श्रीरामचन्द्रार्तिक्यम्
जय जय सीतावल्लभ! । दशवदनाद्रिपवे !
(१)भवता पदमुरु दत्तं निजसदनाद्रिपवे । ध्रुव०॥
(२)जनुषालङ्कृतमिनकुलमथ मुनिमखरक्षा
दृषदपि विहिता कर्मसु पदरजसा दक्षा
त्र्यम्बकधनुरपि भग्नं, तदनु वृता स्वक्षा(३)
विजितः पथि पाटितपरपृथ्वीपतिवक्षाः(४) ॥ १॥
राज्यं तृणवत्त्यक्तं गुर्वर्थं सहसा
यो शूर्पणखा विकृताऽकार्यरिदुःसह सा
सुग्रीवमतिर्मुदिता व्यरचि धनुर्महसा(६)
लङ्कादाहात्प्रभृति त्रिदशसभा सहसा ॥ २॥
बन्धनमब्धेः कपिभी राक्षसबलदलनं
भक्तबिभीषणराज्यं यस्यास्ति न चलनं(७)
भरतमयूरं प्रति यत्करुणाघनवलनं
वाल्मीकेरपि यशसोऽशक्यं परिकलनम् ॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीरामचन्द्रार्तिक्यं सम्पूर्णम् ।
१। भवता निजमदनाद् उरु श्रेष्ठं पदं रिपवे दत्तमित्यन्वयः ।
२। इनः सूर्यस्तस्य कुलम् ।
३। शोभने अक्षिणी यस्यास्तादृशी सीता ।
४। पाटितानि परपृथ्वीपतीनां वक्षांसि येन तादृशो भार्गवः ।
५। या शूर्पणखा, सा, हे अरिदुःसह, त्वया विकृता अकारीति योज्यम् ।
६। चापस्य तेजसा वालिहननेनेति यावत् ।
७। ध्रुवमित्यर्थः ।
Proofread by Rajesh Thyagarajan