श्रीलक्ष्मणकवचम्
॥ अथ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीलक्ष्मणकवचम् ॥
अगस्तिरुवाच-
सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामळं
बिभ्रन्तं स्वकरेण रामशिरसि छत्रं विचित्रं वरम् ।
बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने
तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥
ॐ अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः ।
श्रीलक्ष्मणो देवता । शेष इति बीजम् । सुमित्रानन्दन इति शक्तिः ।
रामानुज इति कीलकम् । रामदास इत्यस्त्रम् । रघुवंशज इति कवचम् ।
सौमित्रिरिति मन्त्रः ।
श्रीलक्ष्मणप्रीत्यर्थं सकलमनोऽभिलषितसिद्ध्यर्थं जपे विनियोगः ॥
अथ अङ्गुळीन्यासः -
ॐ लक्ष्मणाय अङ्गुष्ठाभ्यां नमः ।
ॐ शेषाय तर्जनीभ्यां नमः ।
ॐ सुमित्रानन्दनाय मध्यमाभ्यां नमः ।
ॐ रामानुजाय अनामिकाभ्यां नमः ।
ॐ रामदासाय कनिष्ठिकाभ्यां नमः ।
ॐ रघुवंशजाय करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः -
ॐ लक्ष्मणाय हृदयाय नमः ।
ॐ शेषाय शिरसे स्वाहा ।
ॐ सुमित्रानन्दनाय शिखायै वषट् ।
ॐ रामानुजाय कवचाय हुं ।
ॐ रामदासाय नेत्रत्रयाय वौषट् ।
ॐ रघुवंशजाय अस्त्राय फट् ।
ॐ सौमित्रये इति दिग्बन्धः ॥
अथ ध्यानम् -
रामपृष्ठस्थितं रम्यं रत्नकुण्डलधारिणम् ।
नीलोत्पलदळश्यामं रत्नकङ्कणमण्डितम् ॥ १॥
रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमम् ।
वरपीताम्बरधरं मुकुटेनाधिशोभितम् ॥ २॥
तूणीरे कार्मुके चापि बिभ्रन्तं च स्मिताननम् ।
रत्नमालाधरं दिव्यं पुष्पमालाविराजितम् ॥ ३॥
एवं ध्यात्वा लक्ष्मणं च राघवन्यस्तलोचनम् ।
कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥ ४॥
अथ कवचम् ।
ॐ लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः ।
प्रतीच्यां पातु सौमित्रिः पातूदीच्यां रघूत्तमः ॥ ५॥
अधः पातु महावीरः चोर्ध्वं पातु नृपात्मजः ।
मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥ ६॥
स्मिताननः शिरः पातु भालं पातूर्मिलाधवः ।
भ्रुवोर्मध्ये धनुर्धारी सुमित्रानन्दनोऽक्षिणी ॥ ७॥
कपोले रममन्त्री च सर्वदा पातु वै मम ।
कर्णमूले सदा पातु कबन्धभुजखण्डनः ॥ ८॥
नासाग्रं मे सदा पातु सुमित्राऽऽनन्दवर्धनः ।
रामन्यस्तेक्षणः पातु सदा मेऽत्र मुखं भुवि ॥ ९॥
सीतावाक्यकरः पातु मम वाणीं सदाऽत्र हि ।
सौम्यरूपः पातु जिह्वां अनन्तः पातु मे द्विजान् ॥ १०॥
चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः ।
स्कन्धौ पातु जितारातिः भुजौ पङ्कजलोचनः ॥ ११॥
करौ कङ्कणधारी च नखान् रक्तनखोऽवतु ।
कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥ १२॥
पार्श्वे राघवपृष्ठस्थः पृष्ठदेशं मनोरमः ।
नाभिं गम्भीरनाभिस्तु कटिं च रुक्ममेखलः ॥ १३॥
गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः ।
ऊरू पातु विष्णुतल्पः सुमुखोऽवतु जानुनी ॥ १४॥
नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान् मम ।
पादावङ्गदतातोऽव्यात् पात्वङ्गानि सुलोचनः ॥ १५॥
चित्रकेतुपिता पातु मम पादाङ्गुलीः सदा ।
रोमाणि मे सदा पातु रविवंशसमुद्भवः ॥ १६॥
दशरथसुतः पातु निशायां मम सादरम् ।
भूगोलधारी मां पातु दिवसे दिवसे सदा ॥ १७॥
सर्वकालेषु मामिन्द्रजिद्धन्ताऽवतु सर्वदा ।
एवं सौमित्रिकवचं सुतीक्ष्ण कथितं मया ॥ १८॥
इदं प्रातः समुत्थाय ये पठन्त्यत्र मानवाः ।
ते धन्या मानवा लोके तेषां च सफलो भवः ॥ १९॥
सौमित्रेः कवचस्यास्य पठनान्निश्चयेन हि ।
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ॥ २०॥
पत्नीकामो लभेत्पत्नीं गोधनार्थी तु गोधनम् ।
धान्यार्थी प्राप्नुयाद्धान्यं राज्यार्थी राज्यमाप्नुयात् ॥ २१॥
पठितं रामकवचं सौमित्रिकवचं विना ।
घृतेन हीनो नैवेद्यस्तेन दत्तो न संयशयः ॥ २२॥
केवलं रामकवचं पठितं मानवैर्यदि ।
तत्पाठेन सुसन्तुष्टो न भवेद्रघुनन्दनः ॥ २३॥
अतः प्रयत्नतश्चेदं सौमित्रिकवचं नरैः ।
पठनीयं सर्वदैव सर्ववाञ्छितदायकम् ॥ २४॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मीकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीलक्ष्मणकवचं
सम्पूर्णम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न
षट् कवचानि पठनीयम् ।
षट् कवचानि पठितुं अशक्तश्चेत्
हनुमत्-लक्ष्मण-सीता-राम –
अथवा हनुमत्-सीता-राम
अथवा हनुमत्-राम / सीता-राम कवचानि ।
अथवा श्रीरामकवचमेव पठनीयम् ॥
All the six kavachas
hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna
from AnandarAmAyaNa should be recited together.
If one is unable to recite all the six,
then he/she can recite in the decreasing order
hanumat-lakShmaNa-sItA-rAma
hanumat-sItA-rAma
hanumat-rAma
sItA-rAma
If this is not possible, then one should at least
recite Shri Rama Kavacham.
Encoded and Proofread by Antaratma, PSA Easwaran