श्रीरामद्वादशनामस्तोत्रम्

श्रीरामद्वादशनामस्तोत्रम्

अस्य श्रीरामद्वादशनामस्तोत्रमहामन्त्रस्य, निटिलाक्षो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीरामचन्द्रो देवता, श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । ॐ प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् । तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥ पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् । सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥ नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् । एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥ द्वादशैतानि नामानि यः पठेच्छ्रद्धयान्वितः । अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥ ४॥ अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् । ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥ ५॥ सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् । ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः । अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥ इति श्री स्कन्दपुराणे उत्तरखण्डे श्रीउमामहेश्वरसंवादे श्रीरामद्वादशनामस्तोत्रं सम्पूर्णम् । ॐ प्रथमं श्रीकरं नित्यं द्वितीयं दशरथात्मजम् । तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥ पञ्चमं लोकपूज्यं च षष्ठमं जानकीप्रियम् । सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥ नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् । एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिकम् ॥ ४॥ सर्वसम्पत्प्रदं श्रेष्ठं सर्वकार्यवशीकरम् । दिव्यदेहमवाप्नोति दीर्घमायुष्यवर्धनम् ॥ ५॥ ग्रहरोग(दोष)विनाशं च सर्वकार्यफलप्रदम् । अरण्ये देवसङ्ग्रामे महाभयनिवारणम् ॥ ६॥ अर्धरात्रं जपेत् स्थित्वा सर्वारिष्टनिवारणम् । इहजन्मसुखी भूत्वा तद्विष्णोः परमं (यायाद्विष्णोः परं) पदम् ॥ ७॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनामस्तोत्रं सम्पूर्णम् । इति स्तोत्रार्णवे
% Text title            : rAmadvAdashanAmastotram
% File name             : rAmadvAdashanAmastotram.itx
% itxtitle              : rAmadvAdashanAmastotram (skandapurANAntargatam)
% engtitle              : rAmadvAdashanAmastotram
% Category              : raama, dvAdasha
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : There are two versions included here. Second is from sotrArNavaH
% Acknowledge-Permission: (scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org