॥ अध्यात्मरामायणे अयोध्याकाण्डम् ॥

॥ प्रथमः सर्गः ॥

एकदा सुखमासीनं रामं स्वान्तःपुराजिरे । सर्वाभरणसम्पन्नं रत्नसिंहासने स्थितम् ॥ १॥ नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् । सीतया रत्नदण्डेन चामरेणाथ वीजितम् ॥ २॥ विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् । नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः ॥ ३॥ शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः । अतर्कितमुपायातो नारदो दिव्यदर्शनः ॥ ४॥ तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः । ननाम शिरसा भूमौ सीतया सह भक्तिमान् ॥ ५॥ उवाच नारदं रामः प्रीत्या परमया युतः । संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् । अस्माकं विषयासक्तचेतसां नितरां मुने ॥ ६॥ अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः । संसारिणापि हि मुने लभ्यते सत्समागमः ॥ ७॥ अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर । किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः ॥ ८॥ अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् । किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः ॥ ९॥ संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभो । जगतामादिभूता या सा माया गृहिणी तव ॥ १०॥ त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः । त्वदाश्रया सदा भाति माया या त्रिगुणात्मिका ॥ ११॥ सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः । लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः ॥ १२॥ त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा । ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा ॥ १३॥ भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा । शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् ॥ १४॥ यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो । निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा ॥ १५॥ राम त्वमेव वरुणो भार्गवी जानकी शुभा । वायुस्त्वं राम सीता तु सदागतिरितीरिता ॥ १६॥ कुबेरस्त्वं राम सीता सर्वसम्पत्प्रकीर्तिता । रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् ॥ १७॥ लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा । पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव ॥ १८॥ तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन ॥ १९॥ त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते । तस्मान्महान्स्ततः सूत्रं लिङ्गं सर्वात्मकं ततः ॥ २०॥ अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च । लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् ॥ २१॥ स एव जीवसञ्ज्ञश्च लोके भाति जगन्मयः । अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते ॥ २२॥ स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः । एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः ॥ २३॥ जाग्रत्स्वप्नसुषुप्त्याख्या संसृतिर्या प्रवर्तते । तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम ॥ २४॥ त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् । त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् ॥ २५॥ रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् । परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते ॥ २६॥ चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः । त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् ॥ २७॥ अज्ञानान्न्यस्यते सर्वं त्वयि रज्जौ भुजङ्गवत् ॥ २८॥ त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् । तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि ॥ २९॥ अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः । अतो मामनुगृह्णीष्व मोहयस्व न मां प्रभो ॥ ३०॥ त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो । अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव ॥ ३१॥ इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रुपरिप्लुतः । उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् ॥ ३२॥ रावणस्य वधार्थाय जातोऽसि रघुसत्तम । इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति ॥ ३३॥ यदि राज्याभिसंसक्तो रावणं न हनिष्यसि । प्रतिज्ञा ते कृता राम भूभारहरणाय वै ॥ ३४॥ तत्सत्यं कुरु राजेन्द्र सत्यसन्धस्त्वमेव हि । श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् ॥ ३५॥ शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् । प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः ॥ ३६॥ किन्तु कालानुरोधेन तत्तत्प्रारब्धसङ्क्षयात् । हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् ॥ ३७॥ रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् । चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् ॥ ३८॥ सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् । एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह ॥ ३९॥ प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणिपत्य तम् । अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः ॥ ४०॥ संवादं पठति शृणोति संस्मरेद्वा यो नित्यं मुनिवररामयोः सभक्त्या । सम्प्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं विरतिपुरःसरं क्रमेण ॥ ४१॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे प्रथमः सर्गः ॥ १॥

॥ द्वितीयः सर्गः ॥

अथ राजा दशरथः कदाचिद्रहसि स्थितः । वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत ॥ १॥ भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः । पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः ॥ २॥ ततः सर्वगुणोपेतं रामं राजीवलोचनम् । ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव ॥ ३॥ भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः । अभिषेक्ष्ये श्व एवाशु भवान्स्तच्चानुमोदताम् ॥ ४॥ सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् । उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः ॥ ५॥ तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै । आहूय मन्त्रिणं राजा सुमन्त्रं मन्त्रिसत्तमम् ॥६॥ आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय । यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् ॥ ७॥ तथेति हर्षात्स मुनिं किं करोमीत्यभाषत । तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः ॥ ८॥ श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः । तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः ॥ ९॥ चतुर्दन्तः समायातु ऐरावतकुलोद्भवः । नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः ॥ १०॥ स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय । श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् ॥ ११॥ दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च । मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः ॥ १२॥ नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा । नानावादित्रकुशला वादयन्तु नृपाङ्गणे ॥ १३॥ हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः । नगरे यानि तिष्ठन्ति देवतायतनानि च ॥ १४॥ तेषु प्रवर्ततां पूजा नानाबलिभिरावृता । राजानः शीघ्रमायान्तु नानोपायनपाणयः ॥ १५॥ इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् । स्वयं जगाम भवनं राघवस्यातिशोभनम् ॥ १६॥ रथमारुह्य भगवान् वसिष्ठो मुनिसत्तमः । त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् ॥ १७॥ अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः । गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः ॥ १८॥ प्रत्युद्गम्य नमस्कृत्य दण्डवद्भक्तिसंयुतः । स्वर्णपात्रेण पानीयमानिनायाशु जानकी ॥ १९॥ रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः । तदपः शिरसा धृत्वा सीताया सह राघवः ॥ २०॥ धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् । श्रीरामेणैवमुक्तस्तु प्रहसन् मुनिरब्रवीत् ॥ २१॥ त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः । ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः ॥ २२॥ इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् । जानामि त्वां परात्मानं लक्ष्म्या सञ्जातमीश्वरम् ॥ २३॥ देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये । रावणस्य वधार्थाय जातं जानामि राघव ॥ २४॥ तथापि देवकार्यार्थं गुह्यं नोद्घाटयाम्यहम् । तथा त्वं मायया सर्वं करोषि रघुनन्दन ॥ २५॥ तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् । गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः ॥ २६॥ अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः । शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् ॥ २७॥ मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया । पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् ॥ २८॥ इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते । इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा ॥ २९॥ ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया । अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये ॥ ३०॥ ततो मनोरथो मेऽद्य फलितो रघुनन्दन । त्वदधीना महामाया सर्वलोकैकमोहिनी ॥ ३१॥ मां यथा मोहयेन्नैव तथा कुरु रघूद्वह । गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे ॥ ३२॥ प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया । राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह ॥ ३३॥ त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव । अद्य त्वं सीतया सार्धमुपवासं यथाविधि ॥ ३४॥ कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः । गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि ॥ ३५॥ इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् । रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ३६॥ सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति । निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि ॥ ३७॥ मम त्वं हि बहिःप्राणो नात्र कार्या विचारणा । ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् ॥ ३८॥ वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् । वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् ॥ ३९॥ यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ । कौसल्यायै राममात्रे सुमित्रायै तथैव च ॥ ४०॥ श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् । तस्मै ततः प्रीतमनाः कौसल्या पुत्रवत्सला ॥ ४१॥ लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये । सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् ॥ ४२॥ कैकेयीवशगः किन्तु कामुकः किं करिष्यति । इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् ॥ ४३॥ एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् । गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः ॥ ४४॥ रामाभिषेकविघ्नार्थं यतस्व ब्रह्मवाक्यतः । मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् ॥ ४५॥ ततो विघ्ने समुत्पन्ने पुनरेहि दिवं शुभे । तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् ॥ ४६॥ सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् । नगरं परितो दृष्ट्वा सर्वतः समलङ्कृतम् ॥ ४७॥ नानातोरणसम्बाधं पताकाभिरलङ्कृतम् । दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता ॥ ४८॥ धात्रीं पप्रच्छ मातः किं नगरं समलङ्कृतम् । दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता ॥ ४९॥ ददाति विप्रमुख्येभ्यो वस्त्राणि विविधानि च । तामुवाच तदा धात्री रामचन्द्राभिषेचनम् ॥ ५०॥ श्वो भविष्यति तेनाद्य सर्वतोऽलङ्कृतं पुरम् । तच्छ्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् ॥ ५१॥ पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् । किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् ॥ ५२॥ न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी ॥ ५३॥ रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति । तच्छ्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी ॥ ५४॥ तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् । हर्षस्थाने किमिति मे कथ्यते भयमागतम् ॥ ५५॥ भरतादधिको रामः प्रियकृन्मे प्रियंवदः । कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् ॥ ५६॥ रामाद्भयं किमापन्नं तव मूढे वदस्व मे । तच्छ्रुत्वा विषसादाथ कुब्जाऽकारणवैरिणी ॥ ५७॥ शृणु मद्वचनं देवि यथार्थं ते महद्भयम् । त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते ॥ ५८॥ कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् । कार्यं करोति तस्या वै राममातुः सुपुष्कलम् ॥ ५९॥ मनस्येतन्निधायैव प्रेषयामास ते सुतम् । भरतं मातुलकुले प्रेषयामास सानुजम् ॥ ६०॥ सुमित्रायाः समीचीनं भविष्यति न संशयः । लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति ॥ ६१॥ भरतो राघवस्याग्रे किङ्करो वा भविष्यति । विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् ॥ ६२॥ त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि । ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः ॥ ६३॥ अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने । रामस्य वनवासार्थं वर्षाणि नव पञ्च च ॥ ६४॥ ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति । उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् ॥ ६५॥ पुरा देवासुरे युद्धे राजा दशरथः स्वयम् । इन्द्रेण याचितो धन्वी सहायार्थं महारथः ॥ ६६॥ जगाम सेनया सार्धं त्वया सह शुभानने । युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः ॥ ६७॥ तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः । त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः ॥ ६८॥ स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया । ततो हत्वासुरान् सर्वान् ददर्श त्वामरिन्दमः ॥ ६९॥ आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः । वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् ॥ ७०॥ वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् । त्वयोक्तो वरदो राजन् यदि दत्तं वरद्वयम् ॥ ७१॥ त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ । यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् ॥ ७२॥ तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते । त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् ॥ ७३॥ अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता । विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च ॥ ७४॥ भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि । यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते ॥ ७५॥ श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी । तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा ॥ ७६॥ तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी । एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि ॥ ७७॥ भरतो यदि राजा मे भविष्यति सुतः प्रियः । ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा ॥ ७८॥ इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा । विमुच्य सर्वाभरणं परिकीर्य समन्ततः ॥ ७९॥ भूमौ शयाना मलिना मलिनाम्बरधारिणी । प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् ॥ ८०॥ प्राणान्स्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि । निश्चयं कुरु कल्याणि कल्याणं ते भविष्यति ॥ ८१॥ इत्युक्त्वा प्रययौ कुब्जा गृहं साऽपि तथाकरोत् ॥ ८२॥ धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा । दुष्टानामतिपापभावितधियां सङ्गं सदा चेद्भजेत् तद्बुद्ध्या परिभावितो व्रजति तत्साम्यं क्रमेण स्फुटम् ॥८३॥ अतः सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि । दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका ॥ ८४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे द्वितीयः सर्गः ॥ २॥

॥ तृतीयः सर्गः ॥

ततो दशरथो राजा रामाभ्युदयकारणात् । आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् ॥ १॥ तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः । या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना ॥ २॥ हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते । इत्यात्मन्येव सञ्चिन्त्य मनसातिविदूयता ॥ ३॥ पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा । नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना ॥ ४॥ ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे । कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि ॥ ५॥ इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः । उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् ॥ ६॥ किं शेषे वसुधापृष्ठे पर्यङ्कादीन् विहाय च । मां त्वं खेदयसे भीरु यतो मां नावभाषसे ॥ ७॥ अलङ्कारं परित्यज्य भूमौ मलिनवाससा । किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् ॥ ८॥ को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा । स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः ॥ ९॥ ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः । तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् ॥ १०॥ जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् । तथापि मां खेदयसे वृथा तव परिश्रमः ॥ ११॥ ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् । धनिनं क्षणमात्रेण निर्धनं च तवाहितम् ॥ १२॥ ब्रूहि कं वा वधिष्यामि वधार्हो वा विमोक्ष्यते । किमत्र बहुनोक्तेन प्राणान् दास्यामि ते प्रिये ॥ १३॥ मम प्राणात्प्रियतरो रामो राजीवलोचनः । तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् ॥ १४॥ इति ब्रुवाणं राजानं शपन्तं राघवोपरि । शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत ॥ १५॥ यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि । याच्ञां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि ॥ १६॥ पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः । तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा ॥ १७॥ तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत । तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् ॥ १८॥ एभिः सम्भृतसम्भारैर्यौवराज्येऽभिषेचय । अपरेण वरेणाशु रामो गच्छतु दण्डकान् ॥ १९॥ मुनिवेषधरः श्रीमान् जटावल्कलभूषणः । चतुर्दश समास्तत्र कन्दमूलफलाशनः ॥ २०॥ पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् । प्रभाते गच्छतु वनं रामो राजीवलोचनः ॥ २१॥ यदि किञ्चिद्विलम्बेत प्राणान्स्त्यक्ष्ये तवाग्रतः । भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् ॥ २२॥ श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् । निपपात महीपालो वज्राहत इवाचलः ॥ २३॥ शनैरुन्मील्य नयने विमृज्य परया भिया । दुःस्वप्नो वा मया दृष्टो ह्यथवा चित्तविभ्रमः ॥ २४॥ इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थिताम् । किमिदं भाषसे भद्रे मम प्राणहरं वचः ॥ २५॥ रामः कमपराधं ते कृतवान् कमलेक्षणः । ममाग्रे राघवगुणान् वर्णयस्यनिशं शुभान् ॥ २६॥ कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा । इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा ॥ २७॥ राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे । अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव ॥ २८॥ इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह । कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना ॥ २९॥ राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा । मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् ॥ ३०॥ वनं न गच्छेद्यदि रामचन्द्रः प्रभातकालेऽजिनचीरयुक्तः । उद्बन्धनं वा विषभक्षणं वा कृत्वा मरिष्ये पुरतस्तवाहम् ॥ ३१॥ सत्यप्रतिज्ञोऽहमितीह लोके विडम्बसे सर्वसभान्तरेषु । रामोपरि त्वं शपथं च कृत्वा मिथ्याप्रतिज्ञो नरकं प्रयाहि ॥ ३२॥ इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः । मूर्च्छितः पतितो भूमौ विसञ्ज्ञो मृतको यथा ॥ ३३॥ एवं रात्रिर्गता तस्य दुःखात्संवत्सरोपमा । अरुणोदयकाले तु वन्दिनो गायका जगुः ॥ ३४॥ निवारयित्वा तान् सर्वान् कैकेयी रोषमास्थिता । ततः प्रभातसमये मध्यकक्षमुपस्थिताः ॥ ३५॥ ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा । छत्रं च चामरं दिव्यं गजो वाजी तथैव च ॥ ३६॥ अन्याश्च वारमुख्या याः पौरजानपदास्तथा । वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् ॥ ३७॥ स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे । कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् ॥ ३८॥ सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् । कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् ॥ ३९॥ अभिषिक्तं समायातं गजारूढं स्मिताननम् । श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् ॥ ४०॥ रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् । इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः ॥ ४१॥ नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् । सुमन्त्रः शनकैः प्रायाद्यत्र राजाऽवतिष्ठते ॥ ४२॥ वर्धयन् जयशब्देन प्रणमन् शिरसा नृपम् । अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत ॥ ४३॥ देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा । तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् ॥ ४४॥ राम रामेति रामेति राममेवानुचिन्तयन् । प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते । राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति ॥ ४५॥ अश्रुत्वा राजवचनं कथं गच्छामि भामिनि । तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् ॥ ४६॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् । इत्युक्तस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् ॥ ४७॥ अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् । शीघ्रमागच्छ भद्रं ते राम राजीवलोचन ॥ ४८॥ पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति । इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ ॥ ४९॥ रामः सारथिना सार्धं लक्ष्मणेन समन्वितः । मध्यकक्षे वसिष्ठादीन् पश्यन्नेव त्वरान्वितः ॥ ५०॥ पितुः समीपं सङ्गम्य ननाम चरणौ पितुः । राममालिङ्गितुं राजा समुत्थाय ससम्भ्रमः ॥ ५१॥ बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह । हा हेति रामस्तं शीघ्रमालिङ्ग्याङ्के न्यवेशयत् ॥ ५२॥ राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः । किमर्थं रोदनमिति वसिष्ठोऽपि समाविशत् ॥ ५३॥ रामः पप्रच्छ किमिदं राज्ञो दुःखस्य कारणम् । एवं पृच्छति रामे सा कैकेयी राममब्रवीत् ॥ ५४॥ त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये । किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् ॥ ५५॥ कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् । राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा ॥ ५६॥ त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः । सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि ॥ ५७॥ पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता । रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा ॥ ५८॥ व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे । पित्रर्थे जीवितं दास्ये पिबेयं विषमुल्बणम् ॥ ५९॥ सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् । अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः ॥ ६०॥ उक्तः करोति यः पुत्रः स मध्यम उदाहृतः । उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ॥ ६१॥ अतः करोमि तत्सर्वं यन्मामाह पिता मम । सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते ॥ ६२॥ इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे । राम त्वदभिषेकार्थं सम्भाराः सम्भृताश्च ये ॥ ६३॥ तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम । अपरेण वरेणाशु चीरवासा जटाधरः ॥ ६४॥ वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया । चतुर्दश समास्तत्र वस मुन्यन्नभोजनः ॥ ६५॥ एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि । राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन ॥ ६६॥ श्रीराम उवाच भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् । किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् ॥ ६७॥ श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् । प्राह राजा दशरथो दुःखितो दुःखितं वचः ॥ ६८॥ स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् । निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् ॥ ६९॥ एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन । इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा ॥ ७०॥ हा राम हा जगन्नाथ हा मम प्राणवल्लभ । मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि ॥ ७१॥ इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह । विमृज्य नयने रामः पितुः सजलपाणिना ॥ ७२॥ आश्वासयामास नृपं शनैः स नयकोविदः । किमत्र दुःखेन विभो राज्यं शासतु मेऽनुजः ॥ ७३॥ अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् । राज्यात्कोटिगुणं सौख्यं मम राजन् वने सतः ॥ ७४॥ त्वत्सत्यपालनं देव कार्यं चापि भविष्यति । कैकेय्याश्च प्रियो राजन् वनवासो महागुणः ॥ ७५॥ इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः । सम्भारश्चोपह्रीयन्तामभिषेकार्थमाहृताः ॥ ७६॥ मातरं समनुश्वास्य अनुनीय च जानकीम् । आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् ॥ ७७॥ इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ । कौसल्यापि हरेः पूजां कुरुते रामकारणात् ॥ ७८॥ होमं च कारयामास ब्राह्मणेभ्यो ददौ धनम् । ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता ॥ ७९॥ अन्तःस्थमेकं घनचित्प्रकाशं निरस्तसर्वातिशयस्वरूपम् । विष्णुं सदानन्दमयं हृदब्जे सा भावयन्ती न ददर्श रामम् ॥ ८०॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे तृतीयः सर्गः ॥ ३॥

॥ चतुर्थः सर्गः ॥

ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा । कौसल्यां बोधयामास रामोऽयं समुपस्थितः ॥ १॥ श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता । रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् ॥ २॥ मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि । भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्दितः ॥ ३॥ रामः प्राह न मे मातर्भोजनावसरः कुतः । दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः ॥ ४॥ कैकेयीवरदानेन सत्यसन्धः पिता मम । भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् ॥ ५॥ चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् । आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि ॥ ६॥ तच्छ्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता । आह रामं सुदुःखार्ता दुःखसागरसम्प्लुता ॥ ७॥ यदि राम वनं सत्यं यासि चेन्नय मामपि । त्वद्विहीना क्षणार्धं वा जीवितं धारये कथम् ॥ ८॥ यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् । तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् ॥ ९॥ भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु । किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् ॥ १०॥ कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु । त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा ॥ ११॥ पिता गुरुर्यथा राम तवाहमधिका ततः । पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् ॥ १२॥ यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः । तदा प्राणान् परित्यज्य गच्छामि यमसादनम् ॥ १३॥ लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा । उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् ॥ १४॥ उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् । बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि ॥ १५॥ अद्य पश्यन्तु मे शौर्यं लोकान् प्रदहतः पुरा । राम त्वमभिषेकाय कुरु यत्नमरिन्दम ॥ १६॥ धनुष्पाणिरहं तत्र निहन्यां विघ्नकारिणः । इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः ॥ १७॥ शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः । जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि ॥ १८॥ यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् । यदि सत्यं भवेत्तत्र आयासः सफलश्च ते ॥ १९॥ भोगा मेघवितानस्थविद्युल्लेखेव चञ्चलाः । आयुरप्यग्निसन्तप्तलोहस्थजलबिन्दुवत् ॥ २०॥ यथा व्यालगलस्थोऽपि भेको दंशानपेक्षते । तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् ॥ २१॥ करोति दुःखेन हि कर्मतन्त्रं शरीरभोगार्थमहर्निशं नरः । देहस्तु भिन्नः पुरुषात्समीक्ष्यते को वात्र भोगः पुरुषेण भुज्यते ॥ २२॥ पितृमातृसुतभ्रातृदारबन्ध्वादिसङ्गमः । प्रपायामिव जन्तूनां नद्यां काष्ठौघवच्चलः ॥ २३॥ छायेव लक्ष्मीश्चपला प्रतीता तारुण्यमम्बूर्मिवदध्रुवं च । स्वप्नोपमं स्त्रीसुखमायुरल्पं तथापि जन्तोरभिमान एषः ॥ २४॥ संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला । गन्धर्वनगरप्रख्या मूढस्तामनुवर्तते ॥ २५॥ आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः । दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते ॥ २६॥ स एव दिवसः सैव रात्रिरित्येव मूढधीः । भोगाननुपतत्येव कालवेगं न पश्यति ॥ २७॥ प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् । सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो ॥ २८॥ जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते । मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते ॥ २९॥ देहेऽहम्भावमापन्नो राजाहं लोकविश्रुतः । इत्यस्मिन्मनुते जन्तुः कृमिविड्भस्मसञ्ज्ञिते ॥ ३०॥ त्वगस्थिमान्सविण्मूत्ररेतोरक्तादिसंयुतः । विकारी परिणामी च देह आत्मा कथं वद ॥ ३१॥ यमास्थाय भवान्ल्लोकं दग्धुमिच्छति लक्ष्मण । देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि ॥ ३२॥ देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता । नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते ॥ ३३॥ अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका । तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः । कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन ॥ ३४॥ तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा । येनाविष्टः पुमान् हन्ति पितृभ्रातृसुहृत्सखीन् ॥ ३५॥ क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज ॥ ३६॥ क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी । सन्तोषो नन्दनवनं शान्तिरेव हि कामधुक् ॥ ३७॥ तस्माच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते । देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः ॥ ३८॥ आत्मा शुद्धः स्वयञ्ज्योतिरविकारी निराकृतिः । यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः ॥ ३९॥ तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः । तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय ॥ ४०॥ बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः । भुञ्जन् प्रारब्धमखिलं सुखं वा दुःखमेव वा ॥ ४१॥ प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे । बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव ॥ ४२॥ अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः । एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा ॥ ४३॥ संसारदुःखैरखिलैर्बाध्यसे न कदाचन । त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा ॥ ४४॥ समागमं प्रतीक्षस्व न दुःखैः पीड्यसे चिरम् । न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् ॥ ४५॥ यथा प्रवाहपतितप्लवानां सरितां तथा । चतुर्दशसमा सङ्ख्या क्षणार्द्धमिव जायते ॥ ४६॥ अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः । एवं चेत्सुखसंवासो भविष्यति वने मम ॥ ४७॥ इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् । उत्थाप्याङ्के समावेश्य आशीर्भिरभ्यनन्दयत् ॥ ४८॥ सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः । रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रया युतम् ॥ ४९॥ इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः । लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः ॥ ५०॥ आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः । यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश ॥ ५१॥ अनुगृह्णीष्व मां राम नोचेत्प्राणान्स्त्यजाम्यहम् । तथेति राघवोऽप्याह लक्ष्मणं याहि मा चिरम् ॥ ५२॥ प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः । आगतं पतिमालोक्य सीता सुस्मितभाषिणी ॥ ५३॥ स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः । पप्रच्छ पतिमालोक्य देव किं सेनया विना ॥ ५४॥ आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः । वादित्राणि न वाद्यन्ते किरीटादिविवर्जितः ॥ ५५॥ सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् । इति स्म सीतया पृष्टो रामः सस्मितमब्रवीत् ॥ ५६॥ राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् । अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि ॥ ५७॥ अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा । शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् ॥ ५८॥ इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः । किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना ॥ ५९॥ तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ । भरताय ददौ राज्यं वनवासं ममानघे ॥ ६०॥ चतुर्दश समास्तत्र वासो मे किल याचितः । तया देव्या ददौ राजा सत्यवादी दयापरः ॥ ६१॥ अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि । श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता ॥ ६२॥ अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि । इत्याह मां विना गन्तुं तव राघव नोचितम् ॥ ६३॥ तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् । कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् ॥ ६४॥ राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः । सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः ॥ ६५॥ कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे । अपूपान्नव्यञ्जनानि विद्यन्ते न कदाचन ॥ ६६॥ काले काले फलं वापि विद्यते कुत्र सुन्दरि । मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः ॥ ६७॥ गुहागह्वरसम्बाधं झिल्लीदंशादिभिर्युतम् । एवं बहुविधं दोषं वनं दण्डकसञ्ज्ञितम् ॥ ६८॥ पादचारेण गन्तव्यं शीतवातातपादिमत् । राक्षसादीन् वने दृष्ट्वा जीवितं हास्यसेऽचिरात् ॥ ६९॥ तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः । रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता ॥ ७०॥ प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता । कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् ॥ ७१॥ त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः । त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने ॥ ७२॥ फलमूलादिकं यद्यत्तव भुक्तावशेषितम् । तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् ॥ ७३॥ त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः । पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः ॥ ७४॥ अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी । बाल्ये मां वीक्ष्य कश्चिन्मां ज्योतिःशास्त्रविशारदः ॥ ७५॥ प्राह ते विपिने वासः पत्या सह भविष्यति । सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह ॥ ७६॥ अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् । रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः ॥ ७७॥ सीतां विना वनं रामो गतः किं कुत्रचिद्वद । अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी ॥ ७८॥ यदि गच्छसि मां त्यक्त्वा प्राणान्स्त्यक्ष्यामि तेऽग्रतः । इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः ॥ ७९॥ अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह । अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च ॥ ८०॥ ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् । इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः ॥ ८१॥ ददौ गवां वृन्दशतं धनानि वस्त्राणि दिव्यानि विभूषणानि । कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो मुदा द्विजेभ्यो रघुवंशकेतुः ॥ ८२॥ अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च । रामो मातुः सेवकेभ्यो ददौ धनमनेकधा ॥ ८३॥ स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च । पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः ॥ ८४॥ लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् । धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः ॥ ८५॥ रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् ॥ ८६॥ श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः । पौरान् जानपदान् कुतूहलदृशः सानन्दमुद्वीक्षयन् । श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् । पादन्यासपवित्रिताऽखिलजगत् प्रापालयं तत्पितुः ॥ ८७॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४॥

॥ पञ्चमः सर्गः ॥

आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् । लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् ॥ १॥ कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः । बत राजा दशरथः सत्यसन्धं प्रियं सुतम् ॥ २॥ स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः । कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् ॥ ३॥ विवासयामास कथं क्रूरकर्माऽतिमूढधीः । हे जना नात्र वस्तव्यं गच्छामोऽद्यैव काननम् ॥ ४॥ यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति । पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् ॥ ५॥ पुम्भिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी । सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता ॥ ६॥ रामोऽपि पादचारेण गजाश्वादिविवर्जितः । गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् ॥ ७॥ राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी । रामस्यापि भवेद्दुःखं सीतायाः पादयानतः ॥ ८॥ बलवान् विधिरेवात्र पुम्प्रयत्नो हि दुर्बलः । इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः ॥ ९॥ अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः । मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः ॥ १०॥ एष रमः परो विष्णुरादिनारायणः स्मृतः । एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता ॥ ११॥ असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् । एष मायागुणैर्युक्तस्तत्तदाकारवानिव ॥ १२॥ एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः । सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः ॥ १३॥ एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् । एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् ॥ १४॥ नाव्यारोप्य लयस्यान्ते पालयामास राघवः । समुद्रमथने पूर्वं मन्दरे सुतलं गते ॥ १५॥ अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः । मही रसातलं याता प्रलये सूकरोऽभवत् ॥ १६॥ तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः । नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा ॥ १७॥ त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः । पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा ॥ १८॥ वामनत्वमुपागम्य याच्ञया चाहरत्पुनः । दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् ॥ १९॥ स एव जगतां नाथ इदानीं रामतां गतः । रावणादीनि रक्षांसि कोटिशो निहनिष्यति ॥ २०॥ मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः । राज्ञा दशरथेनापि तपसाराधितो हरिः ॥ २१॥ पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः । स एव विष्णुः श्रीरामो रावणादिवधाय हि ॥ २२॥ गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् । एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी ॥ २३॥ राजा वा कैकेयी वापि नात्र कारणमण्वपि । पूर्वेद्युर्नारदः प्राह भूभारहरणाय च ॥ २४॥ रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् । अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः ॥ २५॥ रामरामेति ये नित्यं जपन्ति मनुजा भुवि । तेषां मृत्युभयादीनि न भवन्ति कदाचन ॥ २६॥ का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः । रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् ॥ २७॥ मायामानुषरूपेण विडम्बयति लोककृत् । भक्तानां भजनार्थाय रावणस्य वधाय च ॥ २८॥ राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः । इत्युक्त्वा विररामाथ वामदेवो माहामुनिः ॥ २९॥ श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् । जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् ॥ ३०॥ य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः । तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका ॥ ३१॥ रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः । इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः ॥ ३२॥ ततो रामः समाविश्य पितृगेहमवारितः । सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् ॥ ३३॥ आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् । गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता ॥ ३४॥ इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् । रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् ॥ ३५॥ रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् । लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती ॥ ३६॥ हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत । रामो गृहीत्वा तच्चीरमंशुके पर्यवेष्टयत् ॥ ३७॥ तद् दृष्ट्वा रुरुदुः सर्वे राजदाराः समन्ततः । वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा ॥ ३८॥ कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः । वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि ॥ ३९॥ यदि रामं समन्वेति सीता भक्त्या पतिव्रता । दिव्याम्बरधरा नित्यं सर्वाभरणभूषिता ॥ ४०॥ रमयत्वनिशं रामं वनदुःखनिवारिणी । राजा दशरथोऽप्याह सुमन्त्रं रथमानय ॥ ४१॥ रथमारुह्य गच्छन्तु वनं वनचरप्रियाः । इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् ॥ ४२॥ दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः । आरुरोह रथं सीता शीघ्रं रामस्य पश्यतः ॥ ४३॥ रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् । लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा ॥ ४४॥ गृहीत्वा रथमारुह्य नोदयामास सारथिम् । तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् ॥ ४५॥ गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् । रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि ॥ ४६॥ पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः । तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः ॥ ४७॥ राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति । कौसल्याया राममातुरित्याह परिचारकान् ॥ ४८॥ किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे । अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः ॥ ४९॥ ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह । मूर्च्छितश्च चिराद्बुद्ध्वा तूष्णीमेवावतस्थिवान् ॥ ५०॥ रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी । जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः ॥ ५१॥ सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः । पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः ॥ ५२॥ पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः । शक्ता रामं पुरं नेतुं नो चेद्गच्छामहे वनम् ॥ ५३॥ इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः । नाहं गच्छामि नगरमेते वै क्लेशभागिनः ॥ ५४॥ भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् । इदानीमेव गच्छामः सुमन्त्र रथमानय ॥ ५५॥ इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् । आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् ॥ ५६॥ अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः । तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः ॥ ५७॥ रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः । हृदि रामं ससीतं ते ध्यायन्तस्तस्थुरन्वहम् ॥ ५८॥ सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् । स्फीतान् जनपदान् पश्यन् रामः सीतासमन्वितः ॥ ५९॥ गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः । गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः ॥ ६०॥ शिंशपावृक्षमूले स निषसाद रघूत्तमः । ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् ॥ ६१॥ सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् । फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः ॥ ६२॥ रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि । गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे ॥ ६३॥ सम्पृष्टकुशलो रामं गुहः प्राञ्जलिरब्रवीत् । धन्योऽहमद्य मे जन्म नैषादं लोकपावन ॥ ६४॥ बभूव परमानन्दः स्पृष्ट्वा तेऽङ्गं रघूत्तम । नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम ॥ ६५॥ त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह । आगच्छ यामो नगरं पावनं कुरु मे गृहम् ॥ ६६॥ गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे । अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम ॥ ६७॥ रामस्तमाह सुप्रीतो वचनं शृणु मे सखे । न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च ॥ ६८॥ दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन । राज्यं ममैतत्ते सर्वं त्वं सखा मेऽतिवल्लभः ॥ ६९॥ वटक्षीरं समानाय्य जटामुकुटमादरात् । बबन्ध लक्ष्मणेनाथ सहितो रघुनन्दनः ॥ ७०॥ जलमात्रं तु सम्प्राश्य सीतया सह राघवः । आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि ॥ ७१॥ उवास तत्र नगरप्रासादाग्रे यथा पुरा । सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते ॥ ७२॥ ततोऽविदूरे परिगृह्य चापं सबाणतूणीरधनुः स लक्ष्मणः । ररक्ष रामं परितो विपश्यन् गुहेन सार्धं सशरासनेन ॥ ७३॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५॥

॥ षष्ठः सर्गः ॥

सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः । लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् ॥ १॥ शयानं कुशपत्रौघसंस्तरे सीतया सह । यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे ॥ २॥ कैकेयी रामदुःखस्य कारणं विधिना कृता । मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् ॥ ३॥ तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम । कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च ॥ ४॥ स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः ॥ ५॥ सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः ॥ ६॥ सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः । स्वयमेवाचरन् कर्म तथा तत्र विभाव्यते ॥ ७॥ सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः । यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् ॥ ८॥ न मे भोगागमे वाञ्छा न मे भोगविवर्जने । आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् ॥ ९॥ स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा । कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा ॥ १०॥ अलं हर्षविषादाभ्यां शुभाशुभफलोदये । विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः ॥ ११॥ सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते । शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् ॥ १२॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । द्वयमेतद्धि जन्तूनामलङ्घ्यं दिनरात्रिवत् ॥ १३॥ सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् । द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत् ॥ १४॥ तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु । न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् ॥ १५॥ गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः । बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः ॥ १६॥ उवाच शीघ्रं सुदृढं नावमानय मे सखे । श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः ॥ १७॥ स्वयमेव दृढं नावमानिनाय सुलक्षणाम् । स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च ॥ १८॥ वाहये ज्ञातिभिः सार्धमहमेव समाहितः । तथेति राघवः सीतामारोप्य शुभलक्षणाम् ॥ १९॥ गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः । आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च ॥ २०॥ गुहस्तान् वाहयामास ज्ञातिभिः सहितः स्वयम् । गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी ॥ २१॥ देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः । रामेण सहिताहं त्वां लक्ष्मणेन च पूजये ॥ २२॥ सुरामान्सोपहारैश्च नानाबलिभिरादृता । इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः ॥ २३॥ गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह । अनुज्ञां देहि राजेन्द्र नो चेत्प्राणान्स्त्यजाम्यहम् ॥ २४॥ श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् । चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् ॥ २५॥ आयास्याम्युदितं सत्यं नासत्यं रामभाषितम् । इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः ॥ २६॥ निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् ॥ २७॥ तत्र मेध्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः । भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् ॥ २८॥ ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः । भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः । तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो ॥ २९॥ रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः । आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ ॥ ३०॥ तच्छ्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः । स्वामिन् रामः समागत्य वनाद्बहिरवस्थितः ॥ ३१॥ सभार्यः सानुजः श्रीमानाह मां देवसन्निभः । भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् ॥ ३२॥ तच्छ्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः । गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ ॥ ३३॥ दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् । आह मे पर्णशालां भो राम राजीवलोचन ॥ ३४॥ आगच्छ पादरजसा पुनीहि रघुनन्दन । इत्युक्त्वोटजमानीय सीतया सह रघावौ ॥ ३५॥ भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् । अद्याहं तपसः पारं गतोऽस्मि तव सङ्गमात् ॥ ३६॥ ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् । जानामि त्वां परात्मानं मायया कार्यमानुषम् ॥ ३७॥ यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा । यदर्थं वनवासस्ते यत्करिष्यसि वै पुरः ॥ ३८॥ जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् । इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम ॥ ३९॥ यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् । रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः ॥ ४०॥ अनुग्राह्यास्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः । इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ ॥ ४१॥ प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः । कृताप्लवेन मुनिना दृष्टमार्गेण राघवः ॥ ४२॥ प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः । गत्वा रामोऽथ वाल्मीकेराश्रमं ऋषिसङ्कुलम् ॥ ४३॥ नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् । तत्र दृष्ट्वा समासीनं वाल्मीकिं मुनिसत्तमम् ॥ ४४॥ ननाम शिरसा रामो लक्ष्मणेन च सीतया । दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् ॥ ४५॥ जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् । कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् ॥ ४६॥ दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः । आलिङ्ग्य परमानन्दं रामं हर्षाश्रुलोचनः ॥ ४७॥ पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरादृतः । फलमूलैः स मधुरैर्भोजयित्वा च लालितः ॥ ४८॥ राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः । पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् ॥ ४९॥ भवन्तो यदि जानन्ति किं वक्ष्यामोऽत्र कारणम् । यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् ॥ ५०॥ सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् । इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् ॥ ५१॥ त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् । तवापि सर्वभूतानि निवाससदनानि हि ॥ ५२॥ एवं साधारणं स्थानमुक्तं ते रघुनन्दन । सीतया सहितस्येति विशेषं पृच्छतस्तव । तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् ॥ ५३॥ शान्तानां समदृष्टीनामद्वेष्टॄणां च जन्तुषु । त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् ॥ ५४॥ धर्माधर्मान् परित्यज्य त्वामेव भजतोऽनिशम् । सीतया सह ते राम तस्य हृत्सुखमन्दिरम् ॥ ५५॥ त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः । निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् ॥ ५६॥ निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः । समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् ॥ ५७॥ त्वयि दत्तमनोबुद्धिर्यः सन्तुष्टः सदा भवेत् । त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् ॥ ५८॥ यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यति । सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् ॥ ५९॥ षड्भावादिविकारान् यो देहे पश्यति नात्मनि । क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते ॥ ६०॥ संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् ॥ ६१॥ पश्यन्ति ये सर्वगुहाशयस्थं त्वां चिद्घनं सत्यमनन्तमेकम् । अलेपकं सर्वगतं वरेण्यं तेषां हृदब्जे सह सीतया वस ॥ ६२॥ निरन्तराभ्यासदृढीकृतात्मनां त्वत्पादसेवापरिनिष्ठितानाम् । त्वन्नामकीर्त्या हतकल्मषाणां सीतासमेतस्य गृहं हृदब्जे ॥ ६३॥ राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् । यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् ॥ ६४॥ अहं पुरा किरातेषु किरातैः सह वर्धितः । जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा ॥ ६५॥ शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः । ततश्चोरैश्च सङ्गम्य चौरोऽहमभवं पुरा ॥ ६६॥ धनुर्बाणधरो नित्यं जीवानामन्तकोपमः । एकदा मुनयः सप्त दृष्टा महति कानने ॥ ६७॥ साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभाः । तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् ॥ ६८॥ ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् । दृष्ट्वा मां मुनयोऽपृच्छन् किमायासि द्विजाधम ॥ ६९॥ अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः । पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः ॥ ७०॥ तेषां संरक्षणार्थाय चरामि गिरिकानने । ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् ॥ ७१॥ यो यो मया प्रतिदिनं क्रियते पापसञ्चयः । यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् ॥ ७२॥ वयं स्थास्यामहे तावदागमिष्यसि निश्चयः । तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् ॥ ७३॥ अपृच्छं पुत्रदारादीन्स्तैरुक्तोऽहं रघूत्तम । पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥ ७४॥ तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् । मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः ॥ ७५॥ मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् । धनुरादीन् परित्यज्य दण्डवत्पतितोऽस्म्यहम् ॥ ७६॥ रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् । इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः ॥ ७७॥ उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः । उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे ॥ ७८॥ परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः । उपेक्ष्य एव सद्वृत्तैस्तथापि शरणं गतः । रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः ॥ ७९॥ इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् । एकाग्रमनसात्रैव मरेति जप सर्वदा ॥ ८०॥ आगच्छामः पुनर्यावत्तावदुक्तं सदा जप । इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शनाः ॥ ८१॥ अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा । जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् ॥ ८२॥ एवं बहुतिथे काले गते निश्चलरूपिणः । सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि ॥ ८३॥ ततो युगसहस्रान्ते ऋषयः पुनरागमन् । मामूचुर्निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः ॥ ८४॥ वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः । मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर ॥ ८५॥ वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् । इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम ॥ ८६॥ अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् । अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च ॥ ८७॥ रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः । आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् ॥ ८८॥ एवमुक्त्वा मुनिः श्रीमान्ल्लक्ष्मणेन समन्वितः । शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः ॥ ८९॥ तत्र शालां सुविस्तीर्णां कारयामास वासभूः । प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् ॥ ९०॥ जानक्या सहितो रामो लक्ष्मणेन समन्वितः । तत्र ते देवसदृशा ह्यवसन् भवनोत्तमे ॥ ९१॥ वाल्मीकिना तत्र सुपूजितोऽयं रामः ससीतः सह लक्ष्मणेन । देवैर्मुनीद्रैः सहितो मुदास्ते स्वर्गे यथा देवपतिः सशच्या ॥ ९२॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे षष्ठः सर्गः ॥ ६॥

॥ सप्तमः सर्गः ॥

सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह । वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः ॥ १॥ बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ । जयशब्देन राजानं स्तुत्वा तं प्रणनाम ह ॥ २॥ ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् । सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च ॥ ३॥ कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् । सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् ॥ ४॥ हा राम हा गुणनिधे हा सीते प्रियवादिनि । दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि ॥ ५॥ विलप्यैवं चिरं राजा निमग्नो दुःखसागरे । एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् ॥ ६॥ रामः सीता च सौमित्रिर्मया नीता रथेन ते । शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः ॥ ७॥ गुहेन किञ्चिदानीतं फलमूलादिकं च यत् । स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् ॥ ८॥ वटक्षीरं समानाय्य गुहेन रघुनन्दनः । जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् ॥ ९॥ सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते । साकेतादधिकं सौख्यं विपिने नो भविष्यति ॥ १०॥ मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते । आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् ॥ ११॥ सीता चाश्रुपरीताक्षी मामाह नृपसत्तम । दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती ॥ १२॥ साष्टाङ्गं प्रणिपातं मे ब्रूहि श्वश्र्वोः पदाम्बुजे । इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी ॥ १३॥ ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा । यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः ॥ १४॥ ततो दुःखेन महता पुनरेवाहमागतः । ततो रुदन्ती कौसल्या राजानमिदमब्रवीत् ॥ १५॥ कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान् वरम् । त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः ॥ १६॥ कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि । कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना ॥ १७॥ पुनः शोकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् । दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् ॥ १८॥ इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः । शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा ॥ १९॥ पुराहं यौवने दृप्तश्चापबाणधरो निशि । अचरं मृगयासक्तो नद्यास्तीरे महावने ॥ २०॥ तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः । पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः । अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् ॥ २१॥ गजः पिबति पानीयमिति मत्वा महानिशि । बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् ॥ २२॥ हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः । कस्यापि न कृतो दोषो मया केन हतो विधे ॥ २३॥ प्रतीक्षते मां माता च पिता च जलकाङ्क्षया । तच्छ्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः ॥ २४॥ शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् । अजानता मया विद्धस्त्रातुमर्हसि मां मुने ॥ २५॥ इत्युक्त्वा पादयोस्तस्य पतितो गद्गदाक्षरः । तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम ॥ २६॥ ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः । पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ ॥ २७॥ तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् । न चेत्त्वां भस्मसात्कुर्यात्पिता मे यदि कुप्यति ॥ २८॥ जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय । शल्यमुद्धर मे देहात्प्राणान्स्त्यक्ष्यामि पीडितः ॥ २९॥ इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः । सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती ॥ ३०॥ अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि । नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् ॥ ३१॥ अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ । आवामुपेक्षते किं वा भक्तिमानावयोः सुतः ॥ ३२॥ इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् । श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया ॥ ३३॥ देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक । इत्येवं लपतोर्भीत्या सकाशमगमं शनैः ॥ ३४॥ पादयोः प्रणिपत्याहमब्रवं विनयान्वितः । नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् ॥ ३५॥ पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः । जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् ॥ ३६॥ श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् । हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः ॥ ३७॥ जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् । भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् ॥ ३८॥ मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते । मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् ॥ ३९॥ इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः । रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् ॥ ४०॥ इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् । पतितो नौ सुतो यत्र नय तत्राविलम्बयन् ॥ ४१॥ ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती । स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः ॥ ४२॥ हाहेति क्रन्दमानौ तौ पुत्र पुत्रेत्यवोचताम् । जलं देहीति पुत्रेति किमर्थं न ददास्यलम् ॥ ४३॥ ततो मामूचतुः शीघ्रं चितिं रचय भूपते । मया तदैव रचिता चितिस्तत्र निवेशिताः । त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः ॥ ४४॥ तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि । पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम ॥ ४५॥ स इदानीं मम प्राप्तः शापकालोऽनिवारितः । इत्युक्त्वा विललापाथ राजा शोकसमाकुलः ॥ ४६॥ हा राम पुत्र हा सीते हा लक्ष्मण गुणाकर । त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् ॥ ४७॥ वदन्नेवं दशरथः प्राणान्स्त्यक्त्वा दिवं गतः । कौसल्या च सुमित्रा च तथान्या राजयोषितः ॥ ४८॥ चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् । वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः ॥ ४९॥ तैलद्रोण्यां दशरथं क्षिप्त्वा दूतानथाब्रवीत् । गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति ॥ ५०॥ तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः । उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया ॥ ५१॥ अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु । इत्युक्तास्त्वरितं दूता गत्वा भरतमातुलम् ॥ ५२॥ युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति । वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः ॥ ५३॥ शीघ्रमागच्छतु पुरीमयोध्यामविचारयन् । इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः ॥ ५४॥ आययौ गुरुणादिष्टः सह दूतैस्तु सानुजः । राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् ॥ ५५॥ इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ । नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् ॥ ५६॥ उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् । प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् ॥ ५७॥ अपश्यत्कैकेयीं तत्र एकामेवासने स्थिताम् । ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः ॥ ५८॥ आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् । उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता ॥ ५९॥ मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा । पिता मे कुशलो भ्राता माता च शुभलक्षणा ॥ ६०॥ दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक । इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः ॥ ६१॥ दूयमानेन मनसा मातरं समपृच्छत । मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता ॥ ६२॥ त्वया विना न मे तातः कदाचिद्रहसि स्थितः । इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद ॥ ६३॥ अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते । अथाह कैकेयी पुत्र किं दुःखेन तवानघ ॥ ६४॥ या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् । तां गतिं गतवानद्य पिता ते पितृवत्सल ॥ ६५॥ तच्छ्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः । हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे ॥ ६६॥ असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः । इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् ॥ ६७॥ उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् । समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया ॥ ६८॥ तामाह भरतस्तातो म्रियमाणः किमब्रवीत् । तमाह कैकेयी देवी भरतं भयवर्जिता ॥ ६९॥ हा राम राम सीतेति लक्ष्मणेति पुनः पुनः । विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ ॥ ७०॥ तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् । तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः ॥ ७१॥ रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः । तव राज्यप्रदानाय तदाहं विघ्नमाचरम् ॥ ७२॥ राज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् । याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् ॥ ७३॥ राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् । ततः सत्यपरो राजा राज्यं दत्त्वा तवैव हि ॥ ७४॥ रामं सम्प्रेषयामास वनमेव पिता तव । सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता ॥ ७५॥ सौभ्रात्रं दर्शयन् राममनुयातोऽपि लक्ष्मणः । वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् ॥ ७६॥ प्रलपन् रामरामेति ममार नृपसत्तमः । इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः ॥ ७७॥ पपात भूमौ निःसञ्ज्ञस्तं दृष्ट्वा दुःखिता तदा । कैकेयी पुनरप्याह वत्स शोकेन किं तव ॥ ७८॥ राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः । इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव ॥ ७९॥ असम्भाष्यासि पापे मे घोरे त्वं भर्तृघातिनी । पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् । अहमग्निं प्रवेक्ष्यामि विषं वा भक्षयाम्यहम् ॥ ८०॥ खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् । भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि ॥ ८१॥ इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ । सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह ॥ ८२॥ पादयोः पतितस्तस्या भरतोऽपि तदाऽरुदत् । आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी । कृशाऽतिदीनवदना साश्रुनेत्रेदमब्रवीत् ॥ ८३॥ पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् । उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् ॥ ८४॥ पुत्रः सभार्यो वनमेव यातः सलक्ष्मणो मे रघुरामचन्द्रः । चीराम्बरो बद्धजटाकलापः सन्त्यज्य मां दुःखसमुद्रमग्नाम् ॥ ८५॥ हा राम हा मे रघुवंशनाथ जातोऽसि मे त्वं परतः परात्मा । तथापि दुःखं न जहाति मां वै विधिर्बलीयानिति मे मनीषा ॥ ८६॥ स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा । पादौ गृहीत्वा प्राहेदं शृणु मातर्वचो मम ॥ ८७॥ कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने । अन्यद्वा यदि जानामि सा मया नोदिता यदि ॥ ८८॥ पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् । हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् ॥ ८९॥ भूयात्तत्पापमखिलं मम जानामि यद्यहम् । इत्येवं शपथं कृत्वा रुरोद भरतस्तदा ॥ ९०॥ कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः । एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् ॥ ९१॥ वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् । रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् ॥ ९२॥ वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः । भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः ॥ ९३॥ अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् । अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः ॥ ९४॥ तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् । आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः ॥ ९५॥ शरीरं जडमत्यर्थमपवित्रं विनश्वरम् । विचार्यमाणे शोकस्य नावकाशः कथञ्चन ॥ ९६॥ पिता वा तनयो वापि यदि मृत्युवशं गतः । मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् ॥ ९७॥ निःसारे खलु संसारे वियोगो ज्ञानिनां यदा । भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च ॥ ९८॥ जन्मवान् यदि लोकेऽस्मिन्स्तर्हि तं मृत्युरन्वगात् । तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा ॥ ९९॥ स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ । विजानन्नप्यविद्वान् यः कथं शोचति बान्धवान् ॥ १००॥ ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः । शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते ॥ १०१॥ चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् । आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव ॥ १०२॥ देही प्राक्तनदेहोत्थकर्मणा देहवान् पुनः । तद्देहोत्थेन च पुनरेवं देहः सदात्मनः ॥ १०३॥ यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् । तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् ॥ १०४॥ भजत्येव सदा तत्र शोकस्यावसरः कुतः । आत्मा न म्रियते जातु जायते न च वर्धते ॥ १०५॥ षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः । आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः ॥ १०६॥ एक एव परो ह्यात्मा ह्यद्वितीयः समः स्थितः । इत्यात्मानं दृढं ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् ॥ १०७॥ तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह । कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन ॥ १०८॥ इति सम्बोधितः साक्षाद्गुरुणा भरतस्तदा । विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् ॥ १०९॥ गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि । संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा ॥ ११०॥ एकादशेऽहनि प्राप्ते ब्राह्मणान् वेदपारगान् । भोजयामास विधिवच्छतशोऽथ सहस्रशः ॥ १११॥ उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु । ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च ॥ ११२॥ अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् । वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः ॥ ११३॥ रामेऽरण्यं प्रयाते सह जनकसुतालक्ष्मणाभ्यां सुघोरं माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः । गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे ॥ ११४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे सप्तमः सर्गः ॥ ७॥

॥ अष्टमः सर्गः ॥

वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः । राज्ञः सभां देवसभासन्निभामविशद्विभुः ॥ १॥ तत्रासने समासीनश्चतुर्मुख इवापरः । आनीय भरतं तत्र उपवेश्य सहानुजम् ॥ २॥ अब्रवीद्वचनं देशकालोचितमरिन्दमम् । वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् ॥ ३॥ कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ । सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल ॥ ४॥ अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् । तच्छ्रुत्वा भरतोऽप्याह मम राज्येन किं मुने ॥ ५॥ रामो राजाधिराजश्च वयं तस्यैव किङ्कराः । श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा ॥ ६॥ अहं यूयं मातरश्च कैकेयीं राक्षसीं विना । हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् ॥ ७॥ किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते । तच्छ्वोभूते गमिष्यामि पादचारेण दण्डकान् ॥ ८॥ शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा । रामो यथा वने यातस्तथाहं वल्कलाम्बरः ॥ ९॥ फलमूलकृताहारः शत्रुघ्नसहितो मुने । भूमिशायी जटाधारी यावद्रामो निवर्तते ॥ १०॥ इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् । साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः ॥ ११॥ ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः । अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः ॥ १२॥ कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः । छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः ॥ १३॥ शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः । उवास महती सेना शत्रुघ्नपरिचोदिता ॥ १४॥ आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः । महत्या सेनया सार्धमागतो भरतः किल ॥ १५॥ पापं कर्तुं न वा याति रामस्याविदितात्मनः । गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति ॥ १६॥ गङ्गा नो चेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः । ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् ॥ १७॥ इति सर्वान् समादिश्य गुहो भरतमागतः । उपायनानि सङ्गृह्य विविधानि बहून्यपि ॥ १८॥ प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः । निवेद्योपायनान्यग्रे भरतस्य समन्ततः ॥ १९॥ दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः । चीराम्बरं घनश्यामं जटामुकुटधारिणम् ॥ २०॥ राममेवानुशोचन्तं रामरामेति वादिनम् । ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् ॥ २१॥ शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् । पृष्ट्वाऽनामयमव्यग्रः सखायमिदमब्रवीत् ॥ २२॥ भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः । रामेणालिङ्गितः सार्द्रनयनेनामलात्मना ॥ २३॥ धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः । रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया ॥ २४॥ यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत । सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे ॥ २५॥ त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् । इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः ॥ २६॥ गुहेन सहितस्तत्र यत्र रामः स्थितो निशि । ययौ ददर्श शयनस्थलं कुशसमास्तृतम् ॥ २७॥ सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् । दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् ॥ २८॥ अहोऽतिसुकुमारी या सीता जनकनन्दिनी । प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे ॥ २९॥ रामेण सहिता शेते सा कथं कुशविष्टरे । सीता रामेण सहिता दुःखेन मम दोषतः ॥ ३०॥ धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः । मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः ॥ ३१॥ अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः । राममेव सदान्वेति वनस्थमपि हृष्टधीः ॥ ३२॥ अहं रामस्य दासा ये तेषां दासस्य किङ्करः । यदि स्यां सफलं जन्म मम भूयान्न संशयः ॥ ३३॥ भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् । यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा ॥ ३४॥ गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् । देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी ॥ ३५॥ रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा । चित्रकूटाद्रिनिकटे मन्दाकिन्यविदूरतः ॥ ३६॥ मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः । जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः ॥ ३७॥ तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि । इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह ॥ ३८॥ समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् । स्वयमेवानिनायैकां राजनावं गुहस्तदा ॥ ३९॥ आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् । वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः ॥ ४०॥ तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति । दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ ॥ ४१॥ आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् । दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः ॥ ४२॥ ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् । पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् ॥ ४३॥ राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् । आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् ॥ ४४॥ भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः । सर्वं जानासि भगवन् सर्वभूताशयस्थितः ॥ ४५॥ तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे । कैकेय्या यत्कृतं कर्म रामराज्यविघातनम् ॥ ४६॥ वनवासादिकं वापि न हि जानामि किञ्चन । भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम ॥ ४७॥ इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः । ज्ञातुमर्हसि मां देव शुद्धो वाऽशुद्ध एव वा ॥ ४८॥ मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि । किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः ॥ ४९॥ अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके । पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् ॥ ५०॥ अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह । नेष्येऽयोध्यां रमानाथं दासः सेवेऽतिनीचवत् ॥ ५१॥ इत्युदीरितमाकर्ण्य भरतस्य वचो मुनिः । आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः ॥ ५२॥ वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा । मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि ॥ ५३॥ आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ । अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् ॥ ५४॥ यथाऽऽज्ञापयति भवान्स्तथेति भरतोऽब्रवीत् । भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः ॥ ५५॥ दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः । असृजत्कामधुक् सर्वं यथाकाममलौकिकम् ॥ ५६॥ भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् । यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः ॥ ५७॥ वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा । पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् ॥ ५८॥ उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे । अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः ॥ ५९॥ भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् । चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् । रामसन्दर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् ॥ ६०॥ शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः । तपस्विमण्डलं सर्वं विचिन्वानो न्यवर्तत ॥ ६१॥ अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् । कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः ॥ ६२॥ ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे । विविक्तं रामसदनं रम्यं काननमण्डितम् ॥ ६३॥ सफलैराम्रपनसैः कदलीखण्डसंवृतम् । चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा ॥ ६४॥ एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः । हर्षाद्ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह ॥ ६५॥ ददर्श दूरादतिभासुरं शुभं रामस्य गेहं मुनिवृन्दसेवितम् । वृक्षाग्रसंलग्नसुवल्कलाजिनं रामाभिरामं भरतः सहानुजः ॥ ६६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे अष्टमः सर्गः ॥ ८॥

॥ नवमः सर्गः ॥

अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा । सीतारामपदैर्युक्तं पवित्रमतिशोभनम् ॥ १॥ स तत्र वज्राङ्कुशवारिजाञ्चित- ध्वजादिचिह्नानि पदानि सर्वतः । ददर्श रामस्य भुवोऽतिमङ्गलानि अचेष्टयत्पादरजःसु सानुजः ॥ २॥ अहो सुधन्योऽहममूनि रामपादारविन्दाङ्कितभूतलानि । पश्यामि यत्पादरजो विमृग्यं ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् ॥ ३॥ इत्यद्भुतप्रेमरसाप्लुताशयो विगाढचेता रघुनाथभावने । आनन्दजाश्रुस्नपितस्तनान्तरः शनैरवापाश्रमसन्निधिं हरेः ॥ ४॥ स तत्र दृष्ट्वा रघुनाथमास्थितं दूर्वादलश्यामलमायतेक्षणम् । जटाकिरीटं नववल्कलाम्बरं प्रसन्नवक्त्रं तरुणारुणद्युतिम् ॥ ५॥ विलोकयन्तं जनकात्मजां शुभां सौमित्रिणा सेवितपादपङ्कजम् । तदाभिदुद्राव रघूत्तमं शुचा हर्षाच्च तत्पादयुगं त्वराग्रहीत् ॥ ६॥ रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां परिष्वज्य सिषिञ्च नेत्रजैः । जलैरथाङ्कोपरि सन्न्यवेशयत् पुनः पुनः सम्परिषस्वजे विभुः ॥ ७॥ अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः । राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् ॥ ८॥ रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः । ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता ॥ ९॥ इतराश्च तथा नत्वा जननी रघुनन्दनः । ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् ॥ १०॥ साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः । यथार्हमुपवेश्याह सर्वानेव रघूद्वहः ॥ ११॥ पिता मे कुशली किं वा मां किमाहातिदुःखितः । वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन ॥ १२॥ त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् । रामरामेति सीतेति लक्ष्मणेति ममार ह ॥ १३॥ श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा । हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः ॥ १४॥ ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे । हा तात मां परित्यज्य क्व गतोऽसि घृणाकर ॥ १५॥ अनाथोऽस्मि महाबाहो मां को वा लालयेदितः । सीता च लक्ष्मणश्चैव विलेपतुरतो भृशम् ॥ १६॥ वसिष्ठः शान्तवचनैः शमयामास तां शुचम् । ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः ॥ १७॥ राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे । पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः ॥ १८॥ इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् । वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः ॥ १९॥ इति दुखाश्रुपूर्णाक्षः पुनः स्नात्वा गृहं ययौ । सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् ॥ २०॥ तस्मिन्स्तु दिवसे सर्वे उपवासं प्रचक्रिरे । ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले ॥ २१॥ उपविष्टं समागम्य भरतो राममब्रवीत् । राम राम महाभाग स्वात्मानमभिषेचय ॥ २२॥ राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा । क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ २३॥ इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे । राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् ॥ २४॥ इदानीं वनवासस्य कालो नैव प्रसीद मे । मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः ॥ २५॥ इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः । रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि ॥ २६॥ उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः । उवाच भरतं रामः स्नेहार्द्रनयनः शनैः ॥ २७॥ शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् । किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च ॥ २८॥ उषित्वा दण्डकारण्ये पुरं पश्चात्समाविश । इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् ॥ २९॥ ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि । दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च ॥ ३०॥ अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः । पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते ॥ ३१॥ स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् । तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपालकाः ॥ ३२॥ भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता । स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति । तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः ॥ ३३॥ श्रीराम उवाच न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधीः । पूर्वं प्रतिश्रुतं तस्य सत्यवादी ददौ भयात् ॥ ३४॥ असत्याद्भीतिरधिका महतां नरकादपि । करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् ॥ ३५॥ कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् । इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् ॥ ३६॥ श्रीभरत उवाच तथैव चीरवसनो वने वत्स्यामि सुव्रत । चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् ॥ ३७॥ श्रीराम उवाच पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ । व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् ॥ ३८॥ अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा । नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् ॥ ३९॥ इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे । मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः ॥ ४०॥ भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः । नेत्रान्तसञ्ज्ञां गुरवे चकार रघुनन्दनः ॥ ४१॥ एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः । वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् ॥ ४२॥ रामो नारायणः साक्षाद्ब्रह्मणा याचितः पुरा । रावणस्य वधार्थाय जातो दशरथात्मजः ॥ ४३॥ योगमायापि सीतेति जाता जनकनन्दिनी । शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा ॥ ४४॥ रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः । कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् ॥ ४५॥ सर्वं देवकृतं नो चेदेवं सा भाषयेत्कथम् । तस्मात्त्यजाऽऽग्रहं तात रामस्य विनिवर्तने ॥ ४६॥ निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् । रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति ॥ ४७॥ इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः । गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः ॥ ४८॥ पादुके देहि राजेन्द्र राज्याय तव पूजिते । तयोः सेवां करोम्येव यावदागमनं तव ॥ ४९॥ इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः । रामस्य ते ददौ रामो भरतायातिभक्तितः ॥ ५०॥ गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते । रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः ॥ ५१॥ भरतः पुनराहेदं भक्त्या गद्गदया गिरा । नवपञ्चसमान्ते तु प्रथमे दिवसे यदि ॥ ५२॥ नागमिष्यसि चेद्राम प्रविशामि महानलम् । बाढमित्येव तं रामो भरतं सन्न्यवर्तयत् ॥ ५३॥ ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः । मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे ॥ ५४॥ कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला । प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् ॥ ५५॥ कृतं मया दुष्टधिया मायामोहितचेतसा । क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः ॥ ५६॥ त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः । मायामानुषरूपेण मोहयस्यखिलं जगत् । त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा ॥ ५७॥ त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् । यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया ॥ ५८॥ त्वदधीना तथा माया नर्तकी बहुरूपिणी । त्वयैव प्रेरिताहं च देवकार्यं करिष्यता ॥ ५९॥ पापिष्ठं पापमनसा कर्माचरमरिन्दम । अद्य प्रतीतोऽसि मम देवानामप्यगोचरः ॥ ६०॥ पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते । छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् ॥ ६१॥ त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता । कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् ॥ ६२॥ यदाह मां महाभागे नानृतं सत्यमेव तत् । मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता ॥ ६३॥ देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव । गच्छ त्वं हृदि मां नित्यं भावयन्ती दिवानिशम् ॥ ६४॥ सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् । अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा ॥ ६५॥ नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् । मन्मायामोहितधियो मामम्ब मनुजाकृतिम् ॥ ६६॥ सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः । दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् ॥ ६७॥ स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः । इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया ॥ ६८॥ प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता । भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह ॥ ६९॥ अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् । पौरजानपदान् सर्वानयोध्यायामुदारधीः ॥ ७०॥ स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् । तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः ॥ ७१॥ पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः । राजोपचारैरखिलैः प्रत्यहं नियतव्रतः ॥ ७२॥ फलमूलाशनो दान्तो जटावल्कलधारकः । अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा ॥ ७३॥ राजकार्याणि सर्वाणि यावन्ति पृथिवीतले । तानि पादुकयोः सम्यङ्निवेदयति राघवः ॥ ७४॥ गणयन् दिवसान्येव रामागमनकाङ्क्षया । स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा ॥ ७५॥ रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः । सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् ॥ ७६॥ नागराश्च सदा यान्ति रामदर्शनलालसाः । चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च ॥ ७७॥ दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् । दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् ॥ ७८॥ अन्वगात्सीतया भ्रात्रा ह्यत्रेराश्रममुत्तमम् । सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् ॥ ७९॥ गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् । दण्डवत्प्रणिपत्याह रामोऽहमभिवादये ॥ ८०॥ पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः । वनवासमिषेणापि धन्योऽहं दर्शनात्तव ॥ ८१॥ श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् । पूजयामास विधिवद्भक्त्या परमया मुनिः ॥ ८२॥ वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् । सीतां च लक्ष्मणं चैव सन्तुष्टो वाक्यमब्रवीत् ॥ ८३॥ भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता । तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला ॥ ८४॥ अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन । तथेति जानकीं प्राह रामो राजीवलोचनः ॥ ८५॥ गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे । तथेति रामवचनं सीता चापि तथाकरोत् ॥ ८६॥ दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्टधीः । अनसूया समालिङ्ग्य वत्से सीतेति सादरम् ॥ ८७॥ दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा । दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता ॥ ८८॥ अङ्गरागं च सीतायै ददौ दिव्यं शुभानना । न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने ॥ ८९॥ पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि । कुशली राघवो यातु त्वया सह पुनर्गृहम् ॥ ९०॥ भोजयित्वा यथान्यायं रामं सीतासमन्वितम् । लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः ॥ ९१॥ राम त्वमेव भुवनानि विधाय तेषां संरक्षणाय सुरमानुषतिर्यगादीन् । देहान् बिभर्षि न च देहगुणैर्विलिप्तस्- त्वत्तो बिभेत्यखिलमोहकरी च माया ॥ ९३॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे नवमः सर्गः ॥ ९॥ समाप्तमिदमयोध्याकाण्डम्
Encoded and proofread by Nagaraj Balijepalli nagaraj at iastate.edu Proofread by Sunder Hattangadi Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com

% Text title            : adhyAtma rAmAyaNa ayodhyAkA.nDa
% File name             : adhyaatmaRamAyo.itx
% itxtitle              : adhyAtmarAmAyaNe 2 ayodhyAkANDam
% engtitle              : adhyAtmarAmAyaNa ayodhyAkANDa
% Category              : adhyAtmarAmAyaNa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nagaraj Balijepalli 
% Proofread by          : Nagaraj Balijepalli, Sunder Httangadi, PSA Easwaran, ahimsasoldier
% Indexextra            : (Hindi)
% Latest update         : july 22, 2006, April 4, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP