श्रीरामरत्नदशकम्
वेणुनादलोलबालगोपिकाकदम्बकं
लीलयोद्धृतैकशैलगुप्तगोकदम्बकम् ।
कामरूपकेलिलोलभूविलासिनीपतिं
राम राम राम रामनाम जल्प तारकम् ॥ १॥
राजराजमौलिरत्नराजिताङ्घ्रिपङ्कजं
राजराजसोदरोच्छिरःसरोजभञ्जनम् ।
रामशब्दगीतयुक्तयोगिमुक्तिदायकं
राम राम राम रामनाम जल्प तारकम् ॥ २॥
जानकीमनःसरोजराजहंसविभ्रमं
पारिजातजातदेववन्दितोरुविक्रमम् ।
पादपद्मरेणुधौतगौतमाङ्गनार्चितं
राम राम राम रामनाम जल्प तारकम् ॥ ३॥
दूषणादिराक्षसेन्द्रदन्तिकेसरीश्वरं
सप्तसालभेदकृत्यदक्षदिव्यसायकम् ।
कामितप्रदानदक्षकल्पवृक्षरूपिणं
राम राम राम रामनाम जल्प तारकम् ॥ ४॥
शङ्करादिगीयमानपुण्यनामकीर्तनं
भानुकोटिकान्तिकान्तरत्नशेखराञ्चितम् ।
सामगानलोलचित्तभक्तलोकनायकं
राम राम राम रामनाम जल्प तारकम् ॥ ५॥
जातयातुधाननाशकारिकार्मुकोज्ज्वलं
पादरेणुलेशधौतगौतमप्रियानुतम् ।
जानकीविलासलोलमानसं कृपानिधिं
राम राम राम रामनाम जल्प तारकम् ॥ ६॥
भानुवंशवार्धिचन्द्रमिन्द्रनीलसुन्दरं
भारतीविलासनृत्तमण्टपायुताननम् ।
बालभानुकोटितुल्यपीतवस्त्रसंवृतं
राम राम राम रामनाम जल्प तारकम् ॥ ७॥
वारिजातपारिजातसूनशोभिकन्धरं
हारिहारशोभमानबाहुमध्यसुन्दरम् ।
कामदेव(देह)कान्तिपूरसोदराङ्गवैभवं
राम राम राम रामनाम जल्प तारकम् ॥ ८॥
भोगिराजभोगपीनबाहुदण्डमण्डितं
राजराजसोदरास्यपद्मशीतदीधितम् ।
वालिसूनुशोकदानधीरधीरविक्रमं
राम राम राम रामनाम जल्प तारकम् ॥ ९॥
नारदादियोगिवृन्दवन्द्यपादपङ्कजं
वारिदावलीनिकाशकायकान्तिसुन्दरम् ।
शारदारविन्दपत्ररम्यदीर्घलोचनं
राम राम राम रामनाम जल्प तारकम् ॥ १०॥
पापितापजातभेदकारणं गुणान्वितं
रामदिव्यनामयुक्तवृत्तपञ्चकद्वयम् ।
भुक्तिमुक्तिदानबद्धचित्तवृत्तिमन्वहं
वक्ति यः शृणोति सोऽपि वाञ्छितं समीहते ॥ ११॥
इति श्रीरामरत्नदशकं सम्पूर्णम् ।
Proofread by Aruna Narayanan