॥ अध्यात्मरामायणे अरण्यकाण्डम् ॥

॥ प्रथमः सर्गः ॥

श्रीमहादेव उवाच अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः । स्नात्वा मुनिं समामन्त्र्य प्रयाणायोपचक्रमे ॥ १॥ मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम् । विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि ॥ २॥ मार्गप्रदर्शनार्थाय शिष्यानाज्ञप्तुमर्हसि । श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः । प्राह तत्र रघुश्रेष्ठं राम राम सुराश्रय ॥ ३॥ सर्वस्य मार्गद्रष्टा त्वं तव को मार्गदर्शकः । तथापि दर्शयिष्यन्ति तव लोकानुसारिणः ॥ ४॥ इति शिष्यान् समादिश्य स्वयं किञ्चित्तमन्वगात् । रामेण वारितः प्रीत्या अत्रिः स्वभवनं ययौ ॥ ५॥ क्रोशमात्रं ततो गत्वा ददर्श महतीं नदीम् । अत्रेः शिष्यानुवाचेदं रामो राजीवलोचनः ॥ ६॥ नद्याः सन्तरणे कश्चिदुपायो विद्यते न वा । ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन ॥ ७॥ तारयिष्यामहे युष्मान् वयमेव क्षणादिह । ततो नावि समारोप्य सीतां राघवलक्ष्मणौ ॥ ८॥ क्षणात्सन्तारयामासुर्नदीं मुनिकुमारकाः । रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमम् ॥ ९॥ तावेत्य विपिनं घोरं झिल्लीझङ्कारनादितम् । नानामृगगणाकीर्णं सिंहव्याघ्रादिभीषणम् ॥ १०॥ राक्षसैर्घोररूपैश्च सेवितं रोमहर्षणम् । प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीत् ॥ ११॥ इतः परं प्रयत्नेन गन्तव्यं सहितेन मे । धनुर्गुणेन संयोज्य शरानपि करे दधत् ॥ १२॥ अग्रे यास्याम्यहं पश्चात्त्वमन्वेहि धनुर्धर । आवयोर्मध्यगा सीता मायेवात्मपरात्मनोः ॥ १३॥ चक्षुश्चारय सर्वत्र दृष्टं रक्षोभयं महत् । विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम ॥ १४॥ इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम् । तत्रैका पुष्करिण्यास्ते कल्हारकुमुदोत्पलैः ॥ १५॥ अम्बुजैः शीतलोदेन शोभमाना व्यदृश्यत । तत्समीपमथो गत्वा पीत्वा तत्सलिलं शुभम् ॥ १६॥ ऊषुस्ते सलिलाभ्याशे क्षणं छायामुपाश्रिताः । ततो ददृशुरायान्तं महासत्त्वं भयानकम् ॥ १७॥ करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः । वामांसे न्यस्तशूलाग्रग्रथितानेकमानुषम् ॥ १८॥ भक्षयन्तं गजव्याघ्रमहिषं वनगोचरम् । ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् ॥ १९॥ पश्य भ्रातर्महाकायो राक्षसोऽयमुपागतः । आयात्यभिमुखं नोऽग्रे भीरूणां भयमावहन् ॥ २०॥ सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनि । इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः ॥ २१॥ स तु दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा । अट्टहासं ततः कृत्वा भीषयन्निदमब्रवीत् ॥ २२॥ कौ युवां बाणतूणीरजटावल्कलधारिणौ । मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ ॥ २३॥ सुन्दरौ बत मे वक्त्रप्रविष्टकवलोपमौ । किमर्थमागतौ घोरं वनं व्यालनिषेवितम् ॥ २४॥ श्रुत्वा रक्षोवचो रामः स्मयमान उवाच तम् । अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः ॥ २५॥ एषा सीता मम प्राणवल्लभा वयमागताः । पितृवाक्यं पुरस्कृत्य शिक्षणार्थं भवादृशाम् ॥ २६॥ शृत्वा तद्रामवचनमट्टहासमथाकरोत् । व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः ॥ २७॥ मां न जानासि राम त्वं विराधं लोकविश्रुतम् । मद्भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः ॥ २८॥ यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ । पलायत न चेच्छीघ्रं भक्षयामि युवामहम् ॥ २९॥ इत्युक्त्वा राक्षसः सीतामादातुमभिदुद्रुवे । रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव ॥ ३०॥ ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम् । राममभ्यद्रवद्रामश्चिच्छेद परिधावतः ॥ ३१॥ पदद्वयं विराधस्य तदद्भुतमिवाभवत् ॥ ३२॥ ततः सर्प इवास्येन ग्रसितुं राममापतत् । ततोऽर्धचन्द्राकारेण बाणेनास्य महच्छिरः ॥ ३३॥ चिच्छेद रुधिरौघेण पपात धरणीतले । ततः सीता समालिङ्ग्य प्रशशंस रघूत्तमम् ॥ ३४॥ ततो दुन्दुभयो नेदुर्दिवि देवगणेरिताः । ननृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः ॥ ३५॥ विराधकायादतिसुन्दराकृतिः विभ्राजमानो विमलाम्बरावृतः । प्रतप्तचामीकरचारुभूषणो व्यदृश्यताग्रे गगने रविर्यथा ॥ ३६॥ प्रणम्य रामं प्रणतार्तिहारिणं भवप्रवाहोपरमं घृणाकरम् । प्रणम्य भूयः प्रणनाम दण्डवत् प्रपन्नसर्वार्तिहरं प्रसन्नधीः ॥ ३७॥ विराध उवाच श्रीराम राजीवदलायताक्ष विद्याधरोऽहं विमलप्रकाशः । दुर्वाससाकारणकोपमूर्तिना शप्तः पुरा सोऽद्य विमोचितस्त्वया ॥ ३८॥ इतः परं त्वच्चरणारविन्दयोः स्मृतिः सदा मेऽस्तु भवोपशान्तये । त्वन्नामसङ्कीर्तनमेव वाणी करोतु मे कर्णपुटं त्वदीयम् ॥ ३९॥ कथामृतं पातु करद्वयं ते पादारविन्दार्चनमेव कुर्यात् । शिरश्च ते पादयुगप्रणामं करोतु नित्यं भवदीयमेवम् ॥ ४०॥ नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये । आत्मारामाय रामाय सीतारामाय वेधसे ॥ ४१॥ प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया । देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते ॥ ४२॥ इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः । ददौ वरं तदा प्रीतो विराधाय महामतिः ॥ ४३॥ गच्छ विद्याधराशेषमायादोषगुणा जिताः । त्वया मद्दर्शनात्सद्यो मुक्तो ज्ञानवतां वरः ॥ ४४॥ मद्भक्तिर्दुर्लभा लोके जाता चेन्मुक्तिदा यतः । अतस्त्वं भक्तिसम्पन्नः परं याहि ममाज्ञया ॥ ४५॥ रामेण रक्षोनिधनं सुघोरं शापाद्विमुक्तिर्वरदानमेवम् । विद्याधरत्वं पुनरेव लब्धं रामं गृणन्नेति नरोऽखिलार्थान् ॥ ४६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे प्रथमः सर्गः ॥ १॥

॥ द्वितीयः सर्गः ॥

श्रीमहादेव उवाच विराधे स्वर्गते रामो लक्ष्मणेन च सीतया । जगाम शरभङ्गस्य वनं सर्वसुखावहम् ॥ १॥ शरभङ्गस्ततो दृष्ट्वा रामं सौमित्रिणा सह । आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः सुधीः ॥ २॥ अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत् । आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः ॥ ३॥ प्रीत्याऽऽह शरभङ्गोऽपि रामं भक्तिपरायणम् । बहुकालमिहैवाऽऽसं तपसे कृतनिश्चयः ॥ ४॥ अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते । तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहम् ॥ ५॥ समर्प्य रामस्य महत्सुपुण्यफलं विरक्तः शरभङ्गयोगी । चितिं समारोहयदप्रमेयं रामं ससीतं सहसा प्रणम्य ॥ ६॥ ध्यायन्श्चिरं राममशेषहृत्स्थं दूर्वादलश्यामलमम्बुजाक्षम् । चीराम्बरं स्निग्धजटाकलापं सीतासहायं सहलक्ष्मणं तम् ॥ ७॥ को वा दयालुः स्मृतकामधेनुरन्यो जगत्यां रघुनायकादहो । स्मृतो मया नित्यमनन्यभाजा ज्ञात्वा स्मृतिं मे स्वयमेव यातः ॥ ८॥ पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः । दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः ॥ ९॥ अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा । यद्वामाङ्के स्थिता सीता मेघस्येव तटिल्लता ॥ १०॥ इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम् । प्रज्वाल्य सहसा वह्निं दग्ध्वा पञ्चात्मकं वपुः ॥ ११॥ दिव्यदेहधरः साक्षाद्ययौ लोकपतेः पदम् । ततो मुनिगणाः सर्वे दण्डकारण्यवासिनः । आजग्मू राघवं द्रष्टुं शरभङ्गनिवेशनम् ॥ १२॥ दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः । प्रणेमुः सहसा भूमौ मायामानुषरूपिणः ॥१३॥ आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम् । ऊचुः प्राञ्जलयः सर्वे धनुर्बाणधरं हरिम् ॥ १४॥ भूमेर्भारावताराय जातोऽसि ब्रह्मणार्थितः । जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा ॥ १५॥ शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा । अतश्चादौ ऋषीणां त्वं दुःखं मोक्तुमिहार्हसि ॥ १६॥ आगच्छ यामो मुनिसेवितानि वनानि सर्वाणि रघूत्तम क्रमात् । द्रष्टुं सुमित्रासुतजानकीभ्यां तदा दयाऽस्मासु दृढा भविष्यति ॥ १७॥ इति विज्ञापितो रामः कृताञ्जलिपुटैर्विभुः । जगाम मुनिभिः सार्धं द्रष्टुं मुनिवनानि सः ॥ १८॥ ददर्श तत्र पतितान्यनेकानि शिरांसि सः । अस्थिभूतानि सर्वत्र रामो वचनमब्रवीत् ॥ १९॥ अस्थीनि केषामेतानि किमर्थं पतितानि वै । तमूचुर्मुनयो राम ऋषीणां मस्तकानि हि ॥ २०॥ राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः ॥ अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि ॥ २१॥ श्रुत्वा वाक्यं मुनीनां स भयदैन्यसमन्वितम् । प्रतिज्ञामकरोद्रामो वधायाशेषरक्षसाम् ॥ २२॥ पूज्यमानः सदा तत्र मुनिभिर्वनवासिभिः । जानक्या सहितो रामो लक्ष्मणेन समन्वितः ॥ २३॥ उवास कतिचित्तत्र वर्षाणि रघुनन्दनः । एवं क्रमेण सम्पश्यन्नृषीणामाश्रमान् विभुः ॥ २४॥ सुतीक्ष्णस्याश्रमं प्रागात्प्रख्यातमृषिसङ्कुलम् । सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम् ॥ २५॥ राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः । अगस्त्यशिष्यो रामस्य मन्त्रोपासनतत्परः । विधिवत्पूजयामास भक्त्युत्कण्ठितलोचनः ॥ २६॥ सुतीक्ष्ण उवाच त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेय सीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे । संसारसिन्धुतरणामलपोतपाद रामाभिराम सततं तव दासदासः ॥ २७॥ मामद्य सर्वजगतामविगोचरस्त्वं त्वन्मायया सुतकलत्रगृहान्धकूपे । मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह- पाशानुबद्धहृदयं स्वयमागतोऽसि ॥ २८॥ त्वं सर्वभूतहृदयेषु कृतालयोऽपि त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम् । त्वन्मन्त्रसाधनपरेष्वपयाति माया सेवानुरूपफलदोऽसि यथा महीपः ॥ २९॥ विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः त्वं मायया त्रिगुणया विधिरीशविष्णू । भासीश मोहितधियां विविधाकृतिस्त्वं यद्वद्रविः सलिलपात्रगतो ह्यनेकः ॥ ३०॥ प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं पश्यामि राम तमसः परतः स्थितस्य । दृग्रूपतस्त्वमसतामविगोचरोऽपि त्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः ॥ ३१॥ पश्यामि राम तव रूपमरूपिणोऽपि मायाविडम्बनकृतं सुमनुष्यवेषम् । कन्दर्पकोटिसुभगं कमनीयचापबाणं दयार्द्रहृदयं स्मितचारुवक्त्रम् ॥ ३२॥ सीतासमेतमजिनाम्बरमप्रधृष्यं सौमित्रिणा नियतसेवितपादपद्मम् । नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं मद्भागधेयमनिशं प्रणमामि रामम् ॥ ३३॥ जानन्तु राम तव रूपमशेषदेश- कालाद्युपाधिरहितं घनचित्प्रकाशम् । प्रत्यक्षतोऽद्य मम गोचरमेतदेव रूपं विभातु हृदये न परं विकाङ्क्षे ॥ ३४॥ इत्येवं स्तुवतस्तस्य रामः सस्मितमब्रवीत् । मुने जानामि ते चित्तं निर्मलं मदुपासनात् ॥ ३५॥ अतोऽहमागतो द्रष्टुं मदृते नान्यसाधनम् । मन्मन्त्रोपासका लोके मामेव शरणं गताः ॥ ३६॥ निरपेक्षा नान्यगतास्तेषां दृश्योऽहमन्वहम् । स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा ॥ ३७॥ सद्भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत् । त्वं ममोपासनादेव विमुक्तोऽसीह सर्वतः ॥ ३८॥ देहान्ते मम सायूज्यं लप्स्यसे नात्र संशयः । गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकम् । किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलम् ॥ ३९॥ सुतीक्ष्णोऽपि तथेत्याह श्वो गमिष्यसि राघव । अहमप्यागमिष्यामि चिराद् दृष्टो महामुनिः ॥ ४०॥ अथ प्रभाते मुनिना समेतो रामः ससीतः सह लक्ष्मणेन । अगस्त्यसम्भाषणलोलमानसः शनैरगस्त्यानुजमन्दिरं ययौ ॥ ४१॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे द्वितीयः सर्गः ॥ २॥

॥ तृतीयः सर्गः ॥

अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च । अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत ॥ १॥ तेन सम्पूजितः सम्यग्भुक्त्वा मूलफलादिकम् । परेद्युः प्रातरुत्थाय जग्मुस्तेऽगस्त्यमण्डलम् ॥ २॥ सर्वर्तुफलपुष्पाढ्यं नानामृगगणैर्युतम् । पक्षिसङ्घैश्च विविधैर्नादितं नन्दनोपमम् ॥ ३॥ ब्रह्मर्षिभिर्देवर्षिभिः सेवितं मुनिमन्दिरैः । सर्वतोऽलङ्कृतं साक्षाद् ब्रह्मलोकमिवापरम् ॥ ४॥ बहिरेवाश्रमस्याथ स्थित्वा रामोऽब्रवीन्मुनिम् । सुतीक्ष्ण गच्छ त्वं शीघ्रमागतं मां निवेदय ॥ ५॥ अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च । महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः ॥ ६॥ आश्रमं त्वरया तत्र ऋषिसङ्घसमावृतम् । उपविष्टं रामभक्तैर्विशेषेण समायुतम् ॥ ७॥ व्याख्यातराममन्त्रार्थं शिष्येभ्यश्चातिभक्तितः । दृष्ट्वागस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः ॥ ८॥ दण्डवत्प्रणिपत्याह विनयावनतः सुधीः । रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च । आगतो दर्शनार्थं ते बहिस्तिष्ठति साञ्जलिः ॥ ९॥ अगस्त्य उवाच शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम् । तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः ॥ १०॥ इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम् । अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत् ॥ ११॥ आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः । प्रियातिथिर्मम प्राप्तोऽस्यद्य मे सफलं दिनम् ॥ १२॥ रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः । सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि ॥ १३॥ द्रुतमुत्थाप्य मुनिराड् राममालिङ्ग्य भक्तितः । तद्गात्रस्पर्शजाह्लादस्रवन्नेत्रजलाकुलः ॥ १४॥ गृहीत्वा करमेकेन करेण रघुनन्दनम् । जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्गवः ॥ १५॥ सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम् । भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा ॥ १६॥ सुखोपविष्टमेकान्ते रामं शशिनिभाननम् । कृताञ्जलिरुवाचेदमगस्त्यो भगवानृषिः ॥ १७॥ त्वदागमनमेवाहं प्रतीक्षन् समवस्थितः । यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा ॥ १८॥ भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च । तदादि दर्शनाकाङ्क्षी तव राम तपश्चरन् । वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन् ॥ १९॥ सृष्टेः प्रागेक एवासीर्निर्विकल्पोऽनुपाधिकः । त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते ॥ २०॥ त्वामेव निर्गुणं शक्तिरावृणोति यदा तदा । अव्याकृतमिति प्राहुर्वेदान्तपरिनिष्ठिताः ॥ २१॥ मूलप्रकृतिरित्येके प्राहुर्मायेति केचन । अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते ॥ २२॥ त्वया सङ्क्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते । महत्तत्त्वादहङ्कारस्त्वया सञ्चोदितादभूत् ॥ २३॥ अहङ्कारो महत्तत्त्वसंवृतस्त्रिविधोऽभवत् । सात्त्विको राजसश्चैव तामसश्चेति भण्यते ॥ २४॥ तामसात्सूक्ष्मतन्मात्राण्यासन् भूतान्यतः परम् । स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह ॥ २५॥ राजसानीन्द्रियाण्येव सात्त्विका देवता मनः । तेभ्योऽभवत्सूत्ररूपं लिङ्गं सर्वगतं महत् ॥ २६॥ ततो विराट् समुत्पन्नः स्थूलाद्भूतकदम्बकात् । विराजः पुरुषात्सर्वं जगत्स्थावरजङ्गमम् ॥ २७॥ देवतिर्यङ्मनुष्याश्च कालकर्मक्रमेण तु । त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम् ॥ २८॥ सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्भिरुच्यते । लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः ॥ २९॥ जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः । तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः ॥ ३०॥ सृष्टिलीलां यदा कर्तुमीहसे रघुनन्दन । अङ्गीकरोषि मायां त्वं तदा वै गुणवानिव ॥ ३१॥ राम माया द्विधा भाति विद्याऽविद्येति ते सदा । प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः । निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः ॥ ३२॥ त्वद्भक्तिनिरता ये च ते वै विद्यामयाः स्मृताः । अविद्यावशगा ये तु नित्यं संसारिणश्च ते । विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि ॥ ३३॥ लोके त्वद्भक्तिनिरतास्त्वन्मन्त्रोपासकाश्च ये । विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन ॥ ३४॥ अतस्त्वद्भक्तिसम्पन्ना मुक्ता एव न संशयः । त्वद्भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत् ॥ ३५॥ किं राम बहुनोक्तेन सारं किञ्चिद्ब्रवीमि ते । साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता ॥ ३६॥ साधवः समचित्ता ये निःस्पृहा विगतैषिणः । दान्ताः प्रशान्तास्त्वद्भक्ता निवृत्ताखिलकामनाः ॥ ३७॥ इष्टप्राप्तिविपत्त्योश्च समाः सङ्गविवर्जिताः । सन्न्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः ॥ ३८॥ यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित् । सत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः ॥ ३९॥ समुदेति ततो भक्तिस्त्वयि राम सनातने । त्वद्भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम् ॥ ४०॥ उदेति मुक्तिमार्गोऽयमाद्यश्चतुरसेवितः । तस्माद्राघव सद्भक्तिस्त्वयि मे प्रेमलक्षणा ॥ ४१॥ सदा भूयाद्धरे सङ्गस्त्वद्भक्तेषु विशेषतः । अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत् ॥ ४२॥ अद्य मे क्रतवः सर्वे बभूवुः सफलाः प्रभो । दीर्घकालं मया तप्तमनन्यमतिना तपः । तस्येह तपसो राम फलं तव यदर्चनम् ॥ ४३॥ सदा मे सीतया सार्धं हृदये वस राघव । गच्छतस्तिष्ठतो वापि स्मृतिः स्यान्मे सदा त्वयि ॥ ४४॥ इति स्तुत्वा रमानाथमगस्त्यो मुनिसत्तमः । ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा ॥ ४५॥ अक्षय्यौ बाणतूणीरौ खड्गो रत्नविभूषितः । जहि राघव भूभारभूतं राक्षसमण्डलम् ॥ ४६॥ यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः । इतो योजनयुग्मे तु पुण्यकाननमण्डितः ॥ ४७॥ अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे । नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह ॥ ४८॥ तत्रैव बहुकार्याणि देवानां कुरु सत्पते ॥ ४९॥ श्रुत्वा तदागस्त्यसुभाषितं वचः स्तोत्रं च तत्त्वार्थसमन्वितं विभुः । मुनिं समाभाष्य मुदान्वितो ययौ प्रदर्शितं मार्गमशेषविद्धरिः ॥ ५०॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे तृतीयः सर्गः ॥ ३॥

॥ चतुर्थः सर्गः ॥

श्री महादेव उवाच मार्गे व्रजन् ददर्शाथ शैलशृङ्गमिव स्थितम् । वृद्धं जटायुषं रामः किमेतदिति विस्मितः ॥ १॥ धनुरानय सौमित्रे राक्षसोऽयं पुरः स्थितः । इत्याह लक्ष्मणं रामो हनिष्याम्यृषिभक्षकम् ॥ २॥ तच्छ्रुत्वा रामवचनं गृध्रराड् भयपीडितः । वधार्होऽहं न ते राम पितुस्तेऽहं प्रियः सखा ॥ ३॥ जटायुर्नाम भद्रं ते गृध्रोऽहं प्रियकृत्तव ॥ ४॥ पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया । मृगयायां कदाचित्तु प्रयाते लक्ष्मणेऽपि च ॥ ५॥ सीता जनककन्या मे रक्षितव्या प्रयत्नतः । श्रुत्वा तद्गृध्रवचनं रामः सस्नेहमब्रवीत् ॥ ६॥ साधु गृध्र महाराज तथैव कुरु मे प्रियम् । अत्रैव मे समीपस्थो नातिदूरे वने वसन् ॥ ७॥ इत्यामन्त्रितमालिङ्ग्य ययौ पञ्चवटीं प्रभुः । लक्ष्मणेन सह भ्रात्रा सीतया रघुनन्दनः ॥ ८॥ गत्वा ते गौतमीतीरं पञ्चवट्यां सुविस्तरम् । मन्दिरं कारयामास लक्ष्मणेन सुबुद्धिना ॥ ९॥ तत्र ते न्यवसन् सर्वे गङ्गाया उत्तरे तटे । कदम्बपनसाम्रादिफलवृक्षसमाकुले ॥ १०॥ विविक्ते जनसम्बाधवर्जिते नीरुजस्थले । विनोदयन् जनकजां लक्ष्मणेन विपश्चिता ॥ ११॥ अध्युवास सुखं रामो देवलोक इवापरः । कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः ॥ १२॥ आनीय प्रददौ रामसेवातत्परमानसः । धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः ॥ १३॥ स्नानं कुर्वन्त्यनुदिनं त्रयस्ते गौतमीजले । उभयोर्मध्यगा सीता कुरुते च गमागमौ ॥ १४॥ आनीय सलिलं नित्यं लक्ष्मणः प्रीतमानसः । सेवतेऽहरहः प्रीत्या एवमासन् सुखं त्रयः ॥ १५॥ एकदा लक्ष्मणो राममेकान्ते समुपस्थितम् । विनयावनतो भूत्वा पप्रच्छ परमेश्वरम् ॥ १६॥ भगवन् श्रोतुमिच्छामि मोक्षस्यैकान्तिकीं गतिम् । त्वत्तः कमलपत्राक्ष सङ्क्षेपाद्वक्तुमर्हसि ॥ १७॥ ज्ञानं विज्ञानसहितं भक्तिवैराग्यबृंहितम् । आचक्ष्व मे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले ॥ १८॥ श्रीराम उवाच शृणु वक्ष्यामि ते वत्स गुह्याद्गुह्यतरं परम् । यद्विज्ञाय नरो जह्यात्सद्यो वैकल्पकं भ्रमम् ॥ १९॥ आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम् । ज्ञानस्य साधनं पश्चाज्ज्ञानविज्ञानसंयुतम् ॥ २०॥ ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात् । अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेत् ॥ २१॥ सैव माया तयैवासौ संसारः परिकल्प्यते । रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन ॥ २२॥ विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत् । लिङ्गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः ॥ २३॥ अपरं त्वखिलं ज्ञानरूपमावृत्य तिष्ठति । मायया कल्पितं विश्वं परमात्मनि केवले ॥ २४॥ रज्जौ भुजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन । श्रूयते दृश्यते यद्यत्स्मर्यते वा नरैः सदा ॥ २५॥ असदेव हि तत्सर्वं यथा स्वप्नमनोरथौ । देह एव हि संसारवृक्षमूलं दृढं स्मृतम् ॥ २६॥ तन्मूलः पुत्रदारादिबन्धः किं तेऽन्यथात्मनः ॥ २७॥ देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् । अहङ्कारश्च बुद्धिश्च इन्द्रियाणि तथा दश ॥ २८॥ चिदाभासो मनश्चैव मूलप्रकृतिरेव च । एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते ॥ २९॥ एतैर्विलक्षणो जीवः परमात्मा निरामयः । तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु ॥ ३०॥ जीवश्च परमात्मा च पर्यायो नात्र भेदधीः । मानाभावस्तथा दम्भहिंसादिपरिवर्जनम् ॥ ३१॥ पराक्षेपादिसहनं सर्वत्रावक्रता तथा । मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम् ॥ ३२॥ बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु । मनोवाक्कायदण्डश्च विषयेषु निरीहता ॥ ३३॥ निरहङ्कारता जन्मजराद्यालोचनं तथा । असक्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु ॥ ३४॥ इष्टानिष्टागमे नित्यं चित्तस्य समता तथा । मयि सर्वात्मके रामे ह्यनन्यविषया मतिः ॥ ३५॥ जनसम्बाधरहितशुद्धदेशनिषेवणम् । प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत् ॥ ३६॥ आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् । उक्तैरेतैर्भवेज्ज्ञानं विपरीतैर्विपर्ययः ॥ ३७॥ बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणः । चिदात्माहं नित्यशुद्धो बुद्ध एवेति निश्चयम् ॥ ३८॥ येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे । विज्ञानं च तदैवैतत्साक्षादनुभवेद्यदा ॥ ३९॥ आत्मा सर्वत्र पूर्णः स्याच्चिदानन्दात्मकोऽव्ययः । बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः ॥ ४०॥ स्वप्रकाशेन देहादीन् भासयन्ननपावृतः । एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः ॥ ४१॥ असङ्गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते । आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेत् ॥ ४२॥ आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि । लीयते कार्यकरणैः सहैव परमात्मनि ॥ ४३॥ सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि । इदं मोक्षस्वरूपं ते कथितं रघुनन्दन ॥ ४४॥ ज्ञानविज्ञानवैराग्यसहितं मे परात्मनः । किन्त्वेतद्दुर्लभं मन्ये मद्भक्तिविमुखात्मनाम् ॥ ४५॥ चक्षुष्मतामपि तथा रात्रौ सम्यङ् न दृश्यते । पदं दीपसमेतानां दृश्यते सम्यगेव हि ॥ ४६॥ एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते । मद्भक्तेः कारणं किञ्चिद्वक्ष्यामि शृणु तत्त्वतः ॥ ४७॥ मद्भक्तसङ्गो मत्सेवा मद्भक्तानां निरन्तरम् । एकादश्युपवासादि मम पर्वानुमोदनम् ॥ ४८॥ मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः । मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम् ॥ ४९॥ एवं सततयुक्तानां भक्तिरव्यभिचारिणी । मयि सञ्जायते नित्यं ततः किमवशिष्यते ॥ ५०॥ अतो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च । वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात् ॥ ५१॥ कथितं सर्वमेतत्ते तव प्रश्नानुसारतः । अस्मिन्मनः समाधाय यस्तिष्ठेत्स तु मुक्तिभाक् ॥ ५२॥ न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि । मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः ॥ ५३॥ य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः । अज्ञानपटलध्वान्तं विधूय परिमुच्यते ॥ ५४॥ भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा । सङ्गं यः कुरुते सदोद्यतमतिस्तत्सेवनानन्यधीः मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा ॥ ५५॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे चतुर्थः सर्गः ॥ ४॥

॥ पञ्चमः सर्गः ॥

श्री महादेव उवाच तस्मिन् काले महारण्ये राक्षसी कामरूपिणी । विचचार महासत्त्वा जनस्थाननिवासिनी ॥ १॥ एकदा गौतमीतीरे पञ्चवट्यां समीपतः । पद्मवज्राङ्कुशाङ्कानि पदानि जगतीपतेः ॥ २॥ दृष्ट्वा कामपरीतात्मा पादसौन्दर्यमोहिता । पश्यन्ती सा शनैरायाद्राघवस्य निवेशनम् ॥ ३॥ तत्र सा तं रमानाथं सीतया सह संस्थितम् । कन्दर्पसदृशं रामं दृष्ट्वा कामविमोहिता ॥ ४॥ राक्षसी राघवं प्राह कस्य त्वं कः किमाश्रमे । युक्तो जटावल्कलाद्यैः साध्यं किं तेऽत्र मे वद ॥ ५॥ अहं शूर्पणखा नाम राक्षसी कामरूपिणी । भगिनी राक्षसेन्द्रस्य रावणस्य महात्मनः ॥ ६॥ खरेण सहिता भ्रात्रा वसाम्यत्रैव कानने । राज्ञा दत्तं च मे सर्वं मुनिभक्षा वसाम्यहम् ॥ ७॥ त्वां तु वेदितुमिच्छामि वद मे वदतां वर । तामाह रामनामाहमयोध्याधिपतेः सुतः ॥ ८॥ एषा मे सुन्दरी भार्या सीता जनकनन्दिनी । स तु भ्राता कनीयान् मे लक्ष्मणोऽतीवसुन्दरः ॥ ९॥ किं कृत्यं ते मया ब्रूहि कार्यं भुवनसुन्दरि । इति रामवचः श्रुत्वा कामार्ता साब्रवीदिदम् ॥ १०॥ एहि राम मया सार्धं रमस्व गिरिकानने । कामार्ताहं न शक्नोमि त्यक्तुं त्वां कमलेक्षणम् ॥ ११॥ रामः सीतां कटाक्षेण पश्यन् सस्मितमब्रवीत् । भार्या ममैषा कल्याणी विद्यते ह्यनपायिनी ॥ १२॥ त्वं तु सापत्न्यदुःखेन कथं स्थास्यसि सुन्दरि । बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः ॥ १३॥ तवानुरूपो भविता पतिस्तेनैव सञ्चर । इत्युक्ता लक्ष्मणं प्राह पतिर्मे भव सुन्दर ॥ १४॥ भ्रातुराज्ञां पुरस्कृत्य सङ्गच्छावोऽद्य मा चिरम् । इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता ॥ १५॥ तामाह लक्ष्मणः साध्वि दासोऽहं तस्य धीमतः । दासी भविष्यसि त्वं तु ततो दुःखतरं नु किम् ॥ १६॥ तमेव गच्छ भद्रं ते स तु राजाखिलेश्वरः । तच्छ्रुत्वा पुनरप्यागाद्राघवं दुष्टमानसा ॥ १७॥ क्रोधाद्राम किमर्थं मां भ्रामयस्यनवस्थितः । इदानीमेव तां सीतां भक्षयामि तवाग्रतः ॥ १८॥ इत्युक्त्वा विकटाकारा जानकीमनुधावति । ततो रामाज्ञया खड्गमादाय परिगृह्य ताम् ॥ १९॥ चिच्छेद नासां कर्णौ च लक्ष्मणो लघुविक्रमः । ततो घोरध्वनिं कृत्वा रुधिराक्तवपुर्द्रुतम् ॥ २०॥ क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा । किमेतदिति तामाह खरः खरतराक्षरः ॥ २१॥ केनैवं कारितासि त्वं मृत्योर्वक्त्रानुवर्तिना । वद मे तं वधिष्यामि कालकल्पमपि क्षणात् ॥ २२॥ तमाह राक्षसी रामः सीतालक्ष्मणसंयुतः । दण्डकं निर्भयं कुर्वन्नास्ते गोदावरीतटे ॥ २३॥ मामेवं कृतवान्स्तस्य भ्राता तेनैव चोदितः । यदि त्वं कुलजातोऽसि वीरोऽसि जहि तौ रिपू ॥ २४॥ तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ । नो चेत्प्राणान् परित्यज्य यास्यामि यमसादनम् ॥ २५॥ तच्छ्रुत्वा त्वरितं प्रागात्खरः क्रोधेन मूर्च्छितः । चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ २६॥ चोदयामास रामस्य समीपं वधकाङ्क्षया । खरश्च त्रिशिराश्चैव दूषणश्चैव राक्षसः ॥ २७॥ सर्वे रामं ययुः शीघ्रं नानाप्रहरणोद्यताः । श्रुत्वा कोलाहलं तेषां रामः सौमित्रिमब्रवीत् ॥ २८॥ श्रूयते विपुलः शब्दो नूनमायान्ति राक्षसाः । भविष्यति महद्युद्धं नूनमद्य मया सह ॥ २९॥ सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल । हन्तुमिच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः ॥ ३०॥ अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि । तथेति सीतामादाय लक्ष्मणो गह्वरं ययौ ॥ ३१॥ रामः परिकरं बद्ध्वा धनुरादाय निष्ठुरम् । तूणीरावक्षयशरौ बद्ध्वायत्तोऽभवत्प्रभुः ॥ ३२॥ तत आगत्य रक्षांसि रामस्योपरि चिक्षिपुः । आयुधानि विचित्राणि पाषाणान् पादपानपि ॥ ३३॥ तानि चिच्छेद रामोऽपि लीलया तिलशः क्षणात् । ततो बाणसहस्रेण हत्वा तान् सर्वराक्षसान् ॥ ३४॥ खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् । जघान प्रहरार्धेन सर्वानेव रघूत्तमः ॥ ३५॥ लक्ष्मणोऽपि गुहामध्यात्सीतामादाय राघवे । समर्प्य राक्षसान् दृष्ट्वा हतान् विस्मयमाययौ ॥ ३६॥ सीता रामं समालिङ्ग्य प्रसन्नमुखपङ्कजा । शस्त्रव्रणानि चाङ्गेषु ममार्ज जनकात्मजा ॥ ३७॥ सापि दुद्राव दृष्ट्वा तान् हतान् राक्षसपुङ्गवान् । लङ्कां गत्वा सभामध्ये क्रोशन्ती पादसन्निधौ ॥ ३८॥ रावणस्य पपातोर्व्यां भगिनी तस्य रक्षसः । दृष्ट्वा तां रावणः प्राह भगिनीं भयविह्वलाम् ॥ ३९॥ उत्तिष्ठोत्तिष्ठ वत्से त्वं विरूपकरणं तव । कृतं शक्रेण वा भद्रे यमेन वरुणेन वा ॥ ४०॥ कुबेरेणाथवा ब्रूहि भस्मीकुर्यां क्षणेन तम् । राक्षसी तमुवाचेदं त्वं प्रमत्तो विमूढधीः ॥ ४१॥ पानासक्तः स्त्रीविजितः षण्ढः सर्वत्र लक्ष्यसे । चारचक्षुर्विहीनस्त्वं कथं राजा भविष्यसि ॥ ४२॥ खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा । चतुर्दश सहस्राणि राक्षसानां महात्मनाम् ॥ ४३॥ निहतानि क्षणेनैव रामेणासुरशत्रुणा । जनस्थानमशेषेण मुनीनां निर्भयं कृतम् । न जानासि विमूढस्त्वमत एव मयोच्यते ॥ ४४॥ रावण उवाच को वा रामः किमर्थं वा कथं तेनासुरा हताः । सम्यक्कथय मे तेषां मूलघातं करोम्यहम् ॥ ४५॥ शूर्पणखोवाच जनस्थानादहं याता कदाचित् गौतमीतटे । तत्र पञ्चवटी नाम पुरा मुनिजनाश्रया ॥ ४६॥ तत्राश्रमे मया दृष्टो रामो राजीवलोचनः । धनुर्बाणधरः श्रीमान् जटावल्कलमण्डितः ॥ ४७॥ कनीयाननुजस्तस्य लक्ष्मणोऽपि तथाविधः । तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा ॥ ४८॥ देवगन्धर्वनागानां मनुष्याणां तथाविधा । न दृष्टा न श्रुता राजन् द्योतयन्ती वनं शुभा ॥ ४९॥ आनेतुमहमुद्युक्ता तां भार्यार्थं तवानघ । लक्ष्मणो नाम तद्भ्राता चिच्छेद मम नासिकाम् ॥ ५०॥ कर्णौ च नोदितस्तेन रामेण स महाबलः । ततोऽहमतिदुःखेन रुदती खरमन्वगाम् ॥ ५१॥ सोऽपि रामं समासाद्य युद्धं राक्षसयूथपैः । अतः क्षणेन रामेण तेनैव बलशालिना ॥ ५२॥ सर्वे तेन विनष्टा वै राक्षसा भीमविक्रमाः । यदि रामो मनः कुर्यात्त्रैलोक्यं निमिषार्धतः ॥ ५३॥ भस्मीकुर्यान्न सन्देह इति भाति मम प्रभो । यदि सा तव भार्या स्यात्सफलं तव जीवितम् ॥ ५४॥ अतो यतस्व राजेन्द्र यथा ते वल्लभा भवेत् । सीता राजीवपत्राक्षी सर्वलोकैकसुन्दरी ॥ ५५॥ साक्षाद्रामस्य पुरतः स्थातुं त्वं न क्षमः प्रभो । मायया मोहयित्वा तु प्राप्स्यसे तां रघूत्तमम् ॥ ५६॥ श्रुत्वा तत्सूक्तवाक्यैश्च दानमानादिभिस्तथा । आश्वास्य भगिनीं राजा प्रविवेश स्वकं गृहम् । तत्र चिन्तापरो भूत्वा निद्रां रात्रौ न लब्धवान् ॥ ५७॥ एकेन रामेण कथं मनुष्यमात्रेण नष्टः सबलः खरो मे । भ्राता कथं मे बलवीर्यदर्प- युतो विनष्टो बत राघवेण ॥ ५८॥ यद्वा न रामो मनुजः परेशो मां हन्तुकामः सबलं बलौघैः । सम्प्रार्थितोऽयं द्रुहिणेन पूर्वं मनुष्यरूपोऽद्य रघोः कुलेऽभूत् ॥ ५९॥ वध्यो यदि स्यां परमात्मनाहं वैकुण्ठराज्यं परिपालयेऽहम् । नो चेदिदं राक्षसराज्यमेव भोक्ष्ये चिरं राममतो व्रजामि ॥ ६०॥ इत्थं विचिन्त्याखिलराक्षसेन्द्रो रामं विदित्वा परमेश्वरं हरिम् । विरोधबुद्ध्यैव हरिं प्रयामि द्रुतं न भक्त्या भगवान् प्रसीदेत् ॥ ६१॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे पञ्चमः सर्गः ॥ ५॥

॥ षष्ठः सर्गः ॥

विचिन्त्यैवं निशायां स प्रभाते रथमास्थितः । रावणो मनसा कार्यमेकं निश्चित्य बुद्धिमान् ॥ १॥ ययौ मारीचसदनं परं पारमुदन्वतः । मारीचस्तत्र मुनिवज्जटावल्कलधारकः ॥ २॥ ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकम् । समाधिविरमेऽपश्यद्रावणं गृहमागतम् ॥ ३॥ द्रुतमुत्थाय चालिङ्ग्य पूजयित्वा यथाविधि । कृतातिथ्यं सुखासीनं मारीचो वाक्यमब्रवीत् ॥ ४॥ समागमनमेतत्ते रथेनैकेन रावण । चिन्तापर इवाभासि हृदि कार्यं विचिन्तयन् ॥ ५॥ ब्रूहि मे न हि गोप्यं चेत्करवाणि तव प्रियम् । न्याय्यं चेद्ब्रूहि राजेन्द्र वृजिनं मां स्पृशेन्न हि ॥ ६॥ रावण उवाच अस्ति राजा दशरथः साकेताधिपतिः किल । रामनामा सुतस्तस्य ज्येष्ठः सत्यपराक्रमः ॥ ७॥ विवासयामास सुतं वनं वनजनप्रियम् । भार्यया सहितं भ्रात्रा लक्ष्मणेन समन्वितम् ॥ ८॥ स आस्ते विपिने घोरे पञ्चवट्याश्रमे शुभे । तस्य भार्या विशालाक्षी सीता लोकविमोहिनी ॥ ९॥ रामो निरपराधान्मे राक्षसान् भीमविक्रमान् । खरं च हत्वा विपिने सुखमास्तेऽतिनिर्भयः ॥ १०॥ भगिन्याः शूर्पणखाया निर्दोषायाश्च नासिकाम् । कर्णौ चिच्छेद दुष्टात्मा वने तिष्ठति निर्भयः ॥ ११॥ अतस्त्वया सहायेन गत्वा तत्प्राणवल्लभाम् । आनयिष्यामि विपिने रहिते राघवेण ताम् ॥ १२॥ त्वं तु मायामृगो भूत्वा ह्याश्रमादपनेष्यसि । रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम् ॥ १३॥ त्वं तु तावत्सहायं मे कृत्वा स्थास्यसि पूर्ववत् । इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः ॥ १४॥ केनेदमुपदिष्टं ते मूलघातकरं वचः । स एव शत्रुर्वध्यश्च यस्त्वन्नाशं प्रतीक्षते ॥ १५॥ रामस्य पौरुषं स्मृत्वा चित्तमद्यापि रावण । बालोऽपि मां कौशिकस्य यज्ञसंरक्षणाय सः ॥ १६॥ आगतस्त्विषुणैकेन पातयामास सागरे । योजनानां शतं रामस्तदादि भयविह्वलः ॥ १७॥ स्मृत्वा स्मृत्वा तदेवाहं रामं पश्यामि सर्वतः ॥ १८॥ दण्डकेऽपि पुनरप्यहं वने पूर्ववैरमनुचिन्तयन् हृदि । तीक्ष्णशृङ्गमृगरूपमेकदा मादृशैर्बहुभिरावृतोऽभ्ययाम् ॥ १९॥ राघवं जनकजासमन्वितं लक्ष्मणेन सहितं त्वरान्वितः । आगतोऽहमथ हन्तुमुद्यतो मां विलोक्य शरमेकमक्षिपत् ॥ २०॥ तेन विद्धहृदयोऽहमुद्भ्रमन् राक्षसेन्द्र पतितोऽस्मि सागरे । तत्प्रभृत्यहमिदं समाश्रितः स्थानमूर्जितमिदं भयार्दितः ॥ २१॥ राममेव सततं विभावये भीतभीत इव भोगराशितः । राजरत्नरमणीरथादिकं श्रोत्रयोर्यदि गतं भयं भवेत् ॥ २२॥ राम आगत इहेतिशङ्कया बाह्यकार्यमपि सर्वमत्यजम् । निद्रया परिवृतो यदा स्वपे राममेव मनसानुचिन्तयन् ॥ २३॥ स्वप्नदृष्टिगतराघवं तदा बोधितो विगतनिद्र आस्थितः । तद्भवानपि विमुच्य चाग्रहं राघवं प्रति गृहं प्रयाहि भोः ॥ २४॥ रक्ष राक्षसकुलं चिरागतं तत्स्मृतौ सकलमेव नश्यति । तव हितं वदतो मम भाषितं परिगृहाण परात्मनि राघवे । त्यज विरोधमतिं भज भक्तितः परमकारुणिको रघुनन्दनः ॥ २५॥ अहमशेषमिदं मुनिवाक्यतः अशृणवमादियुगे परमेश्वरः । ब्रह्मणार्थित उवाच तं हरिः किं तवेप्सितमहं करवाणि तत् ॥ २६॥ ब्रह्मणोक्तमरविन्दलोचन त्वं प्रयाहि भुवि मानुषं वपुः । दशरथात्मजभावमञ्जसा जहि रिपुं दशकन्धरं हरे ॥ २७॥ अतो न मानुषो रामः साक्षान्नारायणोऽव्ययः । मायामानुषवेषेण वनं यातोऽतिनिर्भयः ॥ २८॥ भूभारहरणार्थाय गच्छ तात गृहं सुखम् । श्रुत्वा मारीचवचनं रावणः प्रत्यभाषत ॥ २९॥ परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल । मां हन्तुं मानुषो भूत्वा यत्नादिह समागतः ॥ ३०॥ करिष्यत्यचिरादेव सत्यसङ्कल्प ईश्वरः । अतोऽहं यत्नतः सीतामानेष्याम्येव राघवात् ॥ ३१॥ वधे प्राप्ते रणे वीर प्राप्स्यामि परमं पदम् । यद्वा रामं रणे हत्वा सीतां प्राप्स्यामि निर्भयः ॥ ३२॥ तदुत्तिष्ठ महाभाग विचित्रमृगरूपधृक् । रामं सलक्ष्मणं शीघ्रमाश्रमादतिदूरतः ॥ ३३॥ आक्रम्य गच्छ त्वं शीघ्रं सुखं तिष्ठ यथा पुरा । अतः परं चेद्यत्किञ्चिद्भाषसे मद्विभीषणम् ॥ ३४॥ हनिष्याम्यसिनानेन त्वामत्रैव न संशयः । मारीचस्तद्वचः श्रुत्वा स्वात्मन्येवान्वचिन्तयत् ॥ ३५॥ यदि मां राघवो हन्यात्तदा मुक्तो भवार्णवात् । मां हन्याद्यदि चेद्दुष्टस्तदा मे निरयो ध्रुवम् ॥ ३६॥ इति निश्चित्य मरणं रामादुत्थाय वेगतः । अब्रवीद्रावणं राजन् करोम्याज्ञां तव प्रभो ॥ ३७॥ इत्युक्त्वा रथमास्थाय गतो रामाश्रमं प्रति । शुद्धजाम्बूनदप्रख्यो मृगोऽभूद्रौप्यबिन्दुकः ॥ ३८॥ रत्नशृङ्गो मणिखुरो नीलरत्नविलोचनः । विद्युत्प्रभो विमुग्धास्यो विचचार वनान्तरे ॥ ३९॥ रामाश्रमपदस्यान्ते सीतादृष्टिपथे चरन् ॥ ४०॥ क्षणं च धावत्यवतिष्ठते क्षणं समीपमागत्य पुनर्भयावृतः । एवं स मायामृगवेषरूपधृक् चचार सीतां परिमोहयन् खलः ॥ ४१॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे षष्ठः सर्गः ॥ ६॥

॥ सप्तमः सर्गः ॥

श्रीमहादेव उवाच अथ रामोऽपि तत्सर्वं ज्ञात्वा रावणचेष्टितम् । उवाच सीतामेकान्ते शृणु जानकि मे वचः ॥ १॥ रावणो भिक्षुरूपेण आगमिष्यति तेऽन्तिकम् । त्वं तु छायां त्वदाकारां स्थापयित्वोटजे विश ॥ २॥ अग्नावदृश्यरूपेण वर्षं तिष्ठ ममाज्ञया । रावणस्य वधान्ते मां पूर्ववत्प्राप्स्यसे शुभे ॥ ३॥ श्रुत्वा रामोदितं वाक्यं सापि तत्र तथाकरोत् । मायासीतां बहिः स्थाप्य स्वयमन्तर्दधेऽनले ॥ ४॥ मायासीता तदाऽपश्यन्मृगं मायाविनिर्मितम् । हसन्ती राममभ्येत्य प्रोवाच विनयान्विता ॥ ५॥ पश्य राम मृगं चित्रं कानकं रत्नभूषितम् । विचित्रबिन्दुभिर्युक्तं चरन्तमकुतोभयम् । बद्ध्वा देहि मम क्रीडामृगो भवतु सुन्दरः ॥ ६॥ तथेति धनुरादाय गच्छन् लक्ष्मणमब्रवीत् । रक्ष त्वमतियत्नेन सीतां मत्प्राणवल्लभाम् ॥ ७॥ मायिनः सन्ति विपिने राक्षसा घोरदर्शनाः । अतोऽत्रावहितः साध्वीं रक्ष सीतामनिन्दिताम् ॥ ८॥ लक्ष्मणो राममाहेदं देवायं मृगरूपधृक् । मारीचोऽत्र न सन्देह एवम्भूतो मृगः कुतः ॥ ९॥ श्रीराम उवाच यदि मारीच एवायं तदा हन्मि न संशयः । मृगश्चेदानयिष्यामि सीताविश्रमहेतवे ॥ १०॥ गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः । त्वं प्रयत्नेन सन्तिष्ठ सीतासंरक्षणोद्यतः ॥ ११॥ इत्युक्त्वा प्रययौ रामो मायामृगमनुद्रुतः । माया यदाश्रया लोकमोहिनी जगदाकृतिः ॥ १२॥ निर्विकारश्चिदात्मापि पूर्णोऽपि मृगमन्वगात् । भक्तानुकम्पी भगवानिति सत्यं वचो हरिः ॥ १३॥ कर्तुं सीताप्रियार्थाय जानन्नपि मृगं ययौ । अन्यथा पूर्णकामस्य रामस्य विदितात्मनः ॥ १४॥ मृगेण वा स्त्रिया वापि किं कार्यं परमात्मनः ॥ १५॥ कदाचिद् दृश्यतेऽभ्याशे क्षणं धावति लीयते । दृश्यते च ततो दूरादेवं राममपाहरत् । ततो रामोऽपि विज्ञाय राक्षसोऽयमिति स्फुटम् ॥ १६॥ विव्याध शरमादाय राक्षसं मृगरूपिणम् । पपात रुधिराक्तास्यो मारीचः पूर्वरूपधृक् ॥ १७॥ हा हतोऽस्मि महाबाहो त्राहि लक्ष्मण मां द्रुतम् । इत्युक्त्वा रामवद्वाचा पपात रुधिराशनः ॥ १८॥ यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात् । किमुताग्रे हरिं पश्यन्स्तेनैव निहतोऽसुरः ॥ १९॥ तद्देहादुत्थितं तेजः सर्वलोकस्य पश्यतः । राममेवाविशद्देवा विस्मयं परमं ययुः ॥ २०॥ किं कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः । अथवा राघवस्यायं महिमा नात्र संशयः ॥ २१॥ रामबाणेन संविद्धः पूर्वं राममनुस्मरन् । भयात्सर्वं परित्यज्य गृहवित्तादिकं च यत् ॥ २२॥ हृदि रामं सदा ध्यात्वा निर्धूताशेषकल्मषः । अन्ते रामेण निहतः पश्यन् राममवाप सः ॥ २३॥ द्विजो वा राक्षसो वापि पापी वा धार्मिकोऽपि वा । त्यजन् कलेवरं रामं स्मृत्वा याति परं पदम् ॥ २४॥ इति तेऽन्योन्यमाभाष्य ततो देवा दिवं ययुः ॥ २५॥ रामस्तच्चिन्तयामास म्रियमाणोऽसुराधमः । हा लक्ष्मणेति मद्वाक्यमनुकुर्वन्ममार किम् । श्रुत्वा मद्वाक्यसदृशं वाक्यं सीतापि किं भवेत् ॥ २६॥ इति चिन्तापरीतात्मा रामो दूरान्न्यवर्तत ॥ २७॥ सीता तद्भाषितं श्रुत्वा मारीचस्य दुरात्मनः । भीतातिदुःखसंविग्ना लक्ष्मणं त्विदमब्रवीत् । गच्छ लक्ष्मण वेगेन भ्राता तेऽसुरपीडितः ॥ २८॥ हा लक्ष्मणेति वचनं भ्रातुस्ते न शृणोषि किम् । तामाह लक्ष्मणो देवि रामवाक्यं न तद्भवेत् ॥ २९॥ यः कश्चिद्राक्षसो देवि म्रियमाणोऽब्रवीद्वचः । रामस्त्रैलोक्यमपि यः क्रुद्धो नाशयति क्षणात् ॥ ३०॥ स कथं दीनवचनं भाषतेऽमरपूजितः । क्रुद्धा लक्ष्मणमालोक्य सीता बाष्पविलोचना ॥ ३१॥ प्राह लक्ष्मण दुर्बुद्धे भ्रातुर्व्यसनमिच्छसि । प्रेषितो भरतेनैव रामनाशाभिकाङ्क्षिणा ॥ ३२॥ मां नेतुमागतोऽसि त्वं रामनाश उपस्थिते । न प्राप्स्यसे त्वं मामद्य पश्य प्राणान्स्त्यजाम्यहम् ॥ ३३॥ न जानातीदृशं रामस्त्वां भार्याहरणोद्यतम् । रामादन्यं न स्पृशामि त्वां वा भरतमेव वा ॥ ३४॥ इत्युक्त्वा वध्यमाना सा स्वबाहुभ्यां रुरोद ह । तच्छ्रुत्वा लक्ष्मणः कर्णौ पिधायातीव दुःखितः ॥ ३५॥ मामेवं भाषसे चण्डि धिक् त्वां नाशमुपैष्यसि । इत्युक्त्वा वनदेवीभ्यः समर्प्य जनकात्मजाम् ॥ ३६॥ ययौ दुःखातिसंविग्नो राममेव शनैः शनैः । ततोऽन्तरं समालोक्य रावणो भिक्षुवेषधृक् ॥ ३७॥ सीतासमीपमगमत् स्फुरद्दण्डकमण्डलुः । सीता तमवलोक्याशु नत्वा सम्पूज्य भक्तितः ॥ ३८॥ कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीत् । मुने भुङ्क्ष्व फलादीनि विश्रमस्व यथासुखम् ॥ ३९॥ इदानीमेव भर्ता मे ह्यागमिष्यति ते प्रियम् । करिष्यति विशेषेण तिष्ठ त्वं यदि रोचते ॥ ४०॥ भिक्षुरुवाच का त्वं कमलपत्राक्षि को वा भर्ता तवानघे । किमर्थमत्र ते वासो वने राक्षससेविते । ब्रूहि भद्रे ततः सर्वं स्ववृत्तान्तं निवेदये ॥ ४१॥ सीतोवाच अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् । तस्य ज्येष्ठः सुतो रामः सर्वलक्षणलक्षितः ॥ ४२॥ तस्याहं धर्मतः पत्नी सीता जनकनन्दिनी । तस्य भ्राता कनीयान्श्च लक्ष्मणो भ्रातृवत्सलः ॥ ४३॥ पितुराज्ञां पुरस्कृत्य दण्डके वस्तुमागतः । चतुर्दश समास्त्वां तु ज्ञातुमिच्छामि मे वद ॥ ४४॥ भिक्षुरुवाच पौलस्त्यतनयोऽहं तु रावणो राक्षसाधिपः । त्वत्कामपरितप्तोऽहं त्वां नेतुं पुरमागतः ॥ ४५॥ मुनिवेषेण रामेण किं करिष्यसि मां भज । भुङ्क्ष्व भोगान् मया सार्धं त्यज दुःखं वनोद्भवम् ॥ ४६॥ श्रुत्वा तद्वचनं सीता भीता किञ्चिदुवाच तम् । यद्येवं भाषसे मां त्वं नाशमेष्यसि राघवात् ॥ ४७॥ आगमिष्यति रामोऽपि क्षणं तिष्ठ सहानुजः । मां को धर्षयितुं शक्तो हरेर्भार्यां शशो यथा ॥ ४८॥ रामबाणैर्विभिन्नस्त्वं पतिष्यसि महीतले ॥ ४९॥ इति सीतावचः श्रुत्वा रावणः क्रोधमूर्च्छितः । स्वरूपं दर्शयामास महापर्वतसन्निभम् । दशास्यं विंशतिभुजं कालमेघसमद्युतिम् ॥ ५०॥ तद्दृष्ट्वा वनदेव्यश्च भूतानि च वितत्रसुः । ततो विदार्य धरणीं नखैरुद्धृत्य बाहुभिः ॥ ५१॥ तोलयित्वा रथे क्षिप्त्वा ययौ क्षिप्रं विहायसा । हा राम हा लक्ष्मणेति रुदती जनकात्मजा ॥ ५२॥ भयोद्विग्नमना दीना पश्यन्ती भुवमेव सा । श्रुत्वा तत्क्रन्दितं दीनं सीतायाः पक्षिसत्तमः ॥ ५३॥ जटायुरुत्थितः शीघ्रं नगाग्रात्तीक्ष्णतुण्डकः । तिष्ठ तिष्ठेति तं प्राह को गच्छति ममाग्रतः ॥ ५४॥ मुषित्वा लोकनाथस्य भार्यां शून्याद्वनालयात् । शुनको मन्त्रपूतं त्वं पुरोडाशमिवाध्वरे ॥ ५५॥ इत्युक्त्वा तीक्ष्णतुण्डेन चूर्णयामास तद्रथम् । वाहान् बिभेद पादाभ्यां चूर्णयामास तद्धनुः ॥ ५६॥ ततः सीतां परित्यज्य रावणः खड्गमाददे । चिच्छेद पक्षौ सामर्षः पक्षिराजस्य धीमतः ॥ ५७॥ पपात किञ्चिच्छेषेण प्राणेन भुवि पक्षिराट् । पुनरन्यरथेनाशु सीतामादाय रावणः ॥ ५८॥ क्रोशन्ती रामरामेति त्रातारं नाधिगच्छति । हा राम हा जगन्नाथ मां न पश्यसि दुःखिताम् ॥ ५९॥ रक्षसा नीयमानां स्वां भार्यां मोचय राघव । हा लक्ष्मण महाभाग त्राहि मामपराधिनीम् ॥ ६०॥ वाक्शरेण हतस्त्वं मे क्षन्तुमर्हसि देवर । इत्येवं क्रोशमानां तां रामागमनशङ्कया ॥ ६१॥ जगाम वायुवेगेन सीतामादाय सत्वरः ॥ ६२॥ विहायसा नीयमाना सीतापश्यदधोमुखी । पर्वताग्रे स्थितान् पञ्च वानरान् वारिजानना । उत्तरीयार्धखण्डेन विमुच्याभरणादिकम् ॥ ६३॥ बद्ध्वा चिक्षेप रामाय कथयन्त्विति पर्वते ॥ ६४॥ ततः समुद्रमुल्लङ्घ्य लङ्कां गत्वा स रावणः । स्वान्तःपुरे रहस्ये तामशोकविपिनेऽक्षिपत् । राक्षसीभिः परिवृतां मातृबुद्ध्यान्वपालयत् ॥ ६५॥ कृशाऽतिदीना परिकर्मवर्जिता दुःखेन शुष्यद्वदनाऽतिविह्वला । हा राम रामेति विलप्यमाना सीता स्थिता राक्षसवृन्दमध्ये ॥ ६६॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे सप्तमः सर्गः ॥ ७॥

॥ अष्टमः सर्गः ॥

श्रीमहादेव उवाच रामो मायाविनं हत्वा राक्षसं कामरूपिणम् । प्रतस्थे स्वाश्रमं गन्तुं ततो दूराद्ददर्श तम् ॥ १॥ आयान्तं लक्ष्मणं दीनं मुखेन परिशुष्यता । राघवश्चिन्तयामास स्वात्मन्येव महामतिः ॥ २॥ लक्ष्मणस्तन्न जानाति मायासीतां मया कृताम् । ज्ञात्वाप्येनं वञ्चयित्वा शोचामि प्राकृतो यथा ॥ ३॥ यद्यहं विरतो भूत्वा तूष्णीं स्थास्यामि मन्दिरे । तदा राक्षसकोटीनां वधोपायः कथं भवेत् ॥ ४॥ यदि शोचामि तां दुःखसन्तप्तः कामुको यथा । तदा क्रमेणानुचिन्वन् सीतां यास्येऽसुरालयम् । रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः ॥ ५॥ मयैव स्थापितां नीत्वा यातायोध्यामतन्द्रितः ॥ ६॥ अहं मनुष्यभावेन जातोऽस्मि ब्रह्मणार्थितः । मनुष्यभावमापन्नः किञ्चित्कालं वसामि कौ । ततो मायामनुष्यस्य चरितं मेऽनुशृण्वताम् ॥ ७॥ मुक्तिः स्यादप्रयासेन भक्तिमार्गानुवर्तिनाम् । निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत् ॥ ८॥ किमर्थमागतोऽसि त्वं सीतां त्यक्त्वा मम प्रियाम् । नीता वा भक्षिता वापि राक्षसैर्जनकात्मजा ॥ ९॥ लक्ष्मणः प्राञ्जलिः प्राह सीताया दुर्वचो रुदन् । हा लक्ष्मणेति वचनं राक्षसोक्तं श्रुतं तया ॥ १०॥ त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराब्रवीत् । रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम् । नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते ॥ ११॥ इत्येवं सान्त्विता साध्वी मया प्रोवाच मां पुनः । यदुक्तं दुर्वचो राम न वाच्यं पुरतस्तव ॥ १२॥ कर्णौ पिधाय निर्गत्य यातोऽहं त्वां समीक्षितुम् ॥ १३॥ रामस्तु लक्ष्मणं प्राह तथाप्यनुचितं कृतम् । त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता शुभानना । नीता वा भक्षिता वापि राक्षसैर्नात्र संशयः ॥ १४॥ इति चिन्तापरो रामः स्वाश्रमं त्वरितो ययौ । तत्रादृष्ट्वा जनकजां विललापातिदुःखितः ॥ १५॥ हा प्रिये क्व गतासि त्वं नासि पूर्ववदाश्रमे । अथवा मद्विमोहार्थं लीलया क्व विलीयसे ॥ १६॥ इत्याचिन्वन् वनं सर्वं नापश्यज्जानकीं तदा । वनदेव्यः कुतः सीतां ब्रुवन्तु मम वल्लभाम् ॥ १७॥ मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम् । इत्येवं विलपन्नेव रामः सीतां न कुत्रचित् ॥ १८॥ सर्वज्ञः सर्वथा क्वापि नापश्यद्रघुनन्दनः । आनन्दोऽप्यन्वशोचत्तामचलोऽप्यनुधावति ॥ १९॥ निर्ममो निरहङ्कारोऽप्यखण्डानन्दरूपवान् । मम जायेति सीतेति विललापातिदुःखितः ॥ २०॥ एवं मायामनुचरन्नसक्तोऽपि रघूत्तमः । आसक्त इव मूढानां भाति तत्त्वविदां न हि ॥ २१॥ एवं विचिन्वन् सकलं वनं रामः सलक्ष्मणः । भग्नं रथं छत्रचापं कूबरं पतितं भुवि ॥ २२॥ दृष्ट्वा लक्ष्मणमाहेदं पश्य लक्ष्मण केनचित् । नीयमानां जनकजां तं जित्वान्यो जहार ताम् ॥ २३॥ ततः कञ्चिद्भुवो भागं गत्वा पर्वतसन्निभम् । रुधिराक्तवपुर्दृष्ट्वा रामो वाक्यमथाब्रवीत् ॥ २४॥ एष वै भक्षयित्वा तां जानकीं शुभदर्शनाम् । शेते विविक्तेऽतितृप्तः पश्य हन्मि निशाचरम् ॥ २५॥ चापमानय शीघ्रं मे बाणं च रघुनन्दन । तच्छ्रुत्वा रामवचनं जटायुः प्राह भीतवत् ॥ २६॥ मां न मारय भद्रं ते म्रियमाणं स्वकर्मणा । अहं जटायुस्ते भार्याहारिणं समनुद्रुतः ॥ २७॥ रावणं तत्र युद्धं मे बभूवारिविमर्दन । तस्य वाहान् रथं चापं छित्त्वाहं तेन घातितः ॥ २८॥ पतितोऽस्मि जगन्नाथ प्राणान्स्त्यक्ष्यामि पश्य माम् । तच्छ्रुत्वा राघवो दीनं कण्ठप्राणं ददर्श ह ॥ २९॥ हस्ताभ्यां संस्पृशन् रामो दुःखाश्रुवृतलोचनः ॥ ३०॥ जटायो ब्रूहि मे भार्या केन नीता शुभानना । मत्कार्यार्थं हतोऽसि त्वमतो मे प्रियबान्धवः ॥ ३१॥ जटायुः सन्नया वाचा वक्त्राद्रक्तं समुद्वमन् । उवाच रावणो राम राक्षसो भीमविक्रमः ॥ ३२॥ आदाय मैथिलीं सीतां दक्षिणाभिमुखो ययौ । इतो वक्तुं न मे शक्तिः प्राणान्स्त्यक्ष्यामि तेऽग्रतः ॥ ३३॥ दिष्ट्या दृष्टोऽसि राम त्वं म्रियमाणेन मेऽनघ । परमात्मासि विष्णुस्त्वं मायामनुजरूपधृक् ॥ ३४॥ अन्तकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम । हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि ते पदम् ॥ ३५॥ तथेति रामः पस्पर्श तदङ्गं पाणिना स्मयन् । ततः प्राणान् परित्यज्य जटायुः पतितो भुवि ॥ ३६॥ रामस्तमनुशोचित्वा बन्धुवत् साश्रुलोचनः । लक्ष्मणेन समानाय्य काष्ठानि प्रददाह तम् ॥३७॥ स्नात्वा दुःखेन रामोऽपि लक्ष्मणेन समन्वितः । हत्वा वने मृगं तत्र मांसखण्डान् समन्ततः ॥ ३८॥ शाद्वले प्राक्षिपद्रामः पृथक् पृथगनेकधा । भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु पक्षिराट् ॥ ३९॥ इत्युक्त्वा राघवः प्राह जटायो गच्छ मत्पदम् । मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः ॥ ४०॥ ततोऽनन्तरमेवासौ दिव्यरूपधरः शुभः । विमानवरमारुह्य भास्वरं भानुसन्निभम् ॥ ४१॥ शङ्खचक्रगदापद्मकिरीटवरभूषणैः । द्योतयन् स्वप्रकाशेन पीताम्बरधरोऽमलः ॥ ४२॥ चतुर्भिः पार्षदैर्विष्णोस्तादृशैरभिपूजितः । स्तूयमानो योगिगणैः राममाभाष्य सत्वरः । कृताञ्जलिपुटो भूत्वा तुष्टाव रघुनन्दनम् ॥ ४३॥ जटायुरुवाच अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् । उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥ ४४॥ निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् । नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् ॥ ४५॥ त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम् । शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये ॥ ४६॥ भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम् । दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये ॥ ४७॥ अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम् । भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये ॥ ४८॥ गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम् । सुरवरदनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रपद्ये ॥ ४९॥ परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् । परहितनिरतात्मनां सुसेव्यं रघुवरमम्बुजलोचनं प्रपद्ये ॥ ५०॥ स्मितरुचिरविकासिताननाब्ज- मतिसुलभं सुरराजनीलनीलम् । सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥ ५१॥ हरिकमलजशम्भुरूपभेदात्- त्वमिह विभासि गुणत्रयानुवृत्तः । रविरिव जलपूरितोदपात्रे- ष्वमरपतिस्तुतिपात्रमीशमीडे ॥ ५२॥ रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम् । यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥ ५३॥ इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः । उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥ ५४॥ शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् । स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ ५५॥ इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः । रघुनन्दनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम् ॥ ५६॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे अष्टमः सर्गः ॥ ८॥

॥ नवमः सर्गः ॥

श्रीमहादेव उवाच ततो रामो लक्ष्मणेन जगाम विपिनान्तरम् । पुनर्दुःखं समाश्रित्य सीतान्वेषणतत्परः ॥ १॥ तत्राद्भुतसमाकारो राक्षसः प्रत्यदृश्यत । वक्षस्येव महावक्त्रश्चक्षुरादिविवर्जितः ॥ २॥ बाहू योजनमात्रेण व्यापृतौ तस्य रक्षसः । कबन्धो नाम दैत्येन्द्रः सर्वसत्त्वविहिंसकः ॥ ३॥ तद्बाह्वोर्मध्यदेशे तौ चरन्तौ रामलक्ष्मणौ । ददर्शतुर्महासत्त्वं तद्बाहुपरिवेष्टितौ ॥ ४॥ रामः प्रोवाच विहसन् पश्य लक्ष्मण राक्षसम् । शिरःपादविहीनोऽयं यस्य वक्षसि चाननम् ॥ ५॥ बाहुभ्यां लभ्यते यद्यत्तत्तद्भक्षन् स्थितो ध्रुवम् । आवामप्येतयोर्बाह्वोर्मध्ये सङ्कलितौ ध्रुवम् ॥ ६॥ गन्तुमन्यत्र मार्गो न दृश्यते रघुनन्दन । किं कर्तव्यमितोऽस्माभिरिदानीं भक्षयेत्स नौ ॥ ७॥ लक्ष्मणस्तमुवाचेदं किं विचारेण राघव । आवामेकैकमव्यग्रौ छिन्द्यावास्य भुजौ ध्रुवम् ॥ ८॥ तथेति रामः खड्गेन भुजं दक्षिणमच्छिनत् । तथैव लक्ष्मणो वामं चिच्छेद भुजमञ्जसा ॥ ९॥ ततोऽतिविस्मितो दैत्यः कौ युवां सुरपुङ्गवौ । मद्बाहुच्छेदकौ लोके दिवि देवेषु वा कुतः ॥ १०॥ ततोऽब्रवीद्धसन्नेव रामो राजीवलोचनः । अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् ॥ ११॥ रामोऽहं तस्य पुत्रोऽसौ भ्राता मे लक्ष्मणः सुधीः । मम भार्या जनकजा सीता त्रैलोक्यसुन्दरी ॥ १२॥ आवां मृगयया यातौ तदा केनापि रक्षसा । नीतां सीतां विचिन्वन्तौ चागतौ घोरकानने ॥ १३॥ बाहुभ्यां वेष्टितावत्र तव प्राणरिरक्षया । छिन्नौ तव भुजौ त्वं च को वा विकटरूपधृक् ॥ १४॥ कबन्ध उवाच धन्योऽहं यदि रामस्त्वमागतोऽसि ममान्तिकम् । पुरा गन्धर्वराजोऽहं रूपयौवनदर्पितः ॥ १५॥ विचरन्ल्लोकमखिलं वरनारीमनोहरः । तपसा ब्रह्मणो लब्धमवध्यत्वं रघूत्तम ॥ १६॥ अष्टावक्रं मुनिं दृष्ट्वा कदाचिदहसं पुरा । क्रुद्धोऽसावाह दुष्ट त्वं राक्षसो भव दुर्मते ॥ १७॥ अष्टावक्रः पुनः प्राह वन्दितो मे दयापरः । शापस्यान्तं च मे प्राह तपसा द्योतितप्रभः ॥ १८॥ त्रेतायुगे दाशरथिर्भूत्वा नारायणः स्वयम् । आगमिष्यति ते बाहू छिद्येते योजनायतौ ॥ १९॥ तेन शापाद्विनिर्मुक्तो भविष्यसि यथा पुरा । इति शप्तोऽहमद्राक्षं राक्षसीं तनुमात्मनः ॥ २०॥ कदाचिद्देवराजानमभ्यद्रवमहं रुषा । सोऽपि वज्रेण मां राम शिरोदेशेऽभ्यताडयत् ॥ २१॥ तदा शिरो गतं कुक्षिं पादौ च रघुनन्दन । ब्रह्मदत्तवरान्मृत्युर्नाभून्मे वज्रताडनात् ॥ २२॥ मुखाभावे कथं जीवेदयमित्यमराधिपम् । ऊचुः सर्वे दयाविष्टा मां विलोक्याऽऽस्यवर्जितम् ॥ २३॥ ततो मां प्राह मघवा जठरे ते मुखं भवेत् । बाहू ते योजनायामौ भविष्यत इतो व्रज ॥ २४॥ इत्युक्तोऽत्र वसन्नित्यं बाहुभ्यां वनगोचरान् । भक्षयाम्यधुना बाहू खण्डितौ मे त्वयानघ ॥ २५॥ इतः परं मां श्वभ्रास्ये निक्षिपाग्नीन्धनावृते । अग्निना दह्यमानोऽहं त्वया रघुकुलोत्तम ॥ २६॥ पूर्वरूपमनुप्राप्य भार्यामार्गं वदामि ते ॥ २७॥ इत्युक्ते लक्ष्मणेनाशु श्वभ्रं निर्मित्य तत्र तम् । निक्षिप्य प्रादहत्काष्ठैस्ततो देहात्समुत्थितः । कन्दर्पसदृशाकारः सर्वाभरणभूषितः ॥ २८॥ रामं प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणिपत्य च । कृताञ्जलिरुवाचेदं भक्तिगद्गदया गिरा ॥ २९॥ गन्धर्व उवाच स्तोतुमुत्सहते मेऽद्य मनो रामातिसम्भ्रमात् । त्वामनन्तमनाद्यन्तं मनोवाचामगोचरम् ॥ ३०॥ सूक्ष्मं ते रूपमव्यक्तं देहद्वयविलक्षणम् । दृग्रूपमितरत्सर्वं दृश्यं जडमनात्मकम् । तत्कथं त्वां विजानीयाद्व्यतिरिक्तं मनः प्रभो ॥ ३१॥ बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते । बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन्निर्विषयेऽखिलम् ॥ ३२॥ आरोप्यतेऽज्ञानवशान्निर्विकारेऽखिलात्मनि । हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट् स्मृतम् ॥ ३३॥ भावनाविषयो राम सूक्ष्मं ते ध्यातृमङ्गलम् । भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत् ॥ ३४॥ स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते । सप्तभिरुत्तरगुणैर्वैराजो धारणाश्रयः ॥ ३५॥ त्वमेव सर्वकैवल्यं लोकास्तेऽवयवाः स्मृताः । पातालं ते पादमूलं पार्ष्णिस्तव महातलम् ॥ ३६॥ रसातलं ते गुल्फौ तु तलातलमितीर्यते । जानुनी सुतलं राम ऊरू ते वितलं तथा ॥ ३७॥ अतलं च मही राम जघनं नाभिगं नभः । उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते ॥ ३८॥ वदनं जनलोकस्ते तपस्ते शङ्खदेशगम् । सत्यलोको रघुश्रेष्ठ शीर्षण्यास्ते सदा प्रभो ॥ ३९॥ इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती । अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः ॥ ४०॥ चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः । भ्रूभङ्ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत् ॥ ४१॥ रुद्रोऽहङ्काररूपस्ते वाचश्छन्दांसि तेऽव्यय । यमस्ते दंष्ट्रदेशस्थो नक्षत्राणि द्विजालयः ॥ ४२॥ हासो मोहकरी माया सृष्टिस्तेऽपाङ्गमोक्षणम् । धर्मः पुरस्तेऽधर्मश्च पृष्ठभाग उदीरितः ॥ ४३॥ निमिषोन्मेषणे रात्रिर्दिवा चैव रघूत्तम । समुद्राः सप्त ते कुक्षिर्नाड्यो नद्यस्तव प्रभो ॥ ४४॥ रोमाणि वृक्षौषधयो रेतो वृष्टिस्तव प्रभो । महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव ॥ ४५॥ यदस्मिन् स्थूलरूपे ते मनः सन्धार्यते नरैः । अनायासेन मुक्तिः स्यादतोऽन्यन्नहि किञ्चन ॥ ४६॥ अतोऽहं राम रूपं ते स्थूलमेवानुभावये । यस्मिन् ध्याते प्रेमरसः सरोमपुलको भवेत् ॥ ४७॥ तदैव मुक्तिः स्याद्राम यदा ते स्थूलभावकः । तदप्यास्तां तवैवाहमेतद्रूपं विचिन्तये ॥ ४८॥ धनुर्बाणधरं श्यामं जटावल्कलभूषितम् । अपीच्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम् ॥ ४९॥ इदमेव सदा मे स्यान्मानसे रघुनन्दन ॥ ५०॥ सर्वज्ञः शङ्करः साक्षात्पार्वत्या सहितः सदा । त्वद्रूपमेव सततं ध्यायन्नास्ते रघूत्तम । मुमूर्षूणां तदा काश्यां तारकं ब्रह्मवाचकम् ॥ ५१॥ रामरामेत्युपदिशन् सदा सन्तुष्टमानसः । अतस्त्वं जानकीनाथ परमात्मा सुनिश्चितः ॥ ५२॥ सर्वे ते मायया मूढास्त्वां न जानन्ति तत्त्वतः । नमस्ते रामभद्राय वेधसे परमात्मने ॥ ५३॥ अयोध्याधिपते तुभ्यं नमः सौमित्रिसेवित । त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते ॥ ५४॥ श्रीराम उवाच तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेऽनघ । याहि मे परमं स्थानं योगिगम्यं सनातनम् ॥ ५५॥ जपन्ति ये नित्यमनन्यबुद्ध्या भक्त्या त्वदुक्तं स्तवमागमोक्तम् । तेऽज्ञानसम्भूतभवं विहाय मां यान्ति नित्यानुभवानुमेयम् ॥ ५६॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे नवमः सर्गः ॥ ९॥

॥ दशमः सर्गः ॥

श्रीमहादेव उवाच लब्ध्वा वरं स गन्धर्वः प्रयास्यन् राममब्रवीत् । शबर्यास्ते पुरोभागे आश्रमे रघुनन्दन ॥ १॥ भक्त्या त्वत्पादकमले भक्तिमार्गविशारदा । तां प्रयाहि महाभाग सर्वं ते कथयिष्यति ॥ २॥ इत्युक्त्वा प्रययौ सोऽपि विमानेनार्कवर्चसा । विष्णोः पदं रामनामस्मरणे फलमीदृशम् ॥ ३॥ त्यक्त्वा तद्विपिनं घोरं सिंहव्याघ्रादिदूषितम् । शनैरथाश्रमपदं शबर्या रघुनन्दनः ॥ ४॥ शबरी राममालोक्य लक्ष्मणेन समन्वितम् । आयान्तमाराद्धर्षेण प्रत्युत्थायाचिरेण सा ॥ ५॥ पतित्वा पादयोरग्रे हर्षपूर्णाश्रुलोचना । स्वागतेनाभिनन्द्याथ स्वासने सन्न्यवेशयत् ॥ ६॥ रामलक्ष्मणयोः सम्यक्पादौ प्रक्षाल्य भक्तितः । तज्जलेनाभिषिच्याङ्गमथार्घ्यादिभिरादृता ॥ ७॥ सम्पूज्य विधिवद्रामं ससौमित्रिं सपर्यया । सङ्गृहीतानि दिव्यानि रामार्थं शबरी मुदा ॥ ८॥ फलान्यमृतकल्पानि ददौ रामाय भक्तितः । पादौ सम्पूज्य कुसुमैः सुगन्धैः सानुलेपनैः ॥ ९॥ कृतातिथ्यं रघुश्रेष्ठमुपविष्टं सहानुजम् । शबरी भक्तिसम्पन्ना प्राञ्जलिर्वाक्यमब्रवीत् ॥ १०॥ अत्राश्रमे रघुश्रेष्ठ गुरवो मे महर्षयः । स्थिताः शुश्रूषणं तेषां कुर्वती समुपस्थिता ॥ ११॥ बहुवर्षसहस्राणि गतास्ते ब्रह्मणः पदम् । गमिष्यन्तोऽब्रुवन्मां त्वं वसात्रैव समाहिता ॥ १२॥ रामो दाशरथिर्जातः परमात्मा सनातनः । राक्षसानां वधार्थाय ऋषीणां रक्षणाय च ॥ १३॥ आगमिष्यति चैकाग्रध्याननिष्ठा स्थिरा भव । इदानीं चित्रकूटाद्रावाश्रमे वसति प्रभुः ॥ १४॥ यावदागमनं तस्य तावद्रक्ष कलेवरम् । दृष्ट्वैव राघवं दग्ध्वा देहं यास्यसि तत्पदम् ॥ १५॥ तथैवाकरवं राम त्वद्ध्यानैकपरायणा । प्रतीक्ष्यागमनं तेऽद्य सफलं गुरुभाषितम् ॥ १६॥ तव सन्दर्शनं राम गुरूणामपि मे न हि । योषिन्मूढाऽप्रमेयात्मन् हीनजातिसमुद्भवा ॥ १७॥ तव दासस्य दासानां शतसङ्ख्योत्तरस्य वा । दासीत्वे नाधिकारोऽस्ति कुतः साक्षात्तवैव हि ॥ १८॥ कथं रामाद्य मे दृष्टस्त्वं मनोवागगोचरः । स्तोतुं न जाने देवेश किं करोमि प्रसीद मे ॥ १९॥ श्रीराम उवाच पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः । न कारणं मद्भजने भक्तिरेव हि कारणम् ॥ २०॥ यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः । नैव द्रष्टुमहं शक्यो मद्भक्तिविमुखैः सदा ॥ २१॥ तस्माद्भामिनि सङ्क्षेपाद्वक्ष्येऽहं भक्तिसाधनम् ॥ २२॥ सतां सङ्गतिरेवात्र साधनं प्रथमं स्मृतम् । द्वितीयं मत्कथालापस्तृतीयं मद्गुणेरणम् । व्याख्यातृत्वं मद्वचसां चतुर्थं साधनं भवेत् ॥ २३॥ आचार्योपासनं भद्रे सद्बुद्ध्याऽमायया सदा । पञ्चमं पुण्यशीलत्वं यमादि नियमादि च ॥ २४॥ निष्ठा मत्पूजने नित्यं षष्ठं साधनमीरितम् । मम मन्त्रोपासकत्वं साङ्गं सप्तममुच्यते ॥ २५॥ मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः । बाह्यार्थेषु विरागित्वं शमादिसहितं तथा ॥ २६॥ अष्टमं नवमं तत्त्वविचारो मम भामिनि । एवं नवविधा भक्तिः साधनं यस्य कस्य वा ॥ २७॥ स्त्रियो वा पुरुषस्यापि तिर्यग्योनिगतस्य वा । भक्तिः सञ्जायते प्रेमलक्षणा शुभलक्षणे ॥ २८॥ भक्तौ सञ्जातमात्रायां मत्तत्त्वानुभवस्तदा । ममानुभवसिद्धस्य मुक्तिस्तत्रैव जन्मनि ॥ २९॥ स्यात्तस्मात्कारणं भक्तिर्मोक्षस्येति सुनिश्चितम् । प्रथमं साधनं यस्य भवेत्तस्य क्रमेण तु ॥ ३०॥ भवेत्सर्वं ततो भक्तिर्मुक्तिरेव सुनिश्चितम् । यस्मान्मद्भक्तियुक्ता त्वं ततोऽहं त्वामुपस्थितः ॥ ३१॥ इतो मद्दर्शनान्मुक्तिस्तव नास्त्यत्र संशयः । यदि जानासि मे ब्रूहि सीता कमललोचना ॥ ३२॥ कुत्रास्ते केन वा नीता प्रिया मे प्रियदर्शना ॥ ३३॥ शबर्युवाच देव जानासि सर्वज्ञ सर्वं त्वं विश्वभावन । तथाऽपि पृच्छसे यन्मां लोकाननुसृतः प्रभो ॥ ३४॥ ततोऽहमभिधास्यामि सीता यत्राधुना स्थिता । रावणेन हृता सीता लङ्कायां वर्ततेऽधुना ॥ ३५॥ इतः समीपे रामाऽऽस्ते पम्पानाम सरोवरम् । ऋष्यमूकगिरिर्नाम तत्समीपे महानगः ॥ ३६॥ चतुर्भिर्मन्त्रिभिः सार्धं सुग्रीवो वानराधिपः । भीतभीतः सदा यत्र तिष्ठत्यतुलविक्रमः ॥ ३७॥ वालिनश्च भयाद् भ्रातुस्तदगम्यमृषेर्भयात् । वालिनस्तत्र गच्छ त्वं तेन सख्यं कुरु प्रभो ॥ ३८॥ सुग्रीवेण स सर्वं ते कार्यं सम्पादयिष्यति । अहमग्निं प्रवेक्ष्यामि तवाग्रे रघुनन्दन ॥ ३९॥ मुहूर्तं तिष्ठ राजेन्द्र यावद्दग्ध्वा कलेवरम् । यास्यामि भगवन् राम तव विष्णोः परं पदम् ॥ ४०॥ इति रामं समामन्त्र्य प्रविवेश हुताशनम् । क्षणान्निर्धूय सकलमविद्याकृतबन्धनम् । रामप्रसादाच्छबरी मोक्षं प्रापातिदुर्लभम् ॥ ४१॥ किं दुर्लभं जगन्नाथे श्रीरामे भक्तवत्सले । प्रसन्नेऽधमजन्मापि शबरी मुक्तिमाप सा ॥ ४२॥ किं पुनर्ब्राह्मणा मुख्याः पुण्याः श्रीरामचिन्तकाः । मुक्तिं यान्तीति तद्भक्तिर्मुक्तिरेव न संशयः ॥ ४३॥ भक्तिर्मुक्तिविधायिनी भगवतः श्रीरामचन्द्रस्य हे लोकाः कामदुघाङ्घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः । नानाज्ञानविशेषमन्त्रविततिं त्यक्त्वा सुदूरे भृशं रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः ॥ ४४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे दशमः सर्गः ॥ १०॥ अरण्यकाण्डम् समाप्तम् ॥
Encoded by Nagaraj Balijepalli nagaraj at iastate.edu Proofread by Sunder Hattangadi Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com

% Text title            : adhyAtma rAmAyaNa araNyakANDam
% File name             : adhyaatmaRamAra.itx
% itxtitle              : adhyAtmarAmAyaNe 3 araNyakANDam
% engtitle              : adhyAtmarAmAyaNa araNyakANDa
% Category              : adhyAtmarAmAyaNa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nagaraj Balijepalli 
% Proofread by          : Nagaraj Balijepalli, Sunder Hattangadi, PSA Easwaran, ahimsasoldier
% Description-comments  : adhyAtma raamAyaNa
% Indexextra            : (Hindi)
% Latest update         : July 22, 2006, April 4, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP