सर्वदा राम वद
गच्छन् राम वद आगच्छन् राम वद भ्रमन् राम वद राम राम राम ।
तिष्ठन् राम वद उपविशन् राम वद उत्तिष्ठन् राम वद राम राम राम ॥ १॥ राम वद
पठन् राम वद लिखन् राम वद स्मरन् राम वद राम राम राम ।
खादन् राम वद पिबन् राम वद निद्रान् राम वद राम राम राम ॥ २॥ राम वद
धावन् राम वद पतन् राम वद चलन् राम वद राम राम राम ।
गृह्णन् राम वद क्षिपन् राम वद अन्विष्यन् राम वद राम राम राम ॥ ३॥ राम वद
क्रीडन् राम वद हसन् राम वद रुदन् राम वद राम राम राम ।
जयन् राम वद अपजयन् राम वद सर्वदा राम वद राम राम राम ॥ ४॥ राम वद
- श्रीमती विजि चन्द्रन्
शतृप्रत्ययान्तं गीतम्
Shatru-pratyayaantam Geetam - A song with words in Present
Continuous Tense. This song is an adaptation of the popular Hindi bhajan -
खाते भी राम कहो पीते भी राम कहो
Repeat ‘Raama’ (while doing other activities!)
गच्छन् - Going (गच्छत् इति प्रातिपदिकम्, गम् गमॢँ गतौ इति धातुः)
आगच्छन् - Coming (आगच्छत्, आङ् उपसर्गः + गम् गमॢँ गतौ धातुः)
भ्रमन् - Roaming (भ्रमत्, भ्रम् भ्रमुँ चलने / भ्रम् भ्रमुँ अनवस्थाने)
तिष्ठन् - Standing / Staying (तिष्ठत्, स्था ष्ठा गतिनिवृत्तौ)
उपविशन् - Sitting (उपविशत्, उप + विश् विशँ प्रवेशने)
उत्तिष्ठन् - Getting up (उत्तिष्ठत्, उत् + स्था ष्ठा गतिनिवृत्तौ)
(गच्छन् = पुल्लिङ्गः, प्रथमा विभक्तिः, एकवचनम्, कृदन्तपदम्, शतृप्रत्ययान्तः ) १
Repeat ‘Raama’ (while doing other activities!)
पठन् - Reading (पठत्, पठ् पठँ व्यक्तायां वाचि)
लिखन् - Writing (लिखत्, लिख् लिखँ अक्षरविन्यासे)
स्मरन् - Remembering (स्मरत्, स्मृ चिन्तायाम् / स्मृ आध्याने)
खादन् - Eating (खादत्, खाद् खादृँ भक्षणे)
पिबन् - Drinking (पिबत्, पा पाने)
निद्रान् - Sleeping (निद्रात्, द्रा कुत्सायां गतौ)
(राम - राम इति प्रातिपदिकम्, पुल्लिङ्गः, सम्बोधन-प्रथमा विभक्तिः, एकवचनम्) २
Repeat ‘Raama’ (while doing other activities!)
धावन् - Running (धावत्, धाव् धावुँ गतिशुद्ध्योः)
पतन् - Falling (पतत्, पत् पतॢँ गतौ)
चलन् - Moving (चलत्, चल् चलँ कम्पने)
गृह्णन् - Receiving (गृह्णत्, ग्रह् ग्रहँ उपादाने )
क्षिपन् - Throwing (क्षिपत्, क्षिप् क्षिपँ प्रेरणे)
अन्विष्यन् - Searching (अन्विष्यत्, अनु+इष् इषुँ इच्छायाम्)
(वद - वद् वदँ व्यक्तायां वाचि धातुः, लोट्लकारः, परस्मैपदम्, मध्यमपुरुषः, एकवचनम्) ३
Repeat ‘Raama’ (while doing other activities!)
क्रीडन् - Playing (क्रीडत्, क्रीड् क्रीडृँ विहारे )
हसन् - Laughing (हसत्, हस् हसेँ हसने)
रुदन् - Crying (रुदत्, रुद् रुदिँर् अश्रुविमोचने)
जयन् - Winning (जयत्, जि जये )
अपजयन् - Losing(अपजयत्, अप + जि जये)
सर्वदा - Always (सर्वदा इति अव्ययः) ४