श्रीराघवेन्द्रप्रार्थना
अहीशांशमीशं समीरेण युक्तं
सरोजायताक्षं सुदासैकपूज्यम् ।
वदान्यं सुमान्यं वरेण्यं शरण्यं
गुरुं राघवेन्द्रं सदाऽहं नमामि ॥ १॥
सदा मन्दहासं सुपूर्णेन्दुवक्त्रं
लसच्चेलभूषं स्मरस्यातिदूरम् ।
नमत्कामधेनुं हरन्तं मनो मे
अघध्वंसिनं राघवेन्द्रं भजामि ॥ २॥
भजत्कल्पवृक्षं भवाब्ध्येकपोतं
महानन्दतीर्थं कवीन्द्राब्जमित्रम् ।
धरादेवपालं रमानाथलोलं
त्यजत्कामजालं भजे राघवेन्द्रम् ॥ ३॥
न याचे गजेन्द्रं नरेन्द्राधिपत्यं
न याचेऽमरत्वं न लोकाधिपत्यम् ।
न जायां न पुत्रं न शिष्यालिमन्नं
न भाग्यं गुरो देहि ते पाददास्यम् ॥ ४॥
घनानन्दसारं नवाम्भोदनीलं
मुरारातिमित्रं त्रिलोकीशरण्यम् ।
पराभूतशोकं सुरारातिजातं
रमानाथपोतं भजे राघवेन्द्रम् ॥ ५॥
धरादेवदन्तांशुजातस्रवन्ती-
तटोल्लासि रामाभिरामाङ्घ्रिदासम् ।
सुधाम्नां ललामं कृतोद्धामचर्यं
परिव्राडधीशं भजे राघवेन्द्रम् ॥ ६॥
महानन्दतीर्थाब्धिमीनायमानम्
सुगेयं सुबोधं सुलीलांशुजालम् ।
महानन्दगाढं सदा सद्विनोदं
गुरुं राघवेन्द्रं भजे सार्वभौमम् ॥ ७॥
भजे राघवेन्द्रं भजे राघवेन्द्रं
भजे राघवेन्द्रं भजे राघवेन्द्रम् ।
नमस्यामि नित्यं नमस्यामि नित्यं
नमस्यामि नित्यं नमस्यामि नित्यम् ॥ ८॥
प्रार्थना राघवेन्द्रस्य लोकक्षेमाभिलाषिणा ।
स्वामिना रचिता सैषा सर्वाभीष्टफ़लप्रदा ॥
इति श्रीगुरुजगन्नाथदासार्यविरचित श्रीराघवेन्द्रप्रार्थना सम्पूर्णं
॥श्री कृष्णार्पणमस्तु ॥