सीतासहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

सीतासहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

चतर्दशोऽध्यायः । वसिष्ठ उवाच - या श्रीरेतस्य सहजा सीता नित्याङ्गसङ्गिनो । भवित्री जनकस्यैव कुले सर्वाङ्गसुन्दरी ॥ १॥ तस्याश्च नामसाहस्रं कथयिष्यामि भूपते । यथा रामस्तथैवेयं महालक्ष्मीः सनातनी ॥ २॥ नानयोः संमतो भेदः शास्त्रकोटिशतैरपि । अस्यैव नित्यरमणो बहुनामस्वरूपतः ॥ ३॥ तस्यास्तु नामसाहस्रं यथावदुपधारय । अं सहजानन्दिनी सीता जानकी राधिका रतिः ॥ ४॥ रुक्मिणी कमला कान्ता कान्तिः कमललोचना । किशोरी रामललना कामुकी करुणानिधिः ॥ ५॥ कन्दर्पवद्धिनी वीरा वरुणालयवासिनो । अशोकवनमध्यस्था महाशोकविनाशिनी ॥ ६॥ चम्पकाङ्गी तडित्कान्तिर्जाह्नवी जनकात्मजा । जानकी जयदा जप्या जयिनी जैत्रपालिका ॥ ७॥ परमा परमानन्दा पूणिमामृतसागरा । सूधासूतिः सुधारश्मिः सुधादीपितविग्रहा ॥ ८॥ सुस्मिता सुस्मितमुखी तारका सुखदेक्षणा । रक्षणी चित्रकूटस्था वृन्दावनमहेश्वरी ॥ ९॥ कन्दर्पकोटिजननी कोटिब्रह्माण्डनायिका । शरण्या शारदा श्रीश्च शरत्कालविनोदिनी ॥ १०॥ हंसी क्षीराब्धिवसतिर्वासुकी स्थावराङ्गना । वराङ्गासनसंस्थाना प्रियभोगविशारदा ॥ ११॥ वसिष्ठविश्ववसिनी विश्वपत्नी गुणोदया । गौरी चम्पकगात्रा च दीपद्योता प्रभावती ॥ १२॥ रत्नमालाविभूषा च दिव्यगोपालकन्यका । सत्यभामारतिः प्रीता मित्रा चित्तविनोदिनी ॥ १३॥ सुमित्रा चैव कौशल्या कैकेयीकुलवर्द्धिनी । कुलीना केलिनी दक्षा दक्षकन्या दयावती ॥ १४॥ पार्वती शैलकुलजा वंशध्वजपटीरुचिः । रुचिरा रुचिरापाङ्गा पूर्णरूपा कलावती ॥ १५॥ कोटिब्रह्माण्डलक्ष्मीशा स्थानदात्री स्थितिः सती । अमृता मोदिनी मोदा रत्नाचलविहारिणी ॥ १६॥ नन्दभानुसुता धीरा वंशीरवविनोदिनी । विजया वीजिनी विद्या विद्यादानपरायणा ॥ १७॥ मन्दस्मिता मन्दगतिर्मदना मदनातुरा । वृंहिणी वृहती वर्या वरणीया वराङ्गना ॥ १८॥ रामप्रिया रमारूपा रासनृत्यविशारदा । गान्धर्विका गीतरम्या सङ्गीतरसवर्द्धिनी ॥ १९॥ तालदा तालवक्षोजा तालभेदनसुन्दरी । सरयूतीरसन्तुष्टा यमुनातटसंस्थिता ॥ २०॥ स्वामिनी स्वामिनिरता कौसुम्भवसनावृता । मालिनी तुङ्गवक्षोजा फलिनी फलमालिनी ॥ २१॥ वैडूर्यहारसुभगा मुक्ताहारमनोहरा । किरातीवेशसंस्थाना गुञ्जामणिविभूषणा ॥ २२॥ विभूतिदा विभा वीणा वीणानादविनोदिनी । प्रियङ्गुकलिकापाङ्गा कटाक्षा गतितोषिता ॥ २३॥ रामानुरागनिलया रत्नपङ्कजमालिनी । विभावा विनयस्था च मधुरा पतिसेविता ॥ २४॥ शत्रुघ्नवरदात्री च रावणप्राणमोचिनी । var मोक्षिणी दण्डकावनमध्यस्था बहुलीला विलासिनी ॥ २५॥ शुक्लपक्षप्रिया शुक्ला शुक्लापाङ्गस्वरोन्मुखी । कोकिलस्वरकण्ठी च कोकिलस्वरगायिनी ॥ २६॥ पञ्चमस्वरसन्तुष्टा पञ्चवक्त्रप्रपूजिता । आद्या गुणमयी लक्ष्मीः पद्महस्ता हरिप्रिया ॥ २७॥ हरिणी हरिणाक्षी च चकोराक्षी किशोरिका । गुणहृष्टा शरज्ज्योत्स्ना स्मितस्नपितविग्रहा ॥ २८॥ विरजा सिन्धुगमनी गङ्गासागरयोगिनी । कपिलाश्रमसंस्थाना योगिनी परमाकला ॥ २९॥ खेचरो भूचरी सिद्धा वैष्णवी वैष्णवप्रिया । ब्राह्मी माहेश्वरी तिग्मा दुर्वारबलविभ्रमा ॥ ३०॥ रक्तांशुकप्रिया रक्ता नवविद्रुमहारिणी । हरिप्रिया ह्रीस्वरूपा हीनभक्तविवर्द्धिनी ॥ ३१॥ हिताहितगतिज्ञा च माधवी माधवप्रिया । मनोज्ञा मदनोन्मत्ता मदमात्सर्यनाशिनी ॥ ३२॥ निःसपत्नो निरुपमा स्वाधीनपतिका परा । प्रेमपूर्णा सप्रणया जनकोत्सवदायिनी ॥ ३३॥ वेदिमध्या वेदिजाता त्रिवेदी वेदभारतो । गीर्वाणगुरुपत्नी च नक्षत्रकुलमालिनी ॥ ३४॥ मन्दारपुष्पस्तवका मन्दाक्षनयवर्द्धिनी । सुभगा शुभरूपा च सुभाग्या भाग्यवर्द्धिनी ॥ ३५॥ सिन्दूराङ्कितमाला च मल्लिकादामभूषिता । तुङ्गस्तनी तुङ्गनासा विशालाक्षी विशल्यका ॥ ३६॥ कल्याणिनी कल्मषहा कृपापूर्णा कृपानदी । क्रियावती वेधवती मन्त्रणी मन्त्रनायिका ॥ ३७॥ कैशोरवेशसुभगा रघुवंशविवद्धिनी । राघवेन्द्रप्रणयिनी राघवेन्द्रविलासिनी ॥ ३८॥ तरुणी तिग्मदा तन्वी त्राणा तारुण्यवर्द्धिनी । मनस्विनी महामोदा मीनाक्षी मानिनी मनुः ॥ ३९॥ आग्नेयीन्द्राणिका रौद्री वारुणी वशवर्तिनी । var अग्राह्यी वारुणी वीतरागा वीतरतिर्वोतशोका वरोरुका ॥ ४०॥ वरदा वरसंसेव्या वरज्ञा वरकाङ्क्षिणी । फुल्लेन्दीवरदामा च वृन्दा वृन्दावती प्रिया ॥ ४१॥ तुलसीपुष्पसंकाशा तुलसीमाल्यभूषिता । तुलसीवनसंस्थाना तुलसीवनमन्दिरा ॥ ४२॥ सर्वाकारा निराकारा रूपलावण्यवर्द्धिनी । var नित्याकारा रूपिणी रूपिका रम्या रमणीया रमात्मिका ॥ ४३॥ वैकुप्यपतिपत्नी च वैकुण्ठप्रियवासिनी । वद्रिकाश्रभसंस्था च सर्वसौभाग्यमण्डिता ॥ ४४॥ सर्ववेदान्तगम्या च निष्कला परमाकला । कलाभासा तुरीया च तुरीयाश्रममण्डिता ॥ ४५॥ रक्तोष्ठी च प्रिया रामा रागिनी रागवर्द्धिनी । नीलांशुकपरीधाना सुवर्णकलिकाकृतिः ॥ ४६॥ कामकेलिविनोदा च सुरतानन्दवर्द्धिनी । सावित्री व्रतधर्त्री च करामलकनायका ॥ ४७॥ var व्रतधात्री मराला मोदिनी प्राज्ञा प्रभा प्राणप्रिया परा । पुनाना पुण्यरूपा च पुण्यदा पूर्णिमात्मिका ॥ ४८॥ पूर्णाकारा व्रजानन्दा व्रजवासा व्रजेश्वरी । व्रजराजसुताधारा धारापीयूषवर्षिणी ॥ ४९॥ राकापतिभुखी मग्ना मधुसूदनवल्लभा । वीरिणी वीरपत्नी च वीरचारित्रवर्द्धिनी ॥ ५०॥ धम्मिल्लमल्लिकाषुष्पा माधुरी ललितालया । वासन्ती वर्हभूषा च वर्होत्तंसा विलासिनी ॥ ५१॥ बर्हिणी बहुदा बह्वी बाहुवल्ली मृणालिका । शुकनासा शुद्धरूपा गिरीशवरवर्द्धिता ॥ ५१॥ नन्दिनी च सुदन्ता च वसुधा चित्तनन्दिनी । हेमसिहासनस्थाना चामरद्वयवीजिता ॥ ५२॥ छत्रिणी छत्ररम्या च महासाम्राज्यसर्वदा । संपन्नदा भवानी च भवभीतिविनाशिनी ॥ ५४॥ द्राविडी द्रविडस्थाना आन्ध्री कार्णाटनागरी । महाराष्ट्रैकविषया उदग्देशनिवासिनी ॥ ५५॥ सुजङ्घा पङ्कजपदा गुप्तगुल्फा गुरुप्रिया । रक्तकाञ्चीगुणकटिः सुरूपा बहुरूपिणी ॥ ५६॥ सुमध्या तरुणश्रीश्च वलित्रयविभूषिता । गर्विणी गुर्विणी सीता सीतापाङ्गविभोचनी ॥ ५७॥ ताटङ्किनी कुन्तलिनी हारिणी हीरकान्विता । शैवालमञ्जरीहस्ता मञ्जुला मञ्जुलापिनी ॥। ५८॥ कवरीकेशविन्यासा मन्दहासमनोरथा । मधुरालापसन्तोषा कौबेरी दुर्गमालिका ॥ ५९॥ इन्दिरा परमश्रीका सुश्रीः शैशवशोभिता । शमीवृक्षाश्रया श्रेणी शमिनो शान्तिदा शमा ॥ ६०॥ कुञ्जेश्वरी कुञ्जगेहा कुञ्जगा कुञ्जदेवता । कलविङ्ककुलप्रीता पादाङ्गुलिविभूषिता ॥ ६१॥ वसुदा वसुपत्नी च वीरसूर्वीरवर्द्धिनी । सप्तश‍ृङ्गकृतस्थाना कृष्णा कृष्णप्रिया प्रिया ॥ ६२॥ गोपीजनगणोत्साहा गोपगोपालमण्डिता । गोवर्द्धनधरा गोपी गोधनप्रणयाश्रया ॥ ६३॥ दधिविक्रयकर्त्रो च दानलीलाविशारदा । विजना विजनप्रीता विधिजा विधुजा विधा ॥ ६४॥ अद्वैता द्वैतविच्छिन्ना रामतादाम्यरूपिणी । कृपारूपा निष्कलङ्का काञ्चनासनसंस्थिता ॥ ६५॥ महार्हरत्नपीठस्था राज्यलक्ष्मी रजोगुणा । रक्तिका रक्तपुष्पा च ताम्बूलीदलचर्विणी ॥ ६६॥ बिम्बोष्ठी व्रीडिता व्रीडा वनमालाविभूषणा । वनमालैकमध्यस्था रामदोर्दण्डसङ्गिनी ॥ ६७॥ खण्डिता विजितक्रोधा विप्रलब्धा समुत्सुका । अशोकवाटिकादेवी कुञ्जकान्तिविहारिणी ॥ ६८॥ var कुन्तकान्ति मैथिली मिथिलाकारा मैथिलैकहितप्रदा । वाग्वती शैलजा शिप्रा महाकालवनप्रिया ॥ ६९॥ रेवा कल्लोलसुरता सत्यरूपा सदाचिता । सभ्या सभावती सुभ्रूः कुरङ्गाक्षी शुभानना ॥ ७०॥ मायापुरी तथायोध्या रङ्गधामनिवासिनी । मुग्धा मुग्धगतिर्मोवा प्रमोदा परमोन्नता ॥ ७१॥ कामधेनुः कल्पवल्ली चिन्तामणिगृहाङ्गणा । हिन्दोलिनी महाकेलिः सखीगणविभूषिता ॥ ७२॥ सुन्दरी परमोदारा रामसान्निध्यकारिणी । रामार्द्धाङ्गा महालक्ष्मीः प्रमोदवनवसिनी ॥ ७३॥ विकुण्ठापत्यमुदिता परदारप्रियाप्रिया । var सहजावरदाप्रिया रामकैङ्कर्यनिरता जम्भजित्करवीजिता ॥ ७४॥ कदम्बकाननस्था च कादम्बकुलवासिनी । कलहंसकुलारावा राजहंसगतिप्रिया ॥ ७५॥ कारण्डवकुलोत्साहा ब्रह्मादिसुरसंस्थिता । सरसी सरसीकेलिः पम्पाजलविनोदिनो ॥ ७६॥ करिणीयूथमध्यस्था महाकेलिविधायिनी । जनस्थानकृतोत्साहा काञ्चनन्यङ्कुवञ्चिता ॥ ७७॥ कावेरीजलसुस्नाता तीर्थस्नानकृताश्रया । गुप्तमन्त्रा गुप्तगतिर्गोप्या गोपतिगोपिता ॥ ७८॥ गम्भीरावर्तनाभिश्च नानारसबिलम्बिनी । श‍ृङ्गाररससालम्बा कादम्बामोदमादिनो । कादम्बिनी पानमत्ता घूर्णिताक्षी स्खलद्गतिः ॥ ८०॥ सुसाध्या दुःखसाध्या च दम्भिनी दम्भवर्जिता । गुणाश्रया गुणाकारा कल्याणगुणयोगिनी ॥ ८१॥ सर्वमाङ्गल्यसम्पन्ना माङ्गल्या मतवल्लभा । सुखितात्मजनिप्राणा प्राणेशी सर्वचेतना ॥ ८२॥ चैतन्यरूपिणो ब्रह्मरूपिणी मोदवर्द्धिनी । एकान्तभक्तसुलभा जयदुर्गा जयप्रिया ॥ ८३॥ हरचापकृतक्रोधा भङ्गुरोक्षणदायिनी । स्थिरा स्थिरगतिः स्थात्री स्थावरस्था वराश्रया ॥ ८४॥ स्थावरेन्द्रसुता धन्या धनिनी धनदार्चिता । महालक्ष्यीर्लोकमाता लोकेशी लोकनायिका ॥ ८५॥ प्रपञ्चातीतगुणनी प्रपञ्चातीतविग्रहा । परब्रह्मस्वरूपा च नित्या भक्तिस्वरूपिणी ॥ ८६॥ ज्ञानभक्तिस्वरूपा च ज्ञानभक्तिविवर्द्धिनी । ब्रह्मसायुज्यसाधुश्च रामसायुज्यसाधना ॥ ८७॥ ब्रह्माकारा ब्रह्ममयी ब्रह्मविष्णुस्वरूपिणो । महाधम्मिल्लशोभा च कवरीकेशपाशिनी ॥ ८८॥ चिन्मयानन्दरूपा च चिन्मयानन्दविग्रहा । कैवर्तकुलसम्पत्तिः शबरीपरिवारिणी ॥ ८९॥ कनकाचलसंस्थाना गङ्गा त्रिपथगामिनी । त्रिपुटा त्रिवृता विद्या प्रणवाक्षररूपिणी ॥ ९०॥ गायत्री मुनिविद्या च सन्ध्या पातकनाशिनी । सर्वदोषप्रशमनी सर्वकल्याणदायिनी ॥ ९१॥ रामरामामनोरम्या स्वयलक्ष्म्या स्वसाक्षिणी । var स्वयलक्ष्या अनन्तकोटिनामा च अनन्तकोटिरूपिणी ॥ ९२॥ भूलीला रुक्मिणी राधा रामकेलिविबोधिनी । वीरा वृन्दा पौर्णमासी विशाखा ललिता लता ॥ ९३॥ लावण्यदा लयाकारा लक्ष्मीर्लोकानुबन्धिनी । सृष्टिस्थितिलयाकारा तुर्यातुर्यातिगावधिः ॥ ९४॥ दुर्वासावरलभ्या च विचित्रबलवद्धिनी । रमणी रामरमणी सारात्सारा परात्परा ॥ ९५॥ इति श्रीजानकीदेव्याः नामसाहस्रकं स्तवम् । नामकर्मप्रसङ्गेन मया तुभ्यं प्रकाशितम् ॥ ९६॥ गोपनीयं प्रयत्नेन त्रैलोक्येऽप्यतिदुर्लभम् । सीतायाः श्रोमहालक्ष्भ्याः सद्यः संतोषदायकम् ॥ ९७॥ यः पठेत्प्रयतो नित्यं स साक्षाद्वैष्णवोत्तमः । नित्यं गुरुमुखाल्लब्ध्वा पठनीयं प्रयत्नतः ॥ ९८॥ सर्वसम्पत्करं पुण्यं वैष्णवानां सुखप्रदम् । कीर्तिदं कान्तिदं चैव धनदं सौभगप्रदम् ॥ ९९॥ प्रमुद्वनविहारिण्याः सीतायाः सुखवर्द्धनम् । रामप्रियाया जानक्या नामसाहस्रकं परम् ॥ १००॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे सीतानामसाहस्रकं नाम चतुर्दशोऽध्यायः ॥ १४॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : sItAsahasranAmastotram 2 from bhushuNDIrAmAyaNa
% File name             : sItAsahasranAmastotrambhushuNDIrAmAyaNa.itx
% itxtitle              : sItAsahasranAmastotram 2 (bhushuNDIrAmAyaNAntargatam yA shrIretasya sahajA sItA)
% engtitle              : sItAsahasranAmastotram 2 from bhushuNDIrAmAyaNa
% Category              : raama, sahasranAma, devii, sItA, devI
% Location              : doc_raama
% Sublocation           : raama
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Source                : Bhushundi Ramayanam pUrvakhaNDa, adhyAYa 14
% Indexextra            : (Book 1)
% Latest update         : August 11, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org