॥ अध्यात्मरामायणे उत्तरकाण्डम् ॥

॥ प्रथमः सर्गः ॥

श्रीमहादेव उवाच । जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः । दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ॥ १॥ पार्वत्युवाच । अथ रामः किमकरोत्कौसल्यानन्दवर्धनः । हत्वा मृधे रावणादीन् राक्षसान् भीमविक्रमः ॥ २॥ अभिषिक्तस्त्वयोध्यायां सीतया सह राघवः । मायामानुषतां प्राप्य कति वर्षाणि भूतले ॥ ३॥ स्थितवान् लीलया देवः परमात्मा सनातनः । अत्यजन्मानुषं लोकं कथमन्ते रघूद्वहः ॥ ४॥ एतदाख्याहि भगवन् श्रद्दधत्या मम प्रभो । कथापीयुषमास्वाद्य तृष्णा मेऽतीव वर्धते । रामचन्द्रस्य भगवन् ब्रूहि विस्तरशः कथाम् ॥ ५॥ श्रीमहादेव उवाच । राक्षसानां वधं कृत्वा राज्ये राम उपस्थिते । आययुर्मुनयः सर्वे श्रीराममभिवन्दितुम् ॥ ६॥ विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः । कश्यपो वामदेवोऽत्रिस्तथा सप्तर्षयोऽमलाः ॥ ७॥ अगस्त्यः सह शिष्यैश्च मुनिभिः सहितोऽभ्यगात् । द्वारमासाद्य रामस्य द्वारपालमथाब्रवीत् ॥ ८॥ ब्रूहि रामाय मुनयः समागत्य बहिःस्थिताः । अगस्त्यप्रमुखाः सर्वे आशीर्भिरभिनन्दितुम् ॥ ९॥ प्रतीहारस्ततो राममगस्त्यवचनाद् द्रुतम् । नमस्कृत्याब्रवीद्वाक्यं विनयावनतः प्रभुम् ॥ १०॥ कृताञ्जलिरुवाचेदमगस्त्यो मुनिभिः सह । देव त्वद्दर्शनार्थाय प्राप्तो बहिरुपस्थितः ॥ ११॥ तमुवाच द्वारपालं प्रवेशय यथासुखम् । पूजिता विविशुर्वेश्म नानारत्नविभूषितम् ॥ १२॥ दृष्ट्वा रामो मुनीन् शीघ्रं प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरापूज्य गां निवेद्य यथाविधि ॥ १३॥ नत्वा तेभ्यो ददौ दिव्यान्यासनानि यथार्हतः । उपविष्टा प्रहृष्टाश्च मुनयो रामपूजिताः ॥ १४॥ सम्पृष्टकुशलाः सर्वे रामं कुशलमब्रुवन् । कुशलं ते महाबाहो सर्वत्र रघुनन्दन ॥ १५॥ दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिन्दम । न हि भारः स ते राम रावणो राक्षसेश्वरः ॥ १६॥ सधनुस्त्वं हि लोकांस्त्रीन् विजेतुं शक्त एव हि । दिष्ट्या त्वया हताः सर्वे राक्षसा रावणादयः ॥ १७॥ सह्यमेतन्महाबाहो रावणस्य निबर्हणम् । असह्यमेतत्सम्प्राप्तं रावणेर्यन्निषूदनम् ॥ १८॥ अन्तकप्रतिमाः सर्वे कुम्भकर्णादयो मृधे । अन्तकप्रतिमैर्बाणैर्हतास्ते रघुसत्तम ॥ १९॥ दत्ता चेयं त्वयास्माकं पुरा ह्यभयदक्षिणा । हत्वा रक्षोगणान् सङ्ख्ये कृतकृत्योऽद्य जीवसि ॥ २०॥ श्रुत्वा तु भाषितं तेषां मुनीनां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ २१॥ रावणादीनतिक्रम्य कुम्भकर्णादिराक्षसान् । त्रिलोकजयिनो हित्वा किं प्रशंसथ रावणिम् ॥ २२॥ ततस्तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्महातेजा रामं प्रीत्या वचोऽब्रवीत् ॥ २३॥ शृणु राम यथा वृत्तं रावणे रावणस्य च । जन्म कर्म वरादानं सङ्क्षेपाद्वदतो मम ॥ २४॥ पुरा कृतयुगे राम पुलस्त्यो ब्रह्मणः सुतः । तपस्तप्तुं गतो विद्वान् मेरोः पार्श्वं महामतिः ॥ २५॥ तृणबिन्दोराश्रमेऽसौ न्यवसन्मुनिपुङ्गवः । तपस्तेपे महातेजाः स्वाध्यायनिरतः सदा ॥ २६॥ तत्राश्रमे महारम्ये देवगन्धर्वकन्यकाः । गायन्त्यो ननृतुस्तत्र हसन्त्यो वादयन्ति च ॥ २७॥ पुलस्त्यस्य तपोविघ्नं चक्रुः सर्वा अनिन्दिताः । ततः क्रुद्धो महातेजा व्याजहार वचो महत् ॥ २८॥ या मे दृष्टिपथं गच्छेत्सा गर्भं धारयिष्यति । ताः सर्वाः शापसंविग्ना न तं देशं प्रचक्रमुः ॥ २९॥ तृणबिन्दोस्तु राजर्षेः कन्या तन्नाशृणोद्वचः । विचचार मुनेरग्रे निर्भया तं प्रपश्यती ॥ ३०॥ बभूव पाण्डुरतनुर्व्यञ्जितान्तःशरीरजा । दृष्ट्वा सा देहवैवर्ण्यं भीता पितरमन्वगात् ॥ ३१॥ तृणबिन्दुश्च तां दृष्ट्वा राजर्षिरमितद्युतिः । ध्यात्वा मुनिकृतं सर्वमवैद्विज्ञानचक्षुषा ॥ ३२॥ तां कन्यां मुनिवर्याय पुलस्त्याय ददौ पिता । तां प्रगृह्याब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ ३३॥ शुश्रूषणपरां दृष्ट्वा मुनिः प्रीतोऽब्रवीद्वचः । दास्यामि पुत्रमेकं ते उभयोर्वंशवर्धनम् ॥ ३४॥ ततः प्रासूत सा पुत्रं पुलस्त्याल्लोकविश्रुतम् । विश्रवा इति विख्यातः पौलस्त्यो ब्रह्मविन्मुनिः ॥ ३५॥ तस्य शीलादिकं दृष्ट्वा भरद्वाजो महामुनिः । भार्यार्थं स्वां दुहितरं ददौ विश्रवसे मुदा ॥ ३६॥ तस्यां तु पुत्रः सञ्जज्ञे पौलस्त्याल्लोकसम्मतः । पितृतुल्यो वैश्रवणो ब्रह्मणा चानुमोदितः ॥ ३७॥ ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् । मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥ ३८॥ ततो लब्धवरः सोऽपि पितरं द्रष्टुमागतः । पुष्पकेण धनाध्यक्षो ब्रह्मदत्तेन भास्वता ॥ ३९॥ नमस्कृत्याथ पितरं निवेद्य तपसः फलम् । प्राह मे भगवान् ब्रह्मा दत्त्वा वरमनिन्दितम् ॥ ४०॥ निवासाय न मे स्थानं दत्तवान् परमेश्वरः । ब्रूहि मे नियतं स्थानं हिंसा यत्र न कस्यचित् ॥ ४१॥ विश्रवा अपि तं प्राह लङ्कानाम पुरी शुभा । राक्षसानां निवासाय निर्मिता विश्वकर्मणा ॥ ४२॥ त्यक्त्वा विष्णुभयाद्दैत्या विविशुस्ते रसातलम् । सा पुरी दुष्प्रधर्षान्यैर्मध्येसागरमास्थिता ॥ ४३॥ तत्र वासाय गच्छ त्वं नान्यैः साधिष्ठिता पुरा । पित्रादिष्टस्त्वसौ गत्वा तां पुरीं धनदोऽविशत् ॥ ४४॥ स तत्र सुचिरं कालमुवास पितृसम्मतः । कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ॥ ४५॥ रसातलान्मर्त्यलोकं चचार पिशिताशनः । गृहीत्वा तनयां कन्यां साक्षाद्देवीमिव श्रियम् ॥ ४६॥ अपश्यद्धनदं देवं चरन्तं पुष्पकेण सः । हिताय चिन्तयामास राक्षसानां महामनाः ॥ ४७॥ उवाच तनयां तत्र कैकसीं नाम नामतः । वत्से विवाहकालस्ते यौवनं चातिवर्तते ॥ ४८॥ प्रत्याख्यानाच्च भीतैस्त्वं न वरैर्गृह्यसे शुभे । सा त्वं वरय भद्रं ते मुनिं ब्रह्मकुलोद्भवम् ॥ ४९॥ स्वयमेव ततः पुत्रा भविष्यन्ति महाबलाः । ईदृशाः सर्वशोभाढ्या धनदेन समाः शुभे ॥ ५०॥ तथेति साऽऽश्रमं गत्वा मुनेरग्रे व्यवस्थिता । लिखन्ती भुवमग्रेण पादेनाधोमुखी स्थिता ॥ ५१॥ तामपृच्छन्मुनिः का त्वं कन्याऽसि वरवर्णिनि । साब्रवीत्प्राञ्जलिर्ब्रह्मन् ध्यानेन ज्ञातुमर्हसि ॥ ५२॥ ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तां प्रत्यभाषत । ज्ञातं तवाभिलषितं मत्तः पुत्रानभीप्ससि ॥ ५३॥ दारुणायां तु वेलायामागतासि सुमध्यमे । अतस्ते दारुणौ पुत्रौ राक्षसौ सम्भविष्यतः ॥ ५४॥ साब्रवीन्मुनिशार्दूल त्वत्तोऽप्येवंविधौ सुतौ । तामाह पश्चिमो यस्ते भविष्यति महामतिः ॥ ५५॥ महाभागवतः श्रीमान् रामभक्त्येकतत्परः । इत्युक्ता सा तथा काले सुषुवे दशकन्धरम् ॥ ५६॥ रावणं विंशतिभुजं दशशीर्षं सुदारुणम् । तद्रक्षोजातमात्रेण चचाल च वसुन्धरा ॥ ५७॥ बभूवुर्नाशहेतूनि निमित्तान्यखिलान्यपि । कुम्भकर्णस्ततो जातो महापर्वतसन्निभः ॥ ५८॥ ततः शूर्पणखा नाम जाता रावणसोदरी । ततो विभीषणो जातः शान्तात्मा सौम्यदर्शनः ॥ ५९॥ स्वाध्यायी नियताहारो नित्यकर्मपरायणः । कुम्भकर्णस्तु दुष्टात्मा द्विजान् सन्तुष्टचेतसः ॥ ६०॥ भक्षयन्नृषिसङ्घांश्च विचचारातिदारुणः । रावणोऽपि महासत्त्वो लोकानां भयदायकः । ववृधे लोकनाशाय ह्यामयो देहिनामिव ॥ ६१॥ राम त्वं सकलान्तरस्थमभितो जानासि विज्ञानदृक् साक्षी सर्वहृदि स्थितो हि परमो नित्योदितो निर्मलः । त्वं लीलामनुजाकृतिः स्वमहिमन् मायागुणैर्नाज्यसे लीलार्थं प्रतिचोदितोऽद्य भवता वक्ष्यामि रक्षोद्भवम् ॥ ६२॥ जानामि केवलमनन्तमचिन्त्यशक्तिं चिन्मात्रमक्षरमजं विदितात्मतत्त्वम् । त्वां राम गूढनिजरूपमनुप्रवृत्तो मूढोऽप्यहं भवदनुग्रहतश्चरामि ॥ ६३॥ एवं वदन्तमिनवंशपवित्रकीर्तिः कुम्भोद्भवं रघुपतिः प्रहसन् बभाषे । मायाश्रितं सकलमेतदनन्यकत्वात् मत्कीर्तनं जगति पापहरं निबोध ॥ ६४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे प्रथमः सर्गः ॥ १॥

॥ द्वितीय सर्गः ॥

श्रीमहादेव उवाच । श्रीरामवचनं श्रुत्वा परमानन्दनिर्भरः । मुनिः प्रोवाच सदसि सर्वेषां तत्र शृण्वताम् ॥ १॥ अथ वित्तेश्वरो देवस्तत्र कालेन केनचित् । आययौ पुष्पकारूढः पितरं द्रष्टुमञ्जसा ॥ २॥ दृष्ट्वा तं कैकसी तत्र भ्राजमानं महौजसम् । राक्षसी पुत्रसामीप्यं गत्वा रावणमब्रवीत् ॥ ३॥ पुत्र पश्य धनाध्यक्षं ज्वलन्तं स्वेन तेजसा । त्वमप्येवं यथा भूयास्तथा यत्नं कुरु प्रभो ॥ ४॥ तच्छ्रुत्वा रावणो रोषात् प्रतिज्ञामकरोद्द्रुतम् । धनदेन समो वापि ह्यधिको वाचिरेण तु ॥ ५॥ भविष्याम्यम्ब मां पश्य सन्तापं त्यज सुव्रते । इत्युक्त्वा दुष्करं कर्तुं तपः स दशकन्धरः ॥ ६॥ अगमत्फलसिद्ध्यर्थं गोकर्णं तु सहानुजः । स्वं स्वं नियममास्थाय भ्रातरस्ते तपो महत् ॥ ७॥ आस्थिता दुष्करं घोरं सर्वलोकैकतापनम् । दशवर्षसहस्राणि कुम्भकर्णोऽकरोत्तपः ॥ ८॥ विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ९॥ दिव्यवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शीर्षमग्नौ जुहाव सः । एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ॥ १०॥ अथ वर्षसहस्रं तु दशमे दशमं शिरः । छेत्तुकामस्य धर्मात्मा प्राप्तश्चाथ प्रजापतिः । वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ ११॥ वरं वरय दास्यामि यत्ते मनसि काङ्क्षितम् । दशग्रीवोऽपि तच्छ्रुत्वा प्रहृष्टेनान्तरात्मना ॥ १२॥ अमरत्वं वृणोमीश वरदो यदि मे भवान् । सुपर्णनागयक्षाणां देवतानां तथासुरैः । अवध्यत्वं तु मे देहि तृणभूता हि मानुषाः ॥ १३॥ तथास्त्विति प्रजाध्यक्षः पुनराह दशाननम् । अग्नौ हुतानि शीर्षाणि यानि तेऽसुरपुङ्गव ॥ १४॥ भविष्यन्ति यथापूर्वमक्षयाणि च सत्तम ॥ १५॥ एवमुक्त्वा ततो राम दशग्रीवं प्रजापतिः । विभीषणमुवाचेदं प्रणतं भक्तवत्सलः ॥ १६॥ विभीषण त्वया वत्स कृतं धर्मार्थमुत्तमम् । तपस्ततो वरं वत्स वृणीष्वाभिमतं हितम् ॥ १७॥ विभीषणोऽपि तं नत्वा प्राञ्जलिर्वाक्यमब्रवीत् । देव मे सर्वदा बुद्धिर्धर्मे तिष्ठतु शाश्वती । मा रोचयत्वधर्मं मे बुद्धिः सर्वत्र सर्वदा ॥ १८॥ ततः प्रजापतिः प्रीतो विभीषणमथाब्रवीत् । वत्स त्वं धर्मशीलोऽसि तथैव च भविष्यसि ॥ १९॥ अयाचितोऽपि ते दास्ये ह्यमरत्वं विभीषण । कुम्भकर्णमथोवाच वरं वरय सुव्रत ॥ २०॥ वाण्या व्याप्तोऽथ तं प्राह कुम्भकर्णः पितामहम् । स्वप्स्यामि देव षण्मासान् दिनमेकं तु भोजनम् ॥ २१॥ एवमस्त्विति तं प्राह ब्रह्मा दृष्ट्वा दिवौकसः । सरस्वती च तद्वक्त्रान्निर्गता प्रययौ दिवम् ॥ २२॥ कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । अनभिप्रेतमेवास्यात्किं निर्गतमहो विधिः ॥ २३॥ सुमाली वरलब्धांस्तान् ज्ञात्वा पौत्रान् निशाचरान् । पातालान्निर्भयः प्रायात् प्रहस्तादिभिरन्वितः ॥ २४॥ दशग्रीवं परिष्वज्य वचनं चेदमब्रवीत् । दिष्ट्या ते पुत्र संवृत्तो वाञ्छितो मे मनोरथः ॥ २५॥ यद्भयाच्च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ २६॥ अस्माभिः पूर्वमुषिता लङ्केयं धनदेन ते । भ्रात्राक्रान्तामिदानीं त्वं प्रत्यानेतुमिहार्हसि ॥ २७॥ साम्ना वाथ बलेनापि राज्ञां बन्धुः कुतः सुहृत् । इत्युक्तो रावणः प्राह नार्हस्येवं प्रभाषितुम् ॥ २८॥ वित्तेशो गुरुरस्माकमेवं श्रुत्वा तमब्रवीत् । प्रहस्तः प्रश्रितं वाक्यं रावणं दशकन्धरम् ॥ २९॥ शृणु रावण यत्नेन नैवं त्वं वक्तुमर्हसि । नाधीता राजधर्मास्ते नीतिशास्त्रं तथैव च ॥ ३०॥ शूराणां न हि सौभ्रात्रं शृणु मे वदतः प्रभो । कश्यपस्य सुता देवा राक्षसाश्च महाबलाः ॥ ३१॥ परस्परमयुध्यन्त त्यक्त्वा सौहृदमायुधैः । नैवेदानीन्तनं राजन् वैरं देवैरनुष्ठितम् ॥ ३२॥ प्रहस्तस्य वचः श्रुत्वा दशग्रीवो दुरात्मनः । तथेति क्रोधताम्राक्षस्त्रिकूटाचलमन्वगात् ॥ ३३॥ दूतं प्रहस्तं सम्प्रेष्य निष्कास्य धनदेश्वरम् । लङ्कामाक्रम्य सचिवै राक्षसैः सुखमास्थितः ॥ ३४॥ धनदः पितृवाक्येन त्यक्त्वा लङ्कां महायशाः । गत्वा कैलासशिखरं तपसातोषयच्छिवम् ॥ ३५॥ तेन सख्यमनुप्राप्य तेनैव परिपालितः । अलकां नगरीं तत्र निर्ममे विश्वकर्मणा ॥ ३६॥ दिक्पालत्वं चकारात्र शिवेन परिपालितः । रावणो राक्षसैः सार्धमभिषिक्तः सहानुजैः ॥ ३७॥ राज्यं चकारासुराणां त्रिलोकीं बाधयन् खलः । भगिनीं कालखञ्जाय ददौ विकटरूपिणीम् ॥ ३८॥ विद्युज्जिह्वाय नाम्नासौ महामायी निशाचरः । ततो मयो विश्वकर्मा राक्षसानां दितेः सुतः ॥ ३९॥ सुतां मन्दोदरीं नाम्ना ददौ लोकैकसुन्दरीम् । रावणाय पुनः शक्तिममोघां प्रीतमानसः ॥ ४०॥ वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुताम् । स्वयन्दत्तामुदवहत्कुम्भकर्णाय रावणः ॥ ४१॥ गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । विभीषणस्य भार्यार्थे धर्मज्ञां समुदावहत् ॥ ४२॥ सरमां नाम सुभगां सर्वलक्षणसंयुताम् । ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ॥ ४३॥ जातमात्रस्तु यो नादं मेघवत्प्रमुमोच ह । ततः सर्वेऽब्रुवन्मेघनादोऽयमिति चासकृत् ॥ ४४॥ कुम्भकर्णस्ततः प्राह निद्रा मां बाधते प्रभो । ततश्च कारयामास गुहां दीर्घां सुविस्तराम् ॥ ४५॥ तत्र सुष्वाप मूढात्मा कुम्भकर्णो विघूर्णितः । निद्रिते कुम्भकर्णे तु रावणो लोकरावणः ॥ ४६॥ ब्राह्मणान् ऋषिमुख्यांश्च देवदानवकिन्नरान् । देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान् ॥ ४७॥ धनदोऽपि ततः श्रुत्वा रावणस्याक्रमं प्रभुः । अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत् ॥ ४८॥ ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् । विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥ ४९॥ ततो यमं च वरुणं निर्जित्य समरेऽसुरः । स्वर्गलोकमगात्तुर्णं देवराजजिघांसया ॥ ५०॥ ततोऽभवन्महद्युद्धमिन्द्रेण सह दैवतैः । ततो रावणमभ्येत्य बबन्ध त्रिदशेश्वरः ॥ ५१॥ तच्छ्रुत्वा सहसागत्य मेघनादः प्रतापवन् । कृत्वा घोरं महद्युद्धं जित्वा त्रिदशपुङ्गवान् ॥ ५२॥ इन्द्रं गृहीत्वा बध्वासौ मेघनादो महाबलः । मोचयित्वा तु पितरं गृहीत्वेन्द्रं ययौ पुरम् ॥ ५३॥ ब्रह्मा तु मोचयामास देवेन्द्रं मेघनादतः । दत्त्वा वरान् बहूंस्तस्मै ब्रह्मा स्वभवनं ययौ ॥ ५४॥ रावणो विजयी लोकान् सर्वान् जित्वा क्रमेण तु । कैलासं तोलयामास बाहुभिः परिघोपमैः ॥ ५५॥ तत्र नन्दीश्वरेणैवं शप्तोऽयं राक्षसेश्वरः । वानरैर्मानुषैश्चैव नाशं गच्छेति कोपिना ॥ ५६॥ शप्तोऽप्यगणयन् वाक्यं ययौ हैहयपत्तनम् । तेन बद्धो दशग्रीवः पुलस्त्येन विमोचितः ॥ ५७॥ ततोऽतिबलमासाद्य जिघांसुर्हरिपुङ्गवम् । धृतस्तेनैव कक्षेण वालिना दशकन्धरः ॥ ५८॥ भ्रामयित्वा तु चतुरः समुद्रान् रावणं हरिः । विसर्जयामास ततस्तेन सख्यं चकार सः ॥ ५९॥ रावणः परमप्रीत एवं लोकान् महाबलः । चकार स्ववशे राम बुभुजे स्वयमेव तान् ॥ ६०॥ एवम्प्रभावो राजेन्द्र दशग्रीवः सहेन्द्रजित् । त्वया विनिहतः सङ्ख्ये रावणो लोकरावणः ॥ ६१॥ मेघनादश्च निहतो लक्ष्मणेन महात्मना । कुम्भकर्णश्च निहतस्त्वया पर्वतसन्निभः ॥ ६२॥ भवान्नारायणः साक्षाज्जगतामादिकृद्विभुः । त्वत्स्वरूपमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ६३॥ त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः । अग्निस्ते मुखतो जातो वाचा सह रघूत्तम ॥ ६४॥ बाहुभ्यां लोकपालौघाश्चक्षुर्भ्यां चन्द्रभास्करौ । दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः ॥ ६५॥ घ्राणात्प्राणः समुत्पन्नश्चाश्विनौ देवसत्तमौ । जङ्घाजानूरुजघनाद्भुवर्लोकादयोऽभवन् ॥ ६६॥ कुक्षिदेशात्समुत्पन्नाश्चत्वारः सागरा हरे । स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः ॥ ६७॥ मेढ्राद्यमो गुदान्मृत्युर्मन्यो रुद्रस्त्रिलोचनः । अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः ॥ ६८॥ ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः । त्वं विश्वरूपः पुरुषो मायाशक्तिसमन्वितः ॥ ६९॥ नानारूप इवाभासि गुणव्यतिकरे सति । त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे ॥ ७०॥ त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम् । त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः ॥ ७१॥ त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव । क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलं पयः ॥ ७२॥ त्वद्भासा भासतेऽर्कादि न त्वं तेनावभाससे । सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत् ॥ ७३॥ नाज्ञानचक्षुस्त्वां पश्येदन्धदृग् भास्करं यथा । योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम् ॥ ७४॥ अतन्निरसनमुखैर्वेदशीर्षैरहर्निशम् । त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः ॥ ७५॥ विचिन्वन्तो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा । मया प्रलपितं किञ्चित्सर्वज्ञस्य तवाग्रतः । क्षन्तुमर्हसि देवेश तवानुग्रहभागहम् ॥ ७६॥ दिग्देशकालपरिहीनमनन्यमेकं चिन्मात्रमक्षरमजं चलनादिहीनम् । सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त- मायं भजे रघुपतिं भजतामभिन्नम् ॥ ७७॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे द्वितीयः सर्गः ॥ २॥

॥ तृतीय सर्गः ॥

श्रीराम उवाच । वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि तत्त्वतः । रवीन्द्रौ वानराकारौ जज्ञाताविति नः श्रुतम् ॥ १॥ अगस्त्य उवाच । मेरोः स्वर्णमयस्याद्रेर्मध्यशृङ्गे मणिप्रभे । तस्मिन् सभाऽऽस्ते विस्तीर्णा ब्रह्मणः शतयोजना ॥ २॥ तस्यां चतुर्मुखः साक्षात्कदाचिद्योगमास्थितः । नेत्राभ्यां पतितं दिव्यमानन्दसलिलं बहु ॥ ३॥ तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत् । भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥ ४॥ तमाह द्रुहिणो वत्स किञ्चित्कालं वसात्र मे । समीपे सर्वशोभाढ्ये ततः श्रेयो भविष्यति ॥ ५॥ इत्युक्तो न्यवसत्तत्र ब्रह्मणा वानरोत्तमः । एवं बहुतिथे काले गते ऋक्षाधिपः सुधीः ॥ ६॥ कदाचित्पर्यटन्नद्रौ फलमूलार्थमुद्यतः । अपश्यद्दिव्यसलिलां वापीं मणिशिलान्विताम् ॥ ७॥ पानीयं पातुमागच्छत्तत्र छायामयं कपिम् । दृष्ट्वा प्रतिकपिं मत्वा निपपात जलान्तरे ॥ ८॥ तत्रादृष्ट्वा हरिं शीघ्रं पुनरुत्प्लुत्य वानरः । अपश्यत्सुन्दरीं रामामात्मानं विस्मयं गतः ॥ ९॥ ततः सुरेशो देवेशं पूजयित्वा चतुर्मुखम् । गच्छन् मध्याह्नसमये दृष्ट्वा नारीं मनोरमाम् ॥ १०॥ कन्दर्पशरविद्धाङ्गस्त्यक्तवान् वीर्यमुत्तमम् । तामप्राप्यैव तद्बीजं वालदेशेऽपतद्भुवि ॥ ११॥ वाली समभवत्तत्र शक्रतुल्यपराक्रमः । तस्य दत्त्वा सुरेशानः स्वर्णमालां दिवं गतः ॥ १२॥ भानुरप्यागतस्तत्र तदानीमेव भामिनीम् । दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत् ॥ १३॥ बीजं तस्यास्ततः सद्यो महाकायोऽभवद्धरिः । तस्य दत्त्वा हनूमन्तं सहायार्थं गतो रविः ॥ १४॥ पुत्रद्वयं समादाय गत्वा सा निद्रिता क्वचित् । प्रभातेऽपश्यदात्मानं पूर्ववद्वानराकृतिम् ॥ १५॥ फलमूलादिभिः सार्धं पुत्राभ्यां सहितः कपिः । नत्वा चतुर्मुखस्याग्रे ऋक्षराजः स्थितः सुधीः ॥ १६॥ ततोऽब्रवीत्समाश्वास्य बहुशः कपिकुञ्जरम् । तत्रैकं देवतादूतमाहूयामरसन्निभम् ॥ १७॥ गच्छ दूत मयादिष्टो गृहीत्वा वानरोत्तमम् । किष्किन्धां दिव्यनगरीं निर्मितां विश्वकर्मणा ॥ १८॥ सर्वसौभाग्यवलितां देवैरपि दुरासदाम् । तस्यां सिंहासने वीरं राजानमभिषेचय ॥ १९॥ सप्तद्वीपगता ये ये वानराः सन्ति दुर्जयाः । सर्वे ते ऋक्षराजस्य भविष्यन्ति वशेऽनुगाः ॥ २०॥ यदा नारायणः साक्षाद्रामो भूत्वा सनातनः । भूभारासुरनाशाय सम्भविष्यति भूतले ॥ २१॥ तदा सर्वे सहायार्थे तस्य गच्छन्तु वानराः । इत्युक्तो ब्रह्मणा दूतो देवानां स महामतिः ॥ २२॥ यथाऽऽज्ञप्तस्तथा चक्रे ब्रह्मणा तं हरीश्वरम् । देवदूतस्ततो गत्वा ब्रह्मणे तन्न्यवेदयत् ॥ २३॥ तदादि वानराणां सा किष्किन्धाऽभून्नृपाश्रयः ॥ २४॥ सर्वेश्वरस्त्वमेवासीरिदानीं ब्रह्मणार्थितः । भूमेर्भारो हृतः कृत्स्नस्त्वया लीलानृदेहिना । सर्वभूतान्तरस्थस्य नित्यमुक्तचिदात्मनः ॥ २५॥ अखण्डानन्तरूपस्य कियानेष पराक्रमः । तथापि वर्ण्यते सद्भिर्लीलामानुषरूपिणः ॥ २६॥ यशस्ते सर्वलोकानां पापहत्यै सुखाय च । य इदं कीर्तयेन्मर्त्यो वालिसुग्रीवयोर्महत् ॥ २७॥ जन्म त्वदाश्रयत्वात्स मुच्यते सर्वपातकैः ॥ २८॥ अथान्यां सम्प्रवक्ष्यामि कथां राम त्वदाश्रयाम् । सीता हृता यदर्थं सा रावणेन दुरात्मना ॥ २९॥ पुरा कृतयुगे राम प्रजापतिसुतं विभुम् । सनत्कुमारमेकान्ते समासीनं दशाननः । विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत् ॥ ३०॥ को न्वस्मिन् प्रवरो लोके देवानां बलवत्तरः । देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि ॥ ३१॥ कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः । एतन्मे शंस भगवन् प्रश्नं प्रश्नविदांवर ॥ ३२॥ ज्ञात्वा तस्य हृदिस्थं यत्तदशेषेण योगदृक् । दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक ॥ ३३॥ भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि । सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः ॥ ३४॥ यन्नाभिपङ्कजाज्जातो ब्रह्मा विश्वसृजां पतिः । सृष्टं येनैव सकलं जगत्स्थावरजङ्गमम् ॥ ३५॥ तं समाश्रित्य विबुधा जयन्ति समरे रिपून् । योगिनो ध्यानयोगेन तमेवानुजपन्ति हि ॥ ३६॥ महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः । दैत्यदानवरक्षांसि विष्णुना निहतानि च ॥ ३७॥ कां वा गतिं प्रपद्यन्ते प्रेत्य ते मुनिपुङ्गव । तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम् ॥ ३८॥ दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम् । भोगक्षये पुनस्तस्माद्भ्रष्टा भूमौ भवन्ति ते ॥ ३९॥ पूर्वार्जितैः पुण्यपापैर्म्रियन्ते चोद्भवन्ति च । विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम् ॥ ४०॥ श्रुत्वा मुनिमुखात्सर्वं रावणो हृष्टमानसः । योत्स्येऽहं हरिणा सार्धमिति चिन्तापरोऽभवत् ॥ ४१॥ मनःस्थितं परिज्ञाय रावणस्य महामुनिः । उवाच वत्स तेऽभीष्टं भविष्यति न संशयः ॥ ४२॥ कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन । एवमुक्त्वा महाबाहो मुनिः पुनरुवाच तम् ॥ ४३॥ तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः । स्थावरेषु च सर्वेषु नदेषु च नदीषु च ॥ ४४॥ ओङ्कारश्चैव सत्यं च सावित्री पृथिवी च सः । समस्तजगदाधारः शेषरूपधरो हि सः ॥ ४५॥ सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः । सूर्योदयो दिवारात्री यमश्चैव तथानिलः ॥ ४६॥ अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा । ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः ॥ ४७॥ विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत् । क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः ॥ ४८॥ तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् । नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः ॥ ४९॥ शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्कसंस्थिताम् । सदानपायिनीं देवीं पश्यन्नालिङ्ग्य तिष्ठति ॥ ५०॥ द्रष्टुं न शक्यते कैश्चिद्देवदानवपन्नगैः । यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति ॥ ५१॥ न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः । शक्यते भगवान् द्रष्टुमुपायैरितरैरपि ॥ ५२॥ तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैर्धूतकल्मषैः । शक्यते भगवान् विष्णुर्वेदान्तामलदृष्टिभिः ॥ ५३॥ अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम् । त्रेतायुगे स देवेशो भविता नृपविग्रहः ॥ ५४॥ हितार्थं देवमर्त्यानामिक्ष्वाकूणां कुले हरिः । रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः ॥ ५५॥ पितुर्नियोगात्स भ्रात्रा भार्यया दण्डके वने । विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया ॥ ५६॥ एवं ते सर्वमाख्यातं मया रावण विस्तरात् । भजस्व भक्तिभावेन सदा रामं श्रिया युतम् ॥ ५७॥ अगस्त्य उवाच । एवं श्रुत्वासुराध्यक्षो ध्यात्वा किञ्चिद्विचार्य च । त्वया सह विरोधेप्सुर्मुमुदे रावणो महान् ॥ ५८॥ युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः । एतदर्थं महाराज रावणोऽतीव बुद्धिमान् । हृतवान् जानकीं देवीं त्वयात्मवधकाङ्क्षया ॥ ५९॥ इमां कथां यः शृणुयात्पठेद्वा संश्रावयेद्वा श्रवणार्थिनां सदा । आयुष्यमारोग्यमनन्तसौख्यं प्राप्नोति लाभं धनमक्षयं च ॥ ६०॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीयः सर्गः ॥ ३॥

॥ चतुर्थ सर्गः ॥

श्रीमहादेव उवाच । एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम् । पर्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः ॥ १॥ भगवन् ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः । योद्धुमिच्छामि बलिभिस्त्वं ज्ञातासि जगत्त्रयम् ॥ २॥ मुनिर्ध्याऽऽत्वाह सुचिरं श्वेतद्वीपनिवासिनः । महाबला महाकायास्तत्र याहि महामते ॥ ३॥ विष्णुपूजारता ये वै विष्णुना निहताश्च ये । त एव तत्र सञ्जाता अजेयाश्च सुरासुरैः ॥ ४॥ श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान् । योद्धुकामः समागत्य श्वेतद्वीपसमीपतः ॥ ५॥ तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः । त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः ॥ ६॥ प्रविशन्नेव तद् द्वीपं धृतो हस्तेन योषिता । पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद ॥ ७॥ इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः । कृच्छ्राद्धस्ताद्विनिर्मुक्तस्तासां स्त्रीणां दशाननः ॥ ८॥ आश्चर्यमतुलं लब्ध्वा चिन्तयामास दुर्मतिः । विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः ॥ ९॥ मयि विष्णुर्यथा कुप्येत्तथा कार्यं करोम्यहम् । इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः ॥ १०॥ जानन्नेव परात्मानं स जहारावनीसुताम् । मातृवत्पालयामास त्वत्तः काङ्क्षन् वधं स्वकम् ॥ ११॥ राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृग् भूतं भव्यमिदं त्रिकालकलनासाक्षी विकल्पोज्झितः । भक्तानामनुवर्तनाय सकलां कुर्वन् क्रियासंहतिं त्वं शृण्वन्मनुजाकृतिर्मुनिवचो भासीश लोकार्चितः ॥ १२॥ स्तुत्वैवं राघवं तेन पूजितः कुम्भसम्भवः । स्वाश्रमं मुनिभिः सार्धं प्रययौ हृष्टमानसः ॥ १३॥ रामस्तु सीतया सार्धं भ्रातृभिः सह मन्त्रिभिः । संसारीव रमानाथो रममाणोऽवसद्गृहे ॥ १४॥ अनासक्तोऽपि विषयान् बुभुजे प्रियया सह । हनुमत्प्रमुखैः सद्भिर्वानरैः परिवेष्टितः ॥ १५॥ पुष्पकं चागमद्राममेकदा पूर्ववत्प्रभुम् । प्राह देव कुबेरेण प्रेषितं त्वामहं ततः ॥ १६॥ जितं त्वं रावणेनादौ पश्चाद्रामेण निर्जितम् । अतस्त्वं राघवं नित्यं वह यावद्वसेद्भुवि ॥ १७॥ यदा गच्छेद्रघुश्रेष्ठो वैकुण्ठं याहि मां तदा । तच्छ्रुत्वा राघवः प्राह पुष्पकं सूर्यसन्निभम् ॥ १८॥ यदा स्मरामि भद्रं ते तदागच्छ ममान्तिकम् । तिष्ठान्तर्धाय सर्वत्र गच्छेदानीं ममाज्ञया ॥ १९॥ इत्युक्त्वा रामचन्द्रोऽपि पौरकार्याणि सर्वशः । भ्रातृभिर्मन्त्रिभिः सार्धं यथान्यायं चकार सः ॥ २०॥ राघवे शासति भुवं लोकनाथे रमापतौ । वसुधा सस्यसम्पन्ना फलवन्तश्च भूरुहाः ॥ २१॥ जना धर्मपराः सर्वे पतिभक्तिपराः स्त्रियः । नापश्यत्पुत्रमरणं कश्चिद्राजनि राघवे ॥ २२॥ समारुह्य विमानाग्र्यं राघवः सीतया सह । वानरैर्भ्रातृभिः सार्धं सञ्चचारावनिं प्रभुः ॥ २३॥ अमानुषाणि कार्याणि चकार बहुशो भुवि । ब्राह्मणस्य सुतं दृष्ट्वा बालं मृतमकालतः ॥ २४॥ शोचन्तं ब्राह्मणं चापि ज्ञात्वा रामो महामतिः । तपस्यन्तं वने शूद्रं हत्वा ब्राह्मणबालकम् ॥ २५॥ जीवयामास शूद्रस्य ददौ स्वर्गमनुत्तमम् । लोकानामुपदेशार्थं परमात्मा रघूत्तमः ॥ २६॥ कोटिशः स्थापयामास शिवलिङ्गानि सर्वशः । सीतां च रमयामास सर्वभोगैरमानुषैः ॥ २७॥ शशास रामो धर्मेण राज्यं परमधर्मवित् । कथां संस्थापयामास सर्वलोकमलापहाम् ॥ २८॥ दशवर्षसहस्राणि मायामानुषविग्रहः । चकार राज्यं विधिवल्लोकवन्द्यपदाम्बुजः ॥ २९॥ एकपत्नीव्रतो रामो राजर्षिः सर्वदा शुचिः । गृहमेधीयमखिलमाचरन् शिक्षयन् जनान् ॥ ३०॥ सीता प्रेम्णानुवृत्त्या च प्रश्रयेण दमेन च । भर्तुर्मनोहरा साध्वी भावज्ञा सा ह्रिया भिया ॥ ३१॥ एकदाक्रीडविपिने सर्वभोगसमन्विते । एकान्ते दिव्यभवने सुखासीनं रघूत्तमम् ॥ ३२॥ नीलमाणिक्यसङ्काशं दिव्याभरणभूषितम् । प्रसन्नवदनं शान्तं विद्युत्पुञ्जनिभाम्बरम् ॥ ३३॥ सीता कमलपत्राक्षी सर्वाभरणभूषिता । राममाह कराभ्यां सा लालयन्ती पदाम्बुजे ॥ ३४॥ देवदेव जगन्नाथ परमात्मन् सनातन । चिदानन्दादिमध्यान्तरहिताशेषकारण ॥ ३५॥ देव देवाः समासाद्य मामेकान्तेऽब्रुवन्वचः । बहुशोऽर्थ्यमानास्ते वैकुण्ठागमनं प्रति ॥ ३६॥ त्वया समेतश्चिच्छक्त्या रामस्तिष्ठति भूतले । विसृज्यास्मान् स्वकं धाम वैकुण्ठं च सनातनम् ॥ ३७॥ आस्ते त्वया जगद्धात्रि रामः कमललोचनः । अग्रतो याहि वैकुण्ठं त्वं तथा चेद्रघूत्तमः ॥ ३८॥ आगमिष्यति वैकुण्ठं सनाथान्नः करिष्यति । इति विज्ञापिताहं तैर्मया विज्ञापितो भवान् ॥ ३९॥ यद्युक्तं तत्कुरुष्वाद्य नाहमाज्ञापये प्रभो । सीतायास्तद्वचः श्रुत्वा रामो ध्यात्वाब्रवीत्क्षणम् ॥ ४०॥ देवि जानामि सकलं तत्रोपायं वदामि ते । कल्पयित्वा मिषं देवि लोकवादं त्वदाशयम् ॥ ४१॥ त्यजामि त्वां वने लोकवादाद्भीत इवापरः । भविष्यतः कुमारौ द्वौ वाल्मीकेराश्रमान्तिके ॥ ४२॥ इदानीं दृश्यते गर्भः पुनरागत्य मेऽन्तिकम् । लोकानां प्रत्ययार्थं त्वं कृत्वा शपथमादरात् ॥ ४३॥ भूमेर्विवरमात्रेण वैकुण्ठं यास्यसि द्रुतम् । पश्चादहं गमिष्यामि एष एव सुनिश्चयः ॥ ४४॥ इत्युक्त्वा तां विसृज्याथ रामो ज्ञानैकलक्षणः । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्बलमुख्यैश्च संवृतः ॥ ४५॥ तत्रोपविष्टं श्रीरामं सुहृदः पर्युपासत । हास्यप्रौढकथासुज्ञा हासयन्तः स्थिता हरिम् ॥ ४६॥ कथाप्रसङ्गात्पप्रच्छ रामो विजयनामकम् । पौरा जानपदा मे किं वदन्तीह शुभाशुभम् ॥ ४७॥ सीतां वा मातरं वा मे भ्रातॄन्वा कैकयीमथ । न भेतव्यं त्वया ब्रूहि शापितोऽसि ममोपरि ॥ ४८॥ इत्युक्तः प्राह विजयो देव सर्वे वदन्ति ते । कृतं सुदुष्करं सर्वं रामेण विदितात्मना ॥ ४९॥ किन्तु हत्वा दशग्रीवं सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्वं वेश्म प्रत्यपादयत् ॥ ५०॥ कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । या हृता विजनेऽरण्ये रावणेन दुरात्मना ॥ ५१॥ अस्माकमपि दुष्कर्म योषितां मर्षणं भवेत् । यादृग्भवति वै राजा तादृश्यो नियतं प्रजाः ॥ ५२॥ श्रुत्वा तद्वचनं रामः स्वजनान् पर्यपृच्छत । तेऽपि नत्वाब्रुवन् राममेवमेतन्न संशयः ॥ ५३॥ ततो विसृज्य सचिवान् विजयं सुहृदस्तथा । आहूय लक्ष्मणं रामो वचनं चेदमब्रवीत् ॥ ५४॥ लोकापवादस्तु महान् सीतामाश्रित्य मेऽभवत् । सीतां प्रातः समानीय वाल्मीकेराश्रमान्तिके ॥ ५५॥ त्यक्त्वा शीघ्रं रथेन त्वं पुनरायाहि लक्ष्मण । वक्ष्यसे यदि वा किञ्चित्तदा मां हतवानसि ॥ ५६॥ इत्युक्तो लक्ष्मणो भीत्या प्रातरुत्थाय जानकीम् । सुमन्त्रेण रथे कृत्वा जगाम सहसा वनम् ॥ ५७॥ वाल्मीकेराश्रमस्यान्ते त्यक्त्वा सीतामुवाच सः । लोकापवादभीत्या त्वां त्यक्तवान् राघवो वने ॥ ५८॥ दोषो न कश्चिन्मे मातर्गच्छाश्रमपदं मुनेः । इत्युक्त्वा लक्ष्मणः शीघ्रं गतवान् रामसन्निधिम् ॥ ५९॥ सीतापि दुःखसन्तप्ता विललापातिमुग्धवत् । शिष्यैः श्रुत्वा च वाल्मीकिः सीतां ज्ञात्वा स दिव्यदृक् ॥ ६०॥ अर्घ्यादिभिः पूजयित्वा समाश्वास्य च जानकीम् । ज्ञात्वा भविष्यं सकलमार्पयन् मुनियोषिताम् ॥ ६१॥ तास्तां सम्पूजयन्ति स्म सीतां भक्त्या दिने दिने । ज्ञात्वा परात्मनो लक्ष्मीं मुनिवाक्येन योषितः । सेवां चक्रुः सदा तस्या विनयादिभिरादरात् ॥ ६२॥ रामोऽपि सीतारहितः परात्मा विज्ञानदृक्केवल आदिदेवः । सन्त्यज्य भोगानखिलान् विरक्तो मुनिव्रतोऽभून्मुनिसेविताङ्घ्रिः ॥ ६३॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे चतुर्थः सर्गः ॥ ४॥

॥ पञ्चम सर्गः ॥

श्रीमहादेव उवाच । ततो जगन्मङ्गलमङ्गलात्मना विधाय रामायणकीर्तिमुत्तमाम् । चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥ १॥ सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः । राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २॥ कदाचिदेकान्त उपस्थितं प्रभुं रामं रमालालितपादपङ्कजम् । सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३॥ त्वं शुद्धबोधोऽसि हि सर्वदेहिना- मात्मास्यधीशोऽसि निराकृतिः स्वयम् । प्रतीयसे ज्ञानदृशां महामते पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥ ४॥ अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो भवापवर्गं तव योगिभावितम् । यथाञ्जसाऽज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुशाधि माम् ॥ ५॥ श्रुत्वाथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः । विज्ञानमज्ञानतमःप्रशान्तये श्रुतिप्रपन्नं क्षितिपालभूषणः ॥ ६॥ आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः । समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्गुरुमात्मलब्धये ॥ ७॥ क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः । धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रिया चक्रवदीर्यते भवः ॥ ८॥ अज्ञानमेवास्य हि मूलकारणं तद्ध्यानमेवात्र विधौ विधीयते । विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम् ॥ ९॥ नाज्ञानहानिर्न च रागसङ्क्षयो भवेत्ततः कर्म सदोषमुद्भवेत् । ततः पुनः संसृतिरप्यवारिता तस्माद्बुधो ज्ञानविचारवान् भवेत् ॥ १०॥ ननु क्रिया वेदमुखेन चोदिता तथैव विद्या पुरुषार्थसाधनम् । कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥ ११॥ कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा । ननु स्वतन्त्रा ध्रुवकार्यकारिणी विद्या न किञ्चिन्मनसाप्यपेक्षते ॥ १२॥ न सत्यकार्योऽपि हि यद्वदध्वरः प्रकाङ्क्षतेऽन्यानपि कारकादिकान् । तथैव विद्या विधितः प्रकाशितैः विशिष्यते कर्मभिरेव मुक्तये ॥ १३॥ केचिद्वदन्तीति वितर्कवादिन- स्तदप्यसद्दृष्टविरोधकारणात् । देहाभिमानादभिवर्धते क्रिया विद्या गताहङ्कृतितः प्रसिद्ध्यति ॥ १४॥ विशुद्धविज्ञानविरोचनाञ्चिता विद्यात्मवृत्तिश्चरमेति भण्यते । उदेति कर्माखिलकारकादिभिः निहन्ति विद्याखिलकारकादिकम् ॥ १५॥ तस्मात्त्यजेत्कार्यमशेषतः सुधीः विद्याविरोधान्न समुच्चयो भवेत् । आत्मानुसन्धानपरायणः सदा निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६॥ यावच्छरीरादिषु माययात्मधी- स्तावद्विधेयो विधिवादकर्मणाम् । नेतीति वाक्यैरखिलं निषिध्य तत् ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७॥ यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम् । तदैव माया प्रविलीयतेऽञ्जसा सकारका कारणमात्मसंसृतेः ॥ १८॥ श्रुतिप्रमाणाभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी । विज्ञानमात्रादमलाद्वितीयत- स्तस्मादविद्या न पुनर्भविष्यति ॥ १९॥ यदि स्म नष्टा न पुनः प्रसूयते कर्ताहमस्येति मतिः कथं भवेत् । तस्मात्स्वतन्त्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला ॥ २०॥ सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिलकर्मणां स्फुटम् । एतावदित्याह च वाजिनां श्रुतिः ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१॥ विद्यासमत्वेन तु दर्शितस्त्वया क्रतुर्न दृष्टान्त उदाहृतः समः । फलैः पृथक्त्वाद्बहुकारकैः क्रतुः संसाध्यते ज्ञानमतो विपर्ययम् ॥ २२॥ सप्रत्यवायो ह्यहमित्यनात्मधी- रज्ञप्रसिद्धा न तु तत्त्वदर्शिनः । तस्माद्बुधैस्त्याज्यमविक्रियात्मभिः विधानतः कर्म विधिप्रकाशितम् ॥ २३॥ श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः । विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकम्पनः ॥ २४॥ आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः । तत्त्वम्पदार्थौ परमात्मजीवका- वसीति चैकात्म्यमथानयोर्भवेत् ॥ २५॥ प्रत्यक्परोक्षादिविरोधमात्मनोः विहाय सङ्गृह्य तयोश्चिदात्मताम् । संशोधितां लक्षणया च लक्षितां ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥ २६॥ एकात्मकत्वाज्जहती न सम्भवेत् तथाऽजहल्लक्षणता विरोधतः । सोऽयम्पदार्थाविव भागलक्षणा युज्येत तत्त्वम्पदयोरदोषतः ॥ २७॥ रसादिपञ्चीकृतभूतसम्भवं भोगालयं दुःखसुखादिकर्मणाम् । शरीरमाद्यन्तवदादिकर्मजं मायामयं स्थूलमुपाधिमात्मनः ॥ २८॥ सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं प्राणैरपञ्चीकृतभूतसम्भवम् । भोक्तुः सुखादेरनुसाधनं भवेत् शरीरमन्यद्विदुरात्मनो बुधाः ॥ २९॥ अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम् । उपाधिभेदात्तु यतः पृथक् स्थितं स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥ ३०॥ कोशेष्वयं तेषु तु तत्तदाकृतिः विभाति सङ्गात् स्फटिकोपलो यथा । असङ्गरूपोऽयमजो यतोऽद्वयो विज्ञायतेऽस्मिन् परितो विचारिते ॥ ३१॥ बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः । अन्योन्यतोऽस्मिन् व्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२॥ देहेन्द्रियप्राणमनश्चिदात्मनां सङ्घादजस्रं परिवर्तते धियः । वृत्तिस्तमोमूलतयाज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवः ॥ ३३॥ नेतिप्रमाणेन निराकृताखिलो हृदा समास्वादितचिद्घनामृतः । त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥ ३४॥ कदाचिदात्मा न मृतो न जायते न क्षीयते नापि विवर्धतेऽनवः । निरस्तसर्वातिशयः सुखात्मकः स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥ ३५॥ एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते । अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६॥ यदन्यदन्यत्र विभाव्यते भ्रमा- दध्यासमित्याहुरमुं विपश्चितः । असर्पभूतेऽहिविभावनं यथा रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ ३७॥ विकल्पमायारहिते चिदात्मके- ऽहङ्कार एष प्रथमः प्रकल्पितः । अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥ ३८॥ इच्छादिरागादिसुखादिधर्मिकाः सदा धियः संसृतिहेतवः परे । यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥ ३९॥ अनाद्यविद्योद्भवबुद्धिबिम्बितो जीवः प्रकाशोऽयमितीर्यते चितः । आत्मा धियः साक्षितया पृथक् स्थितो बुद्ध्यापरिच्छिन्नपरः स एव हि ॥ ४०॥ चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत- स्त्वेकत्र वासादनलाक्तलोहवत् । अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥ ४१॥ गुरोः सकाशादपि वेदवाक्यतः । सञ्जातविद्यानुभवो निरीक्ष्य तम् । स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥ ४२॥ प्रकाशरूपोऽहमजोऽहमद्वयो- ऽसकृद्विभातोऽहमतीव निर्मलः । विशुद्ध विज्ञानघनो निरामयः सम्पूर्ण आनन्दमयोऽहमक्रियः ॥ ४३॥ सदैव मुक्तोऽहमचिन्त्यशक्तिमान् अतीन्द्रियज्ञानमविक्रियात्मकः । अनन्तपारोऽहमहर्निशं बुधैः विभावितोऽहं हृदि वेदवादिभिः ॥ ४४॥ एवं सदात्मानमखण्डितात्मना विचारमाणस्य विशुद्धभावना । हन्यादविद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः ॥ ४५॥ विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलान्तराशयः । विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः ॥ ४६॥ विश्वं यदेतत्परमात्मदर्शनं विलापयेदात्मनि सर्वकारणे । पूर्णश्चिदानन्दमयोऽवतिष्ठते न वेद बाह्यं न च किञ्चिदान्तरम् ॥ ४७॥ पूर्वं समाधेरखिलं विचिन्तये- दोङ्कारमात्रं सचराचरं जगत् । तदेव वाच्यं प्रणवो हि वाचको विभाव्यतेऽज्ञानवशान्न बोधतः ॥ ४८॥ अकारसञ्ज्ञः पुरुषो हि विश्वको ह्युकारकस्तैजस ईर्यते क्रमात् । प्राज्ञो मकारः परिपठ्यतेऽखिलैः समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९॥ विश्वं त्वकारं पुरुषं विलापये- दुकारमध्ये बहुधा व्यवस्थितम् । ततो मकारे प्रविलाप्य तैजसं द्वितीयवर्णं प्रणवस्य चान्तिमे ॥ ५०॥ मकारमप्यात्मनि चिद्घने परे विलापयेद्प्राज्ञमपीह कारणम् । सोऽहं परं ब्रह्म सदा विमुक्तिम- द्विज्ञानदृङ्मुक्त उपाधितोऽमलः ॥ ५१॥ एवं सदा जातपरात्मभावनः स्वानन्दतुष्टः परिविस्मृताखिलः । आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥ ५२॥ एवं सदाभ्यस्तसमाधियोगिनो निवृत्तसर्वेन्द्रियगोचरस्य हि । विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्गुणात्मनः ॥ ५३॥ ध्यात्वैवमात्मानमहर्निशं मुनि- स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः । प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥ ५४॥ आदौ च मध्ये च तथैव चान्ततो भवं विदित्वा भयशोककारणम् । हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५॥ आत्मन्यभेदेन विभावयन्निदं भवत्यभेदेन मयात्मना तदा । यथा जलं वारिनिधौ यथा पयः क्षीरे वियद्व्योम्न्यनिले यथानिलः ॥ ५६॥ इत्थं यदीक्षेत हि लोकसंस्थितो जगन्मृषैवेति विभावयन्मुनिः । निराकृतत्वाच्छ्रुतियुक्तिमानतो यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७॥ यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत् । श्रद्धालुरत्यूर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८॥ रहस्यमेतच्छ्रुतिसारसङ्ग्रहं मया विनिश्चित्य तवोदितं प्रिय । यस्त्वेतदालोचयतीह बुद्धिमान् स मुच्यते पातकराशिभिः क्षणात् ॥ ५९॥ भ्रातर्यदीदं परिदृश्यते जग- न्मायैव सर्वं परिहृत्य चेतसा । मद्भावनाभावितशुद्धमानसः सुखी भवानन्दमयो निरामयः ॥ ६०॥ यः सेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम् । सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन् पुनाति लोकत्रितयं यथा रविः ॥ ६१॥ विज्ञानमेतदखिलं श्रुतिसारमेकं वेदान्तवेद्यचरणेन मयैव गीतम् । यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः सर्गः ॥ ५॥

॥ षष्ठः सर्गः ॥

श्रीमहादेव उवाच । एकदा मुनयः सर्वे यमुनातीरवासिनः । आजग्मू राघवं द्रष्टुं भयाल्लवणरक्षसः ॥ १॥ कृत्वाग्रे तु मुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः । असङ्ख्याताः समायाता रामादभयकाङ्क्षिणः ॥ २॥ तान् पूजयित्वा परया भक्त्या रघुकुलोत्तमः । उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलम् ॥ ३॥ करवाणि मुनिश्रेष्ठाः किमागमनकारणम् । धन्योऽस्मि यदि यूयं मां प्रीत्या द्रष्टुमिहागताः ॥ ४॥ दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम् । आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे ॥ ५॥ तच्छ्रुत्वा सहसा हृष्टश्च्यवनो वाक्यमब्रवीत् । मधुनामा महादैत्यः पुरा कृतयुगे प्रभो ॥ ६॥ आसीदतीव धर्मात्मा देवब्राह्मणपूजकः । तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम् ॥ ७॥ प्राह चानेन यं हंसि स तु भस्मीभविष्यति । रावणस्यानुजा भार्या तस्य कुम्भीनसी श्रुता ॥ ८॥ तस्यां तु लवणो नाम राक्षसो भीमविक्रमः । आसीद्दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः ॥ ९॥ पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः । तच्छ्रुत्वा राघवोऽप्याह मा भीर्वो मुनिपुङ्गवाः ॥ १०॥ लवणं नाशयिष्यामि गच्छन्तु विगतज्वराः । इत्युक्त्वा प्राह रामोऽपि भ्रातॄन् को वा हनिष्यति ॥ ११॥ लवणं राक्षसं दद्यात् ब्राह्मणेभ्योऽभयं महत् । तच्छ्रुत्वा प्राञ्जलिः प्राह भरतो राघवाय वै ॥ १२॥ अहमेव हनिष्यामि देवाज्ञापय मां प्रभो । ततो रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीत् ॥ १३॥ लक्ष्मणेन महत्कार्यं कृतं राघव संयुगे । नन्दिग्रामे महाबुद्धिर्भरतो दुःखमन्वभूत् ॥ १४॥ अहमेव गमिष्यामि लवणस्य वधाय च । त्वत्प्रसादाद्रघुश्रेष्ठ हन्यां तं राक्षसं युधि ॥ १५॥ तच्छ्रुत्वा स्वाङ्कमारोप्य शत्रुघ्नं शत्रुसूदनः । प्राहाद्यैवाभिषेक्ष्यामि मथुराराज्यकारणात् ॥ १६॥ आनाय्य च सुसम्भारान् लक्षमणेनाभिषेचने । अनिच्छन्तमपि स्नेहादभिषेकमकारयत् ॥ १७॥ दत्त्वा तस्मै शरं दिव्यं रामः शत्रुघ्नमब्रवीत् । अनेन जहि बाणेन लवणं लोककण्टकम् ॥ १८॥ स तु सम्पूज्य तच्छूलं गेहे गच्छति काननम् । भक्षणार्थं तु जन्तूनां नानाप्राणिवधाय च ॥ १९॥ स तु नायाति सदनं यावद्वनचरो भवेत् । तावदेव पुरद्वारि तिष्ठ त्वं धृतकार्मुकः ॥ २०॥ योत्स्यते स त्वया क्रुद्धस्तदा वध्यो भविष्यति । तं हत्वा लवणं क्रूरं तद्वनं मधुसञ्ज्ञितम् ॥ २१॥ निवेश्य नगरं तत्र तिष्ठ त्वं मेऽनुशासनात् । अश्वानां पञ्चसाहस्रं रथानां च तदर्धकम् ॥ २२॥ गजानां षट् शतानीह पत्तीनामयुतत्रयम् । आगमिष्यति पश्चात्त्वमग्रे साधय राक्षसम् ॥ २३॥ इत्युक्त्वा मूर्ध्न्यवघ्राय प्रेषयामास राघवः । शत्रुघ्नं मुनिभिः सार्धमाशीर्भिरभिनन्द्य च ॥ २४॥ शत्रुघ्नोऽपि तथा चक्रे यथा रामेण चोदितः । हत्वा मधुसुतं युद्धे मथुरामकरोत्पुरीम् ॥ २५॥ स्फीतां जनपदां चक्रे मथुरां दानमानतः । सीतापि सुषुवे पुत्रौ द्वौ वाल्मीकेरथाश्रमे ॥ २६॥ मुनिस्तयोर्नाम चक्रे कुशो ज्येष्ठोऽनुजो लवः । क्रमेण विद्यासम्पन्नौ सीतापुत्रौ बभूवतुः ॥ २७॥ उपनीतौ च मुनिना वेदाध्ययनतत्परौ । कृत्स्नं रामायणं प्राह काव्यं बालकयोर्मुनिः ॥ २८॥ शङ्करेण पुरा प्रोक्तं पार्वत्यै पुरहारिणा । वेदोपबृंहनार्थाय तावग्राहयत प्रभुः ॥ २९॥ कुमारौ स्वरसम्पन्नौ सुन्दरावश्विनाविव । तन्त्रीतालसमायुक्तौ गायन्तौ चेरतुर्वने ॥ ३०॥ तत्र तत्र मुनीनां तौ समाजे सुररूपिणौ । गायन्तावभितो दृष्ट्वा विस्मिता मुनयोऽब्रुवन् ॥ ३१॥ गन्धर्वेष्विव किन्नरेषु भुवि वा देवेषु देवालये पातालेष्वथवा चतुर्मुखगृहे लोकेषु सर्वेषु च । अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्वा दिशः सर्वतो नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च ॥ ३२॥ एवं स्तुवद्भिरखिलैर्मुनिभिः प्रतिवासरम् । आसाते सुखमेकान्ते वाल्मीकेराश्रमे चिरम् ॥ ३३॥ अथ रामोऽश्वमेधादींश्चकार बहुदक्षिणान् । यज्ञान् स्वर्णमयीं सीतां विधाय विपुलद्युतिः ॥ ३४॥ तस्मिन् विताने ऋषयः सर्वे राजर्षयस्तथा । ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुर्दिदृक्षवः ॥ ३५॥ वाल्मीकिरपि सङ्गृह्य गायन्तौ तौ कुशीलवौ । जगाम ऋषिवाटस्य समीपं मुनिपुङ्गवः ॥ ३६॥ तत्रैकान्ते स्थितं शान्तं समाधिविरमे मुनिम् । कुशः पप्रच्छ वाल्मीकिं ज्ञानशास्त्रं कथान्तरे ॥ ३७॥ भगवन् श्रोतुमिच्छामि सङ्क्षेपाद्भवतोऽखिलम् । देहिनः संसृतिर्बन्धः कथमुत्पद्यते दृढः ॥ ३८॥ कथं विमुच्यते देही दृढबन्धाद्भवाभिधात् । वक्तुमर्हसि सर्वज्ञ मह्यं शिष्याय ते मुने ॥ ३९॥ वाल्मीकिरुवाच । शृणु वक्ष्यामि ते सर्वं सङ्क्षेपाद्बन्धमोक्षयोः । स्वरूपं साधनं चापि मत्तः श्रुत्वा यथोदितम् ॥ ४०॥ तथैवाचर भद्रं ते जीवन्मुक्तो भविष्यसि । देह एव महागेहमदेहस्य चिदात्मनः ॥ ४१॥ तस्याहङ्कार एवास्मिन्मन्त्री तेनैव कल्पितः । देहगेहाभिमानं स्वं समारोप्य चिदात्मनि ॥ ४२॥ तेन तादात्म्यमापन्नः स्वचेष्टितमशेषतः । विदधाति चिदानन्दे तद्वासितवपुः स्वयम् ॥ ४३॥ तेन सङ्कल्पितो देही सङ्कल्पनिगडावृतः । पुत्रदारगृहादीनि सङ्कल्पयति चानिशम् ॥ ४४॥ सङ्कल्पयन् स्वयं देही परिशोचति सर्वदा । त्रयस्तस्याहमो देहा अधमोत्तममध्यमाः ॥ ४५॥ तमः सत्त्वरजः सञ्ज्ञा जगतः कारणं स्थितेः । तमोरूपाद्धि सङ्कल्पान्नित्यं तामसचेष्टया ॥ ४६॥ अत्यन्तं तामसो भूत्वा कृमिकीटत्वमाप्नुयात् । सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः ॥ ४७॥ अदूरमोक्षसाम्राज्यः सुखरूपो हि तिष्ठति । रजोरूपो हि सङ्कल्पो लोके स व्यवहारवान् ॥ ४८॥ परितिष्ठति संसारे पुत्रदारानुरञ्जितः । त्रिविधं तु परित्यज्य रूपमेतन्महामते ॥ ४९॥ सङ्कल्पं परमाप्नोति पदमात्मपरिक्षये । दृष्टीः सर्वाः परित्यज्य नियम्य मनसा मनः ॥ ५०॥ सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु । यदि वर्षसहस्राणि तपश्चरसि दारुणम् ॥ ५१॥ पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तेऽनघ । नान्यः कश्चिदुपायोऽस्ति सङ्कल्पोपशमादृते ॥ ५२॥ अनाबाधेऽविकारे स्वे सुखे परमपावने । सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु ॥ ५३॥ सङ्कल्पतन्तौ निखिला भावाः प्रोताः किलानघ । छिन्ने तन्तौ न जानीमः क्व यान्ति विभवाः पराः ॥ ५४॥ निःसङ्कल्पो यथाप्राप्तव्यवहारपरो भव । क्षये सङ्कल्पजालस्य जीवो ब्रह्मत्वमाप्नुयात् ॥ ५५॥ अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः । अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥ ५६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे षष्ठः सर्गः ॥ ६॥

॥ सप्तम सर्गः ॥

श्रीमहादेव उवाच । वाल्मीकिना बोधितोऽसौ कुशः सद्योगतभ्रमः । अन्तर्मुक्तो बहिः सर्वमनुकुर्वंश्चकार सः ॥ १॥ वाल्मीकिरपि तौ प्राह सीतापुत्रौ महाधियौ । तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः ॥ २॥ रामस्याग्रे प्रगायेतं शुश्रूषुर्यदि राघवः । न ग्राह्यं वै युवाभ्यां तद्यदि किञ्चित्प्रदास्यति ॥ ३॥ इति तौ चोदितौ तत्र गायमानौ विचेरतुः । यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥ ४॥ तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः । अपूर्वपाठजातिं च गेयेन समभिप्लुताम् ॥ ५॥ बालयो राघवः श्रुत्वा कौतूहलमुपेयिवान् । अथ कर्मान्तरे राजा समाहूय महामुनीन् ॥ ६॥ राज्ञश्चैव नरव्याघ्रः पण्डितांश्चैव नैगमान् । पौराणिकान् शब्दविदो ये च वृद्धा द्विजातयः ॥ ७॥ एतान् सर्वान् समाहूय गायकौ समवेशयत् । ते सर्वे हृष्टमनसो राजानो ब्राह्मणादयः ॥ ८॥ रामं तौ दारकौ दृष्ट्वा विस्मिताः ह्यनिमेषणाः । अवोचन् सर्व एवैते परस्परमथागताः ॥ ९॥ इमौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोदितौ । जटिलौ यदि न स्यातां न च वल्कलधारिणौ ॥ १०॥ विशेषं नाधिगच्छामो राघवस्यानयोस्तदा । एवं संवदतां तेषां विस्मितानां परस्परम् ॥ ११॥ उपचक्रमतुर्गातुं तावुभौ मुनिदारकौ । ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥ १२॥ श्रुत्वा तन्मधुरं गीतमपराह्णे रघूत्तमः । उवाच भरतं चाभ्यां दीयतामयुतं वसु ॥ १३॥ दीयमानं सुवर्णं तु न तज्जगृहतुस्तदा । किमनेन सुवर्णेन राजन्नौ वन्यभोजनौ ॥ १४॥ इति सन्त्यज्य सन्दत्तं जग्मतुर्मुनिसन्निधिम् । एवं श्रुत्वा तु चरितं रामः स्वस्यैव विस्मितः ॥ १५॥ ज्ञात्वा सीताकुमारौ तौ शत्रुघ्नं चेदमब्रवीत् । हनूमन्तं सुषेणं च विभीषणमथाङ्गदम् ॥ १६॥ भगवन्तं महात्मानं वाल्मीकिं मुनिसत्तमम् । आनयध्वं मुनिवरं ससीतं देवसम्मितम् ॥ १७॥ अस्यास्तु पर्षदो मध्ये प्रत्ययं जनकात्मजा । करोतु शपथं सर्वे जानन्तु गतकल्मषाम् ॥ १८॥ सीतां तद्वचनं श्रुत्वा गताः सर्वेऽतिविस्मिताः । ऊचुर्यथोक्तं रामेण वाल्मीकिं रामपार्षदाः ॥ १९॥ रामस्य हृद्गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीत् । श्वः करिष्यति वै सीता शपथं जनसंसदि ॥ २०॥ योषितां परमं दैवं पतिरेव न संशयः । तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनेर्वचः ॥ २१॥ राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा । राजानो मुनयः सर्वे शृणुध्वमिति चाब्रवीत् ॥ २२॥ सीतायाः शपथं लोका विजानन्तु शुभाशुभम् । इत्युक्ता राघवेणाथ लोकाः सर्वे दिदृक्षवः ॥ २३॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महर्षयः । वानराश्च समाजग्मुः कौतूहलसमन्विताः ॥ २४॥ ततो मुनिवरस्तूर्णं ससीतः समुपागमत् । अग्रतस्तमृषिं कृत्वाऽऽयान्ती किञ्चिदवाङ्मुखी ॥ २५॥ कृताञ्जलिर्बाष्पकण्ठा सीता यज्ञं विवेश तम् । दृष्ट्वा लक्ष्मीमिवायान्तीं ब्रह्माणमनुयायिनीम् ॥ २६॥ वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् । तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ॥ २७॥ सीतासहायो वाल्मीकिरिति प्राह च राघवम् । इयं दाशरथे सीता सुव्रता धर्मचारिणी ॥ २८॥ अपापा ते पुरा त्यक्ता ममाश्रमसमीपतः । लोकापवादभीतेन त्वया राम महावने ॥ २९॥ प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि । इमौ तु सीतातनयाविमौ यमलजातकौ ॥ ३०॥ सुतौ तु तव दुर्धर्षौ तथ्यमेतद्ब्रवीमि ते । प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह ॥ ३१॥ अनृतं न स्मराम्युक्तं तथेमौ तव पुत्रकौ । बहून् वर्षगणान् सम्यक् तपश्चर्या मया कृता ॥ ३२॥ नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली । वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ॥ ३३॥ एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत । प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः ॥ ३४॥ लङ्कायामपि दत्तो मे वैदेह्या प्रत्ययो महान् । देवानां पुरतस्तेन मन्दिरे सम्प्रवेशिता ॥ ३५॥ सेयं लोकभयाद्ब्रह्मन्नपापाऽपि सती पुरा । सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति ॥ ३६॥ ममैव जातौ जानामि पुत्रावेतौ कुशीलवौ । शुद्धायां जगतीमध्ये सीतायां प्रीतिरस्तु मे ॥ ३७॥ देवाः सर्वे परिज्ञाय रामाभिप्रायमुत्सुकाः । ब्रह्माणमग्रतः कृत्वा समाजग्मुः सहस्रशः ॥ ३८॥ प्रजाः समागमन् हृष्टाः सीता कौशेयवासिनी । उदङ्मुखी ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ३९॥ रामादन्यं यथाहं वै मनसापि न चिन्तये । तथा मे धरणी देवी विवरं दातुमर्हति ॥ ४०॥ तथा शपन्त्याः सीतायाः प्रादुरासीन्महाद्भुतम् । भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम् ॥ ४१॥ नागेन्द्रैर्ध्रियमाणं च दिव्यदेहै रविप्रभम् । भूदेवी जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुता ॥ ४२॥ स्वागतं तामुवाचैनामासने संन्यवेशयत् । सिंहासनस्थां वैदेहीं प्रविशन्तीं रसातलम् ॥ ४३॥ निरन्तरा पुष्पवृष्टिर्दिव्या सीतामवाकिरत् । साधुवादश्च सुमहान् देवानां परमाद्भुतः ॥ ४४॥ ऊचुश्च बहुधा वाचो ह्यन्तरिक्षगताः सुराः । अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ॥ ४५॥ वानराश्च महाकायाः सीताशपथकारणात् । केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः ॥ ४६॥ केचिद्रामं निरीक्षन्तः केचित्सीतामचेतसः । मुहूर्तमात्रं तत्सर्वं तूष्णीम्भूतमचेतनम् ॥ ४७॥ सीताप्रवेशनं दृष्ट्वा सर्वं सम्मोहितं जगत् । रामस्तु सर्वं ज्ञात्वैव भविष्यत्कार्यगौरवम् ॥ ४८॥ अजानन्निव दुःखेन शुशोच जनकात्मजाम् । ब्रह्मणा ऋषिभिः सार्धं बोधितो रघुनन्दनः ॥ ४९॥ प्रतिबुद्ध इव स्वप्नाच्चकारानन्तराः क्रियाः । विससर्ज ऋषीन् सर्वानृत्विजो ये समागताः ॥ ५०॥ तान् सर्वान् धनरत्नाद्यैस्तोषयामास भूरिशः । उपादाय कुमारौ तावयोध्यामगमत्प्रभुः ॥ ५१॥ तदादि निःस्पृहो रामः सर्वभोगेषु सर्वदा । आत्मचिन्तापरो नित्यमेकान्ते समुपस्थितः ॥ ५२॥ एकान्ते ध्याननिरते एकदा राघवे सति । ज्ञात्वा नारायणं साक्षात्कौसल्या प्रियवादिनी ॥ ५३॥ भक्त्यागत्य प्रसन्नं तं प्रणता प्राह हृष्टधीः । राम त्वं जगतामादिरादिमध्यान्तवर्जितः ॥ ५४॥ परमात्मा परानन्दः पूर्णः पुरुष ईश्वरः । जातोऽसि मे गर्भगृहे मम पुण्यातिरेकतः ॥ ५५॥ अवसाने ममाप्यद्य समयोऽभूद्रघूत्तम । नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते ॥ ५६॥ इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम् । यथा सङ्क्षेपतो भूयात्तथा बोधय मां विभो ॥ ५७॥ निर्वेदवादिनीमेवं मातरं मातृवत्सलः । दयालुः प्राह धर्मात्मा जराजर्जरितां शुभाम् ॥ ५८॥ मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः । कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः ॥ ५९॥ भक्तिर्विभिद्यते मातस्त्रिविधा गुणभेदतः । स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते ॥ ६०॥ यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा । भेददृष्टिश्च संरम्भी भक्तो मे तामसः स्मृतः ॥ ६१॥ फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा । अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु राजसः ॥ ६२॥ परस्मिन्नर्पितं यस्तु कर्मनिर्हरणाय वा । कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स सात्त्विकः ॥ ६३॥ मद्गुणाश्रयणादेव मय्यनन्तगुणालये । अविच्छिन्ना मनोवृत्तिर्यथा गङ्गाम्बुनोऽम्बुधौ ॥ ६४॥ तदेव भक्तियोगस्य लक्षणं निर्गुणस्य हि । अहैतुक्यव्यवहिता या भक्तिर्मयि जायते ॥ ६५॥ सा मे सालोक्यसामीप्यसार्ष्टिसायुज्यमेव वा । ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना ॥ ६६॥ स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि । मद्भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम् ॥ ६७॥ महता कामहीनेन स्वधर्माचरणेन च । कर्मयोगेन शस्तेन वर्जितेन विहिंसनात् ॥ ६८॥ मद्दर्शनस्तुतिमहापूजाभिः स्मृतिवन्दनैः । भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः ॥ ६९॥ बहुमानेन महतां दुःखिनामनुकम्पया । स्वसमानेषु मैत्र्या च यमादीनां निषेवया ॥ ७०॥ वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनात् । सत्सङ्गेनार्जवेनैव ह्यहमः परिवर्जनात् ॥ ७१॥ काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः । मद्गुणश्रवणादेव याति मामञ्जसा जनः ॥ ७२॥ यथा वायुवशाद्गन्धः स्वाश्रयाद्घ्राणमाविशेत् । योगाभ्यासरतं चित्तमेवमात्मानमाविशेत् ॥ ७३॥ सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः । तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः ॥ ७४॥ क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्ब तोषणम् । भूतावमानिनार्चायामर्चितोऽहं न पूजितः ॥ ७५॥ तावन्मामर्चयेद्देवं प्रतिमादौ स्वकर्मभिः । यावत्सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत् ॥ ७६॥ यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च । भिन्नदृष्टेर्भयं मृत्युस्तस्य कुर्यान्न संशयः ॥ ७७॥ मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम् । एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः ॥ ७८॥ चेतसैवानिशं सर्वभूतानि प्रणमेत्सुधीः । ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम् ॥ ७९॥ तस्मात्कदाचिन्नेक्षेत भेदमीश्वरजीवयोः । भक्तियोगो ज्ञानयोगो मया मातरुदीरितः ॥ ८०॥ आलम्ब्यैकतरं वापि पुरुषः शुभमृच्छति । ततो मां भक्तियोगेन मातः सर्वहृदि स्थितम् ॥ ८१॥ पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि । श्रुत्वा रामस्य वचनं कौसल्याऽऽनन्दसंयुता ॥ ८२॥ रामं सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम् । अतिक्रम्य गतीस्तिस्रोऽप्यवाप परमां गतिम् ॥ ८३॥ कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्य श्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः । गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थे माता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम् ॥ ८४॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः सर्गः ॥ ७॥

॥ अष्टम सर्गः ॥

श्रीमहादेव उवाच । अथ काले गते कस्मिन् भरतो भीमविक्रमः । युधाजिता मातुलेन ह्याहूतोऽगात्ससैनिकः ॥ १॥ रामाज्ञया गतस्तत्र हत्वा गन्धर्वनायकान् । तिस्रः कोटीः पुरे द्वे तु निवेश्य रघुनन्दनः ॥ २॥ पुष्करं पुष्करावत्यां तक्षं तक्षशिलाह्वये । अभिषिच्य सुतौ तत्र धनधान्यसुहृद्वृतौ ॥ ३॥ पुनरागत्य भरतो रामसेवापरोऽभवत् । ततः प्रीतो रघुश्रेष्ठो लक्ष्मणं प्राह सादरम् ॥ ४॥ उभौ कुमारौ सौमित्रे गृहीत्वा पश्चिमां दिशम् । तत्र भिल्लान् विनिर्जित्य दुष्टान् सर्वापकारिणः ॥ ५॥ अङ्गदश्चित्रकेतुश्च महासत्त्वपराक्रमौ । द्वयोर्द्वे नगरे कृत्वा गजाश्वधनरत्नकैः ॥ ६॥ अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः । रामस्याज्ञां पुरस्कृत्य गजाश्वबलवाहनः ॥ ७॥ गत्वा हत्वा रिपून् सर्वान् स्थापयित्वा कुमारकौ । सौमित्रिः पुनरागत्य रामसेवापरोऽभवत् ॥ ८॥ ततस्तु काले महति प्रयाते रामं सदा धर्मपथे स्थितं हरिम् । द्रष्टुं समागादृषिवेषधारी कालस्ततो लक्ष्मणमित्युवाच ॥ ९॥ निवेदयस्वातिबलस्य दूतं मां द्रष्टुकामं पुरुषोत्तमाय । रामाय विज्ञापनमस्ति तस्य महर्षिमुख्यस्य चिराय धीमन् ॥ १०॥ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः । आचचक्षेऽथ रामाय स सम्प्राप्तं तपोधनम् ॥ ११॥ एवं ब्रुवन्तं प्रोवाच लक्ष्मणं राघवो वचः । शीघ्रं प्रवेश्यतां तात मुनिः सत्कारपूर्वकम् ॥ १२॥ लक्ष्मणस्तु तथेत्युक्त्वा प्रावेशयत तापसम् । स्वतेजसा ज्वलन्तं तं घृतसिक्तं यथानलम् ॥ १३॥ सोऽभिगम्य रघुश्रेष्ठं दीप्यमानः स्वतेजसा । मुनिर्मधुरवाक्येन वर्धस्वेत्याह राघवम् ॥ १४॥ तस्मै स मुनये रामः पूजां कृत्वा यथाविधि । पृष्ट्वानामयमव्यग्रो रामः पृष्टोऽथ तेन सः ॥ १५॥ दिव्यासने समासीनो रामः प्रोवाच तापसम् । यदर्थमागतोऽसि त्वमिह तत्प्रापयस्व मे ॥ १६॥ वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः । द्वन्द्वमेव प्रयोक्तव्यमनालक्ष्यं तु तद्वचः ॥ १७॥ नान्येन चैतच्छ्रोतव्यं नाख्यातव्यं च कस्यचित् । शृणुयाद्वा निरीक्षेद्वा यः स वध्यस्त्वया प्रभो ॥ १८॥ तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । तिष्ठ त्वं द्वारि सौमित्रे नायात्वत्र जनो रहः ॥ १९॥ यद्यागच्छति को वापि स वध्यो मे न संशयः । ततः प्राह मुनिं रामो येन वा त्वं विसर्जितः ॥ २०॥ यत्ते मनीषितं वाक्यं तद्वदस्व ममाग्रतः । ततः प्राह मुनिर्वाक्यं शृणु राम यथातथम् ॥ २१॥ ब्रह्मणा प्रेषितोऽस्मीश कार्यार्थे तेऽन्तिकं प्रभो । अहं हि पूर्वजो देव तव पुत्रः परन्तप ॥ २२॥ मायासङ्गमजो वीर कालः सर्वहरः स्मृतः । ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः ॥ २३॥ रक्षितुं स्वर्गलोकस्य समयस्ते महामते । पुरा त्वमेक एवासीर्लोकान् संहृत्य मायया ॥ २४॥ भार्यया सहितस्त्वं मामादौ पुत्रमजीजनः । तथा भोगवतं नागमनन्तमुदकेशयम् ॥ २५॥ मायया जनयित्वा त्वं द्वौ ससत्त्वौ महाबलौ । मधुकैटभकौ दैत्यौ हत्वा मेदोऽस्थिसञ्चयम् ॥ २६॥ इमां पर्वतसम्बद्धां मेदिनीं पुरुषर्षभ । पद्मे दिव्यार्कसङ्काशे नाभ्यामुत्पाद्य मामपि ॥ २७॥ मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयत् । सोऽहं संयुक्तसम्भारस्त्वामवोचं जगत्पते ॥ २८॥ रक्षां विधत्स्व भूतेभ्यो ये मे वीर्यापहारिणः । ततस्त्वं कश्यपाज्जातो विष्णुर्वामनरूपधृक् ॥ २९॥ हृतवानसि भूभारं वधाद्रक्षोगणस्य च । सर्वासूत्सार्यमाणासु प्रजासु धरणीधर ॥ ३०॥ रावणस्य वधाकाङ्क्षी मर्त्यलोकमुपागतः । दशवर्षसहस्राणि दशवर्षशतानि च ॥ ३१॥ कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा । स ते मनोरथः पूर्णः पूर्णे चायुषि ते नृषु ॥ ३२॥ कालस्तापसरूपेण त्वत्समीपमुपागमत् । ततो भूयश्च ते बुद्धिर्यदि राज्यमुपासितुम् ॥ ३३॥ तत्तथा भव भद्रं ते एवमाह पितामहः । यदि ते गमने बुद्धिर्देवलोकं जितेन्द्रिय ॥ ३४॥ सनाथा विष्णुना देवा भजन्तु विगतज्वराः । चतुर्मुखस्य तद्वाक्यं श्रुत्वा कालेन भाषितम् ॥ ३५॥ हसन् रामस्तदा वाक्यं कृत्स्नस्यान्तकमब्रवीत् । श्रुतं तव वचो मेऽद्य ममापीष्टतरं तु तत् ॥ ३६॥ सन्तोषः परमो ज्ञेयस्त्वदागमनकारणात् । त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ॥ ३७॥ भद्रं तेऽस्त्वागमिष्यामि यत एवाहमागतः । मनोरथस्तु सम्प्राप्तो न मेऽत्रास्ति विचारणा ॥ ३८॥ मत्सेवकानां देवानां सर्वकार्येषु वै मया । स्थातव्यं मायया पुत्र यथा चाह प्रजापतिः ॥ ३९॥ एवं तयोः कथयतोर्दुर्वासा मुनिरभ्यगात् । राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम् ॥ ४०॥ मुनिर्लक्ष्मणमासाद्य दुर्वासा वाक्यमब्रवीत् । शीघ्रं दर्शय रामं मे कार्यं मेऽत्यन्तमाहितम् ॥ ४१॥ तच्छ्रुत्वा प्राह सौमित्रिर्मुनिं ज्वलनतेजसम् । रामेण कार्यं किं तेऽद्य किं तेऽभीष्टं करोम्यहम् ॥ ४२॥ राजा कार्यान्तरे व्यग्रो मुहूर्तं सम्प्रतीक्ष्यताम् । तच्छ्रुत्वा क्रोधसन्तप्तो मुनिः सौमित्रिमब्रवीत् ॥ ४३॥ अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुम् । रामं सविषयं वंशं भस्मीकुर्यां न संशयः ॥ ४४॥ श्रुत्वा तद्वचनं घोरमृषेर्दुर्वाससो भृशम् । स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः ॥ ४५॥ सर्वनाशाद्वरं मेऽद्य नाशो ह्येकस्य कारणात् । निश्चित्यैवं ततो गत्वा रामाय प्राह लक्ष्मणः ॥ ४६॥ सौमित्रेर्वचनं श्रुत्वा रामः कालं व्यसर्जयत् । शीघ्रं निर्गम्य रामोऽपि ददर्शात्रेः सुतं मुनिम् ॥ ४७॥ रामोऽभिवाद्य सम्प्रीतो मुनिं पप्रच्छ सादरम् । किं कार्यं ते करोमीति मुनिमाह रघूत्तमः ॥ ४८॥ तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीत् । अद्य वर्षसहस्राणामुपवाससमापनम् ॥ ४९॥ अतो भोजनमिच्छामि सिद्धं यत्ते रघूत्तम । रामो मुनिवचः श्रुत्वा सन्तोषेण समन्वितः ॥ ५०॥ स सिद्धमन्नं मुनये यथावत्समुपाहरत् । मुनिर्भुक्त्वान्नममृतं सन्तुष्टः पुनरभ्यगात् ॥ ५१॥ स्वमाश्रमं गते तस्मिन् रामः सस्मार भाषितम् । कालेन शोकदुःखार्तो विमनाश्चातिविह्वलः ॥ ५२॥ अवाङ्मुखो दीनमना न शशाकाभिभाषितुम् । मनसा लक्ष्मणं ज्ञात्वा हतप्रायं रघूद्वहः ॥ ५३॥ अवाङ्मुखो बभूवाथ तूष्णीमेवाखिलेश्वरः । ततो रामं विलोक्याह सौमित्रिर्दुःखसम्प्लुतम् ॥ ५४॥ तूष्णीम्भूतं चिन्तयन्तं गर्हन्तं स्नेहबन्धनम् । मत्कृते त्यज सन्तापं जहि मां रघुनन्दन ॥ ५५॥ गतिः कालस्य कलिता पूर्वमेवेदृशी प्रभो । त्वयि हीनप्रतिज्ञे तु नरको मे ध्रुवं भवेत् ॥ ५६॥ मयि प्रीतिर्यदि भवेद्यद्यनुग्राह्यता तव । त्यक्त्वा शङ्कां जहि प्राज्ञ मा मा धर्मं त्यज प्रभो ॥ ५७॥ सौमित्रिणोक्तं तच्छ्रुत्वा रामश्चलितमानसः । आहूय मन्त्रिणः सर्वान् वसिष्ठं चेदमब्रवीत् ॥ ५८॥ मुनेरागमनं यत्तु कालस्यापि हि भाषितम् । प्रतिज्ञामात्मनश्चैव सर्वमावेदयत्प्रभुः ॥ ५९॥ श्रुत्वा रामस्य वचनं मन्त्रिणः सपुरोहिताः । ऊचुः प्राञ्जलयः सर्वे राममक्लिष्टकारिणम् ॥ ६०॥ पूर्वमेव हि निर्दिष्टं तव भूभारहारिणः । लक्ष्मणेन वियोगस्ते ज्ञातो विज्ञानचक्षुषा ॥ ६१॥ त्यजाशु लक्ष्मणं राम मा प्रतिज्ञां त्यज प्रभो । प्रतिज्ञाते परित्यक्ते धर्मो भवति निष्फलः ॥ ६२॥ धर्मे नष्टेऽखिले राम त्रैलोक्यं नश्यति ध्रुवम् । त्वं तु सर्वस्य लोकस्य पालकोऽसि रघूत्तम ॥ ६३॥ त्यक्त्वा लक्ष्मणमेवैकं त्रैलोक्यं त्रातुमर्हसि । रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितम् ॥ ६४॥ सभामध्ये समाश्रुत्य प्राह सौमित्रिमञ्जसा । यथेष्टं गच्छ सौमित्रे मा भूद्धर्मस्य संशयः ॥ ६५॥ परित्यागो वधो वापि सतामेवोभयं समम् । एवमुक्ते रघुश्रेष्ठे दुःखव्याकुलितेक्षणः ॥ ६६॥ रामं प्रणम्य सौमित्रिः शीघ्रं गृहमगात्स्वकम् । ततोऽगात्सरयूतीरमाचम्य स कृताञ्जलिः ॥ ६७॥ नव द्वाराणि संयम्य मूर्ध्नि प्राणमधारयत् । यदक्षरं परं ब्रह्म वासुदेवाख्यमव्ययम् ॥ ६८॥ पदं तत्परमं धाम चेतसा सोऽभ्यचिन्तयत् । वायुरोधेन संयुक्तं सर्वे देवाः सहर्षयः ॥ ६९॥ साग्नयो लक्ष्मणं पुष्पैस्तुष्टुवुश्च समाकिरन् । अदृश्यं विबुधैः कैश्चित्सशरीरं च वासवः ॥ ७०॥ गृहीत्वा लक्ष्मणं शक्रः स्वर्गलोकमथागमत् । ततो विष्णोश्चतुर्भागं तं देवं सुरसत्तमाः । सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं समपूजयन् ॥ ७१॥ लक्ष्मणे हि दिवमागते हरौ सिद्धलोकगतयोगिनस्तदा । ब्रह्मणा सह समागमन्मुदा द्रष्टुमाहितमहाहिरूपकम् ॥ ७२॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे अष्टमः सर्गः ॥ ८॥

॥ नवम सर्गः ॥

श्री महादेव उवाच । लक्ष्मणं तु परित्यज्य रामो दुःखसमन्वितः । मन्त्रिणो नैगमांश्चैव वसिष्ठं चेदमब्रवीत् ॥ १॥ अभिषेक्ष्यामि भरतमधिराज्ये महामतिम् । अद्य चाहं गमिष्यामि लक्ष्मणस्य पदानुगः ॥ २॥ एवमुक्ते रघुश्रेष्ठे पौरजानपदास्तदा । द्रुमा इवच्छिन्नमूला दुःखार्ताः पतिता भुवि ॥ ३॥ मूर्च्छितो भरतो वापि श्रुत्वा रामाभिभाषितम् । गर्हयामास राज्यं स प्राहेदं रामसन्निधौ ॥ ४॥ सत्येन च शपे नाहं त्वां विना दिवि वा भुवि । काङ्क्षे राज्यं रघुश्रेष्ठ शपे त्वत्पादयोः प्रभो ॥ ५॥ इमौ कुशलवौ राजन्नभिषिञ्चस्व राघव । कोसलेषु कुशं वीरमुत्तरेषु लवं तथा ॥ ६॥ गच्छन्तु दूतास्त्वरितं शत्रुघ्नानयनाय हि । अस्माकमेतद्गमनं स्वर्वासाय शृणोतु सः ॥ ७॥ भरतेनोदितं श्रुत्वा पतितास्ताः समीक्ष्य तम् । प्रजाश्च भयसंविग्ना रामविश्लेषकातराः ॥ ८॥ वसिष्ठो भगवान् राममुवाच सदयं वचः । पश्य तातादरात्सर्वाः पतिता भूतले प्रजाः ॥ ९॥ तासां भावानुगं राम प्रसादं कर्तुमर्हसि । श्रुत्वा वसिष्ठवचनं ताः समुत्थाप्य पूज्य च ॥ १०॥ सस्नेहो रघुनाथस्ताः किं करोमीति चाब्रवीत् । ततः प्राञ्जलयः प्रोचुः प्रजा भक्त्या रघूद्वहम् ॥ ११॥ गन्तुमिच्छसि यत्र त्वमनुगच्छामहे वयम् । अस्माकमेषा परमा प्रीतिर्धर्मोऽयमक्षयः ॥ १२॥ तवानुगमने राम हृद्गता नो दृढा मतिः । पुत्रदारादिभिः सार्धमनुयामोऽद्य सर्वथा ॥ १३॥ तपोवनं वा स्वर्गं वा पुरं वा रघुनन्दन । ज्ञात्वा तेषां मनोदार्ढ्यं कालस्य वचनं तथा ॥ १४॥ भक्तं पौरजनं चैव बाढमित्याह राघवः । कृत्वैव निश्चयं रामस्तस्मिन्नेवाहनि प्रभुः ॥ १५॥ प्रस्थापयामास च तौ रामभद्रः कुशीलवौ । अष्टौ रथसहस्राणि सहस्रं चैव दन्तिनाम् ॥ १६॥ षष्टिं चाश्वसहस्राणामेकैकस्मै ददौ बलम् । बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ॥ १७॥ अभिवाद्य गतौ रामं कृच्छ्रेण तु कुशीलवौ । शत्रुघ्नानयने दूतान् प्रेषयामास राघवः ॥ १८॥ ते दूतास्त्वरितं गत्वा शत्रुघ्नाय न्यवेदयन् । कालस्यागमनं पश्चादत्रिपुत्रस्य चेष्टितम् ॥ १९॥ लक्ष्मणस्य च निर्याणं प्रतिज्ञां राघवस्य च । पुत्राभिषेचनं चैव सर्वं रामचिकीर्षितम् ॥ २०॥ श्रुत्वा तद्दूतवचनं श्त्रुघ्नः कुलनाशनम् । व्यथितोऽपि धृतिं लब्ध्वा पुत्रावाहूय सत्वरः । अभिषिच्य सुबाहुं वै मथुरायां महाबलः ॥ २१॥ यूपकेतुं च विदिशानगरे शत्रुसूदनः । अयोध्यां त्वरितं प्रागात्स्वयं रामदिदृक्षया ॥ २२॥ ददर्श च महात्मानं तेजसा ज्वलनप्रभम् । दुकूलयुगसंवीतं ऋषिभिश्चाक्षयैर्वृतम् ॥ २३॥ अभिवाद्य रमानाथं शत्रुघ्नो रघुपुङ्गवम् । प्राञ्जलिर्धर्मसहितं वाक्यं प्राह महामतिः ॥ २४॥ अभिषिच्य सुतौ तत्र राज्ये राजीवलोचन । तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ २५॥ त्यक्तुं नार्हसि मां वीर भक्तं तव विशेषतः । शत्रुघ्नस्य दृढां बुद्धिं विज्ञाय रघुनन्दनः ॥ २६॥ सज्जीभवतु मध्याह्ने भवानित्यब्रवीद्वचः । अथ क्षणात्समुत्पेतुर्वानराः कामरूपिणः ॥ २७॥ ऋक्षाश्च राक्षसाश्चैव गोपुच्छाश्च सहस्रशः । ऋषीणां देवतानां च पुत्रा रामस्य निर्गमम् ॥ २८॥ श्रुत्वा प्रोचू रघुश्रेष्ठं सर्वे वानरराक्षसाः । तवानुगमने विद्धि निश्चितार्थान् हि नः प्रभो ॥ २९॥ एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः । यथावदभिवाद्याह राघवं भक्तवत्सलम् ॥ ३०॥ अभिषिच्याङ्गदं राज्ये आगतोऽस्मि महाबलम् । तवानुगमने राम विद्धि मां कृतनिश्चयम् ॥ ३१॥ श्रुत्वा तेषां दृढं वाक्यं ऋक्षवानररक्षसाम् । विभीषणमुवाचेदं वचनं मृदु सादरम् ॥ ३२॥ धरिष्यति धरा यावत्प्रजास्तावत्प्रशाधि मे । वचनाद्राक्षसं राज्यं शापितोऽसि ममोपरि ॥ ३३॥ न किञ्चिदुत्तरं वाच्यं त्वया मत्कृतकारणात् । एवं विभीषणं तूक्त्वा हनूमन्तमथाब्रवीत् ॥ ३४॥ मारुते त्वं चिरञ्जीव ममाज्ञां मा मृषा कृथाः । जाम्बवन्तमथ प्राह तिष्ठ त्वं द्वापरान्तरे । ३५॥ मया सार्धं भवेद्युद्धं यत्किञ्चित्कारणान्तरे । ततस्तान् राघवः प्राह ऋक्षराक्षसवानरान् । सर्वानेव मया सार्धं प्रयातेति दयान्वितः ॥ ३६॥ ततः प्रभाते रघुवंशनाथो विशालवक्षाः सितकञ्जनेत्रः । पुरोधसं प्राह वसिष्ठमार्यं यान्त्वग्निहोत्राणि पुरो गुरो मे । ३७॥ ततो वसिष्ठोऽपि चकार सर्वं प्रास्थानिकं कर्म महद्विधानात् । क्षौमाम्बरो दर्भपवित्रपाणिः महाप्रयाणाय गृहीतबुद्धिः ॥ ३८॥ निष्क्रम्य रामो नगरात्सिताभ्रा- च्छशीव यातः शशिकोटिकान्तिः । रामस्य सव्ये सितपद्महस्ता पद्मा गता पद्मविशालनेत्रा ॥ ३९॥ पार्श्वेऽथ दक्षेऽरुणकञ्जहस्ता श्यामा ययौ भूरपि दीप्यमाना । शास्त्राणि शस्त्राणि धनुश्च बाणा जग्मुः पुरस्ताद्धृतविग्रहास्ते ॥ ४०॥ वेदाश्च सर्वे धृतविग्रहाश्च ययुश्च सर्वे मुनयश्च दिव्याः । माता श्रुतीनां प्रणवेन साध्वी ययौ हरिं व्याहृतिभिः समेता ॥ ४१॥ गच्छन्तमेवानुगता जनास्ते सपुत्रदाराः सह बन्धुवर्गैः । अनावृतद्वारमिवापवर्गं रामं व्रजन्तं ययुराप्तकामाः । सान्तःपुरः सानुचरः सभार्यः शत्रुघ्नयुक्तो भरतोऽनुयातः ॥ ४२॥ गच्छन्तमालोक्य रमासमेतं श्रीराघवं पौरजनाः समस्ताः । सबालवृद्धाश्च ययुर्द्विजाग्र्याः सामात्यवर्गाश्च समन्त्रिणो ययुः ॥ ४३॥ सर्वे गताः क्षत्रमुखाः प्रहृष्टा वैश्याश्च शूद्राश्च तथा परे च । सुग्रीवमुख्या हरिपुङ्गवाश्च स्नाता विशुद्धाः शुभशब्दयुक्ताः ॥ ४४॥ न कश्चिदासीद्भवदुःखयुक्तो दीनोऽथवा बाह्यसुखेषु सक्तः । आनन्दरूपानुगता विरक्ता ययुश्च रामं पशुभृत्यवर्गैः ॥ ४५॥ भूतान्यदृश्यानि च यानि तत्र ये प्राणिनः स्थावरजङ्गमाश्च । साक्षात्परात्मानमनन्तशक्तिं जग्मुर्विमुक्ताः परमेकमीशम् ॥ ४६॥ नासीदयोध्यानगरे तु जन्तुः कश्चित्तदा राममना न यातः । शून्यं बभूवाखिलमेव तत्र पुरं गते राजनि रामचन्द्रे ॥ ४७॥ ततोऽतिदूरं नगरात्स गत्वा दृष्ट्वा नदीं तां हरिनेत्रजाताम् । ननन्द रामः स्मृतपावनोऽतो ददर्श चाशेषमिदं हृदिस्थम् ॥ ४८॥ अथागतस्तत्र पितामहो महान् देवाश्च सर्वे ऋषयश्च सिद्धाः । विमानकोटीभिरपारपारं समावृतं खं सुरसेविताभिः ॥ ४९॥ रविप्रकाशाभिरभिस्फुरत्स्वं ज्योतिर्मयं तत्र नभो बभूव । स्वयम्प्रकाशैर्महतां महद्भिः समावृतं पुण्यकृतां वरिष्ठैः ॥ ५०॥ ववुश्च वाताश्च सुगन्धवन्तो ववर्ष वृष्टिः कुसुमावलीनाम् । उपस्थिते देवमृदङ्गनादे गायत्सु विद्याधरकिन्नरेषु ॥ ५१॥ रामस्तु पद्भ्यां सरयूजलं सकृत् स्पृष्ट्वा परिक्रामदनन्तशक्तिः । ब्रह्मा तदा प्राह कृताञ्जलिस्तं रामं परात्मन् परमेश्वरस्त्वम् ॥ ५२॥ विष्णुः सदानन्दमयोऽसि पूर्णो जानासि तत्त्वं निजमैशमेकम् । तथापि दासस्य ममाखिलेश कृतं वचो भक्तपरोऽसि विद्वन् ॥ ५३॥ त्वं भ्रातृभिर्वैष्णवमेवमाद्यं प्रविश्य देहं परिपाहि देवान् । यद्वा परो वा यदि रोचते तं प्रविश्य देहं परिपाहि नस्त्वम् ॥ ५४॥ त्वमेव देवाधिपतिश्च विष्णुः जानन्ति न त्वां पुरुषा विना माम् । सहस्रकृत्वस्तु नमो नमस्ते प्रसीद देवेश पुनर्नमस्ते ॥ ५५॥ पितामहप्रार्थनया स रामः पश्यत्सु देवेषु महाप्रकाशः । मुष्णंश्च चक्षूंषि दिवौकसां तदा बभूव चक्रादियुतश्चतुर्भुजः ॥ ५६॥ शेषो बभूवेश्वरतल्पभूतः सौमित्रिरत्यद्भुतभोगधारी । बभूवतुश्चक्रदरौ च दिव्यौ कैकेयिसूनुर्लवणान्तकश्च ॥ ५७॥ सीता च लक्ष्मीरभवत्पुरेव रामो हि विष्णुः पुरुषः पुराणः । सहानुजः पूर्वशरीरकेण बभूव तेजोमयदिव्यमूर्तिः ॥ ५८॥ विष्णुं समासाद्य सुरेन्द्रमुख्या देवाश्च सिद्धा मुनयश्च दक्षाः । पितामहाद्याः परितः परेशं स्तवैर्गृणन्तः परिपूजयन्तः ॥ ५९॥ आनन्दसम्प्लावितपूर्णचित्ता बभूविरे प्राप्तमनोरथास्ते । तदाह विष्णुर्द्रुहिणं महात्मा एते हि भक्ता मयि चानुरक्ताः ॥ ६०॥ यान्तं दिवं मामनुयान्ति सर्वे तिर्यक्षरीरा अपि पुण्ययुक्ताः । वैकुण्ठसाम्यं परमं प्रयान्तु समाविशस्वाशु ममाज्ञया त्वम् ॥ ६१॥ श्रुत्वा हरेर्वाक्यमथाब्रवीत्कः सान्तानिकान् यान्तु विचित्रभोगान् । लोकान्मदीयोपरि दीप्यमानान् त्वद्भावयुक्ताः कृतपुण्यपुञ्जाः ॥ ६२॥ ये चापि ते राम पवित्रनाम गृणन्ति मर्त्या लयकाल एव । अज्ञानतो वापि भजन्तु लोकान् तानेव योगैरपि चाधिगम्यान् ॥ ६३॥ ततोऽतिहृष्टा हरिराक्षसाद्याः स्पृष्ट्वा जलं त्यक्तकलेवरास्ते । प्रपेदिरे प्राक्तनमेव रूपं यदंशजा ऋक्षहरीश्वरास्ते ॥ ६४॥ प्रभाकरं प्राप हरिप्रवीरः सुग्रीव आदित्यजवीर्यवत्त्वात् । ततो विमग्नाः सरयूजलेषु नराः परित्यज्य मनुष्यदेहम् ॥ ६५॥ आरुह्य दिव्याभरणा विमानं प्रापुश्च ते सान्तनिकाख्यलोकान् । तिर्यक्प्रजाता अपि रामदृष्टा जलं प्रविष्टा दिवमेव याताः ॥ ६६॥ दिदृक्षवो जानपदाश्च लोका रामं समालोक्य विमुक्तसङ्गाः । स्मृत्वा हरिं लोकगुरुं परेशं स्पृष्ट्वा जलं स्वर्गमवापुरञ्जः ॥ ६७॥ एतावदेवोत्तरमाह शम्भुः श्रीरामचन्द्रस्य कथावशेषम् । यः पादमप्यत्र पठेत्स पापाद्- विमुच्यते जन्मसहस्रजातात् ॥ ६८॥ दिने दिने पापचयं प्रकुर्वन् पठेन्नरः श्लोकमपीह भक्त्या । विमुक्तसर्वाघचयः प्रयाति रामस्य सालोक्यमनन्यलभ्यम् ॥ ६९॥ आख्यानमेतद्रघुनायकस्य कृतं पुरा राघवचोदितेन । महेश्वरेणाप्तभविष्यदर्थं श्रुत्वा तु रामः परितोषमेति ॥ ७०॥ रामायणं काव्यमनन्तपुण्यं श्रीशङ्करेणाभिहितं भवान्यै । भक्त्या पठेद्यः शृणुयात् स पापैः विमुच्यते जन्मशतोद्भवैश्च ॥ ७१॥ अध्यात्मरामं पठतश्च नित्यं श्रोतुश्च भक्त्या लिखितुश्च रामः । अतिप्रसन्नश्च सदा समीपे सीतासमेतः श्रियमातनोति ॥ ७२॥ रामायणं जनमनोहरमादिकाव्यं ब्रह्मादिभिः सुरवरैरपि संस्तुतं च । श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं विष्णोः प्रयाति सदनं स विशुद्धदेहः ॥ ७३॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे नवमः सर्गः ॥ ९॥ ॥ समाप्तमिदमुत्तरकाण्डम् ॥ ॥ सम्पूर्णम् इति अध्यात्मरामायणम् ॥
Encoded and proofread by Nagaraj Balijepalli nagaraj at iastate.edu Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com

% Text title            : adhyAtma rAmAyaNa uttara kANDa
% File name             : adhyaatmaRamuttara.itx
% itxtitle              : adhyAtmarAmAyaNe 7 uttarakANDam
% engtitle              : adhyAtmarAmAyaNa uttarakANDa
% Category              : adhyAtmarAmAyaNa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Shri Veda Vyas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vishwas underscore bhide at yahoo.com
% Proofread by          : Vishwas Bhide, PSA Easwaran, ahimsasoldier
% Indexextra            : (Hindi)
% Latest update         : June 20, 2005, April 4, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP