श्रीरामलघुमहिम्नस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
॥ श्रीरामाय नमः ॥
अथ मङ्गलाचरणम् ।
स्वर्गीयभोगास्पदलक्षवृत्तिषु
साध्याद्यसाध्यादिवियोगतन्तुषु ।
आनन्दरूपेऽप्यनवस्थितंहि मे
मातस्त्वदाराधनलोलुपं मनः ॥
रामं सदानन्दमयं परेशं
सच्चिन्मयं वाङ्मयदिव्यरूपम् ।
अग्निं नभस्थं युतनादबिन्दु-
बीजस्वरूपं सततं नमामि ॥
अथ राम(लघु)महिम्नस्तोत्रम् ।
रमन्ते यस्मिन् ते मुनिवरगणाः सिद्धनिकरा-
यमानन्दाकारं सकलजगदाधारनिलयम् ।
नमन्ति त्रैवर्गास्त्रिगुणमयतत्वादिकिरणं
तमेव श्रीरामं स्मरहरनुतं नौमि सततम् ॥ १॥
प्रकाशो राकारः प्रकृतिमयरूपो हरनुतो-
विमर्शश्चैवासौ विकृतिजतनुर्माक्षरपदः ।
विसर्गाकारश्चिन्मयपरमसत्तात्मकतनुः
परं दिव्यं रामं स्मरहरनुतं नौमि सततम् ॥ २॥
पुनः श्रीराकारो दहननिलयो रक्तवदनो-
मकारः शुद्धाभः शशधरतनुर्नित्यधवलः ।
तयोर्योगाद्रामेति भवति महातारकमनु-
र्महारूपं रामं स्मरहरनुतं नौमि सततम् ॥ ३॥
जगन्माया दिव्या परमजननो राक्षरमयी
शिवो ब्रह्माकारः परमजनको माक्षरमयः ।
उभौ तौ रामेती-ह जगति सदा संविलसतः
शिवाकार रामं स्मरहरनुतं नौमि सततम् ॥ ४॥
महारेफात्तेजो गगनमपि चाकारसुलिपेः
शतानन्दाज्जातञ्च सलिलमकाराद्वसुमती ।
विसर्गाद्वायूरा म इति किल तत्वात्मकमनुः
सतत्वं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ ५॥
परो राकारोवै भुवनरचनाद्यङ्कुरमयो
मकारो ब्रह्माण्डोभवनिखिलबीजादिविभवः ।
महामन्त्रो रामे-ति परतरबीजाङ्कुरमय-
स्तमादि श्रीरामं स्मरहरनुतं नौमि सततम् ॥ ६॥
भुवां कुण्डल्याख्या भुजगसदृशी राक्षरमयी
मकाराक्षेलीनं नभसि शशिनो मण्डलमपि ।
महायोगाद्या सा शुभहठमयो रामपदवी
सुयोगेशं रामं स्मरहरनुतं नौमि सततम् ॥ ७॥
ज्वलच्छ्रीराकारो निखिलजनसम्पत्प्रदलिपि-
र्मकारः शीताक्षो निजसकलतत्वादिजनकः ।
अभूच्छ्रिमद्रामेति पुनरघराम्नायजमनु-
महेशं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ ८॥
परः सीरूपाक्षः कहरिहर शक्त्यङ्गनिकरो
महोग्राख्याताराकृतिरपिचतारेतिपदवी ।
ततोमौकाराक्षः खलु परमहेशावयवकः
शुभौसीतारामौ स्मरहरनुतौ नौमि सततम् ॥ ९॥
स्वबीजं रामं ङेयुतमथ नियोज्यापिहृदयं
भवेन्मन्त्रो दिव्यः परमसुखदः पड्लिपिमयः ।
महाविद्यादाता यमभयहरः सर्वधनदः
षडणेशं रामं स्मरहरनुतं नौमि सततम् ॥ १०॥
त्रपा तारान्त्यस्था तदनु हृदयाख्यं शुभपदं
ततो रामो ङेन्त्यश्च परमशिवेशीप्रणवकः ।
महासम्पद्दाता भुवनविजयाष्टाक्षरमनुः
शुभष्टार्णं रामं स्मरहरनुतं नौमि सततम् ॥ ११॥
महातारो माया तदनु कमला सा रतिपतिः
शुभा वाणी पश्चात् परमनिजबीजं मनुवरम् ।
षडर्णोऽयं मन्त्रो भवति जपतामिष्टजनकः
सुबीजाख्यं रामं स्मरहस्नुतं नौमि सततम् ॥ १२॥
मनोज्ञं षट्कोणञ्च वसुदलयुग्मं शुभकरं
त्रिवृत्तं तद्वाह्येऽर्कदलकमलं पोडशदलम् ।
ततो द्वात्रिंशत्कं तदनुधरणीचक्रहुतकं
तदन्तस्थं रामं स्मरहरनुतं नौमि सततम् ॥ १३॥
स्ववामोरौ वामं स्वकरकमलं दक्षमपरं
लसत्प्राज्ञा मुद्रं दधतमपि वीरासनगतम् ।
घनश्यामं भ्राजन्मणिमुकुटमापीतवसनं
ससीतं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ १४॥
इदं स्त्रोत्रं रामे-ति सुमनुसमुद्धारणयुतं
पुनर्ध्यानोद्धारा-ति शुभकरयन्त्राख्यसहितम् ।
प्रसादार्थं राम-स्य ननु धनशंशेररचितं
क्षमार्थं श्रीरामं स्मरहरनुतं नौमि सततम् ॥ १५॥
इति श्रीधनशंशेर जङ्गवर्मणाविरचितं वीरेन्द्रकेसरिन्
शर्मणा संशोधितं श्रीरामलघुमहिम्नस्तोत्रम् ॥
Proofread by Mohan Chettoor