श्रीराम जय राम जय जय राम मन्त्र महात्म्यम्
``श्रीराम जय राम जय जय राम''
श्रीपूर्वं जय पूर्वञ्च तद्विधं राम नामकम् ।
त्रयो दशाक्षरो मन्त्रो मुनि ब्रह्मा विराट् स्मृतः ॥ १॥
छन्दस्तु देवता प्रोक्तो राम पापौघ नाशनः ।
-- नारद पुराण पू. ३ पा. ७६८७
श्रीराम नामा मृतमन्त्र बीज
सञ्जीवनी चेन्मनसि प्रविष्टा ।
हाला हलं वा प्रलयानलं वा
मृत्योर्मुखे वा विशतां कुतोभी ॥ २॥
श्रीशब्द पूर्वं जय शब्द मध्यं
जय द्वये नाऽपि पुनः प्रयुक्तम् ।
त्रिसप्त कृत्त्वा रघुनाथ नामः
जपन्नि हन्यान् द्विजकोटि हत्या ॥ ३॥
-- आध्यात्मरामायणम्
श्रीपूर्वकं राम जयश्च रामः
जयद्वयश्चाऽपि पुनश्च रामः ।
त्रिसप्त सङ्ख्या कृत रामनाम
जपात् विहन्यात् द्विजकोटि हत्याः ॥ ४॥
अस्य मन्त्रस्य सिद्धिस्तु कोटी त्रयोदशं जपात् ।
भवत्येव न सन्देहः प्रवदन्तिमनीषिणः ॥ ५॥
-- स्वामी उमेश्वरानन्द
इति श्री स्वामी उमेश्वरानन्दतीर्थसङ्कलितं
``श्रीराम जय राम जय जय राम'' मन्त्र महात्म्यम् ।
Proofread by Paresh Panditrao