श्रीकर्मचन्द्राचार्यनिर्मितः कर्मबन्धविनाशकस्तवः

श्रीकर्मचन्द्राचार्यनिर्मितः कर्मबन्धविनाशकस्तवः

रामानन्दं नमस्कृत्य भाष्यकृद्यमिनां पतिम् । कर्मबन्धविनाशाय कुर्वे रामस्तवं वरम् ॥ १॥ यस्मिन् हि सच्चिदानन्दे रमन्ते योगिनः सदा । श्रीरामं ब्रहम तं वन्दे कर्मबन्धविनाशकम् ॥ २॥ उपादानं निमित्तं च सर्वस्य जगतोऽस्य यःक्ष । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ३॥ सकृदेव प्रपत्त्या यः सर्वेभ्योऽभयदः प्रभुः । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ४॥ यद्भक्त्या यत्प्रपत्त्या वा सायुज्यं समवाप्यते । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ५॥ पापानां नाशकं यस्य रामेतिनामकीर्त्तनम् । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ६॥ विश्वस्य सृष्टिकृच्चाथ स्थितिकृल्लयकृत्तथा । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ७॥ गुणाब्धिर्दिव्यदेहो यः सर्वशक्तिश्च सर्ववित् । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ८॥ वृत्तं रामायणं यस्य वेदोपबृंहणं मतम् । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ९॥ वेदविद् वेदवेद्यो यो वेदकृद् वेदभृत् तथा । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ १०॥ अमोधं वन्दनं यस्य पूजनं दर्शनं तथा । श्रीरामं ब्रह्म तं वन्दे कर्मबन्धविनाशकम् ॥ ११॥ द्वारपीठाधिपश्रीमत्कर्मचन्द्रार्यनिर्मितः । स्तवोऽयं पठतां भूयात् सर्वथा सुखदायकः ॥ १२॥ इति श्रीकर्मचन्द्राचार्यनिर्मितः कर्मबन्धविनाशकस्तवः सम्पूर्णः । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Karmachandracharyanirmitah Karmabandhavinashaka Stava
% File name             : karmabandhavinAshakastavaHkarmachandrAchArya.itx
% itxtitle              : karmabandhavinAshakastavaH (karmachandrAchAryanirmitaH)
% engtitle              : karmabandhavinAshakastavaH
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : karmachandrAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org