श्रीरामविश्वरूपस्तवः
सूत उवाच--
ततो बदरिकारण्यं पुण्यं प्राप्य सुधर्मधीः ।
व्यासं मुनिवरश्रेष्ठं नत्वा भीष्मोऽब्रवीद्वचः ॥ १॥
श्रीभीष्मः --
मया मुनिवरश्रेष्ठ विश्रुता हि सहस्रशः ।
गणेशशक्तिसूर्येशचक्रिणां स्तुतयोऽमलाः ॥ २॥
तेषु स्तोत्रेषु किं श्रेष्ठं ब्रूहि मे तन्मुनीश्वर ।
श्रीव्यासः --
त्वया निर्दिष्टदेवानां स्तोत्रेषु च परं वरम् ॥ ३॥
कोटिकोटिगुणाधिक्यं ब्रह्मणा कथितं पुरा ।
वैष्णवस्तोत्रवर्येषु सर्वेष्वपि नदीसुत ॥ ४॥
अनन्तपुण्यफलदा रामस्येयं महास्तुतिः ।
तामहं संप्रवक्ष्यामि शृणु भीष्म शुचिव्रत ॥ ५॥
सर्वपापप्रशमनीं मानसेप्सितदायिनीम् ।
निहत्य रावणं सङ्ख्ये त्रिलोकीजनदुर्जयम् ॥ ६॥
महामोहमिवोद्रिक्तं ब्रह्मदत्तमहावरम् ।
रामः परमधर्मात्मा मायामानुषविग्रहः ॥ ७॥
अयोध्यानगरीं प्राप्तो वृत्रहेवामरावतीम् ।
अथ तस्मिन् दिने पुण्ये शुभलग्ने शुभान्विते ॥ ८॥
राघवस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः ।
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥ ९॥
मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा ।
एते महर्षयस्तत्र जपहोमपुरस्सरम् ॥ १०॥
अभिषेकं शुभं चक्रुः श्रीरामं रघुसत्तमम् ।
नानारत्नमये दिव्ये हेमपीठे शुभान्विते ॥ ११॥
निवेश्य सीतया तस्मिन् जनार्दनमिव श्रिया ।
सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ॥ १२॥
सर्वतीर्थोदकैः पुण्यैर्मङ्गलद्रव्यसंयुतैः ।
दूर्वाग्रतुलसीपत्रगन्धपुष्पसमन्वितैः ॥ १३॥
मन्त्रपूतजलैः शुभ्रैर्मुनयः संशितव्रताः ।
जपन्तो वैष्णवान् मन्त्रांश्चतुर्वेदमयान् शुभान् ॥ १४॥
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् ।
तस्मिन् शुभतरे लग्ने देवदुन्दुभयो दिवि ॥ १५॥
निनेदुः पुष्पवर्षाणि ववृषुश्च समन्ततः ।
दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः ॥ १६॥
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहम् ।
अलङ्कृतः स शुशुभे मुनिभिर्वेदपारगैः ॥ १७॥
छत्रं च चामरं दिव्यं धृतवाँल्लक्ष्मणस्तदा ।
पार्श्वे भरतशत्रुघ्नौ तालवृन्तौ विवेजतुः ॥ १८॥
दर्पणं प्रददौ श्रीमान् राक्षसेन्द्रो विभीषणः ।
दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ॥ १९॥
जाम्बवांश्च महातेजाः पुष्पमालां मनोरमाम् ।
वालिपुत्रस्तु ताम्बूलं सकर्पूरं ददौ प्रियात् ॥ २०॥
हनुमान् दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम् ।
परिवार्य महात्मानं मन्त्रिणःसमुपासिरे ॥ २१॥
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमः स्मृतः ॥ २२॥
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः ।
पौराश्च नैगमा वृद्धा राजानः पर्युपासते ॥ २३॥
ऋक्षैश्च वानरेन्द्रैश्च मन्त्रिभिः पृथिवीश्वरैः ।
राक्षसैर्द्विजमुख्यैश्च किङ्करैश्च समन्वितः ॥ २४॥
परव्योम्नि यथा नित्यैर्दैवतैः कमलापतिः ।
तथा नृपवरः श्रीमान् साकेते शुशुभे सदा ॥ २५॥
इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् ।
आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् ॥ २६॥
कम्बुग्रीवं महोरस्कं विचित्राभरणैर्युतम् ।
देव्या सह समासीनमभिषिक्तं रघूत्तमम् ॥ २७॥
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः ।
तुष्टुवुर्जयशब्दैश्च गन्धर्वाप्सरसां गणाः ॥ २८॥
अभिषिक्तस्तदा रामो वसिष्ठाद्यैः समन्त्रिभिः ।
शुशुभे सीतया देव्या नारायण इव श्रिया ॥ २९॥
अत्यमर्त्यतया रूपमुपमातीतमुज्ज्वलम् ।
दृष्ट्वा तुष्टाव हृष्टात्मा शङ्करो द्रष्टुमागतः ॥ ३०॥
कृताञ्जलिपुटो भूत्वा सानन्दो गद्गदाकुलः ।
हर्षयन् सकलान् देवान् मुनीनपि च मानवान् ॥ ३१॥
रुद्रः --
नमो मूलप्रकृतये नित्याय परमात्मने ।
सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥ ३२॥
नमो निरन्तरानन्दमूलकन्दाय विष्णवे ।
जगत्त्रयकृतानन्दमूर्तये दिव्यमूर्तये ॥ ३३॥
नमो ब्रह्मेशपूज्याय सर्वदेवमयाय च ।
नमो विष्णुस्वरूपाय सर्वरूपाय ते नरः ॥ ३४॥
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने ।
नमोऽस्तु निर्गतोपाधिस्वरूपाय मुदात्मने ॥ ३५॥
अनया दिव्यया देव्या सीतयोपाधिधारिणे ।
नमः पुम्प्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥ ३६॥
जगन्मातापितृभ्यां च सीतायै राघवाय च ।
नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे ॥ ३७॥
नमो ध्येयस्वरूपिण्यै योगिध्येयात्मधारिणे ।
परिणामापरीणामनित्याभ्यां च नमो नमः ॥ ३८॥
कूटस्थबीजरूपाभ्यां जानक्यै राघवाय च ।
सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः ॥ ३९॥
सीता स्वयं हि सावित्री स्वयं ब्रह्मा चतुर्मुखः ।
सीता शची भवानिन्द्रः सीता भैमी नलो भवान् ॥ ४०॥
सीता संहारिणी देवी यमरूपधरो भवान् ।
सीता तु मानसी देवी निरृतिस्त्वं रघूत्तम ॥ ४१॥
सीता तु भार्गवी देवी वरुणो यादसां पतिः ।
सीता सदागतिर्देवी जगत्प्राणधरो भवान् ॥ ४२॥
सीता तु सर्वसम्पत्तिः कुबेरस्त्वं जगत्पते ।
सीता च देवी रुद्राणी भवान् रुद्रो महाबलः ॥ ४३॥
सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः ।
सीता संज्ञा भवान् सूर्यः सीता रात्रिर्भवान् दिनम् ॥ ४४॥
सीता देवी महाकाली महाकालो भवान् खलु ।
स्त्रीलिङ्गं त्रिषु लोकेषु यत्तत्सर्वं हि जानकी ॥ ४॥
पुन्नामलाञ्छितं वस्तु यत्तत्सर्वं भवान् प्रभो ।
सर्वत्र सर्वदेहेषु सीता षट्चक्रधारिणी ॥ ४६॥
तथा त्वमपि च क्षान्तस्त्रीजातिर्विश्वभासिनी ।
तस्माद्विश्वमिदं प्रोक्तं युवाभ्यां परिचिह्नितम् ॥ ४७॥
चिह्नितं शिवशक्तिभ्यां शरीरं नान्तरा प्रभो ।
आवां राम जगत्पूज्यौ मम पूज्यौ युवां सदा ॥ ४८॥
त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम् ।
मुमुक्षोर्मणिकण्ठ्यन्धु रन्ध्रोदकनिवासिनः (? ) ॥ ४९॥
अहं दिशामि ते मन्त्रं तारकब्रह्मवाचकम् ।
श्रीरामरामरामेतीत्येतत्तारकमुच्यते ॥ ५०॥
अतस्त्वं जानकीनाथ परं ब्रह्मासि निश्चितम् ।
त्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्त्वतः ॥ ५१॥
इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत् ।
विश्वरूपधरः श्रीमानद्भुताकारदर्शनः ॥ ५२॥
तं तथारूपमालोक्य नरवानरदेवताः ।
न द्रष्टुमपि शक्तास्ते तैजसं महदद्भुतम् ॥ ५३॥
भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः ।
भीता विज्ञाय रामोऽपि नरवानरदेवताः ।
मायामानुषतां प्राप्य सर्वानेवाब्रवीद्वचः ॥ ५४॥
श्रीरामचन्द्रः --
शृणुध्वं देवता यो मां प्रत्यहं संस्तविष्यति ।
स्तवेन शम्भुनोक्तेन वेदतुल्येन मानवः ॥ ५५॥
विमुक्तः सर्वपापेभ्यो मत्सारूप्यं समश्नुते ।
रणे जयमवाप्नोति न क्कचित् परिभूयते ॥ ५६॥
भूतवेतालकृत्यादिग्रहैश्वापि न बाध्यते ।
अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका ॥ ५७॥
दरिद्रः श्रियमाप्नोति स प्रभूतामनश्वराम् ।
सर्वलोकप्रियो विद्वान् सर्वभूपालपूजितः ॥ ५८॥
आत्मनोऽपि प्रियः स्त्रीणां जायते नात्र संशयः ।
निर्विघ्नः सर्वकार्येषु सर्वारम्भो भवेन्नरः ॥ ५५॥
यं यं कामयते मर्त्यः सुर्दुर्लभमनोरथम् ।
षण्मासात्तं तमाप्नोति स्तवस्यास्य प्रकीर्तनात् ॥ ६०॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थवरेषु च ।
सर्वयज्ञेषु दानेषु तत्सर्वं लभते फलम् ॥ ६१॥
श्रीव्यासः-
इत्युक्त्वा रामचन्द्रोऽपि प्रपूज्य च महेश्वरम् ।
ब्रह्मादित्रिदशैः सर्वैर्विससर्ज समन्वितम् ॥ ६२॥
अर्चिता मानिताः सर्वानरवानर देवताः ।
विसृष्टा रामचन्द्रेण प्रीत्या परमया युताः ॥ ६३॥
इत्थं विसृष्टाः खलु ते च सर्वे
स्वं स्वं पदं जग्मुरतीव तुष्टाः ।
हृष्टाः पठन्तः स्तवमीश्वरोक्तं
रामं स्मरन्तो नरविश्वरूपम् ॥ ६४॥
इति श्रीपाद्मपुराणे श्रीरामविश्वरूपसन्दर्शनस्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan