प्रपत्त्यङ्गपञ्चकं
अथ मङ्गलं -
भगवन्तं च भगवद्रामानन्दं तथा गुरुम् ।
नमस्कृत्य च कुर्वेऽहं सत्प्रत्त्यङ्गपञ्चकम् ॥ १॥
अथ प्रपत्तिमाहात्म्यं -
सकृदेव प्रपन्नेभ्यो रामो ब्रह्म परेश्वरः ।
अभयं सर्वभूतेभ्यो ददात्येतत् सुनिश्चितम् ॥ २॥
अथ प्रपत्तिस्वरूपं -
रामाय ब्रह्मणे स्वस्य चात्मनो यत् समर्पणम् ।
प्रपत्तिरिति तन्नाम प्रोक्तं न्यासविशारदैः ॥ ३॥
न्यासस्तस्यापरं नाम प्राज्ञवर्यैः प्रकीर्त्तितम् ।
प्रपत्तेरङ्गभेदा हि स्वीकृताः पञ्च पण्डितैः ॥ ४॥
१. आनुकूल्यसङ्कल्पः
आनुकूल्यस्य सङ्कल्प आद्यम मतं बुधैः ।
सम्पाद्या सर्वथा तत्र श्रीरामस्यानुकूलता ॥ ५॥
२. प्रातिकूल्यवर्जनं
प्रोक्तं द्वितीयमङ्गं हि प्रातिकूल्यस्य वर्जनम् ।
सर्वथा वर्जिता तत्र रामस्य प्रतिकूलता ॥ ६॥
३. रक्षणविश्वासः
रक्षिष्यतीति विश्वास उक्तम तृतीयकम् ।
श्रीरामरक्षणे यत्राविश्वासः परिवर्जितः ॥ ७॥
४. गोप्तृत्ववरणं
गोप्तृत्ववरणं प्रोक्तम्मङ्गं तस्याश्चतुर्थकम् ।
प्रपन्नेन स्वरक्षार्थं प्रार्थ्यते तत्र राघवः ॥ ८॥
५. कार्पण्यं
अङ्ग तु पञ्चमं प्रोक्तं कार्पण्यं बुद्धिशालिभिः ।
त्यक्त्वा धनजनादींश्च यत्र रामपदाश्रयः ॥ ९॥
श्रीभगवन्नारायणद्वारपीठेशनिर्मितम् ।
रामप्रपत्तये भूयात् सत्प्रपत्यङ्गपञ्चकम् ॥ १०॥
इति श्रीभगवन्नारायणाचार्यप्रणीतं प्रपत्त्यङ्गपञ्चकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey