श्रीकोदण्डपाणिसुप्रभातम्

श्रीकोदण्डपाणिसुप्रभातम्

वन्दे वेङ्कटशेषार्यवत्सवंशशिरोमणिम् । वात्स्यश्रीवरदाचार्यतनयं करुणानिधिम् ॥ श्रीरामचन्द्र करुणावरुणालय श्री- सीतामुखाम्बुजविकासक बालसूर्य!। सौमित्रिमित्र ! भरताभिरताप्तमित्र ! शत्रुघ्न हे ! रघुपते ! तव सुप्रभातम् ॥ १॥ भास्वानुदेति विकचानि सरोरुहाणि पश्य स्मरन् मधुरकृजितषड्पदानि । त्वद्वीक्षणोन्मिषितनाभिसरोजवेधो वेदध्वनेः रघुपते ! तव सुप्रभातम् ॥ २॥ त्वां बोधयन्ति परितः श्रुतयः श्रुतीनां सारेण सानुज! भवत्प्रतिबोधकेन । श्लोकेन कौशिक मुखोद्गलितेन कर्ण- पीयूषवद्रघुपते ! तव सुप्रभातम् ॥ ३॥ त्वां बोधयन्ति विबुधाः श्रुतिभोग्यवेणु- वीणामृदङ्गपणवादिततानुवादैः । स्तोत्रैर्धरासुरवरस्तुतिघोषमित्रैः आकर्ण्यतां रघुपते ! तव सुप्रभातम् ॥ ४॥ उद्यानवासरसिकाः शुकशारिकाद्याः हृद्या हरेहरिरिति द्विजघोषहृद्यैः । हृद्यां मुदं विदधतीह तवापदान- पद्यैर्द्विजाः रघुपते ! तव सुप्रभातम् ॥ ५॥ ब्रह्मा शिवश्शतमखश्च मखाशनौघैः त्वद्धाम गोपुरभुवि प्रतिपालयन्ति । त्वत्पादपङ्कजसिषेविषवोऽविशेष- भक्तैर्द्विजै रघुपते ! तव सुप्रभातम् ॥ ६॥ सूर्येन्दुसन्निधिवशादिव देवसङ्घः सोत्फुल्लवक्त्रकमलाञ्जलिकुड्मलोकैः । मन्दारसुन्दरकरैः प्रतिपाल्यतेऽर्चा- बद्धादरैः रघुपते ! तव सुप्रभातम् ॥ ७॥ तीर्थाभिषेकपरिशुद्धधियोऽर्चकास्ते पूर्णाभिषेककलशाः परिचारकाश्च । स्तुत्वा भवन्तमभिषेकमुखोपचार- चर्योत्सुका रघुपते ! तव सुप्रभातम् ॥ ८॥ सीतामुखेन्दुसविधेऽपि सदा प्रसन्नं मन्दस्मितेन मधुरं सुधयेव लोकैः । लम्बाळकाळिललितं तव वक्त्रपद्मं संशोभतां रघुपते ! तव सुप्रभातम् ॥ ९॥ श्रीकोसलेश्वरपुराकृतभाग्यराशे ! श्रीकोसलेन्द्रतनयानयनाभिराम!। साकेतसाधुकुलकाङ्क्षितकल्पकश्रीः ! सीतामनोहरमणे ! तव सुप्रभातम् ॥ १०॥ उद्दण्डशौण्डभुजखण्डितखण्डपर्शु- कोदण्डचण्डरवपिण्डितसाण्डजाण्ड!। कोदण्डदण्डवरमण्डितबाहुदण्ड ! श्रीखण्डचर्चिततनो ! तव सुप्रभातम् ॥ ११॥ इत्थं वेङ्कटशेषेण सुप्रभातस्तुतिः कृता । श्रीरामचरणाम्भोजयुगभूषा समर्पिता ॥ १२॥ नीलोत्पलानि सरसीष्विह सङ्कुचन्ति सापत्रपाणि तव दृग्तुलयोर्विलासे । धामानि ते च विकचानि सरोरुहाणि श्रीरामचन्द्रदयिते ! तव सुप्रभातम् ॥ १३॥ प्रातस्सुवर्णमणिदर्पणनायिकास्य वीक्षां वदन्ति सुधियः शुभमेव पत्युः । सर्वं त्वदाननविलोकनतोऽस्य सिध्येत् उत्तिष्ठ मैथिलसुते ! तव सुप्रभातम् ॥ १४॥ ॥ इति श्रीकोदण्डपाणिसुप्रभातं समाप्तम् । Encoded and proofread by PSA Easwaran
% Text title            : kodaNDapANisuprabhAtam
% File name             : kodaNDapANisuprabhAtam.itx
% itxtitle              : kodaNDapANisuprabhAtam
% engtitle              : kodaNDapANisuprabhAtam
% Category              : raama, suprabhAta
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Latest update         : December 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org