श्रीरामस्तोत्रम् पद्यात्मक
%४१
राममाश्रय राममाश्रय राममाश्रय भद्रदम् ।
राममाश्रयतां कुतोऽपि भवेत्कुदैवमभद्रदम् ॥ ध्रु.॥
यस्य पादसरोजलग्नरजःकणादपि तत्क्षणम् ।
गौतमर्षिवधूद्धृतिः किल यत्कटाक्षनिरीक्षणम् ॥
आरवीन्दु बिभीषणाय सुराज्यमर्पयदाशु तम् ।
चित्त चिन्तय विश्रुतं न च हन्ति कोऽपि यदाश्रितम् ॥ १॥
माययापि यदाश्रितस्त्विह कोऽपि नो परिभूयते ।
राममार्तिविराममाश्रय कं यतो ह्यनुभूयते ॥
यस्य नामवशाच्छिला अपि सिन्धुना हि समुद्धृताः ।
ते जडा अजडा भवन्ति न किं वदाऽत्र समुद्धृताः ॥ २॥
सर्वदैवतकिंशरोऽखिलशङ्करोऽपि हि शङ्करो ।
यस्य नाम विमुक्तिधाम जपत्यकामहितादरः ॥
वासुदेवसरस्वती यमगायताखिलकामदम् ।
राममाश्रय तं सतां मतमाशु शाश्वतधामदम् ॥ ३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता श्रीरामस्तुतिः समाप्ता ।