रामसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

रामसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

त्रयोदशोऽध्यायः ब्रह्मोवाच - अथ त्रयोदशतमे दिने नामविघित्सया । कुमाराणां सुजनुषां परमायुश्चिकीर्षया ॥ १॥ वसिष्ठो वंशपौरौधाः मुदायुक्तः समाययौ । राज्ञो दशरथस्यान्तःपुरे सर्वसमर्द्धने ॥ २॥ var समृद्धने समायातं मुनिधेष्ठं राजा दशरथोऽग्रहीत् । अहो मे भाग्यसंपत्या सङ्गतोऽद्य पुरोहितः ॥ ३॥ प्राजापत्यो मुनिश्रेष्ठः परमानन्ददर्शनः । नमस्ते मुनिशार्दूल प्राजापत्य महाप्रभ ॥ ४॥ var महाप्रभो वसिष्ठ उवाच - नरेन्द्र वत ते भाग्यं जातोऽसि तनु पुत्रवान् ॥ ५॥ तेषामहं कुमाराणां नामकृत्यं सुखप्रदम् । तवाज्ञया विधास्यामि यद्गोप्यममरैरपि ॥ ६॥ अहो अमी प्रभोरंशा रामस्यामिततेजसः । योऽसौ तव कुमाराणामग्रणी राम एव सः ॥ ७॥ अस्य चत्वार एवांशाः ब्रह्मरूपाः सनातनाः । वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ८॥ चत्वार एते पुरुषाः स्वस्वकार्यविधायकाः । धर्मरूपास्तु रामस्य पुरुषोत्तमरूपिणः ॥ ९॥ ततः संस्तातसंस्कारान् मन्त्रितान् विधिवर्त्मना । नामानि चक्रे व्रह्मर्षिः कोटिकल्पविदुत्तमः ॥ १०॥ वसिष्ठ उवाच - रामः श्यामो हरिर्विष्णुः केशवः केशिनाशनः । नारायणो माधवश्च श्रीधरो मधुसूदनः ॥ ११॥ रावणारिः कंसनिहा वकीप्राणनिवर्त्तनः । ताडकाहननोद्युक्तो विश्वामित्रप्रियः कृती ॥ १२॥ वेदाङ्गो यज्ञवाराहो धर्मज्ञो मेदिनीपतिः । वासुदेवोऽरविन्दाक्षो गोविन्दो गोपतिः प्रभुः ॥ १३॥ पद्माकान्तो विकुण्ठाभूः कीर्तिकन्यासुखप्रदः । जानकीप्राणनाथश्च सीताविश्लेषनाशनः ॥ १४॥ मुकुन्दो मुक्तिदाता च कौस्तुभी करुणाकरः । खरदूषणनाशी च मारीचप्राणनाशकः ॥ १५॥ सुबाहुमारणोत्साही पक्षिश्राद्धविधायकः । विहङ्गपितृसम्बन्धी क्षणतुष्टो गतिप्रदः ॥ १६॥ पूतनामातृगतिदो विनिवृत्ततृणानिलः । पावनः परमानन्दः कालिन्दीजलकेलिकृत् ॥ १७॥ सरयूजलकेलिश्च साकेतपुरदैवतः । मथुरास्थाननिलयो विश्रुतात्मा त्रयीस्तुतः ॥ १८॥ कौन्तेयविजयोद्युक्तः सेतुकृत् सिन्धुगर्भवित् । सप्ततालप्रभेदी च महास्थिक्षेपणोद्धुरः ॥ १९॥ कौशल्यानन्दनः कृष्णः किशोरीजनवल्लभः । आभीरीवल्लभो वीरः कोटिकन्दर्पविग्रहः ॥ २०॥ गोवर्द्धनगिरिप्राशी गोवर्द्धनगिरीश्वरः । गोकुलेशो न्नजेशश्च सहजाप्राणवल्लभः ॥ २१॥ भूलीलाकेलिसन्तोषी वामाकोटिप्रसादनः । भिल्लपत्नीकृपासिन्धुः कैवर्त्तकरुणाकरः ॥ २२॥ जाम्बवद्भक्तिदो भोक्ता जाम्बवत्यङ्गनापतिः । सीताप्रियो रुक्मिणीशः कल्याणगुणसागरः ॥ २३॥ भक्तप्रियो दाशरथिः कैटभारिः कृतोत्सवः । कदम्बवनमध्यस्थः शिलासंतारदायकः ॥ २४॥ राघवो रघुवीरश्च हनुमत्सख्यवर्द्धनः । पीताम्बरोऽच्युतः श्रीमान् श्रीगोपीजनवल्लभः ॥ २५॥ भक्तेष्टो भक्तिदाता च भार्गवद्विजगर्वजित् । कोदण्डरामः क्रोधात्मा लङ्काविजयपण्डितः ॥ २६॥ कुम्भकर्णनिहन्ता च युवा कैशोरसुन्दरः । वनमाली घनश्यामो गोचारणपराक्रमी ॥ २७॥ काकपक्षधरो वेषो विटो धृष्टः शठः पतिः । अनुकूलो दक्षिणश्च तारः कपटकोविदः ॥ २८॥ अश्वमेधप्रणेता च राजा दशरथात्मजः । राघवेन्द्रो महाराजः श्रीरामानन्दविग्रहः ॥ २९॥ क्षत्त्रः क्षत्त्रकुलोत्तसो महातेजाः प्रतापवान् । महासैन्यो महाचापो लक्ष्मणैकान्तसुप्रियः ॥ ३०॥ कैकेयीप्रणनिर्माता वीतराज्यो वनालयः । चित्रकूटप्रियस्थानो मृगयाचारतत्परः ॥ ३१॥ किरातवेषः क्रूरात्मा पशुमांसैकभोजनः । फलपुष्पकृताहारः कन्दमूलनिषेवणः ॥ ३२॥ पयोव्रतो विधानज्ञः सद्धर्मप्रतिपालकः । गदाधरो यज्ञकर्त्ता श्राद्धकर्ता द्विजार्चकः ॥ ३३॥ पितृभक्तो मातृभक्तो बन्धुः स्वजनतोषकृत् । मत्स्यः कूर्मो नृसिंहश्च वराहो वामनस्तथा ॥ ३४॥ रघुरामः परशुरामो बलरामो रमापतिः । रामलिङ्गस्थापयिता शिवभक्तिपरायणः ॥ ३५॥ var रुद्रमाहात्म्यवर्धनः चण्डिकार्चनकृत्यज्ञश्चण्डीपाठविधानवित् । अष्टमीव्रतकर्मज्ञो विजयादशमीप्रियः ॥ ३६॥ कपिसैन्यसमारम्भी सुग्रीवप्राणदः परः । सूर्यवंशध्वजो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ३७॥ ब्रह्मार्पणी ब्रह्महोता ब्रह्मकर्मविदुत्तमः । ब्रह्मज्ञो ब्राह्मणाचारः कृतकृत्यः सनातनः ॥ ३८॥ सच्चिदानन्दरूपश्च निरीहो निर्विकारकः । नित्याकारो निराधारो रामो रमयतां वरः ॥ ३९॥ रकारादिर्मकारादिः रामः कैवल्यमङ्गलः । संदर्भो संशयच्छेत्ता शेषशायी सतां गतिः ॥ ४०॥ पुरुषः पुरुषाकारः प्रमेयः पुरुषोत्तमः । वशीधरो विहारज्ञो रसानन्दीजितस्मरः ॥ ४१॥ पूर्णातिथिविनोदी च वृन्दावनविलासकृत् । रत्नकटकधरो वीरो मुक्ताहारविभूषणः ॥ ४२॥ नृत्यप्रियो नृत्यकरो नित्यसीताविहारवान् । महालक्ष्मीदृढानन्दो प्रमोदवननायकः ॥ ४३॥ परप्रेमा परानन्दः परभक्तिस्वरूपकः । अग्निरूपः कालरूपः प्रलयान्तमहानलः ॥ ४४॥ var महबलः सुप्रसन्नः प्रसादात्मा प्रसन्नास्यः परः प्रभुः । प्रीतिः प्रीति मनाः प्रीतिः शकटासुरभञ्जनः ॥ ४५॥ var प्रीतः प्रीत मनाः खट्वासुरवधोद्युक्तः कालरूपो दुरन्तकः । हंसः स्मरसहस्रात्मा स्मरणीयो रुचिप्रदः ॥ ४६॥ पण्डा पण्डितमानी च वेदरूपः सरस्वती । गुह्यार्थदो गुरुर्देवो मन्त्रज्ञो मन्त्रदीक्षितः ॥ ४७॥ योगज्ञो योगविन्नाथः स्वात्मयोगविशारदः । अध्यात्मशास्त्रसारज्ञो रसरूपो रसात्मकः ॥ ४८॥ श‍ृङ्गारवेशो मदनो मानिनीमानवर्द्धनः । चन्दनद्रवसशीतश्चन्दनद्रवलेपनः ॥ ४९॥ श्रीवत्सलाञ्छनः श्रीमान् मानी मानुषविग्रहः । करणं कारणं कर्ताऽऽधारो विधरणो धरः ॥ ५०॥ धरित्रीधरणो धीरः स्त्र्यधीशः सत्यवाक् प्रियः । सत्यकृत् सत्रकर्ता च कर्मी कर्मविवर्द्धनः ॥ ५१॥ कार्मुकी विशिखी शक्तिधरो विजयदायकः ऊर्ज्जस्वलो बली जिष्णुर्लङ्केशप्राणनाशकः ॥ ५२॥ शिशुपालप्रहन्ता च दन्तवक्त्रविनाशनः । परमोत्साहनोऽसह्यः कलिदोषविनाशनः ॥ ५३॥ var परमोत्साहनो सत्त्व जरासन्धमहायुद्धो निःकिंचनजनप्रियः । var योद्धा द्वारकास्थाननिर्माता मथुरावासशून्यकृत् ॥ ५४॥ काकुत्स्थो विनयी वाग्मी मनस्वी दक्षिणाप्रदः । प्राच्यवाचीप्रतीच्युक्तदक्षिणो भूरिदक्षिणः ॥ ५५॥ दक्षयज्ञसमानेता विश्वकेलिः सुरार्चितः । देवाधिपो दिवोदासो दिवास्वापी दिवाकरः ॥ ५६॥ कमलाक्षः कृपावासो द्विजपत्नीमनोहरः । विभीषणशरण्यश्च शरणं परमा गतिः ॥ ५७॥ चाणूरबलनिर्माथी महामातङ्गनाशनः । बद्धकक्षो महामल्ली मल्लयुद्धविशारदः ॥ ५८॥ अप्रमेयः प्रमेयात्मा प्रमाणात्मा सनातनः । मर्यादावतरो विज्ञो मर्यादापुरुषोत्तमः ॥ ५९॥ महाक्रतुविधानज्ञः क्रतुकर्मा क्रतुप्रियः । वृषस्कन्धो वृषस्कन्दो वृषध्वजमहासखः ॥ ६०॥ चक्री शार्ङ्गी गदापाणिः शङ्खभृत् सुस्मिताननः । योगध्यानी योगगम्यो योगाचार्यो दृढासनः ॥ ६१॥ जिताहारो मिताहारः परहा दिग्जयोद्धुरः । सुपर्णासनसंस्थाता गजाभो गजमोक्षणः ॥ ६२॥ गजगामी ज्ञानगम्यो भक्तिगम्यो भयापहः । भगवान् सुमहैश्वर्यः परमः परमामृतः ॥ ६३॥ स्वानन्दी सच्चिदानन्दी नन्दिग्रामनिकेतनः । वर्होत्तंसः कलाकान्तः कालरूपः कलाकरः ॥ ६४॥ कमनीयः कुमाराभो मुचुकुन्दगतिप्रदः । मुक्तिभूरिफलाकारः कारुण्यधृतविग्रहः ॥ ६५॥ भूलीलारमणोद्युक्तः शतधाकृतविग्रहः । रसास्वादी रसानन्दी रसातलविनोदकृत् ॥ ६६॥ अप्रतर्क्यः पुनीतात्मा विनीतात्मा विधानवित् । भुज्युः सभाजनः सभ्यः पण्डः पण्डुर्विपण्यजः ॥ ६७॥ चर्षणी उत्कटो वीतो वित्तदः सविताऽविता । विभवो विविधाकारो रामः कल्याणसागरः ॥ ६८॥ सीतास्वयवरोद्युक्तो हरकार्मुकभञ्जनः । रावणोन्मादशमनः सीताविरहकातरः ॥ ६९॥ कुमारकुशलः कामः कामदः कोतिवर्द्धनः । दुर्योधनमहावैरी युधिष्ठिरहितप्रदः ॥ ७०॥ द्रौपदीचीरविस्तारी कुन्तीशोकनिवारणः । गान्धारीशोकसंतानः कृपाकोमलमानसः ॥ ७१॥ चित्रकूटकृतावासो गङ्गासलिलपावनः । ब्रह्मचारी सदाचारः कमलाकेलिभाजनः ॥ ७२॥ दुरासदः कलहकृत् कलिः कलिविनाशनः । चारी दण्डाजिनी छत्री पुस्तकी कृष्णमेखलः ॥ ७३॥ var ब्रह्मचारी दण्डछत्री दण्डकारण्यमध्यस्थः पञ्चवट्यालयस्थितः । परिणामजयानन्दी नन्दिग्रामसुखप्रदः ॥ ७४॥ इन्द्रारिमानमथनो बद्धदक्षिणसागरः । शैलसेतुविनिर्माता कपिसैन्यमहीपतिः ॥ ७५॥ रथारूढो गजारूढो हयारूढो महाबली । निषङ्गी कवची खड्गी खलगर्वनिवहणः ॥ ७६॥ वेदान्तविज्ञो विज्ञानी जानकीब्रह्मदर्शनः । लङ्काजेता विमानस्थो नागपाशविमोचकः ॥ ७७॥ अनन्तकोटिगणभूः कल्याणः केलिनीपतिः । दुर्वासापूजनपरो वनवासी महाजवः ॥ ७८॥ सुस्मयः सुस्मितमुखः कालियाहिफणानटः । विभुर्विषहरो वत्सो वत्सासुरविनाशनः ॥ ७९॥ वृषप्रमथनो वेत्ता मरीचिर्मुनिरङ्गिराः । वसिष्ठो द्रोणपुत्रश्च द्रोणाचार्यो रघूत्तमः ॥ ८०॥ रघुवर्यो दुःखहन्ता वनधावनसश्रमः । भिल्लग्रामनिवासी च भिल्लभिल्लिहितप्रदः ॥ ८१॥ रामो रविकुलोत्तंसः वृष्णिगर्भो महामणिः । var पृश्निगर्भो यशोदाबन्धनप्राप्तो यमलार्जुनभञ्जनः ॥ ८२॥ दामोदरो दुराराध्यो दूरगः प्रियदर्शनः । मृत्तिकाभक्षणक्रीडो ब्रह्माण्डावलिविग्रहः ॥ ८३॥ बाललीलाविनोदी च रतिलीलाविशारदः । वसुदेवसुतः श्रीमान् भव्यो दशरथात्मजः ॥ ८४॥ वलिप्रियो वालिहन्ता विक्रमी केसरी करी । सनिग्रहफलानन्दी सनिग्रहनिवारणः ॥ ८५॥ सीतावामाङ्गसंलिष्टः कमलापाङ्गवीक्षितः । स्यमन्तपञ्चकस्थायी भृगुवंशमहायशाः ॥ ८६॥ अनन्तोऽनन्तमाता च रामो राजीवलोचनः । इत्येवं नामसाहस्रं राजेन्द्र तनयस्य ते ॥ ८७॥ यः पठेत्प्रातरुत्थाय धौतपादः शुचिव्रत्रः । स याति रामसायुज्यं भुक्त्वान्ते केवलं पदम् ॥ ८८॥ न यत्र त्रिगुणग्रासो न माया न स्मयो मदः । तद्याति विरजं स्थानं रामनामानुकीर्तयन् ॥ ८९॥ न ते पुत्रस्य नामानि संख्यातुमहमीश्वरः । संक्षेपेण तु यत्प्रोक्तं तन्मात्रमवधारय ॥ ९०॥ यावन्ति सन्ति रूपाणि विष्णोरमिततेजसः । तावन्ति तव पुत्रस्य परब्रह्मस्वरूपिणः ॥ ९१॥ पाज्वभौतिकमेतद्धि विश्वं समुपधारय । ततः परं परब्रह्म विद्धि रामं सनातनम् ॥ ९२॥ नश्वरं सकलं दृश्यं रामं ब्रूमः सनातनम् । एतद्धि तव पुत्रत्वं प्राप्तो रामः परात्परः ॥ ९३॥ सद्वेदैरपि वेदान्तैर्नेति नेतीति गीयते । var वेदान्ते तमेव जलदश्यामं रामं भावय भावय ॥ ९४॥ य एतत् पठते नित्यं रामसाहस्रकं विभो । स याति परमां मुक्तिं रामकैवल्यरूपिणीम् ॥ ९५॥ मा शङ्किष्ठा नराधीशः श्रीरामरसिकस्य च । अनन्तकोटिरूपाणि रामस्तेषां विभावकः ॥ ९५॥ त्रैलोक्यमेतदखिलं रामवीर्ये प्रतिष्ठितम् । विजानन्ति नराः सर्वे नास्य रूपं च नाम च ॥ ९७॥ य एतस्मिन् महाप्रीतिं कलयिष्यन्ति मानवाः । त एव धन्या राजेन्द्र नान्ये स्वजनदूषकाः ॥ ९८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसवादे वसिष्ठकृतनाम- सहस्रकथनं नाम त्रयोदशोऽध्यायः ॥ १३॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : rAmasahasranAmastotram 4 from bhushuNDIrAmAyaNa
% File name             : rAmasahasranAmastotrambhushuNDIrAmAyaNa.itx
% itxtitle              : rAmasahasranAmastotram 4 (bhushuNDIrAmAyaNAntargatam)
% engtitle              : rAmasahasranAmastotram 4 from bhushuNDIrAmAyaNa
% Category              : raama, sahasranAma
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Source                : Bhushundi Ramayanam pUrvakhaNDa, adhyAYa 13
% Indexextra            : (Book 1)
% Latest update         : February 25, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org