श्रीतनतुलसीदासाचार्यप्रणीतं श्रीरामप्रणामाष्टकं
आदिर्यस्य तथा चान्तः क्वचिच्चापि न लभ्यते ।
आद्यन्तरहितं ब्रह्म तं रामं प्रणमाम्यहम् ॥ १॥
उपादानं निमित्तं च कारणं जगतोऽस्य यः ।
अद्वितीयं जगद्धेतुं तं रामं प्रणमाम्यहम् ॥ २॥
यस्मिन्निदं जगत् सर्वं सर्वस्मिन् यश्च विद्यते ।
सर्वस्यान्तर्बहिर्व्याप्तं तं रामं प्रणमाम्यहम् ॥ ३॥
अर्चनात् कीर्त्तनाद् यस्य भवाब्धिस्तीर्यते सुखम् ।
सर्वेषां तारकं ब्रह्म तं रामं प्रणमाम्यहम् ॥ ४॥
नैयायिका वदन्तीशं कर्म मीमांसकाश्च यम् ।
वेदान्तवेदिनो ब्रह्म तं रामं प्रणमाम्यहम् ॥ ५॥
यस्य भक्त्या प्रपत्त्या वा सायुज्यं लभते नरः ।
त्रातारं स्वाश्रितानां च तं रामं प्रणमाम्यहम् ॥ ६॥
स्वे स्वे कार्ये रता देवाः सन्ति यस्य भयादिह ।
नियामकं च सर्वेषां तं रामं प्रणमाम्यहम् ॥ ७॥
अमोघं वन्दनं यस्य पूजनं कीर्त्तनं तथा ।
अमोघस्मरणं चेशं तं रामं प्रणमाम्यहम् ॥ ८॥
श्री तनतुलसीदासद्वारपीठेशनिर्मितम् ।
भवतादष्टकं चेदं पठतां सुखदं नृणाम् ॥ ९॥
इति श्रीतनतुलसीदासाचार्यप्रणीतं श्रीरामप्रणामाष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey