श्रीराघवचेतनाचार्यकृता श्रीराघवशरणागतिः
पुण्यसद्यजमानन्दभाष्यकारं च राघवम् ।
करोमि सद्गुरुं नत्त्वा राघवशरणागतिम् ॥ १॥
परेशं दिव्यधामस्थं दिव्यदेहगुणाम्बुधिम् ।
जगद्धेतुं शरण्यं च राघवं शरणं श्रये ॥ २॥
तस्मिंस्तस्मिंश्च देशादौ रक्षायै साधुधर्मयोः ।
श्रितं मत्स्यादिरूपं च राघवं शरणं श्रये ॥ ३॥
सृष्ट्याद्यर्थं च लोकानां स्वभक्तानामुपास्तये ।
चतुर्व्यूहस्वरूपं च राघवं शरणं श्रये ॥ ४॥
जगत् सृष्ट्वा च तस्यान्तस्तद्रक्षायै प्रविश्य हि ।
अन्तर्यामिस्वरूपं च राघवं शरणं श्रये ॥ ५॥
स्वर्णादिविग्रहं भक्ताभीष्टं स्वीकृत्य तत्र हि ।
षाड्गुण्येन स्थितं चाथ राघवं शरणं श्रये ॥ ६॥
राघवचेतनाचार्यद्वाराचार्येण धीमता ।
कृता मोक्षप्रदा भूयाद् राघवशरणागतिः ॥ ७॥
इति श्रीराघवचेतनाचार्यकृता श्रीराघवशरणागतिः सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey