श्रीरामचन्द्राष्टकम्
येन नान्दीमुखं नीतान्यागामिन्या रणश्रियः ।
जानकीस्तनकुम्भाभ्यां लक्षितं लक्ष्मणेन च ॥ १॥
जागरूकं जगत्त्राणे महस्तज्जयि जायताम् ।
वन्दामहे च वीर्यं रावणद्वेषिणः प्रभोः ॥ २॥ (वयं वीर्यं)
अद्याप्याधुष्यते घौषैर्बद्धसेतोर्यदम्बुधेः ।
चित्रं चरित्रं वीरस्य तस्य किं वर्णयाम्यहम् ॥ ३॥
यस्य कीर्तिं निकृन्तैरप्यास्यैरख्यदरिः स्वयम् ।
हनूमत्प्रमुखैर्वी रैरुर्व्यां दिव्यैर्जनैर्दिवि ।
परिवारितमव्याद्वः प्राभवं रावणद्रुहः ॥ ४॥
धनुषि निहितपारं वामहस्ताम्बुजेन
प्रगुणितमदबाणं पाणिना दक्षिणेन ।
निभुवनकमनीयस्निग्धकं त्रिप्रवाहं
भजत भजत भावं मैथिलीप्राणबन्धोः ॥ ५॥
विलङ्घ्योऽपि भीमं महाम्भोधिमेकं
दयाम्भोधिरन्योऽप्यलङ्घयोऽङ्गजस्य ।
स लङ्कापुरीवीरभङ्गावतारः ।
चिरं गाहतां मे गिरं कैटभारिः ॥ ६॥
रचिता रसनिर्भरैर्गिरामिति रामायणनायकस्तुतिः ।
विजयाय चिरं विजृम्भतां विदुषाम् मोदवहा सदा भुवि ॥ ७॥
कृष्णकेलिशुकभक्तिकन्दलिं पुष्णकी भुवनभक्तिभूमिषु ।
कृष्णजां रघुकुलेन्दुसौरभे मुष्णती हृदयमेक (?) श्रुतेः ॥ ८॥
इति श्रीरामचन्द्राष्टकं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran