श्रीरामाक्षरमालास्तोत्रम्
अखिलाधारं श्रीरामं
आगमविनुतं श्रीरामम् ।
इष्टरक्षणं श्रीरामं
ईप्सितफलदं श्रीरामम् ॥ १॥
उग्रपूजितं श्रीरामं
ऊर्जितफलदं श्रीरामम् ।
ऋषिगणवन्द्यं श्रीरामं
ऋवरपक्षं श्रीरामम् ॥ २॥
लृचयस्तोत्रं श्रीरामं
लॄ(लू)ननताघं श्रीरामम् ।
एकविक्रमं श्रीरामं
ऐहिकफलदं श्रीरामम् ॥ ३॥
ओन्नुतिफलदं श्रीरामं
औदार्यवरं श्रीरामम् ।
अद्भुत(अम्बुद)रूपं श्रीरामं
आमुष्मिकदं श्रीरामम् ॥ ४॥
कम्बुग्रीवं श्रीरामं
खरसंहारं श्रीरामम् ।
गजराड्वरदं श्रीरामं
धनसदृशाङ्गं श्रीरामम् ॥ ५॥
(१)ङज्युतिकरणं श्रीरामं
चटुलास्त्रधरं श्रीरामम् ।
छन्दोविनुतं श्रीरामं
जलजाताक्षं श्रीरामम् ॥ ६॥
Footnote
१. इति शिवस्य नाम । तस्य ज्युतिः द्युतिः, तस्याः कारणं
झषवररूपं श्रीरामं
(२)ञी(ञे)शात्मस्थं श्रीरामम् ।
(३)टीदृश(टिट्टिभ)हस्तं श्रीरामं
(४)ठपूजाङ्घ्रिं श्रीरामम् ॥ ७॥
(५)डापतिनाशं श्रीरामं
(६)ढम्मन्त्रहरं श्रीरामम् ।
(७)णक्रोधात्मं श्रीरामं
तपनान्वयजं श्रीरामम् ॥ ८॥
(८)थपरिपालं श्रीरामं
दशरथबालं श्रीरामम् ।
धरणीलोलं श्रीरामं
नरहरिरूपं श्रीरामम् ॥ ९॥
परमपावनं श्रीरामं
फल्गुनसुहृदं श्रीरामम् ।
बलिमददलनं श्रीरामं
(९)भण्डनसुदृशं श्रीरामम् ॥ १०॥
मन्मथजनकं श्रीरामं
यमिजनवेद्यं श्रीरामम् ।
रघुकुलतिलकं श्रीरामं
लक्ष्मीलोलं श्रीरामम् ॥ ११॥
Footnote
२. ञः इति शुक्रस्य नाम । तस्य ईशः अधिदेवता अम्बिका, तदात्मस्थम् ।
३. टिट्टिभः पक्षिविशेषः ।
४. ठः इति शिवस्य नाम ।
तस्य पूजा यस्मिन् सः ठपूजः । ठपूजः अङ्घ्रिः यस्य तम् ।
५. डा राक्षसी । तासां पतयः राक्षसाः, तेषां नाशः येन, तम् ।
६. ढः सर्पः, तस्य मन्त्रः नागास्त्रम्, तस्य हरम् ।
७. णः न क्रोधः, अक्रोधात्मानम् ।
८. यं भयम्, भयत्रातारम् ।
९. भण्डनं युद्धम्, तस्मिन् दक्षम् ।
वदनजितेन्दुं श्रीरामं
शङ्करविनुतं श्रीरामम् ।
षट्पदकान्तं श्रीरामं
सरसिजनाभं श्रीरामम् ॥ १२॥
हतदेवारिं श्रीरामं
लक्ष्मणाग्रजं श्रीरामम् ।
वनजातदृशं श्रीरामं
शफरसुनयनं श्रीरामम् ॥ १३॥
षड्वर्णज्ञं श्रीरामं
सरसिजनयनं श्रीरामम् ।
हतदेवारिं श्रीरामं
(१०)क्षरणविरहितं श्रीरामम् ॥ १४॥
Footnote
१०. क्षरणं स्वेदः, तद्रहितम् ।
इति श्रीरामाक्षरमालास्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan