श्रीराघवाष्टकम् २
कमललोचनौ काञ्चनाम्बरौ
कवचभूषणौ कार्मुकान्वितौ ।
कलुषसंहरौ कामितप्रदौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ १॥
धृतशिखण्डिनौ दीनरक्षकौ
धृतिहिमाचलौ दिव्यविग्रहौ ।
दिविजपूजितौ दीर्घदोर्युगौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ २॥
पवनजानुगौ पादचारिणौ
पटुशिलीमुखौ पावनाङ्घ्रिकौ ।
परमसात्त्विकौ भक्तवत्सलौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ ३॥
वनविहारिणौ वल्कलाम्बरौ
वनफलाशिनौ वासवस्तुतौ ।
वरगुणाकरौ वानरार्चितौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ ४॥
घनतटिन्निभौ खड्गधारिणौ
घनजटाम्बरौ खण्डितव्यथौ ।
करशिलीमुखौ खरकरप्रभौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ ५॥
सवनरक्षकौ सत्यसङ्गरौ
समरभीकरौ साहसान्वितौ ।
सदयमानसौ सर्वपूजितौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ ६॥
मकरकुण्डलौ मौनिसेवितौ
मनुकिरीटिनौ मानुषोत्तमौ ।
मनुकुलेश्वरौ मञ्जुभाषिणौ
रहसि नौमि तौ रामलक्ष्मणौ ॥ ७॥
वरगुणास्पदं राघवाष्टकं
रहसि यः पठेद्रामभक्तिदम् ।
रहितकल्मषं रामसन्निधौ
रविसमप्रभो राजते सदा ॥ ८॥
इति श्रीराघवाष्टकं सम्पूर्णम् ।
Proofread by Aruna Narayanan