भगवत्समाश्रय
सर्ववेदैकवेद्यं च सर्ववेदविदं विभुम् ।
भगवन्तं श्रये रामं सर्ववेदैकरक्षकम् ॥ १॥
चिदचिद्देहिनं नित्यं चिदचित्तत्त्वधारकम् ।
भगवन्तं श्रये रामं चिदचित्तत्त्वशेषिणम् ॥ २॥
सर्वज्ञं सर्वकर्तारं सर्ववीजं तथैव च ।
भगवन्तं श्रये रामं परमब्रह्मसंज्ञकम् ॥ ३॥
अद्वितीयकृतिं तद्वदद्वितीयाकृतिं प्रभुम् ।
भगवन्तं श्रये राममद्वितीयं परेश्वरम् ॥ ४॥
सर्वदा सर्वकार्येषु सर्वेषां च सहायकम् ।
भगवन्तं श्रये रामं कल्याणगुणसागरम् ॥ ५॥
रमणीयं च सर्वेभ्यः सर्वेभ्यो बलशालिनम् ।
भगवन्तं श्रये रामं सर्वेषां रक्षकं परम् ॥ ६॥
अमोघं स्तवनं यस्य यस्यामोघं च दर्शनम् ।
भगवन्तं श्रये रामं सर्वोपास्यं तमार्तिहम् ॥ ७॥
प्रेरकं सर्वभूतानां सुहृदं मुक्तिदं तथा ।
भगवन्तं श्रये रामं भक्त्या लभ्यं परात्परम् ॥ ८॥
श्रियानन्दार्यशिष्य श्रीहर्यानन्दार्यनिर्मितः ।
भूयात् समाश्रयश्चैष भवपाथोधितारकः ॥ ९॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणि कृतो भगवत्समाश्रयः सम्पूर्णः ।
Proofread by Parashara Ranganathan