत् कुरुध्वं सुरेश्वराः ॥ २॥ गणेशं पूजयध्वं वै यूयं सर्वे समादृताः । सबाह्यान्तरसंस्थं तं हनिष्यति मदासुरम् ॥ ३॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ४॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तम । पूजयाम विशेषेण तं वद त्वं यथातथम् ॥ ५॥ एवं पृष्टो महायोगी देवैश्च मुनिभिः सह । उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ६॥ एकाक्षरेण तं देवं हृदिस्थं गणनायकम् । विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ ७॥ ध्यानं तस्य प्रवक्ष्यामि श‍ृणुध्वं सुरसत्तमाः । यूयं तं तादृशं ध्यात्वा तोषयध्वं निधानतः ॥ ८॥ एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् । सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ ९॥ नाभिशेषं सपाशं वै परशुं कमलं शुभम् । अभयं दधतं चैव प्रसन्नवदनाम्बुजम् ॥ १०॥ भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् । एतादृशं हृदि ध्यात्वा सेवध्वं चैकदन्तकम् ॥ ११॥ सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः । स्वयं बुद्धिपतिः साक्षादात्मा वै सर्वदेहिनाम् ॥ १२॥ एकशब्दो मता माया देहरूपा विलासिनी । सत्तात्मको दन्तशब्दः प्रोक्तस्तत्र न संशयः ॥ १३॥ मायाया धारकोऽयं वै सत्तामात्रेण संस्थितः । एकदन्तो गणेशानः कथ्यते वेदवादिभिः ॥ १४॥ सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् । सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ १५॥ सनत्कुमार उक्त्वैवं ययौ योगी स आदरात् । जयहेरम्बमन्त्रं वै समुच्चार्य मुखेन सः ॥ १६॥ ततो देवगणाः सर्वे मुनयस्तपसि स्थिताः । एकाक्षरविधानेन तोषयामासुरादरात् ॥ १७॥ पत्रभक्षा निराहारा वायुभक्षा जलाशिनः । कन्दमूलफलाहाराः केचित् केचिद्बभूविरे ॥ १८॥ संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः । नानातपःप्रभावेणाऽतोषयन् गणनायकम् ॥ १९॥ गते वर्षशते चैव सन्तुष्टश्चैकदन्तकः । आययौ तान् वरं दातुं ध्यातस्तैर्यादृशस्तथा ॥ २०॥ जगाद स तपोयुक्तान् मुनीन् देवान् गजाननः । वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणाऽमराः ॥ २१॥ तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् । उन्मील्य लोचने देवमपश्यन् सविधस्थितम् ॥ २२॥ दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् । मुनयो देवदेवेन्द्रा भक्तियुक्ता अपूजयन् ॥ २३॥ पूजयित्वा यथान्यायं प्रणम्य करसम्पुटैः । तुष्टुवुश्चैकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ २४॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २५॥ (Page खं. २ अ. ५२ पान ११०) आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २६॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २७॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २८॥ परशुं दधते तुभ्यं कमलेन प्रशोभिने । पाशाभयधरायैव महोदर नमो नमः ॥ २९॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ३०॥ गुणसंयुक्तकायाय निर्गुणात्मकमस्तक । तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ३१॥ वेदान्तागोचरायैव वेदान्तालभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३२॥ अपारगुणधारायानन्तमायाप्रचालक । नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३३॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ ३४॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३५॥ एकदन्त उवाच । वरं वृणुत देवेशा मुनयश्च यथेप्सितम् । दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ ३६॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । पठते श‍ृण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३७॥ शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३८॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । प्रणम्य चैकदन्तं तमूचुस्ते भक्तिभावतः ॥ ३९॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो । यदि देयो वरो नश्चेज्जहि दुष्टं महासुरम् ॥ ४०॥ स्थानभ्रष्टाः सुरेशानाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेन जगन्नाथ तस्मात्तं जहि विघ्नप ॥ ४१॥ त्वदीयां भक्तिमत्यन्तमचलां देहि मानद । यया मायाभयं घोरं भविष्यति कदापि न ॥ ४२॥ एवमुक्तो गणाधीशस्तथेति स उवाच तान् । अन्तर्धानं ययौ सद्य एकदन्तः प्रतापवान् ॥ ४३॥ महर्षिभिस्ततो देवैः स्थापना गणपस्य च । कृता तत्र महाभागैरभूत् क्षेत्रं च वैघ्नपम् ॥ ४४॥ आग्नेय्यां दिशि विख्यातं स्वस्वखण्डेषु विद्यते । एकदन्तस्य तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ४५॥ तत्रैव देवदेवेन्द्रा मुनयः संस्थिता बभुः । सेवार्थं पूर्णभावेन स्वाधिकारे कलांशतः ॥ ४६॥ तस्य सन्दर्शनाज्जन्तुर्लभेदीप्सितमुत्तमम् । तत्रैव मरणे ब्रह्म प्रह्लादात्र न संशयः ॥ ४७॥ महिमा गदितुं पूर्णो वर्षकोटिशतैरपि । न शक्यते मया तस्मादुक्तं सारं च सारतः ॥ ४८॥ तत्र सिद्धिं विशेषेण प्राप्य देवर्षयोऽमलाः । भवन्ति कृतकृत्यास्ते ह्यन्ये नानाजनास्तथा ॥ ४९॥ धन्यं जन्म नराणां वै दृष्टो यैरेकदन्तकः । जन्ममृत्युभयघ्नश्च स्वेप्सितार्थप्रदः प्रभुः ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते एकदन्तप्रसन्नभावो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ २.५२ (Page खं. २ अ. ५३ पान १११)

२.५३ मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं दत्वा वरं देवान् मुनीन् सर्वान् गजाननः । अन्तर्धाय स्वमात्मानमेकदन्तो ययौ पुरम् ॥ १॥ ततः कदाचिद्दैत्येन्द्रं प्रययौ नारदो मुनिः । मदासुरं महाक्रूरं तेनायं मानितोऽभवत् ॥ २॥ उवाच तं महादैत्यं नारदः प्रहसन् मुनिः । श‍ृणु दैत्यपते वाक्यं मदीयं सर्वसौख्यदम् ॥ ३॥ वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणम् । गणेशस्य मुदे भूप शतवर्षाणि भूरि वै ॥ ४॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो ब्रह्मनायकः । वरदो ह्यभवत्तत्र भक्त्या सन्तोषितः स्वयम् ॥ ५॥ तैस्ते वधार्थमत्यन्तं याचितः स तथाऽवदत् । त्वां हनिष्यति वेगेन तस्माद्यत्नपरो भव ॥ ६॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । मदासुरो मुनिं तत्र विसृज्याऽभूत् सुदुःखितः ॥ ७॥ ब्रह्माण्डवासिनो ये वै तेभ्यो मृत्युर्न मे भवेत् । अयं क एकदन्तश्च तं हन्मि क्रोधसंयुतः ॥ ८॥ मया विमोचिता देवा दयया तैः कृतं महत् । शत्रुभावयुतं कार्यं तस्मात्तान् हन्मि निश्चितम् ॥ ९॥ दैत्येन्द्रैः कथितं सर्वं सत्यं जातं न संशयः । देवेन्द्राः शत्रवः सर्वे सुराणां वेदवाक्यतः ॥ १०॥ एवं विचार्य दैत्येशः समाहूय महासुरान् । सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः ॥ ११॥ ततोऽकस्मान् महादेव एकदन्तः प्रतापवान् । बभूव प्रकटस्तेषां समीपे भयदायकः ॥ १२॥ मूषकारूढमुग्रं तं नरनागस्वरूपिणम् । शस्त्रपाणिं चतुर्बाहुं दृष्ट्वा दैत्याः सुविस्मिताः ॥ १३॥ ततः कोलाहलं तत्र चक्रुः सर्वे समन्ततः । कोऽयं समागतो दैत्या महत् पश्यत कौतुकम् ॥ १४॥ दैत्याः सर्वे च तं दृष्ट्वा भयभीता बभूविरे । स्थित्वा तत्रैव दैत्येशा दूतं ते सञ्जगुर्वचः ॥ १५॥ गच्छ दूत समीपं त्वं पुरुषस्य त्वरान्वितः । वृत्तान्तमखिलं ज्ञात्वाऽऽयाहि त्वं सामसंयुतः ॥ १६॥ ततस्तमेकदन्तं स ययौ दूतः प्रणम्य च । उवाच प्राञ्जलिर्भूत्वा गणेशं देवनायकम् ॥ १७॥ दूत उवाच । स्वामिन् मदासुरस्याऽहं दूतस्तेन प्रचोदितः । स तु ब्रह्माण्डराजो वै त्वां दृष्ट्वा विस्मितोऽभवत् ॥ १८॥ भवान् कश्च कुतो यातः किं कार्यं नाम ते प्रभो । कस्य वा वद सर्वज्ञ संशयस्यापनुत्तये ॥ १९॥ इति पृष्टः स दूतेन एकदन्तस्तमादरात् । जगाद हास्यसंयुक्तो दैत्यदूतं विचक्षणम् ॥ २०॥ एकदन्त उवाच । अहं स्वानन्दवासी च स्वानन्दादागतोऽधुना । मदासुरं निहन्तुं वै देवानां सुखवृद्धये ॥ २१॥ एकदन्त इति ख्यातः सदा ब्रह्मसुखात्मकः । दूतवर्य वदाशु त्वं मोहितं तं मदासुरम् ॥ २२॥ इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज । देवानां द्वेषमुत्सृज्य वस त्वं नगरे स्वके ॥ २३॥ देवा हविर्भुजः सन्तु दैत्याः पातालभोगिनः । विश्वं सुखस्थं भवतु स्वस्वधर्मपरायणम् ॥ २४॥ एतदर्थमहं यातो वद सर्वं सुविस्तरम् । मदासुरं महाक्रूरं नोचेद्धन्मि क्षणेन तम् ॥ २५॥ एकदन्तवचः श्रुत्वा दैत्यदूतः प्रणम्य तम् । (Page खं. २ अ. ५३ पान ११२) ययौ मदासुरं तत्र वृत्तान्तं चाऽब्रवीत् पुरः ॥ २६॥ दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुङ्गवः । दैतेयैः सावधानश्च कृतः सोऽपि शुशोच ह ॥ २७॥ उवाच दैत्यपान् सर्वान्नारदेन समीरितम् । वाक्यं तदभवत् सत्यं मम शत्रुरयं मतः ॥ २८॥ नानाशस्त्रैस्तथास्त्रैस्तं हनिष्यामि न संशयः । कथं कालस्य मे मृत्युर्भविष्यति महासुराः ॥ २९॥ एवमुक्त्वा ययौ पापी मदः सर्वसमन्वितः । एकदन्तं समुद्दिश्य शस्त्रमुग्रं मुमोच ह ॥ ३०॥ अनिवार्यममोघं च शस्त्रं दृष्ट्वा गजाननः । परशुं तोलयित्वा स मुमोच यमसन्निभम् ॥ ३१॥ परशुं दैत्यपा दृष्ट्वा तेजसा संवृतं परम् । भयभीताः समन्तात्ते पलायन्त दिशो दश ॥ ३२॥ परशुर्दैत्यराजास्त्रं सच्छित्वा स्वेन तेजसा । ततो दैत्यांश्च सर्वत्र चिच्छेद यमसन्निभः ॥ ३३॥ हताः परशुना दैत्याः सर्वे प्रह्लाद तत्क्षणात् । त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयात् ॥ ३४॥ ततो मदासुरः क्रुद्धो जग्राहास्त्रमनुत्तमम् । संहाराख्यममोघं वै युयोज धनुषि स्वयम् ॥ ३५॥ तावत् परशुना विद्धो हृदये दैत्यपुङ्गवः । पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ ३६॥ ततस्तत्र महास्त्रं तत् परशूपस्थितं त्वभूत् । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ३७॥ अपश्यत् स महास्त्रं तत् परशुं यमसन्निभम् । समीपे दैत्यराजस्तु विस्मितो हृदयेऽभवत् ॥ ३८॥ अयं परशुराजः किं तेजःपुञ्जमयो मया । दृश्यते न च संसृष्टो ह्यत आश्चर्यकं त्विदम् ॥ ३९॥ ततो हस्तेन दैत्येन गृहीतः परशुर्महान् । तथाऽपि हस्तमध्येऽसौ खवच्छून्यस्तदाऽभवत् ॥ ४०॥ मदः स हृदि विज्ञाय शस्त्रं ब्रह्ममयं परम् । ज्ञात्वाऽवयवसंहीनं विचारमकरोत्तदा ॥ ४१॥ अहो क एकदन्तोऽयं ब्रह्माकारो न संशयः । न ब्रह्माण्डमयाकारो भवेत्तद्वर्जितो न च ॥ ४२॥ अतोऽनेन रणे पूर्णं न भविष्यति किञ्चन । मारयिष्यति मां नूनं नात्र कार्या विचारणा ॥ ४३॥ एवमुक्त्वा हृदि क्षुब्धो दैत्येशश्च मदासुरः । दैवयोगेन सस्मार वेदवाक्यं सुखप्रदम् ॥ ४४॥ एकदन्तार्थजं ज्ञानं विचार्यैव च विघ्नपम् । बुबोध हृदि दैत्येन्द्रो ब्रह्मरूपः प्रधारकम् ॥ ४५॥ मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवत् । भ्रान्तिदं मोहदं पूर्णं नानाखेलमयं जगत् ॥ ४६॥ दन्तसत्तात्मकस्तत्र मायाचालकसंज्ञकः । बिम्बेन मोहयुक्तः स स्वयं स्वानन्दगोऽभवत् ॥ ४७॥ माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदन्तः प्रकथ्यते ॥ ४८॥ महद्भाग्यं मदीयं तद्येनाऽयं दृष्टिगोचरम् । आयासेन विना प्राप्तस्तं यामि शरणं ततः ॥ ४९॥ (Page खं. २ अ. ५४ पान ११३) भक्त्या संयोगिनो नित्यं भजन्ते शुकमुख्यकाः । ब्रह्मभूता महाभागास्तं यामि शरणं ततः ॥ ५०॥ एवं भक्त्या मदो दैत्यः परियुक्तो महामते । त्यक्त्वाऽभिमानजं दोषं तमेव शरणं ययौ ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरपराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ २.५३

२.५४ मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरः प्रणम्याऽऽदौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ १॥ मदासुर उवाच । नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २॥ एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ ३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥ ४॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागतवत्सल ॥ ५॥ एवं स्तुवन्तमत्यन्तं परशुः शान्तिमादधे । ययौ त्यक्त्वा पुनर्हस्ते एकदन्तस्य दैत्यप ॥ ६॥ ततो मदासुरः शीघ्रं ययौ तं शरणं भयात् । एकदन्तं प्रणम्याऽऽदौ पूजयामास सादरम् ॥ ७॥ पूजयित्वा यथान्यायं गणेशं धरणीतले । दण्डवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥ ८॥ मदासुर उवाच । नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥ चिन्तामणिधरायैव चित्तस्थाय गजानन । नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥ अनन्तविभवायैवानन्तमायाप्रचालक । भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥ रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा । भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ १८॥ एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् । कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ १९॥ तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना । विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ २०॥ (Page खं. २ अ. ५५ पान ११४) एकदन्त उवाच । त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ २१॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ २२॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् । विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ २३॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । श‍ृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ २४॥ न तत्र मदसम्भूतं भयं भवति कर्हिचित् । अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ २५॥ एवं तस्य वचः श्रुत्वैकदन्तस्य मदासुरः । आसुरं भावमुत्सृज्य शान्तरूपस्तमब्रवीत् ॥ २६॥ मदासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । एकदन्तपदे भक्तिं देहि नाथ दृढां सदा ॥ २७॥ अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् । भक्षयित्वा सदा देव भजेयं ते पदाम्बुजम् ॥ २८॥ मदस्य वचनं श्रुत्वा ह्येकदन्तस्तमब्रवीत् । मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥ २९॥ यत्र मे स्मरणं चादौ पूजनं वा मदासुर । तत्र कर्म सुशान्त्या त्वं युक्तो भव सुरक्षयन् ॥ ३०॥ विपरीते सदा दैत्य आसुरेण स्वभावतः । प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥ ३१॥ एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च । नगरं स्वं जगामासावेकदन्तपरायणः ॥ ३२॥ दैत्यास्त्रिपुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः । पातालानि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ २.५४

२.५५ मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गजाननम् ॥ २॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ यदीय वीर्येण समर्थभूतं स्वमायया संरचितं च विश्वम् । (Page खं. २ अ. ५५ पान ११५) तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ७॥ त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् । भजन्त आद्यं तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै । समानरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ९॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम् । अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥ ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम् । सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव । सदैकरूपं कृपया च ते यत्तमेकदन्तं शरणं व्रजामः ॥ १२॥ त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम् । विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च । बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥ तदैव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥ सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभान्ति खे वै । भ्रमन्ति नित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः ॥ १६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहन्ति नद्यः । स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥ तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं त्वां तमेकदन्तं शरणं व्रजामः ॥ २२॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥ गृत्समद उवाच । एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् । तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै । एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥ एकदन्त उवाच । स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥ भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥ यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः । (Page खं. २ अ. ५५ पान ११६) पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २८॥ गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श‍ृण्वतां नॄणां भवेत्तद्बन्धहीनता ॥ ३०॥ एकविंशतिवारं यः श्लोकानेवैकविंशतिम् । पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ ३१॥ न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥ नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३३॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः । ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥ ३४॥ देवर्षय ऊचुः । धन्या वयं गणेशान एकदन्तधर प्रभो । त्वदीयदर्शनादेव भाषणान्नात्र संशयः ॥ ३५॥ वरं देहि त्वदीया नो भक्तिश्च सुदृढा भवेत् । मायाहीनास्तथा देव कृतकृत्या भवामहे ॥ ३६॥ यदा सङ्कटयुक्ता वै वयं स्याम गजानन । तदा नो रक्ष देवेश वरमेवं वृणीमहे ॥ ३७॥ तेषां वचनमाकर्ण्य तानुवाच तथास्त्विति । एकदन्तोंऽन्तर्दधेऽसौ स्वस्वानन्दगतोऽभवत् ॥ ३८॥ देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च । स्वस्वधर्मयुता नित्यमभजन्नेकदन्तकम् ॥ ३९॥ एवं मदासुरस्तेन शान्तिरूपधरः कृतः । प्रह्लाद चैकदन्तेन कथितं ते चरित्रकम् ॥ ४०॥ दुष्टसङ्गतियोगेन त्वं मदोत्सिक्तभावतः । अनादृत्य विधातारं भ्रष्टो ज्ञानान्न संशयः ॥ ४१॥ एकदन्तं गणेशं त्वं भजाऽतो दैत्यनायक । तेन शान्तो महाभाग भविष्यसि न संशयः ॥ ४२॥ स एव एकदन्तस्तु भक्तानां कार्यसिद्धये । करोति स्वावतारांश्च नानारूपांस्तु दैत्यप ॥ ४३॥ परमौ दारुणौ दैत्यौ देवान्तकनरान्तकौ । सम्भूतौ तौ हतौ तेन भूत्वा कश्यपवेश्मनि ॥ ४४॥ तथैव दुर्मतिर्नाम दैत्योऽभूद्धर्मलोपकः । शान्तये तस्य विघ्नेशः शिवपुत्रो बभूव ह ॥ ४५॥ गणासुरेण दुष्टेन धर्मलोपः कृतो यदा । तदा कपिलपुत्रोऽभूत् स एव त्वेकदन्तकः ॥ ४६॥ एवं नानावतारैः पालयते सकलं जगत् । एकदन्तः कलांशेन धर्मरक्षणतत्परः ॥ ४७॥ तेषां कथा न शक्या वै गदितुं केनचित् परा । गुणान्तं न ययुर्यस्य ब्रह्माद्या मुनयः सुराः ॥ ४८॥ अतस्त्वमेकदन्तं तं भज भावेन दैत्यप । तेन सर्वं च ते ज्ञानं भविष्यति सुशान्तिदम् ॥ ४९॥ एवं मदासुरस्याऽपि कृतं खण्डनमञ्जसा । एकदन्तेन सङ्क्षेपाच्चरितं कथितं मया ॥ ५०॥ पठेद्यः श‍ृणुयात्तस्मै भक्तिं मुक्तिं ददाति सः । एकदन्तः प्रसन्नात्मा सदा भवति सौख्यदः ॥ ५१॥ नासुरेण स्वभावेन मदस्तं पीडयिष्यति । शान्तिरूपेण नित्यं स संरक्षेद्दैत्यनायकः ॥ ५२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ २.५५ (Page खं. २ अ. ५६ पान ११७)

२.५६ विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकम् । पुनः किं च कृतं योगिंस्तद्वद त्वं महामते ॥ १॥ श्रुत्वा कथामृतं पूर्णं हर्षश्चेतसि मुद्गल । जायते नाऽत्र सन्देहो न तृप्तोऽहं भवाम्यतः ॥ २॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितोऽभवत् । उवाच तं महाभागं तत्त्वं श‍ृणु च शौनक ॥ ३॥ मुद्गल उवाच । धन्योऽसि दक्ष सारज्ञ गणेशस्य कथामृतम् । श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् ॥ ४॥ मदासुरस्य संशान्तिं श्रुत्वा पप्रच्छ दैत्यपः । प्रह्लादस्तं गृत्समदं विनयावनतः कथाम् ॥ ५॥ प्रल्हाद उवाच । महद्भाग्यं मुने मे यद्येन संश्रावितं त्वया । एकदन्तस्य माहात्म्यं परमानन्ददायकम् ॥ ६॥ तथापि न सुतृप्तोऽहं श्रुत्वा ज्ञानप्रदायकम् । चरितं च पुनस्त्वं मे गणेशस्य कथां वद ॥ ७॥ कश्यपस्य गृहे देवः कथं पुत्रत्वमागतः । कथं दैत्यौ हतौ योगिन् विस्तरेण वदस्व माम् ॥ ८॥ कथं स शिवपुत्रोऽभूत् कथं दुर्मतिकं प्रभुः । अहनत्तं वदस्व त्वं सर्वज्ञोऽसि कृपानिधे ॥ ९॥ कथं गणासुरं दैत्यं कापिलो हतवान् पुरा । एतत् सर्वं वद स्वामिन्नेकदन्तचरित्रकम् ॥ १०॥ भवादृशा महाभागा नौकारूपेण संस्थिताः । संसाराब्धौ नराणां वै मज्जतां तरणाय तु ॥ ११॥ मुद्गल उवाच । एवं पृष्टो महायोगी तमुवाच सुहर्षितः । गुणैर्युक्तं गृत्समदः प्रह्लादं भावधारकम् ॥ १२॥ गृत्समद उवाच । श‍ृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । सुखदं च समासेन एकदन्तचरित्रकम् ॥ १३॥ पुरा कृतयुगे दैत्य गौडदेशे बभूव ह । नगरे गौडसंज्ञे च रौद्रकेतुस्तपोधनः ॥ १४॥ तस्य पत्नी महाभागा शारदा रूपशालिनी । गर्भयुक्ता कदाचित् सा बभूवे हर्षिताऽभवत् ॥ १५॥ समये सुषुवे पुत्रौ यमलौ लोकभीतिदौ । नाम्ना चक्रे द्विजातिः स देवान्तकनरान्तकौ ॥ १६॥ कदाचिन्नारदेनाऽपि गत्वा तत्र शिवस्य च । पञ्चाक्षरेणोपदिष्टौ चेरतुः परमं तपः ॥ १७॥ दिव्यवर्षसहस्रैस्तु सन्तुष्टः स सदाशिवः । अभयं गुणरूपेभ्यो प्रददौ दैत्ययोः परम् ॥ १८॥ वरगर्वेण दैत्येन्द्रौ जित्वा सर्वं चराचरम् । ततस्तु कर्मनाशं तौ चक्रतुः पृथिवीतले ॥ १९॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । अभवन्नमराः सर्वे क्षुधितास्तृषितास्ततः ॥ २०॥ तैः सर्वैः प्रार्थितो देव एकदन्तः प्रतापवान् । तपसोग्रेण सन्तुष्टो बभूव प्रददौ वरम् ॥ २१॥ कश्यपस्य च पुत्रोऽहं भविष्यामि प्रसिद्धये । दैत्येन्द्रयोर्वधस्यैवमुक्त्वा गणपतिययौ ॥ २२॥ अथ देवजनित्री सा कदाचित् कश्यपं मुनिम् । जगाद हास्यसंयुक्ता ह्यदितिः कृतसम्पुटा ॥ २३॥ इन्द्रो विष्णुश्च सूर्यश्च देवाः पुत्राश्च मेऽभवन् । स्वामिन् ब्रह्म कथं पुत्रः सम्भविष्यति मे परम् ॥ २४॥ तदा मे निश्चलं चेतो भवेच्चैव न संशयः । तस्य सेवां कर्तुमीहे तत्रोपायं वद प्रभो ॥ २५॥ (Page खं. २ अ. ५६ पान ११८) तस्यास्तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ । अष्टाक्षरं तया तेनाराधितो ह्येकदन्तकः ॥ २६॥ सहस्रवर्षपूर्तौ तां वरदः स समाययौ । तया पुत्रो भव स्वामिन् याचितः स तथाऽकरोत् ॥ २७॥ अदित्यां कश्यपाच्चैव सम्भूतः पुत्रतां गतः । मायामास्थाय विघ्नेशश्चिक्रीड प्राकृतो यथा ॥ २८॥ एकदा राक्षसी घोरा विरजास्तं जगाल ह । विदार्य जठरं तस्या बहिर्यातो ममार सा ॥ २९॥ उद्धतौ धुन्धुरत्युग्रौ शुकरूपौ समागतौ । धृत्वा तौ स्फालितौ शैले मृतौ दैत्यौ तथाऽकरोत् ॥ ३०॥ कदाचित् सहिता तेन स्नानार्थमदितिर्ययौ । तत्र तं मकराकारो गन्धर्वश्च पदेऽग्रहीत् ॥ ३१॥ तेनोड्डीनं कृतं पश्चाद्बहिः स च ममार ह । शापमुक्तोऽभवच्चित्रं तं प्रणम्य ययौ दिवम् ॥ ३२॥ उपवीतप्रदाने वै राक्षसा विप्रलिङ्गिनः । पञ्च तं हन्तुमायाता हतास्तेन क्षणेन ते ॥ ३३॥ कर्मणि प्रसमाप्ते तं ब्रह्मविष्ण्वादयः सुराः । मुनयश्च वसिष्ठाद्या नेमुर्भक्तिसमन्विताः ॥ ३४॥ इन्द्रस्तत्र मदेनैव संसिक्तो न ननाम तम् । कश्यपेन समाज्ञप्तस्तथाऽपि ज्येष्ठभावतः ॥ ३५॥ परीक्षार्थं महेन्द्रेण बालं हन्तुं प्रभञ्जनः । प्रेरितः सोऽपि भग्नोऽभूत्ततोऽग्निं स समादिशत् ॥ ३६॥ इन्द्रेणाऽऽज्ञापितो वह्निस्तं दग्धुं सहसाऽऽगतः । गिलितस्तेन बालेन महेन्द्रो विस्मितोऽभवत् ॥ ३७॥ विनायकेन देवेन्द्रः श्वासेन जठरे स्वके । नीतस्तत्र सविस्तारं ददर्श सकलं जगत् ॥ ३८॥ एवं नानाण्डकं दृष्ट्वा हतगर्वोऽभवत् स्वयम् । न ददर्श बहिर्यातुं मार्गं वर्षशतेन वै ॥ ३९॥ ततस्तं प्रार्थयामास विनायकमनामयम् । तेनाऽपि श्वासमार्गेण बहिर्निष्कासितो हरिः ॥ ४०॥ ततस्तेन महेन्द्रण दृष्टं कौतुकमुत्तमम् । कालोद्भवं महच्चित्रं तच्छृणुष्व महासुर ॥ ४१॥ विनायकस्य वर्षाणि जठरे स शतं स्वयम् । संस्थितश्च बहिस्तत्र क्षण एकस्तथाऽभवत् ॥ ४२॥ ततस्तं प्रणनामाऽऽदौ स्तुत्वा च विविधैः स्तवैः । चकार साधुभावेन स भक्तिं नित्यमादरात् ॥ ४३॥ ततः कदाचित् काशीपो मुनिगेहं समाययौ । पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममन्त्रयत् ॥ ४४॥ मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै ददौ लघुम् । उपाध्यायत्वसिद्धयर्थं विधानज्ञो विनायकम् ॥ ४५॥ काशिराजो गणेशं सङ्गृह्य मार्गे जगाम ह । तत्र धूम्राक्षदैत्येशं सूर्यास्त्रेण जघान सः ॥ ४६॥ तस्य पुत्रौ महावीर्यौ जघनश्च मनुः स्मृतौ । भक्षणार्थं समायातौ विनायकमनामयम् ॥ ४७॥ विनायकेन निःश्वासेन नीतौ गगने गतौ । भ्रमन्तौ पतितौ तत्र नरान्तकसुमन्दिरे ॥ ४८॥ नरान्तकस्ततस्ताभ्यां ज्ञात्वा वृत्तान्तमुल्बणम् । शतानि पञ्च रक्षांसि प्रेषयामास दैत्यपः ॥ ४९॥ तेन दृष्टा महावीरा राक्षसा गणपेन च । हुङ्कारेण महोग्रेण मम्रुः सर्वे भयातुराः ॥ ५०॥ ततः स काशिराजेन सहितश्च विनायकः । काशीं प्राप्तस्तदा लोकैरविशत् पूजितः परम् ॥ ५१॥ (Page खं. २ अ. ५७ पान ११९) आदौ मुद्गलविप्रेणोपदिष्टः स महामनाः । काशिराजश्च गणपमभजन्नित्यमादरात् ॥ ५२॥ काशीस्थाश्च जनाः सर्वे गणेशध्यानतत्पराः । मुद्गलान् महिमानं चाऽभवन् ज्ञात्वा विचक्षणाः ॥ ५३॥ कश्यपस्य स्वयं पुत्रो भविष्यति वधाय च । दैत्यानां सोऽपि काश्यां वै विवाहायाऽऽगमिष्यति ॥ ५४॥ तस्य दर्शनमात्रेण भविष्यन्ति सुयोगिनः । सर्वे काशीस्थभूतानि नरा नार्यो न संशयः ॥ ५५॥ एवं मुद्गलविप्रेण बोधिताः सकला जनाः । ते सर्वेऽपूजयंस्तं च ज्ञात्वा देवं विनायकम् ॥ ५६॥ स्त्रियः सर्वाः समायाता दर्शनार्थं महापथे । अनादृत्य पितॄन् भ्रातॄन भर्तॄन भक्तिपरायणाः ॥ ५७॥ महोत्सवोऽभवत्तत्र प्रवेशाख्यो महासुर । तत्रैका रोधिता नारी देहं तत्याज सोत्तमम् ॥ ५८॥ तालुस्फोटेन सा याता सर्वादौ तं विनायकम् । पश्यन्त्यस्याऽभवद्दहे लीना भक्तिसमन्विता ॥ ५९॥ यत्र तत्र जनैर्देवः पूजितश्च महापथे । चचार तत्र दैत्यौ द्वौ बालरूपौ प्रचेरतुः ॥ ६०॥ विनायकेन हस्ताभ्यां चूर्णितौ दशयोजने । पतितौ विस्मिता लोका मेनिरे गणपं च तम् ॥ ६१॥ ततो द्वौ चक्रवातस्य रूपेणैव समागतौ । शिखां धृत्वा तयोस्तेन मम्रतुः स्फालितौ दृढौ ॥ ६२॥ ततः पाषाणरूपेण दैत्यो मार्गे व्यवस्थितः । मुष्टिना बालकेनैव हतो मृत्युमवाप सः ॥ ६३॥ काशिराजस्ततस्तं स नीत्वा च स्वगृहे स्वयम् । पूजयामास विधिवत् स्थापयामास भावतः ॥ ६४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विनायककाशीप्रवेशो नाम षट्पञ्चाशत्तमोऽध्यायः ॥ २.५६

२.५७ भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । द्वितीये दिवसे तत्र धर्मदत्तो महामुनिः । स्वगृहे तं मुनेः पुत्रमानयामास यत्नतः ॥ १॥ मार्गे दैत्यौ हतौ तेन खरवेषधरावुभौ । कामक्रोधासुरौ पश्चाद्गजवेषधरौ हतौ ॥ २॥ ततो मुनिः सुभावेनापूजयत्तं विनायकम् । कन्ये स्वे प्रददौ तस्मै सिद्धिबुद्धी सुलक्षणे ॥ ३॥ ततस्तत्राऽऽययौ जृम्भा राक्षसी घोररूपिणी । रूपं धृत्वा मनुष्यस्य सुप्रसन्नाननाम्बुजा ॥ ४॥ विषयुक्तेन तैलेन सा ममर्द विनायकम् । विज्ञाता देवदेवेन हता मृत्युमवाप च ॥ ५॥ चतुर्थे दिवसे तत्र सम्प्राप्ता दैत्यपुङ्गवाः । ज्वालामुखोऽथ व्याघ्रास्यो दारुणश्च महाबलः ॥ ६॥ तान् हत्वा योगभावेन काश्यपो लीलयाऽरमत् । बालमध्ये यथाऽन्यो वै प्राकृतो माययाऽसुर ॥ ७॥ ब्रह्मविष्णुमुखास्तत्र द्रष्टुमाश्चर्यमुत्कटम् । बालक्रीडनसम्भूतं संस्थिताश्च व्यलोकयन् ॥ ८॥ (Page खं. २ अ. ५७ पान १२०) तत्र तं पञ्चमे देवं दिवसे मुनिनन्दनम् । प्रणम्य काशिराजः स भोजनार्थममन्त्रयत् ॥ ९॥ चतुर्थ्यां शुक्लपक्षस्य प्रातःकाले महामुनिः । भ्रुशुण्डी चापूजयत्तं मानस्या पूजया प्रभुम् ॥ १०॥ पूजां दृष्ट्वा स्वयं राजा प्रातस्तत्र सुविस्मितः । उवाच तं कृता केन पूजेयं वद मे प्रभो ॥ ११॥ ततस्तं कथयामास भ्रुशुण्डी मेऽतिवल्लभः । महाभक्तः करोतीमां पूजां पश्य नराधिप ॥ १२॥ एकनिष्ठतया विप्रो भजते मां विशेषतः । मद्विनान्यन्न जानाति देवतीर्थादिकं कदा ॥ १३॥ श्रुत्वा तस्य वचो रम्यं जगाद नृपसत्तमः । विनायकं प्रणम्यैव तं प्रदर्शय योगिनम् ॥ १४॥ काशिराजवचः श्रुत्वा प्रेषयामास तं ततः । जवनाश्वसमारूढो राजा तस्याश्रमं ययौ ॥ १५॥ दृष्ट्वा तं शुण्डया युक्तं स नत्वा विस्मितो नृपः । प्रार्थयामास योगीशं काश्यां नेतुं सुभक्तितः ॥ १६॥ काशिराज उवाच । विनायकाज्ञया स्वामिन्नागतस्तेऽहमाश्रमे । त्वामाह्वयति देवोऽसौ मद्गृहे संस्थितः स्वयम् ॥ १७॥ चतुर्थ्यामद्य योगीन्द्र मानस्या पूजया त्वया । पूजितस्तां महापूजां दर्शयामास मां विभुः ॥ १८॥ कश्यपस्य गृहे सोऽपि विनायक इति स्मृतः । तपसाऽऽराधितस्तेन पुत्रोऽभूद्गणनायकः ॥ १९॥ अहं तस्य तथा दासो यजमानो महामते । विवाहार्थं तु पुत्रस्याऽऽनीतोऽसौ मद्गृहे मया ॥ २०॥ विनायकेन कथितमानयस्व महामुनिम् । याचे ह्यतोऽहं योगीन्द्राऽऽगच्छ काशीं महापुरीम् ॥ २१॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसत्तमः । उवाच तं स गाणेशः काशिराजं महामतिम् ॥ २२॥ भ्रुशुण्ड्युवाच । श‍ृणु राजन् महाभाग वेदान्तागोचरो विभुः । यदि भक्त्या समायातस्त्वद्गृहे कश्यपात्मजः ॥ २३॥ तथापि शुण्डया हीनं नमामि न कदाचन । कलांशादिसमायुक्तं जानीहि नृपसत्तम ॥ २४॥ कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः । ते सर्वे मां नमन्त्येव शुण्डाभक्तियुतं परम् ॥ २५॥ गजाननं परित्यज्याऽहं नमामि न कञ्चन । अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकम् ॥ २६॥ तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् । उवाच तं प्रणम्यैव काशिराजः प्रतापवान् ॥ २७॥ काशिराज उवाच । मुने श‍ृणु वचो मेऽद्य नाऽहं शक्तो भवामि च । काश्यां गन्तुं महाभागाऽपराह्णे श्रान्तवाहनः ॥ २८॥ ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु । तथाभूतं नृपश्रेष्ठं प्रेषयामास तां पुरीम् ॥ २९॥ पुनरुन्मील्य नेत्रे स्वेऽपश्यद्गेहं महानृपः । स्वां पुरीं विस्मितो भूत्वा प्रणनाम विनायकम् ॥ ३०॥ वृत्तं संश्रुत्य भूपेशात् पुनस्तं गणनायकः । मायया स मुनेस्तस्याश्रमस्थमकरोत्ततः ॥ ३१॥ पुनः समागतं वीक्ष्य नृपं प्राह महामुनिः । किमर्थमागतो राजन्नद्यैव वद मे गृहे ॥ ३२॥ ततस्तं राजशार्दूलो जगाद कथितं च यत् । विनायकेन भोः स्वामिंस्त्वामाह्वयति विघ्नपः ॥ ३३॥ (Page खं. २ अ. ५७ पान १२१) तेनाऽहं प्रेषितो नूनं शुण्डादण्डधरेण च । चल शीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् ॥ ३४॥ श्रुत्वा तस्य वचो रम्यं भक्त्याऽत्यन्तं लुलोठ च । रोमाञ्चितशरीरोऽसौ साश्रुनेत्रो महामुनिः ॥ ३५॥ तं दृष्ट्वा विस्मितोऽत्यन्तं काशिराजो महामनाः । अहो भक्तिरियं साक्षाद् दृश्यते देहधारिणी ॥ ३६॥ देहभावं समासाद्य यात्रार्थं तेन भूभुजा । भ्रुशुण्डी चलितश्चैव स्वाश्रमात् प्रजगाम सः ॥ ३७॥ देहश्रमेण यात्रा वै कर्तव्या गणपस्य च । विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ॥ ३८॥ ज्ञात्वा तस्य हृदिस्थं सा निश्चयं धरणी मुनिम् । प्रापयामास काश्यां तं क्षणेन नृपसंयुतम् ॥ ३९॥ नृपेण नगरी दृष्टा तमुवाच ततः परम् । स्वामिन् समागता काशी प्रभावात्तपसश्च ते ॥ ४०॥ ततस्तं स्वगृहे नीत्वाऽपूजयन् नृपसत्तमः । विनायकः समायातं भक्तं पश्यति साश्रुकः ॥ ४१॥ तस्य भावं विदित्वाऽसौ शुण्डां धृत्वा विनायकः । मूषकोपरि संस्थाय प्रजगाम महामुनिम् ॥ ४२॥ चतुर्भुजधरं विप्रो महोदरविराजितम् । शेषनाभिं त्वेकदन्तं दृष्ट्वा तं प्रणनाम च ॥ ४३॥ अपूजयत् भ्रुशुण्डी तं भक्तिभावसमन्वितः । पुनः प्रणम्य तुष्टाव नानास्तोत्रैः प्रसन्नधीः ॥ ४४॥ उवाच विस्खलद्वाक्यो भक्ते रसपरिप्लुतः । गजाननं निजं नाथं कृतकृत्यो महासुर ॥ ४५॥ भ्रुशुण्ड्युवाच । तव दर्शनमात्रेण कृतकृत्यो गजानन । महता भाग्ययोगेन दृष्टं ते चरणं विभो ॥ ४६॥ अधुना मे वरं देहि तेन तुष्टो भवाम्यहम् । तव विस्मरणं नाथ न भवेन् मे तथा कुरु ॥ ४७॥ अनेनैव स्वरूपेण मत्स्थाने संस्थितो भव । आशापूरकनाम्ना त्वं ख्यातो भव गजानन ॥ ४८॥ तत्रैवानन्यभक्त्या त्वां भजामि रसयुक्तया । मुद्गलेन समं मां त्वं पूर्णं भक्तं कुरु प्रभो ॥ ४९॥ अथवा मुद्गलाच्चैवाधिकं मां कुरु विघ्नप । गुरोरतिक्रमाच्छिष्यः पुत्रो वा तस्य नाल्पकः ॥ ५०॥ एवं प्रार्थयमानं तं तथेति गणनायकः । जगाद स पुनर्बालो भूत्वाऽखेलत्तु सादरम् ॥ ५१॥ तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः । भ्रुशुण्डी च ततः काशिराजः संविस्मितोऽभवत् ॥ ५२॥ हृदि राजा विचार्यासावेकनिष्ठो बभूव ह । गणेशभजने दृष्ट्वा भ्रुशुण्डीचरितं महत् ॥ ५३॥ अहो मुनिवरो धन्यो नानारूपात्मिकां पराम् । मायां त्यक्त्वा स योगेन भजते गणनायकम् ॥ ५४॥ सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो । अतस्तमेकभावेन भजतेऽसौ महामुनिः ॥ ५५॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । कोट्यंशेन समा नान्या तत् भजेत् योगिसत्तमः ॥ ५६॥ सर्वत्र गणराजोऽयं वसत्यत्र न संशयः । कलांशेन ततोऽन्येषां भजने च फलं लभेत् ॥ ५७॥ गणेशभजनं ह्येकं चेत् पूर्णं भजनं भवेत् । सर्वेषां च गणेशस्य भ्रुशुण्डी तत् समाश्रितः ॥ ५८॥ अहो भ्रुशुण्डिना तुल्यो दृश्यते न कदाचन । (Page खं. २ अ. ५८ पान १२२) प्रत्यक्षो गणराजोऽयं शुण्डावान्नात्र संशयः ॥ ५९॥ काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः । मणिकर्णीं च विश्वेशं सस्मार मनसाऽपि न ॥ ६०॥ गणेशार्थं समायातस्तं प्रणम्य महामुनिः । स्वाश्रमं पुनरेवासौ जगाम सुखदायकम् ॥ ६१॥ एवं विस्मयभावेन काशिराजस्तथाऽभजत् । गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भ्रुशुण्डीभक्तिवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ २.५७

२.५८ यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । श‍ृणु गृत्समद त्वं मे वचनं दीनपालक । कोऽसौ भ्रुशुण्डिनामा वै मुनिर्मे ब्रूहि साम्प्रतम् ॥ १॥ तपसा केन तस्याऽपि भृशुण्डा निःसृता प्रभो । कीदृशी मानसी पूजा कृता मां वद विस्तरात् ॥ २॥ आश्चर्यं परमं प्राप्तः श्रुत्वा मुनिवरस्य च । महिमानं महाभाग धन्यो भूमण्डलेऽभवत् ॥ ३॥ गणेशभजने सक्ता नरास्ते ब्रह्मरूपिणः । तेषां कथा प्रवक्तारं श्रोतारं प्रपुनाति च ॥ ४॥ मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी तमब्रवीत् । प्रह्लादं भक्तिपात्रं वै दृष्ट्वा हर्षसमन्वितः ॥ ५॥ गृत्समद उवाच । श‍ृणु प्रह्लाद भावेन कथां लोकैकपावनीम् । भ्रुशुण्डिसंश्रितां पुण्यां ब्रह्मभूतपदप्रदाम् ॥ ६॥ नन्दुरे त्ववसद् ग्रामे नामा कैवर्तकः पुरा । नाम्ना पापी सुविख्यातो महापापपरायणः ॥ ७॥ धृत्वा ग्रामेषु शस्त्रादीन् वनेषु विचचार ह । जीवहिंसां सदा तत्र चकार कामवर्जितः ॥ ८॥ मार्गस्थांश्च जनान् वीक्ष्याऽमारयद्धनलिप्सया । सङ्गृह्य मिलितं ग्रामे जगाम प्रत्यहं खलः ॥ ९॥ द्रव्यवस्त्रादिहीनांस्तान् दृष्ट्वा मारयताप्यहो । जीवं दृष्ट्वा क्रूरकर्मा न मुमोच वधप्रियः ॥ १०॥ धनं तेषां गृहीत्वाऽसौ धनवान् प्रबभूव ह । द्रव्यसञ्चयभावेन न तुतोष कदाचन ॥ ११॥ न सङ्ख्यां कर्तुमत्यन्तं तस्य पापस्य वै भवेत् । ब्रह्मा समर्थः शेषश्च पापानां भागिनौ भयात् ॥ १२॥ स्त्रीगोबालद्विजादीनां हत्याऽपारा कृता पुरा । तेन तस्य च भारेण पीडिता भूरभूत्ततः ॥ १३॥ एकदा वनमध्येऽसौ कञ्चित्पुरुषमुत्तमम् । दृष्ट्वा वधार्थमानन्दादधावच्छस्त्रसंयुतः ॥ १४॥ तमागतं समालोक्य दुष्टं दूरे पलाय्य सः । गव्यूतिमात्रमासाद्य ग्रामं तत्र जगाम ह ॥ १५॥ नामा प्रह्लाद मार्गे स पतितोऽधावनाऽऽकुलः । जातश्च दुःखितोऽत्यन्तं विरराम वधात्तदा ॥ १६॥ मन्दगत्या चचालाऽसौ मार्गे कुण्डं ददर्श ह । तत्र श्रमापनोदार्थं स्नानं चक्रे महाखलः ॥ १७॥ तदेव गणराजस्य तीर्थं पुण्यप्रदं महत् । (Page खं. २ अ. ५८ पान १२३) तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥ १८॥ स पापशिथिलो नामा विचारमकरोद् हृदि । अहो मया च पापानि कृतानि कति नाऽविदम् ॥ १९॥ मृतोऽहं नरके घोरे पतिष्यामि न संशयः । कल्पान् दुःखमनेकांश्च सहिष्यामि कथं परम् ॥ २०॥ मुद्गल उवाच । एवं ब्रुवन्तमानन्ददायकं मुनिसत्तमम् । प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥ २१॥ प्रल्हाद उवाच । कीदृशं कुण्डरूपं च केन वा चरितं तपः । तत्र येन गणेशस्य स्थानं कुण्डात्मकं ह्यभूत् ॥ २२॥ ततो गृत्समदः प्राह प्रह्लादं सर्वमञ्जसा । आह्लादेन समायुक्तो गाणपत्यो महायशाः ॥ २३॥ गृत्समद उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सूर्यस्य यमराजस्य संवादं पापनाशनम् ॥ २४॥ सूर्याय प्रददौ कन्यां विश्वकर्मा महाद्भुताम् । संज्ञां कर्ममयीं देवीं मायारूपां महाद्युतिः ॥ २५॥ तपसा शतवर्षैस्तां प्रसन्नां स चकार ह । ययाचे विश्वकर्मा तां पुत्री मे भव मानदे ॥ २६॥ साऽऽदिमाया वरात्तस्य पुत्री जाता सुरेश्वर । तां गृहीत्वा गृहं देव सविता प्रजगाम ह ॥ २७॥ तया रेमे महातेजाश्चिरकालं विभावसुः । तस्यां पुत्रौ च पुत्रीं वै जनयामास वीर्यतः ॥ २८॥ वैवस्वतो मनुर्ज्येष्ठो यमश्च यमुना नदी । सर्वे स्वधर्मशीलास्ते महाभागा बभूविरे ॥ २९॥ तीक्ष्णेन तेजसा तप्ता संज्ञा सूर्यस्य नित्यदा । निर्ममे मायया छायां स्वस्याकृतिधरां ततः ॥ ३०॥ तस्यै सर्वं निवेद्यैव पुत्रीं पुत्रौ गृहादिकम् । उवाच रविणा पृष्टा मा वद त्वं स्वचेष्टितम् ॥ ३१॥ तां छाया प्रत्युवाचेदं यदि मां धर्षयिष्यति । सविता चेन् महाभागे वदिष्यामि न संशयः ॥ ३२॥ गच्छ देवि यथा चित्ते निश्चयस्तादृशं कुरु । अहं सर्वं त्वदीयं यत् कार्यं संसाधयामि तत् ॥ ३३॥ ततः संज्ञा ययौ गेहं पितुस्तेन तिरस्कृता । भर्तारं त्यज मैवं त्वं स्वगृहं गच्छ मा कुरु ॥ ३४॥ ततः सा वनवासाय जगामाश्वस्वरूपिणी । भूत्वा तताप सा ध्यात्वा तपो गणपतिं प्रभुम् ॥ ३५॥ मालामन्त्रेण विघ्नेशं तोषयामास सा सती । पूर्णे वर्षशते तत्राजगाम गणनायकः ॥ ३६॥ तया सम्पूजितो देवः स्तुतश्चैव विशेषतः । वरं ददौ महाराज मनसीप्सितमादरात् ॥ ३७॥ देव्यर्यमा सौम्यतेजा भविष्यति न संशयः । त्वं मायाबन्धहीना वै मद्भक्तिनिरता भव ॥ ३८॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । कोपहीनः स्वयं भानुस्त्वामत्रागत्य नेष्यति ॥ ३९॥ एवमुक्त्वा गणाधीशोन्तर्धानं प्रचकार ह । सा तत्र गणपं देवं ध्यायन्ती संस्थिताऽभवत् ॥ ४०॥ छायायां सविता तद्वत् पुत्रौ पुत्रीं महायशाः । अथ सञ्जनयामास धर्मयुक्तान् महौजसः ॥ ४१॥ सावर्णिश्च मनुर्ज्येष्ठः सम्भूतश्च शनैश्चरः । तापी नाम्नी नदी कन्या त्रयस्ते प्रथिता भुवि ॥ ४२॥ छाया स्वपुत्रवात्सल्यात् संज्ञा पुत्रांश्च भेदतः । (Page खं. २ अ. ५९ पान १२४) सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥ ४३॥ मनुश्च सेहे तं मातुरपराधं विचक्षणः । धर्मराजः स तां तत्र निषिषेध मुहुर्मुहुः ॥ ४४॥ सा स्वभावं स्वकीयं तं न तत्याज कदाचन । कुपितो धर्मराजस्तां पदा हन्तुं प्रचक्रमे ॥ ४५॥ तं चाविनयसंयुक्तं शशाप जननी सुतम् । पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥ ४६॥ धर्मः क्रोधं समागृह्य सवितारं जगाम ह । भयभीतश्च शापेन वृत्तान्तं तं जगाद सः ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते यमशापवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ २.५८

२.५९ कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत् । धर्मशीलस्य सङ्क्रोधो मातरि प्रबभूव ह ॥ १॥ माता स्वदेहजं पुत्रं भेदबुद्धया शशाप ह । अतः कारणकं किञ्चिद्विपरीतं भवेदिह ॥ २॥ ततो ज्ञानेन बुद्ध्वा स यमं भानुरुवाच ह । मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥ ३॥ अतो विनायकं देवं भज त्वं भक्तिभावतः । स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥ ४॥ एवमुक्त्वार्यमा पुत्रं मन्त्रं पञ्चाक्षरं ददौ । विधियुक्तं गणेशस्य स ययौ वनमादरात् ॥ ५॥ सविताऽसौ जगामेदं छायां वचनमब्रवीत् । संज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥ ६॥ सा भीता सत्यमेवेदं वचनं तं जगाद ह । पितुर्गेहं गता संज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥ ७॥ सत्यभाषणयोगेन तुष्टस्तां न शशाप सः । जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥ ८॥ तं प्रणम्य स पप्रच्छ वृत्तान्तं रक्तलोचनः । संज्ञाया विश्वकर्मा तं सान्त्वयामास युक्तिभिः ॥ ९॥ विश्वकर्मोवाच । मया ते गृहमेवं सा प्रेषिता नागता यदा । मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् ॥ १०॥ त्वदीयतेजसा तप्ता गता शुष्कशरीरका । अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥ ११॥ ततः सोऽपि जगादेदं वचनं तं विभावसुः । त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥ १२॥ ततस्तेन स्वयन्त्रे संस्थाप्य तेजो हृतं महत् । तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥ १३॥ अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः । अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥ १४॥ साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत् । ततः सूर्येण वीर्यं स्वं नसि निक्षिप्तमादरात् ॥ १५॥ ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात् । निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥ १६॥ (Page खं. २ अ. ५९ पान १२५) एवं दृढाग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥ १७॥ संज्ञया सवितुर्वीर्यं त्यक्तं तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यो बभूवतुः ॥ १८॥ गणेशभक्तिभावेन संज्ञा सुखयुताऽभवत् । तमेव सततं देवी भजतेऽनन्यमानसा ॥ १९॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरोऽभवत् ॥ २०॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥ २१॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥ २२॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ २३॥ अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये । विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ २४॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः ॥ २५॥ भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते । अनन्ताननधारायानन्तहस्ताय ते नमः ॥ २६॥ अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय शिववन्द्याय शिवदाय नमो नमः ॥ २७॥ अखण्डविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाहस्थायैकदन्ताय ते नमः ॥ २८॥ आदिमध्यान्तरूपाय सर्वाकाराय ते नमः । पाशाङ्कुशधरायैव सर्वभोक्त्रे नमो नमः ॥ २९॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥ ३०॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः । अधुना रक्ष मां भक्तं शरणागतवत्सल ॥ ३१॥ एवं स्तुवन्तमत्यन्तमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥ ३२॥ गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥ ३३॥ ततस्तं भानुजस्तत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥ ३४॥ अन्यं वरं च मे देहि मातृशापहरं परम् । यद्यदिच्छामि देवेश तत्तत् सिध्यतु विघ्नप ॥ ३५॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते महाभक्तिर्भविष्यति न संशयः ॥ ३६॥ मातृशापस्य योगेन किञ्चिद् दुःखमवाप्स्यसि । क्लेद्यपादाच्च मांसं ते कीटाः सङ्गृह्य सत्वरम् ॥ ३७॥ पतिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥ ३८॥ दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥ ३९॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥ ४०॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥ ४१॥ पठते श‍ृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो यम ॥ ४२॥ (Page खं. २ अ. ६० पान १२६) हरामि नात्र सन्देहोंऽते स्वानन्दं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥ ४३॥ गणेशतीर्थसंज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥ ४४॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति । एवमुक्त्वान्तर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥ ४५॥ संस्थाप्य मूर्तिमचलां हेरम्बस्य महाद्विजैः । कुण्डं चकार भावेन गणेशपदलाञ्छितम् ॥ ४६॥ हेरम्बगणपो नाम्ना तत्र ख्यातो बभूव ह । यमः शापविहीनश्च बभूव स दिशोधिपः ॥ ४७॥ सदा गणपतिं चित्तेऽध्यायद्वै रविनन्दनः । समः सर्वत्र सञ्जातः सर्वमान्यो महायशाः ॥ ४८॥ एतत्ते कथितं दिव्यं चरित्रं कुण्डसम्भवम् । यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥ ४९॥ एतद्यमस्य माहात्म्यं यः श‍ृणोति नरोत्तमः । पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥ ५०॥ अधुना श‍ृणु दैत्येन्द्र प्रकृतं यत् कथानकम् । भृशुण्डिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥ २.५९

२.६० भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैवर्तकस्ततो नामा महादुष्टो ददर्श ह । मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥ १॥ दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः । खड्गमुद्यम्य तं हन्तुं ययौ नामा दृढाग्रहः ॥ २॥ यावत् समीपगो भूत्वा हन्तुं तमुपचक्रमे । तावत्तस्य करात् खड्गः पपात धरणीतले ॥ ३॥ शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः । पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥ ४॥ अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमद्भुतम् । तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥ ५॥ तं प्रणम्य महादुष्ट उवाच प्राञ्जलिर्मुनिम् । योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥ ६॥ नामोवाच । आजन्मनोऽद्यपर्यन्तं बुद्धिर्मे पापनिश्चया । तया कृतानि पापानि तेषां सङ्ख्या न विद्यते ॥ ७॥ अधुना कुण्डजेनैव किञ्चित् स्नानेन चाञ्जसा । जाता निर्मलभावा सा पापाद्वै सम्बिभेति च ॥ ८॥ तवदर्शनमात्रेण सन्तोषे संस्थिता मुने । मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥ ९॥ शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै । उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥ १०॥ तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह । गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥ ११॥ ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः । कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥ १२॥ नामोवाच । शिष्यं मां कुरु योगीन्द्र नोचेद् देहं त्यजाम्यहम् । (Page खं. २ अ. ६० पान १२७) सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥ १३॥ इति तस्य वचः श्रुत्वा शरणागतवत्सलः । गणेशाय नमो मन्त्रं योगी तस्मै ददौ स्वयम् ॥ १४॥ स्वयष्टिं तत्र योगीन्द्रः समारोप्य जगाद तम् । शुष्कामत्रैव तिष्ठ त्वं जपन्मन्त्रं महाखल ॥ १५॥ यावद्यष्टिश्च नामान् मे साङ्कुरा प्रभविष्यति । तावत्त्वं जप तं मन्त्रं तदा शुद्धो भविष्यसि ॥ १६॥ न फलं न जलं मूलं पर्णमन्नादिकं कदा । भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥ १७॥ एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः । अन्तर्धानं चकारैव सोऽपि तादृशमाचरत् ॥ १८॥ गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदङ्गके । समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥ १९॥ तथापि नाममन्त्रं स नामाऽजापीच्च भावतः । नाममन्त्रप्रभावेण साङ्कुरा यष्टिराबभौ ॥ २०॥ पापं सर्वं लयं प्राप्तं तस्य मन्त्रप्रभावतः । पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥ २१॥ अतिपुण्येन भक्त्या च शुण्डा तस्य विनिःसृता । भ्रूमध्यात्तेन सञ्जातो गजानन इवाऽपरः ॥ २२॥ ततस्तत्र समायातो मुद्गलश्च महायशाः । शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥ २३॥ ततो यष्टिं ददर्शाऽसौ साङ्कुरा विस्मितोऽभवत् । अहो दुष्टमतिर्नामा तपसे संस्थितोऽभवत् ॥ २४॥ चञ्चलं भावमुत्सृज्य देहशोषणतत्परः । कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥ २५॥ ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः । कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥ २६॥ ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् । सिषेच तेन नामाऽपि सावधानो बभूव ह ॥ २७॥ गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः । ततः सम्मान्य योगीशो धृत्वाऽऽलिङ्ग्य जगाद तम् ॥ २८॥ वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः । भव ब्राह्मणमुख्यश्च भृशुण्डी संज्ञयाऽधुना ॥ २९॥ सिद्धोऽसि नाममन्त्रेण सर्ववन्द्यो भविष्यसि । तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥ ३०॥ लक्षकल्पमयं कालं जीवं स्थास्यसि भो मुने । कल्पे कल्पे च शिष्यास्ते भविष्यन्ति शिवादयः ॥ ३१॥ एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततोंऽतर्धानमाययौ ॥ ३२॥ सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् । वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥ ३३॥ उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे । ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानुभवात्मकैः ॥ ३४॥ भृशुण्ड्युवाच । नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते । अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ ३५॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः । हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ ३६॥ क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे । यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ ३७॥ (Page खं. २ अ. ६० पान १२८) शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ ३८॥ विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ ३९॥ गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ ४०॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ ४१॥ गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि । तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ ४२॥ किं वदामि गणाधीश महिमानं महाद्भुतम् । यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ ४३॥ पतितानामहं श्रेष्ठः पतितोत्तम एव च । तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ ४४॥ किञ्चित् संस्कारयोगेन विश्वामित्रादयः प्रभो । जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥ ४५॥ अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः । तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ ४६॥ एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् । भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ ४७॥ गणेश उवाच । वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि । त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ ४८॥ तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः । भृशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ ४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ ५०॥ तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः । क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ ५१॥ अमलाश्रमकं नाम्ना जनानां सेविनां सदा । अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ ५२॥ एवमुक्त्वांऽतर्दधे च गणेशो देवनायकः । भृशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ ५३॥ नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः । तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ ५४॥ ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा । तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ ५५॥ शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः । क्षेत्रसंन्यासभावेन तेऽसेवन्त महामुनिम् ॥ ५६॥ भृशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् । भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ ५७॥ तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः । शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ ५८॥ कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः । प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ ५९॥ इन्द्रादयस्तमेवं च दर्शनार्थं समागताः । कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ ६०॥ ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः । (Page खं. २ अ. ६१ पान १२९) नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ ६१॥ एवं प्रभावयुक्तः स भृशुण्डी कथितो मया । चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥ २.६०

२.६१ भृशुण्डिचरितं नामैकषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः । बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥ १॥ मानसी या त्वया पृष्टा तां श‍ृणुष्व महामते । यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥ २॥ चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम । साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥ ३॥ हृदि मूर्तिं गणेशस्य ध्यात्वा तत्रोपचारकैः । मानसैः पूजयेद्देवं साधारा सा मता बुधैः ॥ ४॥ अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना । तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥ ५॥ तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै । तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥ ६॥ निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् । मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥ ७॥ तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् । निराधारा मता पूजा गणेशस्य महात्मनः ॥ ८॥ चित्तस्य पञ्च भूमीनां लयं कृत्वा समा स्थितिः । तत्र शान्तिस्वरूपं यद्योगाकारेण दृश्यते ॥ ९॥ योगे विधिनिषेधादि सर्वं तेनोपचारकैः । समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥ १०॥ शान्तियोगे निराधारा पूजा प्रोक्ता च योगिभिः । एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥ ११॥ एवं भृशुण्डिना तेन कृता पूजा विशेषतः । भक्तिभावेन काश्यां सा प्राप्ताऽभूद्गणपाय च ॥ १२॥ इदं भृशुण्डिनश्चित्रं चरित्रं च नरोत्तमः । यः श‍ृणोति श्रावयति स वै स्वानन्दगो भवेत् ॥ १३॥ यं यमिच्छति तं तं वै लभते नाऽत्र संशयः । महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥ १४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भृशुण्डिचरितं नामैकषष्टितमोऽध्यायः ॥ २.६१ (Page खं. २ अ. ६२ पान १३०)

२.६२ विनायकचरितं नाम द्विषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततो विनायकस्तत्र काश्यां बालगणैः सह । चिक्रीड प्राकृतो भूत्वा भक्तानन्दविवर्धनः ॥ १॥ ततो गणकरूपेण दैत्यो हेमासुरो ययौ । तं मायया गणेशानो मारयामास दैत्यप ॥ २॥ ततः कूपासुरस्तत्र कन्दरेण सहागतः । परस्परविभेदेन तौ हतौ गणपेन च ॥ ३॥ ततोंऽभोसुरनामा यः प्रतापी च तथांऽधकः । तुङ्गासुरस्त्रयः प्राप्ता ब्रह्मलब्धवराः खलाः ॥ ४॥ खगरूपगणेशेन हता मुक्तिं प्रलेभिरे । विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥ ५॥ तेषां माता समायाता भ्रमरी नाम राक्षसी । रूपं कृत्वा ह्यदित्याश्च सा हता तेन दैत्यप ॥ ६॥ परीक्ष्य विस्मितास्तत्र मानवा भोजनार्थिनः । निमन्त्र्य तं ययुः सर्वे काशिराजसमन्विताः ॥ ७॥ एकस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः । भोजनार्थं काश्यपस्य सामग्रीं चक्रिरे जनाः ॥ ८॥ तत्र शुक्लो महाभक्तः काशीप्रान्तनिवासकः । शुक्लवृत्याऽचरद्भिक्षां प्रभोः शुश्राव चेष्टितम् ॥ ९॥ शुक्लो दारिद्र्यसंयुक्तः सन्तोषी भजने रतः । विद्रुमा तस्य पत्नी सा पतिभक्तियुताऽभवत् ॥ १०॥ सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवम् । भोजनार्थं काश्यपस्य मार्जितं स्वाङ्गणं तया ॥ ११॥ दर्भान् बद्ध्वा महायष्ट्यां ध्वजं चक्रे महामुनिः । सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं सती ॥ १२॥ तन्दुलान्नं जलैर्युक्तं चक्रे परमहर्षिता । प्रयत्नेनाल्पतैलं च शुक्ल आनयदादरात् ॥ १३॥ गृहे पलानि शुक्लस्य त्रीणि सञ्चयमानतः । तन्दुलानां हि पिष्टस्याऽभवन् पञ्च पलानि च ॥ १४॥ काश्यपस्य च भक्ष्यार्थं पाकं चक्रे च भावतः । शुष्कामलकखण्डं सोऽस्थापयन् मुखशुद्धये ॥ १५॥ नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरोऽभवत् । विनायकस्य शुक्लोऽपि महाभक्तिपरायणः ॥ १६॥ एतस्मिन्नन्तरे तत्र सनकश्च सनन्दनः । दर्शनार्थं समायातौ काश्यपस्य महात्मनः ॥ १७॥ राज्ञा सम्मानितौ विप्रौ दृष्ट्वा बालसमन्वितम् । विनायकं तथा तौ निर्भर्त्स्य गङ्गां प्रजग्मतुः ॥ १८॥ विनायको ययौ बालैः शुक्लस्याऽऽदौ गृहं प्रति । कुत्सितान्नं बभक्षैव ददौ सम्पत्तिमुत्तमाम् ॥ १९॥ ततो विनायको देवोऽनन्तरूपधरः स्वयम् । स काशिराजतां प्राप्य गेहे गेहे बभक्ष सः ॥ २०॥ एतस्मिन् समये तौ तं सनकश्च सनन्दनः । भिक्षार्थं वै ददृशतुः पर्यटन्तौ च काश्यपम् ॥ २१॥ गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुतं मुनी । त्यक्त्वा काशीं क्षुधायुक्तौ जग्मतुर्बहिरेव तौ ॥ २२॥ ततो विनायकेनैव सर्वं रूपं प्रदर्शितम् । पुनस्तौ शरणं भ्रान्तावेव तं जग्मतुर्हृदा ॥ २३॥ ततो गाणेशकं ज्ञानं दत्तं तेन महात्मना । गाणपत्यस्वभावेन चेरतुस्तौ गतौ ततः ॥ २४॥ काशिराजेन तत्सर्वं न ज्ञातं चेष्टितं महत् । भ्रान्तो राजा स तं नेतुं ययौ शुक्लगृहं मुदा ॥ २५॥ शिबिकायां गणेशं संस्थापयित्वा ययौ नृपः । स्वगृहं तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥ २६॥ (Page खं. २ अ. ६२ पान १३१) विनायकेन तौ त्यक्तौ शिखां सन्धृत्य दैत्यपौ । प्रजग्मतुः स्ववृत्तान्तं कथयित्वा नरान्तकम् ॥ २७॥ राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ । श्रुत्वा वृत्तान्तमत्यन्तं ताभ्यां सर्वं नरान्तकः ॥ २८॥ गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः । अवदन् दैत्यवृत्तान्तं नरान्तक उपागतः ॥ २९॥ सन्नद्धः सर्वसैन्येन काशिराजः स तं ययौ । युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥ ३०॥ ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत् प्रभुः । तया सृष्टं महासैन्यं कालरूपं च तद्बभौ ॥ ३१॥ तत्रैको नायकः क्रूरः प्रणम्य गणनायकम् । ययौ तस्य महासेनां भक्षयन् पश्यतः क्षणात् ॥ ३२॥ धृत्वा नरान्तकं सोऽपि जगाम च विनायकम् । विनायकेन सैन्येशो मुखे लीनः कृतः स्वके ॥ ३३॥ तस्योदरे गणेशेन रक्षितः काशिपालकः । तेन सार्धं गणेशस्य देहे लीनोऽभवन्नृपः ॥ ३४॥ तं नृपं जठरे देवो दर्शयित्वा जगत् पुनः । रोममार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः ॥ ३५॥ प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमम् । विस्मितं मायया तं स मोहितं प्रचकार ह ॥ ३६॥ तत् दृष्ट्वा दैत्यराजः स विस्मितो तर्कयत् स्वयम् । अयं ब्रह्ममयो देवः कश्यपात्मज एव च ॥ ३७॥ अस्य हस्तेन मे मृत्युर्भविता चेत् सुमङ्गलम् । ब्रह्मभूयकरं तस्माद्युद्ध्येयं हर्षसंयुतः ॥ ३८॥ नरान्तकेन कृत्वा च युद्धं तेन महत्ततः । मोहयित्वा तं जघान विराड्रूपेण विघ्नपः ॥ ३९॥ ममार दैत्यराजस्तु मस्तकस्तस्य वै गृहे । पतितस्तं विलोक्यैव शुशोच जननी पिता ॥ ४०॥ शिरो धृत्वा गतौ स्वर्गे दृष्ट्वा देवान्तको हि तत् । सोऽपि क्रोधसमायुक्तो ययौ काश्यां स दैत्यपः ॥ ४१॥ कृत्वा युद्धं महाघोरं तेन सार्धं विनायकः । गजाननस्वरूपं च दर्शयामास शत्रवे ॥ ४२॥ दृष्ट्वा दैत्येन दन्तस्तु भग्नो वामोऽस्य तत्क्षणात् । दैत्येन्द्रं तेन दन्तेन मारयामास विघ्नपः ॥ ४३॥ ततो हर्षयुतैर्देवः स्तुतो देवर्षिभिः प्रभुः । प्रविवेश नृपेणाऽसौ काशीं भक्तपरायणः ॥ ४४॥ राजपुत्रस्य देवेशो विवाहं च चकार ह । राज्ञा सम्पूजितो ढुण्ढिः स्वाश्रमं गन्तुमुत्सकः ॥ ४५॥ ततो लोका महा भक्तास्त्यक्त्वा गेहादिकं ययुः । तेभ्यो ज्ञानं ददौ देवः शान्तिं प्राप्ता गृहान् ययुः ॥ ४६॥ राज्ञा रथेन शीघ्रं वै स्वाश्रमं स जगाम ह । काशिराजं च काश्यामप्रेषयद्गणनायकः ॥ ४७॥ लोकैर्नृपो ढुण्ढिराजं स्थापयामास वै पुरे । नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः ॥ ४८॥ अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः । भूभारहरणार्थं च जातोऽहं युवयोः सुतः ॥ ४९॥ तच्च सर्वं कृतं कर्माधुना यामि निजं पुरम् । एवमुक्त्वा ददौ ताभ्यां ज्ञानं सोंऽतर्हितोऽभवत् ॥ ५०॥ ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता प्रभोः । विनायकेति नाम्ना सा विख्याता प्रबभूव ह ॥ ५१॥ (Page खं. २ अ. ६३ पान १३२) प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः । सदेहः स ययौ राजा स्वानन्दे गणनायकम् ॥ ५२॥ एतत्ते कथितं सर्वं विनायकचरित्रकम् । सङ्क्षेपेण महाभाग एकदन्तावतारजम् ॥ ५३॥ श‍ृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् । अन्ते स्वानन्दवासेन ब्रह्मभूतो भविष्यति ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥ २.६२

२.६३ शनिसमागमो नाम त्रिषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । श‍ृणु पुष्टिपतेः ख्यातं सर्वपापहरं परम् । भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः ॥ १॥ शकुनेश्च महामानी पुत्रोऽभूद् दुर्मतिः पुरा । दैत्यराजस्य तेजस्वी महापर्वतसन्निभः ॥ २॥ तताप तप उग्रं स शक्तिं ध्यात्वा महासुरः । नवार्णेन सुमन्त्रेण शुक्रशिष्यः प्रतापवान् ॥ ३॥ सहस्रवर्षे प्रगते शक्तिः सा वरदाऽभवत् । आययौ भक्तमुख्यं साऽबोधयत्तं वरं वृणु ॥ ४॥ तेनाऽपि पूजिता देवी माहात्म्येन च संयुता । शक्तेस्तेन प्रसन्ना सा तस्मै सर्वाऽभयं ददौ ॥ ५॥ त्रैलोक्यराजमुग्रं च सङ्ग्रामे जयमादरात् । आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी ॥ ६॥ तत्र तेन क्रमेणैव जितं सर्वं चराचरम् । विष्णुमुख्याः सुराः सर्वे वने वासं प्रचक्रिरे ॥ ७॥ शक्तिं शिवेन संयुक्तां पीडयित्वा महाखलः । पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपोऽभवत् ॥ ८॥ शक्तिर्लोकं परित्यज्य शिवेन सहिता ययौ । अन्तर्धाय स्वमात्मानं वने वासं चकार ह ॥ ९॥ गते कियति काले तौ नारदस्तत्र चागतः । जगाद विघ्नराजस्य ताभ्यां चोपासनां शुभाम् ॥ १०॥ पुत्रभावेन देवेशो भविष्यति गणेश्वरः । आराधितो न सन्देहो दुर्मतिं स हनिष्यति ॥ ११॥ एवमुक्त्वा गते चैव नारदे शक्तिशङ्करौ । तेपाते तप उग्रं तौ षोडशाक्षरमानतः ॥ १२॥ मन्त्रं षोडशवर्णाख्यं जेपतुर्गणपस्य च । एवं वर्षशते पूर्णे गणेशो वरदोऽभवत् ॥ १३॥ आगतं गणपं दृष्ट्वा नेमतुश्चरणाम्बुजे । गणाधीशं तुष्टुवतः शिवशक्ती कृताञ्जली ॥ १४॥ शक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १५॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ १६॥ वरदाभयहस्ताय नमः परशुधारिणे । अनामयाय सर्वाय सर्वपूज्याय ते नमः ॥ १७॥ सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च । ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥ १८॥ (Page खं. २ अ. ६३ पान १३३) ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ॥ १९॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ॥ २०॥ त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥ २१॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥ २२॥ गणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् । पठते श‍ृण्वते चैव भविष्यति सुखप्रदम् ॥ २३॥ भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा । धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥ २४॥ वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् । भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥ २५॥ शक्तिशिवावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥ २६॥ भक्तिं देहि दृढां देव त्वदीये पादपङ्कजे । दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥ २७॥ गृत्समद उवाच । तयोर्वचनमाकर्ण्योमित्युक्त्वांऽतर्दधे विभुः । शिवौ सन्तोषयुक्तौ च तत्र सञ्चेरतुर्भयात् ॥ २८॥ एकदा पार्वती शम्भुर्वैशाखस्नानमादरात् । चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥ २९॥ भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै । दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥ ३०॥ वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः । स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥ ३१॥ ध्यात्वा हृद्यावाहयतां गणाधीशं तमञ्जसा । मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥ ३२॥ चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् । उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥ ३३॥ वरदानप्रभावेण वैशाखस्नानजेन च । तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥ ३४॥ ततः प्रणम्य तं देवः शङ्करः शक्तिसंयुतः । तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥ ३५॥ ततो गणपतिः प्रीत्या मोहयामास मायया । शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥ ३६॥ ततस्तस्य स संस्कारान् कारयामास वै द्विजैः । शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥ ३७॥ ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह । तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥ ३८॥ एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः । दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥ ३९॥ प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक । जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥ ४०॥ धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् । येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥ ४१॥ त्वं साक्षाद्योगरूपश्च पुष्टिः पोषणकारिणी । विश्वम्भरा महाशक्तिस्तस्माद्वां वै नमो नमः ॥ ४२॥ (Page खं. २ अ. ६४ पान १३४) एतस्मिन्नन्तरे तत्र शक्तिः स्वयमुपागता । प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥ ४३॥ पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः । ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥ २.६३

२.६४ विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह । तन्मे त्वं सकलं ब्रूहि रविपुत्रस्य चेष्टितम् ॥ १॥ गृत्समद उवाच । श‍ृणु तत्रैव सञ्जातं वृत्तान्तं साधुसत्तम । तेन ते सर्वसन्देहो नाशं यास्यति निश्चितम् ॥ २॥ शनिरुवाच । श‍ृणु शक्ते महामाये एकदाऽहं गृहे स्थितः । सूर्यपूजनसंशीलो ध्याननिष्ठोऽभवं पुरा ॥ ३॥ निशि तत्र समायाता पत्नी मे वेषधारिणी । भूषणैर्भूषिता सर्वैर्मां जगाद सुविह्वला ॥ ४॥ ऋतुदानमिदानीं त्वं मह्यं देह्येव भानुज । पश्य मां सर्वश‍ृङ्गारयुक्तां भर्तर्नमोऽस्तु ते ॥ ५॥ अहं ध्यानसमायुक्तो नाऽपश्यं च हि तां प्रियाम् । द्विमुहूर्ते गते सा मां शशाप क्रोधसंयुता ॥ ६॥ यदि मां पश्यसि न च भर्तस्त्वं विफलं ऋतुम् । करोषि तेन दृष्टं यत्त्वया नष्टं भविष्यति ॥ ७॥ एवमुक्त्वा गता सा वै तदहादहमञ्जसा । न पश्यामि कदा कुत्र जगदम्ब यथायथम् ॥ ८॥ तस्य तद्वचनं श्रुत्वा जगदम्बा तमब्रवीत् । पश्य त्वं ग्रह वै ढुण्ढिं तेन सर्वं शुभं भवेत् ॥ ९॥ एवमुक्तः शनिस्तत्र गणेशानमलोकयत् । सर्वाङ्गैः शोभमानं वै सस्त्रीकं साधुसत्तम ॥ १०॥ ततस्तस्य गणेशस्य मस्तकं सहसा गतम् । अन्तर्धानं च तद् दृष्ट्वा हाहाकारो बभूव ह ॥ ११॥ मुहूर्ते प्रगते तत्र पुनस्तं देवविप्रपाः । अपश्यन् शिरसा युक्तं सर्वावयवसुन्दरम् ॥ १२॥ ततो हर्षयुताः सर्वे तुष्टुवुस्तं गजाननम् । शनिः प्रणतभावेन तुष्टाव गणनायकम् ॥ १३॥ शनिरुवाच । नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः । विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ १४॥ सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका । पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ १५॥ क्षमस्वैतं चापराधं मदीयं गणनायक । पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ १६॥ किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम् । वेदाद्यैर्योगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥ १७॥ तथापि बुद्धिप्रामाण्यात् स्तुवन्ति त्वां महेश्वराः । अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥ १८॥ नमस्ते बुद्धिकान्ताय सिद्धिनाथ नमोऽस्तु ते । ब्रह्मणां पतये तुभ्यं हेरम्बाय नमो नमः ॥ १९॥ (Page खं. २ अ. ६४ पान १३५) सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे । तयोर्योगे च योगाय शान्तिरूपाय ते नमः ॥ २०॥ पुन्नामनरकात्त्राता पुत्रस्तेन प्रकीर्तितः । शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥ २१॥ सिद्धिर्माया च वामाङ्गे मायिके दक्षिण च धीः । तयोरभेदयोगे त्वमेकदन्ताय ते नमः ॥ २२॥ एवमुक्त्वा प्रहर्षेण सरोमाञ्चो बभूव ह । प्रणनाम स साष्टाङ्गं भक्तिभावेन सम्प्लुतः ॥ २३॥ तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् । वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥ २४॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । यः पठिष्यति यो मर्त्यः श‍ृणुयात् सर्वदं भवेत् ॥ २५॥ ततस्तं गणनाथं स उवाच रविनन्दनः । भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥ २६॥ ततस्तं गणराजश्च स जगादासुरेश्वर । भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥ २७॥ क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर । स एव नाशमायातु निःशापो भव सर्वदा ॥ २८॥ ततो विष्णुं जगामाऽसौ तं प्रणम्य च भानुजः । उवाच देहि मे नाथ गणेशोपासनां शुभाम् ॥ २९॥ ततस्तेन समाख्यातं कवचादिकमुत्तमम् । गीतासारं ददौ तस्मा एकाक्षरमनुं प्रभोः ॥ ३०॥ ततस्तं प्रययौ गेहे प्रणम्य स शनैश्चरः । योगं च साधयामास गाणपत्यो बभूव ह ॥ ३१॥ ततः कियति काले च गते शङ्करमब्रवीत् । गणेशो भावयुक्तं यद्वचनं भक्तवत्सलः ॥ ३२॥ किं तात देवदेवेशैर्मुनिभिश्च सदाशिव । वनवासं करोषि त्वं वद कारणमत्र माम् ॥ ३३॥ जगाद शङ्करो हृष्टस्ततस्तं भक्तिभावितः । जगत् सर्वं दुर्मतिनाऽसुरेशेन पराजितम् ॥ ३४॥ ब्रह्माण्डाधिपतिः सोऽपि प्रजातो वरदानतः । अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठोऽभवत् स्वयम् ॥ ३५॥ गृत्समद उवाच । शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूव ह । गजाननो जगादेदं वचनं हितकारकम् ॥ ३६॥ गणेश उवाच । मयि ते पुत्रतां याते दुर्लभं किं च ते भवेत् । हनिष्यामि महादैत्यं पश्य मे पौरुषं शिव ॥ ३७॥ एवमुक्त्वा महादेवं सन्नद्धः स गजाननः । मूषकारूढको भूत्वा त्वगमद्दैत्यनायकम् ॥ ३८॥ तमनु प्रययुर्देवा मुनयो भक्तितत्पराः । नगरप्रान्तभागे च स गत्वा संस्थितोऽभवत् ॥ ३९॥ दूतं सम्प्रेषयामास विष्णुं देववरं ततः । स गत्वा दुर्मतिं दुष्टमबोधीद्युक्तिभिश्च तम् ॥ ४०॥ विष्णुरुवाच । स्वानन्दवासकारी यो गणेशो ब्रह्मनायकः । शिवेन तपसा सोऽपि याचितः पुत्रकाम्यया ॥ ४१॥ स एव पुत्रतां प्राप्तः पुष्टीशो यः समागतः । त्वां बोधितुं च मां सोऽपि प्रेषयामास दुर्मते ॥ ४२॥ देवानां द्वेषमुत्सृज्य वस पातालमण्डले । स्वस्वधर्मरता लोका भवन्तु विगतज्वराः ॥ ४३॥ एवमुक्तो महादैत्यस्तमुवाच जनार्दनम् । दूत्येन त्वं समायातो नो चेद्धन्मि प्रभावतः ॥ ४४॥ कः स्वानन्दपतिः सोऽपि देवपक्षधरोऽभवत् । (Page खं. २ अ. ६५ पान १३६) तं हनिष्यामि वेगेन द्रक्षसि त्वं गजाननम् ॥ ४५॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः । वृत्तान्तमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥ ४६॥ बभूव मूषकारूढो तं हन्तुं शस्त्रधारकः । देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ २.६४

२.६५ द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद वाच । ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ । रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥ १॥ दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः । आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥ २॥ ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् । असम्बद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥ ३॥ देवसेना ततो भग्ना पलायत दिशो दश । भयभीता ततः क्रोधाद्युयुधे शङ्करो भृशम् ॥ ४॥ ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् । मूर्च्छिताः पतिताः केचिद्देवेशाः खण्डिताः शरैः ॥ ५॥ शम्भुं विष्णुं च देवेन्द्रं सर्वानन्यान् सुमूर्च्छितान् । तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥ ६॥ मूषकारुढ एवाऽसौ सङ्ग्रामाय समाययौ । तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥ ७॥ दुर्मतिरुवाच । किमर्थं मूर्खभावेन युद्धाय समुपागतः । बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥ ८॥ ब्रह्माण्डं निर्जितं येन तेन युद्धं करिष्यसि । अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥ ९॥ एवं वदन्तमुग्रं तं दैत्येशं दुर्मतिं प्रभुः । जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥ १०॥ पुष्टिपतिरुवाच । मा गर्वं कुरु दैत्येश दुर्मते श‍ृणु मे वचः । त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥ ११॥ इत्युक्तवन्तमप्येनं दुर्मतिः सहसा ययौ । दन्तं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥ १२॥ महाबलेन दैत्येन वामदन्तः प्रपातितः । भक्त्त्वा स धरणी पृष्ठे तं दन्तं गणपोऽग्रहीत् ॥ १३॥ दन्तेन शिरसि प्रोतो दुर्मतिः स ममार ह । ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥ १४॥ ततो दैत्यगणाः सर्वे पलायन्त दिशो दश । पातालं जग्मुरत्यन्तं भयभीताः समन्ततः ॥ १५॥ ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः । अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥ १६॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १७॥ जयानन्त गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ १८॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर । जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ १९॥ (Page खं. २ अ. ६५ पान १३७) जय वेदान्तवादज्ञ जय वेदान्तकारण । जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ २०॥ जय मायामये खेलिन् जयाव्यक्त गजानन । जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ २१॥ जयैकदन्तहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ २२॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥ २३॥ जयानन्द गणेशान जय पाशाङ्कुशप्रिय । जय पर्शुधर त्वं वै जय पावनकारक ॥ २४॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय । जय भक्तेश विघ्नेश जय नाथ महोदर ॥ २५॥ नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय । नमो नमस्ते भवमोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥ २६॥ इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते । उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥ २७॥ तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः । प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियङ्करः ॥ २८॥ पुष्टिपतिरुवाच । भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः । श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥ २९॥ पठनाच्छ्रवणादस्य सर्वं जयति मानवः । अन्ते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥ ३०॥ एवमुक्त्वान्तर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः । देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥ ३१॥ स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा । तथा पुनःस्वलोकस्था मोदन्ते स्म च तत्पराः ॥ ३२॥ स्वाचारं मुनयश्चक्रुर्वर्णाश्रमरता जनाः । बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥ ३३॥ शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् । अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥ ३४॥ मूर्तिं चक्रुर्गणेशस्य स्थापयामासुरादरात् । वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥ ३५॥ तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद । चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥ ३६॥ तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा । सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥ ३७॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥ ३८॥ एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः । लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥ ३९॥ राजपुत्री महाभागा पातिव्रत्यपरायणा । सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥ ४०॥ घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् । शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥ ४१॥ तामुवाच वरं ब्रूहि दास्येऽहं भावयन्त्रितः । सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥ ४२॥ ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः । राजानं याचनार्थाय सार्वभौमं ययाच वै ॥ ४३॥ दिलीपस्तमुवाचाथ कियन्मानं धनं वद । दास्यामि भावसंयुक्तस्तुभ्यं तत्तापसोत्तम ॥ ४४॥ राज्ञो वचनमाकर्ण्योवाच तं मुनिसत्तमः । व्ययादुर्वरितं यन् मे धनं देहि सुपुष्कलम् ॥ ४५॥ (Page खं. २ अ. ६५ पान १३८) ततो दिलीपो राजा तं जगाद व्ययमानकम् । द्रव्यं मेऽस्ति महाभाग तस्मात् सङ्ख्यां वदस्व भो ॥ ४६॥ जगाद मुनिशार्दूलः ततस्तं विस्मयान्वितः । न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥ ४७॥ मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप । तदा सर्वे जना राजन् भवन्ति च निपीडिताः ॥ ४८॥ अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप । मया सार्धं महद् द्रव्यं यत्र वै सञ्चितं भवेत् ॥ ४९॥ ततो राजा च वृत्तान्तं कथयामास तं मुनिम् । वातापिर्दैत्यपोऽगस्त्यद्रव्ययुक्तो भवत्यपि ॥ ५०॥ देवैरवध्यतां प्राप्य हन्ति विप्रांश्च नित्यशः । पशुं कृत्वाऽनुजं दुष्ट इल्वलं श्राद्धकर्मणि ॥ ५१॥ देवानां निधनार्थाय कर्ममूलनिकृन्तनः । अखिलं ब्राह्मणाधारं कर्म तेन हिनस्ति तत् ॥ ५२॥ इल्वलश्चाऽपि योगीन्द्र वरयुक्तप्रभावतः । गत्वोदरे कामरूपो वाताप्याहूत एव सः ॥ ५३॥ तदा तेषां नखेनैव स्फोटयित्वा महोदरम् । निर्गत्य पूर्ववद्देहसंयुक्तो भवतीत्यहो ॥ ५४॥ अतस्त्वं गच्छ योगीन्द्र तं हत्वा द्रव्यसञ्चयम् । गृहाणास्माभिरत्यन्तं वातापिं भ्रातृसंयुतम् ॥ ५५॥ दिलीपस्य वचः श्रुत्वा हर्षयुक्तो महामुनिः । राजभिर्ब्राह्मणैर्युक्तस्तत्र गन्तुं मनो दधे ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुष्टिपत्युपाख्याने अगस्त्यस्य द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः ॥ २.६५

२.६६ कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । अगस्त्यो राजभिर्युक्तो ब्राह्मणैश्च समन्वितः । वातापेः सुस्थलं रम्यं ययौ क्रोधसमन्वितः ॥ १॥ तमागतं स विज्ञाय वातापिर्हर्षितो ययौ । प्रणम्य प्रत्युवाचेदं वचनं विनयान्वितः ॥ २॥ वातापिरुवाच । स्वामिंस्ते स्वागतं मेऽद्य भाग्यं सुफलितं महत् । ब्राह्मणै राजभिः सार्धं प्रपश्यामीऽह तापसम् ॥ ३॥ श्राद्धं मे भगवन्नद्य पितुरत्र समागतम् । निमन्त्रयाम्यहं सर्वैस्त्वां महाभाग वै सह ॥ ४॥ जगाद तं तथेत्येव दैत्यः संहर्षितोऽभवत् । इल्वलं पशुभावस्थं कृत्वा सञ्छिद्य दैत्यपः ॥ ५॥ पपाच विधिवन्मांसं ब्राह्मणार्थं विधानवित् । ततोऽगस्त्यं समायातं भोजनार्थं सहानुगम् ॥ ६॥ विधिवत् पूजयित्वा तं स्थापयामास चासने । तेनाङ्गुष्ठेन भूमिः सा पीडिता मुनिना कृतः ॥ ७॥ गर्तस्तत्र च सर्वान्नं पूरितं दैत्यदेहजम् । तज्ज्ञात्वा विस्मितो दैत्यो न किञ्चित्तमुवाच ह ॥ ८॥ अन्यान् सर्वान् सुभोज्येन भोजयामास चान्धसा । अगस्त्यः सकलं भुक्त्वा चान्नमिल्वलजं महत् ॥ ९॥ मन्त्रेण वैदिकेनाऽसौ मन्त्रयामास चोदरम् । (Page खं. २ अ. ६६ पान १३९) तस्य मन्त्रप्रभावेण दैत्यः सञ्जीर्णतां गतः ॥ १०॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥ ११॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥ १२॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुङ्गवम् ॥ १३॥ स मृतो मे च मन्त्रेण सञ्जीर्णो जठरऽधुना । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥ १४॥ पलायत स तच्छ्रुत्वा वातापिर्भयसङ्कुलः । ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥ १५॥ तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् । अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥ १६॥ वातापिस्तेन दैत्येन्द्रः स्थापितः स्वजलेऽभवत् । ततस्तं जलाधिं विप्र उवाच क्रोधसंयुतः ॥ १७॥ देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् । ततोऽगस्त्यं समुद्रश्च जगाद भयसङ्कुलः ॥ १८॥ स्वभावो मे महाभाग अतो नाऽहं ददामि तम् । दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥ १९॥ अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने । अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥ २०॥ त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् । क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥ २१॥ मदमस्य हरिष्यामि तादृशं न ददर्श ह । ततो मुनिर्विधातारं शरणं वै जगाम ह ॥ २२॥ प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥ २३॥ अगस्त्य उवाच । स्वामिन् समुद्रसम्मग्नो वातापिर्द्विजहिंसकः । तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥ २४॥ तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः । त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥ २५॥ एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् । अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥ २६॥ ब्रह्मोवाच । श‍ृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः । अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥ २७॥ वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक । अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥ २८॥ तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् । कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥ २९॥ ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः । श‍ृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥ ३०॥ विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः । तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमण्डले ॥ ३१॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः । सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥ ३२॥ अन्यच्च श‍ृणु पुत्र त्वं विनायक इति श्रुतिः । नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥ ३३॥ नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः । संसृष्टं सकलं विश्वं कलांशेन महामुने ॥ ३४॥ स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः । समुद्रस्तासु तं पुत्र चालितुं न क्षमा वयम् ॥ ३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥ ३६॥ गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववन्द्यः प्रतापवान् ॥ ३७॥ सर्वेषां मदहन्ता स जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥ ३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् । कृत्वा वन्द्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥ ३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥ ४०॥ अन्याशरणकृष्णस्य हृदि गर्वः समागतः । सततं मदयुक्तः स बभूव परमाद्भुतः ॥ ४१॥ अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः । मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥ ४२॥ मदनुग्रहमात्रेण देवाः शम्भुपुरोगमाः । शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥ ४३॥ एवं मनसि गर्वेण मदेन च समाकुलः । मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥ ४४॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वभक्तिभावदानार्थं शान्तियोगार्थमादरात् ॥ ४५॥ विररामैकदा युक्तो राधया वनमण्डले । रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥ ४६॥ तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् । तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥ ४७॥ अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने । विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥ ४८॥ ततः सङ्कुपिता राधा रतिभङ्गेन मानद । जगाद याः समीपस्था गोपिका वचनं तदा ॥ ४९॥ कुत्र दृष्टो महामानी कृष्णः स्त्रीलम्पटाग्रणीः । तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥ ५०॥ ततस्तां गोपिका काचिदुवाच विनयान्विता । विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥ ५१॥ ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता । विरजाश्रमसान्निध्यं गोपीभिः संवृता मुने ॥ ५२॥ तामागतां समाज्ञाय कृष्णश्चान्तर्दधे भयात् । विरजा जलरूपा सा जाता भयसमन्विता ॥ ५३॥ तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया । पुनः स्वमन्दिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥ ५४॥ ततः स प्रकटः कृष्णो बभूव ह चकार ताम् । स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥ ५५॥ सन्तोषेण समायुक्तां कृत्वा स विरजां ययौ । राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥ ५६॥ राधोवाच । किमर्थं लम्पटोऽत्यन्तमागतोऽसि ममान्तिकम् । गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥ ५७॥ मदीयसत्तया लोको रचितोऽयं मया पुरा । त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥ ५८॥ इत्यादिविविधैर्वाक्यैः पतिं निर्भत्स्य राधिका । शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥ ५९॥ ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः । (Page खं. २ अ. १७ पान १४१) न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥ ६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥ ६१॥ राधां शशाप मर्त्येषु भव नारी त्वमञ्जसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥ २.६६

२.६७ राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे । गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥ १॥ अहं गोलोकराजोऽहं सर्वाधीशो न संशयः । इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥ २॥ कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः । अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥ ३॥ हिताहितं न सन्देहस्तदाधारमिदं जगत् । सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥ ४॥ एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः । पपात भगवान् कृष्णो मृत्युलोके महामुने ॥ ५॥ मथुरायां च देवक्यां वसुदेवात् समुद्भवः । कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥ ६॥ वृषभानुसुता जाता राधा सा गोकुले मुने । शङ्खचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥ ७॥ ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ । तत्र राधासमायुक्तो बभूव स जनार्दनः ॥ ८॥ ततो विघ्नेशमत्यन्तं भेजतुस्तौ स्वभावतः । षोडशाक्षरमन्त्रेण परे तपसि संस्थितौ ॥ ९॥ पुरश्चरणमेकं तौ चक्रतुः परमादरात् । बभूवतुस्ततो ध्यानसमायुक्तौ निरन्तरम् ॥ १०॥ तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः । तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु सम्मतम् ॥ ११॥ संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः । ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥ १२॥ शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः । युक्तौ परमदुःखार्तौ ध्यायन्तौ गणनायकम् ॥ १३॥ ततस्तयोश्च सम्प्राप्तो योगः शान्तिप्रदायकः । तेन सन्तोषमापन्नौ गाणपत्यौ बभूवतुः ॥ १४॥ गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ । वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥ १५॥ तत्र शम्भुमुखा देवाः सस्त्रीकाश्च समागताः । यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥ १६॥ शेषादयो महानागा राजानश्च विशेषतः । त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥ १७॥ योगिनः कपिलाद्याश्च तत्राऽहं सङ्गतो मुने । सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥ १८॥ ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः । स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥ १९॥ तत्र राधा च कृष्णश्च मिलितौ गणपं निशि । (Page खं. २ अ. ५७ पान १४२) ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥ २०॥ ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् । रूपं चतुर्भुजं साक्षाद्गजवक्त्रादिचिह्नितम् ॥ २१॥ तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे । सरोमाञ्चौ तुष्टुवतुः साश्रुनेत्रौ गणेश्वरम् ॥ २२॥ राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिपते नमः शङ्करसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ २३॥ स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ २४॥ हेरम्बाय नमस्तुभ्यं नमो योगमयाय च । सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ २५॥ निगुर्णाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय तयोर्नमः ॥ २६॥ शान्तिरूपाय शान्ताय शान्तिदाय महोदर । मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥ २७॥ अनन्तानन्तरूपाय भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥ २८॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशोर्धर ते नमः ॥ २९॥ विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय च नमो नमः ॥ ३०॥ सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते । लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ ३१॥ किं स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो । शम्भुः शुकादयश्चैव बभूवुः कुण्ठिताः परम् ॥ ३२॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तव तत्र च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ ३३॥ साधूनां विघ्नदाता त्वं शान्तियोगार्थमञ्जसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे ॥ ३४॥ विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया । साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥ ३५॥ हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो । अतः स शुभदो विघ्नः सञ्जातो नौ गजानन ॥ ३६॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥ ३७॥ इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ । धन्यौ धन्यौ प्रब्रुवन्तौ दर्शनाद्गणपस्य तौ ॥ ३८॥ ब्रह्मोवाच । जगाद गणनाथस्तौ ततो वै भक्तिभावितः । दृष्ट्वा ब्रह्मरसाह्लादयुतौ राधाजनार्दनौ ॥ ३९॥ पुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं श‍ृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यन्तं संशयो न करिष्यथः ॥ ४०॥ सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् । यं यमिच्छथ आनन्दं सफलः स भविष्यति ॥ ४१॥ भवत्कृतमिदं स्तोत्रं पठतां श‍ृण्वतां नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥ ४२॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ ४३॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । तौ तं हृदि विशेषेण पश्यन्तौ तस्थतुर्निशि ॥ ४४॥ ततः पुनश्च गोलोके गतौ राधाहरी स्वके । बभूवतुरखण्डैश्वर्यसंयुक्तौ महामुने ॥ ४५॥ (Page खं. २ अ. ६८ पान १४३) अतस्त्वं मदहीनश्च शरणं गणपं व्रज । अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥ ४६॥ ब्रह्माण्डं वर्तते तस्याऽऽधारेण मुनिसत्तम । सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ २.६७

२.६८ पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः

॥ श्रीगणेशाय नमः । गृत्समद उवाच । श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाच ह । प्रणयावनतो भूत्वा ब्रह्माणं सर्ववेदिनम् ॥ १॥ अगस्त्य उवाच । भगवन् सर्वतत्त्वज्ञ कथितं सर्वमञ्जसा । त्वया तेनाहमत्यन्तं सुतुष्टो ब्रह्मवित्तम ॥ २॥ एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेत् । तद्वदस्व दयासिन्धो भवेयं दुःखवर्जितः ॥ ३॥ ततस्तं प्रत्युवाचेदं वचनं स पितामहः । ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतम् ॥ ४॥ ब्रह्मोवाच । श‍ृणु पुत्र प्रवक्ष्यामि ज्ञानं योगात्मकं महत् । यस्य त्वं गाणपत्यो वै भविष्यसि सुसेवनात् ॥ ५॥ देहदेहिमयं ब्रह्म स्वत उत्थानवाचकम् । जानीहि सर्वभावेन बोधरूपं विशेषतः ॥ ६॥ साङ्ख्यं यद्वदति ब्रह्म परतोत्थानवाचकम् । बोधहीनस्वभावेन लभते स्वसुखस्थितम् ॥ ७॥ तयोरभेदयोगे वै स्वसंवेद्यमतः परम् । जानीहि सर्वसंयोगकारकं योगसेवया ॥ ८॥ पञ्च भेदा मतास्तस्य ताञ्छृणुष्व महामते । जानीहि भेदरूपं यदसत्यं शक्तिवाचकम् ॥ ९॥ सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु । जानीहि संस्थितं पुत्र सदा भेदादिवर्जितम् ॥ १०॥ तयोः संयोगकर्ता स विष्णुरानन्दवाचकः । समात्मकं मतं ब्रह्म जानीहि सुखदं परम् ॥ ११॥ त्रयाणां नेति कर्ता च शङ्करः परिकीर्तितः । अव्यक्तं ब्रह्म जानीहि तत् प्रोक्तं मोहवर्जितम् ॥ १२॥ त्रिविधं मोहयुक्तं वै तुरीयं मोहवर्जितम् । तेषां संयोगभावेन स्वानन्दः परिलभ्यते ॥ १३॥ स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकम् । सर्वत्राऽयं निजानन्दः स्वानन्दे सकलो भवेत् ॥ १४॥ अयोगवाचकं ब्रह्म निजानन्दात् परं मतम् । संयोगहीनभावेन लभ्यते नात्र संशयः ॥ १५॥ संयोगायोगयोर्योगे तयोर्नाशे महामुने । स एव योग आख्यातः शान्तिरूपेण लभ्यते ॥ १६॥ स एव गणनाथोऽयं जानीहि ब्रह्मनायकः । गकारश्चैव संयोगो णकारो योग उच्यते ॥ १७॥ तयोः स्वामी स वेदेषु विचारय महामते । तमाराधय यत्नेन ततः सौख्यमवाप्स्यसि ॥ १८॥ अधुना त्वं सुसङ्कष्टयुक्तस्तत्र कुरुष्व भो । चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् ॥ १९॥ (Page खं. २ अ. ६९ पान १४४) समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् । तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥ २०॥ गृत्समद उवाच । ब्रह्माणं स नमस्कृत्य ययौ स्वकतपोवनम् । षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥ २१॥ सदा ध्यानरतो भूत्वा तताप तप उत्तमम् । सङ्कष्टहरणीं प्राप्तां चतुर्थीं स चकार ह ॥ २२॥ त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया । ध्यानेन तस्य प्रह्लाद तपसा भक्तिभावतः ॥ २३॥ पञ्चम्यां कृष्णपक्षस्य बभूवाकाशवाक् परा । अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीम् ॥ २४॥ गच्छ त्वं पिब विघ्नेशं स्मृत्वा तं जलधिं मुने । वातापिं जहि तत्रस्थं तपस्तेजःसमन्वितः ॥ २५॥ ततः स हर्षितो भूत्वा गत्वा जलधिसन्निधौ । गणेशं मनसा ध्यात्वा पपौ तं क्रोधसंयुतः ॥ २६॥ शोषयित्वा जलं सर्वं संस्थितो मुनिसत्तमः । तेजसा ज्वालयामास वातापिं विप्रघातिनम् ॥ २७॥ ततो देवगणाः सर्वे तुष्टवुस्तं महामुनिम् । दैत्यांस्तत्र स्थितान् सर्वान् जघ्नुर्देवा उदायुधैः ॥ २८॥ पुनर्गङ्गां समानीयोदधिमापूर्य तज्जलैः । भगीरथेन देवास्ते संस्थिता विगतज्वराः ॥ २९॥ ततोऽगस्त्यः समागम्य वातापिनगरं प्रभुः । राजभिः पुष्कलं द्रव्यं गृहीत्वा स्वस्थलं ययौ ॥ ३०॥ लोपामुद्रां महातेजास्तोषयामास यत्नतः । पश्चात्तपसि संस्थोऽसावजपन् मन्त्रमुत्तमम् ॥ ३१॥ जित्वा पञ्चविधं चित्तं योगीन्द्रो योगसेवया । ततो महायशाः शान्तिमापेदे गणनायके ॥ ३२॥ पुनर्भक्त्या गणेशानं मयूरे तं समागतः । क्षेत्रे तत्रापूजयत् स नित्यं हर्षसमन्वितः ॥ ३३॥ एवं पुष्टिपतेश्चैव महिमा ते निरूपितः । सङ्क्षेपेण मया दैत्य श‍ृणु चिन्तामणेः कथाम् ॥ ३४॥ इदं पुष्टिपतेश्चित्रं चरितं यः श‍ृणोति वा । पठेच्च सकलं तस्य हस्तगं प्रभवेत् ध्रुवम् ॥ ३५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः ॥ २.६८

२.६९ देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । स्वायम्भुवो ददौ कन्यां कर्दमाय प्रहर्षितः । देवहूतिं च तस्यां स कपिलः सम्बभूव ह ॥ १॥ साक्षाद्विष्णुः स्वयं देवस्तपसा कर्दमेन सः । आराधितश्च पुत्रोऽभूत्तत्त्वज्ञानप्रकाशकः ॥ २॥ तं महोत्सवयुक्तश्चापूजयत् स महामुनिः । ब्रह्मादयः समायाता दर्शनार्थं गृहे मुनेः ॥ ३॥ उपवीतयुतं कृत्वा कर्दमो हर्षनिर्भरः । वेदान् साङ्गान् स्वपुत्राय ह्यध्यापयत यत्नतः ॥ ४॥ स च श्रवणमात्रेण जग्राह गुरुणोदितम् । स्वल्पकालेन सम्पूर्णविद्यायुक्तो बभूव ह ॥ ५॥ (Page खं. २ अ. ६९ पान १४५) ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः । सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥ ६॥ कर्दम उवाच । त्वं साक्षाद्विष्णुरूपो मां शुक्लः सर्वार्थकोविदः । वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥ ७॥ एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह । सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥ ८॥ कपिल उवाच । श‍ृणु तात मया दृष्टमेव तत् शान्तिदायकम् । कथयामि महाज्ञानं शान्तियोगप्रदं प्रभो ॥ ९॥ सर्वं मायामयं विद्धि पञ्चकं पञ्चकं यतः । त्रिविधं भ्रान्तिरूपं यन्नानाभेदमयं भवेत् ॥ १०॥ भ्रान्तिधारकरूपं यत्तच्चतुर्थं प्रकथ्यते । तेषामभेदसंयोगे ब्रह्मयोगमयं मतम् ॥ ११॥ पृथ्वी जलं तथा तेजस्त्रिविधं भ्रान्तिदायकम् । वायुर्भ्रान्तिधरस्तत्र तुरीयात्मा प्रकथ्यते ॥ १२॥ तेषामभेदसंयोग आकाशं ब्रह्म कथ्यते । भूतानां ज्ञानदं कस्माद्भूतं नैव प्रकीर्तितम् ॥ १३॥ तथैव पञ्चकं सर्वं जानीहि मुनिसत्तम । मायामायिकसंयुक्तं ब्रह्म स्वानन्दसंज्ञितम् ॥ १४॥ कर्मेन्द्रियाणि पञ्चैव पञ्चज्ञानेन्द्रियाणि च । पञ्चतन्मातृकाः प्रोक्ता एवं जानीहि मानद ॥ १५॥ पञ्च देवा निजे देहे कर्मेन्द्रियविकाशकाः । तथा ज्ञानेन्द्रियाणां च प्रकथ्यन्ते प्रकाशकाः ॥ १६॥ स्थूलं सूक्ष्मं समं चैवात्मप्रतीतिप्रदायकम् । बिन्दुः पञ्चममत्रस्थं देहपञ्चकमुच्यते ॥ १७॥ स्वर्गो मृत्युश्च पातालं ब्रह्माण्डं च तुरीयकम् । गुणेशः पञ्चमः पूर्णोंऽडपञ्चकमुदाहृतम् ॥ १८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महामुने । योगिभिर्वर्णहीनाश्च वर्णपञ्चकमुच्यते ॥ १९॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । आश्रमैर्हीनरूपश्चाश्रमपञ्चकमुच्यते ॥ २०॥ अण्डजः खेदजो विप्रैरुद्भिज्जो जारजः स्मृतः । मानसश्चैव विपेन्द्र योनिपञ्चकमुच्यते ॥ २१॥ रक्तः श्वेतस्तथा श्यामो नीलः पीतश्च पञ्चमः । एवं कथयितुं रङ्गपञ्चकं न प्रशक्यते ॥ २२॥ देहेषु देहरूपं यदभिमानेन पञ्चधा । देहिपञ्चकमेतच्च ज्ञातव्यं मुनिसत्तम ॥ २३॥ शक्तिः सूर्यस्तथा ब्रह्मा विष्णू रुद्रो महामते । गुणपञ्चकमित्युक्तं भिन्नभावधरं पितः ॥ २४॥ शक्तिः सूर्यश्च विष्णुश्च शिवश्चाऽत्र तुरीयकः । गणेशः पञ्चमो विप्रैः पञ्चायतनमुच्यते ॥ २५॥ प्रकृतिः पुरुषश्चैव स्वत उत्थानसंज्ञितम् । परतोत्थानरूपं च संयोगः पञ्चमः स्मृतः ॥ २६॥ असद्वेदेषु सद्विप्रैरानन्दश्चोभयात्मकः । अव्यक्तश्च निजानन्दो नैजं पञ्चकमुच्यते ॥ २७॥ देहो देही च बोधाख्यं साङ्ख्यमत्र चतुर्थकम् । पञ्चमं च स्वसंवेद्यं भवपञ्चकमुच्यते ॥ २८॥ प्रकृत्यालयसंज्ञश्च विदेहो भवप्रत्ययः । उपायप्रत्ययो योगो योगपञ्चकमुच्यते ॥ २९॥ एवं सर्वं च जानीहि पञ्चकं पञ्चकं परम् । मयाऽशक्यं कथयितुं तस्मान् मुख्यं प्रकीर्तितम् ॥ ३०॥ तत्र योगे महाशान्तिर्लभ्यते योगसेवया । योगाच्च न परं ब्रह्म वेदेषु परिकीर्तितम् ॥ ३१॥ सर्वब्रह्मसुयोगस्य योगस्तेन महामुने । (Page खं. २ अ. ६९ पान १४६) न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥ ३२॥ गृत्समद उवाच । एवं पुत्रं वदन्तं स प्रणिपत्य महामुनिः । उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥ ३३॥ कर्दम उवाच । केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ ३४॥ कपिल उवाच । गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ ३५॥ सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने । य आदिः प्रलयान्ते स तिष्ठति श्रुतिसम्मतम् ॥ ३६॥ ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् । गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ ३७॥ नानाजगत्स्वरूपं वै देहरूपं कृतं मुने । महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥ ३८॥ यस्माज्जातमिदं यत्रान्ते गच्छति महामते । तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ३९॥ त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् । तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥ ४०॥ चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा । मोहरूपा महासिद्धिर्बुद्धिर्वै मोहधारिका ॥ ४१॥ तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः । चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ४२॥ पञ्चधा चित्तमुत्सृज्य तदैश्वर्यं तथैव च । योगशान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ ४३॥ तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने । तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ४४॥ एवमुक्त्वा महायोगी कपिलस्तत्त्वधारकः । विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥ ४५॥ ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः । ययौ तपोवनं सद्यस्तताप परमं तपः ॥ ४६॥ एकाक्षरविधानेन परितुष्टो गजाननः । योगं शान्तिमयं तस्मै प्रददौ भक्तवत्सलः ॥ ४७॥ कर्दमः शान्तभावेन गणेशमभजत् परम् । विचचार महायोगी धरणीं लोकधारकः ॥ ४८॥ देवहूतिश्च तत्रैव योगं चासाधयत् परम् । गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥ ४९॥ क्रमेण शान्तिमापन्ना चित्तं त्यक्त्वा महासती । चिन्तामणौ तदाकारा बभूव भ्रमवर्जिता ॥ ५०॥ तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः । गङ्गाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥ २.६९ (Page खं. २ अ. ७० पान १४७)

२.७० चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ । सर्वामरसमायुक्तस्तं ननाम कृताञ्जलिः ॥ १॥ अपराह्णे च सम्प्राप्तमिन्द्रं दृष्ट्वा महामुनिः । न्यमन्त्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥ २॥ सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् । देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥ ३॥ पृथिव्यमृतभोगेन सन्तुष्टः सुरनायकः । मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥ ४॥ गणेशभूषणं चिन्तामणिर्मुख्यं प्रकथ्यते । योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥ ५॥ कपिलस्तत्र मनसि विचारमकरोत् परम् । गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥ ६॥ अतो गणेशदेवेन प्रेरितोऽयं मणिर्महान् । कण्ठे च तं बबन्धाऽसौ यथा गणपतिस्तथा ॥ ७॥ तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः । कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥ ८॥ प्रल्हाद उवाच । स्वानन्दवासकारी च गणेशो ब्रह्मनायकः । तस्येन्द्रेण मणिर्योगिन् कथं लब्धो वदस्व माम् ॥ ९॥ गृत्समद उवाच । श‍ृणु प्रह्लाद माहात्म्यं चिन्तामणिसमुद्भवम् । कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥ १०॥ एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् । तेन शान्तिरनुप्राप्ता षडक्षरविधानतः ॥ ११॥ तस्मै भक्तिपरीक्षार्थं ददौ चिन्तामणिं प्रभुः । गणेशो भक्तिदानार्थं चिन्तितार्थप्रदायिनम् ॥ १२॥ विष्णुना पूजने क्षिप्तो मणिश्चिन्तामणिः प्रभो । अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥ १३॥ भूषणं गणनाथस्य पूजनीयं विशेषतः । न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥ १४॥ शान्तियोगेन विघ्नेशो मया हृदि हृतः स्वके । न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥ १५॥ ततो बहुगते काल इन्द्रस्तपसि संस्थितः । एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥ १६॥ बभूव युक्तो ध्यानेन सततं देवनायकः । योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥ १७॥ शान्तिं प्राप्य स्वयं देवो गणेशाभेदतां गतः । आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥ १८॥ एतस्मिन्नन्तरे दैत्यगृहे शुश्राव केशवः । अशरीरां महावाणीं श‍ृणु तत् कथयामि ते ॥ १९॥ चिन्तामणिं महाविष्णो देहीन्द्राय महामते । शान्तियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥ २०॥ श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् । महेन्द्रायामरावत्यां मणिं तं चिन्तितार्थदम् ॥ २१॥ मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् । न योगमदतां प्राप्तो महेन्द्रश्च प्रतापवान् ॥ २२॥ तं मणिं कपिलं दृष्ट्वा शान्तियोगधरं प्रभुम् । ददौ तस्मै महेन्द्रः स भावयुक्तेन चेतसा ॥ २३॥ अयं सिद्धेश्वरः साक्षाद्योग्यः सन्धारणे मणेः । वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥ २४॥ एवं क्रमेण जानीहि चिन्तामणिसमागमम् । कपिलः स्वगले नित्यं बबन्ध गणराजवत् ॥ २५॥ (Page खं. २ अ. ७० पान १४८) गते कियति काले वै कपिलस्याश्रमं ययौ । मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥ २६॥ सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ । कपिलं प्रणनामैव कृताञ्जलिपुटः स्थितः ॥ २७॥ विनीतं तं विलोक्यैव कपिलस्तमुवाच ह । कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥ २८॥ गणासुर उवाच । गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम । मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥ २९॥ तवाश्रमे क्षुधायुक्तः श्रान्तवाहन एव च । ससैन्यः सहसाऽऽगत्य सन्तृप्तः सुखदायके ॥ ३०॥ जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः । दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥ ३१॥ त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम । आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥ ३२॥ तस्य तद्वचनं श्रुत्वा सन्तुष्टः कपिलोऽवदत् । ससैन्यो भुङ्क्ष्व किञ्चित्त्वं मद्दत्तं नृपसत्तम ॥ ३३॥ ममाश्रमे च दैत्येन्द्र क्षुधितस्त्वं समागतः । अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥ ३४॥ तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् । उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥ ३५॥ ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै । सेनया सह दैत्येशं पूजयामास तं मुनिः ॥ ३६॥ चिन्तामणिं स सम्पूज्य प्रार्थयामास भोजनम् । यथारुचि च सर्वेषां तथा देयं महामणे ॥ ३७॥ ततो मणिप्रसादेन षड्रसैः संयुतं परम् । स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥ ३८॥ ततस्तैर्भुक्तमत्यन्तं स्वादयुक्तं विशेषतः । ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥ ३९॥ मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् । न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥ ४०॥ ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् । मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥ ४१॥ मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः । विचारमकरोच्चित्ते मणिग्रहणलालसः ॥ ४२॥ सुसाधुवदहो दैत्योऽविनीतः सुसमागतः । चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥ ४३॥ अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन । दुष्टसङ्गतियोगेन ज्ञानभ्रंशः प्रजायते ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः ॥ २.७० (Page खं. २ अ. ७१ पान १४९)

२.७१ कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ प्रल्हाद उवाच । कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः । समर्थः कपिलः साक्षात् प्रलयाग्निसमद्युतिः ॥ १॥ यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा । तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥ २॥ गृत्समद उवाच । श‍ृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् । सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥ ३॥ अभिजिन्नाम राजर्षिरपुत्रः सम्बभूव ह । पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥ ४॥ भ्रमन् ददर्श योगीशं वैशम्पायनमञ्जसा । तं प्रणम्य सपत्नीकः पप्रच्छ विनयान्वितः ॥ ५॥ पुत्रप्राप्तेरुपायं मे वद सर्वज्ञ ते नमः । मुनिना मन्त्रराजस्तु दत्तस्तस्मै प्रजापते ॥ ६॥ चातुर्मास्यप्रयोगं तं विधियुक्तं नृपस्य सः । उपदिश्य ततस्तीर्थं प्रभासं संस्थितोऽभवत् ॥ ७॥ अभिजित्तं प्रणम्यैव सस्त्रीकः प्रययौ महत् । तीर्थं तत्र यथायोग्यमनुष्ठानपरोऽभवत् ॥ ८॥ तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्वितः । स्नानार्थं सुतया युक्तः कदाचित् स जगाम ह ॥ ९॥ तत्रैकवस्त्रसंयुक्तां विधिर्दृष्ट्वा सरस्वतीम् । यौवनस्थां कुचाभ्यां तां रूपिणीं विस्मितोऽभवत् ॥ १०॥ अकस्माज्जलमध्येऽसौ कामबाणार्दितोऽभवत् । पुत्रीभावं समागृह्य चञ्चलं चित्तमाददे ॥ ११॥ कामेनात्यन्तमुग्रेण पीडितस्य जगद्गुरोः । वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वर ॥ १२॥ ततः सुमनसा युक्तः सत्यलोकं ययौ विधिः । प्रयोगोऽभिजितः सोऽथ समाप्तस्तद्दिनेऽभवत् ॥ १३॥ सस्त्रीकः स्नानसिद्ध्यर्थं ययौ तीर्थं नृपस्तदा । तृषिता तस्य पत्नी सा जलपानरताऽभवत् ॥ १४॥ दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह । तस्या उदरगं जातममोघमसुरोत्तम ॥ १५॥ राजा समाप्य तत् सर्वं मन्त्रानुष्ठानमादरात् । ययौ स्वनगरं पूर्णं चक्रे वै राज्यमुत्तमम् ॥ १६॥ कालेन सुषुवे राज्ञी पुत्रं सा चारुहासिनी । तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् ॥ १७॥ जातकर्मादिकं राजा चकार विधिवद् द्विजैः । दत्त्वोपवीतदानं स वेदाभ्यासे मतिं ददौ ॥ १८॥ स्वल्पकालेन पुत्रोऽसौ गणो नाम्ना महाबलः । वेदशास्त्रनिधिर्जातस्ततोऽयात् स वनं स्वयम् ॥ १९॥ मार्गे च सहसाऽऽगत्य शुक्रः पञ्चाक्षरीं ददौ । तस्मै दीक्षां शिवस्याऽसौ तथा चक्रे स भावतः ॥ २०॥ शिवं ध्यात्वा तपस्तेपे महोग्रं वायुभक्षकः । दशवर्षसहस्रैस्तं ययौ भक्त्या सदाशिवः ॥ २१॥ आगतं शङ्करं दृष्ट्वाऽपूजयद् भक्तिभावतः । तुष्टाव विविधैस्तोत्रैर्वरदं तं जगाद सः ॥ २२॥ आरोग्यादिसमायुक्तं त्रिगुणान्न भयं च मे । त्रैलोक्यराज्यमुग्रं वै देहि मे त्वं सदाशिव ॥ २३॥ ओमित्युक्त्वा महादेवः स्वस्थानं प्रजगाम ह । गणश्च स्वगृहं दैत्य ययौ परमहर्षितः ॥ २४॥ सर्वानानन्दयामास सुहृदः पितरौ स्वकौ । ततो विजिग्ये पृथिवीं सेनया स्वेन तेजसा ॥ २५॥ (Page खं. २ अ. ७१ पान १५०) ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः । सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥ २६॥ ततो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः । तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥ २७॥ पातालं स ततो नागैर्जिगाय बलसंयुतः । युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥ २८॥ स्वर्गं जित्वा सहेन्द्रैः स ततो ब्रह्माणमञ्जसा । विष्णुं शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥ २९॥ ततस्तान् करदान् कृत्वा स्थापयामास देवपान् । स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ ॥ ३०॥ एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकार ह । ततश्चिन्तामणिं दुष्टो जहार कपिलस्य सः ॥ ३१॥ कपिलो गणनाथस्य भक्तः परमभाविकः । तताप स तपो घोरं गणेशस्य महात्मनः ॥ ३२॥ वर्षेणैकेन देवेशो ययौ मूषकवाहनः । सिद्धिबुद्धिसमायुक्तो बोधयत्तं महामुनिम् ॥ ३३॥ कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुम् । तुष्टाव साश्रुनेत्रश्च प्रेमगद्गदया गिरा ॥ ३४॥ कपिल उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३५॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यै चेन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ ३६॥ देहानां बिन्दुरूपाय सोऽहंरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय तु नमो नमः ॥ ३७॥ साङ्ख्याय वै विदेहानां सयोगानां निजात्मने । चतुर्णां पञ्चमायैव सर्वत्र तु नमो नमः ॥ ३८॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ३९॥ आनन्दानां महाविष्णुरूपिणे नेतिधारिणाम् । शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ४०॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् । समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ४१॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ४२॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥ ४३॥ शान्तियोगप्रदात्रे ते शान्तियोगमयाय च । किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ ४४॥ जगाद गणनाथो वै ततस्तं भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन् मुनिसत्तमम् ॥ ४५॥ गणेश उवाच । त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् । धर्मार्थकाममोक्षणां दायकं च न संशयः ॥ ४६॥ वरं वरय दास्यामि मत्तस्त्वं भक्तियन्त्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ ४७॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ ४८॥ त्वदीयभूषणं दैत्यो गणो हृत्वा जगाम ह । मत्तश्चिन्तामणिं नाथ जहि तं मणिमानय ॥ ४९॥ स्मरामि चेद्यदाऽहं त्वां तदात्मानं प्रदर्शय । एतमेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ ५०॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच तं महाभागं प्रेमयुक्तं विशेषतः ॥ ५१॥ (Page खं. २ अ. ७२ पान १५१) गणेश उवाच । त्वया यत् प्रार्थितं विष्णो तत् सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि गणासुरवधाय च ॥ ५२॥ एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् । मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ ५३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः ॥ २.७१

२.७२ गणासुरवधो नाम द्विसप्ततितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स्वल्पे गते काले मुनिर्होमपरायणः । हुत्वाऽग्निं ध्याननिष्ठोऽभूद्गणेशस्य महात्मनः ॥ १॥ ततोऽग्निकुण्डमध्याद्वै गणेशो निःसृतः पुरः । चतुर्बाहुधरो रक्तः स बभौ परमश्रिया ॥ २॥ सिद्धिबुद्धिसमायुक्तं सिंहगं परशोर्धरम् । एकदन्तं विशालाक्षं शुण्डादण्डविराजितम् ॥ ३॥ नाभिशेष क्वणत्पादं ददर्श कपिलः परम् । उत्थाय तं ननामाऽसौ भक्तियुक्तेन चेतसा ॥ ४॥ पूजयित्वा प्रतुष्टावाथर्वशीर्षभवेन वै । स्तोत्रेण तेन सन्तुष्टस्तमुवाच गजाननः ॥ ५॥ गणेश उवाच । तव पुत्रो मुनेऽहं वै जातो गणवधाय च । हनिष्यामि महादैत्यं ग्रहीष्यामि महामणिम् ॥ ६॥ ततस्तं मुनिशार्दूलः प्रणम्य प्रत्युवाच ह । धन्यं मे जन्म देवेश पितरौ तप आश्रमः ॥ ७॥ विद्या व्रतादिकं सर्वं तव पादस्य दर्शनात् । पुत्रभावेन सम्प्राप्तस्तारणान् मां न संशयः ॥ ८॥ ततस्तस्य महाभक्तिं चक्रे वै नित्यमादरात् । तेन भक्तिरहस्यं यत्तज्ज्ञात्वा दुःखितोऽभवत् ॥ ९॥ ततः स्वात्मानमत्युग्रं निन्दयामास मानसे । अहो मानवरूपोऽहं शान्तियोगेन सङ्गतः ॥ १०॥ मया ज्ञानमदेनैव गले चिन्तामणिर्धृतः । गणेशवन्न सन्देहस्तद्भक्त्या हीनचेतसा ॥ ११॥ देवस्य समता नैव कर्तव्या भजनार्थिना । ब्रह्मणस्पतिनामा स गणेशश्चैकराट् बभौ ॥ १२॥ तस्य देहे मदर्थं वै सत्ता पूर्णा प्रवर्तते । योगिदेहेन सा सत्ता तस्मात्तं भजते महान् ॥ १३॥ चिन्तामणिर्मया प्राप्तः पूजायां स्थापितो न सः । गले धृतो मया मोहाद्गतश्चिन्तामणिर्ध्रुवम् ॥ १४॥ देवस्य भक्तिमाहात्म्यात् प्राप्तं भक्तेन भूषणम् । वस्त्रं वाहनकाद्यं च पूजनीयं न संशयः ॥ १५॥ गन्धपुष्पादिकं तस्योच्छिष्टं धार्यं विशेषतः । नैवेद्यं भक्षणीयं वै सदा भक्त्याऽऽदरेण च ॥ १६॥ न देवसमता कार्या दासैर्वै नित्यमादरात् । भययुक्तेन संसेवा कार्या भक्तेन धीमता ॥ १७॥ मदीयसङ्गतश्चिन्तामणिश्चाहो सुदुःखितः । गतो दैत्यकरे साक्षादसुरस्तं प्रपीडयेत् ॥ १८॥ अतो गणेशमत्यन्तं प्रार्थयामि वधाय च । गणस्य तद्वधाच्चिन्तामणिः सद्यः सुलभ्यते ॥ १९॥ (Page खं. २ अ. ७२ पान १५२) विचार्येति स योगीन्द्र एकदन्तं जगाद च । स्वामिन् हत्वा गणं शीघ्रं मणिमानय विघ्नप ॥ २०॥ कपिलस्य वचः श्रुत्वा हृष्टस्तं त्वेकदन्तकः । जगाद ते प्रियं तात करिष्यामि न संशयः ॥ २१॥ एकदन्तेन तद्रात्रौ स्वप्नो दत्तो गणस्य च । स्वप्नेन भ्रान्तरूपोऽभूद्विचारमकरोत् स्वयम् ॥ २२॥ सिंहारूढश्चतुर्बाहुः कुञ्जराननधारकः । परश्वधधरः क्रूरः कोऽयं स्वप्ने प्रदर्शितः ॥ २३॥ कपिलेन समादिष्टो मस्तकं मे च सोऽच्छिनत् । मणिं समागृह्य ददौ कपिलाय महात्मने ॥ २४॥ अयं स्वप्नो मया दुष्टो दृष्टः किं वा भविष्यति । अतः कपिलनाशार्थं यामि सैन्यसमन्वितः ॥ २५॥ ततो धृत्वा च शस्त्रादीन् नानावीरसमन्वितः । रात्रौ कपिलमुग्रोऽसौ ययौ हन्तुं तदाश्रमम् ॥ २६॥ प्रभाते दैत्यराजः स सम्प्राप्तः कपिलाश्रमम् । शिष्यैर्दृष्टो महादुष्टः कपिलं ते ययुस्ततः ॥ २७॥ स्वामिन् समागतो दैत्यो गणनामा ससैनिकः । ऊचुः शिष्याः प्रणम्यैनं कपिलं भयसंयुताः ॥ २८॥ ततो गणपतिं नत्वा वधार्थं तस्य वै मुनिः । प्रार्थयामास शीघ्रं स गणस्य विनयान्वितः ॥ २९॥ ततः क्रुद्धो गणेशानः सिंहारूढो ययौ गणम् । गणेन पुरुषो दृष्टः स्वप्नगः स च निश्चितम् ॥ ३०॥ ततो गणेन योधाश्च दैत्येशाः प्रेरिता रणे । उदायुधा महोग्रास्त आययुर्देवसन्निधिम् ॥ ३१॥ तान् दृष्ट्वा कुपिता देवी सिद्धिर्वामाङ्गसंस्थिता । गणेशं मनसि ध्यात्वा पुत्रं सा निर्ममेऽतुलम् ॥ ३२॥ तेन सर्वं हतं सैन्यं प्रेरितेन गणस्य वै । सिद्ध्या पलायत ततः सैन्यं तस्य दिशो दश ॥ ३३॥ विजयी पुरुषः सोऽपि गणेशं प्रणनाम ह । सस्त्रीकं तेन नाम्ना स कृतो लक्ष इति प्रभुः ॥ ३४॥ जगति ब्रह्मणि त्वं वै तिष्ठ सर्वत्र पुत्रक । नरेण यादृशं लक्षं क्रियते भुङ्क्ष्व तादृशम् ॥ ३५॥ हृदि लक्षप्रतापी त्वं सर्वेभ्यो नाऽत्र संशयः । सिद्धिपुत्र महाभाग मद्भक्तान् रक्ष यत्नतः ॥ ३६॥ बुद्धिपुत्रः स्वयं लाभः फलदाता भविष्यति । अनुसारेण लक्षस्य तव भ्राता महाबलः ॥ ३७॥ भुक्तौ मुक्तौ तथा पापे हृदि ब्रह्मणि जन्तवः । लक्षं कुर्वन्ति ये तेषां लाभश्चैतादृशो भवेत् ॥ ३८॥ एवमुक्त्वा स्वपुत्रं तं लक्षमेकरदस्ततः । युद्धाय स ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३९॥ तमागतं स विज्ञाय प्रतापी स गणासुरः । हन्तुं शस्त्रममोघं यदाददे धनुषि स्वयम् ॥ ४०॥ तावच्च गणराजेन पर्शुना तूग्रवेगिना । दैत्यराजगणस्यैव शिरश्छिन्नं पपात सः ॥ ४१॥ हाहाकृत्वाऽसुराः सर्वे पातालं विविशुस्ततः । देवा हर्षयुताः सर्वे मुनयस्ते ययुर्विभुम् ॥ ४२॥ कपिलं सान्त्वयामासागृह्य दत्वा मणिं पुनः । कपिलायैकदन्तस्तु कपिलः प्रणनाम तम् ॥ ४३॥ जगाद भक्तिसंयुक्तः कपिलो गणनायकम् । स्वामिंस्त्वदीयमेतद्वै भूषणं तद् गृहाण भोः ॥ ४४॥ अस्माभिः पूजनीयं तच्चायोग्यं धारणे प्रभो । अतस्त्वमेव विघ्नेश स्वगले धारयस्व तत् ॥ ४५॥ (Page खं. २ अ. ७३ पान १५३) चित्ते निवासिना स्वामिंस्त्वया ज्ञातमतः प्रभो । मदीयं चिन्तितं सर्वं तादृशं सफलं कृतम् ॥ ४६॥ अतस्ते भविता चिन्ता मणिर्नाम न संशयः । एवमुक्त्वा स्वयं तस्यारोपयत्तं मणिं गले ॥ ४७॥ ततः स मणिमादाय स्वानन्दं चैकदन्तकः । अन्तर्धानं चकाराऽपि देवेशा विस्मिता ययुः ॥ ४८॥ कपिलेन सदा ध्यानबलेन हृदये विभुः । चिन्तामणिः सुभावेन पूजितस्तत्त्वबोधिना ॥ ४९॥ एवं गणासुरं हत्वा भक्तिं दत्वा सुरेश्वर । कपिलायैकदन्तस्तु चक्रे वै साधुरक्षणम् ॥ ५०॥ इदमेकरदस्यैव चरितं सर्वदं परम् । श‍ृणुयात् सर्वपापघ्नं पठेद्वा तस्य सम्भवेत् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गणासुरवधो नाम द्विसप्ततितमोऽध्यायः ॥ २.७२

२.७३ गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ गत्समद उवाच । एवं नानावतारा य एकदन्तस्य धीमतः । तेषां चरित्रविस्तारं मया वक्तुं न शक्यते ॥ १॥ यत्र वेदादयो दैत्य न समर्था भवन्ति वै । तत्र कोऽहं महासाधो स्वल्पबुद्धिप्रधारकः ॥ २॥ गणेश एकदन्तोऽयं सोऽहं ब्रह्मणि संस्थितः । देहिनां ज्ञानदाने च स्वस्वव्यापारके प्रभुः ॥ ३॥ एकदन्तः स सर्वेशः पूर्णयोगस्य धारकः । तत्रार्थान्तरभावेन ज्ञातव्यो विबुधैः परः ॥ ४॥ एकवाच्या महामाया तत्र सत्ताप्रधारकः । दन्तश्च मायिकः प्रोक्तस्तयोर्योगे हि स स्मृतः ॥ ५॥ तं भजस्व महाभाग प्रह्लाद विधिपूर्वकम् । नष्टशापश्च भावी त्वमेकदन्तप्रसादतः ॥ ६॥ मुद्गल उवाच । पुनर्गृत्समदं प्राह प्रह्लादो विनयान्वितः । गणेशज्ञानभोगार्थं वैष्णवानां शिरोमणिः ॥ ७॥ प्रल्हाद उवाच । विष्णुभक्तोऽहमत्यन्तं मुने जन्मादितः खलु । अतः केन प्रकारेण भजामि गणनायकम् ॥ ८॥ सर्वज्ञस्त्वं विशेषेण पृच्छामि त्वामतः प्रभो । वद सर्वं गणेशस्य योगसाधनमुत्तमम् ॥ ९॥ गृत्समद उवाच । गणेशस्यावताराश्च चत्वारः परिकीर्तिताः । गौणांस्तांस्ते वदामीह संशयच्छेदनाय वै ॥ १०॥ स्वानन्दनगरे देवो गणेशानः प्रतिष्ठते । स्वयं ससर्ज लीलार्थं जगद्ब्रह्मा सुरेश्वर ॥ ११॥ तेषु नानाविधां क्रीडां करोति गणनायकः । जगत्सु ब्रह्म जानीहि स त्वं तं योगसेवया ॥ १२॥ स ब्रह्मणि चतुर्धा वै जातः क्रीडार्थमादरात् । पञ्चमो निजलोकस्थस्तेषां संयोगधारकः ॥ १३॥ चतुरो मोहयित्वा वै मायया स गणेश्वरः । तिष्ठति स्वस्वरूपेण तेषां हृदि गजाननः ॥ १४॥ (Page खं. २ अ. ७३ पान १५४) नामरूपात्मकेष्वेव ब्रह्म यत् परितिष्ठति । जानीहि वेदेषु तदसद्रूपं शक्तिवाचकम् ॥ १५॥ तेष्वात्माऽमृतरूपश्च भानुः सद्रूपवाचकः । तयोरभेदभावेष्वानन्दो विष्णुः स उच्यते ॥ १६॥ त्रिष्वव्यक्तस्वरूपं यन्नेति कर्ता विशेषतः । निर्मोहः शिव एवाऽसौ तुर्यो वेदे प्रकथ्यते ॥ १७॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । तद्ब्रह्म गणनाथोऽयं नानाखेलकरोऽभवत् ॥ १८॥ एवं तस्यावताराश्च चत्वारः परिकीर्तिताः । चतुर्भावप्रसिद्ध्यर्थं गौणरूपास्ततोऽभवन् ॥ १९॥ आनन्दात्मकलांशेन विष्णुं गणपरूपिणम् । जानीहि तं गणेशानान्न भिन्नं दानवोत्तम ॥ २०॥ चतुर्णां भजनेनैव मनः शुद्धिमवाप्नुयात् । ततो गाणेशयोगे सोऽधिकारी भवति स्वयम् ॥ २१॥ यथाऽऽश्रमविभागेन नरः क्रमपरायणः । एकं त्यक्त्वा स गृह्णाति द्वितीयं भक्तिसंयुतः ॥ २२॥ अन्ते योगी स शान्तिस्थ आश्रमै रहितो भवेत् । तद्वत् क्रमेण गाणेशा भवेयुर्वैष्णवादिकाः ॥ २३॥ अधुना श‍ृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यति न संशयः ॥ २४॥ स्वानन्दः स विहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद्गणेशो मायया युतः ॥ २५॥ विहारेण विहीनश्चायोगो निर्मायिकः स्मृतः । संयोगाभेदहीनत्वाद्भवहा गणनायकः ॥ २६॥ संयोगायोगयोर्योगः पूर्णयोगः प्रकीर्तितः । प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ २७॥ योगेन तं गणाधीशं प्राप्नुवन्तीह योगिनः । तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् ॥ २८॥ तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यप । बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ २९॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ ३०॥ क्षिप्तं मूढं च चित्तं यत् कर्मण्यपि विकर्मणि । संस्थितं तेन विश्वं वै चलति स्वस्वभावतः ॥ ३१॥ अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद । तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ ३२॥ एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितम् । सम्प्रज्ञातसमाधिस्थं साधु जानीहि सत्तम ॥ ३३॥ निरोधसंज्ञितं चित्तं निवृत्ते रूपधारकम् । असम्प्रज्ञातयोगस्थं जानीयाद्योगसेवया ॥ ३४॥ पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता । माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ ३५॥ सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता । सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ ३६॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता । ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पञ्चधा सदा ॥ ३७॥ मोहदा सिद्धिरत्यन्तं मोहधारकतां गता । बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ ३८॥ बुद्धया यद् बुध्यते तत्र पश्चान् मोहः प्रवर्तते । अतो गणेशभक्त्या स मायाभ्यां वर्जितो भवेत् ॥ ३९॥ (Page खं. २ अ. ७४ पान १५५) पञ्चधा चित्तवृत्तिं च पञ्चधा सिद्धिमादरात् । त्यक्त्वा गाणेशयोगेन गणेशं भज भावतः ॥ ४०॥ ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् । गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तमः ॥ ४१॥ तेन सम्पूजितो योगी प्रह्लादेन महात्मना । ययौ गृत्समदो दक्ष स्वर्गलोकं विहायसा ॥ ४२॥ प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः । योगी योगीन्द्रवन्द्यः स शान्तिसन्धारकोऽभवत् ॥ ४३॥ विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः । गणेशभजने योगी संसक्तः सर्वदाऽभवत् ॥ ४४॥ सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकम् । गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ ४५॥ एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः । हृदि चिन्तामणिं ज्ञात्वाऽभजच्चानन्यभावतः ॥ ४६॥ स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः । शान्तिं प्राप्तो गणेशे चैकभावः सोऽभवत्परः ॥ ४७॥ शापश्चैव गणेशेन प्रह्लादस्य निराकृतः । न पुनर्दुष्टसङ्गेनाऽभवद् भ्रान्तः स मानद ॥ ४८॥ एवं मदं परित्यज्यैकदन्तस्य समाश्रयात् । असुरोऽपि महायोगी प्रह्लादः सम्बभूव ह ॥ ४९॥ एतत् प्रह्लादमाहात्म्यं यः श‍ृणोति नरोत्तमः । पठेत्तु तस्य वै दक्ष भवेदीप्सितदायकम् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ २.७३

२.७४ चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । एकदन्तस्य यत् क्षेत्रं सङ्क्षेपेण मया श्रुतम् । यात्रादि विस्तरेणैव कथयस्व महामुने ॥ १॥ मुद्गल उवाच । अग्निकोणे दिशां प्रान्ते स्वस्वखण्डेषु मानद । एकदन्तस्य च क्षेत्रं ज्ञातव्यं जलधेस्तटे ॥ २॥ दश योजनविस्तारं समन्तात्तत्र मध्यगः । एकदन्तो गणेशानः पूज्यते सिद्धसाधकैः ॥ ३॥ तद्वामाङ्गे स्वयं सिद्धिर्दक्षिणाङ्गे प्रजापते । बुद्धिश्च मूषकस्तस्य समीपे संस्थितः प्रभोः ॥ ४॥ सिद्धयोऽष्टौ पुरस्तस्य संस्थिता भक्तिकारिकाः । वामे देवादयः सर्वे भक्त्या तिष्ठन्ति संयुताः ॥ ५॥ दक्षिणाङ्गे च वेदादि शास्त्राणि प्रस्तुवन्ति तम् । पृष्ठे काश्यादि क्षेत्राणि तीर्थानि च भजन्ति तम् ॥ ६॥ श्रेष्ठस्वरूपकाः संस्थाः सर्वे त्रिभुवनेषु ये । ते क्षेत्रवासिनो भूत्वा भजन्ते त्वेकदन्तकम् ॥ ७॥ समुद्रे स्नानकर्तारः स्वस्वनाम्नाङ्कितेषु वै । तीर्थेषु सूक्ष्मरूपेषु सूक्ष्मरूपधराः सदा ॥ ८॥ तत्रैकदन्ततीर्थं वै सर्वलोकेषु विश्रुतम् । दर्शनात् सर्वपापघ्नं भुक्तिमुक्तिप्रदं भवेत् ॥ ९॥ भाद्रशुक्लचतुर्थ्यां महोत्सवस्तत्र वर्तते । यात्रार्थं सर्वलोकश्च त्रिलोकस्था व्रजन्ति तम् ॥ १०॥ (Page खं. २ अ. ७४ पान १५६) ब्रह्मभूयकरं क्षेत्रं गाणेशं शास्त्रसम्मतम् । मरणे तत्र सम्प्राप्ते स्वानन्दे वसतिर्भवेत् ॥ ११॥ सङ्क्षेपेण मया प्रोक्तं यत्क्षेत्रस्य यशोऽमलम् । अयुतायुतवर्षैश्च विस्तारे कः क्षमो भवेत् ॥ १२॥ एतच्चरित्रमाद्यं वै कथितं ते महामते । एकदन्तस्य माहात्म्यं सङ्क्षेपेण तथा मया ॥ १३॥ विस्तरेण न शेषोऽपि ब्रह्मा विष्णुर्महेश्वरः । शुको नैव समर्थश्च भवेत् कथयितुं कदा ॥ १४॥ य एतदेकदन्तस्य चरित्रं सर्वसिद्धिदम् । श‍ृणुयाच्छ्रावयेद्वापि पठेत् स लभतेऽखिलम् ॥ १५॥ पुत्रपौत्रादिकं सर्वं धनधान्यसमन्वितम् । कलत्रं सुखदं जन्तुर्लभते नात्र संशयः ॥ १६॥ अनेन भावसंयुक्त एकदन्तं प्रजापते । नित्यं स्तुयात् स एवैकदन्तरूपो धरातले ॥ १७॥ तस्य दर्शनमात्रेण कृतकृत्या भवन्ति च । देवादयो न सन्देहो ब्रह्माकारस्वरूपिणः ॥ १८॥ श्रवणेनैव खण्डस्य कृतकृत्यो नरो भवेत् । नारी वा पशुरूपो वा निश्चितं मुनिभिः पुरा ॥ १९॥ सर्वतीर्थेषु यः स्नायात् सर्वदानं करोति यः । तपांसि यस्तपेन्नित्यं यात्राः सर्वाः करोति यः ॥ २०॥ इष्टापूर्तादिकं सर्वं कुरुते भक्तिसंयुतः । तेभ्यः संश्रवणात् पुण्यं लभेदस्य शताधिकम् ॥ २१॥ धर्मार्थकाममोक्षान् वै लभते श्रवणेन च । खण्डस्यास्य न सन्देहो ब्रह्मभूतो भवेन्नरः ॥ २२॥ यद्यदिच्छति तत्तद्वै सफलं प्रभवेत् सदा । श्रवणेनैकदन्तस्य चरित्रस्य नरो महान् ॥ २३॥ सम्पूर्णो महिमा दक्ष न वक्तुं शक्यते मया । ब्रह्मादिभिश्च तस्मात्ते कथितं सारमञ्जसा ॥ २४॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षस्तं हर्षितोऽत्यन्तं प्रणनाम कृताञ्जलिः ॥ २५॥ महोदरस्य माहात्म्यश्रवणे लालसी स्वयम् । दक्षस्तं पुनरप्याह तदग्रे वर्णयाम्यहम् ॥ २६॥ एतच्छौनक मुख्यं ते चरित्रं कथितं मया । यथा दक्षेण सर्वं वै मुद्गलात् संश्रुतं तथा ॥ २७॥ सर्वसिद्धिकरं प्रोक्तमेकदन्तचरित्रकम् । श्रुतं भावेन भो विप्र किं भूयः श्रोतुमिच्छसि ॥ २८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ २.७४ ॥ इति द्वितीयः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे द्वितीयः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 2 Ekadantacharitam
% File name             : mudgalapurANam2.itx
% itxtitle              : mudgalapurANaM khaNDaH 2 ekadantacharitam
% engtitle              : Mudgala Purana Khanda 2 Ekadantacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org