श्रीसाकेतनिवासाचार्यविरचिता प्रपत्तिकुसुमाञ्जलिः

श्रीसाकेतनिवासाचार्यविरचिता प्रपत्तिकुसुमाञ्जलिः

(श्रीटीलाचार्य) रघुपतेऽहमकिच्चनतां गतस्तव सुरक्षकतामतिविश्वसन् । निजभरं निदधाम्यखिलात्मनि त्वयि परेश विभो गुणसागरे ॥ १॥ अननुकूलकुभावविवर्जितस्त्वदनुकूलसुभावगतस्तथा । अहमनन्यतया क्षितिजापते! सुशरणं चरणश्च गतोऽस्मिते ॥ २॥ मम सुरक्षणकर्मणि यो भरः फलमहश्च न मे भुवनम्भर । अपि तु भक्तसमर्पितहत् प्रभो! तव ततश्च निजं हि समर्पये ॥ ३॥ नहि मिलेद् दयनीयजनश्च ते रघुपते मयि चेन्न दया तव । सुदयनीयजनैकनिधे ततः कुरु दयां मयि नाथ दयाम्बुधे ॥ ४॥ त्वमसि नो मदृते दयनीयवानहमपि त्वदृतेऽस्मि न नाथवान् । विधिविनिर्मितमेदवेक्ष्य तत् करुणया करुणाकर पाहि माम् ॥ ५॥ सुशरणं चरणं त्वपहाय ते कथमियामहमन्यमकिञ्चनः । रघुपते! दृढमायतपोतकं त्यजति किं जलधौ लघुवायसः ॥ ६॥ इह तिरस्कृतता गमितोऽप्यहं रघुपते! न जहामि पदञ्च ते । निजजनन्यवधूतशिशुर्यथा स्वजननीचरणं विजहाति न ॥ ७॥ वरद दाशरथे वरदापते कुरु कृपामिदमेव च देहि मे । त्वदरविन्दबिलज्जकपादयोर्भवतु जन्मनि जन्मनि मे स्मृतिः ॥ ८॥ वसुधया वसुधात्मजया तथा रुचिरया रुचिरं परिसेवित! । रघुपते! सुलभो जगतीपते! भव भवाम्बुनिधौ पतितस्य मे ॥ ९॥ समवभाति न ते समतां गतस्त्वदधिकोऽपि हि नाथ न कश्चन । प्रपदनं विदधे पदयोश्च ते निखिलपालक! पालय मामपि ॥ १०॥ कृतभवाभव कारणकारण प्रकृतिरक्षक रक्ष्यविलक्षण । रघुपते पदयोः पतिते च ते कुरु कृपां कृपणे मयि पामरे ॥ ११॥ तव विभोश्चरणं शरणं गतो जन इह त्रिगुणैः परिभूयते । अभिहिता रघुनायक भारते प्रकृतितारक तारकता क्व ते ॥ १२॥ अधमताव्यथिता पृथिवी पुरा रघुपते त्वयैका परिमण्डिता । पुनरिदं हि तथा क्षितिमण्डलं भुवनमण्डलमण्डन मण्डय ॥ १३॥ रघुपते त्वयेकैव युगे युगे समवतीर्य हि दक्षकुरक्षसाम् । बलमखण्ड्यमखण्य! सुखण्डितं विजहि मत्प्रतिघादिकराक्षसान् ॥ १४॥ अदयताञ्च गतेऽभयता कुतो न च भयं सदये त्वयि राघव । अभयतार्थमतः शरणं विभो त्वदपरं पुरुषं न विभावये ॥ १५॥ कृतमतिर्जगतः परिपालने सुकृपणस्य तदा मम रक्षणे । कृतमतिप्रभृतेः सहकारणिश्च विफलं जगदीश गवेषणम् ॥ १६॥ इति श्रीसाकेतनिवासाचार्यविरचिता प्रपत्तिकुसुमाञ्जलिः समाप्ता । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Saketanivasacharyavirachita Prapattikusumanlih
% File name             : prapattikusumAnjaliHsAketanivAsAchArya.itx
% itxtitle              : prapattikusumAnjaliH (sAketanivAsAchAryavirachitA)
% engtitle              : prapattikusumAnjaliH
% Category              : raama, rAmAnanda, prapatti
% Location              : doc_raama
% Sublocation           : raama
% Author                : sAketanivAsAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org