श्रीराघवेन्द्राष्टाक्षरस्तोत्रम्
गुरुराजाष्टाक्षरं स्यात् महापातकनाशनम् ।
एकैकेमक्षरं चात्र सर्व काम्यार्थ सिद्धिदम् ॥ १॥
रकारोच्चारण मात्रेण रोगहानिर्न संशयः ।
घकारेण बलं पुष्टिः आयुः तेजश्च वर्धते ॥ २॥
वकारेणात्र लभते वाञ्छितार्थान्न संशयः ।
द्रकारणाघराशिस्तु द्राव्यते द्रुतमेव हि ॥ ३॥
यकारेण यमाद्बाधो वार्यते नात्र संशयः ।
नकारेण नरेन्द्राणां पदमाप्नोति मानवः ॥ ४॥
मकारेणैव माहेन्द्रमैश्वर्यं याति मानवः ।
गुरोर्नाम्नाश्च माहात्म्यं अपूर्वं परमाद्भुतम् ॥ ५॥
तन्नाम स्मरणादेव सर्वाभिष्टं प्रसिध्यति ।
तस्मान्नित्यं पठेद् भक्त्या गुरुपादरतस्सदा ॥ ६॥
श्री राघवेन्द्राय नमः इत्याष्टाक्षर मन्त्रतः ।
सर्वान्न्कामानवाप्नोति नात्र कार्या विचारणा ॥ ७॥
अष्टोत्तरशतावृत्तिं स्तोत्रस्यास्य करोति यः ।
तस्य सर्वार्थ सिद्धिस्यात् गुरुराजप्रसादतः ॥ ८॥
एतदष्टाक्षरस्यात्र माहात्म्यं वेत्ति कः पुमान् ।
पठनादेव सर्वार्थ सिद्धिर्भवति नान्यथा ॥ ९॥
स्वामिना राघवेन्द्राख्य गुरुपादाब्ज सेविना ।
कृतमष्टाक्षरस्तोत्रं गुरुप्रीतिकरं शुभम् ॥ १०॥
॥ इति श्रीगुरुजगन्नाथदासार्यविरचितं श्रीराघवेन्द्राष्टाक्षरस्तोत्रं सम्पूर्णम् ॥