श्रीरामसहस्रनामस्तोत्रम्

श्रीरामसहस्रनामस्तोत्रम्

(अकारादिज्ञकारान्त) ॥श्रीः ॥ सङ्कल्पः - यजमानः, आचम्य, प्राणानायम्य, हस्ते जलाऽक्षतपुष्पद्रव्याण्यादाय, अद्येत्यादि-मास-पक्षाद्युच्चार्य एवं सङ्कल्पं कुर्यात् । शुभपुण्यतिथौ अमुकप्रवरस्य अमुकगोत्रस्य अमुकनाम्नो मम यजमानस्य सकुटुम्बस्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं त्रिविधतापोपशमनार्थं सकलमनोरथसिद्ध्यर्थं श्रीसीतारामचन्द्रप्रीत्यर्थं च श्रीरामसहस्रनामस्तोत्रपाठं करिष्ये । अथवा कौशल्यानन्दवर्द्धनस्य श्रीभरतलक्ष्मणाग्रजस्य स्वमताभीष्टसिद्धिदस्य श्रीसीतासहितस्य मर्यादापुरुषोत्तमश्रीरामचन्द्रस्य सहस्रनामभिः श्रीरामनामाङ्कित- तुलसीदलसमर्पणसहितं पूजनमहं करिष्ये । अथवा सहस्रनमस्कारान् करिष्ये ॥ विनियोगः - ॐ अस्य श्रीरामचन्द्रसहस्रनामस्तोत्रमन्त्रस्य भगवान् शिव ऋषिः, अनुष्टुप् छन्दः, श्रीरामसीतालक्ष्मणा देवताः, चतुर्वर्गफलप्राप्त्ययर्थं पाठे (तुलसीदलसमर्पणे, पूजायां नमस्कारेषु वा) विनियोगः ॥ करन्यासः - श्रीरामचन्द्राय, अङ्गुष्ठाभ्यां नमः । श्रीसीतापतये, तर्जनीभ्यां नमः । श्रीरघुनाथाय, मध्यमाभ्यां नमः । श्रीभरताग्रजाय, अनामिकाभ्यां नमः । श्रीदशरथात्मजाय, कनिष्ठिकाम्यां नमः । श्रीहनुमत्प्रभवे, करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - श्रीरामचन्द्राय, हृदयाय नमः । श्रीसीतापतये, शिरसे स्वाहा । श्रीरघुनाथाय शिखायै वषट् । श्रीभरताग्रजाय कवचाय हुम् । श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् । श्रीहनुमत्प्रभवे, अस्त्राय फट् ॥ ध्यानम् - ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १॥ var मण्डलं नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २॥ मानस-पञ्चोपचार-पूजनम्- १ ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि । २ ॐ हं आकाशात्मने पुष्पं परिकल्पयामि । ३ ॐ यं वाय्वात्मने धूपं परिकल्पयामि । ४ ॐ रं वह्न्यात्मने दीपं परिकल्पयामि । ५ ॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि । अथ श्रीरामसहस्रनामस्तोत्रम् । ॐ अनादिरधिवासश्चाच्युत आधार एव च । आत्मप्रचालकश्चादिरात्मभुङ्नामकस्तथा ॥ १॥ इच्छाचारीभबन्धारीडानाडीश्वर एव च । इन्द्रियेशश्चेश्वरश्च तथा चेतिविनाशकः ॥ २॥ उमाप्रिय उदारज्ञ उमोत्साहस्तथैव च । उत्साह उत्कटश्चैव उद्यमप्रिय एव च ॥ ३॥ ऊधाब्धिदानकर्ता च ऊनसत्त्वबलप्रदः । ऋणमुक्तिकरश्चाथ ऋणदुःखविमोचकः ॥ ४॥ एकपत्निश्चैकबाणधृट् तथा चैन्द्रजालिकः । ऐश्वर्यभोक्ता ऐश्वर्यमोषधीनां रसप्रदः ॥ ५॥ ओण्ड्रपुष्पाभिलाषी चौत्तानपादिसुखप्रियः । औदार्यगुणसम्पन्न औदरश्चौषधस्तथा ॥ ६॥ अंशांशिभावसम्पन्नश्चांसी चाङ्कुरपूरकः । काकुत्स्थः कमलानाथः कोदण्डी कामनाशनः ॥ ७॥ कार्मुकी काननस्थश्च कौसल्यानन्दवर्धनः । कोदण्डभञ्जनः काकध्वंसी कार्मुकभञ्जनः ॥ ८॥ कामारिपूजकः कर्ता कर्बूरकुलनाशनः । कबन्धारिः क्रतुत्राता कौशिकाह्लादकारकः ॥ ९॥ काकपक्षधरः कृष्णः कृष्णोत्पलदलप्रभः । कञ्जनेत्रः कृपामूर्तिः कुम्भकर्णविदारणः ॥ १०॥ कपिमित्रं कपित्राता कपिकालः कपीश्वरः । कृतसत्यः कलाभोगी कलानाथमुखच्छविः ॥ ११॥ काननी कामिनीसङ्गी कुशतातः कुशासनः । कैकेयीकीर्तिसंहर्ता कृपासिन्धुः कृपामयः ॥ १२॥ कुमारः कुकुरत्राता करुणामयविग्रहः । कारुण्यं कुमूदानन्दः कौसल्यागर्भसेवनः ॥ १३॥ कन्दर्पनिन्दिताङ्गःश्च कोटिचन्द्रनिभाननः । कमलापूजितः कामः कमलापरिसेवितः ॥ १४॥ कौसल्येयः कृपाधाता कल्पद्रुमनिषेवितः । खड्गहस्तः खरध्वंसी खरसैन्यविदारणः ॥ १५॥ खरषुत्रप्राणहर्ता खण्डितासुरजीवनः । खलान्तकः खस्थविरः खण्डितेशधनुस्तथा ॥ १६॥ खेदी खेदहरः खेददायकः खेदवारणः । खेदहा खरहा चैव खड्गी क्षिप्रप्रसादनः ॥ १७॥ खेलत्खञ्जननेत्रश्च खेलत्सरसिजाननः । खगचक्षुसुनासश्च खञ्जनेशसुलोचनः ॥ १८॥ खञ्जरीटपतिः खञ्जः खञ्जरीटविचञ्चलः । गुणाकरो गुणानन्दो गञ्जितेशधनुस्तथा ॥ १९॥ गुणसिन्धुर्गयावासी गयाक्षेत्रप्रकाशकः । गुहमित्रं गुहत्राता गुहपूज्यो गुहेश्वरः ॥ २०॥ गुरुगौरवकर्ता च गरुगौरवरक्षकः । गुणी गुणप्रियो गीतो गर्गाश्रमनिषेवकः ॥ २१॥ गवेशो गवयत्राता गवाक्षामोददायकः । गन्धमादनपूज्यश्च गन्धमादनसेवितः ॥ २२॥ गौरभार्यो गुरुत्राता गरुयज्ञाधिपालकः । गोदावरीतीरवासी गङ्गास्नातो गणाधिपः ॥ २३॥ गरुत्मतरथी गुर्वी गुणात्मा च गुणेश्वरः ॥ गरुडी गण्डकीवासी गण्डकीतीरचारणः ॥ २४॥ गर्भवासनियन्ताऽथ गुरुसेवापरायणः । गीष्पतिस्तूयमानस्तु गीर्वाणत्राणकारकः ॥ २५॥ गौरीशपूजको गौरीहृदयानन्दवर्धनः । गीतप्रियो गीतरतस्तथा गीर्वाणवन्दितः ॥ २६॥ घनश्यामो घनानन्दो घोरराक्षसघातकः । घनविघ्नविनाशो वै घनानन्दविनाशकः ॥ २७॥ घनानन्दो घनानादी घनगर्जिनिवारणः । घोरकाननवासी च घोरशस्त्रविनाशकः ॥ २८॥ घोरबाणधरो घोरधन्वी घोरपराक्रमः । घर्मबिन्दुमुखश्रीमान् घर्मबिन्दुविभूषितः ॥ २९॥ घोरमारीचहर्ता च घोरवीरविघातकः । चन्द्रवक्त्रश्चञ्चलाक्षश्चन्द्रमूर्तिश्चतुष्कलः ॥ ३०॥ चन्द्रकान्तिश्चकोराक्षश्चकोरीनयनप्रियः । चण्डवाणश्चण्डधन्वा चकोरीप्रियदर्शनः ॥ ३१॥ चतुरश्चातुरीयुक्तश्चातुरीचित्तचोरक्रः । चलत्खड्गश्चलद्बाणश्चतुरङ्गबलान्वितः ॥ ३२॥ चारुनेत्रश्चारुवक्त्रश्चारुहासप्रियस्तथा । चिन्तामणिविभूषाङ्गश्चिन्तामणिमनोरथी ॥ ३३॥ चिन्तामणिसुदीपश्च चिन्तामणिमणिप्रियः । चित्तहर्ता चित्तरूपी चलच्चित्तश्चिताञ्चितः ॥ ३४॥ चराचरभयत्राता चराचरमनोहरः । चतुर्वेदमयश्चिन्त्यश्चिन्तासागरवारणः ॥ ३५॥ चण्डकोदण्डधारी च चण्डकोदण्डखण्डनः । चण्डप्रतापयुक्तश्च चण्डेषुश्चण्डविक्रमः ॥ ३६॥ चतुर्विक्रमयुक्तश्च चतुरङ्गबलापहः । चतुराननपूज्यश्च चतुःसागरशासिता ॥ ३७॥ चमूनाथश्चमूभर्ता चमूपूज्यश्चमूयुतः । चमूहर्ता चमूभञ्जी चमूतेजोविनाशकः ॥ ३८॥ चामरी चारुचरणश्चरणारुणशोभनः । चर्मी चर्मप्रियश्चारुमृगचर्मविभूषितः ॥ ३९॥ चिद्रूपी च चिदानन्दश्चित्स्वरूपी चराचरः । छत्ररूपी छत्रसङ्गी छात्रवृन्दविभूषितः ॥ ४०॥ छात्रश्छत्रप्रियश्छत्री छत्रमोहार्तपालकः । छत्रचामरयुक्तश्च छत्रचामरमण्डितः ॥ ४१॥ छत्रचामरहर्ता च छत्रचामरदायकः । छत्रधारी छत्रहर्ता छत्रत्यागी च छत्रदः ॥ ४२॥ छत्ररूपी छलत्यागी छलात्मा छलविग्रहः । छिद्रहर्त्ता छिद्ररूपी छिद्रौघविनिषूदनः ॥ ४३॥ छिन्नशत्रुश्छिन्नरोगश्छिन्नधन्वा छलापहः । छिन्नछत्रप्रदाता च छन्दश्चारी छलापहा ॥ ४४॥ जानकीशो जितामित्रो जानकीहृदयप्रियः । जानकीपालको जेता जितशत्रुर्जितासुरः ॥ ४५॥ जानक्युद्धारको जिष्णुर्जितसिन्धुर्जयप्रदः । जानकीजीवनानन्दो जानकीप्राणवल्लभः ॥ ४६॥ जानकीप्राणभर्ता च जानकीदृष्टिमोहनः । जानकीचित्तहर्ता च जानकीदुःखभञ्जनः ॥ ४७॥ जयदो जयकर्ता च जगदीशो जनार्दनः । जनप्रियो जनानन्दो जनपालो जनोत्सुकः ॥ ४८॥ जितेन्द्रियो जितक्रोधो जीवेशो जीवनप्रियः । जटायुमोक्षदो जीवत्राता जीवनदायकः ॥ ४९॥ जयन्तारिर्जानकीशो जनकोत्सवदायकः । जगत्त्राता जगत्पाता जगत्कर्ता जगत्पतिः ॥ ५०॥ जाड्यहा जाड्यहर्ता च जाड्येन्धनहुताशनः । जगत्स्थितिर्जगन्मूर्तिर्जगतां पापनाशनः ॥ ५१॥ जगच्चिन्त्यो जगद्वन्द्यो जगज्जेता जगत्प्रभुः । जनकारिविहर्ता च जगज्जाड्यविनाशकः ॥ ५२॥ जटी जटिलरूपश्च जटाधारी जटाबहः । झर्झरप्रियवाद्यश्च झञ्झावातनिवारकः ॥ ५३॥ झञ्झारवस्वनो झान्तो झार्णो झार्णवभूषितः । टङ्कारिष्टङ्कदाता च टीकादृष्टिस्वरूपधृट् ॥ ५४॥ ठकारवर्णनियमो डमरुध्वनिकारकः । ढक्कावाद्यप्रियो ढार्णो ढक्कावाद्यमहोत्सवः ॥ ५५॥ तीर्थसेवी तीर्थवासी तरुस्तीर्थनिवासकः । तालभेत्ता तालघाती तपोनिष्ठस्तपः प्रभुः ॥ ५६॥ तापसाश्रमसेवी च तपोधनसमाश्रयः । तपोवनस्थितश्चैव तपस्तापसपूजितः ॥ ५७॥ तन्वीभार्यस्तनूकर्ता त्रैलोक्यवशकारकः । त्रिलोकीशस्त्रिगुणकस्त्रैगुण्यस्त्रिदिवेश्वरः ॥ ५८॥ त्रिदिवेशस्त्रिसर्गेशस्त्रिमूर्तिस्त्रिगुणात्मकः । तन्त्ररूपस्तन्त्रविज्ञस्तन्त्रविज्ञानदायकः ॥ ५९॥ तारेशवदनोद्योती तारेशमुखमण्डलः । त्रिविक्रमस्त्रिपादूर्ध्वस्त्रिस्वरस्त्रिप्रवाहकः ॥ ६०॥ त्रिपुरारिकृतभक्तिश्च त्रिपुरारिप्रपूजितः । त्रिपुरेशस्त्रिसर्गश्च त्रिविधस्त्रितनुस्तथा ॥ ६१॥ तूणी तूणीरयुक्तश्च तूणबाणधरस्तथा । ताटकावधकर्ता च ताटकाप्राणघातकः ॥ ६२॥ ताटकाभयकर्ता च ताटकादर्पनाशकः । थकारवर्णनियमस्थकारप्रियदर्शनः ॥ ६३॥ दीनबन्धुर्दयासिन्धुर्दारिद्र्यापद्विनाशकः । दयामयो दयामूर्तिर्दयासागर एव च ॥ ६४॥ दिव्यमूर्तिर्दिव्यबाहुर्दीर्घनेत्रो दुरासदः । दुराधर्षो दुराराध्यो दुर्मदो दुर्गनाशनः ॥ ६५॥ दैत्यारिर्दनुजेन्द्रारिर्दानवेन्द्रविनाशनः । दूर्वादलश्याममूर्तिर्दूर्वादलघनच्छविः ॥ ६६॥ दूरदर्शी दीर्घदर्शी दुष्टारिबलहारकः । दशग्रीववधाकाङ्क्षी दशकन्धरनाशकः ॥ ६७॥ दूर्वादलश्यामकान्तो दूर्वादलसमप्रभः । दाता दानपरो दिव्यो दिव्यसिंहासनस्थितः ॥ ६८॥ दिव्यदोलासमासीनो दिव्यचामरमण्डितः । दिव्यच्छत्रसमायुक्तो दिव्यालङ्कारमण्डितः ॥ ६९॥ दिव्याङ्गनाप्रमोदश्च दिलीपान्वयसम्भवः । दूषणारिर्दिव्यरूपी देवो दशरथात्मजः ॥ ७०॥ दिव्यदो दधिभुगू दानी दुःखसागरभञ्जनः । दण्डी दण्डधरो दान्तो दन्तुरो दनुजापहः ॥ ७१॥ धैर्यं धीरो धरानाथो धनेशो धरणीपतिः । धन्वी धनुष्मान् धेनुष्को धनुर्भक्ता धनाधिपः ॥ ७२॥ धार्मिको धर्मशीलश्च धर्मिष्ठो धर्मपालकः । धर्मपाता धर्मयुक्तो धर्मनिन्दकवर्जकः ॥ ७३॥ धर्मात्मा धरणीत्यागी धर्मयूपो धनार्थदः । धर्मारण्यकृतावासो धर्मारण्यनिषेवकः ॥ ७४॥ धरोद्धर्ता धरावासी धैर्यवान् धरणीधरः । नारायणो नरो नेता नन्दिकेश्वरपूजितः ॥ ७५॥ नायको नृपतिर्नेता नेयो नरपतिर्नटः । नटेशो नगरत्यागी नन्दिग्रामकृताश्रमः ॥ ७६॥ नवीनेन्दुकलाकान्तिर्नौपतिर्नृपतेः पतिः । नीलेशो नीलसन्तापी नीलदेहो नलेश्वरः ॥ ७७॥ नीलाङ्गो नीलमेघाभो नीलाञ्जनसमद्युतिः । नीलोत्पलदलप्रख्यो नीलोत्पलदलेक्षणः ॥ ७८॥ नवीनकेतकीकुन्दो नूत्नमालाविराजितः । नारीशो नागरीप्राणो नीलबाहुर्नदी नदः ॥ ७९॥ निद्रात्यागी निद्रितश्च निद्रालुर्नदबन्धकः । नादो नादस्वरूपच्च नादात्मा नादमण्डितः ॥ ८०॥ पूर्णानन्दो परब्रह्म परन्तेजाः परात्परः । परं धाम परं मूर्तिः परहंसः परावरः ॥ ८१॥ पूर्णः पूर्णोदरः पूर्वः पूर्णारिविनिषूदनः । प्रकाशः प्रकटः प्राप्यः पद्मनेत्रः परोत्कटः ॥ ८२॥ पूर्णब्रह्म पूर्णमूर्तिः पूर्णतेजाः परंवषुः । पद्मबाहुः पद्यवक्त्रः पञ्चाननसुपूजितः ॥ ८३॥ प्रपञ्चः पञ्चपूतश्च पञ्चाम्नायः परप्रभूः । पद्मेशः पद्मकोशश्च पद्माक्षः पद्मलोचनः ॥ ८४॥ पद्मापतिः पुराणश्च पुराणषुरुषः प्रभुः । पयोधिशयनः पालः पालकः पृथिवीपतिः ॥ ८५॥ पवनात्मजवन्द्यश्च पवनात्मजसेवितः । पञ्चप्राणः पञ्चवायुः पञ्चाङ्गः पञ्चसायकः ॥ ८६॥ पञ्चबाणः पूरकश्च प्रपञ्चनाशकः प्रियः । पातालं प्रमथः प्रौढः पाशी प्रार्थ्यः प्रियंवदः ॥ ८७॥ प्रियङ्करः पण्डितात्मा पापहा पापनाशनः । पाण्ड्येशः पूर्णशीलश्च पद्मी पद्मसमर्चितः ॥ ८८॥ फणीशः फणिशायी च फणिपूज्यः फणान्वितः । फलमूलप्रभोक्ता च फलदाता फलेश्वरः ॥ ८९॥ फणिरूपः फणेर्भर्त्ता फणिभुग्वाहनस्तथा । फल्गुतीर्थसदास्नायी फल्गुतीर्थप्रकाशकः ॥ ९०॥ फलाशी फलदः फुल्लः फलकः फलभक्षकः । बुधो बोधप्रियो बुद्धो बुद्धाचारनिवारकः ॥ ९१॥ बहुदो बलदो ब्रह्मा ब्रह्मण्यो ब्रह्मदायकः । भरतेशो भारतीशो भारद्वाजप्रपूजितः ॥ ९२॥ भर्ता च भगवान् भोक्ता भीतिघ्नो भयनाशनः । भवो भीतिहरो भव्यो भूपतिर्भूपवन्दितः ॥ ९३॥ भूपालो भवनं भोगी भावनो भुवनप्रियः । भारतारो भारहर्ता भारभृद्भरताग्रजः ॥ ९४॥ भूर्भुग्भुवनभर्ता च भूनाथो भूतिसुन्दरः । भेद्यो भेदकरो भेत्ता भूतासुरविनाशनः ॥ ९५॥ भूमिदो भूमिहर्ता च भूमिदाता च भूमिपः । भूतेशो भूतनाथश्च भूतेशपरिपूजितः ॥ ९६॥ भूधरो भूधराधीशो भूधरात्मा भयापहः । भयदो भयदाता च भयहर्ता भयावहः ॥ ९७॥ भक्षो भक्ष्यो भवानन्दो भवमूर्तिर्भवोदयः । भवाब्धिर्भारतीनाथो भरतो भूमिभूधरौ ॥ ९८॥ मारीचारिर्मरुत्त्राता माधवो मधुसूदनः । मन्दोदरीस्तूयमानो मधुगद्गदभाषणः ॥ ९९॥ मन्दो मन्दारुमन्तारौ मङ्गलं मतिदायकः । मायी मारीचहन्ता च मदनो मातृपालकः ॥ १००॥ महामायो महाकायो महातेजा महाबलः । महाबुद्धिर्महाशक्तिर्महादर्पो महायशाः ॥ १०१॥ महात्मा माननीयश्च मूर्तो मरकतच्छविः । मुरारिर्मकराक्षारिर्मत्तमातङ्गविक्रमः ॥ १०२॥ मधुकैटभहन्ता च मातङ्गवनसेवितः । मदनारिप्रभुर्मत्तो मार्तण्डकुलभूषणः ॥ १०३॥ मदो मदविनाशी च मर्दनो मुनिपूजकः । मुक्तिर्मरकताभश्च महिमा मननाश्रयः ॥ १०४॥ मर्मज्ञो मर्मघाती च मन्दारकुसुमप्रियः । मन्दरस्थो मुहूर्तात्मा मङ्गल्यो मङ्गलालकः ॥ १०५॥ मिहिरो मण्डलेशश्च मन्युर्मान्यो महोदधिः । मारुतो मारुतेयश्च मारुतीशो मरुत्तथा ॥ १०६॥ यशस्यश्च यशोराशिर्यादवो यदुनन्दनः । यशोदाहृदयानन्दो यशोदाता यशोहरः ॥ १०७॥ युद्धतेजा युद्धकर्ता योधो युद्धस्वरूपकः । योगो योगीश्वरो योगी योगेन्द्रो योगपावनः ॥ १०८॥ योगात्मा योगकर्ता च योगभृद्योगदायकः । योद्धा योधगणासङ्गी योगकृद्योगभूषणः ॥ १०९॥ युवा युवतिभर्ता च युवभ्राता युवार्जकः । रामभद्रो रामचन्द्रो राघवो रघुनन्दनः ॥ ११०॥ रामो रावणहन्ता च रावणारी रमापतिः । रजनीचरहन्ता च राक्षसीप्राणहारकः ॥ १११॥ रक्ताक्षो रक्तपद्माक्षो रमणो राक्षसान्तकः । राघवेन्द्रो रमाभर्ता रमेशो रक्तलोचनः ॥ ११२॥ रणरामो रणासक्तो रणो रक्तो रणात्मकः । रङ्गस्थो रङ्गभूमिस्थो रङ्गशायी रणार्गलः ॥ ११३॥ रेवास्नायी रमानाथो रणदर्पविनाशनः । राजराजेश्वरो राजा राजमण्डलमण्डितः ॥ ११४॥ राज्यदो राज्यहर्ता च रमणीप्राणवल्लभः । राज्यत्यागी राज्यभोगी रसिकोऽथ रघूद्वहः ॥ ११५॥ राजेन्द्रो रधुनायश्च रक्षोहा रावणान्तकः । लक्ष्मीकान्तश्च लक्ष्मीपो लक्ष्मीशो लक्ष्मणाग्रजः ॥ ११६॥ लक्ष्मणत्राणकर्ता च लक्ष्मणप्रीतिपालकः । लीलावतारो लङ्कारिर्लङ्केशो लक्ष्मणेश्वरः ॥ ११७॥ लक्ष्मणत्राणकश्चैव लक्ष्मणप्रतिपालकः । लङ्गेशघातकश्चाथ लङ्गेशप्राणहारकः ॥ ११८॥ लङ्केशवीर्यहर्ता च लाक्षारसविलोचनः । लवङ्गकुसुमासक्तो लवङ्गकुसुमप्रियः ॥ ११९॥ ललनापालनो लक्षो लिङ्गरूपी लसत्तनुः । लावण्यरामो लावण्यं लक्ष्मीनारायणात्मकः ॥ १२०॥ लवणाम्बुधिबन्धश्च लवणाम्बुधिसेतुकृत् । लीलामयो लवणजित् लोलो लवणजित्प्रियः ॥ १२१॥ वसुधापालको विष्णुर्विद्वान् विद्वज्जनप्रियः । वसुधेशो वासुकीशो वरिष्ठो वरवाहनः ॥ १२२॥ वेदो विशिष्टो वक्ता च वदान्यो वरदो विभुः । विधिर्विधाता वासिष्ठो वसिष्ठो वसुपालकः ॥ १२३॥ वसुर्वसुमतीभर्ता वसुमान् वसुदायकः । वार्ताधारी वनस्थश्च वनवासी वनाश्रयः ॥ १२४॥ विश्वभर्ता विश्वपाता विश्वनाथो विभावसुः । विभुर्विभुज्यमानश्च विभक्तो वधबन्धनः ॥ १२५॥ विविक्तो वरदो वन्यो विरक्तो वीरदर्पहा । वीरो वीरगुरुर्वीरदर्पध्वंसी विशाम्पतिः ॥ १२६॥ वानरारिर्वानरात्मा वीरो वानरपालकः । वाहनो वाहनस्थश्च वनाशी विश्वकारकः ॥ १२७॥ वरेण्यो वरदाता च वरदो वरवञ्चकः । वसुदो वासुदेवश्च वसुर्वन्दनमेव च ॥ १२८॥ विद्याधरो वेद्यविन्ध्यो तथा विन्ध्याचलाशनः । विद्याप्रियो विशिष्टात्मा वाद्यभाण्डप्रियस्तथा ॥ १२९॥ वन्द्यश्च वसुदेवश्च वसुप्रियवसुप्रदौ । श्रीदः श्रीशः श्रीनिवासः श्रीपतिः शरणाश्रयः ॥ १३०॥ श्रीधरः श्रीकरः श्रीलः शरण्यः शरणात्मकः । शिवार्जितः शिवप्राणः शिवदः शिवपूजकः ॥ १३१॥ शिवकृत् शिवहर्ता च शिवात्मा शिववाञ्छकः । शायकी शङ्करात्मा च शङ्कःरार्चनतत्परः ॥ १३२॥ शङ्करेशः शिशुः शौरिः शाब्दिकः शब्दरूपकः । शब्दभेदी शब्दहर्ता शायकः शरणार्तिहा ॥ १३३॥ शर्वः शर्वप्रभुः शूली शूलपाणिप्रपूजितः । शार्ङ्गी च शङ्करात्मा च शिवः शकटभञ्जनः ॥ १३४॥ शान्तः शान्तिः शान्तिदाता शान्तिकृत् शान्तिकारकः । शान्तिकः शङ्खधारी च शङ्खी शङ्खध्वनिप्रियः ॥ १३५॥ षट्चक्रभेदनकरः षड्गुणश्च षडूर्मिकः । षडिन्द्रियः षडङ्गात्मा षोडशः षोडशात्मकः ॥ १३६॥ स्फुरत्कुण्डलहाराढ्यः स्फुरन्मरकतच्छविः । सदानन्दः सतीभर्ता सर्वेशः सज्जनप्रियः ॥ १३७॥ सर्वात्मा सर्वकर्ता च सर्वपाता सनातनः । सिद्धः साध्यः साधकेन्द्रः साधकः साधकप्रियः ॥ १३८॥ सिद्धेशः सिद्धिदः साधुः सत्कर्ता वै सदीश्वरः । सद्गतिः सञ्चिदानन्दः सद्ब्रह्मा सकलात्मकः ॥ १३९॥ सतीप्रियः सतीभार्यः स्वाध्यायश्च सतीपतिः । सत्कविः सकलत्राता सर्वपापप्रमोचकः ॥ १४०॥ सर्वशास्त्रमयः सूर्यः सर्वाम्नायनमस्कृतः । सर्वदेवमयः साक्षी सर्वयज्ञस्वरूपकः ॥ १४१॥ सर्वः सङ्कटहर्ता च साहसी सगुणात्मकः । सुस्निग्धः सुखदाता च सत्त्वः सत्त्वगुणाश्रयः ॥ १४२॥ सत्यः सत्यव्रतश्चैव सत्यवान् सत्यपालकः । सत्यात्मा सुभगश्चैव सौभाग्यं सगरान्वयः ॥ १४३॥ सीतापतिः ससीतश्च सात्वतः सात्वताम्पतिः । हरिर्हली हलश्चैव हर-कोदण्ड-खण्डनः ॥ १४४॥ हुङ्कारध्वनिपूरश्च हुङ्कारध्वनिसम्भवः । हर्ता हरो हरात्मा च हारभूषणभूषितः ॥ १४५॥ हरकार्मुकभङ्क्ता च हरपूजापरायणः । क्षोणीशः क्षितिभुग् क्षोणीनेता चैव क्षमापरः ॥ १४६॥ क्षमाशीलः क्षमायुक्तः क्षोदी क्षोदविमोचनः । क्षेमङ्करस्तथा क्षेमदायको ज्ञानदायकः ॥ १४७॥ फलश्रुतिः - नाम्नामेतत्सहस्रं तु श्रीरामस्य जगत्प्रभोः । रुद्रयामलतन्त्रेऽस्मिन् भुक्तिमुक्तिप्रदायकम् ॥ १४८॥ श्रीगौर्यै श्रावितं स्तोत्रं भक्त्या श्रीशस्मृना स्वयम् । रामसायुज्यलक्ष्मीकं सर्वसौख्यकरं नृणाम् ॥ पठन् श‍ृण्वन् गृणन् वापि ब्रह्मभूयाय कल्पते ॥ १४९॥ श्रीरामनाम्ना परमं सहस्रकं पापापहं पुण्यसुखावहं शुभम् । भक्तिप्रदं भक्तजनैकपालकं स्त्रीपुत्रपौत्रप्रदमिष्चदायकम् ॥ १५०॥ ॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ ॐ तत्सत् श्रीसीतारामचन्द्रार्पणमस्तु ॥ Proofread by PSA Easwaran
% Text title            : rAmasahasranAmastotram 3
% File name             : rAmasahasranAmastotram3.itx
% itxtitle              : rAmasahasranAmastotram 3 (akArAdijnakArAnta anAdiradhivAsaH)
% engtitle              : rAmasahasranAmastotram 3
% Category              : raama, sahasranAma
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (VSM 2, rAmapUjApaddhati scan)
% Latest update         : June 21, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org